अञ्जि = पु० अज्यतेऽनअतिवक्तृ = त्रि० अति + वच–तृच्। वावदूके, वाचोयुक्तिदक्षे च।

अतिवक्र = पु० प्रा० स० “अतिवक्रा नगाष्टके” इति ज्योतिषोक्ते सूर्य्यस्य सप्तमाष्टमस्थितिवशात् पूर्ब्बगतिविपरीतपश्चाद्गतिशालिनि भौमादिग्रहपञ्चके। अत्यन्तकुटिले त्रि०।

अतिवयस् = त्रि० अतिक्रान्तो वयः कालकृतावस्थां, वयसं पक्षिणं वा। प्राप्तवार्द्धके, अतिक्रान्तपक्षिणि च।

अतिवर्ण्णाश्रमिन् = पु० अतिक्रान्तो वर्णानाश्रमिणश्च अत्या० स०। ब्राह्मणादिवर्णभिन्ने ब्रह्मचर्य्याद्याश्रमिभिन्ने च “यो वेदान्तमहावाक्यश्रवणेनैव केवलम् आत्मानमीश्वरं वेद सोऽतिवर्णाश्रमी भवे” दित्याद्युक्तलक्षणे एक्यात्मज्ञानिनि

अतिवर्त्तन = न० अति + वृत–ल्युट्। अतिरेके। अतिक्रम्य दण्डं वर्त्तन्ते कर्त्तरि ल्यु। यानसारथ्यादेः, दण्डाभावप्रयोजके छिन्ननस्यादिदशके मनुना “यानस्य चैव यातुश्च यानस्वामिन एव च दशातिवर्त्तनान्याहुरित्युपक्नम्य, छिन्ननस्ये भग्नयुगे तिर्य्यक्प्रतिमुखागते अक्षभक्षे च यानस्य चक्रभङ्गे तथैव च। छेदने चैव यन्त्राणां यन्त्ररश्म्योस्तथैव च। आक्रोशे चाप्यपैहीति न दण्डं मनुरव्रीदिति” दण्डाभावकारणानि दश दर्शितानि ज्ञेयानि। अत्या० स०। अतीतजीवनोपाये त्रि०।

अतिवर्त्तिन् = त्रि० अतीत्य वर्त्तते अति + वृत–णिनि। अतिशयिनि, अग्रगे च।

अतिवर्त्तुल = पु० अतिशयितः वर्त्तुलः। (वाटुलाकलाइ) इति ख्याते वर्त्तुलाकारके कलाये। अत्यन्तवर्त्तुले त्रि०।

अतिवाद = पु० अति + वाद–घञ्। अत्युक्तौ, “अतिवादरता ये च” इति पुराणम्। “अतिवादं शंसत्यतिवादेन” इति वेदः। कठोरवाक्ये, अप्रियवाक्ये च।

अतिवादिन् = त्रि० सर्व्वानतीत्य वदतीति अति + वद–णिनि। सर्व्वानतिक्रम्य वदनशीले, सर्व्वमतखण्डनेन खमतव्यवस्थापके च। “विजानन् विद्वान् भवते नातिवादीति” श्रुतिः।

अतिवाह = पु० अतीत्य देहमन्यदेहे वाहः प्रापणम् ७ त०। ऐहिकभोगसाधनादृष्टक्षये सूक्ष्मभूतमात्रासहितसूक्ष्मशरीरावच्छिन्नजीवस्य देहान्तरादिसंयोगाय नयने, अतियापने च। अतिवाहे नियुक्तः ठक्। आतिवाहिकः तत्रनियुक्ते त्रि०।

अतिवाहक = पु० अतीत्यैतं देहं वाहयति देहान्तरं प्रापयति अति + वह–ण्वुल्। ईश्वरनियोजिते अर्च्चिराद्यभिमानि- देवभेदे। तथाहि “अर्चिषोहः, अह्न आपूर्य्यमाणपक्षम्, आपूर्य्यमाणपक्षात् यान् षण्मासान् उदङ्ङेति तान् मासान्, मासेभ्यः संवत्सरं, संवत्सरादादित्यमादित्याच्चन्द्रमम् चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः सएनं ब्रह्म गमयतीति” श्रुतौ वाक्यशेषे अमानवपुरुषस्य ब्रह्मलोकप्रापकत्वश्रुतेः तत्पूर्व्वाणामपि अर्चिरादीनां चेतनत्वमिति “आतिवाहिकास्तल्लिङ्गादिति” सूत्रे निर्णीतम्। “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणमिति” गीताव्याख्यायाञ्च अर्च्चिरादयस्तदभिमानिन्यो देवता” इति श्रीधरस्वामिभिरप्युक्तम् युक्तञ्च अवृत्रिकेन्द्रियादिकसूक्ष्मशरीरस्य स्थानान्तरनयनं चेतनकर्तृकं विनाऽनुपन्नमित्यतस्तदानों तस्य स्थानान्तरगमनसिद्धये कल्पितचेतनानामेव प्रेरकत्वमिति। अन्यच्च, “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधन” मित्युक्तस्य भोगसाधनस्य निश्चेष्टस्य सूक्ष्मशरीरस्य तदवच्छिन्नजीवस्य च स्थानान्तरनयनमाश्रयभूतेन विना न सम्भवतीति तदाश्रयभूतं भूतपञ्चकं च कल्प्यते यथोक्तं मनुना “अण्व्योमात्राविनाशिन्यो दशार्द्धानान्तु याः स्मृताः। ताभिः सार्द्धम्” इत्युक्तम् शारीरकसुत्रे च “तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्त इति” भूतमात्रोपष्टब्धस्यैव संसरणमुक्तं सांख्ये व “चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गमिति, संसरति निरुपभोगं भावैरतिवासितं लिङ्गमिति” चोक्तम्। अतिवाहप्रकारस्तु उत्क्रमणशब्दे विशेषेण वक्ष्यते। अति + वह–णिच् ण्वुल् अतिवाहकारके, अतियापके च त्रि०।

अतिवाहिक = त्रि० अतिवाहः अस्त्यस्य ठन्। अतिवाहयोग्ये अतिवाहशब्दोक्ते सूक्ष्मशरीरे।

अतिवाहित = त्रि० अति + वह–णिच्–क्त। यापिते, अतिक्रमिते च।

अतिवाह्य = त्रि० अति + वह–णिच् कर्म्मणि–यत्। अतिवाह योग्ये कालादौ।

अतिविकट = पु० अतिशयेन विकटः। दुष्टहस्तिनि। अतिकराले त्रि०।

अतिविषा = स्त्री अतिक्रान्ता विषम् अत्या० स०। (आतैच्) इति ख्यातायाम् लतायाम्। “त्रिविधाऽतिविषा ज्ञेया शुक्ला कृष्णा तथाऽरुणा। रसवीर्य्य विपाकेषु निर्विषेव गुणाधिकेति” वैद्यकम्। विषातिक्रमकारके त्रि०।

अतिवृत्त = त्रि० अतिक्रम्य वर्त्तते वृत–क्त। अतिशयिते, अतिक्रान्ते “तद्युद्धमतिवृत्तमिति” नाट०।

अतिवृत्ति = स्त्री अति + वृत–क्तिन्। अतिक्रमे। वृत्तिर्जीविका तामतिक्रान्ते त्रि०।

अतिवृद्ध = त्रि० अत्यन्तं वृद्धः। अत्यन्तवृद्धियुक्ते, अतिजरति च। तृणादिचर्वणासमर्थायां गवि स्त्री। “अतिवृद्धामतिकृशामिति” स्मृतिः “अतिवृद्धाम् तृणच्छेदनासमर्थामिति” रघु०। “चतुःशतं समारभ्य यावद्वर्ण्णसहस्रकम्। अतिवृद्धः स मन्त्रस्तु सर्वशास्त्रेषु वर्ज्जित इति तन्त्रोक्ते मन्त्रभेदे पु०।

अतिवृष्टि = स्त्री अति + वृष–क्तिन्। अत्यन्तवृष्टौ शस्योपघातकोपद्रवरूपे “अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः स्वगाइत्याद्युक्ते” ईतिभेदे “निरीतिभावं गमितेऽतिवृष्टय” इति नैष०।

अतिवेध = पु० अत्यन्तोयेधः सम्पर्कः। “अरुणोदयवेधः स्यात् सार्द्धन्तु घटिकाद्वयम्। अतिवेधोद्विघटिका प्रभासन्दर्शना दृवेः” इतिस्मृत्युक्ते एकादश्याः दशमीसम्पर्कर्भेदे, “यातुधानं व्रतं योगे, महावेधे तु राक्षसम्। जम्भासुरस्यातिवेधः” इति ब्रह्मवै० जम्भासुरस्य फलदायकं न तु कर्त्तुः फलदम् तेन निन्दाश्रवणात् सा एकादशी नैवोपास्येति।

अतिवेगित = त्रि० अतिवेगो जातोऽस्य तारा० इतच्। जाताधिकवेगे “भौमादयोऽल्पमूर्त्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः देवतैरपकृष्यन्ते सुदूरमतिवेगिताः” इति सूर्य्य०।

अतिवेल = त्रि० अतिक्रान्तो वेलां मर्य्यादाम् कूलं वा अत्या० स०। अतिशयिते, निर्मय्यादे, समुद्रादिकूलातिक्रमकारके च। अतिक्रमे अव्ययी०। वेलातिक्रमे अव्य०।

अतिवोढृ = त्रि० अति + वह–तृच्। अतिवहनकर्त्तरि प्रापके “अग्निर्वै पथोऽतिवोढा स एतानतिवहतीति” श्रुतिः। स्त्रियां ङीप्।

अतिव्यथन = न० अति + व्यथ–णिच्–ल्युट् घटा० ह्रस्वः। अत्यन्तपीडने, “सपत्रनिष्पत्रादतिव्यथने” इति पा०।

अतिव्यथा = स्त्री अत्यन्ता व्यथा। अत्यन्तपीडायाम्।

अतिव्यय = त्रि० अतिशयितोव्ययः। अपरिमितव्यये यस्ययावान् व्ययौचितस्ततोऽधिकव्यये व्ययनियमश्च, “पादेन तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान्। अर्द्धेन चात्मभरणं नित्यनैमित्तिकं तथा पादार्द्धार्द्धेन सर्वस्य मूलभूतं विवर्द्धयेत् एवमारभतः पुंसामर्थः साफल्यमृच्छतीति” मार्क० पुरा०। “अतिव्ययात् स्वल्पकालात् क्लिश्येदर्थपरिक्षयादिति” नीति०।

अतिव्याप्ति = स्त्री अतिशयेन लक्ष्यमलक्ष्यञ्चाविशिष्य व्याप्तिः व्यापनम्। अतिशयव्यापने (लक्ष्यस्येवालक्ष्यस्यापि व्यापने)। तथा च यत्र यस्य स्थितिरुचिता ततोऽन्यत्रापि तस्य सम्बन्धे प्रसक्ते अतिव्याप्तिः। यथा पृथिव्याः गन्धी लक्षणं तत्रैव तस्य स्थितिरुचिता तस्य वाय्वादौ सत्त्वप्रसङ्गे अतिव्याप्तिः। यथा वा धूमे वह्नेर्व्यापकता न तु जले, तत्र प्रसक्तौ अतिव्याप्तिः। एवञ्च पृथिव्या रूपवत्त्वं लक्षणम् जलादावतिव्याप्तम्। “परिगणनं कर्त्तव्यमव्याप्त्यतिव्याप्तिदोषवारणायेति” सिद्धा० कौ०।

अतिशक्करी = पु० अतिक्रान्ता शक्करीमेकाक्षराधिक्यात्। पञ्चदशाक्षरपादके वृत्तभेदे “शक्करी सातिपूर्बा स्यादिति, वृत्त०।

अतिशक्ति = स्त्री अतिशयिता शक्तिः कर्म्मसाघनं सामर्थ्यम् देहजं बलम् वा प्रा० स०। अतिशयिते सामर्थ्ये, अधिकवोर्य्ये च “स वीर्य्यमतिशक्तिभागि” त्यमरः। अतिक्रान्तः शक्तिम् अत्या० स०। सामर्थ्यातिक्रमकारके त्रि०। अतिशयिता शक्तिर्यस्य ब०। अतिशयबलवति त्रि०। अतिक्रमेऽव्ययी०। शक्त्यतिक्रमे अव्य०।

अतिशय = पु० अति + शीङ्–अच्। आधिक्ये, अतिरेके च। अतिक्रान्तः शयं हस्तम् अत्या० स०। हस्तातिक्रमकारके त्रि०। अतिशय + अस्त्यर्थे अच्। अतिशयवति। “अतिशयरयशालिनेति” काद०। द्वारे व्यापारे च “चिरध्वस्तं फलायालं न कर्म्मातिशयं विले” त्युदयनः।

अतिशयन = न० अति + शी–भावे ल्युट्। अतिरेके अतिशयार्थे। अतिक्रान्तं शयनम् अत्या० स०।

अतिशयित = त्रि० अति + शीङ्–क्त। अधिके, अतिक्रान्ते च।

अतिशयिन् = त्रि० अति + शी–इनि। अतिशयान्विते स्त्रियां ङीप्। “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्यादिति” काव्यप्र०।

अतिशयोक्ति = स्त्री अतिशयेन उक्तिर्निर्देशः यत्र। अलङ्कारशास्त्रप्रसिद्धे (सा० १० परि०) “सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगद्यते भेदेऽप्यभेदः सम्बन्धेऽसम्बन्धस्तद्विपर्य्ययौ। पौर्वापर्य्यात्ययः कार्य्यहेत्वोः सा पञ्चधा मते” त्युक्तलक्षणे अर्थालङ्कारभेदे यथा “विश्लेषदुःखादिव बद्धमौन” मित्यत्र चेतनगतं मौनित्वमन्यत्, अचेतनगतञ्चान्यदिति द्वयोर्भेदेऽपि अभेदः। “अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पद” इत्यत्र लावण्यादेरभेदेऽपि अन्यशब्देन भेएदः इति” “अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु? कान्तिप्रद” इत्यादौ श्लोके “वेदाभ्यासजडं कथं नु? विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवे” दित्यादिना विधातुः स्रष्टृत्वसम्बन्धेऽपि तदसम्बन्धः। “यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरद्वयम् तदोपमीयते तस्या वदनं चारुलोचनमिति” यदि शब्दबला- दाहृतसम्भावनायैव सम्बन्धात् तद्विपर्य्ययः। “सममेव समाक्रान्तं द्वयं द्विरदगामिना तेन सिंहासनं पित्रमखिलञ्चारिमण्डल” मित्यत्र कार्य्यकारणयोः पौर्ब्बापर्य्याभावः।

अतिशायन = न० अति–शीङ् ल्युट् “अतिशायने इष्ठ” नित्यादिसूत्रनिर्द्देशात् नि० दीर्घः। आधिक्ये, प्रकर्षे च। “भूमनिन्दाप्रशंसायां नित्ययोगेऽतिशायने इति” कारिका।

अतिशीत = न० अतिशयितं शीतम् प्रा० स०। अत्यन्तशीतलस्पर्शे। तद्विशिष्टे त्रि०।

अतिशेष = पु० अतिशिष्यते कर्म्मणि घञ्। स्वल्पावशिष्टे, “स हि खादित्वातिशेषान् जायाया आजहारेति”।

अतिशोभन = त्रि० अति + शुभ–ल्यु। अत्यन्तशोभान्विते, श्रेष्ठे च।

अतिश्व = त्रि० अतिक्रान्तः श्वानं वलेन षच् समा०। वरा हादौ। सेवायां स्त्री, सेवायाः कुक्कुरवत् पराधीनवृत्तित्वात् तथात्वम्। अतएव मनुना “न श्ववृत्त्या कदाचनेति” सेवायाः कुक्कुरवृत्तित्वेन निषेषः कृतः।

अतिश्वन् = पु० अतिशयितः सुन्दरः श्वा अतेः पूजार्थत्वात् न समा०। उत्तमकक्कुरे तददूरदेशादौ पक्षा० फक्। आतिश्वायनः तददूरदेशादौ त्रि०।

अतिष्ठा = त्रि० अतीत्य सर्व्वान् तिष्ठति स्था–क्विप्–षत्वम्। सर्व्वातीते। “अतिष्ठा वा एषा छन्दसां यदतिच्छन्दा अतिष्ठा अश्वमेधो यज्ञानामिति” वृ० उ०।

अतिसञ्चय = पु० अतीत्य आवश्यककृत्यं सञ्चयः। मधुमक्षिकादीनामिव स्वपरवञ्चनेनातिमात्रसञ्चये।

अतिसन्ध = त्रि० अतिक्रान्तः सन्धां सन्धानं मर्य्यादां वा अत्या० स०। सन्धानवर्ज्जिते, अतिक्रान्तमर्य्यादे च।

अतिसन्धेय = त्रि० अतिकष्टेन सन्धेयः अनुसन्धेयः संयोज्योवा। कष्टानुसन्धेये, कष्टेन संयोजनीये च।

अतिसन्ध्या = स्त्री अत्यासन्ना सन्ध्या यस्याः ब० स०। पूर्ब्बदिवसीयरात्रिशेषदण्डादिपरदिनसूर्य्योदयपर्य्यन्तः, सूर्य्यास्तात् पूर्ब्बोत्तरदण्डात्मकश्च कालः सन्ध्या। तस्याः आसन्ने काले। “नातिसन्ध्यासमीपत” इति स्मृतिः।

अतिसर = त्रि० अतीत्य स्वगतिमुल्लङ्घ्य सरति अति + सृ–अच्। अतिचारिणि, अग्रसरे च या~ “असावतिसरांश्चकारेति

अतिसर्ग = पु० अति + सृज–घञ्। दाने। “स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः” इति रघुः। सर्गं सृष्टिमति क्रान्तरि, नित्ये, मुक्ते च त्रि०। अतिसृज्यते यथेष्टं कर्म्म क्रियतैऽनेन। कामचारानुज्ञायाम् यथेच्छं क्रियताभित्याद्यभिलापरूपायाम् “विधिनिमन्त्रणामन्त्रणाधीष्टप्रैष्याति- सर्गेति” पा०। अतिसर्गः कामचारानुज्ञेति वृत्तिः।

अतिसर्जन = न० अति + सृज–ल्युट्। दाने, बधे, विप्रलम्भे, अतिशयदाने च। “ज्वलनातिसर्जनादिति” कुमा०।

अतिसर्व्व = त्रि० अतिक्रान्तः सर्वान् अत्या० स० गौणत्वान्न सर्वनामता। सर्वातिगे सर्वातीते। “अतिसर्वाय सर्वायेति” मुग्ध०।

अतिसान्तपन = न० अतिक्रान्तं सान्तपनमधिकदिनसाध्यत्वात् अत्या० स०। “गोमूत्रगोमयक्षीरदधिसर्पिःकुशोदकान्येकाहं द्वितीयमुपवसेत्तत् सान्तपनम्, त्र्यहाभ्यस्तैश्चातिसान्तपनमिति” विष्णूक्ते व्रतभेदे।

अतिसाम्या = स्त्री अत्यन्तं साम्यं मधुनाऽस्याः। मधुयष्टिलतायाम्। प्रा० स०। अत्यन्तसादृश्ये न०।

अतिसायम् = अव्य० अत्यासन्नं सायम् यस्य ब० स०। सायंकालसमीपे काले “नातिप्रगे नातिसायमिति” स्मृतिः।

अति(ती)सार = पु० अतिसारयति मलम् द्रवीकृत्य अति + सृ–णिच्–अच् वा अतेः दीर्घः। रोगभेदे उदारामये। तस्य निदानादि सुश्रुते उक्तं यथा “गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः। विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः। स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः। शीकाद्दुष्टाम्बुमद्यातिपानैः सात्न्यर्त्तुपर्य्ययैः। जलाभिरमणैर्वेगविघातैः कृमिदोषतः। नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते। (तस्य संप्राप्तिः) “संशाम्यापां धातुरग्निं प्रवृद्धः शकृन्मिश्रो वायुनाधः प्रणुन्नः। सरत्यतीवातिसारं तमाहुर्व्याधिं घोरं षड्विधं तं वदन्ति। एकैकशः, ३ सर्वशश्चापि ४ दोषैः शोकेनान्यः ५ षष्ठ आमेन ६ चोक्तः।। (तस्य पूर्ब्बरूपम्) हृन्नाभिपायूदरकुक्षितोद–गात्रावसादानिलसन्निरोधाः। विट्सङ्ग आध्मानमथाऽविपाको भविष्यतस्तस्य पुरःसराणि। (वायुजः) शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः। वर्चोमुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन। (पित्तजः) दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम्। पित्तात्पीतं नीलमालोहितं वा तृष्णा मूर्च्छा दाहपाकज्वरार्त्त्योः (कफजः) तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः। शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्त भक्तद्वेषी निस्वनं सृष्टरोमा।। (त्रिदोषजः) तन्द्रायुक्ते मोहमादास्यशोषी वर्चः कुर्य्यान्नैकवर्णं तृषार्त्तः। सर्व्वोद्भूतः सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः।। (शोकजः) तैस्तैर्भावैः शोचतोऽल्पाशनस्य वाष्पो वेगः पक्तिमाविध्य- जन्तोः। कोष्ठं गत्वा क्षोभयन् यस्य रक्तं तच्चाधस्तात्काकनन्तीप्रकाशम्।। वर्च्चोमिश्रं निः पुरीषं सगन्धं निर्गन्धं वा सार्य्यते तेन कोष्ठात्। शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्तः।। (आमजः) आमाजीर्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम्। नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति।।

अति(ती)सारकिन् = त्रि० अतिसारो रोगोऽस्यास्ति अतिसार + इनि–कुक्–च्। अतिसाररोगवति।

अतिसारिन् = पु० अत्यन्तं सारयति मलम् अति + सृ–णिनि। अतिसाररोगे।

अतिसृज्य = त्रि० अति + सृज–क्यप्। त्याज्ये, सर्जनीये च।

अतिसृष्ट = त्रि० अति + सृज–क्त। दत्ते, प्रेरिते च।

अतिसौरभ = पु० अतिशयितं सौरभमस्य ब०। अत्यन्तामोदवति आम्रे। सौरभान्विते वस्तुमात्रे त्रि०। प्रा० स०। अत्यन्तसुरभिगन्धे न०।

अतिसौहित्य = न० प्रा० स०। अत्यन्ततृप्तौ “नातिसौहित्यमाचररेदिति” स्मृतिः।

अतिस्तुति = स्त्री अति + स्तु–क्तिन् अतेः पूजार्थत्वादुपसर्गत्व बाधान्न षत्वम्। अविद्यमानगुणानुकीर्त्तने।

अतिस्पर्श = त्रि० अतिक्रान्तः स्पर्शं वर्ण्णोच्चारणप्रयत्नभे दं दानं वा। जिह्वाग्रादेः सम्पूर्णस्पर्शाभावेन ईषत्स्पर्शमात्रेण उचार्य्ये यवरलात्मके वर्णे स्वरवर्णे च “अचोऽस्पृष्टा य णण्त्वीषन्नेमस्पृष्टाः शलस्तथेति” शिक्षायां तेषामुच्चारणेऽस्पर्शे षत्स्पर्शयोरुक्तेस्तथात्वम्। दानहीने कृपणे अधमे च। “अतिस्पर्शो वर्वरता त्त रेफे” इति। प्रा० स०। अत्यन्तस्पर्शे।

अतिस्फिर = त्रि० प्रा० स०। अत्यन्तस्फूर्त्तिशालिनि, अतिवृद्धे च।

अतिहसित = न० अति + हस–क्त। उच्चहासे। घञ्। अतिहासोऽप्यत्र पु०।

अतिहस्ति = जामधातुः हस्तो निरस्यति हस्तिनाऽतिक्रामति वा अति + हस्त + णि–अतिहस्तयति।

अतीक्ष्ण = त्रि० न० त०। तीक्ष्णत्वविरोधिमृदुत्ववति। विषयुद्धलौहरूपतीक्ष्णशब्दार्थभिन्ने न०।

अतीत = त्रि० अति + इण–क्त। अतिक्रान्ते, भूतकाले च। तद्वृत्तौ आरब्धपरिसमाप्ते पदार्थमात्रे त्रि०। अतीतश्च वर्त्तमानध्वंसप्रतियोगी। भवति च अपचदित्यादौ पाकादेर्वर्त्तमानध्वंसपतियोगित्वम्। स च कालो द्विविधः अद्यतनः अनद्यतनश्च अद्यतनस्तु अतीतायाः रात्रेः पश्चार्द्धेन, आगामिन्याः पूर्ब्बार्द्धेन च सहितः कालः। तत्र वृत्तिध्वं स प्रतियोगी अद्यतनातीतः तदरिक्तः अनद्यतनः। तत्रानद्यतने भूते लङ् (अपचत्) “अनद्यतने लङिति” सूत्रात् तस्यैव वक्तुरपारोक्ष्यविवक्षायां लिट् (पपाच) “परोक्षानद्यतने लिडिति” सूत्रात्। भूतसामान्ये लुङ्। अपाक्षीत्। स्मशब्दादियोगे लटोऽपि भूतत्वमर्थः। कालस्तु क्रियान्वयी सर्वत्र, “क्रियाभेदाय कालस्त्विति” हर्य्युक्तेः। अतीतत्वादिकन्तु सर्वत्र प्रयोगकालमादायैव व्यवह्रियते इत्यादिकमाकरे दृश्यम्। अतीतकाले, “शीतेऽतीते वसनमशनमिति” “कालातीता वृथा सन्ध्येति” “संवत्सरे व्यतीते तु पुनरागमनाय चेति” तत्कालवृत्तौ “अलमतीतवार्त्तयेत्यादि”।

अतीन्द्र = पु० अतिक्रान्त इन्द्रम् गुणैः अत्या०। इन्द्रगुणातिगे विष्णौ इन्द्रातिगसात्रे त्रि० “अतीन्द्रमतिरुद्रं च भवतश्चरितं परमिति” पुरा०।

अतीन्द्रिय = त्रि० अतिक्रान्तमिन्द्रियं तदविषयत्वात् अत्या० स०। इन्द्रियायोग्ये अप्रत्यक्षे, “नेत्रश्रोत्रनासिकारसनात्वक्चेतांसीन्द्रियाणि तैर्ज्ञातुमशक्ये विषये। “ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते” भाषा० “यत्तत् सूक्ष्ममतीन्द्रियमिति” गीता। ईश्वरे च तस्य तथात्वम् वाह्येन्द्रियायोग्यत्वेनैव अन्यथा “मनसैवानुद्रष्टव्य” इति श्रुतौ ज्ञानविषयत्वमुक्तं विरुध्येत। “यन्मनसा न मनुते” इत्यादिकं तु अशुद्धमनसोऽविषयत्वपरम्। अत एव “विशुद्धचेतसा गम्यमिति” वाक्यान्तरम्। किञ्च वेदान्तिमते ज्ञानं द्विविधं वृत्तिरूपं तदवच्छिन्नमनोवृत्तिप्रतिविम्बितचैतन्यरूपञ्च तत्र वाह्येन्द्रियाणां रूपादिष्वेव ग्राहकत्वमीश्वरस्य रूपादेरभावेन वाह्येन्द्रिययोग्यत्वाभावेऽपि मनोवृत्तिविषयत्वमस्त्येव अतिसूक्ष्मत्वाच्च नाशुद्धमनोविषयत्वमित्येव भेदः। किन्तु मनोवृत्तिविषयत्वेऽपि तदवच्छिन्नचैतन्याविषयत्वात्तस्य मानसाविषयत्वम् अतएवोक्तमभियुक्तैः “फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम्। ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षितेति”। अन्यथा विषयगताज्ञाननिवृत्तिं प्रति स्वविषयकमनोवृत्तेः कारणतया तदभावे कथंकारं? तद्गताज्ञाननिवृत्तिः स्यात् एतत्पक्षेऽप्यतीन्द्रियत्वं तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वेन द्रष्टव्यम्।

अतीव = अव्य० अत्येव–इवः अवधारणे प्रा० स०। अवधृतातिशयेऽत्यन्तातिशये च। अतीव विव्यथे” इति भार०। “अतीव सुकुमाराङ्गीति”। “उच्चैःशिरसामतीवेति” कु०।

अतुल = पु० नास्ति तुला शुभ्रपुष्पतायामस्याः। तिलकवृक्षे तुलारहिते त्रि०। “रामस्त्वतुलविक्रम” इति रामा०।

अतुल्य = त्रि० न तुल्यः। असदृशे असमाने “अतुल्यमहसासार्द्धं रामेण मम विग्रह” इति भट्टिः।

अतुष = त्रि० नास्ति तुषोऽस्य। अवघातादिना निस्तुषीकृते धान्यादौ “अतुषानिव यवान् कृत्वेति”।

अतुहिनरश्मि = पु० न तुहिनः अहिम उष्णो रश्मिरस्य। उष्णरश्मौ सूर्य्ये। न० त०। उष्णरश्मौ पु०।

अतूतुजि = पु० न + तुज–कि द्वित्वदीर्घे। अदातरि। “अतूतुजिं चित् तूतुजिरशिश्नदिति” ऋ० तूतुजिर्दातेति भा०।

अतूर्त्त = त्रि० न तूर्प्यते तुरी हिंसायाम् क्त ईदित्त्वादिट् न। अहिंसिते। “अतूर्त्तोः राजा श्रव इच्छसान इति ऋ०। अतूर्त्तः अहिंसित इति भा०।

अतृणाद = त्रि० न तृणमत्ति अद–अण्–उप० न० त०। तृणाभक्षके दुग्धमात्रपोष्ये गवादिवत्से। “अथ वत्सं जातमाहुरतृणादमिति” वेदः।

अतृदिल = पु० न तृद्यते बध्यते तृद–किलच् न० त०। हन्तुमनर्हे पर्वते।

अतृप्ति = स्त्री तृप्तिः सन्तोषः अभावार्थे–न० त०। तृप्त्यभावे ब०। तृप्तिरहिते, असन्तोषिणि, लोलुपे च त्रि०।

अतेजस् = न० न तेजः विरोधे न० त०। तेजोविरोधिनि तमसि छायायाम्। नास्ति तेजोऽस्य वा न कम्प्। तेजोरहिते त्रि० कपि। अतितेजस्कोऽप्यत्र त्रि०।

अत्क = पु० अतति सततं विकृतिम् अत–कन कित्त्वम्। शरीरावयवे “स्तरीर्नात्कं व्युतं वसानेति” श्रुतिः। अतति सततं गच्छति। पान्थे त्रि०।

अत्तवे = अव्य० अद–तुमर्थे तवेङ्। अत्तुमित्यर्थे “हविषेऽत्तवे इति” यजु०। “अत्तवे हविर्भक्षितुमिति” वेददीपः।

अत्ता = स्त्री अतति सततंसम्बध्नाति अत–तक् इडभावः। मातरि, स्त्रियाः–श्वश्र्वाञ्च। स्वार्थेके कापि अत इत्त्वे। अत्तिकाप्यत्र।

अत्ति = त्रि० अत्यते सर्वदा सम्बध्यते कर्ग्मणि क्तिन्। मातरि, ज्येष्ठभगिन्यां, स्त्रियाः–श्वश्र्वाञ्च। स्वार्थे कन्। तत्रैवार्थे।

अत्तृ = पु० अद्–तृच्। परमेश्वरे, “अत्ता चराचरग्रहणादिति” शारीरकसूत्रम् तस्य अत्तृत्वञ्च “यस्य ब्रह्म च क्षात्रञ्चोभे मवत ओदनो मृत्युर्यस्योपसेचनमिति” श्रुतौ सर्वभक्षकत्वेनोक्तेः। अधिकमदितिशब्दे वक्ष्यते भक्षणकर्त्तृमात्रे त्रि० स्त्रियां ङीप्। “अरक्षितारमत्तारं नृपं विद्यादधोगतिमिति” भार०।

अत्न = न० अतति जयपराजयावत्र अत–न। युद्धे। निरु०

अत्नु = पु० अत–नु। वायौ। सततगन्तरि। पथिके त्रि०। उणा०

अत्य = त्रि० अतति शीघ्रं गच्छति कर्त्तरि यत्। शीघ्रगेऽश्वे, “अश्वोऽस्यत्योऽसि मयोसीति” ता० ब्रा०। “अशुमत्यं न वाजिनमिति” वेदः।

अत्यग्निष्टोम = पु० अतिक्रान्तोऽग्निष्टोममधिकफलदत्वात् अत्या० स०। “अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी राजपेयोऽतिरात्रोऽप्तोर्याम इति” गवामयनसंस्थयज्ञभेदे।

अत्यङ्कुश = पु० अतिक्रान्तोऽङ्कुशं तत्पीडनमनादृत्य यथेष्टं प्रवृत्तत्वात् अत्या० स०। अङ्कुशाघातानादरेण यथेच्छं प्रवृत्ते उत्कटे दुर्दान्ते गजे।

अत्यङ्गल = त्रि० अतिक्रान्तोऽङ्गुलिं तत्परिमाणम् अच् समा०। अङ्गुलिपरिमाणधिके।

अत्यध्व = त्रि० अतिक्रान्तोऽध्वानम् अत्या० स० अच् समा०। अतिक्रान्तपथे प्रा० स०। अतः पूजनार्थत्वान्न समा०। अत्यध्वन्। सुपथि पु०।

अत्यन्त = न० अतिक्रान्तोऽन्तं सीमाम् अत्या० स०। अतिशये। तद्युक्ते सर्वपरिच्छेदातिक्रान्ते त्रि०। अतिक्रमेऽव्ययी०। परिच्छेदातिक्रमे नाशातिक्रमे च अव्य०। “किं वा तवात्यन्तवियोगदुःखे” इति रघु० “अत्यन्तहिमोत्तरानिला इति” कुमा०। “सुस्वमत्यन्तमश्नुते” इति गीता। “शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति” च पुरा०। “अत्यन्ते भवः ठक् आत्यन्तिकः। अत्यन्तभवे वस्तुनि त्रि०। नाशातिक्रान्ते त्रि० “अत्यन्तं निर्जगद्योमेति” पञ्चदशी।

अत्यन्तकीपन = त्रि० अत्यन्तं भृशं कुप्यति अति + कुप–ल्यु। भृशकोपान्विते अतिकोपयुक्ते।

अत्यन्तगामिन् = त्रि० अत्यन्तम् अन्तात्ययं अति + अन्तअत्यये अव्ययीभावः तद्गच्छति गम–कर्त्तरि णिनि। आत्यन्तिके अतिशयगमनशीले च। स्त्रियामत्यन्तगामिनी।

अत्यन्तनिवृत्ति = स्त्री अत्यन्ता निवृत्तिः। स्वप्रतियोगिजातीयप्रागभावासमानाधिकरणे ध्वंसे। यस्यां सत्यां स्वप्रतियोगिजातीयस्यान्यस्य पुनरत्पत्तिर्न भवेत् तादृशी निवृत्तिरत्यन्तनिवृत्तिः “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषाथ इति” सांख्यसूत्रम्। सा च मोक्षावस्थायामेव, मोक्षे हि विवेकेनाविद्यानिवृत्तौ तत्कार्य्यस्य दुःस्वादेः सुतरां समूलमुच्छेद इति तत्र न पुनर्दुखोत्पादः अतस्तत्र दुःखात्यन्तनिवृत्तिः।

अत्यन्तसंयोग = पु० अत्यन्तेन साकल्येन संयोगः संबन्धः व्याप्तिरिति यावत् अन्तमवसानमतिक्रान्तः संयोगो वा। सन्ततसम्बन्धे, व्याप्तौ च। “कालाध्वनोरत्यन्तसंयोग” इति पा०।

अत्यन्तसुकुमार = पु० अत्यन्त सुकुमार इति। (काङ्नी) कङ्गनी वृक्षे राजनि०।

अत्यन्ताभाव = पु० अत्यन्तः अन्तमतिक्रान्तः नित्यः अभावः कर्म्म०। नास्तीति वाक्याभिलप्यमाने नाशप्रागभावभिन्ने संसर्गाभावे। यथा न्यायमते भूतले घटाभावः प्रतीयते स च भूतले घटोनास्ति इति वाक्येन अभिलप्यते सोऽयमभावः, न नाशः, नापि प्रागभावः तयोः समवायि देशवृत्तित्वनियमात् भूतलादेश्च तदभावात्। नाशप्रागभावयोस्तु न अत्यन्तता प्रतियोगिकाले तयोरसत्त्वात्। नापि तयोर्नित्यता प्रागभायस्य प्रयोगिनाश्यत्वात् ध्वंसस्य च प्रतियोगिजन्यत्वात्। भेदस्य नित्यत्वेऽपि संसर्गाभावत्वाभावात् न तथात्वम्। अत्यन्ताभावस्य नित्यत्वेऽपि प्रतियोगिसत्त्वकाले न तत्प्रतीतिः अभावप्रत्यक्षे योग्यानुपलब्धेर्हेतुतया योग्यस्य घटादिरूपप्रतियोगिन उपलब्धौ तदनुपलब्धेरभावात्। नापि एकस्मिन् मावाभावयोः सत्त्वं विरुद्धम् एकस्मिन्नपि वृक्षे कपिसंयोगतद्भावयोरवच्छेदभेदेन सत्त्वदर्शनात् तथा च एकस्मिन्नपि भूतलेऽवच्छेदभेदेन तयोः सत्त्वं न विरुध्यते। द्रव्यादौ गुणतदभावयोः कालरूपाववच्छदभेदेन स्थितिरपि न विरुद्धा। तथा च प्रतियोगिसत्त्वकाले द्रव्ये गुणात्यन्ताभावबुद्धिः प्रतिबन्धकसद्भावेन परं नोदेति इत्येव विरोधमात्रम्। अधिकमभावशब्दे वक्ष्यते। “प्रागभावस्तथाध्वंसोऽप्यत्यान्ताभाव एव चेति” भाषा०।

अत्यन्तिक = त्रि० अत्यन्तं गच्छति अत्यन्त + ठन्। अतिशयितगमनकारिणि। अतिशयितमन्तिकं निकटं प्रा० स०। अतिनिकटे न०। तद्वृत्तौ त्रि०। नाहैवात्यन्तिके नोदूरे तत् स्थापयेदिति। अत्या० स०। अतिक्रान्तसामोप्ये दूरे न०। तद्वृत्तौ त्रि०।

अत्यन्तीन = त्रि० अन्तस्यात्ययः अत्यन्तम् अत्यये व्ययी० अत्यन्तं गामी अत्यन्त + ख। अतिशयितगतिशीले। “लक्ष्मीं परम्परीणां त्वमत्यन्तीनत्वमुन्नयेति” भट्टिः।

अत्यम्ल = पु० अतिशयितोऽम्लोरसः फलपत्रादौ यस्य ब०। (तेतुल) इति प्रसिद्धे तिन्तिडीवृक्षे। अत्यन्ताम्लरसवति वस्तुमात्रे त्रि०। वनवीजपूरे (टावादेवु) इति प्रसिद्धे वृक्षे स्त्री। अम्लरसस्य लक्षणाद्युक्तं सुश्रुते यथा “यो दन्तहर्षमुत्पादयति मुखस्रावं जनयति श्रद्धाञ्चोत्पादयति सोऽम्ल इति” अम्लो जरणः पाचनः पवननिग्रहणोऽनुलोमनः कोष्ठविदाही वहिःशीतः क्लेदनःप्रायशो हृद्यश्चेति स एवं गुणोऽप्येक एवात्यर्थमुपसेव्यमानो दन्तहर्षनयनसंमीलनरोमसंवेजनकफविलयनशरीरशैथिल्यान्या- पादयति तथा क्षताभिहतदग्धदष्टभग्नशूलरुग्णप्रच्युताऽवमूत्रितविसर्पितच्छिन्नभिन्नविद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयञ्चेति”। अम्लद्रव्याणि च तत्र कानिचित् प्राधान्येन दर्शितानि यथा। दाडिमामलकमातुलुङ्गाम्रातक–कपित्थकरमर्दवरकोलप्राचोनामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समासेनाम्लवर्ग इति।

अत्यम्लपर्ण्णी = स्त्री अत्यस्लं पर्णं यस्याः जातित्वात् ङीप्। अत्यम्लपत्रयुक्ते वनवीजपूरे (टावालेवु) इति ख्याते वृक्षे।

अत्यय = पु० अति + इण–अच्। अतिक्रमे, अभावे, विनाशे, दोषे, कृच्छ्रे, अतिक्रम्य गमने, कार्य्यस्यावश्यम्भावाभावे च। “प्राणात्यये च संप्राप्ते योऽन्नमत्ति यतस्ततः। न स पापेन लिप्येत पद्मपत्रमिवाम्भसेति” स्मृतिः। “क्षुरस्य धारा निशिता दुरत्ययेति” पुरा० अत्ययं कालातिक्रमं न सहते ठक् आत्ययिकः। विलम्बाक्षमे कार्य्ये त्रि०। “आत्ययिकेषु कार्य्येषु सद्य एवाधिवासयेदिति” पुराणम्।

अत्यर्थ = न० अतिक्रान्तमर्थमनुरूपस्वरूपं अत्या० स०। अतिशये। तद्वति त्रि०। अत्यये अव्ययी०। अर्थाभावे अव्य०।

अत्यल्प = त्रि० अतिशयितोऽल्पः प्रा० स०। अत्यन्ताल्पे अणुतरे च।

अत्यशन = न० अतिशयितमशनम्। अतिभोजने “नचैवात्यशनं कुर्य्यादिति”।

अत्यष्टि = स्त्री अतिक्रान्ता अष्टिं षोडशाक्षरपादिकां वृत्तिमेकाक्षराधिक्यात् अत्या० स०। सप्तदशाक्षरपादके छन्दोभेदे।

अत्याकार = पु० अतिशयेन आकारः तिरख्यारः अति + आ + कॄ–घञ्। तिरस्कारे। “श्लाघात्याकारतदवेतेष्विति” पा० अतिशयित आकारो मूर्त्तिः प्रा० स०। वृहद्देहे पु०। अतिशयित आकारो यस्य ब०। तद्विशिष्टे त्रि०।

अत्याग = पु० न त्यागः अभावार्थे न० त०। त्यागाभावे “उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनादिति” स्मृतिः।

अत्यागिन् = त्रि० त्यज–घिणुन् मन्दार्थे नञ् त०। कर्म्मफलाननुसन्धानेन कर्म्मानुष्ठायिनि, त्यागिभिन्ने च।

अत्याचार = पु० अत्युत्कट आचारः प्रा० स०। अनुचिताचरणे। अतिक्रमे अव्ययी०। अचारातिक्रमे अव्य०।

अत्याज्य = न० न त्यक्तुं शक्यम् शक्यार्थे ण्यत् न कुत्वम्। त्यागाशक्ये त्यागानर्हे च।

अत्यादान = त्रि० अतिक्रा तम् आदानम्। आदानातिक्रान्ते अतिशयितसादानम् प्रा० स०। भृशादाने।

अत्याधान = न० अति + आ + धा–ल्युट्। अतिक्रमणे, सम्बन्धमात्रे, उपरिस्थापने च। अत्यये अव्ययी०। आग्न्याधानातिक्रमे अव्य०। अतिक्रम्य ज्येष्ठमाधानम्। ज्येष्ठातिक्रमेण अग्न्याधाने न०।

अत्याय = पु० अति + अय–घञ्। अतिक्रमे, “प्रजाह तिस्रो “अत्यायमीयुरिति” श्रुतिः। अतिक्रान्तलाभे त्रि०। प्रा० स०। अतिशयिते लाभे पु०।

अत्यायु = न० अति + आ + या–कु। यज्ञियपात्रभेदे। “मूर्द्धास्यत्यायु पात्रमसीति” ता० “अत्यायुनाम्नाभिधेयमिति” भाष्यम्।

अत्यारूढि = स्त्री अति + आ + रुह–क्तिन्। आरोहणातिशये। विख्यात्यतिशये अतिप्रसिद्धौ च।

अत्याल = पु० अतिशयेन समन्तात् अलति पर्य्याप्नोति अति + आ + अल–अच्। (लालचिता) इति ख्याते रक्तचित्रकवृक्षे, तस्य अत्यल्पकालेन समन्तात् व्यापनात् तत्त्वम्।

अत्याशा = स्त्री प्रा० स०। अपूरणीयधनादितृष्णायाम्। अत्या० स०। आशातक्रान्ते त्रि०।

अत्याश्रम = त्रि० अतिक्रान्त आश्रमान् तद्विहितधर्म्मान् अत्या० स०। सर्व्वाश्रमत्यागिनि पञ्चमाश्रमिणि संन्यासिनि। अत्रात्याश्रमिन् इत्यप्यत्र। अतिशयित आश्रमः प्रा० स०। उत्तमाश्रमे संन्यासे पु०।

अत्याहिंत = न० अत्यन्तमाधीयते तन्निवारणार्थं मनो दीयतेऽस्मिन् आ + धा–आधारे क्त। अत्यन्तभीतौ, प्राणहानिशङ्काकरे अनर्थे च। “किमत्रात्याहितमिति” नाटकम्।

अत्युक्ति = स्त्री अतिशयेन अनौचित्येन वा उक्तिः अति + वचक्तिन्। अतिशयोक्तौ, अन्याय्योक्तौ, निर्गुणस्य जडस्य वा आरोपितगुणेन स्तवने। “अत्युक्तौ न यदि प्रकुप्यसि मृषावादञ्च नो मन्यसे” इत्युद्भटः।

अत्युक्ता(क्था) = स्त्री उक्ता(क्या) एकाक्षरपादिका वृत्तिः ताम् अतिक्रान्ता अत्या० स०। द्व्यक्षरपादके छन्दोभेदे। अत्युक्थस्तु उक्थनामकसामभेदातिक्रान्तरि त्रि०।

अत्युच्छ्रित = त्रि० अत्यन्तमुच्छ्रितः। अत्यन्तोन्नते उन्नतेः परमसीमापन्ने।

अत्युत्कट = त्रि० अत्यन्त उक्तटः। अत्यन्तोग्रे। “अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते” इति पुरा०।

अत्युत्कृष्ट = त्रि० अत्यन्तमुत्कृष्टः। परसीमापन्नोत्कर्षयुते।

अत्यूमशा = अव्य० ऊर्य्यादिगणोक्ते अनुकरणशब्दे हिंसायाद्योतकोऽयमित्यन्ये अत्यूमशाकृत्य। गणरत्ने तु अयं न दृश्यते गणपाठे तु दृश्यते इति विवेच्यम्।

अत्यूह = पु० अतिशयेन ऊहते शब्दायते अति + ऊह–अच्। कालकण्ठे (डेओ) इति प्रसिद्धे दात्यूहे पक्षिणि। अतिशयेन ऊहस्तर्कः प्रा० स०। अतिशयितवितर्के। (नील) इति ख्यातौषधौ नीलिकायां स्त्री। अत्ययेऽव्ययी०। वितर्काभावे अव्य०।

अत्र = अव्य० अस्मिन् एतस्मिन् वा इदम् + एतद्–वा सप्तम्यास्त्रल् प्रकृतेरश्भावश्च। अस्मिन् एतस्मिन् वेत्यर्थे। “कोऽत्र भूमिबलये जनान् मुधेति” माघः। न त्रायते केनापि त्रै–बा० कर्म्मणि क। अन्यत्राणायोग्ये क्षत्रिये “प्राणः क्षणितोः प्रक्षत्रमत्रमाप्नोतीति” यच्च न त्रायते केनचिदत्रं क्षत्रं प्राप्नीत्यर्थः।

अत्रप = त्रि० नास्ति त्रपा यस्य। निर्लज्जे।

अत्रभवत् = त्रि० अयमित्यर्थे अत्र “अन्येभ्योऽपीति” प्रथमार्थे त्रल् ततः कर्म्म०। पूज्ये, “जयमत्रभवान्नूनमरातिष्वभिलाषुक” इति भार०।

अत्रस्त = त्रि० न त्रस्तः। त्रासरहिते त्रासोपाधिरहिते च “जुगोगात्मानमत्रस्त” इति रघुः। त्रासोपाधिमन्तरेणेत्यर्थः मल्लिनाथः।

अत्रास = पु० न त्रासः अभावार्थे नं० त०। त्रासाभावे न० ब०। त्रासशून्ये त्रि०।

अत्रि(त्त्रि) = पु० अद–त्रिन् “मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। ब्रह्मणोमानसाः पुत्रा शिष्ठश्चेति सप्त ते इत्युक्ते सप्तर्षिमध्ये मुनिभेदे। “अग्निरत्रिं घर्म उरुष्ठदन्त इति श्रुतिः”। अत्र पक्षे वा तलोपे अत्रिरित्यपि। त्रिभिन्ने त्रि० बहुवचनान्तः। अस्य उत्तरदिशि तारारूपेणापि स्थितिः वृहत्संहितायामुक्ता यथा “एकावलोव राजति ससितोत्पलमालिनी सहासेव। नाथवतीव च दिव्यैः कौवेरी सप्तभिर्मुनिभिः।। ध्रुवनायकोपदेशान्नरीनर्त्तीवोत्तरा भ्रमद्भिश्च। यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात्।। आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ। षड्द्विकपञ्चद्वियुतः शककालस्तस्य राज्ञश्च।। एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम्। प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः।। पूर्वे भागे भगवान् मरीचिरपरे स्थितो वशिष्ठोऽस्मात्। तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च।। पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्ब्बाद्याः। तत्र वशिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी।। उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः। हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै” इति।। अत्रेर्वर्गाश्च तत्रैवोक्ता यथा “अत्रेः कान्तारभवा” इति। अधिकं सप्तर्षि शब्देदृश्यम्। अद–त्रिनि। अत्रीत्यप्यत्र उणादि०।

अत्रिजात = पु० अत्रेर्नेत्रात् जातः जन–क्त ५ त०। चन्द्रे, चन्द्रो हि प्रजासर्गार्थं तपस्य तोऽत्रेर्नेत्रात् जातोयथा। “पिता सोमस्य वै राजन् जज्ञेऽत्रिर्भगवानृषिः। ब्रह्मणो मानसात् पूर्ब्बं प्रजासर्गं विधित्सतः। तत्रात्रिः सर्व्वभूतानां तस्थौ स्वतनयैर्वृतः। कर्म्मणा मनसा वाचा शुभान्येव चचार सः। अहिंस्रः सर्वभूतेषु धर्म्मात्मा शंसितव्रतः। काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्म्महाद्युतिः। अनुत्तरं नाम तपो येन तप्तं महत् पुरा। त्रीणि वर्षसहस्राणि दिव्यानीति ह नः श्रुतम्। तत्रोर्द्ध्वरेतसस्तस्य स्थितस्यानिमिषस्य ह। सोमत्वं तनुरापेदे महासत्त्वस्य भारत। ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः। नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः। तं गर्भविधिना हृष्टा दश देव्यो दधुस्तदा। समेत्य धारयामासुर्न च ताः समशक्नुवन्। स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। पपात भासयन् लोकान् शीतांशुः सर्वभावनः। यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः। ततस्ताभिः सहैवाशु निपतात वसुन्धराम्। पतितं सोममालोक्य ब्रह्मा लोकपितामहः। रथमारोपयामास लोकानां हितकाम्यया। स हि वेदमयस्तात! धर्म्मात्मा सत्यसङ्गरः। युक्तो वाजिसहस्रेण सितेनेति हि नः श्रुतम्। तस्मिन्निपतिते देवाः पुत्त्रेऽत्रेः परमात्मनि। तुष्टुवुर्ब्रह्मणः पुत्त्रा मानसाः सप्त ये श्रुताः इति हरिवंशे।

अत्रिदृग्ज = पु० अत्रेर्दृशोनेत्राज्जायते जन–ड ५ त०। चन्द्रे अत्रिनेत्रजादयोऽप्यत्र। तद्विवृतिरत्रिजशब्दे दृश्यम्।

अत्रिभारद्वाजिका = स्त्री अत्रिभारद्वाजवंशयोः मैथुनम् “द्वन्द्वाद्वुन् वैरमैथुनयोरिति” वुन् “वैरमैथुनकादिवु” न्नित्यमरोक्तेः स्त्रीत्वम्। तद्वंशजातयोः स्त्रीपुंसयोर्मैथुने।

अत्रिसंहिता = स्त्री अत्रेः संहिता स्मृतिः। वर्णाश्रमाचारादिबोधके अत्रिप्रणीते धर्मशास्त्रभेदे।

अत्वरा = स्त्री न त्वरा शीघ्रम् अभावार्थे न० त०। त्वराभावे “त्रीणि श्राद्धे प्रशंसन्ति शौचमक्रोधमत्वरामिति” स्मृतिः।

अत्सरुक = पु० नास्ति त्सरुरिव मुष्तिबन्धनस्थानं यस्य। मुष्टिबन्धनस्थानशून्ये खड्गाकारे यज्ञियपात्रभेदे चमसे।

अथ = अव्य० चु०–अर्थ–ड पृषो० रलोपः। संशये, आरम्भे आनन्तर्य्ये, प्रश्ने, विकल्पे, प्रकरणे, समुच्चये पक्षान्तरे च। मङ्गलं तु नास्यार्थः किन्तु अर्थान्तरप्रयुक्तोऽप्ययं श्रुत्या मङ्गलसाधनं भवति। “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभा” वित्युक्ते स्तस्य श्रवणेन मङ्गलसाधनत्वम् अतएव शारीरकभाष्ये “अर्थान्तरप्रयुक्तोऽथशब्दः श्रुत्या मङ्गलमारचयती” त्युक्तम्। तत्र “अथातो ब्रह्मजिज्ञासेत्यादौ” साधनचतुष्टयानन्तर्य्यार्थे “अथ प्रजानामधिप” इत्यादौ चानन्तर्य्ये, “अथ योगानुशासन” मित्यत्र अधिकाररूपारम्भे “शब्दोनित्यः अथा नित्य” इत्यादौ संशये, संशयश्च एकधर्म्मिकं कोटिद्वयज्ञानं तत्र कोट्युपस्थापनस्य संशयहेतुत्वात् प्रकृते तस्यैव संशयशब्दार्थता विकल्पश्च संशयविशेष एव। “अथ शक्नोषि भोक्तुमित्यादौ” प्रश्ने, “अथ शब्दानुशासनमित्यत्र मङ्गलार्थतयोपादानमर्थस्तु अधिकार एव “अथ सरणमवश्यमेव जन्तोरिति” वेण्याम्, “अथ चेत्त्वमिमं धर्म्म्यं संग्रामं न करिष्यसीत्यादौ गीतायां च पक्षान्तरे, अथातोधर्मं व्याख्यास्याम इत्यादौ कात्र्स्न्ये, “भीमोऽथार्ज्जुन” इत्यादौ समुच्चये, स्वरादिपाठादस्याव्ययत्वम्।

अथकिम् = अव्य० अथ + कायतेः कवतेर्वा बा० डिमि। स्वीकारे। स्वीकारश्चेह नादानं, किन्तु अन्योक्तपदार्थस्य वक्तुः तथात्वेनाभ्युपभात्मकज्ञानम्, तत्र द्योतकत्वमस्य शब्दस्य, यथा कस्यचित् “इत्थं वृत्तमिति” प्रश्ने अथकिमित्यादिना पृष्टवस्तुनः यथावृत्तत्वाभ्युपगमः स च वक्तुरेव।

अथर्वण = पु० अथर्वा तदुक्तविद्याऽस्त्यस्य ज्ञातृत्वात् अच् पृ० न टिलोपः। शिवे, त्रिकाण्ड०।

अथर्वणि = पु० अथर्वणि तदुक्तशान्त्यादौ कुशलः बा० इस् सित्त्वेन भत्वाभावात् न टिलोपः। अथर्ववेदोक्तकर्म्माभिज्ञे ब्राह्मणे पुरोहिते च मेदिनिः।

अथर्वन् = पु० अथ + ऋ–वनिप् शक०। अथर्व्वनामकमुनिविशेषे, स च कल्पभेदे ब्रह्मणो ज्येष्ठः पुत्रः यथोक्तं मुण्डके। “ब्रह्मा देवानां प्रथमं संबभूवे” त्युपक्रम्य ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तम्” “अनेकेषु ब्रह्मणः सृष्टिप्रकारेषु अन्यतमस्य सृष्टिप्रकारस्य मुखे अयमथर्वा सृष्ट” इति भाष्यम्। “अथर्वणे यां प्रवदेत ब्रह्माथर्वा पुरोवाचाङ्गिरे इति” अथर्वायेत्युक्तेः अथव शब्दोऽदन्तोऽपि “सर्वे नान्ता अदन्ताः स्युरित्युक्तेः” पृषो० नलोपः। अथर्वणाऽधीतत्वात् वेदवेदे पु०। ततः तद्वेदाधीते वा ठक् आथर्वणिकः, अथर्वणा दृष्टं साम अण् आथर्वणम्। तेन प्रोक्तम् अधीयते कृतठको लुक्। अथर्वाणः। तत्प्रोक्ताध्यायिप्रभृतिष्वर्थेषु।

अथर्वविद् = पु० अथर्ववेदं तदुक्तं कर्म्म वा वेत्ति विद–क्विप्। अथर्ववेदस्य “शन्नो देवीरभीष्टय” इत्यादिकस्य, तद्विहिताभिचारादिकर्म्मणश्च वेत्तरि वशिष्ठादौ। “गुरुणाऽथर्वविदाकृतक्रिय” इति रघुः।

अथर्ववेद = पु० कर्म०। वेदभेदे तद्विवृतिः “अथर्वस्य नव शाखाः, पैप्पलादा शौनकी दामोदा औप्ता ब्रह्मदा पशशौनकी देवदर्शीचारणविद्या चेति तेषामध्ययनं द्वादशैव सहस्राणि तस्य पञ्च कल्पा भवन्ति कल्पे कल्पे पञ्च शतानि भवन्ति नक्षत्रकल्पो, विधानकल्पः संहिताबिधिकल्पः, अभिचारकल्पः, शान्तिकल्पश्चेति” चरणव्यूहोक्ता। तस्याध्ययनप्रचारभेदादि विष्णुपुराणेऽभिहितं यथा “अथर्वाणामथो वक्ष्ये संहितानां समुच्चयम्। अथर्ववेदं स मुनिः सुमन्तुरमितद्युतिः।। शिष्यमध्यापयामास कबन्धं सोऽपि तद् द्विधा। कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान्।। देवदर्शस्य शिष्यास्तु मौद्गो ब्रह्मबलिस्तथा। शौक्तायनिः पिप्पलादस्तथान्यो मुनिसत्तम!।। पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज! संहिताः। जाजलिः कुमुदादिश्च तृतीयः शौनको द्विजः।। शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे। द्वितीयां संहितां प्रादात् सैन्धवायनसंज्ञिने।। सैन्धवमुञ्जकेशाभ्यां भिन्ना वेदा द्विधा पुनः। नक्षत्रकल्पो वेदानां संहितानां तथैव च।। चतुर्थः स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः। श्रेष्ठास्त्वथर्वणामेते संहितानां हि कल्पकाः इति”।। एतस्य उपनिषदः एकत्रिंशत् तासां नामानि यथा प्रश्नः १ मुण्डकं २ माण्डूक्यम् ३ अथर्वशिरः ४ अथर्वशिखा ५ वृहज्जावालिः ६ नृसिंहतापनी ७ नारदपरिव्राजकः ८ सीता ९ शरभः १० नारायणः ११ रामरहस्यम् १२ रामतापनी १३ शाण्डिल्यः १४ परमहंसपरिव्राजकः १५ अन्नपूर्णा १६ सूर्य्यात्या १७ पाशुपतम् १८ परब्रह्म १९ त्रिपुरातापनी २० देवी २१ भावना २२ भस्म २३ जावालिः २४ गणपतिः २५ महावाक्यम् २६ गोपालतापनी २७ कृष्णतापनी २८ हयग्रीवः २९ दत्तात्रेयः ३० गरुडः ३१ एताश्च प्रायशः ब्रह्मविद्यातदङ्गोपासनाप्रतिपादिकाः मुक्तिको०।

अथर्वशिखा = स्त्री अथर्वणः वेदस्य शिखेव ब्रह्मविद्याप्रतिपादकत्वेन श्रेष्ठत्वात्। तद्वेदीये ब्रह्मप्रतिपादके तन्नामके उपनिषद्भेदे।

अथर्वशिरस् = न० अथर्वणः शिरैव ब्रह्मविद्याप्रतिपादकतया अरेष्ठत्वात् स्वनामख्याते अथर्व्वोपनिषद्भेदे।

अथर्वाङ्गिरस = पु० अथर्वा चाङ्गिराश्च नि० अच्। एतयोमुन्योः। उपचारात् तद्दृष्टमन्त्रादिभेदे च “अथर्वाङ्गिरसं नीलरुद्र देव्यपराजितेति” तच्च। “अथर्वाणं पितरं देवबन्धुं मातृगर्भं पितुरमुं युवानम्।। यैमं यज्ञं मनसा चिकेत प्रणो वोचस्तमिहेह ब्रुवः इति”। ““अङ्गिरसोनः पितरो नवग्वा अथर्वाणो भृगवः सौम्यासः। तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम।। अङ्गिरोभिर्यज्ञियैरागहीह यम वैरूपैरिह मादयस्व। विवस्वन्तं हुवे यः पिता तेऽस्मिन् वर्हिष्या निषद्य।। इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः संविदानः। आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व।। इतएत उदारुहन् दिवस्पृष्टान्यारुहन्। प्रभुर्ज्जयो यथा पथा द्यामङ्गिरसो ययुरिति” सूक्तञ्च।। अथ० १८, १, ५८, ६१,

अथर्वाधिप = पु० ६ त०। “सामवेदाधिपो भौमः शशिजोऽथर्ववेदराडित्युक्ते” बुधे।

अथर्वी = स्त्री न + थुर्व अच् पृ० उलोपः गौ० ङीष्। अहिंसिकायाम् “याभिर्विश्यलां धनसामथर्व्यमिति” वेदः।

अथवा = अव्य० अथेति वायते अथ + वा–का। पक्षान्तरे “अथ वा कृतवाग्द्वारे इति” “अथवा मृदु वस्तु हिंसितुमिति” च रघुः। “अथ वा हेतुमान्निष्ठविरहाप्रतियोगिनेति” भाषा०।

अथो = अव्य० अर्थ–डो पृषो० रलोपः। अथशब्दार्थे आरम्भादौ। “अथाथो संशये स्यातामधिकारे च मङ्गले विकल्पानन्तर प्रश्नकात्र्स्न्यारम्भसमुच्चये इत्युक्ते” अथशब्दार्थे।

अद = बन्धने भ्वा० पर० इदित् सक० सेट्। अन्दति आन्दीत्।

अद = भक्षणे च अदा० पर० सक० अनिट्। अत्ति अवसत् जघास अत्ता अत्स्यति। सनि जिघत्सति। क्त–ओदनार्थे अन्नम् अन्यत्र जग्धम् घञ् घसः–आदः क्तिन् जग्धिः। “योऽन्नमत्ति यतस्तत” इति स्मृतिः। “अत्ता चराचरग्रहणादिति” शा० सू०। “किमदन्ति भृङ्गा” इति।

अदंष्ट्र = पु० नास्ति दंष्ट्रा दशनसाधनदन्तविशेषः यस्य। भग्नाशीदन्ते सर्पे। प्रधानदन्तरहिते त्रि०।

अदक्ष = त्रि० विरोधार्थे न० त०। दक्षत्वविरोधिमान्द्यवति।

अदक्षिण = त्रि० दक्षिणोऽनुकूलः कुशलश्च विरोधार्थे न० त०। दक्षिणत्वविरुद्धनैपुण्यप्रतिकूलत्ववति, वामाङ्गे च। नास्ति दक्षिणा कर्म्मसमाप्तौ देया यत्र। दक्षिणाशून्ये यज्ञादौ। दक्षिणादानस्य नित्यत्वं दक्षिणाशब्दे वक्ष्यते “हतयज्ञमदक्षिणमिति”।

अदग्ध = त्रि० शास्त्रविधिनाग्निना न दग्धः। शास्त्रविधिना-ऽकृताग्निसंस्कारे। “अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममेति” श्राद्धमन्त्रः। दग्धभिन्ने त्रि०।

अदण्ड्य = त्रि० न दण्डमर्हति यत्। दण्डानर्हे “अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्निति” याज्ञ०। “अपि भ्राता सुतोऽर्घ्यो वा श्वशुरोमातुलोऽपि वा नादण्ड्यो नाम राज्ञोऽस्ति धर्म्मात् प्रचलितः स्वकादिति” मनुः। स्मृत्यादौ कर्मविशेषे दण्डः तदभावश्च उक्तोऽनुसन्धेयः तत्र केचिददण्ड्याः संगृह्यन्ते। “अनिर्द्दशाहां गां सूतां वृषान् देवपशूंस्तथा। सपालान् वा विपालान् न दण्ड्यान् मनुरव्रवीत्”। यानवाहकदण्डाभावे प्रयोजकमुक्तम् अति वर्त्तनशब्दे, क्षेत्रे देयप्रावरणविशेषमुक्त्वा तदकरणे दण्डाभावो मनुनोक्तः यथा “तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणामिति” “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः पालोयेषाञ्च ते मोच्या दैवराजपरिप्लुता” इति “अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः। अदण्ड्याः काणकुण्ठाश्च वृषभः कृतलक्षण इति” स्मृतिः।

अदत्ता = स्त्री दा–क्त न० त०। परिणयार्थमदत्तायां स्त्रियाम्। “अदत्तायां मृतायान्तु त्र्यहाच्छुध्यन्ति बान्धवा” इति स्मृतिः अदत्तमात्रे त्रि०। अप्राशस्त्ये न० त०। अदत्तन्तु भयक्रोधेत्याद्यभिहितलक्षणे दानाभासेनार्पिते दत्त्वापि प्रत्याहर्त्तुं योग्ये त्रि०। तच्चोक्तं नारदेन यथा “अदत्तन्तु भयक्रोधशोकवेगरुजान्वितैः। तथोत्कोच परीहासव्यत्यासच्छलयोगतः।। बालमूढास्वतन्त्रार्तमत्तोन्मत्तापवजितम्। कर्त्ता ममेदङ्कर्मेति प्रतिलाभेच्छया च यत्। अपात्रे पात्रमित्युक्ते कार्ये वा धर्म्मसंहिते। यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतमिति”। अस्यार्थः भयेन वन्दिग्राहादिभ्यो दत्तम्। क्रोधेन शत्र्वादिवैरनिर्य्यातनायान्यस्मै दत्तम्। पुत्त्राविहोनतादिनिमित्तशोकाविष्टेन दत्तम्। उत्कोचेन कार्य्यप्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तम्। परिहासेनोपहासेन दत्तम्। एकः स्वद्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददादीति दानव्यात्यासः। छलयोगतः शतदानमभिसन्धाय सहस्रमिति परिभाष्य ददाति। बालेनाप्राप्तषोडशवयस्केन मूढेन, लोकवेदानभिज्ञेन अस्वतन्त्रेण पुत्त्रदासादिना, आर्त्तेन रोगाभिभूतेन, मत्तेन मदनीयप्रमत्तेन, उन्मत्तेन, वातिकाद्युन्मादग्रस्तेन वा अपवर्जितं दत्तम्। तथाऽयं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभेच्छया दत्तम्। अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम्। यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्तमदत्तमित्युच्यते प्रत्याहरणीयत्वात्। आर्त्तदत्तस्यादत्तत्वं धर्म्मकार्य्यव्यतिरिक्तविषयम्। “स्वस्थेनार्त्तेन वा दत्तं श्रावितं धर्म्मकारणात्। अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशय” इति कात्यायनस्मरणात्। तथेदमपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम्। “योगाधमनविक्रीतं योगदानप्रतिग्रहम्। यस्य वाप्युपधिं पश्येत् तत् सर्वं विनिवर्त्तयेत्” इति। योग उपाधिः। योगेनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगमे तान् विक्रयादीन् विनिवर्त्तयेदिति। यः पुनः षोडशप्रकारमप्यदत्तं गृह्णाति, यश्चादेयं प्रयच्छति, तयोर्दण्डो नारदेनोक्तः। “गृह्णात्यदत्तं यो लोभात् यश्चादेयं प्रयच्छति। अदेयदायको दण्ड्यस्तथाऽदत्तप्रतीच्छ क” इति। मिताक्षरा०।

अदत्तादायिन् = त्रि० अदत्तमादत्ते आ + दा–णिनि ६ त०। अदत्तस्य ग्राहके “अदत्तादायिनो हस्तात् लिप्सेत ब्राह्मणो धनम् याजनाध्यापनेनापि यथा स्तेनस्तथैव स” इति स्मृतिः।

अदत्र = त्रि० अद–बा० अत्रन्। अदनीये “अदत्रया दयते वार्य्याणीति” ऋ० ५, ४९, ३, अदत्रया, अदनीयानीति भा०।

अदद्र्यञ्च् = त्रि० अमुमञ्चति अदस् + अन्च–क्विप् अद्र्यागमः। अदोगते, स्त्रियाम् अदद्रीची असर्वनामस्थानाद्यचि तु अदद्रीचः इत्यादि। अस्य दस्य वा मत्वोत्त्वे अमुद्र्यङ् अमुमुयङ् इत्यादयोऽप्यत्र।

अदन्त = पु० नास्ति दन्तोऽस्य। पूषरूपे आदित्यभेदे वा कप् तत्रैव। “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुमिति” छन्दोगप०। तस्यादन्तता च दक्षयज्ञभङ्गसमये वीरभद्रेण कृता यथा भागवते ४ स्कन्धे। “पूष्णो ह्यपातयद्दन्तान् कालिङ्गस्य यथा बलः। शप्यमाने गरिमणि योऽहसद्दर्शयन् दत” इति। अतएव तस्यादन्ततया पिष्टवरुभुक्त्वं तदपि तत्रैवोक्तम् प्रह्मप्रसादितेन शिवेन पश्चात् दक्षादि वरदानसमये “पूषा तु यजमानस्य दद्भिर्जक्षितु पिष्टभुगिति” श्रुतावपि “प्रपिष्टभागोऽदन्तको हि तं देवा अध्यगामिति” अदन्तकत्वेन पिष्टकभागित्वमुक्तम्। दन्तहीने, अजातदन्ते च त्रि०। “येऽप्यदन्ताः कुले ममेति” वायु०। नृणां दन्तजननकालस्तु षण्मास एव शुद्धितत्त्वे निर्णीतः पशूनान्तु “वर्षमात्रा तु बाला स्याद- तिबाला द्विवार्षिकी। अतः परन्तु सा गौः स्यात्तरुणी दन्तजन्मनीति” अङ्गिरोवचने द्विवर्षोत्तरकाले गवां दन्तजन्मकथनं पशुमात्रोपलक्षणम् अत्रैव काले (आदा~ता) इति लोके प्रसिद्धिः सा च गवामिव महिषाश्वादीनामपि तथैव। अत् अन्ते यस्य ब०। अकारान्तशब्दे पु०।

अदब्ध = दन्भ–क्त न० त०। अहिंसिते “अदब्धेभिः पायुभिः पाह्यस्मानिति” ऋ० १, ९५९, अदब्धैरहिंसितैरिति भा०। “अदब्दासुर्भ्राजमानोह्येव” इति वेदः।

अदब्धायु = पु० अदब्धेन अहिंसनेन आयौति आ–या–कु३ त०। अहिंसायुक्ते “अग्नेऽदब्धायो अशीततमेति यजु० अदब्धायो। अहिंसित! यजमान इति वेददीपः।

अदभ = त्रि० न दभ्यते कर्म्मणि बा० क। अहिंस्ये “तावृधन्तावनु द्यून्मर्त्ताय देवावदभा” इति ऋ० ५, ८६, ५ अदभौ अहिंस्यौ इति भा०।

अदभ्र = त्रि० दन्भ–रक् दभ्रमल्पं न० त०। अनल्पे “अदभ्रदर्भामधिशप्य स स्थलीमिति” भारविः।

अदम्भ = पु० अभावार्थे न० त०। दम्भाभावे। नास्तिदम्भो यस्य। दम्भरहिते त्रि०। “अदम्भं शठतां हीनं कर्म्म कुर्य्यादलोलुप” इतिपुरा०।

अदम्य = त्रि० न दम्यतेऽसौ। अदमनीये। गवामेकवर्षपर्य्यन्त कालेऽदम्यता “पादश्चाप्राप्तके देय इति” स्मृतिः अप्राप्तकः अप्राप्तदम्यावस्थ इति” रघु० तेन “एकवर्षे गवि हते कृच्छ्रपादो विधीयते” इत्येकवाक्यतया एकवर्षकालपर्य्यन्तकाल एव वत्सानामदम्यत्वं प्रतीयते।

अदर्शन = न० न दर्शनम् अभावार्थे न० त०। दर्शनाभावे लोपे, विनाशे च “लोपोऽदर्शनमिति” पा०। नास्ति दर्शनं यस्याः ब०। दर्शनाविषये दृष्टिशून्ये च त्रि०।

अदल = पु० दल्यते भिद्यते इति दलं पत्रं दल–कर्म्मणि घञ् न० ब०। दलशून्ये (हिजल) इति ख्याते वृक्षे। पत्रशून्ये वृक्षमात्रे त्रि०। घृतकुमार्य्यां स्त्री। दलः खण्डः। तच्छून्ये त्रि०।

अदस् = त्रि० न दस्यते उत्क्षिप्यतेऽङ्गुलिर्यत्र इदन्तया निर्द्धारणाय पुरोवर्त्तिन्येवाङ्गुलिनिर्द्देशः सम्भवति नापुरोवर्त्तिनि। न + दस्–क्विप्। अपुरोवत्तिनि परोक्षे ज्ञाते वस्तुनि। सर्वनामता। “अमुष्य विद्या रसनाग्रनर्त्तकीति” नैषधम्। परलोके “नचामुत्र फलप्रद इति” पुरा०। “इदमस्तु सन्निकृष्टं समीपतरवर्त्ति चैतदोरूपम्। अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयादित्युक्ते” विप्र- कृष्टे एवास्य प्रयोगः। यच्छब्दाकाङ्क्षिततच्छब्दाप्रयोगेऽस्य तदर्थबोधकता। यथा “आनन्दयति ते नेत्रे योऽधुनासौ समागत इत्यादौ”। अतएवोक्तं काव्यप्रकाशे इदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते इत्युक्तम्” यच्छब्दस्य तु निकटस्थितत्वे तच्छब्दस्यापि प्रसिद्धपरामर्षितेति वदता च तेन तच्छब्दस्येव इदमदःशब्दयोरपि प्रसिद्धार्थकता तत्रैवोक्ता। यथा “करबालकरालदोःसहायो युधि योऽसौ विजयार्ज्जुनैकमल्लः। यदि भूपतिना स तत्र कार्य्ये” इत्यादौ प्रसिद्धार्थकता। अन्यथा स इत्यनेन पुनरुक्तत्वापत्तेः अतएव दर्पणकृता “आनन्दयति ते नेत्रे योऽसौ सुभ्रु! समागत” इति पद्ये यच्छब्दस्य सन्निकृष्टतया तच्छार्थावाचकत्वमाशङ्क्य आनन्दयति ते नेत्रे योऽधुनासौ समागत इत्येवं पाठःपरिवर्त्तितः। यच्छब्देनानाकाङ्क्षितत्वेतु न तच्छब्दार्थाभिधायित्वं किन्तु प्रसिद्धाद्यभिधायकता यथा “असौ मरुच्चुम्बितचारुकेशर इत्यादौ “नात्र तच्छब्दार्थप्रतीतिरिति काव्य प्रकाशे उक्तम्। तथा च यच्छब्देनाकाङ्क्षास्थले एव यच्छब्दस्यासन्निकृष्टतयोपात्तस्यादःशब्दस्य तच्छब्दार्थकता नान्यथेति सुस्थितम्। “अदोऽनुपदेशे इति” सूत्रनिर्द्देशात् अनुपदेशे अदसः गतिसंज्ञा तेन अदः कृत्यादः कृतमित्यादौ गतित्वेन समासे ल्यप्। वरं प्रति उपदेशे तु अदः कृत्वा अदः कुरु इत्यादौ न गतित्वम्। अस्य गतिसंज्ञात्वे नाव्ययत्वमपि। तेनाव्ययपूर्ब्बकतया ल्यप् अर्थस्तु अदःशब्दस्येव।

अदातृ = त्रि० न० त०। दातृभिन्ने “अदाता वंशदोषेणेति” पुरा०। “अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छतीति” नीति०। स्त्रियां ङीप्।

अदान = न० न दानमभावार्थे न० त०। दानाभावे। नास्तिदानं त्यागोमदजलं वा यस्य। दानशून्ये त्रि०। मदजलशन्ये गजे पु०। “सदा दानपारक्षीणः शस्तएव करीश्वरः। अदानः पीनकायस्तु निन्द्यतएव गर्द्दभ” इति।

अदान्त = त्रि० न० त०। इन्द्रियदमनाकारके अविनीते च “अदान्तोविषयासक्त” इति पुरा०।

अदाभ्य = त्रि० दम्भ ण्यत् नलोपोपधावृद्धी न० त०। अहिंस्ये। “यत्ते सोमादाभ्यं नाम जागृवीति य० ७, २, हे सोम! ते त्वदीयमहिसितं जागृवि जागरणशीलमिति वेददीपः।

अदाय = त्रि० नास्ति दायो येषाम्। दायानर्हेपतितज्ञात्यादौ। “अदायाश्च स्त्रियोमता” इति स्मृतिः।

अदायाद = त्रि० दायं पित्रादिधनं सम्बन्धितया अदन्ति भुञ्जते अद–अण् ६ त० न० त०। सम्बन्धिधनाग्राहके पतितादि सपिण्डभेदे “अदायादाश्च परिगणितमात्रादिभिन्नाः स्त्रियः, “अदायाश्च स्त्रियोमताः” इति स्मृतेः। द्वादशविधान् पुत्रानुक्त्वा “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवा इति मनूक्ताः कानीनादयश्च वेदितव्याः तथा विभागानार्हा अपि क्लीवादयोऽदायादा इत्यवसरे वाच्यम्। सपिण्डभिन्ने च।

अदायिक = त्रि० दायमर्हन्ति दाय + ठक्–न० ब०। दायादशून्ये “अदायिकं राजगामीति” स्मृतिः दायग्राहकपुत्रादिशून्यं तदर्थः।

अदाह्य = त्रि० न दग्धुमर्हति दह–अर्हार्थे ण्यत् न० त०। शास्त्रोक्तविधिना अग्निसंस्कारानर्हे पतितादौ ते च स्मृतौ दर्शिता यथा। “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः। आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः। नागानां विप्रियं कुर्वन् दग्धश्चाप्यथ विद्युता। निगृहीतः स्वयं राज्ञा चौर्य्यदोषेण कुत्रचित्। परदारान् रमन्तश्च द्वेषात्तत्पतिभिर्हताः। असमानैश्च संकीर्णैश्चाण्डालाद्यैश्च विग्रहम्। कृत्वा तैर्निहता ये तु चाण्डालादीन् समाश्रिताः। गराग्निविषदाश्चैव पाषण्डाः क्रूरबुद्धयः। क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्वन्धनं जलम्। गिरिवृक्षप्रप्रातञ्च ये कुर्वन्ति नराधमाः। कुशिल्पजीविनश्चैव सूनालङ्कारकारिणः। मुखेभगाश्च ये केचित् क्लीवप्राया नपुंसकाः। ब्रह्मदण्डहता ये च ये च वै ब्राह्मणैर्हताः। महापातकिनोये च पतितास्ते प्रकीर्त्तिताः। पतितानां न दाहः स्यान्नान्त्येथिर्नास्थिसञ्चयः। नचाश्रुपातः पिण्डं वा कार्थ्यं श्राद्धादिकं क्वचित्। एतानि पतितानाञ्च यः करोति विमोहितः। तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्नचान्यथा” इति। दग्धुमशक्ये निरयवत्वात् परमात्मनि। “नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावक” इत्युपक्रम्य “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्यएव चेति” गोतायां तस्यादाह्यत्वोक्तेस्तथात्वम्।

अदिति = स्त्री न दीयते खण्ड्यते वृहत्त्वात् दो–क्तिच् न० त०। दातुं छेत्तुं न योग्यायां पृथिव्याम् “चक्षुरदितावसनमिति” ता० ब्रा० “अदितौ पृथिव्यामिति” भाष्यम्। वाचि निरुक्त०। दितिर्दनुजमाता विरोधार्थे न० त०। तद्विरोधिन्यां देवमातरि “प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश। अदितिदितिर्दनुःकाला दनायुः सिंहिका तथा। क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः। कद्रुश्च मनुजव्याघ्र! दक्षकन्यैव भारतेति” भारतम् आदिप०। एता एव कश्यपाय दक्षेण दत्ता यथोक्तं तत्रैव “दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ब्रह्मणः पृथिवीपाल! शान्तात्मा सुमहातपाः। वामादजायताङ्गुष्ठाद्भार्य्या तस्य महात्मनः। तस्यां पञ्चाशतं कन्याः स एवाजनयत् प्रभुः। ददौ स दश धर्म्माय सप्तविंशतिमिन्दवे। दिव्येन विधिना देव! कश्यपाय त्रयोदशेति” अदितिरदीनादेवमातेति निरु०। तद्देवताके पुनर्वसुनक्षत्रे। अत्ति प्राणिजातम् अद–इतिच्। सर्वनाशके मृत्यौ, पममेश्वरे च पु०। “स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वम्, सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेदे” ति बृ० उ० दितिः खण्डनम्। तच्छून्ये अखण्डे। “क्षत्रियासि यज्ञियास्यदितिरसीति” यजु० “अदितिरखण्डितेति” वेददीपः।

अदितिज = पु० अदितेर्जायते जन–ड। देवे। “द्वादशैवादितेः पुत्त्राः शक्रमुख्याः नराधिप!। तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिता इति” भारतम् द्वादश आदित्याः शक्रादयः शक्रमुख्याश्च देवाश्चेत्यर्थः।

अदितिनन्दन = पु० ६ त०। देवे अदितिसुतादयोऽप्यत्र।

अदीन = त्रि० दी–क्त न० त०। अकातरे कातर्य्यरहिते।

***