अज्ञ = त्रि० न जानाति ज्ञा–क न० त०। ज्ञानशून्ये चैतन्यशून्ये, विशेषज्ञानशून्ये, मूर्खे, वेदान्तिमतसिद्धाज्ञानरूपपदार्थवति च। तैहि अहमज्ञ इत्यनुभवस्य अज्ञानविषयत्वं स्वीक्रियते अज्ञानञ्च न ज्ञानाभावः किन्तु पदार्थान्तरं तच्चाज्ञानशब्दे विस्तरेण वक्ष्यते। प्राज्ञः प्रकर्षेणाज्ञः सुषु प्त्यवस्थापन्ने जीवे तदानीं विशेषज्ञानाभावात् प्राज्ञत्वम्। अचेतने, जडे, “वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्येति” सांख्यका०। अल्पज्ञे, किञ्चिज्ज्ञे च।

अज्ञात = त्रि० न ज्ञातः। ज्ञानाविषयीभूते पदार्थे। “अज्ञातकुलशीलस्य वासोदेयो न कस्यचित्” इति हितोप०।

अज्ञान = न० न ज्ञानम्। ज्ञानाभावे, ज्ञानविरोधिनि तदभावे “तत्राज्ञानं धिया नश्येदिति” वेदान्तिमतसिद्धे पदार्थान्तरे च “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव” इति गीता। “अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकयेति, गुरुनतिः। अज्ञानञ्च ज्ञानाभाव इति नैयायिकाः। पदार्थान्तरमिति वेदान्तिनः। तथाहि अहं न जानामि अहमज्ञ इत्यादिविशिष्टानुभवः सार्वलौकिकः स च ज्ञानाभवविषय इति नैयायिकैर्यदुक्तं तन्न युक्तं विशिष्टबुद्धौ विशेषण ज्ञानस्य हेतुतायाः सर्ववादिसिद्धतया आत्मधिर्म्मिकज्ञानाभावप्रकारकज्ञाने जनयितव्ये तद्विशिष्टज्ञानाभावघटकज्ञानरूपस्य विशेषणस्य ज्ञानं पूर्ब्बमपेक्षितम् आत्मनि तादृशे ज्ञाने च तदानीं सति कथङ्कारं ज्ञानाभावविशिष्ट बुद्धिः स्यात् यस्मिन् धर्म्मिणि ज्ञानमस्ति तत्र ज्ञानाभावज्ञानस्य बाधितत्वमेव अभावबुद्धेः प्रतियोगिज्ञानरोधितायाः सर्वमस्मतत्वात्। किञ्च ज्ञानाभावः किं ज्ञानसामान्याभाव उत तत्प्रागभावः अथ तद्ध्वंसो वा तत्र विषयो भवति, नाद्यः पूर्ब्बोक्तयुक्त्या ज्ञानाभावानुभवासम्भवेन प्रत्याख्यातत्वात्। न द्वितीयः प्रागभावस्य सामान्यधर्म्मानवच्छिन्नप्रतियोगिताकतया तत्तज्ज्ञानप्रागभावस्यैव विषयता वाच्या सा च न सम्भवति सामान्याकारेण ज्ञानाभावस्यैव प्रतीयमानत्वात् अन्यथा ज्ञानवत्यपि पुरुषे तादृशप्रतीतिः स्यात् अग्रे जनिष्यमानानन्तज्ञानप्रागभावानामात्मनि सत्त्वेऽपि तेषाञ्च तत्तज्ज्ञानप्रतियोगिकत्वेन ज्ञानसामान्यविशिष्टबुद्धौ विरोधिताभावात्। नान्त्यः प्रागभावरीत्या तस्यापि प्रत्याख्यातत्वात्। अतस्तादृशानुभवस्य विषयरक्षार्थं ज्ञानाभावातिरिक्तमज्ञानं कल्पनीयम्। तच्चानुमानेनैव। अनुमानञ्चेत्थमुक्तं प्रमेयविवरणोपन्यासे। विवादाध्यासितं ज्ञानं स्वप्रागभावातिरिक्तस्वविषयावरक सविषयकवस्तुपूर्ब्बकं भवितुमर्हति प्रकाशत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति। यथा अन्धकारे प्रथमोत्पन्ना प्रदीपप्रभा स्वविषयस्य घटादेरावरकतमोरूपपदार्थपूर्ब्बिका एवं ज्ञानमपि प्रकाशत्वसाम्यात् स्ववि- षयस्य घटादेरावरकं कञ्चित् पदार्थं समानविषयकं नियतम् पूर्ब्बमपेक्षते। उत्पन्ने च ज्ञाने प्रदीप्यप्रभया तम इव तन्निवर्त्तते ज्ञानप्रागभावेन सिद्धसाधनतावारणाय स्वप्रागभावातिरिक्तेति विशेषणम्। तच्च अज्ञानं ज्ञानविरोधि सत्त्वासत्त्वाभ्यामनिर्वचनीयम्। तच्च शुक्तिकाद्यज्ञानं शुक्तौ रजतादिकमिव ब्रह्मणि प्रपञ्चमुत्पादयति। अतएव तद्भावरूपं भावस्यैव भावपदार्थोपदानत्वसम्भवात्। अभावस्य तु अधिकरणस्वरूपत्वाङ्गीकारात् न भावस्याभावोपादानत्वव्याघातः। तस्य भावरूपत्वेऽपि न त्रैकालिकाबाध्यत्वरूपम् सत्त्वं तत्त्वज्ञानेन बाध्यत्वात् नापि प्रातीतिकरजतादिवदसत्त्वम् व्यवहारयोग्यत्वात्। अतः सदसद्भ्यामनिर्वचनीयं व्यवहारिकसत्त्ववत् यत् किञ्चित् भावरूपं पदार्थान्तरमेवाज्ञानमिति सुस्थितम्। अस्य चाज्ञानस्य द्वे शक्ती आवरणं विक्षेपश्च तत्र या कदाचित् स्वविषयमावृणोति (विषयत्वसंप्राप्त्यनर्हं करोति) सा आवरणशक्तिः या तु स्वकार्य्यबुद्धिवृत्त्या इन्द्रियादिद्वारा विषयदेशं प्राप्य विषयगतं स्वकारणनिष्ठवरणशक्तिं नाशयति सा विक्षेपशक्तिः यथोक्तं “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येत् आभासात्तु घटः स्फुरेदिति”। यथा च शुक्तिविषयाज्ञानं स्वविषयशुक्ति मावृत्य स्वशक्त्यैव तत्र उत्पादितं रजतं विषयीकृत्य तद्गतमावरणशक्तिं नाशयति एवं ब्रह्मविषयकाज्ञानं स्वशक्त्यैव ब्रह्मणि उत्पादितं प्रपञ्चं विषयीकृत्य तत्तदाकारबुद्धिवृत्तिरूपा विक्षेपशक्तिः तद्गतावरणशक्तिं निवारयतीति दृष्टानुसारिणीयं कल्पना। अधिकमाकरे द्रष्टव्यम्। नास्तिविशिष्टज्ञानमस्य। विशिष्टज्ञानाभाववति अज्ञे त्रि०।

अज्मन् = स्त्री अजति गच्छति स्वर्गं दानेनानया अजकरणे मनिन् न वीभावः। गवि, इति निरुक्तकारः।

अञ्चति = पु० न० अन्च–गतौ कर्त्तरि अति। वायौ, गन्तरि त्रि०।

अञ्चल = पु० अञ्चति प्रान्तम् अन्च–अलच्। वस्त्रप्रान्ते “क्षीणाञ्चलमिव पीनस्तनजघनायाः कुलीनायाः” इति “भूमौ दत्त्वा पदमिह समाधेहि चेलाञ्चलेऽस्मिन्निति च उद्भट्टः। प्रान्तभागे “दृगञ्चलैः पश्यति केवलं मनागिति” उद्भट्टः।

अञ्चित = त्रि० अन्च–क्त। पूजिते, आकुञ्चिते च। “अपिखञ्जनमञ्जनाञ्चितमिति” नैष०। “अञ्चितसव्यपाद इति” भट्टिः। “अञ्चितः शूलपाणिरिति” पुरा०। ग्रथिते च “अर्द्धाञ्चिता सत्वरमुत्यिताया” इति रघुः।

अञ्जन = न० अज्यतेऽनेन अन्ज–करणे ल्युट्। कज्जले। “अपि खञ्जनमञ्जनमञ्जनाञ्चितमिति” नैष०। “मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम्। पूर्ब्बाह्णएव कुर्व्वीतेति” स्मृतिः। “विलोचनं दक्षिणमञ्जनेन संभाव्येति” रघुः। अञ्जनविशेषाश्च सुश्रुते दर्शिता यथा “चत्वार एते योगाः स्युरुभयोरञ्जने हिताः। कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः।। पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः। सर्पिर्मधुयुतैश्चूणै र्वेणुनाड्यामवस्थितैः।। अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ। आम्रजम्बूद्भव पुष्प तद्रसेन हरेणुकाम्।। पिष्ट्वा क्षौद्राज्यसंयुक्तां प्रयोज्यमथ वाञ्जनम्। नलिनोत्पलकिञ्जल्कगैरिकै र्गोशकृद्रसैः।। गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम्। रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम्।। गोशकृद्रसमंयुक्तं पित्तोपहतदृष्टये। शीतं सौवीरकं वापि पिष्ट्वाथ रसभावितम्।। कूर्म्मपित्तेन मतिमान् भावयेद्रौहितेन वा। चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये।। काश्मरीपुष्पमधुकदार्व्वीलोध्रसाञ्जनैः। सक्षौद्रमञ्जनन्तद्वद्धितं नेत्रामये सदा।। स्रोतोजं सैन्धवं कृष्णां रेणुकाञ्चापि पेषयेत्। अजमूत्रेण ता वत्त्यःक्षणदान्ध्याञ्जने हिताः।। कालानुसारिवां कृष्णां नागरं मधुकं तथा। तालीशपत्रं क्षणदे गाङ्गेयञ्च शकृद्रसे।। कृतास्ता वर्त्तयः पिष्ट्वाछायाशुष्काः सुखावहाः। मनःशिलाभयाव्योषबलाकालानुसारिवाः।। सफेना वर्त्तयः पिष्टाश्छागक्षीरसमन्विताः। गोमूत्रपित्तमदिराशकृद्धात्रीरसे पचेत्।। क्षुद्राञ्जनं रसे चान्यद्यकृतस्त्रैफलेऽपि वा। गोमूत्राज्याणवमलपिप्पलीक्षौद्रकट्फलम्।। सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे। मेदोयकृद्घृतञ्छागं पिप्पल्यः सैन्धवं मधु।। रसमामलकञ्चापि पक्कं सम्यङ्निधापयेत्। कोशे खदिरनिर्म्माणे तद्वत्क्षुद्राञ्जनं हितम्।। हरेणुमगधाजास्थिमज्जैलायकृदन्वितम्। शकृद्रसेनाञ्जनं वा श्लेष्मप्रहतदृष्टये।। विपाच्य गोधायकृदर्द्धपाटितं सुपूरितं मागधिकाभिरग्निना। निषेवितं तत्सकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु।। तथा यकृच्छागभवं हुताशने विपाच्य सम्यग्मगधासमन्वितम्। प्रयोजितं पूर्ब्बवदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनन्नृणाम्।। प्लीहा यकृच्चाप्यपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुतम्। ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते। नदीजशिम्बीकटुकान्यथाञ्जनम्मनःशिला द्वे च निशे यकृ- द्रसे। स चन्दनेयं गुटिकाथ वाञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम्” इति।। सौवीरे, रसाञ्जने च। अञ्जनवर्णोऽस्त्यस्य। अर्श० अच्। ज्येष्ठदिग्गजे पु० उत्तरदिग्गजयोषिति केशरियोषिति वानर्य्याञ्च स्त्री। “अञ्जनागर्भसम्भूतो वायुपुत्त्रो महाबल इति” तन्त्रम्। भावे ल्युट्। मिश्रीकरणे, लेपने व्यक्तिकरणे मालिन्ये च न० “निरञ्जनं दिव्यमुपैति साम्यमिति” निरवद्यं निरञ्जनमिति” च श्रुतिः। अञ्जणिच्–युच्। शक्यलक्ष्यार्थातिरिक्तार्थबोधके आलङ्कारिकोक्ते व्यञ्जनावृत्तिरूपे शब्दशक्तिभेदे स्त्री० “अन्यार्थधीकृत् व्यापृतिरञ्जनेति” काव्यप्रकाशः। तत एव भावे ल्युट् तत्रवार्थे न०।

अञ्जनकेशो = स्त्री अञ्जनमिव केशो यस्याः ५ त०। केशसंस्कारके हट्टविलासिनीनामके ग्रन्धद्रव्ये। यत्संयोगात् केशस्यातीव कृष्णता स्यात्।

अञ्जनशलाका = स्त्री अञ्जनसाधनं शलाका। अञ्जन दानाथ शालाकायाम् “ज्ञानाञ्जनशलाकयेति” गुरुनतिः।

अञ्जनागिरि = पु० अञ्जनवर्णो गिरिः किंशुका० दीर्घः। नीलपर्वते तद्विवरणं नीलगिरिशब्दे।

अञ्जनाद्रि = पु० अञ्जनमिव कृष्णः अद्रिः। नीलपर्वते “अञ्जनाद्रिनिभां श्यामामिति” कालीध्यानम्।

अञ्जनाधिका = स्त्री अञ्जनादधिका कृष्णत्वात् ५ त०। (आजनाइ) इति ख्याते कीटभेदे।

अञ्जनावती = स्त्री अञ्जनं विद्यतेऽस्याः अधिककृष्णवणत्वात् अञ्जन + मतुप् वत्वं दीर्घः। ईशानकीणस्य हस्तिन्याम्। कालाञ्जनवृक्षे पु०।

अञ्जनिका = स्त्री अञ्जनवर्णोऽस्त्यस्याः ठन् कापि पूर्ब्बाकारस्य इत्त्वम्। (आजनाइ) इति प्रसिद्धे अञ्जनाख्ये कीटभेदे। अञ्जना स्वार्थे कन्। प्रतीकदिग्गजस्त्रियाम्। पुरोहि० यक्। आञ्जनिक्यम् तद्भावे न०।

अञ्जनी = स्त्री अज्यते चन्दनकुङ्कुमादिभिरसौ अनज–कर्म्मणि ल्युट् ङीप्। कुङ्कुमाद्यनुलिप्तायाम् स्त्रियाम्। करणे ल्युट्। कटुकावृक्षे, कालाञ्ज नवृक्षे च। “अञ्जनीदारुकाष्ठमयस्तम्भः मैत्रावरुणः” इति याज्ञिकाः न्याय्यायां स्त्रियाञ्च।

अञ्जलि = पु० अन्ज–अलि। संयुतकरपुटे, “श्रवणञ्जलिपुटपेयमिति वेणी०। “न्यायप्रसूनाञ्जलिरिति” उदयनः कुडवपरिमाणे च अञ्जलिपरिमितद्रव्येच “प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयमिति” वेणी०।

अञ्जलिका = स्त्री अञ्जलिरिव कायति प्रकाशते कै–क टाप्। बालमूषिकायाम्।

अञ्जस् = न० अनक्ति गच्छति मिश्रयति वाऽनेन अन्जु–गतौ मिश्रणे च असुन्। वेगे, बले, औचित्ये च। “अञ्जस उपसंख्यानमिति” वार्त्तिकात् तृतीयायाः अलुक्। अञ्जसाकृतम्। “अञ्जः समुद्रमपजग्मुराप” इति वेदः।

अञ्जस = त्रि० अन्ज–असच्। सरले अबक्रे।

अञ्जसा = अव्य० अन्ज–भावे अच् अञ्जं गतिं विलम्बं वा स्यति सो–बा० का। विलम्बाक्षमे, शैघ्र्ये, याथार्थ्ये च। “रसोऽञ्जसा शासता रज” इति वेदः।

अञ्जि = पु० अज्यतेऽनेन अन्ज–करणे इन्। तिलकादौ चिह्ने “अग्नयेऽनीकवते रोहिताञ्जिरनड्वानिति” य० रोहितो रक्तोऽञ्जिस्तिलकोऽस्येति वेददीपः। “तस्मै दन्ताञ्जये इति” भवदेवे वेदमन्त्रः।

अञ्जिष्ठ(ष्णु) = पु० अनक्ति स्वभाभिर्विश्वस्। अन्ज–इष्ठ–(ष्णु)च। सूर्य्ये।

अञ्जी = स्त्री० अञ्जि + वा ङीप्। पेषणयन्त्रे, मङ्गले च।

अञ्जीर = पु० अन्ज–बा० ईरन् (पेयारा) इति ख्याते वृक्षे।

अट = गतौ भ्वादि० सक० पर० सेट्। अटति आटीत्। “भो वटी भिक्षामटेति” सि० कौ। परि + परितो भ्रमणे पर्य्यटन्।

अट = गगौ इदित् भ्वा० आत्म० सक० सेट्। आण्टते आण्टिष्ट।

अटनि(नी) = स्त्री अटति मौर्व्वीम् अट–अनि वा ङीप्। धनुरग्रे गुणारोपणस्थाने।

अटरु(रू)ष = पु० अटति भ्रमति अट–अच् तं रोषति हिनस्ति रुष–क, अटैः अटद्भिर्वा रूष्यते न युज्यते रूष–क वा। (वासक) इति ख्याते वृक्षे।

अटवि(वी) = स्त्री अटन्ति चरमे वयसि यत्र अट–अवि वा ङीप्। वने। विन्ध्याटवीति का० विन्ध्यगिरिसन्निकृष्ट प्रसिद्धवनम्। “कान्तारप्रदेशेष्वटवीषु चेति” रामा०।

अटा = स्त्री अट–बा० अङ्। पर्य्यटने।

अटाट्या = स्त्री अट–यङ्–भावे अ स्त्रीत्वात् टाप्। परिभ्रमणे, वृथागमने च। यङ्लुकि। अटाटाप्यत्र।

अट्ट = अतिक्रमे बधे च भ्वादि० आत्म० सक० सेट्। अट्टते। आट्टिष्ट। दोपधोऽयं तेन अट्टिटिषते आट्टिटत्। क्विपि अत्। टोपधस्य तु आटिट्टिषते अटिट्टत् क्विप् अट्।

अट्ट = अनादरे चुरादि० उभय० सक० सेट्। अट्टयति ते! आटिट्टत्।

अट्ट = पु० अट्टयति अनाद्रियतेऽन्यद्यत्र अट्ट–आधारे घञ्। प्रासादस्योपरिगृहे, प्राचीरोपरिस्थसैन्यगृहे, च यत्र स्थिता हि नरा अन्यान् हीनतया नाद्रियन्ते, यस्मिन् वसतश्च अन्योत्कर्षेऽनादरः। उच्चे भृशे च त्रि० अन्ने “अट्टशूला जनपदाः शिवशूलाश्चतुष्पथा” इति भार० “अट्टमन्नं शूल विक्रेयं येषामिति” नीलकण्ठः शुष्के च न०। क्षौमवस्त्रे प्रासादे च पु० “सुधाधवलाट्टहासेति” काद०। “ददृशे नगरी लङ्का साट्टप्राकारतोरणेति” रामा०। गृहशब्दे प्रासादलक्षणादि वक्ष्यते।

अट्टट्ट = अव्य० अट्टोऽनादरः अट्टप्रकारः अट्टस्य गुणवाचितया प्रकारे द्वित्वम् शकन्ध्वादि० पररूपम्। अत्युच्चे, “अट्टट्ट हासमशिवं शिवदूती चकार हेति” चण्डी

अट्टन = न० अट्ट्यतेऽनाद्रियते रिपुरनेन अट्ट–करणे ल्युट्। चक्राकारफलकास्त्रे। भावे ल्युट्। अनादरे न०।

अट्टस्थली = स्त्री अट्टप्रधाना स्थली शा० त०। प्रासादप्रधाने देशभेदे धूमा० बुञ्। आट्टस्थलकः तद्देशभवे त्रि०।

अट्टहास = पु० अट्टेनातिशयेन हासः हस–घञ् ३ त०। उच्चहासे।

अट्टहासक = पु० अट्टहास इव कायति कै–क। कुन्दवृक्षे तस्य शुभ्रपुष्पत्वात् उच्चहासतुल्यत्वम्।

अट्टहासिन् = पु० अट्टमुच्चैर्हसति हस–णिनि। शिवे। उच्चहासिनि त्रि०।

अट्टाट्ट = पु० अट्टट्टवत् न पररूपम्। अत्युच्चे सर्व्वोत्कर्षे अनादराधिक्ये।

अट्टालक = पु० अट्ट इव प्रासादगृहमिव अलति पर्य्याप्तो भवति अल–अच्। प्रासादोपरिस्थे गृहे। स्वार्थे कन्। तत्रार्थे “गोपुराट्टालकवतीं हर्म्यप्राकारशोभनामिति” रा०।

अट्टालिका = स्त्री अट्टाल + स्यार्थे कन्। इष्टकादिनिर्मिते राजगृहे।

अट्टालिकाकार = पु० अट्टालिकां करोति रचयति कृ–अण् उप०। (राज) प्रासादकारके “कुलटायां च शूद्रायां चित्रकारस्य वीर्य्यतः। भवेदट्टालिकाकारः पतितो जारदोषत” इत्युक्ते सङ्कीर्णजातिभेदे।

अठ = गतौ भ्वादि० पर० सक० सेट्। अठति। आठीत्।

अठ = गतौ इदित् आ० भ्वादि० सक० सेट्। अण्ठते। आण्ठिष्ट।

अड = अद्यमे भ्वादि० पर० सक० सेट्। अडति आडीत्।

अड = व्याप्तौ स्वादि० पर० अक० सेट्। येद एवास्य प्रयोगः। अड्णोति। आडीत्।

अड्ड = अभियोगे, समाधाने च भ्वादि० पर० सक० सेट्। अड्डति। आड्डीत्। दोधपधोऽयम् अड्डिडिषति आड्डिडत्। क्विप् अत्। डोपधस्य तु आडिड्डिषति आडिड्डत् अट्

अण = शब्दे भ्वादि० पर० अक० सेट्। अणति। आणीत्।

अण = जीवने दिवा० आत्म० अक० सेट्। अण्यते आणिष्ट।

अण(न)क = त्रि० अणति यथेच्छम् नदति अण–अच् ततः कुत्सायाम् क। अधमे, निन्दिते च। “पापाणके कुत्सितैरिति पा०”। अणक कुलालः सि० कौ०। दन्त्यमध्यश्चायमित्यन्ये।

अणव्य = त्रि० अणोः सूक्ष्मशस्य चीनादिकस्य भवनं क्षेत्रम् अणु + यत्। चीनकादिसमुत्पत्तियोग्ये (सुनाभूभि) क्षेत्रे।

अणि = पु० स्त्री अणति शब्दायते अण–इन्। (आरा) इति ख्याते रथचक्राग्रस्थिते कीलके, सूच्याद्यग्रभागे च। स्त्रीत्वे वा ङीप्। अत्र आदेर्दीर्घतापीष्यते। तेन आणिः आणी।

अणिमन् = पु० अणोर्भावः अणु + इमनिच्। सूक्ष्मत्वे सूक्ष्मपरिमाणे, ऐश्वर्य्यभेदे च यद्वशात् सूक्ष्मीभूय सर्व्वत्र गन्तुं शक्नोति। ऐश्वर्य्याणि च। “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वञ्च तथा कामावसायिता” इत्युक्तानि। एतेषां स्वरूपाणि ऐश्वर्य्यपदार्थनिरूपणे वक्ष्यन्ते। “यथा केशः सहस्रधा भिन्नस्तावताणिम्नेति” वेदः।

अणिष्ठ = त्रि० अतिशयेन अणु–इष्ठन्। अणुतरे अतिसूक्ष्मे। “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं, यन्मध्यस्तन्मासं, योऽणिष्ठस्तन्मन” इति छा० उ०।

अणीमाण्डव्य = पु० अणी शूलाग्रं तच्चिह्नितः माण्डव्यः। तन्नामके मुनिभेदे। तस्य तत्प्रोतत्वकथा भार० आ० प०। “बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः। धृतिमान् सर्व्वधर्म्मज्ञः सत्ये तपसि च स्थितः।। स आश्रमपदद्वारि वृक्षमूले महातपाः। ऊर्द्ध्वबाहुर्म्महायोगी तस्थौ मौनब्रतान्वितः।। तस्य कालेन महता तस्मिंस्तपसि वर्त्ततः। तमाश्रमपदं प्राप्रा दस्यवो लोप्त्रहारिणः।। अनुसार्य्यमाणा बहुभी रक्षिभिर्भरतर्षभ!। ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम!। निधाय च भयाल्लीनास्तत्रैवानागते बले।। तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्। आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः। तमपृच्छं स्वतो राजंस्तथावृत्तं तपोधनम्। कतमेन पथा याता दस्यवो द्विजसत्तम!। तेन गच्छामहे ब्रह्मन्! पथा शीघ्रतरं वयम्।। तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः। न किञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा।। ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्। ददृशुस्तत्र लीनास्तांश्चौरां स्तद्द्र व्यमेव च।। ततः शङ्का समभवद्नक्षिणां तं मुनिं प्रति। संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्।। तं राजा सह तैश्चौरैरन्वशाद्बध्यतामिति। स रक्षिभिस्तैरज्ञातः शूले प्रोतो महायशाः।। ततस्ते शूल आरोप्य तं मुनिं रक्षिण स्तदा। प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ।। शूलस्थः स तु धर्म्मात्मा कालेन महता ततः। निराहारोऽपि विप्रर्षिर्म्मरणं नाभ्यपद्यत। धारयामास च प्राणानृषींश्च समुपानयत्।। शूलाग्रे तप्यमानेन तपस्तेन महात्मना। सन्तापं परमं जग्मुर्म्मुनयस्तपसान्विताः।। ते रात्रौ शकुना भूत्वा सन्निपत्य तु भारत!। दर्शयन्तो यथाशक्ति तमपृच्छन् द्विजोत्तमम्।। श्रोतुमिच्छामहे ब्रह्मन्! किं पापं कृतवानसि। येनेह समनुप्राप्तं शूले दुःखभयं महत्।। वैशम्पायन् उवाच। ततः स मुनिशार्दूलस्तानुवाच तपोधनान्। दोपतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति।। तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि। न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप!।। श्रुत्वा च वचनं तेषां निश्चित्य सह बन्धुभिः। प्रसादयामास तदा शूलस्थमृषिसत्तमम्।। राजोवाच। यन्मयापकृतं मोहादज्ञानादृषिसत्तम!। प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि।। एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः। कृतप्रसादं राजा तं ततः समवतारयत्।। अवतार्य्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह। अशन्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे।। स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः। तेनातितपसा लोकान् विजिग्ये दुर्लभान् परैः। अणीमाण्डव्य इति च ततो लोकेषु गीयते” इति।।

अणीयस् = त्रि० अतिशयेन अणुः अणु + ईयसुन्। अणुतरे अतिसूक्ष्मे “अणीरणीयान् महतो महीयान् इति” श्रुतिः। स्त्रियां ङीप्।

अणु = त्रि० अण–उन्। क्षुद्रे, सूक्ष्मपरिमाणवति, द्रव्ये, लेशे च। (चिना, काङनी, श्यामा) प्रभृति सूक्ष्मधान्ये पु०। “अनणुषु दशमांशोऽणुष्वथैकादशांश” इति लीला०। अणुशब्दोहि परिमाणविशेषवाची। तत्र परिमाणस्य चतस्रोविधा स्थृलसूक्ष्मदीर्घह्रस्वत्वरूपाः “अथादेशोनेतिनेति” इत्युपक्रम्य “अस्थूलमनण्वह्रस्वमदीर्घमित्यादि” श्रुत्या चतुर्विधपरिमाणस्यैव ब्रह्मणि निषेधेन परिमाणचातुर्विध्यलाभः एतन्मूलकमेव शारीरकभाष्ये, वैशेषिकसूत्रे, न्यायकदल्याञ्च उक्तभेदमादायैव परिमाणचातुर्विध्यमुक्तम्। तत्रारम्भकद्रव्यभूयस्त्वाभूयस्त्वाभ्यां स्थूलसूक्ष्मत्वे ह्रस्वदीर्घत्वे तु तत्तच्छब्दे वक्ष्येते। एवञ्च सूक्ष्मपदार्थे आरम्भकाल्प- त्वात् अणुत्व यत्र चारम्भकद्रव्यान्तरं नास्ति स तादृशपरिमाणवत्त्वात् परमाणुरित्युच्यते। एवञ्च अणुशब्दस्य शुक्लादिशब्दवत् अणुत्वपरिमाणविशिष्टद्रव्यवाचकत्वम्। अणुत्वञ्च सूक्ष्मत्वम् अतिसूक्ष्मत्वञ्च। तत्र सूक्ष्मपरत्वेन सर्षपचीनकादिद्रव्याणामारम्भकद्रव्याल्पत्वात् तत्र प्रवृत्तिः। तदभिप्रायेणैव “अनणुषु दशमांशोऽणुष्यथैकादशांश” इति लीला०। श्रुतौ च “अणोरणीयानिति” निर्द्देशः। अतिसूक्ष्मपरत्वे च “नित्या स्यादणु लक्षणेति” भाषा० तस्य नित्यत्वञ्च आरम्भकावयवा भावात् “अनित्या च भवेदन्या सैवावयवयोगिनीति” भाषापरिच्छेदेऽवयवयोगेनैवानित्यत्वकथनात् परमाणोस्तदभावेनैव नित्यत्वं भङ्क्योक्तमिति नैयायिकाः। वेदान्तिनस्तु सूक्ष्मभूतानामपि ब्रह्मण उत्पत्तिमुररीचक्रुः। यथा च एतन्मतयीः युक्तायुक्तत्वे तथा आरम्भवादशब्दे वक्ष्यते। सूक्ष्मार्थग्राहित्वेन अणुबुद्धिरित्यादौ, अणुर्जीव इत्यादौ च दुर्ज्ञेयत्वेन तत्रैतस्य भाक्तत्वम्। एवञ्च अणुत्वपरिमाणरूपगुणमादाय तद्वत्येवास्य प्रवृत्तिः तेन तत्र त्रि० स्त्रियान्तु गुणवचनतया वा ङीप्। अण्वी। “अण्व्योमात्राविनाशिन्यो दशार्द्धानाञ्च यः स्मृता इति मनुः। “अस्थूलमनणु इत्यादि” श्रुतिः अत्र नञ्तत्पुरुष समासनिष्पन्नस्य अनणुशब्दस्य “परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति” पाणिन्युक्तेः परवल्लिङ्गत्वेन अणुशब्दस्यापि नपुंसकत्व मित्यवसीयते। अधिकं परमाणुशब्दे वक्ष्यते।

अणुक = त्रि० अणुप्रकारः अणु–स्थूला० कन्। अणुप्रकारे स्वार्थे कन्। अणुशब्दार्थे चीनकादिधान्ये पु०।

अणुत्व = न० अणोर्भावः। अणुपरिमाणे।

अणुधर्म्म = पु० अणुः सूक्ष्मो दुर्विज्ञेयो धर्म्मः। “दुर्बोधे धर्म्मे “नहि सुबोधीप्यणुरेष धर्म्म इति” पुरा०।

अणुभा = स्त्री अण्वी सूक्ष्मा भा दीप्तिर्यस्याः ब०। विद्युति।

अणुमात्र = त्रि० अणुः परिमाणमस्य अणु + मात्रच्। अल्पपरिमाणे “स अणुमात्रेण न संबध्यते” इति शारीरकभा०।

अणुरेवती = स्त्री अणुः सूक्ष्मा रेवती तारेव। दन्तिवृक्षे।

अणुवीक्षण = न० अणुः सूक्ष्मो वीक्ष्यतेऽनेन करणे ल्युट्। सूक्ष्मपदार्थदर्शनसाधने यन्त्रभेदे, भावे ल्युट्। सूक्ष्मपदार्थालोचने न०।

अणुव्रीहि = पु० कर्म०। सूक्ष्मधान्ये श्यामादौ चीनकादौ च।

अण्ड = न० अमन्ति संप्रयोगं यान्ति अनेन अम–ड टवर्गादि- त्वेऽपि डस्य नेत्त्वम्। पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे, “तदण्डमभवद्धैमं सहस्रांशुसमप्रभमिति” मनुः। “ब्रह्माण्डभाण्डोदरभ्राम्यदिति” वीर०। वीर्य्ये च। स्वार्थे कन्। तत्रैव। अस्मिन् कुक्कुट्यादीनां पुंवत्। कुक्कुटाण्डम्।

अण्डकटाह = न० अण्डं ब्रह्माण्डं कटाहमिव प्राणिजातकृतकर्मपाकसाधनत्वात्। शुभाशुभकर्मपाकसाधने ब्रह्माण्ड गोलके। “तद्ब्रह्माण्डकटाहसंपुटतटे” इति सि० शि० गो०।

अण्डकोटरपुष्पी = स्त्री० अण्डमिव कोटरे मध्ये पुष्पं यस्याः जातित्वात् ङीप्। नीलवुह्नावृक्षे।

अण्डकोष(श) = पु० अण्डस्य मुष्कस्य कोष(शः) इवावरकत्वात्। अण्डाकारे चर्म्मावृते पुंचिह्नभेदे।

अण्डज = पु० अण्डात् डिम्बात् जायते जन–ड। अण्डजाते पक्षिणि, सर्पे, मत्स्ये, (कांकलास) इति ख्याते कृकलासे च। अण्डजातमात्रे त्रि०। मृगनाभिकस्तूर्य्यान्तु स्त्री “अण्डजास्तु पक्षिणः सर्पा नक्रा मत्स्याः कच्छपा” इत्यादयः सर्व्व एवाण्डजातत्वात् “अण्डजाः। तेषामुत्पत्तिप्रकारः पदार्थादर्शे दर्शितो यथा “अण्डतो वर्त्तुलीभूताच्छुक्रशोणितसंयुतात् कालेन भिन्नात् पूर्ण्णात्मा निर्गच्छन् प्रक्रमिष्यतीति”। अण्डजातादयोऽप्यत्र।

अण्डालु = पु० अण्डः अस्त्यस्य अण्ड + आलुच्। डिम्बविशिष्टे मत्स्ये।

अण्डिर = पु० अण्डः पुमवयवभेदः अस्यास्तीति अण्ड–ईरन्। विशिष्टसामार्थ्यवति पुरुषे, समर्थे च।

अत = वन्धने इदित् भ्वा० पर० सक० सेट्। अन्तति। आन्तीत् “समन्तति कपोत इव गतधिमिति” वेदः।

अत = बन्धने भ्वादि० पर० सक० सेट्। अतति। आतीत्।

अत = प्रापणे, सातत्ये, गतौ च भ्वादि० पर० सक० सेट्। अतति। आतीत्। क्त अतितः। इन् (पदातिः) “अतिथिरभ्यतति गृहान् प्रति” इति वेदः।

अत् = अव्य० अत–क्विप्। आश्चर्य्ये। ऊर्य्यादि०। अद्भुतम्।

अतक = पु० अतति सततं गच्छति अत–कन्। पथिके।

अतट = पु० तट्यते आहन्यतेऽम्भसा इति तटं जलाधातस्थानं तन्नास्ति यस्य ब०। (आडरीरि) प्रसिद्धे आलम्बनस्थानशून्ये, “मनोरथानामतटप्रपाताः” इति। पर्व्वताद्युच्चस्थाने, भूमेरधोभागे च।

अतथोचित = त्रि० न तथारूपमुचितं यस्य। यस्य यद्रूपमुचितं तद्विरोधिरूपापन्ने।

अतद्गुण = पु० “तद्रू पाननुहारस्तु हेतौ सत्यप्यतद्गुण इति” दर्पणोक्ते अर्थालङ्कारभेदे, “हन्त सान्द्रेण रागेण भृतेऽपि हृदये मम। गुणगौर! निषण्णोऽपि कथं? नाम न रज्यसीति। अत्रातिरक्तहृदयसंबन्धात् उचितमपि रक्तत्वं न निष्पन्नमिति हेतुसद्भावेऽपि तद्रूपाननुहरणात्तथात्वम्।

अतद्गुणसंविज्ञान = पु० न तस्य गुणीभूतस्य सम्यक् ज्ञानं यत्र। शाब्दिकोक्ते बहुव्रीहिभेदे। यथा लब्धकर्ण्णमादायेत्यादौ गुणीभूतकर्ण्णादेरपि धर्म्मिद्वारा आनयनेऽन्वयस्तथा दृष्टसमुद्रमानयेत्यादौ गुणीभूतस्य समुद्रस्य नानयनेऽन्वयः इत्यतः लम्बकर्ण्णैत्यादिस्तद्गुणसंविज्ञानः दृष्टसमुद्र इत्यादिश्च अतद्गुणसंविज्ञानः बहुव्रीहिरिति भेदः। एवमुदाहरणान्तराणि ज्ञेयानि।

अतन्त्र = त्रि० न तन्त्रं कारणं तदधीना विवक्षा वा यस्य। कारणानधीने विवक्षाशून्ये च। “ह्रस्वग्रहणमतन्त्रमिति” सिद्धान्तकौ०।

अतन्द्र = त्रि० नास्ति तन्द्रा निद्रा, तत्सदृशम् आलस्यं वा यस्य। निद्रारहिते, अनलसे च।

अतन्द्रित = त्रि० तन्द्रा जाताऽस्य तार० इतच् न० त०। अजातनिद्रे अनलसे च “अतन्द्रिता सा स्वयमेव वृक्षकान्” इति कुमा०।

अतप्ततनु(नू) = त्रि० न तप्ता पयोव्रतादिना तनुरस्य। पयोव्रतादिना देहकार्श्यकारके। दीर्घान्तपाठोप्यत्रैव “विश्वतोऽतप्ततनूर्न तदाम” इति ता० ब्रा०। न तप्ता तप्तमुद्रया तनुरस्य। तप्तमुद्रया अकृतचिह्ने त्रि० “नातप्ततनुरिति” श्रुति स्तत्परतयैव वैष्णवैर्व्याख्याता।

अतर्क = त्रि० तर्क्यतेऽनेन तर्कस्तर्कहेतुः स नास्ति यस्य। निर्हेतुके, तर्कहीने च।

अतर्कित = त्रि० न तर्कितम्। तर्कहेतुव्यापारानुसन्धानेन हठादागते, अनुमितभिन्ने च। “अतर्कितमुपस्थितमिति” पुरा०।

अतल = न० अस्य भूखण्डस्य तलं पृषो० इदमोऽत्त्वम्। मप्तपातालमध्ये प्रथमखण्डे भूमेरधोभागे। तल्लोकाश्च सप्त, अतल, वितल, सुतल, तलातल, महातल, रसातल, पातालसंज्ञका अधोधस्तिष्ठन्ति तेषां निवेशस्थानञ्च “स्वादूदकान्तर्वडयानलोऽसौ पाताललोकाः पृठिवीपुटानीति” सि० शि गो० उक्तम्। विशेषस्तत्तच्छब्दे वक्ष्यते। तलशून्ये त्रि० नास्ति तलः प्रतिष्ठा यस्य। अप्रतिष्ठे त्रि०।

अतलस्पर्श = त्रि० न तलस्याघोभागस्य स्पर्शो यत्र व०। अतिगभीरे।

अतलस्पृश् = त्रि० न तले स्पृश्यते कर्म्मणि क्विन्। अगाधे।

अतस् = अव्य० इदम् + तसिल्। एतद्धेतुकार्थे “अथातो ब्रह्म जिज्ञासेति” सूत्रे अतःशब्दो हेत्वर्थ इति भाष्यम्। “अथातो धर्म्मजिज्ञासेति” जै०। “अतश्चराचरं विश्वमिति” कुभा०।

अतस = पु० अत–गतौ असच्। वाते। सातत्यार्थकात् अतः असच्, आत्मनि। गौरादित्वात् ङीषि अतसी। (तिसि, मसिना) इति ख्याते वृक्षे स्त्री। “तस्यातसीसूनसमानभास” इति माघः। “अतसीपुष्पवर्णाभेति” दुर्गाध्याने अतसी शण इति स्मार्त्तोक्तेः शणवृक्षे च। तत्सूत्रजाते क्षौमवस्त्रे न०।

अति = अव्य० अत–इ। पूजायाम्, उत्कर्षे, अतिक्रमणे, च। स्वभावोह्यतिरिच्यते “तेषु हार्दी तथाप्यतीति” चण्डी०। तत्पुरुषपूर्ब्बपदस्थः अतिक्रान्तार्थे “अत्यादयः क्रान्ताद्यर्थे द्वितीययेति” वा०। अतिराजी अतिश्वी। उत्कर्षार्थे कुगतिप्रादयश्चेति समासे अतिधनमतिबलमिति। “विक्रमातिक्रमाबुद्धिभृशार्थातिशयेष्वतीति” गणरत्नोक्तेश्च विक्रमादिषु तत्र, विक्रमे अतिरथः, (रथाधिकविक्रमवान्) अतिक्रमे, अतिमति (बुद्ध्यतिक्रमः) अबुद्धौ अतिगहनम् (बुद्धेरविषयः) भृशे अतितप्तम् (भृशतप्तम्) अतिशये अतिवेगः (अतिशयितो वेगः) एवमन्यान्यप्युदाहार्य्याणि। अस्य क्रियायोगे उपसर्गता अतिक्रमे पूजायाञ्च कर्म्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीयादि तत्रातिक्रमे राजानमति, पूजायाम् अतिस्तुतमित्यादौ उपसर्गत्वबाधान्न षत्वम्।

अतिकथ = त्रि० अतिक्रान्तः कथाम्। कथनायोग्ये, अश्रद्धेये, नष्टे च।

अतिकथा = स्त्री अत्युत्कटा कथा। अत्युत्कटवर्णने, व्यर्थभाषणे च।

अतिकन्दक = पु० अतिरिक्तः कन्दः यस्य कप्। हस्तिकन्दनामके वृक्षे।

अतिकर्षण = त्रि० अत्यन्तं कर्षति कृष–ल्यु। अत्यन्ततापदायके, अत्यन्ताकर्षके च।

अतिकश = त्रि० अतिक्रान्तः कशाम् तत्प्रहारमनादृत्य स्वेच्छानुसारेण प्रवृत्तत्वात् अत्या० त०। कशाप्रकारमुल्लङ्घ्य यथेच्छव्यापृते दुर्दान्ते अश्वे।

अतिकाय = त्रि० अत्युत्कटः कायोऽस्य। विकटदेहे, रावणपुत्रे राक्षसभेदे पु० तत्कथा लङ्काकाण्डे “चुकोप स महातेजा ब्रह्मदत्तवरो विभुः अतिकायो महावीर्य्य” इत्युपक्रम्य “आच चक्षे महातेजा रामाय रावणानुजः। दशग्रीवो महातेजाः राजा वैश्रवणात्मजः। तस्य पुत्री ह्यसौ वीरो रावणप्रतिमोरणे इति” तस्य सामर्थ्ये विभीषणेन निवेदिते लक्ष्णणेन सह तस्य युद्धमासीत् तेन च तस्य शिरश्चिच्छिदे इति “तदातिकायस्य शिरो जहारेति” रामा० लङ्का०।

अतिकुल्व = त्रि० अति + कुल–व–किच्च। अतिलोमशे।

अतिकृच्छ्र = न० अतिक्रान्तं कृच्छ्रं प्रजापत्यं तदधिकदुःख- साध्यत्वात् “अत्यादयः क्रान्ताद्यर्थे द्वितीययेति” स०। द्वादशरात्रसाध्ये प्रायश्चित्तरूपे व्रतभेदे “एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ब्बवत्। त्र्यहञ्चोपवसेदन्त्य मतिकृच्छ्रं चरन् द्विजः इति” मनुः। “त्र्यहाणि त्रीणि नवाहानि पूर्ब्बवत् प्रातःसायमयाचितैः प्राजापत्यवदिति” रघुनन्दनः। प्रजापत्ये हि “त्र्यहं प्रातस्त्र्यहं सायं, त्र्यहमद्यादयाचितमिति” मनुनैव प्रातःकालादौ भक्षणमुक्तं पूर्ब्बवदित्यनेन तद्धर्म्मातिदेशः। अस्य पुंलिङ्गत्वमपि “अतिकृच्छ्रः पर्ण्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छक” इति विश्वामित्रवचने पुंस्त्वनिर्देशात्। “अवगुर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने इति” मनुः। अतिशयितं कृच्छ्रं प्रा० स०। अतिकष्टे। तद्वति त्रि०।

अतिकृत = त्रि० मर्य्यादातिक्रमेण कृतम्। मर्य्यादातिक्रमेण कृते पदार्थे “सर्व्वत्रातिकृतं लोके व्यसनायोपकल्पते” इति पुरा०।

अतिकृति = स्त्री अति + कृ–क्तिन्। मर्य्यातिक्रमेण करणे। अत्या० स०। वृत्तरत्नाकरोक्ते “तथातिकृतिरुत्कृतिरिति” पञ्चविंशत्यक्षरपादके वर्ण्णवृत्तभेदे।

अतिकेशर = पु० अतिरिक्तानि केशराण्यस्य ब०। कुब्जकवृक्षे।

अतिक्रम = पु० अति–क्रम–घञ् ह्रस्वः। उल्लङ्घने। अतिक्रान्तः क्रममिति अत्या० स०। लङ्घितक्रमे त्रि०। दुर् + अति + क्रम–कर्म्मणि खल्। दुःखेनातिक्रमणीये त्रि०। “कालो हि दुरतिक्रम” इति “स्वभावो दुरतिक्रम” इति च पुरा०। भावे ल्युट्। अतिक्रमणम् अत्रैव न०। भावे क्तिन्। अतिक्रान्तिरत्रार्थे स्त्री।

अतिक्रुद्ध = पु० प्रा० स०। “अष्टाविंशत्यक्षरोय एकत्रिंशदथापि वा। अतिक्रुद्धः स विज्ञेयो निन्दितः सर्व्वकर्म्मसु इति” तन्त्रोक्तमन्त्रभेदे। अतिकोपान्विते त्रि०।

अतिक्रूर = पु० प्रा० स०। “क्रूरा वक्रा अतिक्रूरा” इति ज्योतिषपरिभाषिते” वक्रगत्यापन्ने भौमशनिरूपक्रूरग्रहे। अत्यन्तक्रूरे त्रि०। “त्रिंशदक्षरको मन्त्रस्त्रयस्त्रिन्दशदथापि वा। अतिक्रृरः स विज्ञेयो निन्दितः सर्व्वकर्म्मसु” इति तन्त्रोक्तेमन्त्रभेदे पु०।

अतिगण्ड = पु० अत्या० स० “अतिगण्डः सुकर्म्मा चेति” ज्योतिषपरिभाषिते विष्कुम्भावधि षष्ठेयोगे। “गण्डातिगण्डयोर्नाडीपञ्चकं परिवर्ज्जयेदिति” ज्यो० अतिवृद्धोगण्डोगलः। वृद्धगण्डे पु०। प्रा० ब०। अतिवृद्धगण्डवति त्रि०।

अतिगन्ध = पु० अतिशयितो गन्धो यस्य ब०। चम्पकवृक्षे। अतिशयितगन्धवति त्रि०।

अतिगन्धालु = पु० अतिगन्ध + मत्वर्थे आलुच्। पुत्त्रदातृलता याम् राजनिघ०।

अतिगर्वित = त्रि० अत्यन्तं गर्वितः। अत्यन्तगर्व्वयुक्ते अत्यभिमानिनि गर्वश्च आत्मनि असतो गुणादेरुत्कर्षाभिमानः तस्यात्यन्तत्वमन्यस्मिन् अपकर्षज्ञानपूर्ब्बकत्वम्।

अतिगव = त्रि० अतिक्रान्तो गां बुद्ध्या षच्समा०। अत्यन्तमूर्खे अतिक्रान्तः गां वाचम्। वाक्पथातीते अवर्णनीये च त्रि०।

अतिगह्वर = त्रि० अतिक्रान्तो गह्वरं दुर्बोधत्वेन प्रवेशायोग्यत्वात् अत्या० स०। दुर्बोधे अतिगहने।

अतिगुण = पु० अतिशयितो गुणः। अतिशयविनयदाक्षिण्यादौ। अतिक्रान्तो गुणम्। गुणहीने त्रि०। अतिशयिती गुणीऽस्य प्रा० ब०। उत्कृष्टगुणवति त्रि०।

अतिगुरु = पु० अतिशयितो गुरुः पूज्यतमत्वात् प्रा० स०। “त्रयः पुरुषस्यातिगुरवो भवन्ति पिता माताचार्य्यश्चेति” विष्णूक्ते पित्रादौ। अत्यन्तगुरुत्ववति पारदादौ द्रव्ये त्रि०। स्त्रियां वा ङीप्। अतिगुर्वी।

अतिगुहा = स्त्री अतिक्रान्तो गुहां मध्यावकाशेन। पृश्निपर्ण्याम्।

अतिग्रह = त्रि० अतिशयितः ग्रहो ज्ञानं, स्वस्वकार्य्यस्य ग्रहणं वा येषाम्। स्वस्वविषयग्राहकेषु नेत्रादिषु ज्ञानेन्द्रियेषु, आदानादिस्वस्वकार्य्यकारकेषु वागादिषु कर्म्मेन्त्रियेषु च। अतिक्रान्तो ग्रहम्। अत्यन्तदुर्बोधे त्रि०। अतिशयितो ग्रहो ज्ञानम्। सर्व्वथा सम्यग्ज्ञाने पु०। अतिग्रहणादयोऽप्युक्तार्थेषु।

अतिघ्नी = स्त्री अतिशयेन हन्ति दुःखं हन–टक्। दुःखासम्भिन्ने सुखावस्थाभेदे।

अतिचरा = स्त्री अतिक्रम्य स्वस्थानं सरोऽन्तरं चरति गच्छति चर–अच्। पद्मिन्याम्, तत्तुल्याकारवत्त्वात् स्थलपद्मिन्यां, पद्मचारिण्यां लतायाञ्च। अतिक्रमणकारिणि त्रि०।

अतिचारः = पु० अतिक्रम्य स्वस्वभोगकालमुल्लङ्घ्य चारः राश्यन्तरगमनम्। ज्योतिषोक्ते भौमादिपञ्चकस्य स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमने। अतिचारश्च ग्रहगतिशब्दे वक्ष्यमाणेन “रविर्मासं निशानाथः सपाददिवसद्वय” मित्यादिनोक्तभोगकालभेदोल्लङ्घनेन ग्रहाणां अतिशीघ्रगतया अल्पकालेनैव आक्रान्तराशिमुपभुज्य राश्यन्तरगमनम्। तच्च विस्तरेण ग्रहगतिशब्दे वक्ष्यते। “यदातिचारं सुरराजमन्त्रीति” “अतिचारं गते जीवे” इति “गोऽजालिकुम्भेतरगोऽतिचारम” इति च ज्योतिषम्। गुरोरतिचारे कालाशुद्धिश्च अकालशब्दे दर्शिता। अतिक्रम्य गमने च।

अतिचारिन् = त्रि० अति + चर–णिनि। पूर्ब्बोक्तातिचारवति ग्रहे। “अतिचारी यदा जीव” इति ज्योतिषम्। अतिक्रम्य अतिशयेन वा गन्तृमात्रे त्रि०।

अतिच्छत्र = पु० अतिक्रान्तश्छत्रम् तुल्याकारेण अत्या० स०। (छातिया) इति प्रसिद्धे स्थलतृणविशेषे, (तालमाखना) इति प्रसिद्धे जलतृणभेदे च। स्वार्थे कन्। अतिच्छत्रकोऽप्यत्रार्थे, छत्राकारपत्रपुष्पवति (सूल्फा) इति प्रसिद्धे शाकभेदे तु स्त्री। क्षीरस्वामिमते छत्रा इत्येव नाम। छत्रातिक्रमकारिणि त्रि०। अतिक्रमेऽव्ययी०। छत्रातिक्रमे अव्य०।

अतिच्छन्दस् = न० अतिक्रान्तः छन्दः वृत्तानुसारिवर्णविन्यासभेदम् अत्या० स०। उक्थादिछन्दोऽतिक्रमेण विन्यस्तेऽक्षरविन्यासभेदे “प्राजापत्या अच्छन्दस” इति “अच्छन्दसः शंसतीति” च वेदः। छन्दो वेदोऽभिप्रायो वा। तदतिक्रान्तरि वेदोक्तकर्म्महीने, अतिक्रान्ताभिप्राये च त्रि०।

अतिजगती = स्त्री अतिक्रान्ता जगतीं द्वादशाक्षरपादामेकाक्षराधिक्यात् अत्या० स०। त्रयोदशाक्षरपादके छन्दोभेदे। जगतीं भुवनमतिक्रान्तवति त्रि०। पुंसि क्लीवे च ह्रस्वात्तः।

अतिजव = त्रि० अतिशयितो जवोयस्य ब०। अतिवेगवति द्रुतगामिनि च। प्रा० स०। अतिशयितवेगे पु०। “सगरसन्ततिसन्तरणेच्छया प्रचलितातिजयेन” इत्युद्भटः।

अतिजागर = पु० अतिशयितो जागरो निद्राराहित्यं यस्य ब०। नीलवके पक्षिणि तस्य सर्व्वदा जागरूकत्वात्तत्त्वम्। निद्राराहित्यवति त्रि०।

अतिडीन = न० अतिक्रान्तं डीनं गतिभेदं अत्या० स०। पक्षिणाम् अतिदीर्घगमने।

अतित(मा)राम् = अव्य० अति + तर(म)प् आमु। अत्यन्ते “वेगवानतितरामायाति चेन्मारुत” इत्युद्भटः।

अतितार = त्रि० अतिशयितस्तारः। मुक्तादेरतिशयशुद्धौ “अतितारहारेति” कादम्ब०। अत्युच्चशब्दे पु० तद्वति त्रि०।

अतितीक्ष्ण = त्रि० अतिशयेन तीक्ष्णः कटुरसो यस्य ब०। मरीचादौ (सजना) इति प्रसिद्धे शोभाञ्जने पु०। अतितिग्मे पु०। तद्वति त्रि०।

अतिथि = पु० अतति गच्छति न तिष्ठति अत–इथिन्। अध्वयोगेन आगन्तुके गृहागते, “एकरात्रं हि निवसन् ह्यतिथिर्ब्राह्मणः स्मृतः। अनित्यास्य स्थितिर्यस्मात्तस्मादतिथिरुच्यते”। नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथेति विष्णु स०। तस्य च वैश्वदेवबलेः प्रागेव पूज्यता परत्र आहारदानमात्रं यथोक्तं मनुना “वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् तस्मा अन्नं यथाशक्ति प्रदद्यादिति” किन्तु तस्याप्यतिथित्वमेव यथोक्तं “प्रियो वा यदि द्वेष्यो मूर्खः पण्डित एव वा। संप्राप्तो वैश्वदेवान्ते विप्रः सोऽतिथिरिष्यते” इति स्मृत्या। अतिथिप्रतीक्षणञ्च मुहूर्त्ताष्टमभागपर्य्यन्तम्। “आचम्य च ततः कुर्य्यात् प्राज्ञो द्वारावलोकनम् मूहूर्त्तस्याष्टमं भागमुद्वीक्ष्योह्यतिथिर्भवेत्” इति मार्क०। विषये च तस्य इन्द्रियेषु संसर्गमात्रकाले एव चेतसि स्थितिर्नोत्तरकालमिति गतिरनुमीयते। “प्रथमं पथि लोचनातिथिमिति” नैष०।

अतिथिपूजा = स्त्री ६ त०। गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते नृयज्ञरूपेऽतिथिपूजने अतिथिसत्कारादयोऽप्यत्र।

अतिदान = न० अतिशयितं दानम् प्रा० स०। अत्युत्कटदाने “अतिदाने बलिर्बद्ध” इति नीति०।

अतिदिष्ट = त्रि० अति + दिश–क्त। अतिदेशविषये यथा “प्रकृतिवत् विकृतिः कर्त्तव्येति” वाक्येन प्रकृतीभूतदर्शयागादेरङ्गकार्य्याणि प्रयाजादीनि विकृतौ पश्वादियागेऽतिदिश्यन्ते। अतिदेशोनाम इतरधर्म्मस्य इतरस्मिन् प्रयोगाय आदेशः इति मीभांसायां स्थितम्।

अतिदीप्य = पु० अतिशयेन दीप्यते अति + दीप–छर्त्तरि यत्। रक्तचित्रके (लालचिता) इति ख्याते वृक्षे।

अतिदेव = पु० अतिक्रान्तोदेवान् अत्या० स०। सर्व्वदेवश्रेष्ठे रुद्रे “द्रावणाच्चातिदेव इति” वेदः।

अतिदेशः = पु० अतिक्रम्य स्वविषयमुल्लङ्घ्य अन्यत्र विषये देश उपदेशः अतिदिश्यते वा करणे कर्म्मणि वा घञ्। “अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्म्मसंहतेः। अन्यत्र कार्य्यतः–प्राप्तिरतिदेशः स उच्यते। प्राकृतात् कर्म्मणो यस्मात्तत्–समानेषु कर्म्मसु। धर्म्मप्रवेशो येन स्यादतिदेशः स उच्यते” इत्यधिकरणमालाधृताभियुक्तवाक्योक्ते अन्यत्रप्राप्तेऽन्यधर्म्मे तत्प्रापके शास्त्रभेदेच। यथा “प्रकृतिवत् विकृतिः कर्त्तव्येत्यादिः” स चातिदेशः पञ्चविधः शास्त्रातिदेशः, कार्य्यातिदेशः, निमित्तातिदेशः, व्यपदेशातिदेशः, रूपातिदेशश्च। एतस्य उदाहरणादिकमाकरे ज्ञेयम्। अतिदेशश्च प्रायेण इववदादिसादृश्यवाचकशब्देन यथा प्रकृतिवत् विकृतिरित्यादि अयञ्च वैदिककर्म्मणीव व्याकरणादिशास्त्रे, लौकिके व्यवहारे च विद्यते यथा “इण्वदिक, इत्यत्र व्याकरणे रूपातिदेशः” “कर्म्मणा कर्मवत्तुल्यक्रिय” इत्यादौ, पुंवदित्यादौ च कार्य्यातिदेशः, णिद्वदित्यादौ निमित्तातिदेशः, व्यपदेशिवद्भावैत्यादौ संज्ञाति- देश इत्येवं प्रकारा अतिदेशाःसन्ति।। लोके च गोसदृशोगवयैत्यादौ रूपातिदेशैत्यादि। अतएवोपमानरूपप्रमाणे अस्यातिदेशवाक्यस्य करणत्वं सहकारिभावोवेत्यादि तत्तच्छास्त्रकारैरङ्गीकृतम् अतिदेशेन निर्वृत्तम् ठक्। आतिदेशिकं त्रि०। “आतिदेशिकविधिरनित्य” इति परिभाषा।

अतिधन्वन् = पु० अत्युत्कृष्टं धनुर्यस्य प्रा० ब० धनुषोऽनङ्। उत्कुष्टधनुर्युक्ते योधे। धन्वा मरुः अत्या० स०। मरुस्थलातिक्रमकारिणि त्रि०।

अतिधृति = स्त्री अतिक्रान्ता धृतिम् अष्टादशाक्षरपादिकां वृत्तिमेकाक्षराधिक्यात् अत्या० स०। ऊनविंशत्यक्षरपादके छन्दोभेदे। धृतिर्धेर्य्यं सन्तोषो वा। तदतिक्रमकारिणि त्रि०।

अतिनु(नौ) = त्रि० अतिक्रान्तोनावम् अत्या० स० क्लीवे ह्रस्वः। नौकातिक्रमकारिणि। पुंसि स्त्रियां च अतिनौः।

अतिनिद्र = अव्य० निद्रा सम्प्रति न युज्यते अव्ययी०। निद्राया अयोग्यकाले। अतिक्रान्तो निद्राम् अत्या० स०। अतिक्रान्तनिद्रे निद्रारहिते त्रि०। अतिशयिता निद्राऽस्य। दीर्घनिद्रे त्रि०। प्रा० स०। दीर्घनिद्रायां स्त्री।

अतिपत्ति = स्त्री अति + पत–क्तिन्। अतिपतने, अतिक्रमे। “कालातिपत्तौ द्विगुणामिति” स्मृतिः। पदक्तिन् पत्तिर्निष्पत्तिः अत्या० स०। अनिष्पत्तौ स्त्री। “लिङ्निमित्ते ऌङ् क्रियातिपत्ताविति” पा०। क्रियातिपत्तिः क्रियाया अनिष्पत्तिरिति वृत्तिः। पत्तिं सेनामतिक्रान्ते त्रि०।

अतिपत्र = पु० अतिरिक्तं वृहत्पत्रमस्य। हस्तिकन्दवृक्षे।

अतिप(थ)थिन् = पु० अतिशयितः सुन्दरः पन्थाः प्रा० स० अतेः पूजार्थत्वात् न समा०। सत्पथे। अतीतपथे तु समा०।

अतिपद = त्रि० अतिक्रान्तः पदं चरणम्। वर्णवृत्तानुसारिपादातिक्रान्ते “अतिपदा गायत्री अतिपदा जगतीति”।

अतिपन्न = त्रि० अति + पद–क्त। अतिक्रान्ते। “तथातिपन्नशिशुसंस्काराश्चेति” मुहूर्त्तचि०।

अतिपरोक्ष = त्रि० अतिक्रान्तम् परोक्षम्। प्रत्यक्षे, तद्विषये च।

अतिपात = पु० अतिक्रम्य पातः गतिः अति + पत–घञ्। “अतिक्रमे “न चेत् कार्य्यातिपातः” इति शकु०।

अतिपातक = न० अतिक्रान्तोऽत्यन्तदुष्टत्वेनान्यत् पातकं अत्या० स०। पुंसां मातृस्नुषादुहितृगमनजन्ये, स्त्रीणाञ्च पुत्त्रपितृश्वशुरगमनजन्ये पातकविशेषे। “मातृगमनं, दुहितृगमनं, स्नुषागमनञ्चेत्यतिपातकानीति” “अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनमिति” “एतेष्वकृतप्राय- श्चित्ता अतिपातकिनः पर्य्यायेण कल्पं पच्यन्ते” इति च विष्णु स०। “सद्योऽग्निप्रवेशनतिपातकिन” इति हारीतः। “अथ नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्षणानि कुष्ठ्यतिपातकीति” विष्णुस०। पातकमतिक्रान्तवति पुण्यशीले त्रि०।

अतिप्रगे = अव्य० अतिप्रगीयतेऽस्मिन् काले अति + प्र + गै–के। अत्यन्तप्रातःकाले। “नातिप्रगे नातिसायं न निशीथे न चोषसीति” स्मृतिः।

अतिप्रमाण = त्रि० अतिक्रान्तः प्रमाणम् अत्या० स०। प्रमाणातिक्रान्ते यस्य यत्प्रमाणमुचितं ततोऽधिकप्रमाणवति। प्रा० स०। अत्यन्तप्रमाणे वृहत्प्रमाणे न०।

अतिप्रवृद्ध = त्रि० अत्यन्तं प्रमाणातिरेकेण प्रवृद्धम्। प्रमाणवतिरेकेण वृद्धिमति। अतिप्रवृद्धिश्च नद्यादेर्जलस्य तीराद्यतिक्रमेण, क्षत्त्रियादेः स्वकर्त्तव्यतामूढतया मर्य्यादाद्यतिक्रमेण वीर्य्याधिक्येन वा वृद्धिः “तस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति अनादर” इति। “अतिप्रवृद्धं प्रहितास्त्रवृष्टिभिरिति” रघुः।

अतिप्रश्न = पु० अतिक्रम्य मर्य्यादां प्रश्नः। मर्य्यादातिक्रमेण प्रश्ने सदुत्तरे जातेऽपि पुनर्जिज्ञासायाम्। यथा वृहदारण्यके याज्ञवल्क्यं प्रति वालाक्यतिप्रश्नः तत्र ब्रह्ममीमांसायाम् तेन कृतायामपि वृथातिप्रश्नकरणात् तस्य मुण्डपतनं सूर्य्यवरात् जातमिति वृहदारण्यकेऽनुसन्धेयम्।

अतिप्रसक्ति = स्त्री अति + प्र + सन्ज–क्तिन्। अत्यन्तासक्तौ, प्रमङ्गमतिक्रम्यान्यत्र सम्बन्धे अतिप्रसङ्गे च। लक्ष्येलक्षणसम्बन्धः प्रसङ्गः, अलक्ष्ये तत्सम्बन्धोऽतिप्रसङ्गः। “अतिप्रसक्त्यनापादकेति” जगदीशः।

अतिप्रसङ्ग = पु० अति + प्र + सन्ज घञ्। अतिप्रसक्तिपदार्थे। प्रसङ्गमतिक्रान्तवति त्रि०।

अतिप्रसिद्ध = त्रि० अति + प्र + सिध–क्त। अतिविख्याते सुभूषिते च।

अतिप्रौढा = स्त्री प्रकर्षेण उह्यतेऽत्र प्रौढः विवाहकालः प्रा० ब० अतिशयिता वा प्रौढा वृद्धियुक्ता। विवाहयोग्यकालायाम् अतिशयवृद्धियुक्तायाञ्च स्त्रियाम् स्त्रीणन्तु दशवर्षातीतकाल एव अतिप्रौढकालः। “अतिप्रौढा च या नारीति” स्मृतिः अतिप्रवृद्धे त्रि०।

अतिबल = त्रि० अतिशयितं बलं यस्याः ५ ब०। अत्यन्तबलाधायि कायां पीतवर्णायां (वेडियाला) इति ख्यातायां लतायां, विश्वामित्रेण रामाय दत्ते अस्त्रविद्याभेदे च स्त्री। यथा “गृहाण द्वे इमे विद्ये बलामतिबलां तथा। न ते श्रमो जरा वाभ्यां भविता नाङ्गवैकृतम्।। न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः। न च ते सदृशो राम! वीर्य्येणान्यो भविष्यति। सदेवनरनागेषु लोकेष्विह पुमांस्त्रिषु। न सौभाग्ये, न दाक्षिण्ये, न बुद्धिश्रु तिपौरुषे।। नोत्तरे प्रतिपत्तव्ये त्वत्तुल्यो वा भविष्यति। एतद्विद्याद्वयं प्राप्य यशश्चाव्ययमाप्स्यसि।। बलामतिवलां चैव ज्ञानविज्ञानमातरौ। क्षुत्पिपासे च ते राम। नात्यर्थं पीडयिष्यतः।। जयश्च दुर्गकान्तारप्रदेशेष्वटवीषु च। सारतां त्रिषु लोकेषु गमिष्यसि च राघव!।। पितामहसुते ह्येते विद्ये चायुर्बलावहे। पात्रं त्वमसि काकुत्स्थ! विद्ययोर्ग्रहणेऽनयोः।। स्वभावजैर्गुणैर्दिव्यैः कर्म्मजैर्बहुलैर्वृतः। भूयस्तव गुणोत्कर्षमेते विद्ये करिष्यतः।। ततो रामो जलं स्पृष्ट्वा प्राञ्जलिः प्रणतः स्थितः। प्रतिजग्राह ते विद्ये विश्वामित्रात् तपोधनादिति”। अतिशयितं बलम् प्रा० स०। अत्यन्ते बले, सामर्थ्ये, सैन्ये च न०। अतिरिक्तं बलमस्य। अत्यन्तबलयुक्ते त्रि० “जयत्यतिबलो रामो लक्ष्मणश्च महाबल” इति रामा०। अतिरथे च भारते अतिरथविषयएव, “एष ह्यतिबलोमत” इति भीष्मेण भूरिशः प्रयुक्तत्वात् बलकार्य्यत्वाच्च तस्य तथात्वम्।

अतिबाला = स्त्री अतिक्रान्तो बालं बाल्यावस्थाम्। द्विवर्षवयस्कायाम् “वर्षमात्रा तु बाला स्यादतिबाला द्विवार्षिकीति” स्मृत्युक्तायाम् गवि “अतिवृद्धामतिकृशामतिबालां च रोगिणाम् हत्वा चरेदिति” स्मृतिः। अत्यन्तबाले त्रि०।

अतिब्रह्मचर्य्य = पु० अतिक्रान्तो ब्रह्मचर्य्यम् अत्या० स०। स्त्रीसङ्गमकारिणि ब्रह्मचर्य्यत्यागिनि।

अतिभारः = पु० अत्यन्तोभारः गुरुत्वम् स्वकार्य्यकरणे क्षमताविशेषो वा। अत्यन्तगौरवे अत्यन्तभारे, “न चातिभारः समर्थानामिति”। अतिशये “सा मुक्तकण्ठं व्यसनातिभारात् चक्रन्द विग्ना कुररीव भूय” इति रघुः। वेगे च।

अतिभारग = पु० अतिभारेण वेगेन गच्छति गम–ड ३ त०। खरे अश्वतरे गर्द्दभाद्वडवाजाते अश्वभेदे।

अतिभी = स्त्री अतिबिभेत्यस्याः दर्शनात् अति + भी–क्विप्। वज्रज्वालायाम्। तद्दर्शने हि लोकानामतिभीतिर्लोकसिद्धा।

अतिभूमि = स्त्री अतिशयिता भूमिर्मर्य्यादा प्रा० स०। अतिमर्य्यादायाम्, आधिक्ये च। “प्राप्य मन्मथमदादतिभूमिं दुःसहस्तनभराः सुरतस्येति” माघः। अतिक्रमेऽघ्ययी०। मर्य्यादातिक्रमेऽव्य०। भूमिं मर्य्यादां वाऽतिक्रान्ते त्रि०।

अतिभोजन = न० अत्यन्तं मर्य्यादामतिक्रम्य भोजनम्। यस्य यावत् भोजनमुचितं तदतिक्रमेण भोजने।

अतिमङ्गल्य = पु० अतिमङ्गलाय हितम् अतिमङ्गल + यत्। विल्ववृक्षे। प्रा० ब०। अतिमङ्गलहिते त्रि०।

अतिमर्य्याद = अव्य०। अतिक्रमे अव्ययी०। मर्य्यादातिक्रमे। अतिक्रान्तो मर्य्यादाम् अत्या० स०। मर्य्यादामतिक्रान्तवति। यस्य वस्तुनः यावती सीमा तदतिक्रान्ते निर्मर्य्यादे त्रि०।

अतिमात्र = त्रि० अतिक्रान्तो मात्रामल्पं अत्या० स०। अतिशयिते, मात्रातिक्रमकर्त्तरि च। अतिशयिता मात्रा प्रमाणमस्य। भृशार्थे त्रि०। “मुनिव्रतैस्तामतिमात्रकर्षितामिति” कुमा०। अतिक्रान्तोमात्रां प्रमाणम् अत्या० स०। वृहत्प्रमाणे त्रि०।

अतिमात्रशस् = अव्य० अतिमात्र + शस्। अतिप्रमाणकारकवृत्तिवीप्सार्थे।

अतिमान = पु० अत्यन्तः मानः अभिमानः। अनुचिताभिमाने “अतिमाने च कौरव” इति चाणक्यः। अतिक्रान्तोमानं प्रमणाम् अत्या० स०। प्रमाणाधिके त्रि०।

अतिमानुष = त्रि० अतिक्रान्तो मानुषचरित्रम् अत्या० स०। मनुष्यायोग्ये दिव्ये कर्म्मादौ। “कर्म्म तस्यातिमानुषमिति” पुरा०। तथाभूते रूपादौ च।

अतिमित्र = न० अत्यन्तं परमं मित्रम्। अत्यन्तबान्धवे “जन्मसम्पद् विपत् क्षेमं प्रत्यरिः साधकोबधः मित्रं परममित्रञ्चेति” ज्योतिषोक्ते नृणां जन्मतारावधि नवमाष्टादशसप्तविंशात्मके परममित्रतारके च।

अतिमुक्त = त्रि० अतिशयेन मुक्तः विदेहकैवल्यं गतः अति + मुच–कर्त्तरि क्त। निर्व्वाणमुक्तिमति। अतिक्रान्तो मुक्तां शौभ्र्यात् अत्या० स०। माधवीलतायां, तिनिशवृक्षे च पु०।

अतिमुक्तक = त्रि० अतिमुक्त + स्वार्थे कन्। निर्वाणमुक्तिमति अतिशयितमुक्ते च। मुचा भावे क्त अतिशयेन मुक्तं बन्घहीनता यस्य कप्। तिन्दुकवृक्षे, तालवृक्षे च पु०।

अतिमुक्ति = स्त्री अत्यन्ता मुक्तिः। विदेहकैवल्ये तत्त्वज्ञानानन्तरम् “तस्य तावदेव चिरं यावत् विमोक्ष्ये इति” श्रुतिदर्शिते शरीरत्यागे, अतिमोक्षादयोप्यत्रार्थे पु०।

अतिमृत्यु = पु० अतिक्रान्तो मृत्युम् अत्या० स०। मोक्षे “तमेव विदित्वाऽतिमृत्युमेति नान्यःपन्था विद्यते” इति श्रुतिः। स्वादृष्टादिभिः शरीरसंबन्धोहि जन्म, तद्वियोगश्च मरणम् तदभिमानिनोजीवस्य। सति च ज्ञाने तन्मूलाज्ञाने निवृत्ते तद्धेतुकशरीरसंबन्वादिकं तन्तुदाहे पटदाहवत् स्वयं निवर्त्तते अत एव ज्ञानवतो देहादिसंबन्धं श्रुतिर्निरास “अशरीरं बाव सन्तं प्रियाप्रिये न स्मृशत इति”। तथा च देहसंबन्धाभावे कथं मरणसम्भवः। “न जायते म्रियते वा कथञ्चिदिति” गीतावाक्येन तस्य मरणनिषेधात्। “न तस्य पाणाह्युत्क्रामन्ति इहैव समवलीयन्ते” इति श्रुत्या तत्त्वज्ञानिनः प्राणोत्क्रभणरूपमरणनिषेधेन ज्ञानिनो न मृत्युरिति वेदान्तिसिद्धान्तः। अन्यमते तु एतद्देहात् प्राणोत्क्रान्तावपि न पुनर्देहसम्बन्धोत्तरं पुनर्मरणमिति तद्राहित्यमेव मोक्ष इति भेदः। अतएवोक्तं श्रुत्या “मृत्युमुखात् प्रमुच्यते” इति तेन पुनर्मृत्युकारणीभूतादृष्टक्षय एव ज्ञानेन जन्यते “ज्ञानाग्निः सर्वकर्म्माणीति” शास्त्रेण प्रारब्धकर्म्मारिक्तकर्म्मक्षयस्यैव ज्ञानेन साध्यतायाः सर्वसम्मतत्वात् विदुषश्च एतद्देहारम्भकादृष्टवत् एतद्देहविगमादृष्टस्यापि प्रारब्धफलकतया न तस्य नाश इति। अधिकमाकरे द्रष्टव्यम्।

अतिमैथुन = न० अत्यन्तं स्वशक्तिमतिक्रम्य मैथुनं स्त्रीसङ्गमः। स्वशक्त्यतिक्रमेण स्त्रीसङ्गमे। “अतिमैथुनादमैथुनाद्वेति”

अतिमोदा = स्त्री अतिशयितो मोदोगन्धः यस्याः न०। नवमल्लिकायाम्। अत्यन्तामोदवति त्रि०।

अतिरक्त = त्रि० अत्यन्तः रक्तः रक्तवर्णः अनुरागयुक्तो वा। अतिलोहितवर्णे, अत्यन्तानुरक्ते च। अत्यन्तरक्तवर्णे पु०।

अतिरथ = पु० अतिक्रान्तो रथं रथिनम् अत्या० स०। “अमितान् योधयेद्यस्तु संप्रोक्तोऽतिरथस्तु स” इत्युक्तलक्षणे योधविशेषे। “ये रथाः पृथिवीपाल! तथैवातिरथाश्च ये” इत्युपक्रम्य “कृतवर्म्मा ह्यतिरथ” इति “मद्रराजो महेष्वासः शल्यो मेऽतिरथो मत” इत्यादिना बहवोऽतिरथा भा० उद्यो० रथातिरथासंख्याने दर्शिताः। रथातिक्रमकारके त्रि०।

अतिरसा = स्त्री अतिशयितो रसो यस्याः ब०। (रास्ना) इति ख्यातायां मूर्व्वालतायाम्।

अतिराज = त्रि० अतिक्रान्तो राजानम् टच् समा०। अतिक्रान्तनृपे। स्त्रियां ङीप्।

अतिराजन् = पु० अतिशयितः पूजितो राजा “न पूजनादिति निषेधात् न टच्। पूज्यनृपतौ।

अतिरात्र = पु० अतिशयिता रात्रिः ततः अस्त्यर्थे अच्। एकरात्रसाध्ये यागभेदे। स च गवामयने प्रथमसंस्थः यथोक्तं ताण्ड्यब्राह्मणे। “प्रजापतिर्वा इदमग्र आसीत् सोऽकामयत बहु स्यां प्रजायेयेति सएतमतिरात्रमपश्यत्तमाहरत्तेनाहोरात्रे प्राजनयदिति” गवाममयनसत्रमुपक्रम्य, “अथास्य सत्रस्य पूर्ब्बोक्तान्यहागि क्रमेण विधास्यन् अतिरात्रसंस्थम् प्रथमं विधातुमाहेति” भाष्ये अवतरणिकां दत्त्वा व्याख्यातं यथा “स एवं कामयमानः प्रजापतिः सृष्ट्यु- पायत्वेन एतं गवामयनस्याद्यमतिरात्रमपश्यदिति”। तञ्च स्तुतिपूर्ब्बकं विधित्सन्नाह। “यदेषोऽत्रिरात्रो स एवाहोरात्रे एव प्रजनयन्तीति” “एष प्रजापतिना दृष्टोऽतिरात्रः गवामयनस्य प्रथममहर्भवतीति यत् तेन सत्राननुतिष्ठन्तो यजमाना अहोरात्रे एव प्रजनयन्ति उत्पादयन्ति स्वावीने कुर्व्वन्तीति” भाष्यम्। इत्थमुपक्रम्य चतुर्थाध्यायप्रथमखण्डपर्य्यन्ते तत्र विहितानि स्तोत्रशस्त्रादीन्युक्तानि। “अतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति” श्रुत्यन्तरम्। षोडशी पात्रभेदः।

अतिरि = न० अतिक्रान्तं रायं क्लीवत्वात् ह्रस्वः। धनातिक्रान्ते कुलादौ। तृतीयाद्यचि तु अतिरिणा अतिरिणे इत्येवमेकैकमेव रूपं, न पुंवद्भावः तस्य इगन्ताङ्गत्वाभावात्। पुंसि, स्त्रियाञ्च अतिराः अतिरायावित्यादि।

अतिरिक्त = त्रि० अति + रिच्–क्त। अतिशयिते, श्रेष्ठे, भिन्ने, शून्ये च। भावे क्त। अतिशये, आधिक्ये च न०। तत्र भेदे “अतिरिक्तमथापि यद्भवेदिति” भाषा० “न वृक्षवृत्ति व्यतिरिक्तेति” कुमा०। यस्य यावत्प्रमाणं युक्तं ततोऽधिकत्वे “हीनाङ्गीमतिरिक्ताङ्गीमिति” स्मृतिः।

अतिरुच् = पु० रोचते इति रुक् स्त्रीणामूरुदेशः अतिक्रान्तो रुचम् अत्या० स०। जानुदेशे। अतिक्रान्तकान्तिके त्रि०। प्रा० स०। अतिशयितकान्तौ स्त्री।

अतिरूक्ष = त्रि० अतिशयितः रूक्षः प्रा० स०। अत्यन्तरूक्षे स्नेहशून्ये च। तथाभूते कङ्गुकोदवादिधान्ये पु०। अतिक्रान्तोरूक्षम्। अतिशयस्निग्धे त्रि०।

अतिरूप = पु० अतिक्रान्तो रूपम्। रूपवर्ज्जिते परमेश्वरे। “अशब्दमस्पर्शमरूपमव्ययमिति” श्रुत्या तस्य रूपहीनताप्रतिपादनात्तथात्वम्। शुक्लादिरूपहीने वाय्वादौ त्रि०। अतिशयितं रूपम् प्रा० स०। सुन्दररूपे न०। “अतिरूपवती कन्या”।

अतिरेक = पु० अति + रिच्–घञ्। अतिशये, भेदे, प्राधान्ये, आधिक्ये च। “संपूर्णमेतयोर्ज्ञेयमतिरेके परेऽहनीति” तिथित०।

अतिरोग = पु० अतिशयितो रोगः प्रा० स०। क्षयरोगे प्रा० ब०। अत्यन्तरोगयुक्ते त्रि०।

अतिरोधान = न० न तिरोधानम्। प्रकाशे, व्यवधानाभावे च।

अतिरोमश = पु० अतिशयितं रोम अतिरोमन् + अस्त्यर्थे श। वनजाते छागे, वृहद्वानरे च। अत्यन्तरोमाढ्ये त्रि०।

अतिरोहित = त्रि० न तिरोहितः। प्रकाशिते स्फुटेऽर्थे “अतिरोहितार्थमन्यदिति” प्रमिता०। अव्यवहिते च।

अतिलोमश = पु० अतिरोमवत्। वनजाते छागे वृहद्वानरे च। अतिलोमयुक्ते त्रि०। नीलवुह्नायां स्त्री।

***