अङ्क(न्क) = संख्याकरणे चिह्रयुक्तकरणे अदन्तचुरादि० उभ० सक० सेट्। अङ्कय–ति ते आञ्चिक–त्–त। अङ्कापयति ते इति केचित्। “प्रेयांसमाङ्कयदसौ न विधौ कलङ्क” इत्युद्भटः। “पुक् चेत्यङ्कापयत्यपीति” कामधेनुः। अच् अङ्कः। क्त अङ्कितः ल्युट् अङ्कनम् असुन् अङ्कः।

अङ्क = पु० न० अङ्क–करणे, कर्त्तरि वा अच्। चिह्ने “रतिवलयपदाङ्के चापमासज्य कण्ठे” इति कुमा०। कलङ्के, “एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्क” इति कुमा०। दृश्यकाव्याङ्गभेदे तल्लक्षणं यथा “प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः। भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः।। विच्छिन्नावान्तरैकार्थः किञ्चित्संलग्नविन्दुकः। युक्तो न बहुभिः कार्य्यैर्वीजसंहृतिमान् न च।। नानाविधानसंयुक्तो नातिप्रचुरपद्यवान्। आवश्यकानां कार्य्याणामविरोधाद्विनिर्म्मितः।। नानेकदिननिर्व्वर्त्यकथया सम्प्रयोजितः। आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा।। दूराह्वानं बधो युद्धं राज्यदेशादिविप्लवः। विवाहो भोजनं शापोत्सर्गौ मृत्यूरतन्तथा।। दन्तच्छेद्यं नखछेद्यमन्यद् व्रीडाकरञ्च यत्। शयनाधरपानादि नगराद्युपरीधनम्।। स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः। देवीपरिजनादीनाममात्यबणिजामपि।। प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः। अन्तनिष्कान्तनिखिलपात्रोऽङ्क इति कीर्त्तितः” इति सा०।। दृश्यकाव्य रूपकभेदे च पु०। यथा “नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः। ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश” इति विभज्य “उत्सृष्टिकाऽङ्क एकाङ्कोनेतारः व्यापृता नराः। रसोऽत्र करुणः स्थायी बहुस्त्रीपरिदेवितम्।। प्राख्यातमितिवृत्तञ्च कविर्बुद्ध्या प्रपञ्चयेत्। भाणवत् सन्धिवृत्ताङ्गान्यस्मिन् जयपराजयौ।। युद्धञ्च वाचा कर्त्तव्यं निर्वेदवचनं बहु”। इति लक्षितम् “इमञ्च केचित् नाटकाद्यन्तःपात्यङ्कपरिच्छेदार्थम् उत्सृष्टिकाङ्कनामानम्” आहुः। अन्ये तु “उत्क्रान्ता विलोमरूपा सृष्टिर्यत्रेति उत्सृष्टिकाङ्कः” इति सा०। पर्व्वते, समीपे, युद्धभूषणे, देहे, अपराधे, स्थाने, चित्रयुद्धे परम्परासम्बद्धे चिह्ने च पु०। क्रोडे पु० न० “अनन्यनारीकनीयमङ्कमिति” कुमा०। “अङ्के निधाय तं बालं पुनः संस्कारमर्हतीति” स्मृतिः। “पुनरङ्काश्रयणी भवामि ते” इति कुमा०। “प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्धेति” माघः। “अङ्कः समीपम् उत्सङ्गश्च” इति मल्लिनाथः। एकत्वादिसंख्याबोधकरेखासन्निवेशे“अङ्कयुतिः किल सङ्कलिताख्येति” लीला०। नवसंख्यायाञ्च पु०।

अङ्कतन्त्र = न० अङ्कानामेकादिपरार्द्धान्तसंख्याबोधकरेखाविशेषाणां प्रतिपादकम् तन्त्रं शास्त्रम्। अङ्कशास्त्रे व्यक्ताव्यक्तरूपे, पाटीगणितवीजगणितादौ।

अङ्कति = पु० अन्च–गतौं अति कुत्वम्। वाते। पूजनार्थात् कर्म्मणि अति। ब्रह्मणि, अग्नौ, अग्निहोत्रिणि च। गन्तरि त्रि० स्त्रियाम् वा ङीप् अङ्कती च।

अङ्कधारण = न० ६ त०। चिह्नधारणे तप्तमुद्रादिवैष्णवचिह्नधारणे च। धृ–णिच् भावे युच्। अङ्कधारणाप्यत्र स्त्री।

अङ्कन = न० अङ्क–करणे ल्युट्। अङ्कनसाधनद्रव्ये गदा (गनीति) प्रसिद्धे। भावे ल्युट्। चिह्नकरणमात्रे न०। “अन्यत्राङ्कनलक्ष्मभ्यां वाहनिर्म्मोचने” इति स्मृतिः। अङ्कनं त्रिशूलादिचिह्नकरणमिति प्रा० रघु०। भावे युच्। अङ्कनाष्यत्र स्त्री।

अङ्कपादव्रत = न० ब्रतभेदे।

अङ्कपालि = स्त्री पा–अलि ६ त० वा ङीप्। क्रोडप्रान्ते। अङ्केन पालयतीति पालि–इ ३ त०। उपमातरि (धाइमा) इति प्रसिद्धायाम्। अङ्कस्य पालिरिव। आलिङ्गने।

अङ्कपाली = स्त्री अङ्कपालि + ङीप्। अङ्कपालिशब्दार्थे वेदिकाख्यगन्धद्रव्ये च।

अङ्कपाश = पु० अङ्कः पाश इव बन्धनेनेव पातनहेतुरत्र। लीलावत्युक्ते एकाद्यङ्कानां स्थानविनिमयेन संख्याभेदबोधके, तदैक्यसंख्यासङ्कलनोपयोगिनि च प्रक्रियाभेदे “स्थानान्तमेकादिचयावघातः संख्याविभेदो नियतैः स्युरङ्कैः। भक्तोऽङ्कमित्याङ्कसमासनिघ्नः स्थानेषु युक्तोमितिसंयुतिः स्यादिति”। यथा १, २, एतयोरङ्कयोः स्थानद्वये, स्थितिः तयाः स्थानविनिमये कति भेदा, भेदभिन्नानाञ्च संख्यैक्यमितिः केति १ च पृष्टे अनेनैव प्रकरणेन १२, २२, एतौ द्वौ भेदौ ऐक्याङ्कमितिः” ३३ इत्युत्तरं तच्चानेनैव भवति। “न गुणो न हरो न कतिर्न घनः पृष्टस्तथापि दुष्टानाम्। गर्वितगणकबहूना स्यात् पातोऽवश्यमङ्कपाशेऽस्मिन्निति” लीलावती।

अङ्कपूरण = न० अङ्कयोस्तत्संख्ययोः पूरणं गुणनम्। अङ्कयोर्गुणने।

अङ्कबन्ध = पु० अङ्कस्य बन्धः। क्रोडबन्धे। यथा पर्य्यङ्कबन्धः। परितोऽङ्कस्य बन्धनम्।

अङ्कलोड्य = पु० अङ्केन लोड्यतेऽसौ लोड–ण्यत् ७ त०। चिञ्चोडवृक्षे।

अङ्कलोप = पु० अङ्कस्य वियोज्यसंख्याया इष्टसंख्यातो लोपः वियोजनम्। इष्टसंख्यातः कस्याश्चित् संख्याया वियोजने यथा नवाङ्कसंख्यातः पञ्चाङ्कसंख्याया वियोजने चतुःसंख्याऽवशिष्यते। एवम् अन्यत्रापि।

अङ्कस् = न० अन्च–असुन् कुत्वम्। चिह्ने, शरीरे च। “पथामङ्कांस्यन्वापनीफलदिति” वेदः।

अङ्कस = न० अङ्कोऽस्मिन्नस्ति अच्। चिह्नयुक्ते। “श्येनस्येव ध्रजतोऽङ्कसं परीति” यजुः। अङ्कसं वस्त्रमाप्रपदिकमिति।

अङ्काङ्क = न० अङ्के मध्ये अङ्काःशतपत्रादिचिह्नानि यस्य। जले “आपो वै अङ्काङ्काः छन्द” इति, अङ्काङ्कं छन्द इति च श्रुतिः।

अङ्कित = त्रि० अङ्क–क्त। चिह्नयुक्तीकृते, “स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनमिति” वह्निध्यानम्।

अङ्किन् = त्रि० अङ्कः आलिङ्गनस्थानत्वेन अस्यास्ति अङ्क + इनि। अङ्केनालिङ्क्य वादनीये मृदङ्गादिवाद्यभेदे, क्रीडविशिष्टे च। “षाशायामङ्गिनो ये चरन्तीति” वेदः।

अङ्किनी = स्त्री अङ्कानां चिह्नानां समूहः खलादि० इनि ङीप्। चिह्नसंघाते। अस्त्यर्थे इनि ङीप्। अङ्कयुक्तस्त्रियाम्।

अङ्कुर = अस्त्री० अङ्क–उरच्। वीजादभिनवोत्पन्ने, मृत्तिकामुद्भिद्य जाते तृणवृक्षादौ “हर्म्याग्ररूढेषु तृणाङ्कुरेष्वित्” रघुः। जले, शीघ्रोत्पत्तिसाधर्म्यात् रुधिरे, लोम्नि च मुकुले च “चूताङ्कुरास्वादकषायकण्ठ” इति कुमा०।

अङ्कुरक = पु० अङ्क्यते तृणादिना सञ्चीयतेऽसौ अन्च–घुरच् ततः क। पश्वादीनां वासस्थाने (वासा इति) ख्याते।

अङ्कुरित = त्रि० अङ्कुरः जातोऽस्य ता० इतच्। जाताङ्कुरे।

अङ्कुश = अस्त्री० अङ्क–उशच्। हस्तिचालनोपयोगिनि वक्राग्रे लौहास्त्रभेदे (डाङश) इति ख्याते। “तिरोगतं साङ्कुशमुद्वहन् शिर” इति माघः। “सन्निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशमिति” रघुः। प्रतिबन्धे च “निरङ्कुशाः कवय इति” मल्लिनाथः पक्षा० फक्। आङ्कुशायनः अङ्कुशन्निकृष्टस्थाने त्रि०।

अङ्कुशग्रह = पु० गृह्णातीति ग्रह–अच् ६ त०। अङ्कुशधारिणि निषादिनि। “अन्वेतुकामोऽवमताङ्कुशग्रह” इति माघः।

अङ्कुशदुर्द्धर = पु० दुःखेन धार्य्यते व्यवस्थाप्यते दुर्–धारि–खल् ह्रस्वः अङ्कुशेन–दुर्द्धरः ३ त०। दुर्दान्तहस्तिनि।

अङ्कुशधारिन् = पु० अङ्कुशं धारयति धारि–णिनि। हस्तिपालके।

अङ्कुशमुद्रा = स्त्री अङ्कुशाकारा मुद्रा। “ऋज्वीञ्च मध्यमां कृत्वा तम्मध्यपर्व्वमूलतः। तर्ज्जनीं किञ्चिदाकुञ्चेत् सा मुद्राऽङ्कुशसंज्ञितेति” तन्त्रोक्ते तीर्थावाहनाद्यर्थं कल्पिते अङ्कुलिसन्निवेश रूपेमुद्राभेदे।

अङ्कुशी = स्त्री अङ्कुशः चित्तनागरोधनोपायः विवेकः अस्त्यस्याः अच् गौ०। जैनीयदेवीभेदे।

अङ्कूर = पु० अङ्क–खर्जूरादित्वात् ऊरच्। अभिनवोत्पन्ने तृणवृक्षादौ।

अङ्कूष = अस्त्री० अङ्क–ऊषच्। हस्तित्रालनोपयोगिनि वक्राग्रे लौहमयेऽस्त्रभेदे (डाङश)।

अङ्कोट(ठ) = (ल) पु० अङ्क्यते लक्ष्यते कीलाकारकण्टैः। अङ्कओट (ओठ) (ओल) वा। पीतवर्णसारे गन्धयुक्तपुष्पे दीर्घकण्टकयुक्ते रक्तवर्णफले (आकोड) इति ख्याते वृक्षे।

अङ्कीलक = पु० अङ्कोल + स्वार्थे–क। आकोड इति ख्याते वृक्षे।

अङ्कोलिका = स्त्री वल–अच् नि० संप्रसारणे–उलः अङ्काय तद्दानाय उलः स्वार्थे क। आलिङ्गनक्रियायाम्।

अङ्कोलसार = पु० अङ्कोलस्य सारः ६ त०। अङ्कोटवृक्षजाते विषभेदे।

अङ्कोल्लिका = स्त्री। पृ० साधुः। अङ्कोठवृक्षे।

अङ्क्य = पु० अङ्के क्रोडे स्थापयित्वा वाद्यतेऽसौ यत्, अङ्के साधुः अङ्क + य वा। “सार्द्धतालत्रयायामः चतुर्द्दशाङ्गुलाननः। हरीतक्याकृतिर्यः स्यादङ्क्योऽङ्के स हि वाद्यते इत्युक्ते” क्रोडेस्थापनपूर्ब्बकं वादनीये मृदङ्गादौ। अङ्कनीये त्रि०।

अङ्ग = चिह्नयुक्तकरणे अदन्तचुरादि उभय० सकर्म्मकः सेट्। अङ्गय–ति ते आञ्जिग–त् त। मतान्तरे अङ्गापयति ते।

अङ्ग = न० अस–गत्यादी वा० गन्। चित्ते (अङ्गजः कामः) “हिरण्यगर्भाङ्गभुवमिति” देहे “हस्तेनस्पर्श तदङ्गमिन्द्र” इति कुमा०। अङ्गशब्दस्य चेष्टावदन्त्यावयविरूपावयविवाचित्वेऽपि तदवयवेऽपि हस्तपादादौ व्यवहारः अवयवत्वसाम्यात् तेषाञ्च प्रत्यङ्गशब्देनापि व्यवहारः। तत्राङ्गशब्दस्य देहार्थत्वे तदीयस्वरूपं तदवयवभेदाश्च सुश्रुते दर्शिताः। यथा “शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भ इत्युच्यते तञ्च चेतनावस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्त्याकाशं विवर्द्धयति। एवं विवर्द्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा शरीरमिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो, मध्यं पञ्चमं, पष्ठं शिर इति। “अतःपरं प्रत्यङ्गानि वक्ष्यन्ते। मस्तकोदरपृष्ठनाभिललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः। कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व स्फिगजानु–बाहूरुप्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः। स्रोतांसि च वक्ष्यमाणानि। एष प्रत्यङ्गविभाग उक्तः।। तस्य पुनःसङ्ख्यानम्। त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वुक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यःसङ्घाताः सिमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्म्माणि शिरा धमन्यो योगवहानि स्रोतांसि च।। त्वचः सप्त। कलाः सप्त। आशयाः सप्त। धातवः सप्त। सप्त शिराशतानि। पञ्च पेशीशतानि। नव स्नायुशतानि। त्रीण्यस्थिशतानि। द्वे दशोत्तरे सन्धिशते। सप्तोत्तरं मर्मशतम्। चतुर्विंशतिर्धमन्यः। त्रयो दीषा, त्रयो मलाः। नव स्रोतांसीति समासः इति”।।

अवयवे “शेषाङ्गनिर्म्माणविधौ विधातुरिति” कुमा०। अपाङ्ग इति। उपाये, “सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकमिति” “मन्त्रो योधैवाधीरः सर्व्वाङ्गैः संवृतैरपीति” च माघः। प्रधानोपयोगिनि उपकरणे, “फलवत्सन्निधावफलं नदङ्गमिति” मीमांसा। “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः तदङ्गस्याक्रियायान्त्विति” स्मृतिः। “हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयमिति” सम्बोधने अव्य०। “त्वमङ्ग यस्याः पतिरुञ्झि तक्रम” इति नैषधम्। अङ्गमस्त्यस्य अच्। अङ्गवति “येनाङ्गविकार इति” पा० अङ्गस्याङ्गिन इत्यर्थः अन्तिके च त्रि०। जन्मादिलग्ने न० “अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वेति” जातकम्। देशभेदे पु०। तस्य विवरणम् अङ्गाधिपशब्दे। “अङ्गेषु वङ्गेषु खसेषु योज्या” इति “अङ्गवङ्गखसेष्वेवेति” च ज्योतिषम् अङ्गानां राजा आङ्गः बह्वर्थे अङ्गाः। अङ्गदेशे भवः अण्। आङ्गः। बह्वर्थे अङ्गाः। अङ्गेन देहेन निर्वृत्तः ठक्। आङ्गिकः। अङ्गदेशस्तद्राजानो वा भक्तिरस्य अण् आङ्गः। अङ्गस्येदम् अङ्गीयः। “यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गमिति” पाणिनिपरिभाषिते प्रत्ययावधिभूते शब्दभेदे, “इणः षीध्वं लुङ्लिटां धोऽङ्गादिति” पा०। अङ्गादागतम् अण्। आङ्गः अङ्गनिमित्ते कार्य्ये “वर्णादाङ्गं बलीय इति” परिभा०। उपकारणानि च यथा यथमुह्यानि दिङ्मात्रमत्रोच्यते। तत्र “स्वाम्यमात्यसुहृत् कोषो राष्ट्रं दुर्गं बलानि च राज्याङ्गानीत्युक्तानि” “स्वाम्यमात्यौ पुरं राष्ट्रं कोषदण्डौ सुहृत्तथा। सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते” इत्युक्तानि राज्याङ्गानि। दर्शादौ च प्रयाजादीनि, वैदिककर्म्मणाञ्च तत्तत्क्रियाकलापाः तत्तद्द्रव्याणि चाङ्गानि “साङ्गाद्धि वैदिककर्मणः फलावश्यम्भाव इति” मीमा०। वेदस्य व्याकरणादीनि अङ्गानि, “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसाञ्चितिः। ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु इति”। एतेषाञ्च लक्षणादिकमग्रे वक्ष्यते। एतेषां वेदार्थज्ञानोपयोगित्वादङ्गत्वम् अतएव श्रुतौ “ब्राह्मणेन निष्कारणः षडङ्गः सरहस्योवेदोध्येतव्य” इत्युक्तम् शिक्षायां तेषां वेदार्थज्ञनोपयोगित्वा दङ्गत्वं दर्शितम् यथा “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तु वेदस्यं मुखं व्याकरणं स्मृतं तस्माद् साङ्गमधीत्यैव ब्रह्मलोके महीयते इति” अतो वेदार्थज्ञानोपयोगितया एतेषां ग्रन्थानां वेदाङ्गत्वम्। “द्वे विद्ये वेदितव्ये” इत्युपक्रम्य “पराचापरा च तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पी व्याकरणं निरुक्तं छन्दोज्योतिषमिति सा परा ययाक्षरमधिगम्यते” इति श्रुतौ व्याकरणादीनामपरविद्यात्वेन कीर्त्तनं “तेषाञ्च साधनभूतधर्म्महेतुत्वात् षडङ्गसहितानां धर्म्मसाधनत्वेनापरविद्यात्वमिति” भाष्ये उक्तम्। आयुर्वेदादीनामुपवेदत्वं न्यायादीनामुपाङ्गत्वं यथा च तेषां तथात्वं तथा तत्तच्छब्दे दर्शयिष्यते।

तथा ज्योतिषस्याङ्गानि नानाविधानि तत्र प्राधान्यात् त्रिविधानि यथोक्तं वराहसहितायाम्। “ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम् तत्कात्र्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता। स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानन्त्वसौं होरान्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः” इति।

नरपतिजयचर्य्यायान्तु षड्विधान्याङ्गानि समासेनोक्त्वा तेषां विस्तारो दर्शितो यथा “स्वरचक्राणि चक्राणि भूबलानि बलानि च। ज्योतिषं शकुनञ्चैव षडङ्गान्यत्र वच्म्यहम्।। यामलेषु च सर्वेषु यान्युक्तानि स्वरोदये। विंशतिःस्वरचक्राणि तन्नामानि वदाम्यहम्। मात्रावर्णो ग्रहोजीवो राशिर्भं पिण्डयोगकौ। द्वादशाब्दोद्भवञ्चक्रं वर्षायनर्तुमासकम्।। पक्षाह नाडिकं चक्रन्तिथिवारर्क्षयोगकम्। तत्कालेन्दुफलङ्काष्ठास्वरन्देहोद्भवन्तथा।। (इति स्वरचक्रनामानि)। पूर्ब्बमुक्तेषु शास्त्रेषु मया ज्ञातानि यानि च चतुरशीतिश्चक्राणि तेषां नामानि वच्म्यहम्।। एकाशीतिपदञ्चक्रं शतपत्रं नवांशकम्। छत्रं सिंहासनं चक्रं कूर्म्मंपञ्चविधात्मकम्।। भूर्देशं नगरं क्षेत्रं गृहकूर्मञ्च पञ्चकम्। पद्मचक्रं फणी शाख्यं राहुकालानलन्त्रिधा।। सूर्य्यकालानलं चक्रं चन्द्रकालानलन्तथा। घोरकालानलं प्रोक्तं गूढकालानलं बलम्।। राशिसूर्य्यसमायोगे चक्रं कालानलं मतम्। संघट्टकं सप्त ज्ञेयं सप्त कालानलानि च।। तिथिवारञ्च नक्षत्रं त्रिधा चैव कुलाकुलम्। कुम्भचक्वं द्विधा प्रोक्तं राशिनक्षत्रसम्भवम्।। प्रस्तारञ्चक्रवेधाख्यैः प्रभेदैस्तु चरन्द्विधा। भूचरं स्वेचरं, पान्यं नाडीचक्रं त्रिधा मतम्।। कालचक्रं फणिद्वन्द्वं सूर्य्याख्यं चन्द्रजन्तथा। कविचक्रं द्विधा प्रोक्तं स्थानस्वाम्यृक्षपूर्ब्बकम्।। खलकाख्यं द्विधा चैव कृत्तिकास्थान भादिकम्। कोटचक्राष्टकं प्रोक्तञ्चतुरस्नादिभेदतः।। गजमश्वं रथं व्यूहं कुन्तं खड्गं छुरीन्धुनुः। सौरिं सेवां नरण्डिम्भम्पक्षिमार्गायवृश्चिकम्।। सप्तरेखोद्भवञ्चक्रं पञ्चरेखेन्दुभास्करम्। त्रिविध मात्रिकाचक्रं विजयं श्येनतोरणम्।। अहिलाङ्गलवीजोप्तिवर्षाख्यं सप्तनाडिकम्। चक्रं सांवत्सरञ्चैव स्थानचक्रं तथैव च।। एतानि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत्। जयेदिह न सन्देहो शक्रतुल्पेऽपि भूभुजि।। (इति चक्रनामानि)। स्वरोदयैश्च चक्रैश्च शत्रुर्यत्र समीऽधिकः। तत्र युद्धे बलं ज्ञेयं भूबलैर्विजयार्थिनाम्।। तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले चतुरशीतिसंख्यानां यद्बलेन जयी रणे।। उड्डी जालन्धरी पूर्णा कामकीलैकवीरका। शिलिन्ध्री च महामारी क्षेत्रपाली च वंशजा।। रुद्रकालानला काली कालरेखा निरामया। जयलक्ष्मीर्महालक्ष्मीर्जया विजयभैरवी।। बाली योगेश्वरी चण्डी जानुबन्धककर्त्तरी। शार्दूली सिंहली तन्वी महामाया महेश्वरी।। देवकोटी शिवा शक्ती धूम्रवाणा वराटिका। त्रिमुण्डा मत्सरी धर्म्माऽमृताघृष्टाऽक्षया जया।। दुर्मती प्रवरा गौरीकाली नरहरी बला। खेचरी भूचरी गुह्या द्वादशी विष्टिकेवला।। त्रैलोक्यविजया शौरी कराली वडवापरा। रौद्री च शिशुमातङ्गी अभेद्या दहनी मता।। बहुबला बर्गभूमी कपाली चानिलानला। चन्द्रार्कबिम्बभूमी च ग्रहभूराशिलग्नगा।। राहुकाला नलीभूमी स्वरभूमि र्द्विधा मता। रुद्रस्त्रिमासिकश्चैव राहुचाष्टविधस्तथा।। चन्द्रः सप्तविधः सूर्य्यश्चतुर्द्धा योगिनी त्रिधा। कालबलन्त्रिभेदञ्च तिथिनक्षत्रवारजम्।। इमानि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे। अरयस्तस्य नश्यन्ति मेघा वातहता यथा।। (इति भूबलानि)। शत्रोः समाधिके नाम्नि स्वरैश्चक्रैश्च भूबलैः। स्थानसेनाधिके शत्रौबलविज्ञानसंयुते।। अभङ्गे चाप्यभेदे च दुःसाध्येदुर्जयेरिपौ। जयोपायमहं वक्ष्ये मन्त्रयन्त्रादिकं बलम्।। रणाभिषेचनं दीक्षा रणार्चा रणकङ्कणम्। बीरपट्टं रणेपट्टं जयपट्टस्य बन्धनम्।। मेखलाकवच न्यासं मुद्रारक्षां च कङ्कणम्। औषधन्तिलकं घण्ठागुटिकां च कपर्द्दिकाम्।। योगेघटितशस्त्राणि शस्त्ररक्षाय मोहनम्। शस्त्रलेपांश्च विविधान् वाणानाम्पिच्छबन्धनम्।। शम्बलङ्काहलण्ढक्कां मुरुजम्भस्वधारणम्। मारणं मोहनं स्तम्भविद्वेषोच्चाटनं वशम्।। पताकापिच्छकं यन्त्रात्परविद्याविनाशम्। शान्तिकं निजसैन्यस्य सर्वोपद्रवनाशनम्।। बलान्येतानि योज्ञात्वा संग्रामं कुरुते नृपः। असाध्यस्तस्य नैवास्ति शत्रुःको पि महीतले।। (बलाबलनामानि)। गणितं व्यवहारञ्च होराज्ञानं परिस्फुटम्। त्रिस्कन्धं ज्योतिषं वक्ष्ये जयचर्य्यां स्वरोदये।। खेचरानयनं स्पष्टं पञ्चाङ्गं तिथिसाधनम्। उदयास्तमनञ्चक्रक्रान्तिं वक्ष्ये यथामति।। नतोन्मतप्रमाणञ्चभावसन्धिप्रसाधनम्। ग्रहाणां षड्बलं वक्ष्ये राशिभावबलान्वितम्।। राशिसंज्ञाप्रभेदञ्च खेचराणां तथैव च। नॄणां जन्मफलं वक्ष्ये ऋक्षराश्यंशलग्नजम्।। फलञ्चद्रार्कयोगानां ग्रहाणां स्वोच्चनीचकम्। आयुर्द्दायं दशाश्चैव तासाङ्कालप्रवेशनम्।। तस्माल्लग्नं ग्रहान्स्पष्टान्दशान्तर्द्दशयोः फलम्। ग्रहवर्गाष्टकं स्पष्टं तस्माद्दिनफलं वदेत्।। ताजिकाज्जन्मलग्नस्य साधनञ्च परिस्फुटम्। वर्षमासदिवालग्नन्तद्दशान्तत्फलन्ततः।। छायोत्पत्तिं त्रिधा वक्ष्ये विषुमध्ये दिनेष्टकम्। दिनमानं दिनं भुक्तमुदयभं घटीषु च सिद्धच्छायात्रिषष्टिञ्च दुष्टमासप्तविंशति। लग्नोदयान्स्वदेशीयान् तेभ्योलग्नस्य साधनम्।। लग्नमानन्तथा होराद्रेष्काणं सप्तमांशकम्। नवांशं द्वादशं त्रिंशम् उदये सप्तसाधनम्।। तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोगजम्। योगाख्यं करणाख्यञ्च मुहूर्त्तान् संक्रमोद्भवम्।। चन्द्रताराबलञ्चैव पक्षभेदेन संयुतम्। शुभाशुभांश्च योगांश्च तिथिवारर्क्षयोगजान्।। सिद्धं संवर्त्तकञ्चैव तथा वारशुभाशुभम्। अवमन्त्रिदिनं वक्ष्ये ततो योगन्त्रिपुष्करम्।। यमघण्टं यमदंष्ट्रां क्रकचार्गलपातकान्। कुमारन्तरुणं वृद्धं शूलातिशूलयोगिनीम्।। वारशूलन्तथा कालं कालवेलां परिस्फुटम्। कालहोरार्द्धयामञ्च कुलिकङ्कण्टकद्वयम्।। फलं ग्रहस्य धिष्ण्यस्य वत्सभार्गवयोः फलम्। दशां चान्तर्द्दशां स्थूलां वक्रातिचारयोः फलम्।। पीडास्थानानि खेटानां ग्रहावस्थां तथैवच। भावफलं सन्धिफलं लतावेधमुपग्रहान्।। शीघ्रवक्रग्रहोद्देशङ्गोचरं गोचरव्यधम्। विवाहञ्च प्रतिष्ठाञ्च दीक्षायात्राप्रवेशनम्।। वास्तुदीपोर्द्धविन्यासं कालविंशोपकांस्तथा। जलयोगार्थकाण्डञ्च वर्षमासदिनार्द्धकृत्।। तिथ्यादिपञ्चकं खेटञ्चन्द्रन्तत्काल सम्भवम्। अवस्थान्नष्टमुष्टिञ्च लोकचिन्तां वदाम्यहम्।। अङ्गस्पन्दादि सर्वाणि कालचिह्नानि यानि च। दुष्टरिष्टान्यहं वक्ष्ये तथा तेषाञ्च शान्तिकम्।। ज्योतिरङ्गमिदं सर्वं ये जानन्ति मनीषिणः। दीपवत्तान्विजानीयान्मोहान्धकारनाशने” इति।।

गर्गसंहितायां तु चतुविंशतिसंख्यानि अङ्गानि उपाङ्गानि चत्वारिंशदिति ज्योतिरङ्गानि चतुःषष्टिविधान्युक्तानि यथा “यथैव वेदस्याङ्गानि षडुक्तानि मनीषिभिः। चतुःषष्टिस्तथाङ्गानि ज्योतिषस्य विदुर्बुधा” इत्युपक्रम्य गणितज्ञानपूर्ब्बकं तज्ज्ञानमावश्यकमित्युक्त्वा तद्विभागा दर्शिता यथा “तस्मात् कृत्स्नमधीत्याग्रे वेदाङ्गं कालसाधनम्। ज्योतिषामयनाङ्गानि चतुःषष्टिन्ततः पठेत्। येषामग्रे कर्मगुणौ चन्द्रलग्ने त्वनन्तरम्। नक्षत्रकेन्द्रभे चैव द्विवर्गः प्रथमः स्मृतः। राहौ वृहस्पतौ शुक्रे, धूम्रकेतौ शनैश्चरे। अङ्गारके बुधेऽर्के च चारानष्टौ ततः पठेत्। चक्रेष्वनन्तरं चक्रं मृगचव्रं तथैव च। श्वचक्रं वातचक्रं च चक्राङ्गेषु चतुष्टयम्। वास्तुविद्याङ्गविद्या च वायसानां तथैव च। ज्ञेयास्तिस्रस्तु विद्यैता वृद्धगर्गमताः शुभाः। स्वातीयोगं तथाषाढारोहिण्यायोगमेव वा। एतान् कृत्स्नान् विजानोयात् भयोगान् वै विशेषतः। रहस्यं चेतीहाङ्गानि चतुर्विंशतिरीरिताः। अतऊर्द्ध्वं प्रवक्ष्यामि उपाङ्गानीह नामतः। अनुपूर्व्वाद्विवानेन चत्वारिंशद्धि नामतः। ग्रहकोशो ग्रहयुद्धं ग्रहशृङ्गाटकं तथा। कृत्स्नं ग्रहेश्वराणाञ्च ग्रहपाकास्तथैव च। विपथाश्चाग्निवर्षाश्च सेनाव्यूहस्तथैव च। मयूरचित्रोपनिषदुपहारप्रशान्तयः। तत्रान्तिके तुलाकोशोद्भवन्तत्रोपधारयेत्। सर्व्वभूतहितांचैव तथा पुष्पलतां विदुः। उपानहोस्तथा च्छेदोवस्त्रच्छेदस्तथैव च। कृत्स्नोभुवनकोशश्च गर्भाधानादिकं तथा निर्घातो भूमिकम्पश्च परिवेषास्तथैव च। ऋतुस्वभावाः सन्त्येवं तथोल्काश्चोपधारयेत्। सांवसरस्तथा युक्तः शास्त्राणां देशकोभवेत्। बलाबलं तु विज्ञेयं बहु यत्र बलं वदेत्। चतुःषष्ट्यङ्गमेतत्तु संवत्सरमुदाहृतमिति”। एवञ्च गणितादित्रयं प्रधानाङ्गत्वात् स्कन्धसंज्ञम् अन्यानि तु अप्रधानान्यङ्गानीति क्वचित् संक्षेपत उक्तानि, क्वचिच्च विस्तरत इति विशेषः। गर्गोक्तविभागाभिप्रायेणैव मुद्राराक्षसे “कृतपरिश्रमोऽस्मि चतुःषष्ट्यङ्गे ज्योतिषे” इति सूत्रधारवाक्यम्। वृहत्संहितायां तु गर्गोक्तान्येव प्रायशोऽङ्गानि प्रदर्शितानि तेषां स्वरूपादिकं तत्तच्छब्देवक्ष्यते।

दृश्यकाव्ये मुखप्रतिगर्भविमर्षोपसंहृतिरूपसन्धिपञ्चकस्य चतुःषष्टिरङ्गानि यथोक्तं साहित्यदर्पणे “उपक्षेपः परिकरः परिन्यासो विलोभनं। युक्तिः प्राप्तिः समाधानं विधानं परिभावना।। उद्भेदः करणं भेदः एतान्यङ्गानि वै मुखे” (इति मुखस्य १२) “विलासः परिसर्पश्च विधृतं तापसं तथा। नर्म्म नर्म्मद्युतिश्चैव तथा प्रशमनं पुनः।। विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम्। पुष्पं वज्रमुपन्यासो वर्ण्णसंहार इत्यपि” (इति प्रतिमुखस्य १३)।। “अभूताहरणं मार्गो रूपोदाहरणं क्रमः। संग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तिरेव च।। त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा (इति गर्भस्य १२)। “अपवादोऽथ सम्फेटो व्यवसायो द्रवो द्युतिः। शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम्।। प्ररोचना विमर्षे स्यादादानं छादनं तथा (इति विमर्षस्य १३)। “सन्धिर्विबोधो ग्रथनं निर्ण्णयः परिभाषणम्। कृतिः प्रमाद आनन्दः समयोऽप्युपगूहनम्।। भाषणं पूर्ब्बवाक्यञ्च काव्यसंहार एव च। प्रशस्तिरिति संहारे ज्ञेयान्यङ्गानि नामतः” (उप- संहारस्य १४)।। चतुःषष्टिविधं ह्येतदङ्गं प्रोक्तं मनीषिभिः। कुर्य्यादनियते तस्य सन्धावपि निवेशनम्। रसानुगुणतां वीक्ष्य रसस्यैव हि मुख्यता। ६ परिच्छेदे

अङ्गकर्म्मन् = न० अङ्गस्य कर्म्म मर्द्दनानुलेपनादि परिकर्म। मर्द्दनादिदेहसंस्कारे व्यापारे।

अङ्गग्रह = पु० अङ्गस्य रोगादिना ग्रहः ६ त०। देहवेदनायाम्।

अङ्गज = पु० अङ्गात् जायते जन–ड। पुत्त्रे दुहितरि स्त्री। “अङ्गादङ्गं सम्भवति पुत्त्रवद्दुहिता नृणामिति” स्मृतिः। देहजातमात्रे त्रि०। रुधिरे न०। रोगे पु०। लोम्नि न०। “तवोत्तरीयं करिचर्म्म साङ्गजमिति” भार०। अङ्गजन्मादयोऽप्युक्तार्थे। अङ्गं मनः तस्मात् जाते कामे पु०।

अङ्गज्वर = पु० अङ्गमङ्गम् अधिकृत्य ज्वरः। राजयक्ष्मरोगे। “निरवोचमहं यक्ष्म अङ्गज्वरमिति” वैद्यकम्।

अङ्गण(न) = न० अगि–गतौ अङ्ग्यते गृहान्निःसृत्य गम्यते अत्र ल्युट् पृ० वा णत्वम्। अजिरे, चत्वरे, (उठान) इति ख्याते स्थाने “अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपीति” नैषधम्। दन्त्यनान्तत्वमपि। “प्रकटाङ्गनोपभोगाप्यखण्डितचरित्रेति” काद०। अङ्गनं चत्वरमङ्गना स्त्री चेति तदथः। करणे ल्युट्। याने।

अङ्गति = पु० अङ्गति यात्यनेन अगि–करणे अति। वाहने स्त्रीत्वमपीत्येके वा ङीप्। अङ्ग्यते गम्यते सेवादिना कर्म्मणि अति। ब्रह्मणि, अग्नौ च। कर्त्तरि अति। अग्निहोत्रिणि पु०।

अङ्गद = न० अङ्गं दायति शोधयति दै–क। (ताड, वाजु) इति प्रसिद्धे बाहुभूषणे। बालिपुत्त्रे–वानरे पु०। सच किस्किन्ध्याधिपस्य वानरराजस्य बालिनस्तारागर्भजः पुत्त्रस्तच्चरितं रामायणे सुन्दरलङ्काकाण्डयोर्विस्तीर्णम्। अङ्गदानकर्त्तरि त्रि०। दक्षिणदिग्गजकरिण्यां स्त्रीत्येके। अङ्गं ददाति समर्पयति दा–क। अङ्गदानकर्त्तरि त्रि० योषिति स्त्री।

अङ्गना = स्त्री प्रशस्तमङ्गमस्ति अस्याः अङ्ग + न। अङ्गसौठववत्यां योषिति, योषिन्मात्रे च, “अङ्गना वामनस्य स्यात्” इति हैमोक्तेः वामनदिग्गजयोषिति च।

अङ्गनाप्रिय = पु० प्री–क ६ त०। अशोकवृक्षे तत्पुष्पेण हि स्त्रियः स्वाङ्गं भूषयन्तीति लोकसिद्धम्। योषित्प्रियमात्रे तु त्रि०। दक्षिणदिग्गजे वामने पु०।

अङ्गदनिर्व्यूह = अङ्गदस्य केयूरस्य निर्य्यूह इव। केयूरशीर्षस्थे चूडाकारेऽग्रभागे।

अङ्गन्यास = पु० अङ्गेषु हृदयादिषु मन्त्रभेदस्य न्यासः। मन्त्रविशेषस्य उच्चारणपूर्ब्बकं करस्पर्शेन कर्त्तव्ये तन्त्रोक्ते न्यासभेदे “अङ्गन्यासं करन्यासं वीजन्यासन्तथैव चेति” तन्त्रम्।

अङ्गपालि = स्त्री अङ्गं पाल्यते सम्बध्यतेऽत्र अङ्ग–पाल–इ। आलिङ्गने।

अङ्गपालिका = स्त्री अङ्गं देहं पालयतीति पालि–ण्वुल् ६ त०। (धाइ मा) इति ख्यातायाम् उपमातरि। अङ्गपालनकारके त्रि०।

अङ्गप्रायश्चित्त = न० अङ्गस्य देहस्य शुद्ध्यर्थं प्रायश्चित्तम्। अशौचेषु पञ्चशूनाजन्यदुरितक्षयार्थं कार्य्ये “दशाहात्तु परं सम्यक् विप्रोऽधीयीतं धर्म्मवत्। “दानञ्च विधिवद्देय मशुभात्तारकं हि तदिति” स्मृत्युक्ते दानरूपे प्रायश्चित्ते।

अङ्गभू = पु० अङ्गात् देहात् मनसो वा भवति भू–क्विप्। पुत्त्रे, मनोजे कामे च देहमनीजातमात्रे त्रि०। “हिरण्यगर्भाङ्गभुवं मुनिं हरिः” इति माघः। नारदस्य तन्मनोजातत्वात् ब्रह्माङ्गभूत्वम्। अङ्गानामङ्गमन्त्राणां भूः। कृताङ्गन्यासे त्रि०। “ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मेति” कुमा०।

अङ्गमन्त्र = पु० अङ्गेषु हृदयादिषु षट्सु न्यास्यो मन्त्रः। तन्त्रोक्ते षडदीर्घभाजि मन्त्रभेदे।

अङ्गमर्द्द = पु० अङ्गं मर्द्दयति संवाहयति मृद–णिच् अच् ६ त०। देहसंवाहके–सेवके। अङ्गमर्द्दनकारके त्रि०। भावे घञ्। देहमर्द्दने पु०।

अङ्गमर्द्दक = पु० अङ्गं मर्द्दयति मृद–णिच्–ण्वुल् ६ त०। देहसंवाहके–सेवके। देहमर्द्दनकारके त्रि०।

अङ्गमर्द्दिन् = पु० अङ्गं मर्द्दयति मृद–णिच्–णिनि ६ त०। अङ्गमर्दके सेवके। अङ्गमर्दनकारके त्रि० स्त्रियां ङीप्।

अङ्गयज्ञ = पु० अङ्गीभूतः प्रधानयज्ञोपकरणीभूतः यज्ञः। “नवग्रहमखं कृत्वा ततः कर्म्म समाचरेदि” त्युक्ते कर्ममात्राङ्गे ग्रहयागादौ, दर्शाद्यङ्गे समिद्यागादौ च ते च “समिधो यजति, तनूनपातं यजति, इडो यजति, वर्हिर्यजति, स्वाहाकारं यजति, इत्येवं पञ्चविधाः। एतेषाञ्च सकृदनुष्ठानेनैव तन्त्रन्यायेन प्रधानयागानामाग्नेयादीनामुपकारितेति मीमांसा। अङ्गयागादयोऽप्यत्र। “अङ्गान्ययाक्षीदभितः प्रधानमिति” भट्टिः।

अङ्गरक्त = न० यु० अङ्गेऽवयवे रक्तः रन्ज–क्त ७ त०। कम्पिल्यदेशजाते रक्तवर्णचूर्णवति (गुडारोचना) इति वाणिजेषु वैद्येषु च प्रसिद्धे वृक्षभेदे। ६ ब० रक्ताङ्गमात्रे त्रि०।

अङ्गरक्षणी = अङ्गं रक्ष्यतेऽनया रक्ष–करणे ल्युट् ६ त० ङीप्। लौहजालमये अङ्गरक्षणसाधने वर्म्मभेदे अङ्गरक्षणसाधनमात्रे त्रि०। भावे ल्युट्। देहत्राणे न०।

अङ्गराग = पु० अङ्गं रज्यतेऽनेन रन्ज–करणे घञ्। अङ्गलेपने कुङ्कमादौ। भावे घञ्। अङ्गस्य विलेपने पु०।

अङ्गराज = पु० अङ्गानां जनपदानां राजा अच् समा०। अङ्गदेशाधिपे, कर्णे च तत्कथा अङ्गाधिपशब्दे दृश्या। अङ्गनृपादयोऽप्यत्र।

अङ्गराज् = पु० अङ्गेषु तन्नामकदेशेषु राजते राज–क्विप् ७ त०। अङ्गदेशाधिपे कर्णे, तद्देशराजमात्रे च।

अङ्गरुह = न० अङ्गे रोहति रुह–क्विप् ७ त०। देहजे लोमकेशादौ। “विहङ्गराजाङ्गरुहैरिवायतैरिति” माघः।

अङ्गलेप = पु० अङ्गं लिप्यतेऽनेन लिप–करणे घञ् ६ त०। अङ्गरागद्रव्ये। भावे घञ् ७ त०। देहे चन्दनाद्यनुलेपने।

अङ्गव = न० अङ्गे स्वावयवे वाति अन्तर्भवति अतिशोषणात् सङ्कुचिताङ्गमिव भवति वा–ड ७ त०। शुष्कफले।

अङ्गविकल = त्रि० अङ्गेन विकलः। देहव्याकुलतायुक्ते।

अङ्गविकृति = पु० वि–कृ–क्तिन् अङ्गस्य विकृतिश्चालनादिर्यस्मात् ५ त०। (मृगीनाडा) इति ख्याते अपस्माररोगे। ६ त०। अङ्गस्य विकारे स्त्री।

अङ्गविक्षेप = पु० वि–क्षिप–घञ् अङ्गस्य विक्षेपः चालनं यत्र ब०। अङ्गुल्यादिविन्यासभेदेन देहचालनरूपे नृत्ये। तद्भेदादि यथा। “देहरुच्या प्रतीतो यस्तालमानसमाश्रयः। सविलासोऽङ्गविक्षेपीनृत्यमित्यभिधीयते। ताण्डवञ्च तथा लास्यं द्विविधं नृत्यमुच्यते। पेबलिर्बहुरूपञ्च ताण्डवं द्विविधं मतम्। अङ्गविक्षेप बाहुल्यं तथाभिनयशून्यता। यत्र सा पेवलिस्तस्या देशीति नाम लोकतः। छेदनं भेदनं यत्र बहुरूपा मुखाबली। ताण्डवं बहुरूपन्तत् दारुणात् गलमूर्द्धतः।छुरितं योवतञ्चेति लास्यं द्विविधमुच्यते। यत्राभिनयभावाद्ये रसैराश्लेषचुम्बनैः। नायिकानायकौ रङ्गे नृत्यतश्छुरितं हि तत्। मधुरं बद्धलीलाभिर्नठीभिर्यत्र नृत्यते वशीकरणविद्याभं तल्लास्यं यौवतं मतम्। गेयादुत्तिष्ठते वाद्यं वाद्यादुत्तिष्ठते लयः। लयतालसमारब्धं ततोनृत्यंप्रवर्त्तते इति सङ्गीतदामोदरः। भावे घञ्। अङ्गचालने।

अङ्गविद्या = स्त्री अङ्गरूपा व्याकरणादिशास्त्ररूपा विद्या ज्ञानसाधनम्। ज्ञानसम्पादके व्याकरणादिशास्त्रे। प्रश्नकाले अङ्गानां देहावयवानां चेष्टादिना शुभाशुभबोधके ज्योतिरङ्गे शास्त्रे च। सा च विद्या वृहत्संहितायां दर्शिता यथा “अथाङ्गान्यूर्वोष्ठस्तनवृषणपादं च दशना भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत्। सशङ्खं कक्षांसश्रवणगुदसन्धीति पुरुषे, स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखाङ्गुलिचयम्।। जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं जङ्घे नाभिः कर्णपाली कृकाटी। वक्त्रं पृष्ठं जत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं च।। नपुंसकाख्यं च शिरो ललाटम् आश्वाद्यसंज्ञैरपरैश्चिरेण। सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृतैश्च पूर्बैः।। स्पष्टे वा चालिते वापि पादाङ्गुष्ठेऽक्षिरुग् भवेत्। अङ्गुल्यां दुहितुः शोकं शिरोधत्ते नृपाद्भयम्।। विप्रयोगमुरसि स्वगात्रतः कर्पटा हृतिरनर्थदा भवेत्। स्यात्प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः।। पादाङ्गुष्ठेन विलिखेद्भूमिं क्षेत्रोत्थचिन्तया। हस्तेन पादौ कण्डूयेत्तस्य दासीमया च सा।। तालभूर्जपटदर्शनेऽंशुकं चिन्तयेत्कचतुषास्थिभस्मगम्। व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम्।। पिप्पलीमरिचशुण्ठिवारिदैर्लोध्रकुष्थवसनाम्बु जीरकैः। गन्धमांसिशतपुष्पया वदेत् पृच्छतस्तगरकेण चिन्तनम्। स्त्रीपुरुषदोषपीडितसर्वाध्वसुतार्थधान्यतनयानाम्। द्विचतुःषट्पदक्षितीनां विनाशतः कीर्त्तितैर्दृष्टैः।। न्यग्रोधमधूकतिन्दु कजम्बूप्लक्षाम्रबदरिजातिफलैः। धनकनकपुरुषलोहांशुकरूप्योदुम्बराप्तिरपि करगैः।। धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्ध्विकरौ। गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम्।। पशुहस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत सन्दृष्टैः। अविधननिवसनमलयज कौशेयाभरणमङ्घातम्।। पृच्छा वृद्धश्रावकसुपरिव्राड् दर्शने नृभिर्विहिता। मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता।। शाक्योपाध्यायार्हतनिर्ग्रन्थिनिमित्तनिगमकैवर्तैः। चौरचमूपतिबणिजां दासयोधापणस्थबध्यानाम्।। तापसे शौण्डिके दृष्टे प्रोषितः पशुपालनम्। हृद्गतं पृच्छकस्य स्यादुञ्छवृत्तौ विपन्नता।। इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते। संयोगकुटुम्बोत्या लाभैश्वर्योद्गता चिन्ता।। निर्दिशेति गदिते जयाध्वगा, प्रत्यवेक्ष्य मम चिन्तितं वद। आशु सर्वजनमध्यग त्वया दृश्यतामिति च बन्धुचौरजा।। अन्तःस्थेऽङ्गे स्वजन उदितो वाह्यजे बाह्य एवं पादाङ्गुष्ठाङ्गलिकलनया दासदासीजनः स्यात्। जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्ये।। मातर जठरे, मूर्द्ध्नि गुरुं, दक्षिणवामकौ। बाहू भ्राताथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत्।। अन्तरङ्गमवमुच्य वाह्यगस्पर्शनं यदि करोति पृच्छकः। श्लेष्ममूत्रशकृतस्त्यजन्नधः पातयेत्करतलस्थवस्तु चेत्।। भृशमवनामिताङ्गपरिमोटनतीऽप्यथवा, जनधृतरिक्तभाण्डमवलोक्य च चौरजनम्। हृतपतितक्षतास्मृतविनष्टविभग्नगतोन्मुषितमृताद्यनिष्टरवतो लभते न हृतम्।। निगदितमिदं यत्तत् सर्वं तुषास्थिविषादिकैः सह मृतिकरं पीडार्तानां समं रुदितक्षुतैः। अवयवमपि स्पृष्टान्तःस्थं दृढं मरुदाहरेद् अतिबहु तदा भुक्त्वान्नं संस्थितः सुहितो वदेत्।। ललाटस्पर्शनाच्छूकदर्शनाच्छालिजौदनम्। उरःस्पर्शात् षष्टिकान्नं ग्रीवास्पर्शे च यावकम्।। कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः। आस्वादयतश्चौष्ठौ लिहतो मधुरं रसं ज्ञेयम्।। विस्पृक्के स्फोटयेज्जिह्वामम्ले वक्त्रं विकूणयेत्। कटुतिक्तकषायोष्णैर्हिक्केत्, ष्ठीवेच्च सैन्धवे।। श्लेष्मत्यागे शुष्कतिक्तं तदल्पं, श्रुत्वा क्रव्यादं प्रेक्ष्य वा मांसमिश्रम्। भ्रूगण्डौष्ठस्पर्शने शाकुनं तद् भुक्तं तेनेत्युक्तमेतन्निमित्तम्।। मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं च स्पृष्ट्वा। गजमहिषमेषशूकरगोशशमृगमांससयुग्भुक्तम्।। दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम्। गर्भिण्यागर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्ने।। पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे! तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम्।। अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वा स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात्। मध्वाज्याद्यैर्हेमरत्नप्रबालैरग्रस्थैर्वा मातृधात्न्यात्मजैश्च।। गर्भयुता जठरे करगे स्याद् दुष्टनिमित्तवशात्तदुदासः। कर्षति तज्जठरं यदि पीठो त्पीडनतः करगे च करेऽपि। घ्राणाया दक्षिणेद्वारे स्पृष्टे मासोत्तरं वदेत्। वामे द्वौ कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने।। वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च। अङ्गुष्ठान्ते पञ्चकं चामुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्नेऽपि कन्याम्।। सव्यासव्योरुसंस्पर्शे सूते कन्यासुतद्वयम्। स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनयान् वदेत्।। शिरोललाटभ्रूकर्णगण्डहनुरदा गलम्। सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम्।। उरः कुचं दक्षिणमप्यसव्यं हृत् पार्श्वमेबं जठर कटिश्च। स्फिक् पायुसन्ध्यू रुयुगं च जानू जङ्घे च पदाविति कृत्तिकादौ।। इति निगदितमेतद्गात्रसंस्पर्शलक्ष्म प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक्। विपुलमतिरुदारो वेत्ति यः सर्वमेतन्नरपतिजनताभिः पूज्यतेऽसौ सदैव।। इति वृहत्संहितायामङ्गविद्या प्रकरणम्। “वास्तुविद्याङ्गविद्या चेति” गर्गः। अङ्गविद्याया व्याख्यानो ग्रन्थः ऋगयना० अण्। आङ्गविद्यस्तद्व्याख्यानग्रन्थे।

अङ्गविधि = पु० अङ्गस्य प्रधानोपकारिणः विधिः विधानम्। गुणविध्यपरपर्य्याये विधिभेदे। तथाहि इष्टसाधनताकार्य्यत्वादिबोधकवाक्यं विधिः। स च प्रमाणान्तरैरप्राप्तस्यैव बोधकतयोत्पत्तिविधिः “विधिरत्यन्तमप्राप्तौ” इत्युक्तेः। तथा च प्रमाणान्तराप्राप्तकर्म्मणि इष्टसाधनताकार्य्यतादिबोधकं वाक्यं प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वात् उत्पत्तिविधिः। यत्र तु प्राप्तस्यैव कर्म्मणीऽनुवादेन तस्य द्रव्यदेवतादौ इष्टसाधनतादिकं बोध्यते सोऽयमङ्गविधिः सच स्वविषये प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वात् विधिरेव। किन्तु प्रधानविधिविधेयकर्म्मणीऽङ्गबोधकतया अङ्गविधिरित्येव विशेषः यथा, अग्निहोत्रं जृहोतीत्युत्पत्तिविधिवाक्येन प्राप्तस्याग्निहोत्रस्य गुणविधानाय प्रवृत्तं दध्ना जुहोतीति वाक्यं प्राप्ताग्निहोत्रानुवादेन दधिकरणत्वमात्रं बोधयत् दध्नि इष्ट साधनताबोधनेन तत्र प्रवर्त्तयतीति दध्ना जुहोतीति वाक्यं गुणविधिरङ्गविधिरिति च उच्यते। एवमन्यान्युदाहार्य्याणि। तच्चाङ्गं क्वचित् कालः क्वचित् द्रव्यं क्वचित् देवतादि इति नानाविधम् अतएवोक्तं “कार्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तु तदुपस्थानमुपादेये गुणोभवेदिति” भट्टैः। विवृतञ्चैतत् रघुनन्दनेन प्रमाणान्तरासन्निहितं कर्म प्रथमं बुद्धौ न विषयीभवति प्राथमिकी शब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये विधेये कर्म्मणि तिथ्यादिर्गुण इति”।

अङ्गवैकृत = न० विकृतस्य भावः विकृत + अण् अङ्गेन अङ्गचेष्टया वैकृतं हृदयभावो ज्ञाप्यते यत्र बहु०। आकार इति ख्यातायाम्–हृदयगतभावावेदेकचेष्टायाम्। ६ त०। अङ्गस्य विकारे न०।

अङ्गवैगुण्य = न० अङ्गस्य प्रधानोपकारिणः वैगुण्यमन्यथाकरणम्। प्रधानकर्म्माङ्गीभूतद्रव्यादेरन्यथाकरणे यद्दोषनिवारणार्थं विष्णुस्मरणं कर्त्तव्यतया विहितं “यदमाङ्गं कृतं कर्म्म जानता वाप्यजानता साङ्गं भवतु तत् सर्वं हरेर्नामानुकीर्त्तनादिति” स्मृतिः। अतएव श्राद्धादिपद्धतौ कर्म्मान्ते यत् किञ्चिदङ्गवैगुण्यं जातं तद्दोषप्रशमनाय विष्णुस्मरणमहं करिष्ये इत्यभिलापवाक्यम्।

अङ्गशुद्धि = स्त्री शुद्ध्यतेऽनया इति शुध–करणे क्तिन् ६ त०। स्नानादौ देहसंस्कारसाधने। भावे क्तिन्। देहशोधने।

अङ्गस् = न० अनज–असुन् कुत्वञ्च। पक्षिणि इत्युज्ज्वलदत्तः।

अङ्गसंस्कार = पु० अङ्गं संस्क्रियतेऽनेन सम्–कृ + करणे घञ् सुट्। देहसंशोधनादिसंस्कारकारणे स्नाने गोधूमचूर्णादिनाङ्गमर्द्दने च। भावे घञ् ६ त०। अङ्गस्य संस्कारे विलेपनादौ। अङ्गं सस्करोति सम् + कृ–कर्त्तरि अण् ६ त०। देहसंस्कारके नरमात्रे त्रि०।

अङ्गसंस्क्रिया = स्त्री ६ त०। अङ्गसंस्कारे।

अङ्गस्पर्श = पु० अङ्गस्य अशौचिदेहस्य इतरैः स्पर्शस्तद्योगता। इतरकर्त्तृकस्पर्शयोग्यतायाम्। अशौचिनाम् देहस्पर्शनिषेधे “चतुर्थेऽहनि कर्त्तव्यमस्थिसञ्चयनं द्विजैः। ततः सञ्चयनादूर्द्ध्वमङ्गस्पर्शो विधीयते” इति दक्षस्मृतौ चतुर्थदिवसे अशौचिदेहस्य स्पर्शयोग्यताभिधानात् चतुर्थदिवसे देहस्पर्शयोग्यता। एतच्च “यावद्गोत्रमसंस्पृश्य” मित्याद्युक्तव्यतिरिक्तविषयं महागुरुनिपाते पुत्रादिभिन्नविषयञ्च तच्चाङ्गास्पृश्यत्वशब्दे वक्ष्यते।

अङ्गहार = पु० अङ्गं ह्रियते चाल्यतेऽत्र हृ–आधारे घञ् ६ त०। अङ्गुल्यादिविन्यासभेदेन नृत्ये। तच्चाङ्गविक्षेपशब्दे दर्शितम्। भावे घञ् ६ त०। अङ्गस्य हरणमात्रे पु०।

अङ्गहानि = स्त्री अङ्गस्य प्रधानोपकारिणः कर्म्मणः हानिः प्रधानकर्म्मोपयोगिनः गुणादेरन्यथा सम्पादनेऽसम्पादने च। “दैवाद् भ्रमात् प्रमादाच्चेदङ्गहानिः प्रजायते। स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिरिति” पुरा०।

अङ्गहारि = पु० अङ्गानि ह्रियन्ते अत्र हृ–बा० णि। अङ्गहारार्थे स्थले रङ्गभूमौ।

अङ्गहीन = त्रि० अङ्गेन हीनम्। साधनीभूतद्रव्यकालाद्यङ्गकरणशून्ये कर्म्मणि “अङ्गहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत्। सत् सर्व्वं पूर्णतामेतु भास्करस्य प्रसादतः” इति स्मृतिः। “अङ्गहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजम्। यजमानमदक्षिण्यो नास्ति यज्ञसमो रिपुः” इति पुरा०। विकले, छिन्नदेहे च त्रि०। अङ्गेन देहेन हीनः रहितः। कामे पु०। तस्यानङ्गत्वात्तत्त्वम्। अङ्गं हीनं यथोचितप्रमाणादल्पं यस्य। हस्तपादाद्यववयवस्य यथोचितपरिमाणाभावयुक्ते त्रि०। “धान्यचौरोऽङ्गहीनत्वमातिरेक्यञ्च मिश्रक इति” मनुः। वा परनिपातेऽहीनाङ्गोऽप्यत्रार्थे। अङ्गस्य हीनतायां कारणमुक्तं सुश्रुते। “द्विहृदयाञ्च नारीं दौहृदिनीमाचक्षते। दौहृदविमान- नात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षमनक्षं वा नारी सुतं जनयति। तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्। लब्धदौहृदा हि वीर्य्यवन्तं चिरायुषञ्च पुत्त्रं नजयति।। भवन्ति चात्र।। इन्द्रियार्थांस्तु यान्यान् सा भोक्तुमिच्छति गर्भिणी। गर्भाबाधभयात्तांस्तान् भिषगाहृत्य दापयेत्। सा प्राप्तदौहृदा पुत्त्रं जनयेत गुणान्थितम्। अलब्धदौहृदा गर्भे लभेतात्मनि वा भयम्।। येषु येष्विन्द्रियार्थेषु दौहृदे वै विमानना। जायेत तत् सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये” इति।।

अङ्गाङ्गिभावः = पु० अङ्गस्य अङ्गिनश्च भावः। गौणमुख्यभावे उपकार्य्योपकारकभावे च यथा दर्शादीन् प्रति प्रयाजादीनामङ्गत्वं, प्रयाजदींश्च प्रति दर्शादीनामङ्गित्वम्। “अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यमन्वय” इति च मीमा०।

अङ्गाधिप = पु० अङ्गस्य देशभेदस्य अधिपः। अङ्गदेशाधिपे प्रसिद्धतया कर्णे तस्य तद्राज्यप्राप्तिः भारते आ०। “यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति। तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते।। वैशम्पायन उवाच। ततस्तस्मिन् क्षणे कर्णः सलाजकुसुमैर्घटैः। काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः। अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबल इति सच देशः मगधदेशस्थगिरिब्रजात् सन्निकृष्टः पूर्ब्बस्यां दिशि स्थितः। सभापर्व्वणि मगधदेशवर्णने गिरिव्रजमुपवर्ण्य “अङ्गवङ्गादयश्चैव राजानश्च महाबलाः। गौतमाश्रममभ्येत्य रमन्तेस्म पुरार्जुनेति” अङ्गवङ्गनृपाणां सन्निकृष्टत्वमुक्तम्। भीमप्राच्यदिग्विजये च “विजित्य युधि कौन्तेयो मागधानभ्ययाद्बली।। दण्डञ्च दण्डधारञ्च विजित्य पृथिवीपतीन्। तैरेव सहितः सर्व्वैर्गिरिब्रजमुपाद्रवत्। जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह। तैरेव सहितः सर्व्वैः कर्णमभ्यद्रवद्बली।। स कम्पयन्निव महीं बलेन चतुरङ्गिणा। युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना।। स कर्णं युधि निर्ज्जित्य वशे कृत्वा च भारत। ततो विजिग्ये बलवान् राज्ञः पर्व्वतवासिनः।। अथ मोदागिरौ चैव राजानं बलवत्तरम्। पाण्डवो वाहुवीर्य्येण निजघान महामृधे इति”।। एवञ्च गिरिव्रजात् पूर्ब्बं मोदागिरेः पश्चात् स देशः। वृहत्संहितायान्तु तस्य भारतवर्षे आग्नेय्यां स्थितिरुक्ता। यथा “अग्नेय्यां दिशि कोशल कलिङ्गवङ्गोपवङ्गजठराङ्गा” इति। अङ्गस्य ज्योतिःशास्त्रोक्तलग्नस्य अधिपः। लग्नाधिपे पु०। “अङ्गाधिपे बलनि सर्व्वविभूतिसम्पदिति” ज्योति०।

अङ्गाधीश = पु० ६ त०। अङ्गदेशाधिपे कर्णे लग्नाधिपे च “अङ्गाधीशः स्वगेहे बुधगुरुकविभिः संयुत” इति जातकम्। अङ्गाधीश्वरादयोऽप्यत्र।

अङ्गार = अस्त्री० अङ्ग–आरन्। अर्द्धदग्धे–अग्निसंक्रान्ते अग्निशून्ये वा (आङार) इति प्रसिद्धे काष्ठखण्डे। “घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमानिति” “ज्वलदङ्गारसन्निभमिति” “अङ्गारे शतधौतेऽपि मालिन्यं नैव गच्छतीति”। “उष्णो दहति चाङ्गारः शीतः कृष्णायते करमिति” च पुरा०। “असौ वावादित्योऽग्निर्दिशोऽङ्गारा” इति छा०ब्रा०। “व्यङ्गारे भुक्तवज्जने” इति स्मृतिः। “अङ्गिरा अङ्गार” इति यजु०। “येऽस्याङ्गारा आसंस्तेऽङ्गिरसोऽभवन्निति” ऐत० ब्रा०। भौमग्रहे पु० रक्तवर्णे न० तद्वति त्रि०। पाशा० यत् अङ्गार्य्या स्त्री तत्सङ्घे।

अङ्गारक = अस्त्री अङ्गार + स्वार्थे कन्। अङ्गारे “अङ्गारकस्त्ववन्त्याञ्चेति” पुरा०। “अष्टावङ्गारके तथेति” ज्योतिषम्। “अङ्गारके कुमारञ्चबुधे नारायणं तथेति” पुरा०। अस्य चारो यथा “यद्युदयर्क्षाद्वक्रं करोति नवमाष्टमसप्तमर्क्षेषु। तद्वक्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम्।। द्वादशदशमैकादशनक्षत्राद्वक्रितः कुजोऽश्रुमुखम्। दूषयति रसानुदये करोति रोगानवृष्टिं च।। व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये। दंष्ट्रिव्यालमृगेभ्यः करोति पीडां सुभिक्षं च।। रुधिराननमिति वक्रं पञ्चदशात् षोडशाच्च विनिवृत्ते तत्कालं मुखरोगं सभयं च सुभिक्षमावहति।। असिमुशलं सप्तदशादष्टादशतोऽपि वा तदनु वक्रे। दस्युगणेभ्यः पीडां करोत्यवृष्टिं सशस्त्रभयम्।। भाग्यार्यमोदितो यदि निवर्त्तते वैश्वदैवते भौमः। प्राजापत्येऽस्तमितस्त्रीनपि लोकान्निपीडयति।। श्रवणोदितस्य वक्रं पुष्ये मूर्धाभिषिक्तपीडाकृत्। यस्मिन्नृक्षेऽभ्युदितस्तद्दिग्व्यूहान् जनान् हन्ति।। मध्येन यदि मघानां गतागतं लोहितः करोति ततः। पाण्ड्यो नपो विनश्यति शस्त्रोद्योगाद्भयमवृष्टिः।। भित्त्वा मघां विशाखां भिन्दन् भौमः करोति दुर्भिक्षम्। मरकं करोति घोरं यदि भित्त्वा रोहिणीं याति।। दक्षिणतो रोहिण्याश्चरन् महीजोऽर्घवृष्टिनिग्रहकृत्। धूमायन् सशिखो वा विनिहन्यात् पारियात्रस्थान्।। प्राजापत्ये श्रवणे मूले तिसृषूत्तरासु शाक्रे च। विचरन् घननिवहानामुपघातकरः क्षमातनयः।। चारोदयाः प्रशस्ताः श्रवणमघादित्यमूलहस्तेषु। एकपदाश्विविशाखा- प्राजापत्येषु च कुजस्य।। विपुलविमलमूर्त्तिः किंशुकाशोक वर्णः स्फुटरुचिरमयूखस्तप्तताम्रप्रभाभः। विचरति यदि मार्गं चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्त्तिदश्च प्रजानाम्।।” इति वृहत्संहिता। तस्य भक्तिदेशादि ग्रहभक्त्यध्याये तत्रैवोक्तं यथा

“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः। निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा।। मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः। उत्तर पाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः।। द्रविडविदेहा न्ध्राश्मकभासापुरकौङ्कणाः समन्त्रिशकाः। कुन्तलकेरलदण्डककान्तिपुरम्लेच्छसङ्करजाः।। नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्शगा देशाः। ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम्।। नागरकृषिकरपारतहुताशनाजीविशस्त्रवार्त्तानाम्। आटविकदुर्गकर्वटबधकनृशंसावलिप्तानाम्।। नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम्। रक्तफलकुसुमविद्रु मचमूपगुडमद्यतीक्ष्णानाम्।। कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम्। शठदीर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः” इति। अङ्गारमिव इवार्थेकन्। रक्तवर्णत्वात् कुरण्टकवृक्षे, (भीमराज) इति ख्याते–भृङ्गराजवृक्षे च पु०। अल्पार्थे कन्। विस्फुलिङ्ग इति विख्याते–अङ्गारक्षुद्रांशे न०। “दूर्वा लाक्षा हरिद्रे द्वे मञ्जिष्ठा सेन्द्रवारुणी। वृहती सैन्धवं कुष्ठं रास्ना मांसी शतावरी। आरनालाढकेनैव तैलप्रस्थं विपाचयेत्। तैलमङ्गारकं नाम सर्वज्वरविनाशनमिति” चक्रदत्तवैद्यकोक्ते तैलभेदे न०।

अङ्गारकारिन् = त्रि० अङ्गारं करोति कृ–णिनि। काष्ठं दुग्ध्वा विक्रयार्थमङ्गारकारके।

अङ्गारकमणि = पु० अङ्गारकस्यप्रियः मणिः। प्रबाले तस्य च रक्तवर्ण्णत्वात् तत्प्रियत्वं “माणिक्यं भास्करे देयं चन्द्रे मुक्तां प्रदापयेत् प्रबालञ्च कुजे दद्या” दित्यादिना तत्कृताशुभप्रतीकाराय प्रबालदानोक्तेः तत्प्रियत्वम्।

अङ्गारकुष्ठक = पु० अङ्गारवर्णं कुष्ठमिव कन्। हितावलीनामकौषधिभेदे।

अङ्गारधानी = स्त्री अङ्गाराणि धीयन्तेऽस्याम् धा–आधारे ल्युट् ङीप्। (आङठा) इति ख्याते अङ्गाराधानपात्र्याम् स्वार्थे कन्। अङ्गारधानिकाप्यत्रैव।

अङ्गारपरिपाचित = न० अङ्गारेण (ज्वलदग्निव्याप्तकाष्ठखण्डेन) परिपाच्यते परि + पच–स्वार्थे णिच्–क्त ३ त०। (कवाव) इति प्रसिद्धे–पक्वमांसादौ।

अङ्गारपर्ण्ण = न० अङ्गारमिव पर्णमस्य। वनभेदे। अस्त्यर्थे अच्। तत्स्वामिनि चित्ररथगन्धर्व्वे पु०। भारते चैत्ररथे प०। चित्ररथगन्धर्वस्य अर्ज्जुनादीन् प्रति उक्तिः। “आरात्तिष्ठत मा मह्यं समीपमुपसर्पत। कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्। अङ्गारपर्णं गन्धर्व्वं वित्त मां स्ववनाश्रयम्। अहं मानी तथेर्षुश्च कुवेरस्य प्रियः सखा। अङ्गारपर्णमित्येवं ख्यातं चेदं वनं ममेति”।

अङ्गारपात्री = स्त्री ६ त० अङ्गारधान्याम् (आङ्टा) इति ख्यातपात्रे।

अङ्गारपुष्प = पु० अङ्गारमिव लोहितवर्णं पुष्पं यस्य ब०। (जि~यापुति) इति ख्याते इङ्गुदीवृक्षे।

अङ्गारमञ्जरी = स्त्री अङ्गारा रक्तवर्णा मञ्जरी ब० समासान्तकबभावाह्रस्वत्वे संज्ञात्वात्। (करम्चा) इति ख्याते रक्तकरञ्जवृक्षे।

अङ्गारवल्ली = स्त्री अङ्गारा इव रक्तफलत्वात् रक्तावल्ली कर्म्म०। रक्तवर्णफलयत्याम् (कु~च) इति प्रसिद्धायाम् गुञ्जालतायां करञ्जवृक्षे च। स्वार्थे कन्। अङ्गारवल्लिका तत्रैव।

अङ्गारवेणु = पु० अङ्गारवर्णोवेणुः। वंशभेदे। तज्जाते ठक् अनुशतादि० द्विपदवृद्धिः। आङ्गारवैणुकं, तज्जाते त्रि०।

अङ्गारशकटी = स्त्री शक्नोति वोढुं शकटम्, अल्पं शकटं, शकटी, घष्ट्यादिवत् अल्पार्थे ङीप् अङ्गारस्य शकटी ६ त०। (आङ्टा) (धुनाचीति) च प्रसिद्धे अङ्गाराधारे पात्रभेदे।

अङ्गारावक्षेपण = न० अङ्गारमवक्षिप्यतेऽनेन करणे ल्युट्। अङ्गारक्षेपणसाधने पात्रे। भावे ल्युट्। अङ्गारक्षेपणे।

अङ्गारि = स्त्री अङ्गार + मत्वर्थे ठन् पृषोदरादित्वात् कलोपः। अङ्गाराधारे (आङ्टा) इति प्रसिद्धे पात्रभेदे।

अङ्गारिका = स्त्री अङ्गार विद्यतेऽस्याः अङ्गार + मत्वर्थे ठन् टाप्। (आङ्टा) इति ख्याते अङ्गारपात्रे।

अङ्गारिणी = स्त्री० अङ्गार + मत्वर्थे इनि। अङ्गारधानिकायाम् (आङ्टा इति) ख्याते पात्रे। अङ्गारवति त्रि०।

अङ्गारित = पु० अङ्गारमिवाचरतीति अङ्गार + क्विप् ततः कर्त्तरि क्त। पलाशकलिकायाम्। अङ्गारं करोतीत्यर्थे णिचि कर्म्मणि क्त, अङ्गार + तारका० इतच् वा। दग्धप्राये काष्ठादौ त्रि०।

अङ्गारीय = त्रि० अङ्गारेभ्य एतानि प्रकृतिरूपार्थे अङ्गार + छ। अङ्गारप्रकृतिभूते काष्ठादौ।

अङ्गिका = स्त्री अङ्गम् आच्छादयति अङ्ग + इनि–स्वार्थे कन् स्त्रियां टाप्। (आङ्राखा) इति प्रसिद्धे कञ्चुकवस्त्रे।

अङ्गिन् = त्रि० अङ्ग + इनि। अवयवविशिष्टे, देहवति च। “येनाङ्गविकार इति” सूत्रस्य “येनाङ्गेन विकृतेनाङ्गिनोविकार इति” वृत्तिः। अङ्गिनं नाङ्गबाधेन हन्यादपि कदाचनेति” मीमा०। प्रधाने, “एकएव भवेदङ्गी शृङ्गारो वीर एव वेति” “ये रसस्याङ्गिनो धर्म्माः शौर्य्यादय इवात्मन इति” च साहि०।

अङ्गिरस् = पु० अङ्गति अगि–गतौ असि इरुट्। ब्रह्मणोमानसपुत्रे स्वनामख्याते मुनिभेदे। भारते वन० मार्क० “ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः मरीचिरत्र्यङ्गिसौ पुलस्त्यः पुलहः क्रतुः” इति “त्वमग्ने प्रथमोऽङ्गिरा ऋषिर्देवानामिति” श्रुतौ अग्नेरङ्गिरस्त्वमुक्तं तत्कथा भारते वन० मार्क०। “यदा क्रुद्वो हुतवहस्तपस्तप्तुं वनं गतः।। तदा च भगवानग्निः स्वयमेवाङ्गिराभवत्। सन्तापयंश्च प्रभया नाशयं स्तिमिराणि च।। पुराङ्गिरा महावाहो! चचार तप उत्तमम्। आश्रमस्थो महाभागो हव्यवाहं विशेषयन्। तथा स भूत्वा तु तदा जगत् सर्व्वं व्यकाशयत्।। तपश्चरंस्तु हुतभुक् सन्तप्तस्तस्य तेजसा। भृशं ग्लानश्च तेजस्वी न स किञ्चित् प्रजज्ञिवान्।। अथ सञ्चिन्तयामास भगवान् हव्यवाहनः। अन्योऽग्निरिह लोकानां ब्रह्मणा संप्रकल्पितः।। अग्नित्व विप्रनष्ट हि तम्पमानस्य मे तपः। कथमग्निः पुनरहं भवेयमिति चिन्त्य सः। अपश्यदग्निवल्लोकांस्तापयन्त महामुनिम्।। सोऽपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः। शीघ्रमेव भवस्याग्निस्त्वं पुनर्लोकभावनः। विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु।। त्वमग्निः प्रथमं सृष्टो ब्रह्मणा तिमिरापहः। स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमोनुद!।। अग्निरुवाच। नष्टकीर्त्तिरहं लोके भवान् जातो हुताशनः। भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः।। निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव। भविष्यामि द्वितीयोऽहं प्रजापत्यक एव च।। अङ्गिरा उवाच। कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः। माञ्च देव! कुरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा।। मार्कण्डेय उवाच। तच्छुत्वाङ्गिरसो वाक्यं जातवेदास्तथाकरोत्। राजन् वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः इति”।। तस्य च यथा अग्निपुत्त्रत्वं येन येन रूपेण च आविर्भावस्तथोक्तमग्निशब्दे। अग्नौ च। “शिवो भव प्राजापत्यो मानुषीभ्यामङ्गिरः इति य० अङ्गिरोमिः ऋषिभिः सम्पादितत्वात् अङ्गसौष्ठवाद्वा अङ्गिरा अग्निरूपः हे अङ्गिरः! अग्निरूपेति” वेददीपः। अङ्गिरसः गोत्रापत्यम् शिवा० अण्। आङ्गिरसः बहुषु लुक्। अङ्गिरसस्तद्गोत्रापत्ये ब० व०। “सर्व्वे सान्ता अदन्ताः स्युः” इत्युक्तेः पृ० सलोपे अङ्गिरशब्दोऽप्यत्र, “येनानवग्वे अङ्गिरे” इति वेदः। मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनोऽङ्गिरा इति याज्ञ्य० “एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः। भृग्वङ्गिरादिभिर्भूयस्तपसाप्यायितस्तदेति” भार०।

अङ्गिरस्वत् = पु० अङ्गिरा अग्निः सहायत्वेन विद्यतेऽस्य मतुप् मस्य वः सान्तत्वात् न पदत्वम्। वायौ “यमाय त्वाङ्गिरस्वते पितृमाते स्वाहेति” यजुः। “अङ्गिरोयुक्ताय वातायेति” वेददीपः।

अङ्गीकार = पु० अनङ्गम् अस्वोपकरणं अस्वकीयम् अङ्गं क्रियते अङ्ग + च्वि + कृ–घञ्। स्वीकारे अभ्युपगमे। “अङ्गीकुरु दृशोर्भङ्गीमङ्गीभवतु मन्मथ” इति “नवाङ्गी कुरङ्गीदृगङ्गीकरोत्विति” जगन्नाथः। “अङ्गीकुर्वन् स्वमाहात्म्यं भृशं जज्वाल पावक” इति पुरा०।

अङ्गीकृत = त्रि० अङ्गीति च्व्यन्तं तत्पूर्ब्बकात् कृञः क्त। स्वीकृते “अङ्गीकृतं सुकृतिनः परिपालयन्ती” तिचौरपञ्चाशिका। “नाङ्गीकृतमुत्सृजन्तीति” नीतिसा०।

अङ्गु = पु० अगि–उन्। पाणौ हस्ते “अङ्गुष्ठः”।

अङ्गुरि(री) = स्त्री अङ्ग–उलि–रलयोरेकत्र स्मरणात् रत्वम्। (आङ्गुल) इति प्रसिद्धायाम् हस्तपादशाखायाम् वा ङीप्। अत्रैवार्थे “अङ्गुरीवोरगक्षतेति” रघुः।

अङ्गुरीय = न० अङ्गुरौ भवम् अङ्गुरि + छ बालमूलादित्वात् वा लत्वाभावः। अङ्गुलिभूषणे (आङ्गुटीति) प्रसिद्धे।

अङ्गुरीयक = न० अङ्गुरीय + स्वार्थे कन्। अङ्गुलिभूषणे (आङ्गुटीति) ख्याते भूषणभेदे।

अङ्गुल = पु० अङ्ग–उल। हस्तपदशास्वायाम् (आंगुल) इति ख्यातायाम्। वात्स्यायनमुनौ च। “यवोदरैरङ्गुलमष्टसंख्यैरिति” भास्कराचार्य्योक्ते अष्टयवोदरपरिमाणेतु न०। अङ्गौ पाणौ लीयते वा ड। अङ्गुष्ठे न०। “समन्तादङ्गुलोत्सेधं हस्तमात्रं तु स्थण्डिलमिति” पुरा०।

अङ्गुलि = स्त्री अङ्ग–उलि। हस्तपदशाखायाम् (आङ्गुल) इति ख्यातायाम्। अङ्गुलिं ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे” इति स्मृतिः (हात शुडा) इति ख्याते गजकर्णिकावृक्षे, गजशुण्डाग्रे च। पुंस्त्वमपि “संवृताधरोष्ठमङ्गुलिनेति” शकु०।

अङ्गुलितोरण = न० अङ्गुलेः तोरणमिव कृतम्। चन्दनादिद्वारा कृते ललाटस्थार्द्धचन्द्राकृतितिलके।

अङ्गुलित्र = न० अङ्गुलिं त्रायते त्रै–क ६ त०। (चामाटीति) प्रसिद्धे ज्याकर्षणकृतखेदवारणार्थम् अङ्गुलिबद्धे चर्म्मणि “बद्धगोधाङ्गुलित्रे” इति भट्टिः।

अङ्गुलित्राण = अङ्गुलिस्त्रायतेऽनेन त्रै–क ६ त०। (चामाटीति) प्रसिद्धे ज्याकषणकृतस्वेदनिवारणार्थम् अङ्गुलिबद्धे चर्मणि।

अङ्गुलिमुद्रा = स्त्री अङ्गुलेः मुदं राति रा–क ६ त०। धारयितुर्नामाक्षरमुद्रासहिते (आङ्गुटीति) प्रसिद्धे अङ्गुलीभूषणे। “उपहितस्मृतिरङ्गुलिमुद्रयेति” शकु०।

अङ्गुलिमोटन = न० अङ्गुल्योर्मोटनं मर्दनं यत्र ब०। अङ्गुलि द्वयमर्दनजाते (तुडि) इति प्रसिद्धे शब्दे।

अङ्गुलिषङ्गा = स्त्री अङ्गुलौ सङ्गो यस्याः षत्वम् ७ ब०। (याउ) इति प्रसिद्धे अङ्गुलिसंलेपकारके यवागूद्रव्ये।

अङ्गुलिसंज्ञा = स्त्री अङ्गुल्या संज्ञा संङ्केतज्ञापनद्। अङ्गुलिचेष्टाभेदेन अभीष्टकर्मणि देये सङ्केतविशेषे “मुखार्पितैकाङ्गुलिसंज्ञयैवेति” कुमा०।

अङ्गुलिसन्देश = पु० अङ्गुल्या अङ्गुलिध्वनिना सन्दिश्यते सम् + दिश–भावे घञ्। अङ्गुलिध्वनिद्वारा संज्ञादाने।

अङ्गुलिस्फोटन = न० अङ्गुल्योः स्फोटनं ताडनं यत्र ७ ब०। (तुडि) इति प्रसिद्धे अङ्गुलिद्वयमर्दनजाते शब्दे ६ त०। अङ्गुलिस्फोटनमात्रे च।

अङ्गुली = स्त्री अङ्गुलि + वा ङीप्। अङ्गुलिशब्दार्थे “च्युतमपि लब्धपदं यदङ्गुलीष्विति” शकु० “तर्जयन्नङ्गुलीभिरिति”।

अङ्गुलीपञ्चक = न० अङ्गुलीनां पञ्चकम् पञ्चसंख्या। हस्तस्थानामङ्गुलीनां समुदाये ताश्च अङ्गुष्ठतर्जनीमध्यमानामिका कनिष्ठाः।

अङ्गुलीय = न० अङ्गुरीयकवत् वा रत्वाभावः। (आंगुटीति) प्रसिद्धे अङ्गुलिभूषणे। “तव सुचरितमङ्गुलीय! नूनमिति” शकु०। इवार्थे कन्। तत्तुल्यपरिणाहवत्त्वात्तत्रैव न०।

अङ्गुलीसम्भूत = पु० अङ्गुल्यां सम्भूतः ७ त०। नखे। अङ्गुलीसम्भूतमात्रे त्रि०।

अङ्गुल्यादि = पु० ६ त०। पाणिन्युक्ते इवार्थे विहितकन्प्रत्ययनिमित्ते शब्दगणसमूहे। सच गणः “अङ्गुलि भरुज बभ्रु वल्गु मण्डर मण्डल शष्कुली हरि कपि मुनिरुह खल उदश्वित् गोणी उरस् कुलिश इति। अङ्गुलीव + कन् अङ्गुलीयकमित्यादिः।

अङ्गुष्ठ = पु० अङ्गौ पाणौ प्राधान्येन तिष्ठति स्था–क ७ त० षत्वम्। वृद्धाङ्गुलौ। “अम्बाम्बेति” सूत्रेऽङ्गुशब्दप्रयोगात् अङ्गुशब्दः हस्तवाचीतिज्ञापितम्। “अङ्गुष्ठोदरमध्ये तु यवो यस्य विराजते” इति सामु०।

अङ्गुष्ठमात्र = त्रि० अङ्गुष्ठ + परिमाणार्थे मात्रच्। अङ्गुष्ठमध्यपर्वपरिमिते। “अङ्गुष्ठमात्रोह्यवरोऽपि दृष्ट” इति श्रुतिः। “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यम” इति भारतम्। “अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत्पर्वग्रन्थभिर्मिनुयात् सदेति” कात्या०।

अङ्गूष = पु० अगि–ऊषन्। नकुले वाणे च।

अङ्घस् = न० अङ्घते नरकमनेन अघि–गतौ असुन्। पापे “युष्मच्छासनलङ्गनाङ्घसि मया मग्नेन नाम स्थितमिति” वेणी०।

अङ्घारि = पु० ऋ–इण् ६ त० पृ०। दीप्तिशीले। “कविरसि “अङ्घारिरसीति” यजु०। “अङ्घारिर्दीप्तिशील इति” वेददीपः।

अङ्घि = पु० अघिगतौ–इन्। पादे, वृक्षमूले च।

अङ्घ्रि = पु० अघि–गतौ करणे क्रिन्। चरणे, वृक्षमूले, “अधारि पद्मेषु तदङ्घ्रिणा घृणेति नै०। अङ्घ्रिपः (पादपः) छन्दसां चतुर्थभागे च। “प्रथमाङ्घ्रिसमोयस्येति” वृत्त०।

अङ्घ्रिप = पु० अङ्घ्रिणा मूलेन पिबति सिक्तजलम् पा–क ३ त०। वृक्षमात्रे।

अङ्घ्रिपर्ण्णिका = स्त्री अङ्घ्रौ मूले तदारभ्य वा पर्णमस्याः जातौ ङीप् स्वार्थे कन्। सिंहपुच्छाकारपुष्पवति (चाकुलिया) इति ख्याते वृक्षे। काभावे अङ्घ्रिपर्णीत्यपि तत्रैव।

अङ्घ्रिवल्लिका = स्त्री अङ्घ्रेरारभ्य वल्लीव पर्णवत्त्वेन, ततः स्वार्थे के ह्रस्वे टाप्। सिंहपुच्छाकारपुष्पवतिं (चाकुलिया) इति प्रसिद्धे वृक्षे। काभावे।। अङ्घ्रिवल्लीत्यपि तत्रैव।

***