अग्निरक्षण = न० अग्निः रक्ष्यतेऽनेनात्र वा रक्ष–ल्युट्। राक्षसादिभ्योऽग्निरक्षाकारके मन्त्रभेदे, अग्निहोत्रे, अग्निहोत्रगृहे च। भावे ल्युट्। अग्न्याधाने।
अग्निरजस् = पु० अग्निरिव रज्यते दीप्यते रन्ज् असुन् नलोपः। रक्तवर्णे इन्द्रगोपनामककीटे। ६ त०। अग्निवीर्य्ये, स्वर्णे च न०।
अग्निरहस्य = त्रि० ग्नेः रहस्यं तदुपासनाद्यङ्गजातमत्र। अनलोपसनाबोधके शास्त्रे अग्निकल्पे।
अग्निरुहा = स्त्री अग्निरिव रोहति रुह–क। मांसादन्यां तदङ्कुरस्य वह्नितुल्यवर्णतयोत्पन्नत्वात् तथात्वमस्याः।
अग्निरूप = त्रि० अग्नेरिव रूपं वर्णोऽस्य, अग्निरिव रूप्यते ऽसौ रूप–कर्म्मणि अच् वा। वह्नितुल्यवर्णे अग्निसदृशमान्ये च ६ त०। अग्नेर्वर्णे अग्निशब्दोक्ते वह्नेर्ध्येयरूपे च न०।
अग्निरेतस् = न० ६ त०। अग्निशुक्रे, तज्जातत्वात् सुवर्णे च तत्कथा च प्रस्कन्नरुद्रशुक्रस्य अग्निसंक्रान्तस्याग्निना देवता प्रार्थनया गङ्गयामाहितस्य तया च वोढुमसमर्थया “समुत्ससर्ज्ज तं गर्भं मेरौ गिरिवरे तदेत्यनेन” मेरौ पातने कृते तस्य तेजसैव मेरुस्थं सर्व्वं वस्तु सुवर्ण्णीकृतं यथोक्तमानुशासनिके प० भा०। “तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च। तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत” इति। अन्ते च “तस्मात् सुवर्णं माङ्गल्यं रत्नानामुत्तमोत्तमम्। सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतमिति” ८६ अध्याये।
अग्निलोक = पु० ६ त०। अग्न्यधिष्ठिते मेरुशृङ्गाधःस्थे भुवनभेदे। स च। ‘सद्रत्नकाञ्चनमयं शिखरत्रयं च मेरोर्मुरारिकपुरारिपुराणि तेषु। तेषामधःशतमखज्वलनान्तकानां रक्षो ऽम्बुपानिलशशीशपुराणि चाष्टौ” इति सि० शि० गोलाध्याये दर्शितः। अयमेव पक्षः युक्तियुक्तः। पुराणे तु अन्तरीक्षएव तस्य स्थितिरुक्ता। काशीखण्डे, विमानयानेन गच्छता शिवशर्म्मणा पृष्टाभ्यां विष्णुदूताभ्यां सूर्य्यलोकादूर्द्धं शक्रपुरीवर्णनोत्तरं तद्दक्षिणस्याम् अग्निलोको वर्णितः यथा “एतस्या दक्षिणे भागे येयं पूर्दृश्यते शुभा। इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम्। जातवेदसि ये भक्ता स्ते वसन्त्यत्र सुव्रताः। अग्निप्रवेशं कुर्य्युर्ये दृढसत्वा जितेन्द्रियाः। स्त्रियो वा सत्वसम्पन्नास्ते सर्व्वत्राग्नितेजसः। अग्निहोत्ररताविप्रास्तथाग्निब्रह्मचारिणः। पञ्चाग्नि- व्रतिनो येवै तेऽग्नेलोकेऽग्नितेजसः। शीते शीतापनुत्त्यै यस्त्विघ्मभारान् प्रयच्छति। कुर्य्यादग्नीष्टिकां वापि स वसेदग्निसन्निधौ। अनाथस्याग्निसंस्कारं यः कुर्य्याद्वा दयान्वितः। अशक्तः प्रेरयेदन्यान् सोऽग्निलोके महीयते। जठराग्निविवृद्ध्व्यै योदद्यादाग्नेयमौषधम्। मन्दाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम्। यज्ञोपस्करवस्तूनि यज्ञार्थं द्रविणन्तु वा। यथाशक्ति प्रदद्याद्यो ह्यर्च्चिष्मत्यां वसेत् स वै। अग्निरेको द्विजातीनां निःश्रेयसकरः परः। गुरुर्देवो व्रतं तीर्थं सर्व्वमग्नेर्विनिश्चितम्। अपावनानि सर्व्वाणि वह्निसंसर्गतः क्वचित्। पावनानि भवन्त्येव तस्मात् स पावकः स्मृतः। अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम्। अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित्। अन्तरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः। मांसग्रासान् पचेत् कुक्षौ स्त्रीणां नो मांसपेशिकाम्। तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका। कर्त्त्री हन्त्री पालयत्नी विनैनां किं विलोक्यते। चित्रभानु रयं साक्षान्नेत्रं त्रिभुवनेशितुः। अन्धन्तमोमये लोके विनैनङ्कः प्रकाशकः। धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम्। एतद्भुक्तं निषेवन्ते सर्व्वे दिवि दिवौकसः” इति।
अग्निवत् = त्रि० अग्निरस्त्यस्य अग्नि + मतुप् वेदे मस्य वः। साग्निके विप्रे, “यपुर्ययस्तु चरुरग्निवा~ इव” इति वेदः। तुल्यार्थे वति। अग्नितुल्यक्रियायादौ अव्य०।
अग्निवधू = स्त्री ६ त०। स्वाहायाम् दक्षकन्यायाम्। अग्नायीशब्दे विवरणं द्रष्टव्यम्।
अग्निवर्चस् = त्रि० अग्नेर्वर्च इव बर्चो दीप्तिरस्य। अग्नितुल्यदीप्तिमति, “स्यन्दनेनाग्निवर्चसा” इति भार०। ६ त०। अग्नितेजसि न०।
अग्निवर्द्धक = त्रि० अग्नेर्जठरानलस्य वर्द्धकः वृध + णिच्– ण्वुल्। जठराग्न्युद्दीपके औषधभेदे, पथ्याहारे च।
अग्निवर्ण्ण = त्रि० अग्नेर्वर्ण इव वर्णो रूपं यस्य। अग्नितुल्यवर्णे, “ब्राह्मणस्तु सुरां पीत्वा अग्निवर्ण्णां सुरां पिबेदिति” स्पृतिः। सूर्य्यवंश्ये नृपतिभेदे पु० तत्कथा रघौ १९ स०। ६ त०। अग्नेः रूपे पु०।
अग्निवल्लभ = पु० अग्नेर्वल्लभः सुखेन दाह्यत्वात्। सालवृक्षे। अग्निप्रिये त्रि०।
अग्निवासस् = न० अग्निरिव शुद्धं वासो वस्त्रम्। अग्नितुल्यशुद्धे वस्त्रे। ६ ब०। तादृग्वस्त्रवति त्रि०।
अग्निवाह = पु० अग्निं वाहयति गमयति अनुप्नापयति वा वाहेः अण्। छागे, धूमे च। वह्निवाहकमात्रे त्रि०।
अग्निवाहन = न० ६ त०। छागे, “रक्तं जटाधरं वह्निं कारयेद्धूम्रवाससम्। ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम्। चतुर्वाहुं चतुर्द्दन्तं देवेशं वायुसारथिम्। चतुर्भिश्छगलैर्युक्ते वायुचिह्ने रथे स्थितम्” इति पुराणे छागवाहनत्वमुक्तम्।
अग्निविद् = पु० अग्निं विन्दते विन्द–क्विप्। अग्निहोत्रिणि साग्निके। अग्निरहस्यं वेत्तीति विद–क्विप्। अग्निरहस्यशास्त्राभिज्ञे पु०।
अग्निविन्दु = पु० अग्नेर्विन्दुरिव। विस्फुलिङ्गे अग्निकणे।
अग्निवीज = न० ६ त०। अग्नेर्वीजे तद्रेतोजातत्वात् उपचारात् स्वर्णे। “रुद्रतेजःसमुद्भूतं हेम वीजं विभावसोरिति” स्वर्णदानमन्त्रः। तत्कथा अग्निरेतःशब्दे द्रष्टव्या। तन्त्रीक्ते रकारवर्णे “अग्निवीजं समुद्धृत्य मुखवृत्तसमन्वितमिति” तन्त्रम्।
अग्निवीर्य्य = न० आनेर्वीर्य्यम्। वह्निरेतसि, तत्पराक्रमे च। तद्वीर्य्यजातत्वादुपचारात् स्वर्णे। ब०। अग्नितुल्यपरक्रमवति त्रि०
अग्निशरण = न० ६ त०। अग्न्याधानगृहे अग्निहोत्रगृहे।
अग्निशर्म्मन् = त्रि० अग्निरिव शृणाति तीव्रकोपत्वात् शॄ–मनिन्। तीव्रकोपान्विते। ऋषिभेदे पु०। वाह्वादि० इञि आग्निशर्म्मिः तदपत्ये। नडादि० फक्। आग्निशर्म्मायणः तद्गोत्रापत्ये।
अग्निशाला = स्त्री अग्नीनां शाला गृहम्। अग्न्याधानस्थाने अस्या वा नपुंसकत्वम्। “हविर्धानमग्निशालं पत्नीनां सदनम्” इति वेदः।
अग्निशिख = पु० अग्नेरिव अग्निरिव वा शिखा यस्य। कुङ्कुमवृक्षे, कुसुम्भवृक्षे, अग्नितुल्यशिखे–जाङ्गलीवृक्षे च। अग्नितुल्यजटावति त्रि०। अग्निशिखेव शिखाऽग्रमस्य। लाङ्गलिकावृक्षे स्त्री (विषलाङ्गला) अग्नितुल्याग्रभागे त्रि० “वाणैरग्निशिखैरिवेति” पुरा०। स्वर्णे कुसुम्भपुष्पे च न०। ६ त०। अग्निज्वालायां स्त्री “शरैरग्निशिखोपमै रिति, भार०।
अग्निशुश्रूषा = स्त्री ६ त०। वह्नेः विधानेन सेवोपयोगिनि होमे।
अग्निशेखर = पु० अग्निरिव शेखरमग्रं यस्य। कुङ्कुमवृक्षे, कुसुमवृक्षे, जाङ्गलीवृक्षे च। अग्नितुल्याग्रवति त्रि०।
अग्निष्टुत् = पु० अग्निःस्तूयतेऽत्र स्तु–आधारे क्विप् षत्वम्। अग्निष्टोमस्य विकृतिभूते एकाहसाध्ये यागभेदे। सामसहिताभाष्ये संशयपूर्वकं तच्च कर्म्मान्तरमिति सायणाक्षार्य्येण निर्णीतम् यथा। “उक्त्वाग्निष्टुतमेतस्य वारव- न्तीय–साम हि। रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये। रेवत्यादिर्गुणः कर्म्म पृथग्वा पूर्ब्बवद् गुणः। रेवती–वारवन्तीय–सम्बन्धाख्यः पशु–प्रदः। साम्नोऽत्र फल–कर्म्मभ्यां सम्बन्धे वाक्य–भिन्नता। तेनीक्तगुण–संयुक्तमन्यत् कर्मोच्यते फले”।। “त्रिवृदग्निष्टोमस्तस्य वायव्यासु ऋक्षु एकविंशाग्निष्टोम–साम कृत्वा ब्रह्मवर्चस–कामो यजेत”–इत्यस्य सन्निधौ श्रूयते–“एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशु–कामोह्येतेन यजेत” इति। “अस्यायमर्थः। प्रकृतौ तृतीयसवने अर्भिव–पवमानस्योपरि यज्ञायज्ञीयं साम गीयते, तेन च साम्ना अग्निष्टोमयागस्य समाप्यमानत्वादग्निष्ठोम सामेत्युच्यते, तच्च प्रकृतौ “यज्ञायज्ञीयो वा अग्नये” इत्याद्याग्नेयीष्वृक्षु गीयते अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत् साम गातव्यम्, तच्च प्रकृताविवैक विंश–स्तोम–युक्तम्। पशुकामस्य तु “रेवतीर्नः सधमादे” इत्यादिषु रेवतीष्वृक्षु “वारवन्तीयं” साम गायेदिति, तत्र रेवतीनामृचां वारवन्तीयनामकेन सास्रा यः सम्बन्धः सोऽयं पशु–फलायाग्निष्टुति विधीयते, एतस्यैवेति प्रकृतपरामर्शकेनैतच्छब्देनान्य–व्यावर्त्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् यथा पूर्ब्बाधिकरणे इन्द्रियफलाय प्रकृताग्निहोत्रे दधि–गुणोविहितः तद्वत्, इति प्राप्ते, ब्रूमःविषमो दृष्टान्तः, दध्नोहोम–जनकत्वं न शास्त्रेण बोधनीयं तस्य लोकतोऽवगन्तुं शक्यत्वात्। फल–सम्बन्धः एकएव शास्त्रबोध्यः इति न तत्र वाक्यभेदः, इह तु रेवत्यृगाधारकवारवन्तीय–साम्रोऽग्निष्टुत्–कर्म्म–साधनत्वं फल साधनत्वं चेत्युभयस्य शास्त्रैक–बोध्यत्वाद् दुर्वारोवाक्य–भेदः तेन पशुफलकं यथोक्तगुण–विशिष्ट–कर्म्मान्तरमत्र विधीयते। एतच्छद्बः एवकारश्च विधीयमान–कर्म्मान्तर–विषयतया योजनीयौ इति”। “यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा। अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” इति स्मृतिः।
अग्निष्टुभ् = पु० अग्निस्तुभ्यतेऽत्र क्विप् षत्वम्। यज्ञभेदे।
अग्निष्टोम = पु० अग्नेः स्तोमः स्तुतिसाधनं तृचसमुदायोऽवसानेऽत्र। यागविशेषे स च यागः ताण्ड्यमहाब्राह्मणे षष्ठाध्याये “प्रजापतिरकामयत बहु स्यां प्रजायेयेति सएतमग्निष्टोममसृजत” इत्युपक्रम्य “एष वाव यज्ञोयदग्निष्टोम” इति “एकस्मा अन्यो यज्ञः कामायाह्रियते सर्व्वेभ्योऽग्निष्टोम” इति चाग्निष्टोमं स्तुत्वा “द्वादश स्तोत्राण्यग्निष्टोम” इत्यादिना सप्रपञ्चं दर्शितः। अग्निष्टोम शब्दस्य व्युत्पत्तिर्भाष्यकृता सायणाचार्य्येण दर्शिता यथा “यज्ञायज्ञीय इत्यस्यामाग्नेय्यामुत्पन्नेन अग्नेष्टोमसाम्ना समाप्ते रग्निष्टोम इति नाम सम्पन्नमिति”। तद्विधानपरिपाटी च वौधायनीये केशवस्वामिना दर्शिता तत एव साऽवगन्तव्या। ताण्ड्ये षष्ठाध्याये च “अग्निष्टोमे द्वादश स्तोत्राणि द्वादश शस्त्राणी” त्युक्त्वा अष्टमाध्यायपर्य्यन्तं यानि स्तोत्राणि शस्त्राणि वा प्रयोज्यानि तान्यभिहितानि तानि च तत एवावगन्तव्यानि तेषां स्वरूपादि तत्तच्छब्दार्थे वक्ष्यते तत्र अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं प्रगीतमन्त्रसाध्या तु स्तोत्रमिति तयेर्भेदः। एकाहसाध्ये अग्निष्टुन्नामके यज्ञे च तत् प्रमाणम् अग्निष्टुच्छब्दे। अग्निष्तोमस्य व्याख्यानः कल्पः ठक्। आग्निष्टोमिकः अग्निष्टोमबोधककल्पे।
अग्निष्टोमसाम = न० अग्निष्टोमे अवसाने विहितं साम गानविशेषः। अग्निष्टोमयज्ञसमापके तृतीयसवने विहिते “यज्ञायज्ञीय” इत्यस्यामाग्न्येय्यामृचि गीयमाने सामवेदे “प्रकृतौ (अग्निष्टोमे) तृतीयसवने आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते तेन च साम्ना अग्निष्टोमस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते इति सा० भा०। “ब्रह्मणो वा एष रसो यद्यज्ञाज्ञीयं स्तुवन्ति ब्रह्मणएव रसे यज्ञं प्रतिष्ठापयन्तीति” ताण्ड्यब्राह्मणम् तच्च साम यज्ञायज्ञीयशब्दे वक्ष्यते।
अग्निष्ठ = पु० अग्नौ स्थातुमर्हति स्था–क षत्वम्। वह्नौ स्थिति योग्ये लौहमये कटाहादिपात्रे।
अग्निसंस्कार = पु० अग्निना संस्कारः मन्त्रपूर्ब्बकदाहः। विधानेन अग्निकृतदाहे। “अनाथस्याग्निसंस्कारं यः कुर्य्याद्वा दयान्वितः” इति काशी०।
अग्निसङ्काश = त्रि० अग्निरिव सङ्काशते काश–दीप्तौ अच्। अग्नितुल्यवर्ण्णे तत्तु ल्यतेजस्के च।
अग्निसम्भव = पु० अग्निरिव सम्भवति सम् + भू–अच्। अरण्यकुसुम्भे। ५ त० स्वर्णे न०। अग्निसम्भूतमात्रे त्रि०।
अग्निसहाय = पु० अग्निना सह अयते अय–अच् ३ त०। वायौ, धूमे च। अग्निसहायधूमवद्वर्णवत्त्वात् शीघ्रगतित्वाच्च वनकोपते च।
अग्निसाक्षिक = त्रि० अग्निःसाक्षी यत्र कप्। वह्निं साक्षीकृत्य कृते कर्म्मणि। “सख्यं कृत्वाग्निसाक्षिकमिति” रामा०।
अग्निसार = न० अग्नौ सारो यस्य अत्यन्तानलोत्तापनेऽपि सारांशादहनात्। रसाञ्जने ६ त०। वह्निसारे तु अस्त्री।
अग्निस्तम्भ = पु० अग्निः दाहशक्तौ निरुध्यते अनेन। अग्निदाहनशक्तिनिरोधके मन्त्रे, ओषधे च। ६ त०। अग्नेर्दाहशक्तिप्रतिरोधे पु०।
अग्निष्वा(स्व)त्त = पु० ब० व० अग्नितः (श्राद्धीयविप्रकररूपानलात् सुष्ठु आत्तं ग्रहणं येषां आ–दा–क्त षत्वमिति बहवः। मरीचिपुत्रे पितृगणविशेषे। “अग्निष्वा(स्वा)त्ताः वर्हिषदः ऊष्मपा आज्यपास्तथेति” मनुः। तैत्तिरीयब्राह्मणे तु अन्यथा निरुक्तं यथा “अग्निष्वात्तानृतुमतो हवामहे। नराशंसे सोमपीथं य आशुः। ते नो अर्वन्तः सुहवा भवन्तु। शन्नो भवन्तु द्विपदे शं चतुष्पदे” इति “अग्निष्वात्ता अग्निष्वात्तनामकाः पितरः पितृविशेषाः। ते च चातुर्मास्यगतपितृयज्ञब्राह्मणे स्पष्टमभिहिताः, “ये वा अयज्वानो गृहमेधिन स्वे पितरोऽग्निष्यात्ता” इति। मनुष्यजन्मन्यग्निष्टोमादियागमकृत्वा स्मार्त्तकर्म्मनिष्ठाः सन्तो मृत्वा च पितृत्वं गताः। तानग्निष्वात्तान्” इति तद्भाष्ये माधवाचार्य्यः।
अग्निहुत् = पु० अग्निं हुतवान् हु–क्विप् ६ त०। कृताग्निहवने अग्निहोत्रिणि।
अग्निहोत्र = न० अग्नये हूयतेऽत्र हु–त्र ४ त०। मन्त्रकरणवह्निस्थापनपूर्ब्बतदुद्देश्यकहोमे। अग्निहोत्रसम्बन्धित्वात् हविषि, वह्नौ पु०। काञ्चिदाख्यायिकामुपक्रम्य अग्निहोत्रशब्दनिरुक्तिविधानाद्युक्तं तैत्तिरीयब्राह्मणे “सोऽग्निरबिभेत् आहुतिभिर्वैतमाप्नोतीति स प्रजापतिं पुनः प्राविशत् तं प्रजापतिरब्रवीत् जायस्वेति सोऽब्रवीत् किं भागधेयमभिजनिष्य इति तुभ्यमेवेदं हूयाता इत्यब्रवीत् सएतद्भागधेयमभ्यजायत। यदग्निहोत्रम्” इति पुरा प्रजापतेस्तापं दृष्ट्वा पलायनादुपरतोऽग्निः प्रजापतेस्त्वपक्रम्यागत एव, ततः प्रजापतिस्तस्मिन्नग्नौ पूर्ब्बोक्तं घृतं स्वाहाकारेण यामाहुतिं प्रथममजुहोत्। तदाहुतिसामर्थ्येन पुरुषमसृजत। तथा द्वितीयाद्याहुतिभिः अश्वादीनसृजत। ततः प्रजानां पुनरुत्पत्तेः स्वस्य प्रजापतित्वं सुस्यितम्। तदानीमग्निर्भीतोऽभूत्। तस्यायमभिप्रायः। प्रजापतिः पुनः पुनराहुतिभिरेव मां प्राप्नोति न तु भागं प्रयच्छति। तास्त्वाहुतीर्देवा एव गृह्णन्ति। तस्माद्भागरहितः सेवितुं न शक्नोमीति विचार्य्य पूर्ब्बवत् पलायनमकृत्वा तस्मिन् प्रजापतावेव प्रविष्टः। स च प्रजायस्वेति पुनः पुनरग्निमब्रवीत् सचाग्निस्तदुदर एव स्थित्वा भागरहितोऽहं क्षुधितः सेवितुं न शक्नोमि भागो मेऽपेक्षितः। किं भागमभिलक्ष्याह- मुत्पत्स्य इत्युक्तम्। अग्निना उक्तः प्रजापतिरिदमग्निहोत्रगतं हविस्तुभ्यमेव हूयाता इति भागं दत्तवान्। ततोऽग्निहोत्रहविःस्वरूपं भागधेयमभिलक्ष्याग्निरुत्पन्नः। तस्मादग्नये होत्रं होमोऽस्मिन् कर्म्मणीति बहुव्रीहिव्युत्पत्त्या अग्निहोत्रमिति कर्म्मनाम। अग्नये होत्रमिति तत्पुरुषव्युत्पत्त्या हविर्नाम” इति तद्भाष्यम्। तत्कालश्च तत्रैवोक्तः “तद्धूयमानमादित्यीऽब्रवीत्। मा हौषीः। उभयोर्वै नावेतदिति सोऽग्निरब्रवीत्। कथं नौ होष्यन्तीति। सायमेव तुभ्यं जुहवन् प्रातर्मह्यमित्यब्रवीत्। तस्मादग्नये सायं हूयते सूर्य्याय प्रातः” इति। तद्धविरग्न्यर्थं प्रजापतिना हूयमानं दृष्ट्वा मा हौषीरित्येवमादित्यो निवार यामास। हेतुञ्चैवमवीचत्। योऽयमग्निर्यश्चाहं तयोरुभयोरावयोरेतद्धविः, न त्वेकस्याग्नेः इति। तदानीमुभयोर्भागव्यवस्था जाता। अग्मिना पृष्टा या कालभेदेन व्यवस्था तामुवाच। तस्मादग्नये सायं जुहुयात्, सूर्याय प्रातर्जुहुयात्” इति तद्भाष्यम्। तच्च नित्यं काम्यञ्च “यावज्जीमग्निहोत्रंजुहोतीति” श्रुत्या नित्यस्य “उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीति” श्रुत्या च काम्यस्य विधानमुक्तम्। अस्य यजुर्वेदोक्तत्वेऽपि सर्ववेदिभिः कर्त्तव्यता “यन्नाम्नातं स्वशाखायां पारक्यमविरोधि च विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्म्मवदिति” छन्दोग० प० कात्या०। “अग्निहोत्रं त्रयोवेदा स्त्रिदण्डो भस्मधारणम्। बुद्धिपौरुषहीनानां जीविकेति वृहस्पतिरिति” चार्वाकमतम्।
अग्निहोत्रहवनी = स्त्री अग्निहोत्रोऽग्निः हविर्वा हूयतेऽनया हुकरणे ल्युट् ६ त०। अग्निहोत्रहविर्ग्रहण्यामृचि।
अग्निहोत्रहुत् = पु० अग्निहोत्रमग्निं जुहोति स्महु–क्विप ६ त०। कृताग्निहोत्रे “यत्र सुहृदा सुकृतामग्निहोत्र हुतां यत्र लोक” इति, श्रुतिः।
अग्निहोत्रिन् = पु० अग्निहोत्र + मत्वर्थे इनि। अग्निस्थापनपूर्बकं प्रातरादिकाले अग्निहोत्रहोमकर्त्तरि साग्निके।
अग्नीध् = पु० इध्यते इन्ध–भावे क्विप् ६ त०। अग्न्युद्दीपने “अग्नीधः शरणे रण् भञ्चेति” कात्या० वा०। शरणार्थे रणि आग्नीध्रः। कर्त्तरि क्विप्। अग्न्याधानकर्त्तरि।
अग्नीध्र = पु० अग्निम् आदधाति धृ–क दीर्घः। वह्न्याधानकारके ब्रह्मापरपर्य्याये ऋत्विग्भेदे। अग्निं धारयत्यस्मै सम्प्रदाने घञर्थे क दीर्घः। अग्निकृत्ये होमादौ पु०।
अग्नीन्द्र = पु० द्वि० द्वन्द्व० इन्द्रपरत्वान्नात्। एतन्नामकयो रेकहविर्भोक्त्रोर्देवयोः।
अग्नीन्धन = त्रि० अग्निरिध्यतेऽनेन इन्ध–ल्युट् ६ त०। मन्त्रभेदे। स्त्रियां टित्त्वात् ङीप्। भावे ल्युटि। अग्नि कृत्ये न०।
अग्नीय = त्रि० अग्नेरदूरभवं स्थानादि–उत्करा० छ। वह्निसन्निकृष्टस्थाने।
अग्नीवरुण = पु० द्वि० द्वन्द्व० ईत्। एतयोरेकहविर्भोक्त्रोर्देवयोः।
अग्नीषोम = पु० द्वि० द्वन्द्व० ईत् षत्वञ्च। एतन्नामकयोरेक हविर्भोक्त्रोर्देवयोः। “अग्नीषोमीयं पशुमालभेतेति” श्रुतिः।
अग्नीषोमप्रणयनी = स्त्री अग्नीषोमौ प्रणीयेते संस्क्रियेते अनया अत्र वा प्र + नी–करणे आधारे वा ल्युट् ङीप्। तयोः संस्कारिकायामृचि पात्र्याञ्च। भावे ल्युट्। तयोः संस्कारे न०।
अग्नीषोमीय = त्रि० अग्नीषोमौ देवते अस्य छ। तद्देवताके पश्वादौ कपालरूपपात्रादिसंस्कृते हविर्भेदे च “अग्निषोमीयमेकादशकपालं निर्वपतीति” “योऽग्नीषोमीमयस्य पशोरश्नातीति” च श्रुतिः।
अग्न्यगार = न० अग्नेः अग्निहोत्रसंबन्धिवह्नेरगारं ६ त०। अग्निहोत्रगृहे “वसंश्चतुर्थोऽग्निरिवाग्न्यगारे” इति रघुः। अग्निगृहादयोप्यत्र।
अग्न्याधान = न० अग्नेराधानम् आ–धाञ्–ल्युट् ६ त०। वेदमन्त्रद्वारा वह्निस्थापने। ७ बहु०। अग्निहोत्रयागे।
अग्न्याधेय = पु० अग्निराधेयो येन। अग्निहोत्रिणि साग्निके द्विजे तत्प्रकारश्च “पुण्यमेवादधीताग्निमित्युपक्रम्य कात्यायनसंहितायां दर्शितः कल्पग्रन्थे च विस्तरी द्रष्टव्यः।
अग्न्यालय = पु० अग्नेरालयः आ + ली–आधारे अच् ६ त०। वेदमन्त्रद्वारा वह्निस्थापनयोग्ये गृहे, तदाधारे–कुण्डे, स्थण्डिले च।
अग्न्याहित = पु० अग्निराहितो येन आ + धाञ्–कर्म्मणि क्त, वा परनिपातः। अग्निहोत्रिणि साग्निके द्विजे।
अग्न्युत्पात = पु० अग्निना दिव्यानलेन कृत उत्पातः (अनिष्टसूचकोपद्रवः) उद् + पत–घञ् ३ त०। आकाशस्थानल विकारसूचितोपद्रवे, उल्कापातादावशुभसूचके, धूमकेतुकृतविकारे च। स च नाभस उत्पातः उल्कादिरूपः पञ्च विधः धिष्ण्योल्काशनिविद्युत्ताराभेदात्। तेषां लक्षणादिकं फलसहितम् वृहत्संहितायामुक्तं ३३ अ० यथा “दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः। धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः।। उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः। विद्युदहोभिः षड्भिस्तद्वत्तारा विपाचयति।। तारा फलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या। तिस्रः सम्पूर्णफला विद्युदयोल्काशनिश्चेति।। अशनिः स्वनेन महाता नृगजाश्वमृगाश्मवेश्मतरुपशुषु। निपतति विदारयन्ती धरातलं चक्रसंस्थाना।। विद्युत्सत्वत्रासं जनयन्ती तटतटस्वना सहसा। कुटिलविशाला निपतति जीवेन्धनराशिषु ज्वलिता।। धिष्ण्या कृशाल्पपुच्छा धनूंषि दश दृश्यतेऽन्तराभ्यधिकम्। ज्वलिताङ्गारनिकाशा द्वौ हस्तौ सा प्रमाणेन।। तारा हस्तं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा। तिर्यगधश्चोर्ध्वं वा याति वियत्युह्यमानेव। उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा। दीर्घा भवति च पुरुषा भेदा बहवो भवन्त्यस्याः। प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः। गोधाहिधूमरूपाः पापा या चोभयशिरस्का।। ध्वजझषकरिगिरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः। श्रीवत्सवज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः।। अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय। बम्भ्रमती गगनोपरि विभ्रममाख्याति लोकस्य।। संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च। परचक्रागमनृपबध–दुर्भिक्षावृष्टिभयजननी पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांश्वोः। उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः।। शुक्ला रत्का पीता कृष्णा चोल्का द्विजादिवर्णाभा। क्रमशश्चैतान् हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः।। उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा। ऋज्वी स्निग्धाखण्डा नीचोपगता च तद्वृद्ध्यै।। श्यामा वारुणनीलाऽसृग्दहनासितभस्मनिभा रूक्षा। सन्ध्यादिनजा वक्रादलिता च परागमभयाय।। नक्षत्रग्रहधाते तद्भक्तीनां क्षयाय निर्दिष्टा। उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा।। भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम्। विप्रक्षत्रियपीडा पुष्यानिलविष्णु देवेषु।। ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम्। क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते।। कुर्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम्। शक्रोपरि नृपतीनां गृहेषु तत्स्वामिनां पीडाम्।। आशाग्रहोपघाते तद्देश्यानां खले कृषिरतानाम्। चैत्यतरौ सम्पतिता सत्कृतिपीडां करोत्युल्का।। द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जन क्षयोऽभिहितः। ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनो गोष्ठे।। क्ष्वेडास्फोटितवादितगीतीत्क्रुष्टस्वना भवन्ति यदा। उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य।। यस्याञ्चिरं तिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय। या चोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यरूपा।। श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनाः। हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्द्धृगा।। वर्हिपुच्छरूपिणी लोकसङ्क्षया वहा। सर्पवत् प्रसर्पिणी योषितामनिष्टदा।। हन्ति मण्डला पुरं छत्रवत् पुरोहितम्। वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी।। व्यालसूकरोपमा विस्फुलिङ्गमालिनी। खण्डशोऽथ वा गता सस्वना च पापदा।। सुरपतिचापप्रतिमा राज्यं नभसि विलीना जलदान् हन्ति। पवनविलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा।। अभिभवति यतः पुरं बलं वा भवति भयं तत एव पार्थिवस्य। निपतति च यथा दिशा प्रदीप्ता जयति रिपूनचिरात्तया प्रयातः”।। तत्कारणमुक्तं गर्गसंहितायाम् “अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः। नरापचारान्नियतमुपसर्गः प्रवर्त्तते। ततोऽपराधान्नियतमपवर्जन्ति देवताः। ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान्। त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः। विचरन्ति विनाशाय रूपैः संबोधयन्ति च” इति। अनिष्टसूचकरूपभेदाश्च वृहत्संहितावाक्ये प्राक् दर्शिताः। तल्लक्षणं काश्यपेन सामान्यत उक्तम् “वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला। पौरुषेय प्रमाणेन उल्का नानाविधा स्मृतेति”।
अग्न्युद्धार = पु० अग्नेःआधनार्थमुद्धारः अरणिमन्थनेन उत्थापनम्। अरणिद्वयघर्षणेनानलोत्पादने। तत्प्रकारस्तु “अश्वत्थो यः शमीगर्भः प्रशस्तीर्वीसमुद्भवः। तस्य या प्राङ्मुखी शाखा वोदीची वोर्द्धगापि वा।। अरणिस्तन्मयी प्रोक्ता तन्मय्येवोत्तरारणिः। सारवद्दारवञ्चत्रमोविली च प्रशस्यते।। संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते। अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः।। चतुर्विंशतिरङ्गुष्ठदैर्व्यं षडपि पार्थिवम्। चत्वार उच्छ्रये मानमरण्योः परिकीर्त्तितम्।। अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्द्वादशाङ्गुलम्। ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम्।। अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत्पर्व्वग्रन्थिभिर्म्मिनुयात् सदा।। गोबालैः शणसंमिश्रैस्त्रिवृत्तममलात्मकम्। व्यामप्रमाणं नेत्रं स्यात् प्रमय्यस्तेन पावकः।। मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी। अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते।। अङ्गुष्ठमात्रं हृदयं त्र्यङ्गुष्ठमुदरं स्मृतम्। एकाङ्गुष्ठा कटिर्ज्ञेया द्वौ वस्तिर्द्वौ च गुह्यकम्।। ऊरू जङ्घे च पादौ च चतुस्त्र्येकै र्यथाक्रमम्। अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः।। यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते। अस्यां यो जायते वह्निः स कल्याणकृदुच्यते।। अन्येषु ये तु मथ्नन्ति ते रोगभयमाप्नुयुः। प्रथमे मन्थने त्वेष नियमो नोत्तरेषु च।। उत्तरारणिनिष्पन्नः प्रमन्थः सर्ब्बदा भवेत्। योनिसङ्करदोषेण युज्यते ह्यन्यमन्थकृत्।। आर्द्रा सशुषिरा चैव घूर्णाङ्गी पाटिता तथा। न हिता यजमानानामरणिश्चोत्तरारणिः।। परिधायाऽहतं वासः प्रावृत्य च यथाविधि। बिभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया।। चत्रव्रध्नप्रमन्थाग्रं गाढं कृत्वा विचक्षणः। कृत्वोत्तराग्रा मरणिं तद्व्रध्नमुपरि न्यसेत्।। चत्राधः कीलकाग्रस्थामोविलीमुदगग्रकाम्। विष्टम्भाद्धारयेद् यन्त्रं निष्कम्पं प्रयतः शुचिः” इति कात्या० स०।।
अग्न्युपस्थान = न० अग्निरुपस्थीयतेऽनेन उप + स्था ल्युट् ६ त०। वह्नेरुपासनमन्त्रे। स्त्रियां ङीप्। भावे ल्युट् ६ त०। वह्नेरुपासने न०।
अग्र = न० अङ्ग–रक् नलोपः। उपरिभागे, शेषभागे, आलम्बने पूर्ब्बभागे, उत्कर्षे समूहे च। प्रधाने, अधिके, प्रथमे च त्रि०। तत्र पूर्ब्बभागे अग्रकायः “अथाग्रहस्ते मुकुलीकृताङ्गुलाविति” कुमा०। ऊर्द्ध्वे “शृङ्गाणि यस्याग्रसरोरुहाणि इति” कु०। आलम्बने, “मनुमेकाग्रमासीनमिति” मनुः प्रधाने “अथाग्रमहिषी राज्ञ” इति प्रथमे अग्रहायणेष्टिरिति। पुरोऽर्थे, अग्रसरः। शेषभागे, “हर्म्म्याग्ररूढेषु तृणाङ्कुरेष्विति” रघुः। “सूच्यग्रेण न दातव्यं विना युद्धेन केशवेति” “बालाग्रशतभागस्य शतधा कल्पितस्य चेति” “आराग्रमात्रोह्यपरोऽपि दृष्टः इति” च श्रुतिः। अधिके “अथाग्ररयशालिनेति”। शृङ्गे, “कैलासाग्रसमासीनमिति” तन्त्रम् उत्कर्षे, अग्रादग्रं रोहतीति ता० ब्रा० अग्रमुत्कर्षमिति माधवाचार्य्यः अधिके “साग्रं वर्षशतमिति” रामा० अक्षरूपपलपरिमाणे (ज्योतिषोक्तस्य अक्षरूपपलस्य परिमाणार्थेऽंशभेदे) च। अक्षक्षेत्रसाधनार्थायां सिद्धान्तशिरोमण्युक्तायाम् अक्षक्षेत्रकर्णेन गुणितायां स्वकोट्या हृतायां क्रान्तिज्यायां स्त्री। “क्रान्तिज्यके कर्णगुणे विभक्ते कोट्या भुजेनाप्तमिताग्रका स्यात्” इति सि० शि०। “क्रान्तिज्या अक्षश्रुतिकर्णेन गुणिता द्विः स्थाप्या एकत्र स्वकोट्या भक्ता सती अग्रा भवतीति” प्रमिता०। “रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा। इष्टच्छायाविषुवतीर्मध्यमग्राभिधीयते” इति सूर्य्यसिद्धान्तपारिभाषितेऽर्थे च स्त्री। विवृतञ्चैतत् रङ्गनाथेन यथा “अथाग्राज्ञानार्थमाह। तस्मिंश्चतुरस्रे पूर्वापररेखात उत्तरभागे विषुवद्भाग्रगाक्षभागप्रदेशस्थाक्षभाङ्गुलान्तरितेत्यर्थः। प्राच्यपरा रेखा पूर्ब्बापररेखानुकारा रेखा तथा सर्वतस्तुल्यान्तरेण यथेष्टच्छायाक्षरेखाभुजान्तरेण कार्य्या। अनन्तरमिष्टच्छायाविषुवतीरिष्टच्छायाक्षरेखाक्षभाग्ररेखयोरित्यर्थः। मध्यं चतुरस्रेऽङ्गुलात्मकमन्तरालं सर्वतस्तुल्यम्। अग्रा कर्णवृत्ताग्रोच्यते। अत्रोपपत्तिः। भुजस्य कर्णवृत्ताग्रा पलभासंस्कारेणाग्रा उक्ता तद्दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेन पलभोनी भुजोऽग्रेति, प्राच्यपरसूत्रादुत्तरभागेऽक्षभाग्ररेखा भुजमध्ये भवतीति द्वयो रेखयोरन्तरमग्रा पलभोनभुजरूपा। एवमुत्तरगोल उत्तरभुजस्य पलभाल्पत्वाद्भुजोनपलभाग्रेति पलभारेखा प्राच्यपरसूत्रादुत्तरभागस्था भुजरेखातोऽप्यग्रान्तरेणोत्तरदिशीति द्वयो रेखयोरन्तरं भुजोनपलभारूपं कर्णवृत्ताग्रा। एवं दक्षिणभुजस्य पलभोनाग्रात्वात् पलभायुतोऽग्रेति प्राच्यपरसूत्राद्भुजाग्रापलभाग्रारेखयोः क्रमेण याम्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्यरूपमग्रा पलभायाः शङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छायासम्बन्धाद्युक्तम्” इति। “अग्रशब्दस्यावयवरूपैकदेशपरत्वे हस्ताग्रं तद्वत्परत्वे अग्रहस्त” इति यथोक्तम् वामनेन, “हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदादिति”। अग्र + भवाद्यर्थे यत्। अग्र्यः। घ अग्रियम्। कुशाग्रमिव छ। कुशाग्रीयः। इवार्थे शाखादि० य अग्र्यः।। अग्रः ऋषिभेदस्तद्गोत्रापत्ये नडादि० फक्। आग्रायणः। तत्तदर्थेषु।
अग्रकाय = पु० अग्रः कायः अवयवावयविनोरभेदात् अग्रहस्तवत् कर्म्म०। देहपूर्ब्बभागे।
अग्रग = त्रि० अग्रे गच्छतीति गस–ड ७ त०। पुरोगामिनि।
अग्रगण्य = त्रि० अग्रे गण्यते गण–यत् ७ त०। अग्रगणनीये, प्रधाने च।
अग्रगामिन् = त्रि० अग्रे गच्छति गम–णिनि ७ त०। पुरोगामिनि। “प्रष्ठोऽग्रगामिनीति” पा०। अत्राणत्वनिर्देशात् अग्रगामिनेत्यादौ न णत्वम्। स्त्रियां ङीप्।
अग्रज = पु० अग्रे पुरस्तात् जायते जन–ड। अग्रजाते ज्येष्ठभ्रातरि “जगादाग्रे गजाग्रजम्” इति माघः। ज्येष्ठभगिन्यां स्त्री। वर्णेषु मध्ये अग्रजातत्वात् विप्रे।
अग्रजङ्घा = स्त्री अग्रा जङ्घा अवयवावयविनोरभेदात् क० स०। जङ्घाग्रभागे।
अग्रजन्मन् = पु० अग्रे जन्म यस्य जन–मनिन् व्यधि० बहु०। ज्येष्ठभ्रातरि, विप्रे च। अग्रजातमात्रे त्रि०। अग्रात् प्रधानाङ्गात् मुखात् जन्मास्य व्य० ब०। ब्रह्मणोमुखोत्पन्ने विप्रे, तस्य तन्मुखोत्पत्तिश्च ताण्ड्यमहाब्राह्मणे उक्ता यथा “सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यताग्निर्द्देवता ब्राह्मणोमनुष्यो वसन्त ऋतुस्तस्मात्त्रिवृत् स्तोमानां मुखं, गायत्री च्छन्दसाम्, अग्निर्देवतानां, ब्राह्मणो मनुष्याणां, वसन्त ऋतूनां, तस्माद्ब्राह्मणो मुखेन वीर्य्यङ्करोति मुखती हि सृष्टः” इति। व्याख्यातञ्चैतत् भाष्ये “सः प्रजापतिरकामयत् किमिति”? सर्व्वसाधकं यज्ञं सृजे येति स एतमग्निष्टोममपश्यत् तमाहरदित्युक्तस्यैवेदं विवरणं सः प्रजापतिः मुखत आत्मनो मुखादेव त्रिवृतमावृत्तित्रयसाध्यमेतन्नामकंस्तोममसृजत तं त्रिवृतमनु पश्चाद्गायत्रीछन्दः गायत्रं नाम छन्दोऽसृज्यत तदनु अग्निर्देवताऽसृज्यत तमनु मनुष्यी ब्राह्मणोऽसृज्यत तथा तमनु वसन्ताख्यश्च ऋतुरसृज्यत यस्माद्यदेते मुखतएव सृष्टाः तस्मादेते त्रिवृदादुयः स्वस्वजातीयानां मध्ये मुख्या अभवन् त्रिवृदादीनां मुख्यानां मध्ये ब्राह्मणस्य मुख्यत्वप्रयुक्तं वीर्य्यं लोकसिद्धं दर्शयति तस्मान्मुखसृष्टत्वेन मुख्यत्वात् ब्राह्मणो मुखेनेदानीमपि वीर्य्यं स्वाध्यायप्रवचनादिजन्यं सामर्थ्यङ्करोति तस्मादित्युक्तं विवृणोति हि यस्माद्ब्राह्मणो मुखतः सृष्टस्तस्मादित्यर्थः।। एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यंङ्करोति मुखसाध्येन स्वाध्यायप्रवचनादिनैवाभीष्टं साधयति इत्यर्थः” इति। “ब्राह्मणोऽस्य मुखमासीति” पुरुषसूक्तम् अत एव विप्रस्य मुखजातत्वेन मुखसाध्यस्वाध्यायाभ्यसने एव वीर्य्यं भवतीत्यप्युक्तम् अतएव मनुना “वेदमेव सदाभ्यस्ये” दित्युक्तम् हारीतसंहितायां तु “षट् कर्म्माणि, निजान्याहुर्ब्राह्मणस्य महात्मनः। तैरेव सततं यस्तु वर्त्तयेत् सुखमेधते अध्यापनं चाध्ययनं याजनं यजनं तथा। दानं प्रति ग्रहश्चेति षट् कर्म्माणीति चोच्यते” इति “वेदञ्चैव सदाभ्यस्येत् शुचौ देशे समाहितः धर्म्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्धमानसैः वेदवत् पठितव्यञ्च श्रोतव्यञ्च दिवानिशि श्रुतिहीनाय विप्राय स्मृतिहीने तथैव च दानं भोजन सन्यच्च दत्त कुलविनाशनम्। तस्मात् सर्वप्रयत्नेन वेद शास्त्रं पठेत्„ द्विज इति” च। “सत्त्वप्रधाना वप्राः स्युरिति भारतोक्तेः विप्रस्य सत्वप्रधानतया “ब्राह्मणक्षत्त्रियविशां शूद्राणाञ्च परन्तप!। कर्म्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः। शमोदमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजमिति” गीतायां सात्विकधर्म्माएवास्य स्वाभाविका इत्युक्तम्। विवृतञ्चैतत् श्रीधर स्वामिना “तत्र ब्राह्मणस्य स्वाभाविकानि कर्म्माण्याह शम इति, शमश्चित्तोपरमः (वाह्यविषयान्निवर्त्तनम्) दमोवाह्येन्द्रियोपरमः (स्वस्वविषयान्निवर्त्तनम्) तपः पूर्ब्बोक्तं (सगुणब्रह्मोपासनादि) शौचं वाह्यमाभ्यन्तरञ्च। क्षान्तिः (शीतोष्णादिद्वन्द्वसहिष्णुता) आर्जवम् अवक्रता (वाह्याभ्यन्तरयोः कापठ्याभावः) ज्ञानं शास्त्रीयं विज्ञानमनुभवः आस्तिक्यम् अस्ति परलोक इति निश्चयः। एतत् शमादि ब्राह्मणस्य स्वभावात् जातं कर्म्मेति”। “मुखजातादयोप्यत्र अग्रे प्रथमं जन्म यस्य। चतुर्मुखे ब्रह्मणि, “यो वै ब्रह्माणं विदधाति पूर्बं यश्चास्मै प्रहिणोति वेदमिति” “हिरण्य गर्भः समवर्त्तताग्रे” इति च श्रुतौ परब्रह्मसकाशात् तस्य प्रथमोत्पत्तिरुक्ता, तदुतपत्तिप्रकारस्तु मनुना “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः। अप एव ससर्जादौ तासु वीजमवासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रमम् तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह” इत्यनेनोक्तः।
अग्रजात = पु० अग्रे जातः जन–क्त ७ त०। ज्येष्ठम्रातरि, विप्रे च। ज्येष्ठभगिन्यां स्त्री। पूर्व्वजातमात्रे त्रि०।
अग्रजाति = पु० अग्रा श्रेष्ठा जातिर्यस्य, जन–क्तिन् कर्म०। विप्रे।
अग्रजिह्वा = स्त्री अग्रा जिह्वा अग्रहस्तवत् क०। जिह्वाग्रभागे।
अग्रणी = त्रि० अग्रे नीयतेऽसौ णी–क्विप् ७ त० णत्वम्। प्रभौ श्रेष्ठेच। अग्रं नयति देवेभ्य इति। वह्नौ पु० यथाचास्याग्रणीत्वं तथाग्निशब्दे निरुक्तव्याख्यायामुक्तम्।
अग्रतस् = अव्य० अग्रे अग्राद्वा अग्र + तसिल्। पूर्व्ववृत्तौ, पूर्व्वभागावधिके च।
अग्रतःसर = त्रि० अग्रतः सरति गच्छति सृ–ट ७ त०। अग्रगामिनि। स्त्रियां ङीप्।
अग्रदानिन् = पु० अग्रेदानं उद्देश्यत्वेकास्त्यस्य अग्रदान + इनि प्रेतोद्देशेन यद्दानं दीयते तत्प्रतिग्राहिणि “अग्रदानीति” ख्याते विप्रे। “लोभी विप्रस्य शूद्राणामग्रे दानं गृहीतवान्। ग्रहणात्तिलदानानामग्रदानी बभूव स” इति पुरा०।
अग्रदानीय = पु० अग्रे दानमर्हति छ। अग्रदानिविप्रे।
अग्रनख = पु० अग्रो नखः अग्रहस्तवत् क०। नखाग्रे।
अग्रनासिका = स्त्री अग्रा नासिका अग्रहस्तवत् क०। नासिकाग्रभागे।
अग्रन्थिक = पु० नास्ति ग्रन्थिर्वस्त्रग्रन्थिः ससारबन्धग्रन्थिर्वाऽस्य। निर्ग्रन्थिके मुक्तकच्छे जैनभेदे आत्मज्ञे च “भिद्यते हृदयग्रन्थि” रित्यनेन तस्य संसारग्रन्थिशून्यत्वोक्तेस्तथात्वम्। ग्रन्थिशून्ये त्रि०।
अग्रपर्णी = स्त्री अग्रे पर्णं यस्याः जातित्वात् ङीप्। (आल्कुशीति) ख्याते वृक्षे।
अग्रपूजा = स्त्री अग्रे पूजा। प्राथमिकपूजायाम्। “अग्रेपूजामिह स्थित्वा गृहाणेमामिति” पुरा०।
अग्रभाग = पु० भज्यते इति भागः एकदेशः भज–घञ् अग्रः पूर्ब्बः भागः कर्म्म०। श्राद्धादौ प्रथममुद्धृत्य देये द्रव्ये अवयविनः शेषभागे च। यथा शराग्रभागः।
अग्रभुक् = त्रि० अग्रे देवपित्रादिभ्योऽदत्त्वा भुङ्क्ते भुजक्विप् ७ त०। औदरिके।
अग्रभू = पु० अग्रे भवति उत्पद्यते भू–क्विप् ७ त०। पूर्बजाते ज्येष्ठभ्रातरि विप्रे च ज्येष्ठभगिन्यां स्त्री। पूर्बजाते त्रि०।
अग्रमहिषी = स्त्री कर्म०। प्रधानस्त्रियाम्। “अथाग्रमहिषी राज्ञ” इति।
अग्रमांस = न० अग्रं प्रधानं भक्ष्यत्वेन मन्यते मन्–स, दीर्घः कर्म्म०। हृदयस्थे पद्माकारे (फुलका) इति नामके मांसे। केचित् व्युक्वाग्रमांसमेकं नामेत्याहुः। (अग्रमास) इति प्रसिद्धे रोगभेदे च।
अग्रमुख = न० अग्रं मुखम् अग्रहस्तवत् कर्म्म०। मुखाग्रे।
अग्रयण = न० अग्रमयनात् उत्तरायणात् णत्वम् शक० तत्विधा नकालोऽस्य अच्। मार्गे मासि साग्निककर्त्तव्येनवशस्येष्टिरूपे यज्ञभेदे। निरग्निकर्त्तव्ये नवान्नश्राद्धे च। “अकृताग्रयणञ्चैव धान्यजातं द्विजोत्तमेति” वर्ज्ज्यान्ने स्मृतिः। “अकृताग्रयणमकृतनवशस्येष्टिश्राद्धं यथायोग्यं साग्निकनिरग्निपरमिति” श्राद्धतत्त्वे रघुनन्दनः।
अग्रयान = न० अग्रे यानं यस्य या–ल्युट् संज्ञात्वेऽप्यणत्वम्। पुरोगामिनि सैन्ये। अग्रगामिमात्रे त्रि०।
अग्रयायिन् = त्रि० अग्रे यास्यति या–णिनि ७ त०। पुरोगामिनि “पुत्त्रश्च ते रणशिरस्ययमग्रयायीति” श्रेष्ठेच।
अग्रयीधिन् = पु० अग्रे स्थित्वा युध्यति युध–णिनि ७ त०। मैन्यानामग्रे स्थित्वा योद्धरि।
अग्रलोहिता = स्त्री अग्रमुपरिभागः लोहितं यस्याः ब०। चिल्लोति प्रसिद्धे शाकभेदे।
अग्रवोज = पु० अग्रं शाखाग्रं वीजमुत्पादकं यस्य। छिन्नाग्र- तरुखण्डरूढे (कलम) इतिप्रसिद्धे काण्डजाते कुरण्टकादिवृक्षे।
अग्रसन्धानी = स्त्री अग्रे फलोत्पत्तेः प्राक सन्धीयते ज्ञायतेऽबया कार्य्यं सम् + धा–करणे ल्युट् ङीप्। यमपञ्जिकायाम्। यत्र हि प्राणिवर्गस्य प्राग्भवीयकर्म्मानुसारेण शुभाशुभसूचकं सर्व्वं लिख्यते सा यमपञ्जिका,। कैश्चित् यमपट्टिकेति सां कथ्यते। अग्रसन्धानकारिणि त्रि०।
अग्रसन्ध्या = स्त्री अग्रं सन्ध्यायाः, “सर्वोऽप्येकदेशः कालवाचिना समस्यते, इत्युक्तेः एक० त०। सन्ध्यापूर्ब्बसमये। अग्रा पूर्ब्बा सन्ध्या इति कर्म०। प्रातःसन्ध्यायाम् “कर्कन्धूनामुपरि तुहिनं रञ्जयत्यग्रसन्ध्येति” शकुन्तला।
अग्रसर = त्रि० अग्रे सरति गच्छति सृ–ट ७ त०। अग्रगामिनि। “युद्धायाग्रसरोऽभवदिति” स्त्रियां ङीप्।
अग्रसारा = स्त्री अग्रं शीर्षमात्रं सारोऽस्याः। फलशून्यशिखायां मञ्जर्य्याम्। अगात् अगमारभ्य सारोऽस्य। वंशादौ पु०।
अग्रह = पु० ग्रहः परिग्रहः न० त०। परिग्रहाभावे। बहु०। परिग्रहशून्ये सन्यासिप्रभृतौ, ज्ञानशून्ये त्रि०।
अग्रहर = त्रि० अग्रे ह्रियते दीयतेऽसौ अग्र–हृ–अच्। अग्रदेये वस्तुनि, भागाग्रे पु० अग्र–हृ–कर्त्तरि अच्। अग्रहारिणि त्रि० “प्राग्रहरः कुमार” इति।
अग्रहस्त = पु० अग्रश्चासौ हस्तश्चेति गुणगुणिनोरभेदात् कर्म्म०। हस्तस्याग्रभागे “अथाग्रहस्ते मुकुलीकृताङ्गुलाविति” कु०।
अग्रहायण = पु० अग्रः श्रेष्ठः हायनोव्रीहिरत्र णत्वम्। मार्गशीर्षे मासि। तस्य च “मासानां मार्गशीर्षोऽस्मीति” गीतायां भगबद्विभूतिरूपत्वोक्तेः श्रेष्ठधान्यवत्त्वाच्च तथात्वम्।
अग्रहायणेष्टि = स्त्री अग्रा प्राथमिकी हायननिमित्ता इष्टिः। नवशस्येष्टौ यागभेदे।
अग्रहार = पु० अग्रं प्रथमं ह्रियते उत्पन्नशस्यादुद्धृत्य स्थाप्यते हृ–कर्म्मणि घञ्। क्षेत्रोत्पन्नशस्यादुद्धृत्य ब्राह्मणी द्देशेन स्थाप्ये धान्यादौ गुरुकुलादावृत्तव्रह्मचारिणे देये क्षेत्रादौ, ग्रामभेदे च “स कस्मिश्चिदग्रहारे कालों नामैकस्येति” दशकु०। अग्रं हरति–अण्। अग्रहारके त्रि०।
अग्राक्षि = न० अग्रञ्च तदक्षि नेत्रं चेति गुणगुणिनोरभेदात् कर्म्म० स्वाङ्गपरत्वात् नाच्समा०। नेत्राग्रे अपाङ्गे “अग्राक्ष्णा वीक्षमाणस्तु तिर्य्यग्भ्रातरमब्रवीदिति रामा०।
अग्राणीक = न० अग्रञ्च तदनीकं चेति गुणगुणिनोरभेदात् कर्म्म० णत्वम्। अग्नयायिसैन्ये। “अग्राणीकं रघुव्याघ्रौ राक्षसानां बभञ्जतुः इति” रामा०।
अग्रायणीय = न० अग्रं श्रेष्ठमयनं ज्ञानं तत्र साधु छ। बौद्धागमसिद्धे प्रवादभेदे “उत्पादपूर्ब्बमग्रायणीयमथ वीर्य्यता प्रवादः स्यात् इति” हेमचन्द्रः।
अग्रावलेहित = न० अग्रं प्रथमभाग उद्धत्यावलेहितमास्वादितं यस्य। श्राद्धाद्यर्थप्रस्तुतान्नादग्रभागमुद्धत्यास्वादनेन श्राद्धं दानाद्यनर्हताप्रयीजकदोषदुष्टे अन्नादौ “द्विःस्विन्नं परिदन्धञ्च तथैवाग्रावलेहितमिति” श्राद्धवर्ज्ये ब्रह्मपुराणम् “अग्रावलेहितं श्राद्धार्थोपकल्पितं सकृदुपभुक्ताग्रभागमिति” रघु०।
अग्रासन = न० अग्रमर्घादिदानात् पूर्ब्बं कल्पितमासनम्। श्राद्धान्नभोजनार्थे अर्घदानादितोऽग्रे कल्पिते विप्रस्योपवेशनार्थे आसने “मामग्रासनतोऽवकृष्टमवशमिति” मुद्रा०।
अग्राह्य = त्रि० ग्रह–ण्यत्–न० त०। ग्रहणायोग्ये शिवनिर्म्माल्यादौ प्रतिग्रहायोग्ये तिलाश्वादौ च। “अग्राह्यं शिवनिर्म्माल्यं पत्रं पुष्पं फलं जलमिति” पुरा०। “ब्राह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत्। कृष्णाजिनहयग्राही न भूयः पुरुषोभवेत्। शय्यालङ्कारवस्त्रादि प्रतिगृह्य मृतस्य च। नरकान्न निवर्त्तन्ते धेनुं तिलमयीं तथा”। तथा “ब्रह्महत्या सुरापानमपि स्तेयं तरिष्यति। आतुराद्यद्गृहीतन्तु तत् कथं? वै तरिष्यति”। “एतदादिद्रव्यादानं गहीतुर्दोषजनकम्” इति रघु०। “अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः। अन्यत्र कुलटाषण्डपतिते यो द्विषस्तथेति” मनुः। तेन कुलटादिद्रव्यम् अग्राहम्। शौचादौ कर्म्मणि अनुपादेयमृत्तिकायाम् स्त्री। “अन्तर्जले देवगृहे वल्मीके मूषिकस्थले। कृतशौचावशिष्टे च अग्राह्याः पञ्च मृत्तिका” इति स्मृतिः। अविचारणीये त्रि० “अग्राह्यस्त्वनिवेदित” इति स्मृतिः। आवेदनकालेऽनिवेदितः पश्चात् निवेदितोऽपि व्यबहारे न विचारणीयः इति तदर्थः।
अग्रिम = पु० अग्रे भवः अग्र + डिमच्। ज्येष्ठभ्रातरि। श्रेष्ठे, उत्तमे च त्रि०। “वीराणामग्रिमो भूत्वा युयुधे पार्थिवैः सहेति” पुरा०।
अग्रिय = पु० अग्रे भवः अग्र + घ। ज्येष्ठभ्रातरि। श्रेष्ठे, उत्तमे, अग्रजातमात्रे च त्रि०। “सन्ध्या अग्रिया भवन्तीति ता० बा०।
अग्रीय = पु० अग्रे भवः अग्र + छ। ज्येष्ठभ्रातरि। श्रेष्ठे, उत्ते च त्रि०। “अग्रीयभागं ददतेऽस्य दैत्या” इति वेदः।
अग्रु(ग्रू) = स्त्री अगि–क्रु नलोपः वा ऊङ्। नद्यामङ्गुल्याञ्च। निरुक्ते तन्नाम्नोरेतस्या उक्तेस्तदर्थत्वम्। “जनीयन्तोन्यग्रुव” इति वेदः।
अग्रेग = त्रि० अग्रे गच्छतीति गम–ड अलुक् स०। पुरोगन्तरि।
अग्रेगा = त्रि० अग्रे गच्छति गम–विट् अलुक् स०। पुरोगन्तरि।
अग्रेग = त्रि० अग्रे गच्छतीति गम–डू अलुक् स०। पुरोगामिनि सेवके।
अग्रेदिषिषु(षू) = पु० दिधिं धैर्य्यं स्यति निरस्यति, सो–कू षत्वम् दिधिषूः द्विरूढा पुनर्भूयोषित् अग्रे गणनीया दिधिषूर्यस्य अलुक् स० कबभावः पृ० वा ह्रस्वः। पुनर्भूविवाहकारिणि। प्रागनूढज्येष्ठभगिन्याः प्रागूढकनिष्ठभगिन्यां स्त्री। “ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा। सा चाग्रेदिधिषूर्ज्ञेया पूर्व्वा तु दिधिषूः स्मृतेति, मनुः एतत्पक्षे च अग्रे ज्येष्ठाविवाहात् पूर्ब्बं दिधिषूः ज्येष्ठाविवाहकाला सहनरूपधैर्य्यलोपकारिणीति विग्रहः। दीर्घान्त एवायम्।
अग्रेदिषिषूपति = पु० ६ त०। अनूढज्येष्ठायां भगिन्याम् सत्यां कनिष्थायाभगिन्या वोढरि “यश्चाग्रेदिधिषूपतिरिति” स्मृतिः।
अग्रेपा = त्रि० अग्रे स्थित्वा पाति पा–क्विप् अलुक् स०। पुरतो भूत्वा पालके “अग्रेपा ऋभवो मन्दसाना” इति वेदः।
अग्रेपू = त्रि० अग्रे कृत्वा पूयते पू–क्विप् अलुक् स०। पुरः पवित्रकारके “सोमस्य राज्ञो भक्षयन्ति तेनाग्रेपुव” इति वेदः।
अग्रेवण = वनस्याग्रं–राज० पूर्ब्ब०। अलुक् स० णत्वम्, नि० एदन्तत्वम्। वनाग्रभागे।
अग्रेसर = त्रि० अग्रे सरति सृ–ट–अलुक् स०। पुरोगामिनि। स्त्रियां ङीप्।
अग्रेसरिक = त्रि० सृ–भावे–अप् अलुक् स० अग्रे सरे अग्र गतौ प्रसृतः ठन्। पुरोगामि–सेवके।
अग्रोपहरणीय = त्रि० अग्रमुपह्रियते यस्मै उप + हृ–सम्प्रदाने अनीयर्। श्राद्धाद्यर्थमुपकल्पितस्यान्नादेरग्रे दानोद्देश्ये वास्तुदेवादौ। अग्रे उपह्रियते कर्म्मणि अनीयर्। प्रथमदानार्हे द्रव्ये।
अग्र्य = पु० अग्रेजातः यत्। ज्येष्ठे भ्रातरि। श्रेष्ठे त्रि० “दृश्यते त्वग्र्यया बुद्ध्येति” गीता।
अघ = इदित् गतौ भ्वादि० आत्म० सक० सेट्। अङ्घते। आङ्घिष्ट। क्रि–आङ्घिः असुन् अङ्घः।
अघ = पापकरणे अदन्तचुरा० उभय० अक०। अघयति–ते। आजिघत् त। अच्–अघम् अघः।
अघ = न० चुरा० अघ–भावे अच्। पापे “हरत्यघं सम्प्रति हेतुरैष्यत” इति माघः। कर्त्तरि अच्। पापकारके त्रि० “अघायुरिन्द्रियारामो मोघं पार्थ! स जीवतीति” गीता अघं हेतुत्वेनास्त्यस्य अर्शा० अच्। व्यसने दुःखे च न० तयोः पापजन्यत्वात्तत्त्वम्। तत्र व्यसने “कच्चित् मृगीणामनघा प्रसृतिरिति” रघु। “अनघा अव्यसनेति” मल्लिनाथः। “न वर्द्धयेदघाहानीति” “अघाहेषु निवृत्तेषु सुस्नाताः कृतमङ्गला इति” च स्मृतिः अघस्य व्यसनस्य इष्टवियोगरूपस्य तज्जन्यदुःखस्य वा अहानि अघाहाइति तदर्थः। दुःखे, “उपप्लुतमघौ घेन नात्मानमवबुध्यते इति” दुःखौघेनेत्यर्थः “दयालुमनघस्पृष्टं पुराणमजरं विदुरिति” माघः। परदुःखेन दुःखित्वे एव तत्प्रहरणाय दयालोरिच्छा, ईश्वस्य तु दयालुत्वेऽपि न दुःखस्पर्शः आनन्दस्वरूपत्वादिति, तत्तात्पर्य्यार्थः “स्वयशांसि विक्रमवतामवतां न बधूष्वघानि इति भा०। अघानि व्यसनानीत्यर्थः। पूतनावकासुरयोर्भ्रातरि असुरभेदे पु०। “कृष्णचरितमिवाघनाशन मिति” श्लेषः। एतत्कथा चाघनाशनशब्दे दृश्या।
अघकृत् = त्रि० अघं पापं सततं करोति कृ–कर्त्तरि ताच्छीलादिषु वाक्विप् ६ त०। पापकारिणि, सततपापशीले च।
अघन = त्रि० न० त०। निविडताविरुद्धशैथिल्ययुक्ते।
अघनाशन = त्रि० अघं नाशयति नश–णिच्–ल्यु। पापनाशके जप्यदानादौ “जपेत् सर्व्वाघनाशनमिति” स्मृतिः। स्त्रियां ङीप्। अघस्यासुरभेदस्य नाशनः। श्रीकृष्णे, स हि अजगररूपेण जिघांसन्तं तं हतवान् तत्कथा भागवते “अथाघनामाभ्यपतन्महासुरस्तेषां सुखक्रीडनवीक्षणाक्षमः। नित्यं यदन्तनिजजीवितेप्सुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते।। दृष्ट्वार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः स वकीवकानुजः। अयन्तु मे सोदरनाशकृत्तयोर्द्वयोर्घ्नमेनं सवलं हनिष्ये। एते यदस्मत्सुहृदोस्तिलापाः कृतास्तदा नष्टसमा व्रजौकसः। प्राणे गते वर्ष्मसु कानुचिन्ता प्रजासवः प्राणभृतोहि संयते।। इति व्यवस्याजगरं वृहद्वपुः स योजनायाममहाद्रिपीवरम्। धृत्वाद्भुतं व्याप्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः”।। इत्थम् अघनामकेऽसुरे स्थिते तदुदरे गोवत्सवत्सपालेषु गतेषु स्वयमपि हरिः प्रविश्य अत्यन्तं स्वदेहवर्द्धनेन तं हतवान् इत्यप्युक्तम्। “तच्छ्रुत्वाभगवान् कृष्णस्त्वव्ययः सार्भवत्सकम्। चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले।। ततोऽतिकायस्य निरुद्धमार्गिणीह्यदीर्णदृष्टेर्भ्रमतस्त्वितस्ततः। पूर्णोन्तरङ्गे पवनो- निरुद्धोमूर्द्ध्वन्विनिर्भिद्य विनिर्गतो वहिः” इति।। “कृष्णचरितमिवाघनाशनमिति” श्लेषः।
अघभोजिन् = त्रि० अघं पापफलकं भुङ्क्ते भुज–णिनि ६ त०। देवपित्रतिथ्युद्देशामावेन स्वार्थपाचके। “अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात्” इति विष्णुः। “भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्” इति गीता।
अघमर्षण = न० अघं पापं मृष्यते उत्पन्नत्वेऽपि नाशनेन कर्म्माक्षमत्वात् सह्यतेऽनेन मृष–ल्युट् ६ त०। उत्पन्नपाषनाशार्थं जप्ये मन्त्रभेदे तच्च द्रुपदादिवेत्यादि, ऋतञ्च सत्यञ्चेत्यादि आपोहिष्ठेत्यादि सूक्तञ्च। तच्च अन्तर्जले जप्यम् तत्फलञ्चोक्तं ब्राह्मणसर्वस्वे। यथा “बौधायनः “ऋतञ्च सत्यञ्चाद्यघमर्षणम् त्रिरन्तर्जले जपन् सर्वस्मात् पापात् प्रमुच्यते”। योगियाज्ञवल्क्यः “हत्वा लोकानिमांस्त्रीन् हि त्रिः पठेदघमर्षणम्। यथाश्वमेधाबभृथमेवं तन्मनुरब्रवीत्” इति। हारीतः “पातकोपपातकमहापातकानामेकतमसन्निपातेऽघमर्षणमेव जपेत्” इति। वृहद्विष्णुः “यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः। तथाघमर्षणं सूक्तं सर्वपापप्रणाशनम्” इति। योगियाज्ञवल्क्यः “स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः। अघमर्षणसूक्तेन अश्वमेधावभृत्समम्” इति। शङ्खः “जलनिमग्नः प्राणान् संयम्य त्रिरावृत्ताघमर्षणसूक्तेन स्नायात् नास्त्यघमर्षणात् परमन्तर्ज्जले” इति। गौतमः “अन्तर्जलेऽघमर्षणं त्रिरावर्त्तयन् सर्वपापेभ्यो मुच्यते” इति। अत्रिः “अपि चापसु निमज्जित्वा त्रिः पठेदघमर्षणम्। यथाश्वमेधावभृथं तथैतन्मनुरब्रवीत्” इति। वशिष्ठः “अपि चाप्सु निमज्जानः त्रिः पठेदघमर्षणम्। यथाश्वमेधावभृथं तादृशं मनुरब्रवीत्” इति। आपस्तम्बः “अपि चाप्सु निमज्जित्वा त्रिः पठेदघमर्षणम्”। यथाश्वमेधयज्ञो हि मनुस्तादृशमाह नत्” इति। बौधायनः “त्रिरात्रं चाप्युपवसन् त्रिरह्नाभ्युपयन्नपः। प्राणानम्बुनि संयम्य त्रिः पठेदघमर्षणम्। “यथाश्वमेधाबभृथमेवं तन्मनुरब्रवीत्” इति। योगियाज्ञवल्क्यः “त्र्यहं चोपवसेद् यस्तु त्रिरह्नाभ्युपयन्नपः। मुच्यते पातकैः सर्वैः जत्वा त्रिरघमर्षणम्” इति। रहस्ये वृहन्मनुः “मातरं भगिनीं गत्वा मातृस्वसारं स्नुषां सखीं सनाभ्याञ्च अगम्यागमनं कृत्वा अघमर्षणम् अन्तर्जले त्रिरावर्त्य एतस्मात् पापात् पूतो भवतीति”। तथा “गुरुतल्पगमनं कृत्वा अधमर्षणमन्तर्ज्जले त्रिरावर्त्य एतस्मात् पापात् पूतो भवतीति”। अत्र पापगौरवमाकलय्य संयतेन मास्येकं यावत् जलमवगाह्याघमर्षणसूक्तं त्रिरावर्त्य स्नातव्यम्। तथा च लघुयमः “महापातककर्त्तारश्चत्वारश्च विशेषतः। अग्निं प्रविश्य शुद्ध्यन्ति स्नात्वा वाघ इति क्रतौ। रहस्यकरणे चैव मासमभ्यस्य पौरुषम्। अघमर्षणञ्च वा सूक्तं शुध्येच्चान्तर्जलेस्थितः” इति। वृहद्यमः “अथ ब्रह्महत्यां कृत्वा प्राचीं वा उदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेनेन्धनेनाग्निं प्रज्वाल्याघमर्षणं चाष्टसहस्रमावर्त्य जुहुयात् तस्मात् प्रापात् पूतो भवतीति”। हारीतश्च “अन्तर्ज्जले त्रिरावर्त्य मुच्यते ब्रह्महत्ययेति”। वृद्धापस्तम्बः “अकार्य्यकरणे चैव अभक्ष्यस्य च भक्षणे। अघमर्षणसूक्तेन पीत्वापः शुध्यते नरः”। वशिष्ठः “मनसा पापं कृत्वा अघमर्षणं जपेत्” इति। वृद्धापस्तम्बः “क्षत्रियागमने वैश्यागमने चैव तापसीम्। त्रिरावर्त्य विशुद्धः स्यात् शूद्रागाम्यघमर्षणम्” इति। तापसीमिति तापसीम् ऋचमित्यर्थः शङ्खलिखितौ “ब्रह्महा “त्रिरात्रिपोषितोऽन्तर्जलेऽधमर्षणं त्रिरावर्त्तयेत्” इति। याज्ञवल्क्यः त्रिरात्रोपोषितोजप्त्वा ब्रह्महा त्वघमर्षणम्। अन्तर्जले विशुद्ध्येत्तु दत्त्वा गान्तु पयस्विनीम्” इति। प्रकाशविषये षौधायनः “तीर्थं गत्वा ततः शुचिरात्मा उदकान्ते स्थण्डिले उद्धृत्य सकृच्छिन्नवाससा सकृत् पूर्णेन पाणिना आदित्याभिमुखः अघमर्षणमध्यायमधीयीत इति”। षडङ्गन्यासं कृत्वा वामहस्ते जलं निधाय दक्षिणहस्तेन जलमाच्छाद्य ह यं रं लं वं इति त्रिरभिमन्त्र्य मूलमुच्चरन् गलितोदकविन्दु भिस्तत्वमुद्रया सप्तधा मूर्द्धानमभ्युक्ष्य शेषजलं दक्षिणहस्ते समादाय तोजोरूपं ध्यात्वा इडयाकृष्य देहान्तःपापं प्रक्षाल्य कृष्णवर्णं तज्जलं ध्यात्वा पिङ्गलया विरेच्य पुरः कल्पितवज्रशिलायां फडिति मन्त्रेण पापपुरुषस्वरूपं तज्जलं निःक्षिपेदित्यघर्षणम् इति तन्त्रसारे तान्त्रिकाघमर्षणमुक्तम् तत्प्रमाणं तु तत्रैवावगम्यम्।
अघमार = त्रि० अघं मारयति मृ–णिच्–अण् उप०। पापनाशके देवादौ, “यमोमृत्युरघमारो निरृत” इति वेदः।
अघरुद = त्रि० अघं रोदिति स्वकर्म्माक्षमतया यस्मात् रुदअपादाने क्विप् ६ त०। पापापनोदनहेतौ, पापनाशने मन्त्रे। “मा त्वाघरुदोरुदन्” इति वेदः। अघे व्यसने रोदिति न तु तत्प्रतीकाराय घटत रुद + कर्त्तरि क्विप्। रोदनेनैव व्यसनोत्तारके तत्प्रतीकारार्थमनुद्यते त्रि०।
अघर्म्म = पु० न० त०। उष्मविरोधिशीते तद्वति त्रि०। “अघर्म्म काल” इति काद०।
अघल = त्रि० अघं लाति गृह्णाति नाशयतीति ला–क। पापापनोदके। “ऋत्योर्ये अघलादूता” इति वेदः।
अघवत् = त्रि० अघमस्त्यस्य मतुप् मस्य वः। पापवति सम्बोधने अघोः–अघवन्। “अघोयजेति” मुग्धबोधम्।
अघविष = पु० अघं व्यसनकारि–विषं यस्य। सर्पे।
अघशंस = पु० अघमनिष्टं शंसति इच्छति शंस–अण् उपस०। अनिष्टसंपादके चौरे “अपाघशंसंनुदतामराति मिति” वेदः। भावे अच् ६ त०। व्यसनसूचने पु०।
अघशंसिन् = त्रि० अघं शंसति सूचयति शंस–णिनि ६ त०। व्यसनसूचके “व्यसनाशंसाकर्त्तरि “वचः क्रूरं मयोक्तमघशंसिनेति। स्त्रियां ङीप्।
अघायु = त्रि० अघं पापं परव्यसनं वा कर्त्तुमिच्छति अघ + क्यच्–उ। पापाचरणेच्छावति, परव्यसनचिकीर्षके च। “त्वा वृका अधायवोविदन्” इति यजु०। परस्याघं कर्तुमिच्छन्तीति वेददीपः। अघमायाति आ + या उ ६ त०। हिंसानिरते। “बधोऽघायूनामिति” ता० ब्रा०।
अघायुस् = त्रि० अघं पापसाधनसायुरस्य। सर्व्वावस्थासु पापकारके “अघायुरिन्द्रियारामोमोघं पार्थेति” गीता।
अघारिन् = त्रि० अघं व्यसनमृच्छति ऋ–णिनि। व्यसनयुक्ते स्त्रियां ङीप्। “अघारिणीविकेश्योरुदत्य” इति वेदः।
अघासुर = पु० कर्म्म०। असुरभेदे अघनाशनशब्दे तत्कथा।
अघाह = पु० अघस्थ व्यसनस्याहः अचसमा०। व्यसनदिने अशौचदिने “अघाहं नैव वर्द्धयेदिति” “अघाहेषु निवृत्तेषु सुस्नाताः कृतमङ्गलाः। आशौच्याद्विप्रमुच्यन्त इति” च स्मृतिः।
अघोर = त्रि० न घोरः भयानकः। भयानकभिन्ने सौम्यरूपे “या ते रुद्र! “शिवा तनूरघोरा पापकासिनी” इति वेदः। “अघोरा सौम्या अत एव पापकासिनी शिवा च इति” वेददीपः। नास्ति घोरो यस्मात्। अतिभयानके त्रि०। रुद्रमूर्त्तिभेदे पु०। “ईशानाघोरनामानौ, वामदेवस्ततः परम्। सद्योजात इति प्रोक्तः क्रमशोऽर्चनकर्म्मणीति पुरा०। अघोरः शिव उपास्यत्वेनास्त्यस्याम् अघोर + अच्। भाद्रकृष्णचतुर्द्दश्यां स्त्री। “भाद्रे मास्यसिते पक्षे ह्यघोराख्या चतुर्दशी। तस्यामाराधितः स्थाणुर्नयेच्छिवपुरं ध्रुवमिति” पुरा०।
अघोष = पु० नास्ति घोषोऽस्यात्र वा। वर्ण्णोत्पादनार्थे वाह्य प्रयत्नभेदे तत्प्रयत्नयुक्तेषु वर्णेषु च। ते च वर्णाः “खयां यमाः खयः + क~पौ विसर्गः शर एव च। एते श्वासानुप्रदाना अघोषाश्चेत्युक्ताः वेदितव्याः। विवरणं मत्कृतशब्दार्थरत्ने सूचीपत्रे द्रष्टव्यम्। शब्दशून्ये त्रि०।
अघोषवत् = त्रि० अघोषः वर्ण्णोच्चारणवाह्यप्रयत्नः अस्त्यस्य मतुप् मस्य वः। “खयां यमाः–स्वय + क~पौ विसर्गः शरएचेत्युक्तेषु वर्णेषु।
अघ्न्य = पु० न हन्ति सृष्टिकर्तृत्वात् न + हन–यक् निपातनात् साधु। प्रजापतौ। न हन्यते स्त्रीहत्यायाः, “अबष्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपीति” निषिद्धत्वात् कर्म्मणि नि०। हननकर्म्मताशून्यायां स्त्रियां गवि स्त्री। अघ्न्या “गवां पतिरघ्न्य” इति वेदः। “पतिं वो अघ्न्यानामिति” वेदः “गावः प्राश्नन्त्यघ्न्या इति” च वेदः।
अघ्रेय = त्रि० न घ्रातुं शक्यः अर्हः वा घ्रा–शक्याद्यर्थे यत् न० त०। घ्राणानर्हे दुर्गन्धे वस्तुमात्रे, मद्ये न०। “मदिराघ्राणमात्रेण ब्राह्मण्यादेव हीयते” इति स्मृतौ मद्यस्य घ्राणनिषेधात् तस्य तथात्वम्।
***