अग= इदित् गतौ भ्वादि० पर०। अङ्गति। आङ्गीत्। ल्युट् अङ्गनम् असुन् अङ्गः।

अग = वक्रगतौ भ्वादि० पर० घटादि। अगति आगीत्। अगयति।

अग = पु० न गच्छतीति गम–ड न० त०। वृक्षे, पर्व्वते, च। गमनाकर्त्तरि शूद्रादौ त्रि०। न गच्छति वक्रगत्या पश्चिमम्। सूर्ये तस्य हि वक्रगत्यभावः ज्योतिषप्रसिद्धः। “वक्रशीघ्रगतिश्चैव भवेत् भौमादिपञ्चके” इत्युक्तेः आर्य्यभट्ट मते तु पृथिव्याएव गतिमत्त्वेन दिनरात्रिसम्भवात् सूर्य्यस्य न गतिमत्त्वम्। सप्तसंख्यायाञ्च कुलाचलानां सप्तत्वेन तेषाञ्च प्राधान्यात् “प्रधानेन व्यपदेशाभवन्तीति” न्यायात् तथात्वम्।

अगच्छ = पु० गम–बा० श न० त०। वृक्षे।

अगज = न० अगात् पर्वतशिलातो जायते जन–ड। शिलाजतुद्रव्ये। पर्वतजातमात्रे त्रि०।

अगण्य = त्रि० गणयितुमशक्यम् गण–शक्यार्थे यत् न० त०। गणयितुमशक्ये असंख्ये। “गुणैरगण्यैरतिशीलशालिभिरिति”। अर्हे यत् न० त०। गणनानर्हे, अकिञ्चित्करे त्रि०।

अगति = स्त्री गम–क्तिन् न० त०। उपायाभावे। बहु०। गतिशून्ये, उपायशून्ये च त्रि०। स्वार्थे कन्, शेषाद्वा कप् तत्रैवार्थे त्रि० “मामगतिकमिति” शङ्कराचार्य्यः।

अगद = पु० नास्ति गदी रोगी यस्मात् ५ ब०। औषधे ६ ब०। “औषधान्यगदोविद्या दैवी च विविधा स्थितिः। तपसैव प्रसिध्यन्तीति” पुराणम्। रोगशून्ये त्रि०। गद–भाषणे अच्–न० त०। अकथके त्रि०।

अगद = नीरोगत्वे कण्ड्वा० पर०। अगद्यति आगद्यीत्–आगदीत्।

अगदङ्कार = पु० अगदं करोति अगद + कृ–अण् मुम् च। वैद्ये।

अगम = पु० न गच्छतीति गम–अच् न० त०। वृक्षे। अगन्तरि त्रि०।

अगम्य = त्रि० न–गन्तुमर्हति गम–यत् न० त०। गमनानर्हे “अगम्या सा भवत्तत्र यत्राभूत् स महारण इति” चण्डी। अन्त्यजातिस्त्रियां स्त्री। “अगम्यां च स्त्रियं गत्वेति” “अगम्यागमनञ्चैव जातिभ्रंशकराणि षडिति” च स्मृतिः दुर्बोध्ये “योगिनामप्यगम्योऽसाविति” पुराणम्।”

अगरी = स्त्री नास्ति गरो विषं यस्याः ५ ब० गौ० ङीष्। मूषिकविषहारिणि देवताडवृक्षे। विषहारिणि द्रव्यमात्रे त्रि०।

अगरु = न० न गिरति गॄ–उ न० त०। स्वनामप्रसिद्धे अगुरु- चन्दने। “कौसुमस्रजमेताञ्च चन्दनागरुचर्चितामिति” दुर्गापूजामन्त्रः “चन्दनागुरु” इति पाठान्तरम्।

अगर्हित = त्रि० न० त०। निन्दितभिन्ने शुद्धे, “यत्किञ्चित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितमिति” स्मृतिः।

अगस्ति = पु० अगं विन्ध्याचलम् अस्यति अस्–क्तिच् शकन्ध्वादि०। अगस्त्यनामके मुनौ। अगस्त्यस्यापत्यानि बहुषु यञोलुक्। तद्गोत्रापत्येषु ब० व०। तत्सम्बन्धित्वात् दक्षिण्यां दिशि। अगस्त्यजन्मकथा च। “तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्व्वशीम् रेतश्चस्कन्द तत् कुम्भे न्यपतद्वाशतीवरे तेनैव तु मूहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ, अगस्त्यश्च वशिष्ठश्च तावृषी संबभूवतुः। बहुधा पतितं रेतः कलसे च जले स्थले। स्थले वशिष्ठस्तु मुनिः संभूवर्षिसत्तमः। कुम्भेत्वगस्त्यः सम्भूतः जले मत्स्यो महाद्युतिः। उदियाय ततोऽगस्त्यः क्षणमात्रे महातपाः इति” पुराणम्। तस्य च विन्ध्याचलस्तम्भनकथा काशीखण्डेऽनुसन्धेया। वृहत्सहिंतायामस्य गगनमण्डले दक्षिणस्यां तारारूपेण स्थितिरुक्ता तच्च अगस्त्यचारशब्दे द्रष्टव्यम्।

अगस्तिद्रु = पु० अगस्तिप्रियः द्रुर्वृक्षः शाक० त०। वकवृक्षे। अगस्तिवृक्षादयोप्यत्र।

अगस्त्य = पु० अगं विन्ध्याचलं स्त्यायति स्तभ्राति स्त्यै–क। अगस्त्यनामके मुनौ। अगस्त्यचरितामाशां प्रतस्थे दिग्जिगीषयेति” रघुः। यस्का० यञ्। आगस्त्यस्तदपत्ये।

अगस्त्यगीता = स्त्री अगस्त्येन गीता विद्याभेदः। भारते शान्तिपर्वणि प्रसिद्धे विद्याभेदे।

अगस्त्यचार = पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः शुभाशुभसूचकगत्यादि। वराहसंहितोक्ते अगस्त्यनामकनक्षत्रस्य उदयादौ। यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम्” इत्युपक्रम्य। “उदये च पुनेरगस्त्यनाम्नः कु–समायोगमलप्रदूषितानि। हृदयानि सतामिव स्वभावात् पुनरम्बूनि भवन्ति निर्मलानि।। पार्श्वद्वयाधिष्ठितचक्रवाकामापुष्णती सस्वनहंसपङ्क्तिम्। ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव सरित्सहासा।। इन्दीवरासन्नसितोत्पलान्विता सरिद्भूमत्षट्पदपङ्क्तिभूषिता। सभ्रूलताक्षेपकटाक्षवीक्षणा विदग्धयोषेव विभाति सस्मरा।। इन्द्रोः पयोदविगमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु। उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवासिततारकान्तम्।। नानाविचित्राम्बुजहंसकोककारण्डवापूर्णतडागहस्ता। रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छती वाघमगस्त्यनाम्ने।। सलिलममरपाज्ञयोञ्झितं यद्घनपरिवेष्टितमूर्त्तिभिर्भुजङ्गैः। फणिजनितविषाग्निसम्प्रदुष्टं भवति शिवं तदगस्त्यदर्शनेन।। स्मरणादपि पापमपाकुरुते किमुत? स्तुतिभिर्वरुणाङ्गरुहः। मुनिभिः कथितोऽस्य यथार्घविधिः कथयामि तथैव नरेन्द्रहितम्।। संख्याविधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः। तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुटभास्करस्य।। ईषत्प्रभिन्नेऽरुणरश्मिजांलैर्नैशेऽन्धकारे दिशि दक्षिणस्याम्। सांवत्मरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां प्रयतः प्रयच्छेत्”।। इत्युक्त्वान्ते उपसहृतं यथा “दृश्यते स किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपेतीति”।

अगस्त्यसंहिता = स्त्री अगस्त्यनिर्मिता संहिता। रामचन्द्रविष्णुवामनादिपूजेतिकर्त्तव्यताबोधके शास्त्रभेदे।

अगस्त्योदय = पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य उदयः। अगस्त्यनक्षत्रोदये तस्य च नक्षत्रस्य दक्षिणस्थितत्वेन उत्तरदिग्वासिनां सर्वदा दर्शनयोग्यता नास्ति, तस्योदयश्च भाद्रशेषे भवति “यस्तु भाद्रपदे मासि उदिते कलसोद्भवे इति” पुराणम्। तद्विवरणम् अगस्त्यचारशब्दे दर्शितम्।। तस्योदयेजलादीनां प्रसन्नत्वं “प्रससादोदयादम्भः कुम्भयोनेर्महौजसः इति” रथावुक्तम्।

अगाध = त्रि० गाध–प्रतिष्ठायाम् घञ्–न० ब०। अतिगभीरे। छिद्रे न०। गाधः निम्नसीमा स नास्ति यस्येति। नीचसीमारहिते “सास्म्यगाधे भये मग्नेति” पुरा० दुर्बोधे च। “अगाधस्यानघागुणा” इत्यमरः।

अगाधजल = पु० अगाधं जलमत्र। अतिगभीरजले ह्रदे।

अगार = न० अगम् न गच्छन्तमृच्छति प्राप्नोति अग + ऋअण्। गृहे। “तत्रागारं धनपतिगृहानिति मेघ०।

अगिर = पु० न गीर्य्यते दुःखेन गॄ–बा० क न० त०। स्वर्गे।

अगिरौकस् = पु० अगिरः स्वर्ग ओकोवासस्थानं यस्य। देवे।

अगु = पु० न गौः किरणोऽस्य। राहुग्रहे सूर्य्यालोकाभावे तमसि। गोशून्ये त्रि०।

अगुण = पु० न० त०। गुणविरोधिनि दोषे। “तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणमिति” स्मृतिः न० ब०। गुणरहिते त्रि० “भक्तिप्रीतिप्रणयसहितं मानदम्भाद्यपेतं चेतोऽस्माकं गुणवदगुणं गोदुहां देहमेतत्” इत्युद्धवदूतः।

अगुरु = न० न गुरुर्यस्मात्। स्वनामप्रसिद्धे, अगुरुचन्दने “धूपैश्चागुरुगन्धिभिरिति” शिंशपा वृक्षे (शिशु) च। गुरुभिन्ने, उपदेशकशून्ये त्रि०। गुरुवर्ण्णभिन्ने लघुवर्ण्णे पु० “अगुरुचगुष्कं भवति गुरू द्वौ घनकुचयुग्मे, शशिवदनासाविति” श्रुतबोधः। गौरवरहिते गौरवविपरीतलाघववति त्रि०।

अगुरुशिंशपा = स्त्री अगुरुःसारो यस्याः तादृशी शिंशपा मध्यपदलोपित०। (शिशु) इति प्रसिद्धे शिंशपावृक्षे।

अगूढगन्ध = न० न गूढो गन्धो यस्य ६ ब०। हिङ्गुद्रव्ये। तन्निर्यासस्योत्कटगन्धत्वात्तथा। अगुह्यसौरभे द्रव्यमात्रे त्रि०।

अगृभीत = त्रि० न गृहीतम् छान्दसत्वात् हस्य भः। अगृहीते, “जयजय जह्यजामगृभीतगुणामिति, भाग० श्रु०।

अगौकस् = पु० अगः पर्वत ओकः स्थानं यस्य। शरभे पशौ पर्वतवासिनि त्रि०।

अग्नामरुत् = पु० द्वि० द्व० आनङ्। एकहविरुद्देश्ययो स्तन्नाम्नोर्देवयोः। तौ देवते अस्य अण्। आग्निमारुतं हविः।

अग्नाविष्णु = पु० द्वि० द्व० आनङ्। एकहविर्भोक्त्रोस्तन्नामकयोर्देवयोः।

अग्नायी = स्त्री अग्नि + ऐङ्–ङीष्। अग्नेर्योषिति स्वाहा ख्यायाम्। “वरुणानी नचाग्नायी तस्याः सिमन्तिनी समेवि” भट्टिः। सा च दक्षकन्या तस्याश्चाग्निप्रियताकथा महाभारते “दक्षस्याहं प्रिया कन्या स्वाहा नाम महाभुज!।। बाल्याद् प्रभृति नित्यञ्च जातकामा हुताशने स न मेकामनां पुत्त्र! सम्यग् जानाति पावकः। इच्छामि शाश्वतं वासं वस्तुं पुत्त्र! सहाग्निना। स्कन्द उवाच। हव्यं कव्यञ्च यत् किञ्चिद्द्विजा० नामाथ संस्कृतम्। होष्यन्त्यग्नौ सदा देवि! स्वाहेत्युक्त्वा समुद्धृतम्। अद्य प्रभृति दास्यन्ति सुवृत्ताः सत्पथे स्थिताः। एवमग्निस्त्वया सार्द्धं सदा वत्स्यति शोभने”! वन० मार्क० प०।

अग्नि = पु० अङ्गति ऊर्द्ध्वं गच्छति अगि–नि नलोपः। अग्नौ स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायोरग्निरग्नेरापोद्भ्यः पृथिवी, इति” श्रुतिः। तत्र तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च। सूक्ष्मवायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु स्थूलः “तासां त्रिवृतं त्रिवृतमेकैकां करोतीति” श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम्। पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते। तथा च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्द्धभागेन उत्पन्नः पञ्चीकृतः। तस्य च पञ्चात्मकत्वेऽपि “वैशेष्यात्तद्वाद इति” शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः। सोऽयं स्थूलो वह्निः प्रकारान्तरेण त्रिविधः भौमः दिव्यः जाठरश्चेति भेदात्। तत्र पार्थिवकाष्ठादि प्रभवः भौमः महानसाद्यग्निः, जलवाय्वादिभवः दिव्यः विद्युदुल्कावज्रादिः। उभावपि ऊर्द्ध्वज्वलनस्वभावः। उदरे भवस्तृतीयः। त्रयोऽप्यमी स्वसंयुक्तपाकदाहप्रकाशन समर्थाः। सर्व्वेऽप्यमी लोके शास्त्रे च वह्न्यादिशब्देन व्यवह्नियन्ते तेषां विशेषगुणाः शब्दस्पर्शरूपाणि “योयोयावतिथश्चैषां स स तावद्गुणः स्मृतः” इति मनुना भूतमध्ये तृतीयस्य तेजसः त्रिगुणत्वमुक्तं व्यक्तमुक्तं महाभारते शब्दः स्पर्शश्च रूपञ्च तेजसोऽथ गुणास्त्रयैति “अत एव “वह्नौ भृगभुगध्वनिरिति” पञ्चदश्यामुक्तम् वह्नेश्च तेजोजलभूम्यात्मकत्वेन लोहितशुक्लरूपत्वम् अत एव छान्दोग्ये त्रिवृत्करणानन्तरम् वह्नेस्त्रिरूपत्वमुक्तं यथा “यदग्नेः रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत् कृष्ण तदन्नस्येति” विवृतञ्चैतद्भाष्यकृता “यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते। उदाहरणं नामैकदेशप्रसिद्ध्याशेषप्रसिद्ध्यर्थमुदाह्रियत इति। तदेतदाह यदग्नेः त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके तदत्रिवृत्कृतस्य तेजसो रूपमिति विद्धि। तथा यच्छुक्लं रूपमग्नेः तदपामत्रिवृत्कृतानामेव यत् कृष्णं तस्यैवाग्नेः रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धीति”। अत एव तत्तच्छास्त्रकाव्यादिषु वह्नेररुणरूपतया वर्णनं दृश्यते। अग्निमूर्त्तिध्याने च अरुणरूपत्वमनुपदं दर्शयिष्यते। लोके चारुणत्वेनैव प्रत्यक्षेणासावुपलभ्यते एवञ्च नैयायिकोक्तं तेजसः शुक्लभास्वररूपत्वं प्रत्यक्षवेदविरुद्धत्वादुपेक्ष्यमेव। तत्र भौमदिव्ययोः प्रायशोलोकसिद्धत्वेन दिव्यस्याग्रे दिव्यशब्दे वक्ष्यमाणत्वाच्च जाठरे वह्नौ विशेषोऽभिधीयते। “नाभेरुर्द्धं हृदयादधस्तादामाशयमाचक्षते तद्गतं सौरं तेजः पित्तमित्याचक्षते” इति भाष्यविवरणे आनन्दगिरिः वैद्यकवचनत्वेनोवाच। अत एव तस्य कौक्षेय इति संज्ञा। छान्दोग्ये च “य हृदयस्य नाड्यस्ताः पिङ्गलाश्चाणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्ये त्यसौ वा आदित्यः पिङ्गलः एष शुक्ल एष नील एष पीत एष लोहित इति”। व्याख्यातञ्चैतत् भाष्यकृता। “अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो विनिःसृता आदित्यमण्डलादिरश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्त्तन्त इत्यर्थः। तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्य्यम्। सैरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन सम्पर्कापिङ्गलं भवति, सौरं तेजः पित्ताख्यम्। तदेव वातभूयस्त्वान्नीलं भवति। तदेव च कफभूयस्त्वाच्छुक्लं, कफेन समतायां पित्तम्, शोणितबाहुल्येन लोहितम्। वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः। कथं भवतीति? श्रुतिस्त्वाहादित्यसम्बन्धादेव, तत्तेजसो नाडीष्वनुगतस्यैते वर्ण विशेषा” इति। कथमसौ वाऽदित्यः पिङ्गलो”? वर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव, तस्य चान्नरसस्य धात्वन्तरसम्पर्कवशात् वर्णविशेष” इत्यानन्दगिरिः। अस्यैवजाठरस्य पिपासाहेतुत्वं छान्दोग्ये उक्तं यथा “अथ यत्रैतत् पुरुषः पिपासति नाम तेज एवैतत् पीतं नयते इति”। व्याख्यातञ्च भाष्यकृता द्रवकृतस्याशितस्यान्नस्य नेत्र्यः आपोऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथिलीकुर्य्युः अब्बाहुल्यात्, यदि तेजसा न शोष्येत। नितराञ्च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासुपातुमिच्छा पिपासा पुरुषस्य जायते तदा “पुरुषः पिपासति नाम, तदेतदाह “तेज एव तत्तदा पीतमबादि शोषयत् देहलोहितादिभावेन नयते परिणमयतीति”। तस्य रसपाकप्रकारमाह योगार्ण्णवे। “आयुष्यं भुक्तमाहारं स वायुः कुरुते द्विधा संप्रविश्यान्नमध्यन्तु, पृथक् किट्टं पृथग् जलम् (किट्टम् अन्नमलभेदम्)। अग्नेरूर्द्ध्वं च संस्थाप्य तदन्नं च जलोपरि। जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः (धमते संधुक्षयति) वायुना ध्मायमानोऽग्निरत्युष्णं कुरुते जलम्। अन्नं तदुष्णतोयेन समन्तात् पच्यते पुनः। द्विधा भवति तत् पक्वं पृथक् किट्टं पृथग् रसम्। रसेन तेन ता नाडीः प्राणः पूरयते पुनः। प्रत्यर्पयन्ति सम्पूर्ण्णारसानि ताः समन्तत इति”। एवं रसपाकोत्तरं धातुपाकोऽभिहितः पदार्थादर्शे। यथा “त्वगसृग्मासमेदोऽस्थिमज्जशुक्राणि धातवः। सप्त स्युस्तत्र चोक्ता त्वक् रक्तजोदरवह्निना। पक्काद्भवेदन्नरसादेवं रक्तादिभिस्तथा। स्वस्वकोशाग्निना पाकात् प्रजायन्ते त्वगादय इति”। एतम्मूलमेव “तस्य षोढा शरीराणि षट् त्वचो धारयन्ति चेति” याज्ञवल्क्यवचनव्याख्यायां मिताक्षराकृता स्पष्टमुक्तम् यथा तस्यात्मनोयानि जरायुजाण्डजादीनि शरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन। तथाहि अन्नरसोजाठरवह्निना पच्यमानी रक्ततां प्रतिपद्यते, रक्तः स्वकोश- स्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशस्थानलपरिपक्कं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्कमस्थिताम्, अस्थ्यापि स्वकोशशिखिपरिपक्कं मज्जत्वम्, मज्जापि स्वकोशपावकपरिपच्यमानं चरमधातुतया परिणमते इति” जाठरस्य प्रकारान्तरेण पाचनादिदशविधकर्म्मकारित्वात् दशविधत्वमुक्तं पदार्थादर्शे यथा “भ्राजकोरञ्जकश्चैव क्लेदकः स्नेहकस्तथा धारको बन्धकस्यैव द्रावकाख्यश्च सप्तमः। व्यापकः पाचकश्चैव श्लेष्मको दशधा मत इति”। वैद्यकेचास्य चतुर्विधकार्य्यविशेषकारित्वाच्चातुर्विध्यमुक्तम्। विषमश्च समस्तीक्ष्णो मन्दश्चेति चतुर्विधः। कफपित्तान लाधिक्यात् तत्साम्याज्जाठरोऽनलः। विषमो वातजान् रोगान्, तीक्ष्णः पित्तसमुद्भवान्, करोत्यग्निस्तथामग्दो विकारान् कफसम्भवान्। समाः समोऽग्निरशितमात्राः सम्यक् पचत्यसौ” इति।। अग्नेरतितीक्ष्णत्वे भस्मकसंज्ञा स हि सम्यगाहाराभावे शोणितादिधातूनपि पाचयित्वा आशु देहं नाशयतीति रक्षितः आहस्म। अघिकं कायशब्दे वक्ष्यते। वाह्यस्य भौमस्याग्नेः कर्म्मविशेषे नामान्युक्तानि विधानपारिजाते। यथा “लौकिके पावकोह्यग्निः प्रथमः परिकीर्त्तितः। अग्निस्तुमारुतो नाम गर्भाधाने प्रकीर्त्तितः।। पुंसवे चमसो नाम शोभनः शुभकर्म्मसु। (शुङ्गकर्म्मणीति रघु०)। तच्च सीमन्तान्तर्गतकर्म्मभेदः। सीमन्ते ह्यनलो नाम प्रगल्मो जातकर्म्मणि।। पार्थिवो नामकरणे प्राशनेऽन्नस्य वै शुचिः। सभ्यनामा तु चूडायां ब्रतादेशे समुद्भवः।। गोदाने सूर्य्यनामा स्यात् केशान्ते याजकः स्मृतः। वैश्वानरो विसर्गे स्याद्विवाहे वलदः स्मृतः।। चतुर्थीकर्म्मणि शिखी धृतिरग्निस्तथाऽपरे। (अपरे कर्म्मणि) आवसथ्यस्तथाधाने वैश्वदेवे तु पावकः। ब्रह्माग्निर्गाहपत्ये स्याद्दक्षिणाग्निरथेश्वरः। विष्णुराहवनीये स्यादग्निहोत्रे त्रयोमताः लक्षहोमेऽभीष्टदः स्यात् कोटिहोमे महाशनः। एके घृतार्चिषां प्राहुरग्निध्यानपरायणाः।। रुद्रादौ तु मृडो नाम शान्तिके शुभकृत्तथा। आदिशब्दात् लघुरुद्रशतरुद्रातिरुद्रालक्ष्यन्ते। (पूर्णाहुत्यां मृडो नामेति रघु०)। पौष्टिके वरदश्चैव क्रोधाग्निश्चाभिचारके। वश्यार्थे वशकृत् प्रोक्तो वनदाहे तु पोषकः। उदरे जठरी नाम क्रव्यादः शवभक्षणे। समुद्रे वाडवो ह्यग्निर्लये संवर्त्तकस्तथा।। सप्तविंशतिसख्याता अग्नयः कर्मसु स्मृताः। तं तमाहूय होतव्यं यो यत्र विहितोऽनलः।। अन्यथा विफलं कर्म सर्व्वं तद्राक्ष- सम्भवेत्। आदित्यादिग्रहाणां च साम्प्रतं ह्यग्निरुच्यते।। आदित्ये कपिलो नाम पिङ्गलः सोम उच्यते। धूमकेतु स्तथा भौमे जठरोऽग्निर्बुधे स्मृतः।। वृहम्पतौ शिखी नाम शुक्रे भवति हाटकः। शनैश्चरे महातेजा राहौ केतौ हुताशनः इति।।” यज्ञादौ तु पञ्च भेदाः “आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च। अन्वाहार्य्यो गार्हपत्य इत्येते पञ्च वह्नयः” इति शा० राघ०। “पञ्चाग्नयो ये च त्रिणाचिकेता” इति श्रुतिः। अग्नेर्ध्येयरूपं यथा “रुद्रतेजःसमुद्भूतं द्विमूर्द्धानं द्विनासिकम्। षण्नेत्रं च चतुःश्रोत्रं त्रिपादं सप्तहस्तकम्। याम्यभागे चतुर्ह्रस्तं सव्यभागे त्रिहस्तकम्। स्रुवं स्रुचञ्च शक्तिं च अक्षमालां च दक्षिणे। तोमरं व्यजनं चैव घृतपात्रन्तु वामके। बिभ्रतं सप्तभिर्हस्तैर्द्विमुखं सप्तजिह्वकम्। दक्षिणञ्च चतुर्जिह्वं त्रिजिह्वमुत्तरं मुखम्। द्वदशकोटिमूर्त्त्याख्यं द्विपञ्चाशत्कलायुतम्। स्वाहास्वधावषट्कारैरङ्कितं मेषवाहनम्। रक्तमाल्याम्बरधरं रक्तं पद्मासनस्थितम्।। रौद्रं तु वह्निनामानं वह्निमावाहयाम्यहम्”। इति रुद्रकल्पः। अग्नेर्भौतिकत्वेऽपि कर्म्माङ्गहोमसाधनतया एवं ध्यातव्यता। अग्न्यभिमानिनि चेतनाधिष्ठिते शरीरादावशि उपचारात् अग्निशब्दप्रयोगः। अग्न्यधिष्ठातरि देवभेदे “अग्निं दूतं वृणीमहे होतारं विश्ववेदस” मित्यादौ वेदे तस्यैव आह्वानपूर्वकोपास्यत्वमुक्तम्। तदधिष्ठितदेहभेदेऽपि, स एव विश्वनराज्जन्मासाद्य अग्निलोकाधिपत्यं चकारेति काशीखण्डे उक्तं तत्कथा वैश्वानरशब्दे वक्ष्यते। अग्निदेवताके कृत्तिकानक्षत्रे “अश्वियमदहने” त्यादिना ज्योतिषे कृत्तिकानक्षत्रस्य तत्स्वामिकत्वोक्तेः तद्देवताके प्रतिपत्तिथौ वह्नेस्तदाधिपत्यं तिथिशब्दे वक्ष्यते। तस्य बहुत्वेऽपि वेदत्रयभेदेन दक्षिणाग्निगार्हपत्याहवनीयनामतया प्राधान्येन त्रित्वात् “प्रधानेन व्यपदेशा भवन्तीति” न्यायात् तत्संख्यासदृशसंख्याके त्रित्वसंख्यान्विते, स्वोदयात् स्वाग्निलब्धं (३०) “यद्भुक्तं भोग्यं रवेस्त्यजेदिति” नीलकण्ठः। चित्रकवृक्षे (चिते) स्वर्ण्णे तस्य तत्तेजोजातत्वात्तथा तत् कथा अग्निरेतःशब्दे वक्ष्यते भल्लातकवृक्षे (भेला) निम्बुक वृक्षे (नेवु) पित्ते धातौ तस्य तदुत्पन्नत्वात्तथा यथा च तस्य तदुत्पन्नत्वं तथोक्तं प्राक्। तत्स्वामिके अग्निकोणे च। एवमग्निवाचकाः सर्वेऽपि शब्दाः कृत्तिकानक्षत्रादौ वर्त्तन्ते। वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयमिति तिथित०। “हुताशे अग्निकोणे” अनलविधुशता- ख्येति” ज्योतिषम्। (अनलः कृत्तिका) एवं यथायथमुदाहार्य्यम्। अग्न्यभिमानिनश्च देवाः कुत उत्पन्नाः? कस्मिन् कस्मिन्। कर्म्मणि? वा तेषामधिष्ठातृत्वं तदुक्तं भारते। अङ्गिराउवाच = कुरु पुण्यं प्रजासर्गं भवाग्निस्तिमिरापहः। माञ्च देव! कृरुष्वाग्ने! प्रथमं पुत्त्रमञ्जसा।। तच्छ्रुत्वाऽङ्गिरसो वाक्यं जातवेदास्तदाऽकरोत्। राजन्!। वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः। ज्ञात्वा प्रथमजं तन्तु वह्नेराङ्गिरसं सुतम्। उपेत्य देवा पप्रच्छुः कारणं तत्र भारत। स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत्। प्रत्यगृह्णंस्तु देवाश्च तद्वचोऽङ्गिरसस्तदा। तत्र नानाविधानग्नीन् प्रवक्ष्यामि महाप्रभान्। कर्म्मभिर्ब्बहुभिः ख्यातान्नानार्थान् ब्राह्मणेष्विह। व० मार्क० स० २१६ अध्या० ब्रह्नणो यस्तृतीयस्तु पुत्त्रः कुरुकुलोद्वह!। तस्याभवत् शुभा भार्य्या प्रजास्तस्याञ्च मे शृणु। वृहत्कीर्त्तिर्वृहज्ज्योतिर्वृहद्ब्रह्मा वृहन्मनाः। वृहन्मन्त्रो वृहद्भासस्तथा राजन्! वृहस्पतिः। प्रजासु तासु सर्व्वासु रूपेणाप्रतिमाऽभवत्। देव! भानुमती नाम प्रथमाऽङ्गिरसः सुता। भूतानामिव सर्वेषां तस्यां रागस्तदाऽभवत्। रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता। यां कपर्द्दिसुतामाहुर्दृश्यादृश्येति देहिनः। तनुत्वात् सा सिनीबाली तृतीयाऽङ्गिरसः सुता। पश्यत्यर्च्चिष्मती भाभिर्हविर्भिश्च हविष्मती। महामखेष्वाङ्गिरसी दोप्तिमत्सु महामते!। महायतीति विख्याता सप्तमी कथ्यते सुता। यान्तु दृष्ट्वा भगवर्ती जनः कुहुकुहायते। एकानंशेति तामाहुः कुहूमङ्गिरसः सुताम्। ३१७ अ० वृहस्पतेश्चान्द्रमसी भार्य्याऽभूद्या यशस्विनी। अग्नीन् साऽजनयत् पुत्रान् षडेकाञ्चापि पुत्त्रिकाम्। आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते। सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाव्रतः। चातुर्म्मास्येषु यस्येष्ट्यामश्वमेधेऽग्रजः पशुः। दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान्। शंयीरप्रतिमा भार्य्या सत्याऽसत्याऽथ धर्म्मज!।। अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे। अग्निस्तस्य भरद्वाजः प्रथमः पुत्त्र उच्यते पौर्ण्णमास्येषु सर्वेषु हविषाज्यं स्रुचोद्यतम्। भरतो नामतः सोऽग्निर्द्वितीयः शंयुतः सुतः। तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः। मरतस्तु सुतस्तस्य भरत्येका च पुत्त्रिका। भरतो भरतस्याग्नेः पावकस्तु प्रजापतेः। महानत्यर्थमहितस्तथा भरतसत्तमः। भर- द्वाजस्य भार्य्या तु वीरा वीरस्य पिण्डदा। प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः। हविषा यो द्वितीयेन सोमेन सह युज्यते। रथप्रभूरथाध्वानः कुम्भरेताः स उच्यते। सरंय्वां जनयन् सिद्धिं भानु भाभिः समावृणोत्। आग्नेयं मानयन्नित्यमाधाने ह्येष षूयते। यस्तु न च्यवते नित्यं यशसा वर्च्चसा श्रिया। अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम्। विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्च्चिषा ज्वलन्। विपापोऽग्निः सुतस्तस्य सत्यः समयधर्म्मकृत्। अक्रोशतां हि भूतानां यः करीति हि निष्कृतिम्। अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः। अनुकूजन्ति येनेह वेदनार्त्ताः स्वयं जनाः। तस्य पुत्त्रः स्वनो नाम पावकः स रुजस्करः। यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति। तं प्राहुरध्यात्मविदो विश्वजिन्नामपावकम्। अन्तरग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम्। स जज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत!। ब्रह्मचारी यतात्मा च सततं विपुलव्रताः। ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम्। पवित्रा गोतमी नाम नदी यस्याऽभवत् प्रिया। तस्मिन् कर्म्माणि सर्वाणि क्रियन्ते धर्म्मकर्तृभिः। वडवाग्निः पिबत्यम्भो योऽसौ परमदारुणः। ऊर्द्ध्वभागूर्द्ध्वभाङ् नाम कविः प्राणाश्रितस्तु यः। उदग्धारं हविर्यस्य गृहे नित्यं प्रदीयते। ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमः स्मृतः। यः प्रशान्तेषु भूतेषु मन्युर्भवति पावकः। क्रुद्धस्य तरसा जज्ञे मन्यन्ती चाथ पुत्त्रिका। स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति। त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्वन अतुल्यत्वात् कृतो देवैर्नाभ्रा कामस्तु पावकः। संहर्षाद्धारयन् क्रोधं धन्वी स्रग्वी रथे स्थितः समये नाशयेच्छत्रू नमोघो नाम पावकः। उक्थो नाम महाभाग। त्रिभिरुक्थैरभिष्टुतः। महावाचन्त्वजनयत् समाश्वासं हि यं विदुः। २१८ अ० काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः। अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्च्चकः। अचरत् स तपस्तीव्रं पुत्त्रार्थे बहुवार्षिकम्। पुत्त्रं लभेयं धर्म्मिष्ठं यशसा ब्रह्मणा समम्। महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ। जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः। समिद्धोऽग्निः शिरस्तस्य बाहू सूर्य्यनिभौ तथा। त्वङ्नेत्रे च सुवर्ण्णाभे कृष्णे जद्ध्वे च भारत!। पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः। पाञ्चजन्यः श्रुतो देवः पञ्चवंश- करस्तु सः। दश वर्षसहस्राणि तपस्तत्वा महातपाः। जनयत् पावकं घोरं पितॄणां स प्रजाः सृजत्। वृहद्रथन्तरं मूर्द्ध्नो वक्त्राद्वा तरसा हरौ। शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्। बाहुभ्यामनुदात्तौ च विश्वाभूतानि चैव ह। एतान् दृष्ट्वा ततः पञ्च पितॄणामसृजत् सुतान्। वृहद्रथस्य प्रणिधिः कश्यपस्य महत्तरः। भानुरङ्गिरसो धीरः पुत्रो वर्च्चस्य सौभरः। प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः। देवान् यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान्। सुमीममतिभीमञ्च भीमं भीमबलाबलम्। एतान् यज्ञमुषः पञ्च देवानां ह्यसृजत्तपः। सुमित्रं मित्रवन्तञ्च मित्रज्ञं मित्रवर्द्धनम् मित्रधर्म्माणमित्येतान् देवानभ्यसृजत्तपः। सुरप्रवीरं वीरञ्च सुरेशं सुरवर्च्चसम्। सुराणामपि हन्तारं पञ्चैतान सृजत्तपः। त्रिविधं संस्रिता ह्येते पञ्च पञ्च पृथक् पृथक्। मुष्णन्त्यत्र श्रिता ह्येते स्वर्गतो यज्ञयाजिनः। तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः। स्पर्द्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च। द्यां वहिर्वै तदादानं कुशलैः संप्रवर्त्तितम्। तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्। चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां तत् प्रवर्त्तितम्। मन्त्रैः प्रशमिता ह्येते नष्टं मुष्णन्ति यज्ञियम्। वृहदुकथस्तपसैव पुत्त्रो भूमिमुपाश्रितः। अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते। रथन्तरश्च तपसः पुत्त्रोऽग्निः परिपठ्यते। मित्रविन्दाय वै तस्मै हविरध्वर्य्यवो विदुः। मुमुदे परमप्रीतः सह पुत्त्रैर्महायशाः। २१९ अ० गुरुभिर्नियमैर्जातो भरतो नाम पावकः। अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति। भरत्येष प्रजाः सर्वास्ततो भरत उच्यते। अग्निर्यश्च शिवो नाम शक्तिपूजापरश्च सः। दुःखार्त्तानाञ्च सर्वेषां शिवकृत् सततं शिवः। तपसस्तु फलं दृष्ट्वा सम्प्रवृद्धं तपो महत्। उद्धर्तुकामो मतिमान् पुत्त्रो जज्ञे पुरन्दरः। ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते। अग्मिश्चापि मनुर्नाम प्राजापत्यमकारयत्। शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः। आवसथ्यं द्विजाः प्राहुर्द्दीप्तमग्निं महाप्रभम्। ऊर्ज्जस्करान् हव्यवाहान् सुवर्णसदृशप्रभान्। ततस्तपो ह्यजनयत् पञ्च यज्ञसुतानिह। प्रशान्तोऽग्निर्महाभाग। परिश्रान्तो गवाम्पतिः। असुरान् जनयन् घोरान्मर्त्यांश्चैव पृथखिधान्। तपसश्च मनुं पुत्त्रं भानुञ्चाप्यङ्गिराः सृजत्। वृहद्भानुन्तु तं प्राहुर्ब्राह्मणा वेदपारगाः। भानोर्भार्य्या सुप्रजा तु वृहद्भासा तु सूर्य्यजा। असृजेतान्तु षट् पुत्त्रान् शृणु तेषां प्रजाविधिम्। दुर्ब्बलानान्तु भूतानामसून् यः सम्प्रयच्छति। तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम्। यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः। अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः। दर्शे च पौर्ण्णमासे च यस्येह हविरुच्यते। विष्णुर्नामेह योऽग्निस्तु धृतिमान् नाम सोऽङ्गिराः। इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम्। अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः। चातुर्म्मास्येषु नित्यानां हविषां यो निरग्रहः। चतुर्भिः सहितः पुत्त्रैर्भानोरेवान्वयस्तु सः। निशा त्वजनयत् कन्यामग्नीषोमावुभौ तथां। भानोरेवाभवद्भार्य्या सुषुवे पञ्च पावकान्। पूज्यते हविषाग्रेण चातुर्म्मास्येषु पावकः। पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः। अस्य लोकस्य सर्व्वस्य यः प्रभुः परिपठ्यते। सोऽग्निर्व्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः। ततः स्विष्टं भवेदाज्यं स्विष्टकृत् परमस्तु सः। कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता। कर्म्मणाऽसौ बभौ भार्य्या स वह्निः स प्रजापतिः। प्राणानाश्रित्य यो देहं प्रवर्त्त यति देहिनाम्। तस्य सन्निहितो नाम शब्दरूपस्य साधनः। शुक्लकृष्णगतिर्द्देवो यो बिभर्त्ति हुताशनम्। अकल्भषः कल्मषाणां कर्त्ता क्रोधाश्रितस्तु सः। कपिलं परमर्षिञ्च यम्प्राहुर्यतयः सदा। अग्निः स कपिलो नाम साङ्ख्ययोगप्रवर्त्तकः। अग्रं यच्छन्ति भूतानां येन भूतानि नित्यदा। कर्म्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते। इमानन्यान् समसृजत् पावकान् प्रथितान् भुवि। अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्वणान्। संस्पृशेयुर्यदाऽन्योऽन्यं कथश्चिद्वायुनाऽग्नयः। इष्टिरष्टाकपालेन कार्य्या वै शुचयेऽग्नये। दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल। इष्टिरष्टाकपालेन कार्य्या वै वीतयेऽग्नये। यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना। इष्टिरष्टाकपालेन कार्य्या तु शुचयेऽग्नये। अग्निं रजस्वला वै स्त्री संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्य्या दस्युमतेऽग्नये। मृतः श्रूयेत यो जीवः परेयुः पशवो यदा। इष्टिरष्टाकपालेन कार्य्या सुरमतेऽग्नये। आर्त्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः। इष्टिरष्टाकपालेन कार्य्या स्यादुत्तराग्नये। दर्शञ्च पौर्ण्णमासञ्च यस्य तिष्ठेत् प्रतिष्ठितम्। इष्टिरष्टाकपालेन कार्य्या रतिकृतेऽग्नये। सूतिकाऽग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम्। इष्टिरष्टाकपालेन कार्य्या चाग्निमतेऽग्नये। २२० अध्या० आपस्य दुहिता भार्य्या सहस्य परमा प्रिया। भूपतिर्भुवभर्त्ता चाजनयत् पावकं परम्! भूतानाञ्चापि सर्वेषां यं प्राहुः पावकं पतिम्। आत्मा भुवनभर्त्तेति सान्वयेषु द्विजातिषु। महताञ्चैव भूतानां सर्वेषामिह यः पतिः। भगवान् स महातेजा नित्यं चरति पावकः। अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते। हुतं वहति यो हव्यमस्य लोकस्य पावकः। अपां गर्भो महाभागः सत्त्वभुग्यो महाद्भुतः। भूपतिर्भुवभर्त्ता च महतः पतिरुच्यते। दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत्। अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु। स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः। आयान्तं नियतं दृष्ट्वा प्रविवेशार्ण्णवं भयात्। देवास्तत्रांधिगच्छन्ति मार्गमाणा यथादिशम्। दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत्। देवानां वह हव्यं, त्वमहं वीर! सुदुर्ब्बलः। अथ त्वं गच्छ मध्वक्षं प्रियमेतत् कुरुष्व मे। प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत्। मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्। भक्ष्या वै विवधैर्भावैर्भविष्यथ शरीरिणाम्। अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः। अनुनीयमानो हि भृशं देववाक्याद्धि तेन सः। नैच्छद्वोढुं हविः सर्वं शरीरञ्चापि सोऽत्यजत्। स तच्छरीरं सन्त्यज्य प्रविवेश धरान्तदा। भूमिं स्पृष्टाऽसृजद्धातून् पृथक् पृथगतीव हि। पूयात् स गन्धं तेजश्च अस्थिभ्यो देवदारु च। श्लेष्मणः स्फटिकं तस्य पित्तान्मारकतं तथा। यकृत् कृष्णायसं तस्य त्रिभिरेष प्रभुः प्रजाः। नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम्। शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप!। एवं त्यक्त्वा शरीरञ्च परमे तपसि स्थितः। भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा। भृशं जज्ज्वाल तेजस्वी तपसाप्यायितः शिखी। दृष्ट्वा ऋषिं भयाच्चापि प्रविवेश महार्णवम् तस्मिन्नष्टे जगद्भीतमथर्व्वाणमथाश्रितम्।। अर्च्चया मासुरेवैनमथर्व्वाणं सुरादयः। अथर्व्वा त्वसृजल्लोकानात्मनालोक्य पावकम्। मिषतां सर्व्वभूतानामुन्ममाथ महार्णवम्। एवमग्निर्भगवता नष्टः पूर्ब्बमथर्वणा। आहूतः सर्वभूतानां हव्यं वहति सर्वदा। एवं त्वजनयद्धिष्ण्यान् वेदीक्तान् विविधान् बहून्। विचरन् विविधान् देशान् भ्रममाणस्तु तत्र वै। सिन्धुं नदं पञ्चनदं देविकाऽथ सरस्वती। गङ्गा च शतकुम्भा च सरयूर्गण्डसाह्वया चर्म्मण्वती सती चैव भेध्या मेधातिथिस्तदा। ताम्रावती वेत्रवती नद्यस्त्रिस्रोऽथ कौशिकी। तमसा नर्मदा चैव नदी गोदावरी तथा। वेण्णीपवेण्णा भीमा च वद्धवा चैव भारत।। भारती सुप्रयोगा च कावेरी मुर्मुरा तथा। तुङ्गवेणा कृष्णवेणा कपिला शोण एव च। एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्त्तिताः। अद्भुतस्य प्रिया भार्य्या तस्य पुत्त्री विभूरसिः। यावन्तः पावकाः प्रोक्ता सोमास्तावन्त एव तु।। अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः। अत्रिः पुत्त्रान् स्रष्टुकामांस्तानेवात्मन्यधारयत्। तस्य तद्व्रह्मणः कायान्निर्हरन्ति हुताशनाः एवमेते महात्मानः कीर्त्तितास्तेऽग्नयो मया।। अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः। अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्त्तितम्। तादृशं विद्धि सर्व्वेषामेको ह्येष हुताशनः। एक एवैष भगवान् विज्ञेयः प्रथमोऽङ्गिराः। बहुधा निःसृतः कायात् ज्योतिष्टोमकतुर्य्यथा। इत्येष वंशः सुमहानग्नीनां कीर्त्तितोमया। योऽर्चितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम्। भा० व० मार्क० २२१ अध्या०। सास्य देवतेति–ढक् आग्नेयमग्निदेवताके हविरादौ त्रि०। अग्निना दृष्टं माम ढक्। आग्नेयं साम। आग्नेयी ऋक् त्रि०। अग्नये हितं ढक्। आग्नेयमौषधम् त्रि०। लौकिकप्रयोगानुसारेण “अङ्गेर्नलोपश्चेति” औणादिकसूत्रेण अग्निशब्दस्य व्युत्पत्तिर्दर्शिता वैदिकप्रयोगे तु अग्निशब्दस्य प्रवृत्तिनिमित्तभेदोपयोगिन्यो यास्केन बह्व्यो व्युत्पत्तयोदर्शिताः। यथा “अथातोऽनुक्तमिष्यामोऽग्निः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामोऽग्निः कस्मादग्रणीर्भवत्यग्रं यज्ञेषु प्रणीयतेऽङ्गं नयति संनममानोऽक्नोपनो भवतीति स्थौलाष्ठीविर्न क्नोपयति न स्नेहयति त्रिभ्य आख्यातेभ्यो जायत इति” शाकपूणिरितादक्ताद्दग्धाद्वा नीतात्स खल्वेतेरकारमादत्ते गकारमनक्तेर्वा दहतेर्वा नीः परस्तस्यैषा भवतीति” अग्निमीले इति”। अस्यायमर्थः। सामान्येन सर्वदेवतानां लक्षणस्याभिहितत्वादनन्तरं थतः प्रतिपदं विशेषेण वक्तव्यत्वमाकाङ्क्षितमतोऽनुक्रमेण वक्ष्यामः। तत्र पृथिवीलोके स्थितोऽग्निः प्रथमं व्याख्यास्यंते। कस्मात्प्रवृत्तिनिमित्तादग्निशब्देन देवताभिधीयत? इति प्रश्नस्याग्रणीरित्यादिकमुत्तरम्। देवसेनामग्रे स्वयं नयतीत्यग्रणीः। एतदेकमग्निशब्दस्य प्रवृत्तिनिमित्तम्। तथा च ब्राह्मणान्तरम्। “अग्निर्वै देवानां सेनानीरिति”। एतदेवाभिप्रेत्य बह्वृचा मन्त्रब्राह्मणे आमनन्ति। “अग्नि- र्मुखं प्रथमो देवतानामिति” मन्त्रः। “अग्निर्वै देवानामवम इति” ब्राह्मणम्। तया तैत्रिरीयाश्चामनन्ति। “अग्निरग्रे प्रथमो देवतानामिति” मन्त्रः। “अग्निरवमो देवतानामिति” च। वाजमनोयिनस्त्वेवमामनन्ति। “स वा एषोऽग्रे देवतानामजायत तस्मादग्निर्नामेति”। यज्ञेष्वग्निहोत्रेष्टिपशुसोमरूपेष्वग्रं पूर्ब्बदिग्वर्त्याहवनीयदेशं प्रति गार्हपत्यात्प्रणीयत इति द्वितीयं प्रवृत्तिनिमित्तम्। सन्नममानः सम्यक् स्वयमेव प्रह्वीभगवन्नङ्गं स्वकीयं शरीरं नयति काष्ठदाहे हविःपाके च प्रेरयतीति तृतीयं प्रवृत्तिनिमित्तम्। स्थूलाष्ठीविनामकस्य महर्षेः पुत्रो निरुक्तकारः कश्चिदक्नोपन इत्यग्निशब्दं निर्वक्ति। तत्र न क्नोपयतीत्युक्ते न स्नेहयति किन्तु काष्ठादिकं रूक्षयतीत्युक्तं भवति। शाकपूणिनामको निरूक्तकारो धातुत्रयादग्निशब्दनिष्पत्तिं मन्यते। इतः इण् गतौ इति धातुः। अक्तोऽन्जु व्यक्तिम्नक्षणगतिषु इति धातुः। दग्धो दह भस्मीकरणे इति धातुः। नीतो णीञ् प्रापणे इति धातुः। अग्निशब्दो ह्यकारगकारनिशब्दानपेक्षमाण एतिधातोरुत्पन्नादयनशब्दादकारमादत्ते। अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते। यद्वा दहति धातुजन्याद्दग्धशब्दाद्गकारमादत्ते। नीरिति नयतिधातुः स च ह्रस्वो भूत्वा परो भवति। ततो धातुत्रयं मिलित्वाग्निशब्दो भवति। यज्ञभूमिं गत्वा स्वकीयमङ्गं नयति काष्ठदाहे हविःपाके च प्रेरयतीति समुदायार्थः। तस्या ग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिदर्शनायैषाग्निमीले इत्यृगभतीति” ऋग्वेदभाष्ये माधवाचार्य्यः एतस्य वैश्यनरादिशब्दप्रवृत्तिनिमित्तदर्शनेनानेकास्तुतयो यास्केन दर्शितास्ताश्च तत्तच्छब्दावसरे दर्शयिष्यन्ते।

अग्निक = पु० अग्निवत् कायति मकाशते कै–क। इन्द्रगोपकीटे।

अग्निकण = पु० अग्नेः कणः ६ त०। अग्निच्युतक्षुद्रांशे।

अग्निकर्म्मन् = न० अग्नौ कर्म्म ७ त०। होमे अग्निहोत्रादौ “अग्निकर्म्म ततः कृत्वेति” स्मृतिः अग्निकार्य्यादयोऽप्यत्रं न०।

अग्निकला = स्त्री ६ त० अग्नेरवयवभेदे। सा च दशविधा तासाञ्च यादिलान्तवर्णदेवतात्वं यथोक्तं शारदातिलके। “धूम्रार्च्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी। सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि। यादीनां दशवर्णानां कला धर्म्म प्रदा अमूः” इति।

अग्निकारिका = स्त्री अग्निं करोति आषत्ते करणे कर्त्तृ- त्वोपचारात् कर्त्तरि ण्वुल्। अग्न्याधानसाधनेअग्नीध्रायामृचि। सा च अग्निं दूतं पुरोदधे, इत्याद्या यजुर्वेदे एवमन्यवेदेऽप्यनुसन्धेया।

अग्निकाष्ठ = न० अग्नेः उद्दीपनं काष्ठम् शा० त०। अगुरुकाष्ठे।

अग्निकुक्कुट = पु० अग्नेः कुक्कुटैव रक्तवर्णस्फुलिङ्गवत्त्वात्। ज्वलदग्निव्याप्ततृणपुञ्जे (नुडा) इति ख्याते।

अग्निकुण्ड = न० अग्नेराधानार्थं कुण्डम्। अग्न्याधानार्थे स्थानभेदे तत्स्थानविवरणं कुण्डशब्देऽनुसन्धेयम्।

अग्निकुमार = पु० ६ त०। कार्त्तिकेये तस्याग्निरेतोजातत्वमुक्तं महाभारते वनपर्वणि २२३ अध्याये सप्तर्षिपत्नीरूपदर्शनात् जातस्मरविकारस्याग्नेस्तेषां गार्हपत्य–प्रवेशेन अनिशं तद्दर्शनेन जाताधिकविकार तयानिर्वेदपूर्ब्बकं वनगमनमुपक्रम्य, “स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा।। सा तस्य छिद्र मन्वैच्छच्चिरात् प्रभृति भाविनी। अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता।। सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपा गतम्। तत्त्वतः कामसन्तप्तं चिन्तयामास भाविनी।। अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम्। कामयिष्यामि कामार्त्ता तासां रूपेण मोहितम्।। एवङ्कृते प्रीति रस्य कामावाप्तिश्च मे भवेत्।। २२३ अध्या० मार्कण्डेय उवाच। शिवा भार्य्या त्वङ्गिरसः शीलरूपगुणान्विता। तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप। जगाम पापकाभ्यासं तञ्चोवाच वराङ्गना।। मामग्ने! कामसन्तप्तां त्वं कामयितुमर्हसि। करिष्यसि न चेदेवं मृतां मामुपधारय।। अहमङ्गिरसो भार्य्या शिवा नाम हुताशन!। शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्।। अग्निरुवाच। कथं मां त्वं विजानीषे कामार्त्तमितराः कथम्। यास्त्वया कीर्त्तिताः सर्व्वाः सप्तर्षीणां प्रियाः स्त्रियः।। शिवोवाच। अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव। त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम्।। मैथुनायेह संप्राप्ता कामं प्राप्तुं द्रुतं चर। यातरो मां प्रतीक्षन्ते गमिष्यामि हुताशन!।। मार्कण्डेय उवाच। ततोऽग्निरुपयेमे तां शिवां प्रीतिमुदायुतः। प्रीत्या देवी समायुक्ता शुक्रं जग्राह पाणिना।। व्यचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्ति कानने। ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके।। तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम्। वनान्निर्गमनञ्चैव सुखं मम भविष्यति।। मार्कण्डेय उवाच। सुपर्णी सा तदा भूत्वा निर्जगाम महावनात्। अपश्यत् पर्वतं श्वेतं शरस्तम्बैः सुसंवृतम्।। दृष्टिविषैः सप्तशीर्षैर्गुप्तं भोगिभिरद्भुतैः। रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथा राक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः।। सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम्। प्राक्षिपत् काञ्चने कुण्डे शुक्रं सा त्वरिता शुभा।। शिष्टानामपि सा देवी सप्तर्षीणां महात्मनाम्। पत्नीस्वरूपकं कृत्वा कामयामास पावकम्।। दिव्यं रूपमरुन्धत्याः कर्त्तुं न शकितं तया। तस्यास्तपः प्रभावेन भर्तृशुश्रूषणेन च।। षट्कृत्वस्तत्र निक्षिप्तमग्नेरेतः कुरूत्तम!। तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहया तदा।। तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम्। ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः। षट्शिरा द्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः। एकग्रीवैकजठरः कुमारः समपद्यत।। वन० मा० स० २२३ अध्यायः अग्निकुमारत्वेऽपि तस्य रुद्रकुमारत्वं तदप्युक्तं तत्रैव “ततो ब्रह्मा सहासेनं प्रजापतिरथाब्रवीत्। अभिगच्छ महादेवं पितरं त्रिपुरार्द्दनम्।। रुद्रेणाग्निं समाविश्य स्वाहामाविश्य चोमया। हितार्थं सर्व्वलोकानां जातस्त्वम पराजित!।। उभायीन्याञ्च रुद्रेण शुक्रं सिक्तं महात्मना अस्मिन् गिरौ निपतितं मिञ्जिकामिञ्चिकं ततः।। सम्भूतं लोहितोदे तु शुक्रशेषमवापतत्। सूर्य्यरश्मिषु चाप्यन्य दन्यच्चैवापतद्भुवि। आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत्।। इति २२४ अध्याये। अग्नितनयाग्निसुतादयोऽप्यत्र।

अग्निकेतु = पु० अग्नेः केतुरिव। धूमे तस्याग्निप्रभवत्वेन तच्चिह्नीभूतत्वम् गगने उद्धूयमानत्वात् तत्पताकत्वञ्च।

अग्निकोण = पु० अग्नेः अग्निदेवताकः कोणः अन्तरालदिक् ६ त०। अग्निदैवत्ये पूर्ब्बदक्षिणयोर्मध्ये दिग्भागे। “इन्द्रोवह्निः पितृपतिर्नैरॄतोवरुणोमरुत्। कुवेरईशः पतयः पूर्ब्बादीनां दिशां क्रमात्” इत्युक्तेः तस्य पूर्ब्बदक्षिणदिशोर्मध्यदिक्पतित्वम्। उपचारात् तत्स्वामिनोऽग्नेर्वाचका अपि अत्रैव। “प्रतिपत् नवमी पूर्ब्बे रामरुद्रौ च पावके” इति ज्योतिषे “शक्रे हुताशे भयमिति” च अग्निकोणपरतया पावकादिशब्दः प्रयुक्तः।

अग्निगर्भ = पु० अग्निरिव जारको गर्भोऽस्य। अग्निजारवृक्षे। अग्निर्गर्भेऽस्य। सूर्य्यकान्तमणौ (आतसि) तस्य सूर्य्यकिरणसम्पर्कात् अग्न्युत्थापकत्वात्तथात्वम्। अग्निमन्थन काष्ठरूपारणौ च। अग्निः स्थितो गर्भेऽस्याः। शमीलतायाम् स्त्री। “अग्निगर्भां शमीमिवेति” रघुः। शम्या गर्भेऽग्निस्थितिकथा भा० आनुशा० प० ८५ अध्याये “रुद्रस्य रेतःप्रस्फन्नमग्नौ निपतितञ्च यत् तत्तेजोऽग्निर्मह- द्भूतं द्वितीयममिव पावकम्। बधार्थं देवशत्रूणां गङ्गायां जनयिष्यतीति” ब्रह्मवाक्यानन्तरं कार्त्तिकेयोत्पत्त्यर्थमन्विमाणस्य कुतश्चित् कारणेन गुप्तस्याग्नेः “नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनमित्यनेन” देवैस्तस्यानासादने उक्ते नानास्थानेऽन्वेषणात् परिशेषे शमीगर्भे प्राप्तिरुक्ता, यथा “अश्वत्थान्निर्गतोवह्निः शमीगर्भमुपाविशदिति”। शमीगर्भेचास्य स्थितिं कथयतः शुकस्य जिह्वापरिवृत्तिरूपशापदानमुक्त्वा देवैस्तस्मै वरान् दत्त्वा शमीगर्भे बह्निरलक्ष्य त इत्युक्त्वा च “इत्युक्त्वा तं शमीगर्भे बह्निमालक्ष्य देवताः तदे वायतनं चक्रुः पुण्यं सर्व्वक्रियास्वपि। ततः प्रभृति चाग्निः स शमीगर्भेषु दृश्यते। उत्पादने तथोपायमधिजग्मुश्च मानवा” इति। अग्नेः सकाशात् गर्भोऽस्याः पृथिव्यां स्त्री। वह्निना गङ्गायामासिक्तगर्भस्य धारयितुमशक्यस्य पृथिव्यां सुमेरौ गङ्गया निक्षेपणमुक्तं तत्रैव। “सा वह्निना वार्य्यमाणा देवैरपि सरिद्वरा। समुत्सर्ज तं गर्भं मेरौ गिरिवरे तदेति, उक्त्वा “तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च तत् सर्वं काञ्चनी भूतं समन्तात् प्रत्यदृश्यत। पृथिवी च तदा देवी ख्याता वसुमतीति च स तु गर्भो महातेजाः गाङ्गेयः पावकोद्भवः दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शन इति भा० आनु० ८५ अ०। अतएव श्रुतौ “यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी” इत्युक्तम्। अग्निरिव गर्भोमध्यभागोऽस्याः। अग्निदीप्तायां महाज्योतिष्मतीलतायाम् स्त्री।

अग्निगृह = न० अग्निकार्य्यार्थं गृहं शा० त०। होमार्थे गृहे ६ त०। श्रौतस्मार्त्ताग्निकृत्याधारे गृहे न। अग्न्यगारादयोऽप्यत्र। “वसंश्चतुर्थोऽग्निरिवग्न्यगारे” इति रघुः।

अग्निग्रन्थ = पु० अग्निप्रतिपादकः ग्रन्थः शा० त०। अग्नि होमादि–प्रतिपादके शास्त्रे “अग्निग्रन्थपर्य्यन्तमधीते” सि० कौ० अग्निग्रन्थः अग्निप्रतिपादकः ग्रन्थ इति तत्त्वबो०। एवमेव मत्कृतसरलायामुक्तम्।

अग्निघृत = न० अग्न्युद्दीपनं घृतं शा० त०। वैद्यकोक्ते घृतभेदे यथा चक्रदत्तः। “पिप्पलीपिपलीमूलं चित्रको हस्तिपिप्पली। हिङ्गुचव्याऽजमोदा च पञ्चैव लवणानि च।। द्वौ क्षारौ हवुषा चैव दद्यादर्द्धपलोन्मितान्। दधिकाञ्जिकशुक्तानि स्नेहमात्रासमानि च। आर्द्रकं सरसं प्रस्थं घृतप्रस्थं विपाचयेदिति। एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते इति”।। “भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत्। अष्टभागावशेषञ्च कषायमवतारयेत्। घृतप्रस्थं समादाय कल्कानीमानि दापयेत्। व्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्ली।। हिङ्गुचव्याजमोदा च पञ्चैव लवणानि च। द्वौ क्षारौ हवुषा चैव दद्यादर्द्धषलीन्मितान्।। दधिकाञ्चिकशुक्तानि स्नेहमात्रासमानि च। आर्द्रकं सरसञ्चैव शोभाञ्जनरसन्तथा।। तत् सर्व्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत्। एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते” इति च।

अग्निचयन = पु० अग्निश्चीयते आधीयते अनेन चि–करणे ल्युट् ६ त०। अग्न्याधानसाधने मन्त्रभेदे, भावे ल्युट् ६ त०। अग्न्याधाने न०।

अग्निचित् = त्रि० अग्निं चितवान् चि–भूतार्थे क्विप्। मन्त्रपूर्ब्बककृतवह्निस्थापने अग्निहोत्रिणि। भावे क्विप्। अग्न्याधाने।

अग्निचित्या = स्त्री अग्नेश्चित्या चि–भावे क्यप् नि० स्त्रीत्वम्। अग्निचयने अग्न्याधाने “उपविशेदग्निपुच्छस्य साग्निचित्यायामिति” गृह्यम्। “चित्याग्निचित्ये” चेति पा०।

अग्निचित्वत् = त्रि० अग्निचित् अग्निचयनमस्त्यस्मिन् मतुप् मस्य वः तान्तत्वान् न पदत्वम्। अग्निचयनयुक्तेषु यज्ञेषु “अध्वरेष्वग्निचित्वत्स्विति” भट्टिः स्त्रियां ङीप्।

अग्निज = पु० अग्नये अग्न्युद्दीपनाय जायते सेवनात् प्रभवति जन–ड ४ त०। अग्निजारवृक्षे। अग्नेर्जायते जन–ड ५ त०। स्वर्णे न०। कार्त्तिकेये पु०। तत्कथाऽग्निकुमारशब्दे द्रष्टव्या। अग्निजातमात्रे त्रि० “अग्निजाऔषधिजा सहीनामिति श्रुति” “अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निजमिति” काशीखण्डः।

अग्निजन्मन् = पु० अग्नेर्जन्माऽस्य ५ त०। कार्त्तिकेये तद्विवरणम् अग्निकुमारशब्देऽनुसन्धेयम्। स्वर्णे न०।

अग्निजार = पु० जारयति जृ–णिच्–कर्त्तरि अण् अग्निरिव जारः। स्वनामख्याते वृक्षे, औषधभेदे च। रस्य लत्वे अग्निजालोप्यत्र।

अग्निजिह्व = त्रि० अग्निर्जिह्वास्वादसाधनं यस्य। अग्निमुखे देवे “ये अग्निजिह्वा उत वा यजत्रा” श्रुतिः अग्निरेव जिह्वाऽस्य। वराहमूर्त्तिधारणकाले विष्णोर्वराहरूपे “अग्निजिह्वो दर्भरोमेति वराहरूपवर्णने विष्णुः। ६ त०। अग्निजिह्वायां स्त्री सा च सप्तविधा तासां नामानि यथा “कराली घूमिनी श्वेता लोहिता नीललोहिता सुवर्ण्णा पद्मरागा च जिह्वाः सप्त विभावसोरिति” कथं तासा- मग्निमुखे स्थितिस्तच्च अग्निशब्दे तद्ध्याने दर्शितम् अग्नेर्जिह्वेव शिखाऽस्याः ब०। लाङ्गलीवृक्षे स्त्री।

अग्निज्वाला = स्त्री अग्नेर्ज्वालेव शिखाऽस्याः। गजपिप्पलीवृक्षे। (विषलाङ्गला) ६ त०। अग्निशिखायाम्।

अग्नितप् = त्रि० अग्निना तप्यते तप–क्विप्। अग्निना तपस्याकारके “परावीरास एतनमर्य्यास भद्रजानयः। अग्नितपो यथा सथेति, श्रुतिः।

अग्नितपस् = त्रि० अग्निभिः सम्मुखस्थसूर्य्यसहितचतुर्दिक्स्थ पावकैस्तप्यते तप–असुन् ३ त०। “ग्रीष्मे पञ्चाग्निमध्यस्थ” इति स्मृत्युक्ततीव्रतपस्याकारके। तपतीति तपाः अग्निरिव तपाः। अग्निसदृशोष्णस्पर्शवति। “यदा बलम्यपीयतोजसुंभेद्वृहस्पतिरग्नितपोभिरर्कैरिति” श्रुतिः।

अग्नितेजस् = त्रि० अग्नेरिब तेजोऽस्य। अग्नितुल्यतेजस्के पदार्थे “अग्निलोकेऽग्नितेजस, इति काशी०। “विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंश्रितो अग्नितेजा इति” श्रुतिः। ६ त०। अग्नेस्तेजसि न०।

अग्नित्रय = न० त्र्यवयवं त्रयं त्रि + अयट् ६ त०। यथाविधानेन कृताधाने अग्नित्रितये। पित्रादीन्यपक्रम्य “एतएव त्रयोलोका एतएव त्रयोऽग्नयः। पिता गार्हपत्याग्निर्माता दक्षिणाग्निः, आचार्य्य आवहनीय इति” विष्णूक्ते गार्हपत्यदक्षिणाग्न्यावहवनीयवह्नित्रयरूपे पित्रादौ च। अस्य वा स्त्रीत्वे ङीप् अग्नित्रयीत्यप्यत्र।

अग्निद = त्रि० अग्निं गृहादौं दाहार्थं ददाति दा–क। गृहादौ दाहार्थं वह्निदायके आततायिभेदे “अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिन इति” स्मृतिः।

अग्निदग्ध = त्रि० अग्निना अग्न्येष्टिविधानेन दग्धः दहकर्म्मणि क्त। शास्त्रविधानेन संस्कृताग्निना कृतदाहे “अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले ममेति, वायु पु०। अग्निना कृतदाहे पदार्थमात्रे त्रि०। “अग्निदग्धाविमौपक्षाविति” रामा०।

अग्निदमनी = स्त्री अग्निर्दम्यते अनया दम–णिच्–करणे ल्युट् ६ त० ङीप्। कण्टकारिकातः क्षुद्रे–कण्टकावृते गुच्छस्थक्षुद्रफलवति (गणियारी) इति ख्याते क्षुपभेदे।

अग्निदातृ = स्त्री० अग्निं विधानेन ददाति दा–तृच्। अन्त्येष्टिविधानेन दाहकारके “यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् सएव हि” इति स्मृतिः। स्त्रियां ङीप्।

अग्निदीपन = त्रि० अग्नि जठरस्थानलं दीपयति दीप–णिच्ल्यु ६ त०। जठरानलोद्दीपके पदार्थमात्रे औषधभेदे न०।

अग्निदीप्ता = स्त्री अग्निर्जठरानलोदीप्तः सेवनात् यस्याः। ज्योतिष्मतीलतायाम्।

अग्निदूत = पु० अग्निर्दूत इव यस्मिन् यस्य वाऽवाहकत्वात्। अग्न्याधानानन्तरमाहूतदेवके यज्ञादौ, “यमं ह “यज्ञो गच्छत्यग्निदूतो अरं कृत” इति वेदः तत्राहूते देवे च अतएव यज्ञे अग्नेर्दूतत्वमग्निस्थापने मन्त्रे “अग्निं दूतं पुरोदधे इति ‘अग्निं दूतं वृणीमहे इति’ च श्रुतावुक्तम्।

अग्निदेवा = स्त्री अग्निर्देवोऽस्याः। कृत्तिकातारायाम् “अश्वियमदहनशशिकमलजशूलभृददितिजीवफणिपितर इति” ज्योतिषे अश्विन्यादीनां क्रमशोऽश्व्यादिदेवतात्वकथनात् तत्क्रमात् कृत्तिकाया अग्निदैवत्यम्।

अग्निध् = पु० अग्निं दधाति मन्त्रविधिना स्थापयति धा–क्विप् नि० आलोपः ६ त०। अग्न्याधानकर्त्तरि। “अध्वर्य्युं वा मधुपाणिं सुहस्तमग्निधं वा धृतदक्षं दमूनसमिति” वेदः।

अग्निधान = न० अग्निर्विधिना धीयतेऽस्मिन् धा–आधारे ल्युट् ६ त०। अग्निहोत्रगृहे “पदं कृणुते अग्निधाने” इति वेदः।

अग्निनक्षत्र = न० ६ त०। अग्निदैवत्ये कृत्रिकानक्षत्रे अग्नितारावह्नितारकादयोऽप्यत्र।

अग्निनयन = न० अग्नेर्नयनं मन्त्रविधिना संस्कारः नी–भावे ल्युट् ६ त०। अग्निसंस्काररूपे विधिना अग्निप्रणयने ६ त०। अग्निनेत्रे न०।

अग्निनिर्यास = अग्नेः जठरानलस्येव दीपको निर्यासोऽस्य। अग्निजारवृक्षे।

अग्निनेत्र = पु० अग्निर्नेता हुतहविःप्रापयिता यस्य अच् समा०। देवतामात्रे। “हव्यं वहति देवानामिति” श्रुतौ हि तस्य देवेभ्यो हव्यवाहकत्वमुक्तम्। ६ त०। वह्निनयते न०।

अग्निपद = न० ६ त०। अग्न्याधानस्थाने अग्निबोधकशब्दे च। तत्र दीयते इत्यर्थे व्युष्टादित्वात् अणि आग्निपदम्।

अग्निपरिक्रिया = स्त्री अग्नेः परिक्रिया परिचर्य्या परि + कृभावे श ६ त०। अग्निचर्य्यायां होमादिकरणे।

अग्निपर्व्वत = पु० अग्निसाधनं पर्व्वतः। स्वतः अग्निसम्पादके पर्व्वतभेदे।

अग्निपुच्छ = पु० न० अग्नेरग्न्याधानस्थानस्य पुच्छ इव। आहिताग्निस्थानात् पृष्ठभागे। “दक्षिणत आवहनीयस्योपविशेदग्निपुच्छस्य साग्निचित्यायामिति” गृह्यम्।

अग्निपुराण = न० अग्निना प्रोक्तं पुराणम्। वेदव्यास प्रणीतेषु अष्टादशसु महापुराणेषु मध्येऽष्टमे वह्निनोक्ते पुराणभेदे तद्विवरणं यथा। “आग्नेयमष्टमं स्मृतमिति” भागवते। “परमग्निपुराणञ्च रुचिरं परिकीर्त्तितम्। चतुर्द्दश सहस्राणि परं पञ्चशताधिकम्” इति ब्रह्मवैवर्त्ते। तत्राभिधेयसंक्षेपः। भगवतोऽवतारः, सृष्तिप्रकारः, विष्णुपूजा, अग्निपूजा, मुद्रादिलक्षणम्, दीक्षा, अभिषेकः, मण्डपलक्षणम् कुशमार्जनाविधिः, पवित्रारोपः, देवतायतनादिनिर्म्माणप्रकारः, शालग्रामलक्षण–पूजे, देवप्रतिष्ठानियामकदीक्षा, देवप्रतिष्ठाविधिः, व्रह्माण्डस्वरूपं, गङ्गादितीर्थमाहात्म्यं, द्वीपवर्णनम् ऊर्धाधोलोकवर्णना, ज्योतिश्चक्रस्वरूपम्। युद्धजयोपायषट्कर्म्मविधानम्, यन्त्रमन्त्रौषधप्रकारः कुब्जिकार्चनाविधिः, कोटिहोमचिधानम्, ब्रह्मचर्य्यधर्म्मः, श्राद्धकल्पः ग्रहयज्ञः, वैदिकस्मार्त्तकर्म्मणी, प्रायश्चित्तम्, तिथिभेदे व्रतभेदः, वारव्रतनक्षत्रव्रते, मासव्रतम्, दीपदानविधिः, नूतनव्यूहा रम्भादि, नरकनिरूपणम्, दानब्रतम्, नाडीचक्रम्, सन्ध्याविधिः, गायत्र्यर्थः, शिवस्तोत्रं, राज्याभिषेकः, राजधर्म्मः, राजाध्येयशास्त्रम्, शुभाशुभशकुनादि, मण्डलादि, रणदीक्षाविधिः, श्रीरामनतिः, रत्नलक्षणम्, धनुर्विद्या, व्यवहारविधिः, देवासुरयोर्युद्धम्, आयुर्वेदः, गजादिचिकित्सा, पूजाप्रकारः। शान्तिविधिः, छन्दःशास्त्रम्, साहित्यं, शिष्टानुशासनम्, सृष्ट्यादिप्रलयवर्णने, शारीरकरूपं, नरकवर्णनम्, योगः, व्रह्मज्ञानम्, पुराणमाहात्म्यञ्च।। एते विषयाः संक्षेपेण दर्शिता विस्तरस्तस्त्रैव द्रष्टव्यः।।

अग्निप्रणयन = न० अग्नेः प्रणयनं मन्त्रपूर्ब्बकं संस्कारः प्र + नी–भावे ल्युट् ६ त०। शास्त्रोक्तविधानेन वह्निसंस्कारभेदे “दक्षिणत आहरनीयेऽवस्थितस्याग्नेः सौमिकायामुत्तरवेद्यां नयनं यदस्ति तदेतदग्निप्रणयनमिति” गृह्यम्।

अग्निप्रस्कन्दन = न० ६ त०। यथाविधानमग्निकार्य्यरूपहोमाकरणे “प्रजाश्च यौवनं प्राप्य विनशिष्यन्त्यनो! तव। अग्निप्रस्कन्दनपरस्त्वञ्चाप्येवं भविष्यसीति, स्वपुत्रमनुं प्रति ययातिवाक्यम् भार० आदि प०।

अग्निप्रस्तर = पु० अग्निं प्रस्तृणाति स्तृ–अच् अग्नेर्वा प्रस्तरः। (चक्मकीति) ख्याते वह्युत्थापके प्रस्तरखण्डे।

अग्निबाहु = पु० अग्नेर्बाहुरिव दीर्घशिखत्वात्। धूमे।

अग्निभ = न० अग्निरिव भाति भा–क। स्वर्ण्णे अग्नितुल्यवर्णत्वात्तस्य तथात्वम्। वह्नितुल्यवर्णपदार्थे त्रि०। भ० नक्षत्रं ६ त०। अग्निदैवत्ये कृत्रिकानक्षत्रे न०।

अग्निभू = पु० अग्नेर्भवति भू–क्विप्। कार्त्तिकेये अग्निकुमार शब्दे तदुद्भवकथा। अग्निसम्भवे त्रि०। स्वर्णे न० हृस्वान्तः। अग्निभवादयोऽप्यत्र।

अग्निभूति = पु० अग्निरिव भूतिः तेजस्वित्वादैश्वर्य्यमस्य। बौद्वभेदे ६ त०। पावकविभूत्यां तद्वीर्य्ये च स्त्री। ६ ब०। वह्निसम्भवे त्रि०।

अग्निभ्राजस् = त्रि० अग्निरिव भ्राजते भ्राज–असुन्। वह्नितुल्यदीप्तियुक्ते। ‘अग्निभ्राजसोविद्युतो गर्भस्त्य इति’ वेदः।

अग्निमणि = पु० अग्नेरुत्थापकोमणिः शा० त०। सूर्य्यादितैजसद्रव्यसम्पर्कात् अग्न्युत्थापके सूर्य्यकान्ताभिधे मणौ (आतसी) (चक्मकीति) ख्याते प्रस्तरे च।

अग्निमत् = पु० अग्निराधानादस्त्यस्य मतुप्। यथाविधानेनाहिताग्निके साग्निके द्विजे “दारास्वग्निं विनिःक्षिप्य प्रवसेदनग्निमान् द्विजः” इति स्मृतिः।

अग्निमथ् = पु० अग्निं मथ्नाति अरणिद्वयघर्षणेन निष्पादयति मन्थ–क्विप् नलोपः। अग्न्याधानार्थमरणिद्वयघर्षणेन वह्निसम्पादके याज्ञिके। करणे क्विप्। अग्निमन्थसाधने मन्त्रे, अरणिकाष्ठे च त्रि०।

अग्निमन्थ = पु० अग्निर्मथ्यतेऽनेन मन्थ–करण घञ्। गणिकारीवृक्षे (गणियारि) तत्काष्ठयोर्घर्षणे हि आशु बह्निरुद्भाव्यते। तन्मन्थनसाधने मन्त्रे च। करणे ल्युट् ६ त०। अग्निमन्थनोऽप्युक्तार्थे त्रि० स्त्रियां ङीप्।

अग्निमान्द्य = न० अग्नेर्जठरानलस्य मान्द्यं पाचनकुण्ठता। धातुवैषम्येण जठरानलस्य पाचनशक्तिराहित्ये “अग्नीश्वरस्य भक्तानां न विद्युदग्निजं भयम् अग्निमान्द्यभयं नैवेति” काशीखण्डः। अग्निमान्द्येऽजीर्णता स्यात् तत्राल्पभोजनं कार्य्यं यथा। ‘मुहुर्मुहुरजीर्णेऽपि भोज्यमस्योपकल्पयेत् इति चक्र०। तत्कारणमुक्तम्। स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः। निरूढस्य च कायाग्निर्मन्दो भवति देहिनः।। सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति। अल्पोमहद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः।। सचाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्द्धते। काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः।। हृतदोषप्रमाणेन सदाहारविधिःस्मृतं इति सुश्रुते।

अग्निमारुति = अग्निश्च मरुच्च तयोरपत्य वाह्वादेराकृति गणत्वादिञ् ततो वृद्धिः देवताद्वन्द्वे च आनङं बाधित्वा ‘इद्वृद्धाविति’ इति “देवताद्वन्द्वे च” इति द्विपदवृद्धौ पृ० पूर्ब्बपदस्य हुस्वः। अगस्त्ये मुनौ तस्य च कल्पान्तरे ताभ्यामुत्पत्तिरनुसन्धेया।

अग्निमुख = पु० अग्निर्मुखमिव यस्य। देवे। हुतद्रव्यं हि देवैरग्निरूपमुखद्वारेणैवाश्यते। “हव्यं वहति देवानामिति” श्रुतेस्तत्रैव तात्पर्य्यात्। “अग्निमुखा वै देवा” इति “अग्निर्मुखं प्रथमं देवतानायिति च” श्रुतिः। अग्निर्मुखेऽग्रेऽस्य। देवे, “अग्निरग्रे प्रथमं देवानामिति” श्रुतौ वह्ने रेव देवानामग्रोत्पत्तेस्तथात्वम्। यथा चाग्नेर्देवमुखत्वं तदादित्वञ्च तथाऽग्निशब्दे निरुक्तव्याख्याने ऋग्वेदभाष्ये प्राक् दर्शितम् अग्निधिकमग्निहोत्रशब्दे वक्ष्यते। अग्निर्मुखं प्रधानमुपास्यो यस्य। अग्निहोत्रिणि द्विजे। अग्निः दाहकत्वात् शापाग्निर्मुखे यस्य। विप्रे “वाग्वज्रा वैविप्रा” इति श्रुतौ तेषां वाग्वज्रत्वकथनात् अग्निमुखत्वम्। अग्निरिव स्पर्शात् दुःखदायकं मुखमग्रमस्य। भल्लातकवृक्षे (भेला) चित्रकवृक्षे च। तन्निर्य्यासस्पर्शेन हि देहे क्षतोत्पत्तेस्तयोस्तथात्वम्। अग्नेः जठरानलस्य मुखं द्वारम्। वैद्यकोक्ते चूर्णभेदे न० यथा “हिङ्गुभागो भवेदेको वचा च द्विगुणा भवेत्। पिप्पली त्रिगुणा चैव शृङ्गवेरं चतुर्गुणम्।। यमानिका पञ्चगुणा षड्गुणा च हरीतकी। चित्रकं सप्तगुणितं कुष्ठञ्चाष्टगुणं भवेत्।। एतद्वातहरं चूर्णं पीतमात्रं प्रसन्नकृत्। पिबेद्दध्ना मस्तुना वा सुरया कोष्णवारिणा।। सोदावर्त्तमजीर्णञ्च प्लीहानमुदरन्तथा अङ्गानि यस्य शीर्य्यन्ते विषं वा येन भक्षितम्।। अर्शोहरं दीपनञ्च श्लेष्मघ्नं गुल्मनाशनम्। कांसं श्वासं निहन्त्याशु तथैव यक्ष्मनाशनम्।। चूर्णमग्निमुखं नाम न क्वचित् प्रतिहन्यते” इति चक्रदत्तः।

अग्निमुखी = स्त्री अग्निरिव मुखमग्रं यस्याः गौरादित्वात् ङीष्। (भेला) भल्लातकवृक्षे, लाङ्गलिकावृक्षे (विषलाङ्गला) अग्निरेव मुखं मुखत्वेन कल्पितं यस्याः गौरा०। गायत्रीमन्त्रे। “कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत्। गायत्र्यग्निमुखी यस्मात्तस्मादुत्थाय तां जपेदिति” गोभिलः। तस्याश्च “सोऽकामयतं यज्ञं सृजेयेति स मुखतएव त्रिवृतमसृजत तं गायत्री छन्दोऽन्यसृज्यताग्निर्देवता ब्राह्मणोमनुष्योवसन्तऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं, गायत्री च्छन्दसामग्निर्देवानमिति” श्रुतौ। अग्निना समंप्रजापतिमुखजातत्वात् तथात्वम्। अस्मिश्च पक्षे। अग्नेरिव मुखं प्रजापतिमुखं मुखमुत्पत्तिद्वारमस्या इति विग्रहः गौरा०। गायत्रीमन्त्रश्च गायत्रीशब्दे वक्ष्यते। विप्रे तु पु०। अग्निरिव उत्तप्त मुखं यस्याः गौ० ङीष्। पाकशालायाम् स्त्री अग्निर्मुखमाद्यो यस्य अग्निप्रभृतौ देवे त्रि०।

***