अ = पु० अवति रक्षति अतति सातत्येत्र तिष्ठतीति वा अव–अत– वा ड। विष्णौ “अकारोविष्णुरुद्दिष्टौकारस्तु महेश्वरः। मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मक” इति। अस्य (विष्णोः) अपत्यम् अत इञ् इः (कामः) अस्य (विष्णोः) पत्नी ङीप् ई (लक्ष्मीः)। अ = अव्य० अव–प्रीणनादौ ड स्वरादिपाठादव्ययत्वम्। अभावे, प्रतिषेघे स्वल्पेच्र्थे अनुकम्पायां, सम्बोधने, अ अनन्त!। अधिक्षेपे, अ पचसि त्वं जाल्म!। “उपसर्गस्वरविभक्तिप्रतिरूपकाश्चेति” स्वरादिगणसूत्रे अ इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायाञ्च अ संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम्। “अभावे नह्यनोन” इत्यमरटीकायां नञादेशोऽयमित्युक्तम्। स च आदेशः नखनमुच्यादिभिन्नशब्दघटके उत्तरपदस्थे हलादौ शब्दे परे भवति। स तु नञर्थे एव स्थानितुल्यार्थकत्वादादेशस्य। नञर्थाश्च तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता। अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः।। इत्युक्तेः षड्विधाः। तत्र अब्राह्मणैत्यादौ ब्राह्मणसादृश्यवत्त्वेन क्षत्त्रियादीनां बोधकता, अघटमित्यादौ घटाभावस्य, अपटैत्यादौ पटभिन्नस्य, अनुदरा कन्येत्यादौ अल्पोदरत्वस्य, अपशवो वै अन्ये गोऽश्वेभ्यैत्यादौ गवाश्वभिन्नपशूनामप्राशस्त्यस्य, असुरः असितैत्यादौ च सुरसित विरोधस्य बोधकता। तत्रायं विशेषः नञः सर्व्वत्र अभावे भेदे च शक्तिः सादृश्योदौ तु निरूढलक्षणा। तत्र अघटमित्यादौ अव्ययीभावे, अधन इत्यादौ बहुव्रीहौ भाव कृदन्तोत्तरपदके “अभेदः अज्ञानमित्यादौ” नञ्तत्पुरुषे च अभावबोधकता। भावकृदन्तभिन्नोत्तरपदनञ्तत्पुरुषे तु अघट इत्यादौ भिन्नत्वबोधकतेति। अत्रेदं बोध्यम्। समासे हलदौ उत्तरपदे नञः स्थाने अ इत्यादेशविधानेन समासएवास्य नञर्थकस्य ऐत्यस्य प्रयोगः नान्यथा, सम्बो- धनाद्यर्थकस्य तु पृथक्प्रयोगः किन्तु “नञोनलोपस्तिङि क्षेपे” इति वार्त्तिकेन तिङन्तपदे परेऽपि नञादेशस्य विधानात् तस्यैव पृथक्प्रयोगः। अधिकं नञ्शब्दार्थावसरे वक्ष्यते। अजीवनिरित्यादौ अधिक्षेपार्थकता अजस्रमित्यादौ उप० स०। तस्य च क्रियायोगात् प्रतियेधार्थकता। अऋणिन् = त्रि० न ऋणी नञ् त० ऋकारस्यात्र हल्त्वाभ्युपगमात् न नुट् नलोपमात्रम्। ऋणिभिन्ने, ऋणशून्ये,। दिवस्याष्टमे भागे शाकं पचति यो नरः। अऋणी चाप्रवासी च स वारिचर! मोदते इति भारतम् हल्त्वानाश्रयणे नुटि अनृणीत्यपि तत्रैवार्थे। अंश = विभाजने अद० चु० उभ०। अंशयति ते आंशिशत् त। अङ्कापयतीतिवत् आपुकि अंशापयतीत्येके। अच् अंशः उ–अंशुः णिनि अंशी क्त अंशितः। अंश = पु० अंश–भावेऽच्। विभागे “सकृदंशो निपतति सकृत्कन्या प्रदीयते। सकृदाह ददानीति त्रीण्येतानि सकृत् सकृदिति स्मृतिः। कर्म्मणि अच्। विभाज्ये “द्वावंशौ प्रतिपद्येत विभजन्नात्मनः पितेति” “द्व्यंशहरोऽर्द्धहरो वा पुत्रवित्तार्ज्जनात् पितेति” च स्मृतिः। संख्यासूचकाङ्कविभाज्ये तथाङ्के, च “अन्योन्यहाराभिहतौ हरांशाविति” अंशाहतिश्छेदबधेन भक्तेति” भजेच्छिदोऽशैरथ तैर्विमिश्रैरिति च लीला०। करणे अच्। अवयवे “अंशुरंशुष्टे देव! सोमाप्यायस्वेति” यजु०। अंशुरंशुः सर्व्वोप्यवयव इति वेददीपः। “अंशिनः स्वांशगात्यन्ताभावं प्रति मृषात्मतेति” वेदान्तपरि०। “अंशो नानाव्यपदेशादिति” शारीरक सूत्रम्, जीवस्य निरवयवब्रह्मावयवत्वाभावमाशङ्क्य भाष्यकृता अंश इवेति व्याख्यातम्। तत्समानार्थकं “ममैवांशो जीवलोके जीवभूतः सनातन” इति गीतावाक्यम्। “चतुर्द्दश्यष्टमांशे च क्षीणो भवति चन्द्रमाः अमावास्याष्टमांशे च ततः किल भवेदणुरिति, स्मृतिः। विशेषावयवे, राशिचक्रस्य षष्ट्युत्तरशतत्रयधा विभाजके भागे, राशेस्त्रिंशद्धा विभाजके अवयवे, “अक्षस्याशाः समाख्याताः षष्ट्युत्तरशतत्रयमिति “क्षेत्रं होरा च द्रेक्वाणं नवांशोद्वादशांशकः। त्रिंशाशश्चेति विज्ञेयः षड्वर्ग इति च ज्योतिषम् नवमितोऽंशः (राशेत्रिंशभागः) नवांशः एवं द्वादशांशादयः। स च अंशः षष्टिकलात्मकः कला तु षष्टिविकलात्मिका। नवमिर्विभक्ते राशेः त्रिंशात्मके नवांशे च। “द्विभर्त्तृका मेषनवांशके स्यात्” इत्युपक्रम्य “निःस्वा मृगांशे” इति, “विगुणा घटांशे” इति च व्यवहारचमत्कारः। ६, १, २०३ पा० सू० वृषादिषु पाठात् अस्य आद्युदात्तत्वम्। अंशक = त्रि० अंश–ण्वुल्। विभाजके। स्त्रियाम् अंशिका। ज्ञातौ दायादे पु० अंश + स्वार्थे कन्। अंशशब्दार्थे “त्रिंशांशकस्तथा राशे र्भाग” इत्यभिधीयते इति ज्योतिषम् नवमिते राशित्रिंशभागात्मके नवांशे, “द्विभर्तृका मेषनवांशके स्यात् इत्युपक्रम्य” “वृषांशके सा पशुशीलयुक्तेति” सिंहांशके सा पितृवाससंस्थितेति, च ज्यो० सौरदिने न०। अंशल = त्रि० अंश + बलोपाधिके मत्वर्थे लच्। बलवति। अंशं लाति ला + क। अंशग्राहके त्रि०। अंशसवर्ण्णन = न० समानोवर्ण्णः योगवियोगयोग्यता सवर्ण्णः ततः करणार्थे णिचि भावे ल्युट् सवर्णनम् अंशयोः अतुल्यच्छेदयोः राश्योः समच्छेदकरणम् ६ त०। लीलावत्युक्ते अतुल्यच्छेदराश्योः योगवियोगयोग्यतासम्पादके समच्छेदसाधने क्रियाविशेषे, तत्रादावंशसवर्णनमित्युक्तम्य “अन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवमिति लीलावत्यामुक्तम्। अंशहर = त्रि० अंशं हरति हृ–अच्। अंशहारके “द्व्यंशहरोऽर्द्धहरो वा पुत्रवित्तार्ज्जनात् पितेति” स्मृतिः। अनुद्यमने एव हृञोऽच् इति नियमात् अन्यत्र अण्। भारहारः। अंशावतरण = न० ६ त०। भारते आ० प० ६४ अ० उक्ते देवानां स्वस्वभागविशेषेण वासुदेवआदिरूपेण पृथिव्यामाविर्भावेन नरदेहग्रहणरूपे अवतरणे। अंशिन् = त्रि० अंश–णिनि। अंशकारके “पुनर्विभागकरणे सर्व्वे वा स्युः समांशिन” इति स्मृतिः अंश + मत्वर्थे इनि। अवयविनि। “अंशिनः स्वांशगात्यन्ताभाव प्रति मृषात्मतेति” वेदान्तपरिभाषा। अंशु = पु० अंश–मृग० कु। किरणे सूत्रे सूक्ष्मांशे प्रकाशे प्रभायां वेगे च “अंशवोऽत्र पतिता रवेः किमु”? इत्युद्भटः “सूर्य्यांशुभिर्भिन्नमिवारविन्दमिति” कुमा०। तत्र स्वपरप्रकाशकस्य तेजःपदार्थस्य समन्तात् प्रसृतः स्पर्शयोग्यः किञ्चिन्निविडः सूक्ष्मांशविशेषः किरणः, स च प्रायशः सूर्य्यस्य, तस्य तेजसा प्रदीप्तचन्द्रादेश्च। तदपेक्षया अल्पस्थानप्रसारी किञ्चिद्विरलः स्पर्शायोग्यः तेजःसूक्ष्मांशः प्रभा, सा च रत्नादिवस्तुनः। चन्द्रादेस्तु अन्यापेक्षयाऽधिकप्रसृतत्वात् किरणसम्भवः अतएव तत्र शीतांशुः सितकिरण इत्यादिप्रयोगः। स्पर्शयोग्यः तेजःपदार्थस्य किरणादपि निविडः सूक्ष्मांशः आतपः, किरणापेक्षया अतिविरलप्रसारी स्पर्शायोग्यः परप्रकाशसाधनमतिसूक्ष्मांशविशेषः आलोकः। प्रभायाम् आलोके वा न स्पर्शोऽनुभूयते। तत्र अंशुशब्दस्य किरणवाचित्वे सहस्रांशुः उष्णांशुः शीतांशुरित्यादयः। प्रभापरत्वे रत्नांशुः नखांशुरित्यादयः। “अजस्रमाश्रावितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नयेति” “द्विजावलीबालनिशाकरांशुभिरिति” च माघः। सूत्रांशपरत्वे अंशुकं पट्टांशुकं चीनाशुकमित्यादयः। प्रकाशपरत्वे उपांशु उपहृतप्रकाशत्वाच्चास्य गुप्तत्वं प्रतीयते तच्चार्थिकम्। सूक्ष्मविभागपरत्वे प्रांशुः प्रोन्नतावयवत्वा च्चास्य दीर्घत्वं प्रतीयते तच्चार्थिकम् इति। अंशुक = न० अंशवः सूत्राणि विषयोऽस्य अंशु + ऋश्यादि० क। वस्त्रे। “यत्रांशुकाक्षेपविलज्जितानामिति” कुमारः। सूक्ष्मवस्त्रे उत्तरीयवस्त्रे पत्रे (तेज पात) शुक्लवस्त्रे च। अंशु + स्वार्थे कन्। अंशुशब्दार्थे पु०। अंशुधर = पु० धृ–अच् ६ त०। सूर्य्ये अंशुभृदादयोऽप्यत्र किरणादिधारके वेगधारके च त्रि०। अंशुपट्ट = न० अंशुना सूक्ष्मसूत्रेण युक्तं पट्टम्। सूक्ष्मसूत्र घटितपट्टवस्त्रे। “श्रीफलैरंशुपट्टानामिति” विष्णु०। अंशुपति = पु० ६ त०। सूर्य्ये, तस्य सर्व्वतेजस्विनां किरणाधायकत्वात् चन्द्रादिग्रहादौ तेजोदायकत्वाच्चास्य तथात्वम् अतएवोक्तं वृहत्सहितायाम् “सलिलमये शशिनि रवेदीर्धितय” इति “मूर्त्तित्वे परिकल्पितः शशिभृत” इति वृहज्जातके च। “अम्बिं वावादित्यः सायं प्रविशतीति” “उद्यन्तं वावादित्यमग्निरनुसमारोहतीति” च श्रुतौ अग्नौ सूर्य्यांशुप्रवेशाभिधानम्। अत एव माघे तस्य त्विषां पतित्वेन तस्यास्तमये तासामनुमरणार्थं ज्वलनप्रवेश उक्तः। यथा “रुचिधाम्नि भर्त्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः। ज्वलनं त्विष इति”। एवं अंशुस्वामी त्विट्पतिप्रभृतयोऽप्यत्र। अंशुमत् = पु० अंशु + अस्त्यर्थे मतुप्। सूर्य्ये, अंशुशाल्यादयो- प्यत्र। सूर्य्यवंश्ये असमञ्जःपुत्रे दिलीपजनके राजभेदे तत्कथा रा० आ० ४३ अ०। अंशुमति पदार्थमात्रे त्रि०। अंशुमती = स्त्री० अंशु सूक्ष्मंपत्रमस्याः अंशु + मतुप् + ङीप्। शालपर्ण्याम् (शालपान्)। अंशुमत्फला = स्त्री० अशुमानिव रक्तं फलं मोचकं यस्याः जातिवाचकत्वेऽपि फलान्ततया न ङीष् अजा० टाप्, अंशुमानिव समन्तात् प्रसृतं फलतीति फल–अच् वा। कदलीवृक्षे। अंशुमालिन् = पु० अंशुभिर्मलते संबध्नाति मल–णिनि ३ त०, अंशवः मालेव ततः अस्त्यर्थे इनि वा। सूर्य्ये, द्वादश संख्यायाञ्च। किरणादिजालवति त्रि० स्त्रियां ङीप्। अंशुल = पु० अंशुंप्रभां बुद्धिप्रतिभां लाति ला–क। चाणक्ये मुनौ, मुनिमात्रे च। अंशुग्राहके त्रि०। अंशुहस्त = पु० अंशुः किरणोहस्त इव जलाद्याकर्षणसाधनं यस्य। सूर्य्ये। “शरैरुस्रैरिवोदीच्यान् उद्धरिष्यन् रसानिवेति” रघौ सूर्य्यकिरणानां रसाकर्षकत्वस्य दृष्टान्तविधयोक्तत्वादस्य किरणस्य रसाकर्षकत्वाद्धस्तत्वम्। तस्य च सहस्रांशूनां रसाकर्षकत्वमग्रे सहस्रांशुशब्दे वक्ष्यते। अंश्वादि = पु०। ब०। स्वरविशेषार्थं पाणिनिगणपाठोक्ते शब्दसमूहे, “प्रतेरंश्वादयस्तत्पुरुषे” (६, ३, १९३ पा०) स च गणः अंशु जन, राजन्, उष्ट्र, खेटक, अजिर, आर्द्रा श्रवण, कृत्तिका अर्द्धपुर। अंस = विभाजने अद० चु० उभ० अंसयति ते आंसिसत् त। आपुकि अंसापयतीत्येके। वि + विश्लेषकरणे प्रच्यावने च “व्यंसयामास तत् सैन्यमिति” भारतम्। अच् अंसः। अंस = पुं अंस–कर्म्मभावादौ अच्। अंशशब्दार्थे, स्कन्धे च। “अंसनिषक्तबाहुः” “अंसारोपिचापेनेति” शान्तोऽपि स्कन्धे। अंसत्र = न० अंसं स्कन्धं त्रायते त्रै–क। स्कन्धावरके कवचभेदे। अंसकूट = पुंन० अंसः कूट इव वृहत्त्वात्। वृहत्स्कन्धे “राजन्योच्चांसकूटक्रथनपटुरटद्घोरधारः कुठार इति प्रबोध० अंस(से)भार = पु० अंसे धृतः भारः शा० त० वा अलुक्। स्कन्धधृतभारे। अंस(से)भारिक = त्रि० अंस(से) भारेण हरति भस्त्रा० ष्ठन्। स्कन्धभारहारके, स्त्रियां ङीष्। अंसल = त्रि० अंस + बलोपाधिके अस्त्यर्थे लच्। बलवति। अंस्य = त्रि० अंसे भवः अंस + यत्। स्कन्धभवे, “ये अंस्या ये अङ्ग्याः सूचिका” इति वेदः। अंस–कर्म्मणि यत्। विभाज्ये त्रि०। अंह = भासने अद० उभ०। अंहयति ते आञ्जिहत् त। अंहति = स्त्री० हन्ति दुरितमनया हन–अति, अंहादेशः। दाने। अंहस् = न० अमति गच्छति प्रायश्चित्तेन अम–असुन् हुक् च। पापे “मुञ्चन्त्वंहस” इति वेदः स्वधर्म्मत्यागे “लोभोऽनृतं चौर्य्यमनार्य्यमंहो ज्येष्ठा च माया कलहश्च दण्ड” इति भागवते कलिं प्रति परीक्षिद्वाक्यम् अंहः स्वधर्म्मत्यागः इति श्रीधरस्वामिरघुनन्दनादयः। अंहिति = स्त्री० अहि–क्तिन् ग्रहादित्वात् इट्। दाने। अंहु = त्रि० अहि–मृग० कु। पापकारिणि। “आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या” इति (य० ८, ७) “अंहोः” पापकारिणः हननशीलस्येति वेददीपः। अंहुर = त्रि० अहि–मद्गुरादि० उरच्। गतियुक्ते “सप्त मर्य्यादाः कवयस्ततक्षुस्तासामेकामिदमभ्यंहुरो गात्” इति वेदः। अंह्रि = पु० अंहति गच्छत्यनेन अहि–वङ्क्र्यादि० क्रिन्। पादे वृक्षादीनां मूले, तेन अंह्रिपो वृक्षः। चतुःसंख्यायाञ्च। अंह्रिप = पु० अंह्रिणा मूलेन पिबति सिक्ततोयम् पा–क। वृक्षमात्रे। अंह्रिस्कन्ध = पु० अह्रेः स्कन्धैव। गुल्फे अङ्गुष्ठाङ्गुलिमध्यभागस्य उपरिभागे च। अक = वक्रगतौ भ्वा० प० घटादि। अकति आकीत्। अकयति। अक = न० न कम् सुखम् गुणवचनस्य नञ्योगे विरोध्यर्थाभिधायिता न० त०। दुःखे। नास्ति कं सुखं यस्मात्। पापे। नाकशब्दे अकं दुःखं पापं वा। अकच = पु० अकाय दुःखाय चायते चाय–ड। केतुग्रहे तस्य चोदयेन लोकोपप्लवस्य शास्त्रप्रसिद्धिः केतुशब्दे विस्तरः। “उपप्लवाय लोकानां धूमकेतुरिवोत्थित इति कुमा०। नास्ति कचोयस्य। केशशून्ये (टाकरोगयुक्त) त्रि०। अकडम = न० अ, क, ड, म, इत्यादिक्रमेण आद्यकोष्ठादौ वर्ण्णसमुदायोऽस्त्यत्र अच्। ग्राह्यगोपालमन्त्रस्य शुगाशुभविचारोपयोगिनि चक्रभेदे। तत्स्वरूपं यथा रुद्रयामले–“रेखाद्वयं पूर्ब्बपरे मध्ये रेखाद्वयं लिखेत्। चतुष्कोणे चतूरेखाऽकडमं चक्रमण्डलम्। भ्रामयित्वा महावृत्तं निर्म्माय वर्णमालिखेत्। अकारादिक्षकारान्तान् क्लीवहीनान् लिखेत्ततः। एकैकक्रमतो लेख्यान्मेषादिकवृषान्तकान्। वामावर्त्तेन गणयेत् क्रमशो वीरवल्लभ!। दक्षमार्गेण गणयेन्नामादिवर्णकादिकान्। मेषादितोहि नामान्तं क्रमशः मन्त्रपण्डितः। सिद्धसाध्यसुसिद्धारीन् पुनः सिद्धादिकान् पुनः। नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके। सुसिद्धस्त्रिमुनौ रुद्रे वेदाष्टद्वादशे रिपुः” इति। (क्लीववर्ण्णाः ऋ ॠ ऌ ॡ वर्ण्णाः) “गोपालेऽकडमं स्मृतमिति” तत्रैवोक्तम्। एतच्च गोपालमन्त्रविषये सिद्धादिचक्रत्वेन व्यवह्रियते। अकथह = न० अ, क, थ, ह, इत्यादिवर्णसंघक्रमेण वर्णसमुदायोऽस्त्यस्मिन् अच्। तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभाशुभविचारोपयोगिनि चक्रभेदे तत्स्वरूपं यथा रुद्रयामले। “वक्ष्येऽकथहचक्राख्यं सर्व्वचक्रोत्तमोत्तमम्। यस्य विचारमात्रेण कामरूपी भवेन्नरः।। तत्प्रकारं वीरनाथ। क्रमशः क्रमशः शृणु। चतुरस्रे लिखेत् वर्ण्णन् चतुःकोष्ठसमन्विते।। चतुःकोष्ठ–चतुकोष्ठचतुर्गृहसमन्वितम्। मन्दिरं षोडशं प्रोक्तं सर्व्वकर्म्मार्थसिद्धिदम्।। चतुरस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम्। पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु।। सर्व्वेषु गृहमध्येषु प्रादक्षिण्य क्रमेण तु। अकारादिक्षकारान्तान् लिखित्वा गणयेत्ततः।। चन्द्रमग्निं रुद्रवर्णं नवमं युगलन्तथा।। वेदमङ्कं दश रसं वसुं षोडशमेव च। चतुर्दशं भास्करं च सप्त पञ्चदशेति च।। वह्नीन्दु कोष्ठगं वर्णपञ्चाशैकं मयोदितम्। एतदङ्कस्थितान् वर्णान् गणयेत् तदनन्तरम्।। नामाद्यक्षरमारभ्य यावत् मन्त्रादिमाक्षरम्। चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम्।। पुनः कोष्ठगकोष्ठेषु सव्यतो नामकादितः। सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत् वशी।। सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः। सुसिद्धो ग्रहणाज्ज्ञानी शत्रुर्हन्ति चिरायुषम्। सिद्धस्तु बान्धवः प्रोक्तः साध्यः सेवक उच्यते। सुसिद्धः पोषकः प्रोक्तः शत्मुर्घातक उच्यते। सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः। जपेन बन्धुः सिद्धः स्यात् सेवकोऽधिकसेवनात्।। पुष्णाति पोषकोऽभीष्टं घातको नाशयेत् ध्रुवम्। सिद्धो यथोक्तकालेन द्विगुणात् सिद्धसाध्यकः।। तत्सुसिद्धोऽर्द्धजप्येन सिद्धारिर्हन्ति बान्धवान्। साध्यसिद्धो द्विगुणतः साध्यसाध्यो निरर्थकः।। तत्सुसिद्धो द्विघ्नजपात् साध्यारिर्हन्ति गोत्रजान्। सुसिद्धसिद्धोऽर्द्धजपात् तत् साध्यो द्विगुणाधिकात्। तत्सुसिद्धो ग्रहादेव सुसिद्धारिः सगोत्रहा।। अरिसिद्धः सुतान् हन्यात् अरिसाध्यस्तु कन्यकाः। तत्सुसिद्धस्तु पत्नीघ्नस्तदरिर्हन्ति साधकमिति”।। एतच्च सर्ब्बमन्त्रेषु सिद्धादिचक्रत्वेन व्यवह्रियते। अकनिष्ठ = पु० अके वेदनिन्दारूपे पापे निष्ठाऽस्य। बुद्धे। न० त०। कनिष्ठभिन्ने ज्येष्ठे मध्यमादौ च त्रि०। अकनिष्ठप = पु० अकनिष्ठान् बुद्धान् पातीति पा–क। बुद्धाधिपभेदे। न० त०। कनिष्ठभिन्नपालके त्रि०। अकम्पित = पु० कम्पितं बुद्धिवृत्तेश्चालनं तन्नास्ति यस्य। बुद्धभेदे। कपि–कर्त्तरि क्त न० त०। सङ्कल्पितवस्तुभ्योऽनुपरते दृढाध्यवसाये त्रि०। भावे क्त न० व०। कम्पनशून्ये त्रि०। अकरण = न० कृ–भावे ल्युट् अर्थाभावे न० त०। करणाभावे निवृत्तौ “अकरणे प्रत्यवायानुबन्धित्वं नित्यत्वमिति” मीमांसकादयः। “अकरणात् मन्दकरणं श्रेय” इति स्मार्त्ताः अकरणञ्च न्यायादिमते करणाभावः, मीमांसकवेदान्तिमते निवृत्तिः। अत एव अष्टस्यां मांसं नाश्नीयादित्यादौ सर्वत्र निषेधसमभिव्याहृतक्रियाविषयकनिवृत्तावेव विध्यर्थान्वयः इत्युक्तं मीमांसकैः। शङ्कराचार्य्येण च “नासतो विद्यते भावोनाभावो विद्यते सत” इति गीता श्लोकभाष्ये महता प्रबन्धेन सत्पदार्थादभावोत्पत्ति निरस्यता निषेधस्य निवृत्तिरूपत्वमुररीकृतम्। निवृत्तिश्च प्रवृत्तिविरोधी भावरूपोधर्मविशेषः। नास्ति करणं देहेन्द्रियादिकमस्य। सर्व्वकरणशून्ये परात्मनि पु०। “अपाणिपादोजवनोग्रहीतेत्यादि” श्रुतौ तस्य सर्वकरणशून्यत्वमुक्तम्। अकरणि = स्त्री० नञ् + कृ–आक्रोशे अनि। करणं मा भूदित्याक्रोशात्मके शापे। “तस्याकरणिरेवास्तु” इति। अकरा = स्त्री० अकं दुःखं सेवनात् लोकानां राति गृह्णाति नाशयतीति रा–क। आमलक्याम्। नास्ति करोऽस्य। करशून्ये त्रि०। न करोति कृ–अच् न० त०। कारकभिन्ने करणशीलभिन्ने निवृत्तिपरे च त्रि०। अकरुण = त्रि० नास्ति करुणा यस्य यत्र वा। दयाशून्ये दैन्यशून्ये च। अकर्कश = त्रि० न कर्कशः। कार्कश्यविरोधिमृदुत्ववति कोमले अकर्ण्ण = त्रि० नास्ति कर्ण्णोऽस्य। श्रवणेन्द्रियशून्ये “पश्यत्यकर्ण” इति श्रुतिः। सर्पे पु० तस्य चक्षुषैव श्रवणात्तदिन्द्रियशून्यत्वम्। राधेयः कर्ण्णः तछून्ये त्रि०। “अनर्जुन मकर्णं वा जगदद्येति निश्चितमिति” भारतम्। अकर्त्तन = त्रि० उच्चस्थं फलं कर्त्तितुं शीलमस्य कृत–युच् न० त०। उच्चविरोधिह्रस्वत्ववति स्वर्वे। कृत–भावे ल्युट् न० ब०। छेदनाकर्त्तरि त्रि०। अकर्त्तव्य = त्रि० कृ–कर्म्मादौ तव्य न० त०। करणानर्हे निषिद्धे पदार्थे। भावे क्त न० ब०। क्रियाशून्ये कूटस्थे चैतन्ये न०। “न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेषु किञ्चनेति” गीतायामीश्वरस्य सर्वक्रियानिषेधात् तथात्वम्। अकर्त्तृ = त्रि० कर्त्तृ + न० त०। कर्त्तृभिन्ने कर्त्तृसदशे कारके “अकर्त्तरि च कारके” पा०। कर्तृभिन्ने, क्रियाशून्ये च “पुरुषोऽकर्त्ता भोक्ता” चेति सांख्यमतम्। अकर्म्मक = त्रि० नास्ति कर्म्म यस्य ब० कप्। व्याकरणोक्ते कर्म्मशून्ये धातौ, “लः कर्म्मणि च भावे चाकर्म्मकेभ्य इति” पा०। “फलव्यापारयोरेकनिष्ठतायामकर्म्मक इति” हरिः। स्त्रियां टापि कापि अतैत्त्वम् अकर्म्मिका। “प्रसिद्धेरविवक्षातः कर्म्मणोऽकर्मिका क्रियेति” हरिः। अकर्म्मण्य = त्रि० न कर्म्मने प्रभवति कर्म्मन् + यत् न० त०। कर्म्मानर्हे “अकर्म्मण्यं तिथिमलं विद्यादेकादशीं विनेति” ति० त०। अकर्म्मन् = अनुपलम्भादिवत् अर्थाभावे न० त०। कर्म्माभावे “कर्म्मणोह्यपि बोद्धव्य बोध्यव्यञ्च विकर्म्मणः। अकर्म्मणश्च बोद्धव्यं गहना कर्म्मणोगतिरिति” गीता अकर्म्मणः अक्रियाया इति तद्भाष्यम्। दुष्टं कर्म्म अप्राशस्त्ये न० त०। दुष्टकार्य्ये अकर्म्मादावभिरत इति स्मृतिः। न० ब०। कार्य्यशून्ये त्रि० “अकर्म्मा दस्युरभित” इति वेदः। अकल = पु० नास्ति कलाऽवयवोऽस्य। निरंशे परमात्मनि “चिन्मयस्याद्वितीयस्य निष्कलस्ये” त्युक्तेस्तस्य तथात्वम्। गीतादिकलाशून्ये, अवयवशून्ये च त्रि०। अकल्कन = त्रि० कल्कनं दम्भः न० ब०। दम्भरहिते “अकल्कनो निरारम्भः” इति गीता। वैद्यकोक्तौषधपाकविशेषः कल्कनं, तच्छून्ये च। नास्ति कल्कोऽस्य ब० कप्। अकल्ककोऽप्यत्र। अत एव गीतायामकल्कक इत्यपि क्वचित् पाठः। अकल्का = स्त्री० न कल्कः मलोयस्य न० ब०। निर्मलत्वेन शुभ्रायां ज्योस्नायाम्। मलादिशून्ये त्रि०। अकल्य = त्रि० कलासु साधुः कला + यत् कल्यः निरामयः न० त०। अस्वास्थ्यवति। कल्यते इति कल–यत् कल्यं कल्पनीयं मिथ्याभूतं न० त०। सत्ये “अपि त्वनीनयदपनीताशेषशल्यमकल्यसन्ध इति दशकु०। अकल्यसन्धः सत्यसन्ध इत्यर्थः। अकवा = त्रि० न कव्यते वर्ण्यते कव–आ न० त०। अवर्ण्णनीये “प्र प्रजायन्ते अकवा महोभिरिति” वेदः। अकस्मात् = अव्य० न कस्मात् किञ्चित्कारणाधीनत्वं यत्र अलुक् स०। कारणानधीने अतर्कितोपनते। “कथमयमकस्माद्गगनचारिणामाकाशे करुणध्वनिः श्रूयते” इति नाटकम् “सामान्यलक्षणा कस्मादकस्मात् परिलुप्यते” इति पक्षधरः। “अकस्मात् नगरोपान्ते कथं धूमायते चितेति” हास्या०। पा० चार्वादिगणे तथा पाठाच्च न पञ्चम्या लुक् तेन आपतितभवाद्यर्थे ठञि टिलोपे आकस्मिक इति। अकाण्ड = त्रि० न० त०। अनवसरे अनुचितकाले “तातस्तमकाण्डे एव प्राणहरप्रतीकारमुपप्लवमिति” काद०। अस्य नि० एतदन्तत्वमिति केचित्। ब०। स्कन्धशून्ये वृक्षे पु०। अकाम = त्रि० न कामयते काम–णिङ्–अच्। इच्छाशून्ये “नाकामो दातुमर्हतीति” स्मृतिः। कामनाविषयफलाननुसन्धायिनि। “अकामो विष्णुकामोवेति” स्मृतिः स्मरविकारशून्ये च। “भयादकामाऽपिहि दृष्टिविभ्रममिति” शकु०। अकामतस् = अ० अकाम + पञ्चम्यास्तसिल्। अनिच्छात इत्यर्थे “अकामतः कामचारे चौरवद्दण्डमर्हतीति” स्मृतिः। अकाय = पु० नास्ति कायोऽस्य। कायशून्ये राहौ तस्य चामृताहरणकाले विष्णुना च्छिन्नमस्तकत्वेऽपि अमृतप्राशनेन अमरणमित्यनुसन्धेयम्। “अमृतास्वादनविशेषाच्छिन्नमपि शिरः किलासुरस्येदम्। प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके इति” वृहत्स०। देहशून्ये त्रि०। परमात्मनि पु०। निष्कलस्याशरीरिणैत्युक्तेस्तस्य तथात्वम्। अकार = पु० अ + स्वरूपार्थे कार। अस्वरूपे वर्णे एवमिकारादयोऽपि तत्तद्वर्णस्वरूपेषु। कारः करणंन० ब०। क्रियारहिते त्रि०। अकारण = त्रि० नास्ति कारणं हेतुरुद्देश्यं वा यस्य। हेतुरहिते उद्देश्यरहिते च “किमकारणमेव दर्शनं विलपन्त्यैरतये न दीयते” इति कुमा० “ततोऽकारणवैरी नः “कारणादपरे परे इति” नैषधम्। निष्प्रयोजने च। न० त०। कारणभिन्ने “अकारणगुणोत्पन्ना” इति भाषा०। अकारिन् = त्रि० कृ–णिनि न० त०। कर्त्तृभिन्ने, करणान्निवृत्ते च। अकार्पण्य = त्रि० नास्ति कार्पर्ण्यं यस्य। दैन्यशून्ये, कृपणताशून्ये च। अकार्य्य = न० अप्रशस्तं कार्य्यम् अप्राशस्त्य्ये न० त०। कुत्सितकार्य्ये निषिद्धकार्य्ये च। “अकार्य्यमिव पश्यामि स्वमांसमिव भोजने”। “किमकार्य्यं कदर्य्याणामिति” हितो०। कर्त्तव्यभिन्ने त्रि०। अकाल = पु० अप्राशस्त्ये न० त०। अप्रशस्तकाले विहितकर्म्मसु पर्य्युदस्तयाऽभिहिते गुरुशुक्राद्यस्तकालादौ, स च मलमास, गुरुशुक्रबाल्यवृद्धत्वास्तमय, सिंहमकरान्यतरगुरुस्थिति, पूर्ब्बराश्यनागतातिचारिगुरुकवत्सर, पूर्ब्बराशिसंक्रमिष्यमाणाति चारिगुरुकपक्षत्रय, वक्रगुरुकाष्टाविंशतिदिवस, भूमिकम्पाद्यद्भुतसप्ताह, सिंहादित्य, गुर्वादित्य, पौषमासचतुष्टयान्य- तमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहान्यतमदिनादि, रूपो मलमासतत्त्वाद्युक्तः तत्तद्विहितकर्म्मसु पर्य्युदस्ततयाऽभिहितः कालः एतत्प्रमाणानि सप्रति प्रसवं मलमासतत्त्वमुहूर्त्तचिन्तामण्यादौ द्रष्टव्यानि “अकाले वीक्षितो विष्णुर्हन्ति पुण्यं पुराकृतमिति” पु०। अप्राप्तः अनुचितः कालः शा० त०। अप्राप्तकाले “नाकाले म्रियते कश्चित् प्राप्ते काले न जीवतीति” पुराणम्। “अकालजलदोदय” इति रघुः। “अकालमृत्युहरण” मिति तन्त्रम्। “वर्त्त्याधारस्नेहयोगात् यथा दीपस्य संस्थितिः। विक्रियापि हि दृष्टैवमकाले प्राणसंक्षय” इति याज्ञ०। “अकालजन्तु विरसं न धान्यं गुणवत् स्मृत” मिति, वैद्य०। “नाकालवृष्टौ कुर्व्वीत व्रतबन्धशुभ्रक्रियामिति” स्मृतिः अनुचितकाले वृष्टाविति तदर्थः। “वरमेकाहुतिः काले नाकाले लक्षकोटयः इति ति० त०। नास्ति कालोपाधिजन्यजातमत्र। जन्यशून्ये प्रलये। “अकालकालमेघमेदुरेति काद०। अप्राप्तः कालो यस्य प्रादिभ्यः धातुजस्येति ब० अन्त्यलोपश्च। अप्राप्तकाले अनुचितकाले पदार्थे त्रि०। कालः कृष्णः न० त०। कृष्णविरुद्धशुभ्रवर्णे पु०। कृष्णविरोधिशुभ्रत्ववति त्रि०। अकिञ्चन = त्रि० नास्ति किञ्चन यस्य मयूर० त०। निर्धने, “अकिञ्चनः सन् प्रभवः स सम्पदा” मिति कुमा०। दरिद्रे, “अकिञ्चने किञ्चननायिकाङ्गके किमारकूटाभरणेन न श्रिय” इति नैषधम्। अकिञ्चनता = स्त्री० अकिञ्चनस्य भावः तल्। संन्यासाङ्गे सर्व्वद्रव्यत्यागरूपे यमविशेषे “व्रतं दानं परिव्रज्या तपस्या नियमस्थितिः। अहिंसाऽसूयतास्तेयब्रह्माकिञ्चनता यम” इति स्मृतिः ब्रह्म वेदमन्त्रः ईश्वरमननं वेत्यर्थः। निर्द्धनत्वे च। भावे त्व। तत्रैवार्थे न०। “स्थाने भवानेकनराधिपः मन्नकिञ्चनत्वं मखजं व्यनक्तीति” रघुः। अकिञ्चिज्ज्ञ = त्रि० न किञ्चित् जानाति ज्ञा–क अश्राद्धभोजीतिवत् असमर्थस०। किञ्चिदनभिज्ञे, किञ्चिद्ज्ञानशून्ये, अल्पज्ञाने, ज्ञानशून्ये च। अकिञ्चित्कर = त्रि० न किञ्चित् करोति कृ–अच् असमर्थ स०। किञ्चिदकारके क्रियाशून्ये, निष्प्रयोजने च। अकुण्ठ = त्रि० नास्ति कुण्ठा यस्य। प्रतिबन्धशून्ये, कर्म्म दक्षे च। अकुतोभय = त्रि० नास्ति कुतोऽपि भयं यस्य मयू० स०। कुतश्चिदपि भयशन्ये। अकुप्य = न० गुप्यते निस्वताव्यञ्जकतया–लज्जाकरत्वात् गुप–क्यप् नि० कस्य पः कुप्यं रैत्यादि न० त०। स्वर्णे, रूप्ये च। अकुमार = त्रि० न कुमारः। अतीतकौमारावस्थे तरुणे। अकुल = त्रि० अप्रशस्तं कुलमस्य न० ब०। अप्रशस्तकुले “कुलान्यकुलतां यातीति” मनुः। अकुशल = त्रि० न कुशलं मङ्गलमस्य। मङ्गलविरोध्यमङ्गलयुक्ते। न० त०। कुशलविरोधिनि अभद्रे न०। दक्षभिन्ने त्रि०। अकूपार = पु० न कूपमृच्छति ऋ–अण्। वृहत्कच्छपे। न कु पृथ्वीं पिपूर्त्ति पृ–पालनपूरणयोः अण् बा० दीर्घः, न कुत्सितं पारं गन्तव्यदेशो यस्य वा, पृ० दीर्घः। महापारे समुद्रे, दूरगामिनि सूर्य्ये च पु०। पृ०। अकूवारोऽप्यत्र। अकृत = त्रि० कृ–कर्म्मणि क्त न० त०। कृतभिन्ने अन्यथाकृते। “कृताकृतावेक्षणादौ ब्रह्मा ऋत्विक् नियुज्यते” इति याज्ञिकप्रसिद्धिः। “अकृतव्यूहाः पाणिनीया” इति परिभाषा। न कृतो व्यूहः विशेषेण ऊहोयैः विनाशोन्मुखं दृष्ट्वा कृतमपि कार्य्यं नाशयन्तीति तदर्थः सि० कौ०। बलपूर्ब्बकृते ऋणलेख्यपत्रादौ च “सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीदिति” मनुः। “बलात् कुरुत पापानि सन्तु तान्यकृतानि वः। सर्व्वान् बलकृतानर्थानकृतान् मनुरब्रवीदिति” नैषधम्। पुत्रिकात्वेन अकल्पितायां दुहितरि स्त्री। “अकृता वा कृता वापि यं विन्देत् सदृशात् सुतमिति” स्मृतिः। भावे क्त अभावार्थे न० त०। करणाभावे निवृत्तौ “नैव तस्य कृतेनार्थो नाकृतेनेह कश्चनेति” गीता। अकृतज्ञ = त्रि० न कृतं जानाति ज्ञा–क असम० स०। कृतोपकारास्मारके, कृतघ्ने, “आत्मारामाः पूर्णकामाः अकृतज्ञा गुरुद्रुह” इति भागवतम्। अकृतिन् = त्रि० कृतमनेन कृत + इनि न० त०। कार्य्याक्षमे क्रियासु पाटवरहिते। अकृत्य = न० कृ–क्यप् अप्राशस्त्ये न० त०। दुष्टकार्य्ये चौर्य्यादिकरणे। न कृत्यमस्य न० ब०। कर्म्मरहिते त्रि०। अकृत्रिम = त्रि० न कृत्रिमः न० त०। कृत्रिमभिन्ने स्वभावसिद्धे। “कृत्रिमाकृत्रिमयोर्मध्ये कृत्रिमे कार्य्यसंप्रत्यय” इति परि“भाषा अकृत्रिमस्नेहरसानुविद्धमिति”। अकृत्वा = अ० न कृत्वा न + कृ–क्त्वा। करणानन्तर्य्ये “अकृत्वा कुलसन्ततिमिति” मनुः। अकृष्टपच्य = त्रि० अकृष्टे क्षेत्रे पच्यते पच–क्यप् ७ त०। हलाद्यकृष्टक्षेत्रे पच्यमाने नीवारादौ शस्ये। अकृष्ण = पु० नास्ति कृष्णः मलो यस्य। निष्कलङ्के चन्द्रे “चन्द्रमा वै ब्रह्माऽकृष्ण” इति श्रुतिः। न० त०। कृष्णत्वविरोधिशुभ्रत्वे पु०। तद्वति, शुद्धे च त्रि०। अकृष्णकर्म्मन् = त्रि० न कृष्णं शुद्धं कर्म्म यस्य। शुद्धकर्म्मकारिणि पुण्यशीले। अकेतु = पु० नास्ति केतुश्चिह्नं यस्य। चिह्नरहिते अज्ञाने, “केतुं कृण्वन्नकेतवे” इति वेदः य० (२९, ३७) अकेतवे अज्ञानायेति वेददीपः। चिह्नध्वजाभ्यां रहिते त्रि०। अकौशल = त्रि० न–कुशलः अकुशलस्ततो भवादौ अण् आद्यचो वा न वृद्धिः। अकुशलभवादौ। आद्यचो वा वृद्धौ आकौशलोऽप्यत्र। कुशलस्य भावः अण् + न० त०। असौष्ठवे न०। अक्का = स्त्री अक–क, अच्यते इत्यक् अन्व–क्विप् गतिः तस्यै कायति कै क वा। मातरि जनन्याम्। अक्त = त्रि० अज्यते अन्ज–कर्म्मणि क्त। कृताञ्जने, “अक्तं रिहारणां व्यन्तु वय इति” “अक्ताः शर्करा उपदधा तीति” च श्रुतिः परिमिते, व्याप्ते, सङ्कुले च। अक्तु = पु० अन्ज–तु नि०। रात्रौ, तदुपलक्षिते तमसि च “रुद्रं दिवा वर्द्धया रुद्रमक्तौ” इतिवेदः। अक्त्र = न० अन्ज–बा० क्त्र। वर्म्मणि। अक्र = त्रि० अन्चु गतौ रक्। स्थिरे। “उदु स्वरुर्नवजा नाक्रः” इतिवेदः। अक्रम = त्रि० नास्ति क्रमः परिपाटी पादः क्रमणं वाऽस्य। परिपाटीशून्ये त्यक्तक्रमे एककाले। “तच्चार्थक्रियाचारित्वं क्रमाक्रमाभ्यां व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्तीति” सर्व्वद० पादशून्ये आक्रमणशून्ये च। क्रमभावे घञ् अभावार्थे न० त०। क्रमणाभावे पु०। अव्ययीभावः। क्रमाभावे अव्य०। अक्रान्ता = स्त्री न क्रम्यते स्म कण्टकावृतत्वात् क्रम–क्त न० त०। वृहत्याम्। क्रान्तभिन्ने विष्णुना क्रान्ते च त्रि०। अक्रतु = त्रि० नास्ति क्रतुर्यज्ञः संकल्पोवा यस्य। यज्ञरहिते संकल्परहिते च परमात्मनि पु० “न्यक्रतून्यर्थिनो मृध्रवाच” इति वेदः। अक्रिया = स्त्री० अभावार्थे न० त०। क्रियाभावे “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः। तदङ्गस्याक्रियायान्तु नावृत्तिर्न च तत्क्रियेति” “अक्रिया त्रिविधा प्रोक्तेति” च स्मृतिः। न० ब०। कर्म्मशून्ये गुणादौ च त्रि०। सर्वकर्म्मशून्ये परमात्मनि पु०। अक्रूर = त्रि० न क्रूरः। क्रूरभिन्ने सरले, स्वनामप्रसिद्धे वृष्णिवंश्ये क्षत्त्रियभेदे पु०। अक्रोध = पु० न क्रोधः अभावार्थे न० त०। क्रोधाभावे यमभेदे अहिंसा क्षान्तिरक्रोधः सत्यास्तेयापरिग्रहा” इति पुरा- णम्। “अक्रोधं शिक्षयन्त्यन्ये क्रोधना ये तपीधना इति नैष० न० ब०। क्रोधशून्ये त्रि०। अक्लम = पु० न क्लमः अभावार्थे न० त०। श्रमाभावे। न० ब०। श्रमशून्ये त्रि०। अक्लिष्ट = क्लिश–भावे क्तन० ७ ब०। क्लेशरहिते कर्म्मादौ। क्लिशकर्त्तरि क्त न० त०। श्रान्तभिन्ने त्रि०। अक्लेश = पु० अभावार्थे न० त०। क्लेशाभावे। न० ब०। क्लेशशून्ये त्रि०। अक्ष = व्याप्तौ संहतौ च भ्वा० प० वेट्। अक्षति अक्ष्णोति आक्षीत् आष्टाम् आक्षिष्टाम् आनक्षे। क्त अष्टः क्तिन् अष्टिः शतृ अक्ष्णुवन् इ अक्षि–कनिन् अक्ष। अक्ष = न० अश्नुते व्याप्नोति विषयान् स्ववृत्त्या संयोगेन वा अश–स। इन्द्रिये, “अक्षाणि पण्डितजना विदुरिन्द्रियाणि” उ० नेत्रे, अधोक्षज इति। तुत्थे (तु~ते) सौवर्चले च। ज्योतिषोक्ते राशिचक्रावयवभेदे। “शङ्कुर्नरोना कथितः सएव स्वार्द्धाद्रवेर्या विषुवद्दिनार्द्धे। नतिः पलोऽक्षश्च सएव तज्ज्ञैस्तत्रोन्नतिर्यास्य सएव लम्ब इति” सिद्धान्तशिरोमणिगणिताध्यायोक्ते विषुवद्दिनार्द्धे खार्द्धापेक्षया नतिरूपे पलांशभेदे पु०। एतद्विवरणम् भास्कराचार्य्येण प्रमिताक्षरायां स्वयमेव कृतम्। यथा “निरक्षदेशे (लङ्काविभागे) यदेव विषुवन्मण्डलं तदेव सममण्डलं ततः क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति तत्र ध्रुवौ च क्षितिजसंज्ञे, अथ निरक्षदेशात् द्रष्टा यथा यथा उत्तरतो गच्छति तथा तथा उदक्ध्रुवमुन्नतं पश्यति तथा यैर्भागै र्ध्रुवौन्नतस्तैरेव भागैः अक्षसंज्ञैः स्वस्वस्तिकात् दक्षिणतोविषुवन्मण्डलं नतं पश्यतीति”। “चन्द्राश्वि १२ निघ्ना पलभार्द्धिता च लङ्कावधिः स्यादिह दक्षिणोऽक्ष” इति भास्वती। “उदग्दिशं याति यथा यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशका इति सिद्धान्त शि० गोलाध्यायः यदि भूपरिधि (४९६७) योजनैश्चक्रांशाः (३६०) लभ्यन्ते तदापसारयोजनैः किमिति, यद्यृक्षपरिधिना (३६०) भूपरिधिः (४९६७) लभ्यते तदा अक्षांशैः किमिति, त्रैराशिकेन फलं निरक्षदेशलङ्कास्वदेशयोरन्तरयोजनानि स्युरिति, सुयमेव प्रमिताक्षरायां व्याख्यातम्, तथैव गोलाध्यायोक्तं दर्शितम्। “योजनसंख्या भांशै (३६०) र्गुणिता स्वपरिधि (४९६७) हृता भवन्त्यंशाः (अक्षांशाः)। अक्षांशेभ्यो भूमौ कक्षायां (ऋक्ष ३६० कक्षायाम्) वा योजनानि च व्यस्तमिति”। व्यस्तमिति भूपरिधिगुणिता भांशहृता अक्षसंख्या (योजनसंख्या) भवतीति। निरक्षदेशात् क्षितिचतुथांशे किल मेरुस्तत्र नवतिः पलांशाः (अक्षांशाः) इति च तत्रैवोक्तम्। पाशके कर्षपरिमाणे च न० विभीतकवृक्षे (वयडा) तुषे, आत्मनि रुद्राक्षे सर्पे जातान्धे गरुडे च पु०। तत्र रुद्राक्षे अक्षमाला। कर्षे अनुभवति धाराभिरक्षमात्राभिरिति, विभीतके “यथा वै द्वे आमलके, द्वे वा कौले द्वौ वाक्षौ इति” श्रुतिः। व्यवहारे अक्षदर्शकः। रावणसुतभेदे पु०। तत्कथा रामा० सु० ४३ अ०। अक्षक = पु० अक्षैव कायाति कै–क। तिनिशवृक्षे। स्वार्थेकन्। अक्षशब्दार्थे प्रकृतिलिङ्गम्। अक्षकूट = पु० अक्षस्य चक्षुषः कूटैव। नेत्रतारायां, स्वार्थे कन्। तत्रैव। अक्षक्षेत्र = न० अक्षनिमित्तं क्षेत्रम् शा० त०। ज्योतिषोक्तेषु अक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु। तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा। “भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः १ खलुमूलमेतत् क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखानाम्।। लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रिभुजे २ त्रिभज्या। कुज्या भुजः कोटिरपक्रमज्या कर्णोऽग्रका च त्रिभुजं तथेदम्३।। तथैव कोटिः समवृत्तशङ्कुरग्रा भुजस्तद्धृतिरत्र कर्णः ४। भुजोऽपमज्या समना चकर्णः कुज्योनिता तद्धृतिरत्र कोटिः ५।। अग्रादिखण्डं कथिता च कोटिरुद्वृत्तना दोः श्रवणोऽपमज्या ६। उद्वृत्तना कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ७।। खण्डं यदूर्द्ध्वं समवृत्तशङ्को र्यत्तद्धूतेस्तावथ कोटिकर्णौ। अग्रादिखण्डं भुज ८ एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत्।।” क्षेत्राणि दर्शयेत्, “तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पातादधो यावा~ल्लम्बः क्षितिजसमसूत्रपर्य्यन्तः सा तत्र कोटिः, लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्याल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमप्यक्षक्षेत्रम्, इष्टाहोरात्रवृत्त यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्तिकस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती च प्रत्यक्क्षितिजे अग्राग्रयोर्निवद्धं सूत्रमुदयास्तसूत्रम् अहोरात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा क्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरं सा कुज्या स भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डलसम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः, अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं, तथा कृज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्वं सा कोटिः, उन्मण्डले क्रान्तिज्या स भुजः, समवृत्तशङ्गुः कर्णः, इदमक्षक्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डलशङ्गुः स भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्मण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादिखण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः, शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं स भुझः, कोटिभुजाग्रयोरन्तरसूत्रं सा कुज्या स तत्र कर्णः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्द्ध्वं खण्डं सा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्द्ध्वखण्डं स कर्णः, अग्रादिखण्डं स भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथितानि एवमन्यान्यपि भवन्ति। अक्षज = न० अक्षात् इन्द्रियसन्निकर्षात् जायते जन–ड। इन्द्रियविषयसन्निकर्षोत्पन्ने प्रत्यक्षज्ञाने वज्रे अस्थिरूपायवजातत्वात्तस्य तन्नामत्वम्। प्रागुक्ताक्षार्थजाते त्रि०। ज्योतिषोक्ते अक्षभवे क्षेत्रादौ च। अक्षणिक = त्रि० न क्षणिकं न०। स्थिरे निश्चले च। “हरिवीक्षणाक्षणिकचक्षुषेति” माघः। अक्षणिकचक्षुषा स्थिरदृष्ट्या स्तिमितनेत्रयेत्यर्थः इति मल्लिनाथः। अक्षण्वत् = त्रि० अक्षअस्यास्ति मतुप् मस्य वः। नेत्रयुक्ते “पश्यदक्षण्वान्न विवेद” इति “अक्षण्वन्तःकर्म्मवन्तः समर्था” इति च वेदः। अक्षत = पु० ब० न क्षताः। “अक्षताश्च यवाः प्रोक्ता इति का० स्मृत्युक्ते यवे। नपुंसकमिति केचित् “दूर्वाक्षतानि” चेति पुराणम्। तण्डुले, “अक्षतैर्नार्च्चयेद्विष्णुं न तुलस्या विनायकमिति” तन्त्रम्। शस्यमात्रे न०। क्षययुक्तभिन्ने उत्कर्षान्विते अविदारिते च त्रि०। “अक्षता वा क्षता वा पीति” मनुः। क्षण–भावे क्त न० त०। क्षयाभावे न०। “अक्षतञ्चारिष्टं चा स्तु” इति श्राद्धविप्रसमीपे कृतकर्म्मणोऽक्षयप्रार्थना। अक्षदर्शक = पु० अक्षाणामृणादानादिव्यवहाराणां दर्शकः दृश–ण्वुल् ६ त०। विवादनिर्णेतरि धर्म्माधिकरणाध्यक्षे। द्यतदर्शके त्रि०। अक्षदृश् = पु० अक्षान् व्यवहारान् पश्यति दृश–क्विन् कुत्वम्। अक्षदर्शकशब्दार्थे। अक्षार्थद्रष्टरि त्रि०। अक्षदेविन् = त्रि० अक्षैर्दीव्यति दिव–णिनि ३ त०। पाशकादिद्यूतक्रीडाकारके। अक्षद्य = त्रि० अक्षैर्दीव्यति दिव–क्विप् ऊठ्। पाशकादिद्यूतकारके। अक्षद्यूत = न० अक्षैर्द्यूतम् ३ त०। पाशकादिक्रीडायाम्। अक्षद्यूतादि = पु० ब०। “निर्वृत्तेऽक्षद्यूतादिभ्य” इति पाणिन्युक्ते ठक्प्रत्ययनिमित्ते शब्दसमूहे। अक्षद्यूत, जानुप्रहृतजङ्घाप्रहृत जङ्घाप्रहत, पादस्वेदन, कण्टकमर्द्दन, गतानुगत, गतागत–यातोपयात, अनुगत इति। अक्षद्यूतेन र्निवृत्तम् आक्षद्यूतिकं वैरमित्यादि। अक्षधर = पु० अक्षं चक्रं रथावयवं तत्कीलकमिव कण्टकं वा धरति धृ–अच् ६ त०। विष्णौ चक्रे शाखोटकवृक्षे च चक्रधारकमात्रे त्रि०। अक्षधुर् = स्त्री० अक्षस्य चक्रस्य धूरग्रं भारोवा ६ त० न अ समा०। चक्राग्रे चक्रभारे च। अक्षधूर्त्त = त्रि० अक्षे तद्देवने धूर्त्तः। द्यूतकुशले द्यूतकारिणि च (जुयारि)। अक्षधूर्त्तिल = पु० अक्षस्य शकटस्य धूर्त्तिं भारं लाति ला–क। शकटवाहनकर्त्तरि वृषे। अक्षन् = न० अक्ष–बाहु० कनिन्। नेत्रे “दक्षिणेऽक्षन् इति वृह० उप० “भद्रं कर्णेभिः शृणवाम देवा भद्रं पश्येमाक्षभिर्यजत्रा” इति वेदः। अक्ष(क्षि)पटल = न० अक्ष्णः नेत्रस्य पटलमिवाच्छादकत्वात्। नेत्रस्यावरके कोशभेदे नेत्ररोगभेदे (छानि) च। पटलस्थरोगभेदादि शुश्रुते उक्तं यथा “मसूरदलमात्रान्तु पञ्चभूतप्रसादजाम्। खद्योतविस्फुलिङ्गाभां सिद्धां तेजोभिरव्ययैः।। आवृतां पटलेनाक्ष्णोर्वाह्येन विवराकृतिम्। शीतसात्म्यां नृण्णां दृष्टिमाहुर्नयन चिन्तकाः।। रोगांस्तदाश्रयान् घोरान् षट् च षट् च प्रचक्ष्महे। पटलानुप्रविष्टस्य तिमिरस्य च लक्षणम्।। शिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम्। प्रथमे पटले दोषो यस्य दृष्टौ व्यवस्थितः।। अव्यक्तानि स रूपाणि सर्व्वाण्येव प्रपश्यति। दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते। मक्षिकाः मशकान् केशान् जालकानि च पश्यति। मण्डलानि पताकाश्च मरीचीः कुण्डलानि च।। परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि वा। दूरस्थान्यपि रूपाणि मन्यते च समीपतः।। समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात्। यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति।। ऊर्द्धं पश्यति नाधस्तात्तृतीयं पटलं गते। महान्त्यपि च रूपाणि च्छादितानीव वाससा।। कर्णनासाक्षियुक्तानि विपरीतानि वीक्षते।। यथादोषञ्च रज्येत दृष्टिर्द्दोषे बलीयसि।। अधःस्थिते समीपस्थं दूरस्थञ्चोपरिस्थिते। पार्श्वस्थिते तथा दोषे ऽपार्श्वस्थानीव पश्यति।। समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति। दृष्टिमध्यगते दोषे स एकं मन्यते द्विधा।। द्विधास्थिते त्रिधा पश्येद्बहुधा चानवस्थिते। तिमिराख्यः स वै दोषश्चतुर्थपटलङ्गतः।। रुणद्धि सर्वतो दृष्टिं लिङ्गनाशः स उच्यते। तस्मिन्नपि तमोभूते नातिरूढे महागदे।। चन्द्रादित्यौ सनक्षत्रावन्तरिक्षे च विद्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति।। स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” इति। अक्षाणां व्यवहाराणां पटलमस्त्यस्य अच् ६ त०। अक्षदर्शके धर्म्माध्यक्षे पु०। अक्षपरि = अव्य० अक्षेण पाशकेन विपरीतं वृत्तम्। अक्षशलाकेत्यादिना परिणा अव्य०। पाशकक्रीडायां यथा गुटिकापाते जयोभवति तद्विपरीतपातने। अक्षपाटक = पु० अक्षे व्यवहारे पाटयति दीप्यते पट दीप्तौण्वुल्। व्यवहारनिर्णेतरि धर्म्माध्यक्षे। अक्षपाद = पु० अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य। न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्त्तव्यमिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति पौराणिकी कथा। “अक्षपादप्रणीते च काणादे सांख्ययोगयोः। त्याज्यः श्रुतिविरुद्धोऽर्थ इति” पद्मपुराणम्। अक्षपीडा = स्त्री० अक्षमिन्द्रियं रसनारूपं पीडयति आस्वादनात् पीड–अच्। यवतिक्तालतायाम्। पीड–भावे अङ् + ६ त०। इन्द्रियपीडायाम्। अक्षम = त्रि० न क्षमते क्षम–अच् न० त०। असमर्थे। क्षम–भावे अङ् अभावार्थे न० त०। क्षमाभावे ईर्ष्यायाम् स्त्री। “अक्षमा भवतः केयमिति” भारतम्। न० ब०। क्षमारहिते त्रि०। अक्षमाला = स्त्री अक्षाणां रुद्राक्षाणां माला। रुद्राक्ष वीजग्रथितमालायाम्। अकारादिक्षकारान्तः अक्ष स्तत्कृता तत्प्रतिनिधीभूता वा माला शा० त०। एकपञ्चाशद्वर्णमालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम् वाह्यमालायाञ्च “शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष मालमिति” काद०। “विभान्तमच्छस्फटिकाक्षमालयेति” माघः। तद्विवरणम्। “क्रमोत्क्रमगते माला मातृकार्णे क्षमेरुके। लावसानैः साष्टवर्गैरन्तर्यजनकर्म्मणीति” सनत्कुमारीये। “पद्मवीजादिभिर्माला वहिर्यागे शृणुष्व ताः। रुद्राक्षशङ्खपद्माक्षपुत्रजीवकमौक्तिकैः। स्फाटिकैर्मणिरत्नैश्च सुवर्णै र्विद्रुमैस्तथा। रजतैः कुशमूलैश्च गृहस्थस्याक्षमालिकेति” तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः। अक्षस्य नक्षत्रचक्रस्य मालेव भूषणत्वात्। अरुन्धत्यां, सा हि उत्तरस्यां दिशि गगने सप्तर्षिमण्डलचक्रे वसिष्ठसमीपेमालारूपेण वर्त्तते सर्व्वेभ्यश्च उज्वलत्वात्तस्या मालारूपेण स्थितत्वाच्च नक्षत्रचक्रभूषणत्वम्। अक्षय = त्रि० नास्ति क्षयोऽस्य। क्षयरहिते सर्व्वदा वर्त्तमाने “गयायामक्षयवटे पितॄणां दत्तमक्षयमिति” वायुपुराणम् “अभिजिद्रोहिणोदये यदत्र दीयते जन्तोस्तदक्षयमुदाहृतमिति” स्मृतिः। परमात्मनि पु०। क्षयोवासः, तच्छून्ये अनिकेतने संन्यासिनि, दरिद्रे च। अक्षयं पुण्यमत्रास्ति अच्। अक्षयपुण्यसाधने तिथिभेदे च “अमा वै सोमवारेण रविवारेण सप्तमी। चतुर्थी भौमवारेण अक्षयादपि चाक्षयेति” भविष्यपुराणम्। अक्षयतृतीया = स्त्री कर्म्म०। वैशाखशुक्लपक्षतृतीयायाम्। “वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका। अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणीयुता। तस्यां दानादिकं सर्व्वमक्षयं समुदाहृतमिति”। “या शुक्ला कुरुशार्द्दल! वैशाखे मासि वै तिथिः। तृतीया साक्षया लोके त्रिदशैरभिवन्दितेति” च भविष्यपुराणम्। “वैशाखस्य सिते पक्षे तृतीयाऽक्षयसंज्ञितेति” स्कन्दपुराणम्। अक्षय्य = त्रि० क्षेतुं शक्यं क्षि–यत् नि० न० त०। क्षयानर्हे। अक्षये च “तेषां पिण्डो मया दत्तोह्यक्षय्यमुपतिष्ठतामिति” वायु० अक्षय्योदक = न० नक्षय्य मक्षय्य मुदकं यत्र श्राद्धे पिण्डदानानन्तरं देये मधुतिलमिश्रिते उदके। “अक्षय्योदक दानन्तु अर्घ्यदानवदिष्यते। षष्ठ्यैव नित्यं तत् कुर्य्यात् न चतुर्थ्या कदाचनेति” छन्दोगप०। अक्षर = न० न क्षरतीति क्षर–चलने अच् न० त०। परमब्रह्मणि कूटस्थे चैतन्ये “अक्षरं परमं ब्रह्मेति” गीता। क्रियाशून्ये त्रि० जीवे परमात्मनि च पु०। “क्षरः सर्वाणि भूतानि कूटस्योऽक्षर उच्यते इति “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम इति” च गीता। क्षरणशून्ये स्थिरे त्रि०। अश्रुते व्याप्नोति वेदादिशास्त्राणि अश–सरन्। अकारादिवर्णे न० “अक्षराणामकारोऽस्मि द्वन्द्वःसामासिकस्य चेति” गीता। वर्णस्मारकलिपिसन्निवेशे, “अक्षरं वर्णनिर्म्माणं वर्णमप्यक्षरं विदुः। अक्षरं न क्षरं विद्यादश्नोतेर्वा सरेऽक्षरमिति” उज्ज्वल०। उदके मोक्षे च न०। अक्षरचण = त्रि० अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चणप्। लेखनाजीवके। अक्षर(चु)चञ्चु = त्रि० अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर + चु(च)ञ्चुप्। लेखनाजीवके। अक्षरच्छन्दस् = न० अक्षरेण वर्णसंख्यया कृतं छन्दः। वर्णवृत्ते “छन्दस्तु द्विविधं प्रोक्तं वृत्तं जातिरिति द्विधा वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेदिति” छन्दोम० तस्य च तत्कृतत्वात्तथात्वम्। अक्षरं निश्चलं छन्दोऽभिप्रायोऽस्य ब०। परमेश्वरे पु० दृढाध्यवसाये त्रि०। अक्षरजननी = स्त्री अक्षराणां जननीव। लेखन्याम् (कलम्)। अक्षरजीवक = त्रि० अक्षरेण तल्लिपिलेखनेन जीवति जीवण्वुल् ३ त०। अक्षरलेखनोपजीवके। अक्षरतूलिका = स्त्री अक्षराणां तल्लिपिलेखानां तूलिकेव साधनत्वात्। लेखन्याम् (कलम्)। अक्षरन्यास = पु० अक्षराणि तत्स्मारकाकारविशेषा न्यस्यन्ते अत्र + नि + अस–आधारे घञ् ६ त०। लिप्याम्, पत्रिकायाम्। भावे घञ् ६ त०। अक्षरस्मारकरेखाद्याकारविशेषलेखने, हृदयाद्याधारस्पर्शपूर्ब्बकं तत्तदक्षराणां स्मरणोच्चारणरूपे तन्त्रप्रसिद्धे वर्ण्णन्यासे, “सविन्दून् वा न्यसेदेतान् निर्विन्दून् वा यथाक्रममिति” तन्त्रम्। विस्तारः मातृकाशब्दार्थे द्रष्टव्यः। अक्षरविन्यासोऽप्युक्तार्थेषु। अक्षरजीविक = त्रि० अक्षरं तल्लिपिलेखनं जीविका वर्त्तनोपयोऽस्य। लिपिलेखनोपजीविनि। अक्षरजीविन् = त्रि० अक्षरेण तल्लिपिलेखनेन जीवति जीवणिनि ३ त०। अक्षरलेखनेन वृत्तिनिर्वाहकारके। स्त्रियां ङीप्। अक्षरमुख = त्रि० अक्षराणि तन्मयानि शास्त्राणि वा मुखे यस्य। शास्त्राभिज्ञे अक्षराभिज्ञे च ६ त०। अकाररूपे वर्णेन० अक्षरशस् = अव्य० अक्षरमक्षरमिति वीप्साथ कारके शस्। प्रत्यक्षरमित्यर्थे, “पच्छ अक्षरशः इति” गृह्यम्। अक्षरसंस्थान = न० अक्षराणां तत्स्मारकरेखाविशेषाणां संस्थानमत्र ब०। वर्ण्णस्मारक–रेखाविशेषयुक्त–लिप्याम्। “लिखिताक्षरसंस्थानमित्यमरः”। अक्षराङ्ग = न० अक्षराणामङ्गं तत्स्मारकरेखाविशेषाणामवयवः ६ त०। लिप्याम्, लेखनसाधनद्रव्ये च। अक्षराज = पु० अक्षेण तत्क्रीडया राजेव। द्यूतासक्ते। अक्षरी = स्त्री अश्नुते गगनाभोगं मेघैः अश–सरन् गौ० ङीष्। वर्षायाम् अक्षवती = स्त्री अक्षा पाशकाः साधनत्वेन विद्यन्तेऽत्र अक्ष + मतुप् मस्य वः ङीप्। द्यूतक्रीडायाम्। अक्षवाट = पु० अक्षाणां पाशकक्रीडानां वाटः वासस्थानम्। द्यूतस्थाने, पाशकाधारे फलके च। अक्षस्य रथचक्र क्षुण्णस्थानस्येव वाटः। मल्लभूमौ तत्र हि रथचक्रक्षुण्णपांशुसदृशपांशुमत्त्वात् तत्सदृशत्वम्। अक्षविद् = त्रि० अक्षं पाशकक्रीडां व्यवहारं वा वेत्ति विदक्विप्। अक्षविद्याभिज्ञे व्यवहाराभिज्ञे च अक्षवेत्त्रादयो ऽप्यत्र। स्त्रियाम् अक्षवेत्त्री। अक्षविद्या = स्त्री ६ त०। पाशकादिद्यूतविद्यायाम्। अक्षवृत्त = न० अक्षं राशिचक्ररूपं वृत्तं वेष्टनाकारं कोण शून्यं क्षेत्रम्। राशिचक्ररूपे वृत्तक्षेत्रे। अक्षे पाशक क्रीडायां वृत्तः व्यापृतः ७ त०। पाशकक्रीडासक्ते “यदक्षवृत्तमनु दत्तं न एतदिति” श्रुतिः। अक्षशौण्ड = पु० अक्षेषु तत्क्रीडायां शौण्डः प्रवीणः ७ त०। द्यूतक्रीडाकुशले। अक्षसूत्र = न० अक्षस्य जपमालायाः सूत्रम्। जपमालाश्रय साधने सूत्रे “साक्षसूत्रकमण्डलुरिति” पुराणम्। अक्षाग्रकीलक = न० अक्षस्य रथनाभिक्षेत्रस्याग्रनद्धं कीलकम्। ६ त०। चक्रनाभिक्षेत्राग्रप्रोते कीलके। अक्षानह् = न० अक्षे चक्रे आनह्यते बध्यते आ + नहक्विप्। चक्रसंबद्धे काष्ठभेदे। “अक्षानहो नह्यतनोत सौम्या” इति वेदः। अक्षान्ति = स्त्री० क्षम–क्तिन् विरोध्यर्थे न० त०। ईर्ष्यायां, क्रोधे च। न० ब०। क्षमाशून्ये त्रि०। अक्षारलवण = त्रि० क्षारेण उषरमृत्तिकया निर्वृत्तं अण् क्षारं कृत्तिमं लवणं न० त०। अकृत्रिमलवणे “मुन्यन्नानि पयः सोमोमांसं यच्चानुपाकृतम्। अक्षारलवणञ्चैवेति” मनुः। “चतुर्थकालमश्नीयादक्षारलवणं तथेति” मनुः अक्षारलवणमकृत्रिमलवणमितिप्राय० रघु०। क्षारलवणभिन्ने सैन्धवलवणे न०। “नैतस्यां रात्रावन्नं पचेयुस्त्रिरात्रमक्षारलवणान्नाशिनः स्युर्द्वादशरात्रं महागुरुष्विति, आश्वनायनगृह्यम्। अक्षारलक्षणं क्षारमृत्तिकादि–कृतलवणभिन्नं सैन्धवं सम्भारि चेति शु० रघु०। “गोक्षीरं गोघृतञ्चैव धान्यमुद्गास्तिलायवाः। सामुद्रं सैन्धवञ्चैव अक्षारलवणं स्मृतम्” इति स्मृत्युक्ते गोघृतादिद्रव्यगणे च। अक्षावपन = न० अक्षान् पाशकान् आवपति क्षिपत्यस्मिन् आ + वप–आधारे ल्युट् ६ त०। पाशकपातनाधारे फलके। अक्षावली = स्त्री ६० त०। जपसाधन–रुद्राक्षवीजावलौ जपमालायाम् “रक्षावलीमिवाक्षावलीं कण्ठेनोद्वहन्ती” तिकाद०। अक्षावाप = त्रि० अक्षान् पाशकान् आवपति क्षिपति आ + वप–अण् उप० स०। द्यूतकारके, तदध्यक्षे च। अक्षि = न० अश्नुते विषयान् अश–क्सि। नेत्रे, इन्द्रियमध्ये तस्यैव विषयदेशं प्राप्य विषयग्राहकत्वं सर्व्ववादिसस्मतमन्येषान्तु सर्वमते न तथात्वमतोऽस्य विषयव्यापकता। एतदन्त बहुव्रीहेः स्वाङ्गपरत्वे षजन्तता पद्माक्षः पद्माक्षी, अस्वाङ्गपरत्वे अजन्तता दीर्घाक्षा वेणुयष्टिः, अव्ययीभावे अजन्तता प्रत्यक्षं समक्षमित्यादि तत्पुरुषे ऽस्वाङ्गपरत्वेऽजन्तता गवाक्षः। इदञ्च शब्दादिषु वाह्येन्द्रियग्राह्यविशेषगुणेषु मध्ये रूपस्यैव ग्राहकतया तैजसं नेत्रगोलकेऽधिष्ठितं किञ्चित् वस्तु। तैजसत्वाच्चास्य सूर्य्यादिकिरणवदाशुदूरपर्य्यन्तानुधावनमागमनञ्च। तच्च परमाणुतुल्यमिति नैयायिदयः तदपेक्षया स्थूलमिति सांख्यादयः। उभयमतेऽपि न तस्य प्रत्यक्षयोग्यता। तदाधारगोलके द्वे वाह्ये आन्तरणि च चत्वारि कोशवत् पटलानि, मांसादयः पञ्चांशाः, पक्ष्मादीनि पञ्च मण्डलानि षट् सन्धयश्च सन्ति। तद्विरणं यथा “विद्याद्द्व्यङ्कुलबाहुल्यं स्वाद्भुष्ठोदरसम्मितम्। द्व्यङ्कुलं सर्व्वतः सार्द्ध्वं भिषग्नयनवुद्बुदम्।। सुवृत्तं गोस्तनाकारं सर्ब्बभूतगुणोद्भवम्। पलं भुवो, ऽग्नितो, रक्तं, वातात् कृष्णं, सितं जलात्।। आकाशादश्रुमार्गाश्च जायन्ते नेत्रवुद्बुदे। दृष्टिञ्चात्र तथा वक्ष्ये यथावादीद्विशारदः।। नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते। कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः।। मण्डलानि च सन्धीर्श्च पटलानि च लोचने। यथाक्रमं विजानीयात् पञ्च षट् च षडेव च।। पक्ष्मवर्त्मश्वेतकृष्णदृष्टीनां (५) मण्डलानि तु। अनुपूर्ब्बन्तु तन्मध्याश्चत्वारोऽन्ये यथोत्तरम्।। पक्ष्मवर्त्मगतः सन्धिर्वर्त्म शुक्लगतोऽपरः। शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः।। ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः। द्वे वर्त्मपटले विद्याच्चत्वार्य्यन्यानि चाक्षणि। जायते तिमिरं येषु व्याधिः परमदारुणः। तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितम्।। मेदस्तृतीयं पटलमाश्रितन्त्वक्षि चापरम्। पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते इति शुश्रुते।। अक्षिक = पु० अक्षाय चक्रावयवाय हितम् ठन्। रञ्जनद्रुमे (आतैच)। अक्षिकूटक = न० अक्ष्णः कूट इव कन्। नेत्रगोलके नेत्रतारायाञ्च। अक्षिगत = त्रि० अक्ष्णि गतः सर्व्वदाभावनावशादक्ष्यसन्निकृष्टोऽपि उपस्थित इव। द्वेष्ये शत्रौ नेत्रगोचरे च। “त्वयि किलाक्षिगते नयनैस्त्रिभिरिति नै०। अक्षितर = न० अक्षीव तरति तॄ–अच्। जले निर्म्मलत्वान्नेत्र तुल्यत्वम्। अक्षिभू = स्त्री अक्ष्णः भूर्विषयः। चक्षुर्गोचरे प्रत्यक्षे, सत्ये नेत्रदृष्टवस्तुन एव सत्यतासंवादितया तस्य सत्यत्वम्। “सत्यस्याक्षिभुवो यथा, इति श्रुतिः। अक्षिभेषज = न० ६ त० नेत्ररोगविशेषनिवारके पट्टिकालोध्रवृक्षे। अक्षिभ्रुव = न० भ्रुवौ च अक्षिणी च समा० द्व०। राजदन्तादि० अक्षिशब्दस्य बह्वच्कत्वेऽपि पूर्ब्बनि० अच्समा०। भ्रूनेत्रसंघाते “सौमित्रिरक्षिभ्रुवमुज्जिहान” इति भट्टिः। अक्षिव = पु० अक्षि वातिं प्रीणाति अञ्जनेन वा–क। (सजना) शोभाञ्जनवृक्षे सामुद्रलवणे च। अक्षिविकूणित = न० अक्ष्णः विकूणितं लज्जादिना सम्यक् प्रसाराभावात् सङ्कोचोय त्र। अपाङ्गदर्शने कटाक्ष पाते अक्षीव = न० न क्षीवते माद्यति क्षीव–क, क्त वा न० त०। शोभाञ्जने (सजना) सामुद्रलवणे च। मत्तभिन्ने त्रि०। बान्तोयमित्यन्ये। अक्षु = न० अक्ष–उ। शीघ्रे। “जूर्णो मक्षुवाहंसोयजत्रा” इति वेदः। अक्षुध्य = त्रि० अक्षुधे हितम् अक्षुध् + यत्। क्षुधाभावसाधने द्रव्ये। “अक्षुध्या अतृष्यास्ते गृहामास्मद्बिभीतनेति” वेदः। अक्षेत्र = न० अप्रशस्तं क्षेत्रं न० त०। शस्यानुत्पादके क्षेत्रे उपदेशानर्हे शिष्ये, अपात्रे च। “अक्षेत्रे वीजसुत्सृष्टमन्तरैव विनश्यतीति” पुरा०। अक्षेत्रविद् = त्रि० क्षेत्रं देहतत्त्वं तत्त्वतो न जानाति विद–क्विप् अस० स०। क्षेत्रतत्त्वानभिज्ञे आत्मत्वेन देहाभिमानिनि जीवे। “अक्षेत्रविद् क्षेत्रमिदं ह्यप्राट् प्रैति क्षेत्रविदानुशिष्ट” इति वेदः। अक्षेत्रिन् = पु० क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा मत्वर्थे इनि न० त०। क्षेत्रस्वामिभिन्ने। “येऽक्षेत्रिणो वीजवन्तः परक्षेत्रे प्रवापिन इति” स्मृतिः। अक्षोट = पु० अक्ष–ओट् अक्षस्यविभीतकस्येव उटानि पर्ण्णान्यस्य वा। पर्व्वतीयपीलुभेदे (आस्वरोट) स्वार्थे कन् तत्रैव। अक्षोड = पु० अक्ष–ओड अक्षः विभीतक इव ओडति पत्रैः संहन्यते उड–अच् वा। पर्व्वतीयपीलुवृक्षे (आखरोट) स्वार्थे कन् तत्रैव। अक्षोभ्य = त्रि० क्षोभ्यते विचाल्यते क्षुभ–णिच् कर्म्मणि यत् न० त०। भ्रमयितुमशक्ये “इक्ष्वाकुबलमक्षोभ्यमिति” पुरा०। तन्त्रोक्ते द्वितीयविद्यामन्त्रीपासके तद्देवतायाः शिरसि नागरूपेण स्थिते ऋषिभेदे पु०। “अक्षोभ्योऽस्याऋषिः प्रोक्त, इति तन्त्रम्। अक्षोभ्यकवच = न० अक्षोभाय हितमक्षोभ्यं कर्म्म०। तन्त्रोक्ते कवचभेदे तच्च तन्त्रसारे द्रष्टव्यम्। अक्षौहिणी = स्त्री ऊहः समूहः संविकल्पकज्ञानं वा सोऽस्यामस्ति इनि, अक्षाणां रथानां सर्व्वेषामिन्द्रियाणाम् “वा ऊहिनी णत्वं वृद्धिश्च। रथगजतुरङ्गपदाति–संख्याविशेषान्विते सेनासमूहे। “अक्षौहिण्यामित्यधिकैः सप्तत्या चाष्टभिः शतैः। संयुक्तानि सहस्राणि गजानामेकविंशतिः। एवमेव रथानान्तु संख्यानं कीर्त्तितं बुधैः। पञ्चषष्टिः सहस्राणि षट् शतानि दशैव तु। संख्यातास्तुरगास्तज्ज्ञैर्विना रथ्यतुरङ्गमैः। नॄणां शतसहस्रं तु सहस्राणि न वैवतु। शतानि त्रीणिचान्यानि पञ्चाशच्च पदातय इति। रथाः २१८७०। गजाः २१८७०। रथवाहकाश्वभिन्नाः अश्वाः ६५६१०। पदातयः १०९३५०। अक्ष्ण = त्रि० अश्नुते व्याप्नोति अश–क्स्न। व्यापके अखण्डे काले न० अक्ष्णया दक्षिणेऽंसे श्रेण्यां श्रेण्यामंसे, इति वेदः। अखट्ट = पु० खट्ट–अच् न० त०। पियालवृक्षे (पियासाल) अखट्टि = स्त्री खट्ट–इ न० त० वा ङीप्। अशिष्ट्व्यवहारे। अखण्ड = त्रि० खडि–घञ् न० त०। संपूर्णे, सकले “अखण्डसाम्राज्यपतितत्वमेतीति” जातकम् खण्डभिन्ने पु० न०। अखण्डन = पु० न खण्ड्यते निरवयवत्वात् खडि–ल्युट् न० त० खण्डनानर्हे परमात्मनि, पूर्ण त्रि०। अखण्डित = त्रि० खडि–क्त न० त०। सम्पूर्णे, “खण्डितभिन्ने च। अखण्डितर्त्तु = पु० अखण्डितः ऋतुः तत्सम्पत् पुष्पादिप्रसवरूपा यत्र पुष्पादि–सर्वसम्पद्युक्ते ऋतुकाले। अखलीकार = पु० न खलः अखलस्तस्य कारः अखल + च्वि–कृ–घञ्। सप्रयोजनताविधाने अखलान्यथासम्पादने। अखेटिक = पु० न खेटत्यस्मात् खिट–भये षिकन्। वृक्षमात्रे। अखात = पु० न० खन–क्त न० त०। देवखाते, मनुष्याद्यखाते च। खातभिन्ने त्रि०। “खातमखातमुत सक्तमिति” वेदः। अखाद्य = त्रि० खाख–अर्हार्थे ण्यत् न० त०। भोजनानर्हे गोमांसादौ, भक्ष्यभिन्ने च। अखिद्र = त्रि० खिद–रक् न० त०। खेदरहिते “मरुतोयातेमखि द्रयामभिरिति” वेदः। अखिन्न = त्रि० खिद–भावे क्त त० ब०। क्लेशरहिते अनायाससाध्ये कर्म्मणि खेदरहिते कर्त्तरि च। कर्त्तरि क्त न० त०। अक्लिष्टे। अखिल = त्रि० न खिल्यते न कणशआदीयते खिल–क न० त०। समग्रे। खिलाभिन्ने कृष्टभूम्यादौ स्त्री। नास्ति खिलमवशिष्टं यस्य शेषशून्ये “वेदोऽखिलोधर्म्ममूलं स्मृतिशीले च तद्विदामिति” मनुः। तेन सिंहासं पैत्र्यमखिलं चारिमण्डलमिति” रघुः। “न निशाखिलयापि वापिका प्रससाद ग्रहिलेव मानिनीति” नै०।