Sorry, your browser does not support JavaScript!
सर्व-वेदान्त-सिद्धान्त-सार-सङ्ग्रह

Table of Contents

Vs. 0001 Vs. 0050 Vs. 0100 Vs. 0150 Vs. 0200 Vs. 0250 Vs. 0300 Vs. 0350 Vs. 0400 Vs. 0450 Vs. 0500 Vs. 0550 Vs. 0600 Vs. 0650 Vs. 0700 Vs. 0750 Vs. 0800 Vs. 0850 Vs. 0900 Vs. 0950 Vs. 1000

Format by A.K. Aruna, 2020 ver.3.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view.
This is the text called Sarva Vedānta Siddhānta Sāra Saṅgraha (A Summary of the Essense of the Established Conclusions from All the Upaniṣads) attributed to Ādi Saṅkarācarya. The Sanskrit prose order underneath each verse is adopted from the Hindi translation by Pandit Rāmasvarūpaśarmā.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

ओं, स॒ ह ना॑व् अवतु। स॒ ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्विना॒व् अधी॑तम् अस्तु॒ मा वि॑द्विषा॒वहै᳚। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥
Om; tad, ha, asmad, √av. Tad, ha, asmad, √bhuj. Saha, vīrya, √kṛ. Tejasvin, adhīta, √as, mā, vi-√dviṣ. Om, śānti, śānti, śānti.
सः ह नै अवतु। सः ह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनौ [=तेजस्विनोः आवयोः] अधीतं अस्तु (अथवा, नौ अधीतं तेजस्वि अस्तु)। मा विद्विषावहै। ओम् शान्तिः शान्तिः शान्तिः॥

-> मङ्गलाचरणम् (1)
-> अनुबन्ध-निरूपणम् (5)
-> साधन-चतुष्टयम् (12)
-> नित्यानित्य-वस्तु-विवेकः (16)
-> वैराग्यम् (22)
-> अथ काम-दोष-निरूपणम् (48)
-> काम-विजयोपाय: (62)
-> धन-दोष-निरूपणम् (70)
-> विरक्ति-फलोपसंहारः (84)
-> शमादि-साधन-निरूपणम् (94)
-> शमः (95)
-> मनः-प्रसाद-साधनम् (104)
-> ब्रह्म-चर्यम् (109)
-> अहिंसा (111)
-> दयाऽवक्रते (112)
-> वैतृष्ण्यम् (113)
-> शौचम् (114)
-> दम्भः (116)
-> सत्यम् (117)
-> निर्ममता (118)
-> स्थैर्यम् (119)
-> अभिमान-विसर्जनम् (120)
-> ईश्वर-ध्यानम् (121)
-> ब्रह्मवित्-सह-वासः (122)
-> ज्ञान-निष्ठा (123)
-> समत्वम् (124)
-> मानानासक्तिः (125)
-> एकान्त-शीलता (126)
-> मुमुक्षुत्वम् (127)
-> दमः (128)
-> तितिक्षा (137)
-> सन्न्यासः (151)
-> श्रद्धा(210)
-> चित्त-समाधानम् (218)
-> मुमुक्षुत्वम् (226)
-> शिष्य उवाच (271)
-> श्रीगुरुर् उवाच (278)
-> आत्मानात्म-विवेकः (294)
-> अध्यारोपः (297)
-> अज्ञानम्(299)
-> ईश्वरः(309)
-> प्रत्यग्-आत्मा(318)
-> जगत्-सर्गः(329)
-> लिङ्ग-शरीरम् (338)
-> ज्ञानेन्द्रियाणि (341)
-> अन्तःकरणम् (342)
-> विज्ञानमय-कोशः (350)
-> मनोमय-कोशः (355)
-> चित्त-प्रसादः (363)
-> सत्त्व-वृत्ति-हेतुः (369)
-> प्राणमय-कोशः (375)
-> स्थूल-प्रपञ्चः (396)
-> पञ्ची-करणम् (398)
-> भूत-गुणाः (409)
-> इन्द्रिय-देवानि (416)
-> ब्रह्माण्ड-सृष्टिः (430)
-> चतुर्-विध-जन्तवः (434)
-> आत्म-निरूपणम् (457)
-> शिष्य उवाच (466)
-> श्रीगुरुर् उवाच (473)
-> पुत्रात्म-वादः (522)
-> देहात्म-वादः (526)
-> इन्द्रियात्म-वादः (536)
-> प्राणात्म-वादः (542)
-> मनसात्म-वादः (547)
-> बुद्ध्यात्म-वादः (553)
-> अज्ञानात्म-वादः (558)
-> ज्ञानाज्ञानत्म-वादः (565)
-> शून्यात्म-वादः (568)
-> शिष्य उवाच (581)
-> गुरुर् उवाच (584)
-> शून्य-वाद-निरासः (586)
-> आत्मन आनन्दत्व-निरूपणम् (623)
-> शिष्य उवाच (632)
-> गुरुर् उवाच (635)
-> आत्मान्यस्य सुख-रूपत्व-निरासः (635)
-> आत्मनोऽद्वितीयत्वम् (673)
-> शिष्य उवाच (700)
-> गुरुर् उवाच (703)
-> तत्-त्वं-पदार्थः (703)
-> तत्-पदार्थः (708)
-> वाच्यार्थ-विरोधः (709)
-> त्वं-पदार्थः (722)
-> लक्षणार्थ-निरूपणम् (733)
-> अखण्डार्थः (760)
-> शिष्य उवाच (793)
-> श्रीगुरुर् उवाच (795)
-> अधिकारि-निरूपणम् (795)
-> श्रवणादि-निरूपणम् (809)
-> सविकल्प-समाधिः (819)
-> निर्विकल्प-समाधिः (823)
-> दृश्यानुविद्ध-सविकल्पः (832)
-> ज्ञान-निष्ठायां कर्मानुपयोगः (852)
-> निर्विकल्प-समाधिः (873)
-> बाह्य-समाधि-प्रकारः (878)
-> योगः (909)
-> अष्टाव् अङ्गानि (910)
-> शिष्यस्य स्वानुभवः (924)
-> ज्ञान-भूमिका-लक्षणम् (938)
-> शुभेच्छा (941)
-> विचारणा (942)
-> तनु-मानसी (943)
-> सत्त्वापत्तिः (944)
-> संसक्ति-नामिका (945)
-> पदार्थाभावना (946)
-> तुर्य-गा (948)
-> जाग्रज्-जाग्रत् (949)
-> जाग्रत्-स्वप्तिः (950)
-> जाग्रत्-सुप्तिः (951)
-> स्वप्न-जाग्रत् (952)
-> स्वप्न-स्वप्नः (953)
-> स्वप्न-सुप्तिः (954)
-> सुप्ति-जाग्रत् (955)
-> सुप्ति-स्वप्नः (956)
-> सुप्ति-सुप्तिः (957)
-> तुर्याख्या (958)
-> विदेह-मुक्तः (964)

Go to Top Menu

vs.01 vs.02 vs.03 vs.04 vs.05 vs.06 vs.07 vs.08 vs.09 vs.10 vs.11 vs.12 vs.13 vs.14 vs.15 vs.16 vs.17 vs.18 vs.19 vs.20 vs.21 vs.22 vs.23 vs.24 vs.25 vs.26 vs.27 vs.28 vs.29 vs.30 vs.31 vs.32 vs.33 vs.34 vs.35 vs.36 vs.37 vs.38 vs.39 vs.40 vs.41 vs.42 vs.43 vs.44 vs.45 vs.46 vs.47 vs.48 vs.49

यस्य वन्दनात् अखण्डानन्द-सन्दोहः जायते तम् चिदानन्द-तनुम् गोविन्दम् गुरुम् अहम् वन्दे।
अखण्डम् सच्-चिद्-आनन्दम् अवाङ्मन-सगोचरम् अखिलाधारम् आत्मानम् अभीष्ट-सिद्धये आश्रये।
यदालम्बः सताम् प्रत्यूह-सम्भवम् दरम् हन्ति तद् दयालम्बम् लम्बोदर-पदाम्बुजम् आलम्बे।
प्रेक्षावताम् मुमुक्षूणाम् सुख-बोधोपपत्तये वेदान्त-शास्त्र-सिद्धान्त-सार-सङ्ग्रहः उच्यते।
यद् शास्त्रस्य मूलम् निर्दिष्टम् अस्य शास्त्रानुसारित्वात् तद् एव अनुबन्ध-चतुष्टयम् इह उच्यते।
अधिकारी च विषयः च सम्बन्धः प्रयोजनम् (एतद्) शास्त्रारम्भ-फलम् अनुबन्ध-चतुष्टयम् प्राहुः।
चतुर्भिः साधनैः सम्यक् सम्पन्नः युक्ति-दक्षिणः मेधावी विद्वान् पुरुषः अत्र अधिकारी सम्मतः।
यत्र सर्व-वेदान्तानाम् समन्वयः दृश्यते (तद्) जीव-ब्रह्मैक्य-लक्षणम् शुद्ध-चैतन्यम् एव विषयः।
एतद्-ऐक्य-प्रमेयस्य च श्रुतेः प्रमाणस्य अपि बोध्य-बोधक-लक्षणः सम्बन्धः सद्भिः कथ्यते।
सन्तः ब्रह्मात्मैकत्व-विज्ञानम् प्रयोजनम् प्राहुः येन सद्यः निःशेष-संसार-बन्धात् प्रमुच्यते।
फल-लक्षणम् प्रयोजनम् सम्प्रवृत्तेः कारणम् (भवति) मन्दः अपि प्रयोजनम् अनुद्दिश्य न प्रवर्तते।
यस्य धीमतः पुंसः साधन-चतुष्टय-सम्पत्तिः अस्ति तस्य एव एतत्-फल-सिद्धिः (भवति) किञ्चिद्-ऊनस्य अन्यस्य न।
परमर्षयः अत्र चत्वारि साधनानि वदन्ति येषाम् सद्भावे मुक्तिः सिध्यति अभावे तु न ध्रुवम्।
नित्यानित्य-वस्तु-विवेकः आद्यम् साधनम् मतम् इह अमुत्र अर्थ-फल-भोग-विरागः द्वितीयकम्।
शमादि-षट्क-सम्पत्तिः तृतीयम् साधनम् मतम् मुमुक्षुत्वम् तु शास्त्र-सम्मतम् तुरीयम् साधनम्।
ब्रह्म एव नित्यम् अन्यद् तु हि अनित्यम् इति वेदनम् अयम् सः नित्यानित्य-वस्तु-विवेकः इति कथ्यते।
त्रिषु कालेषु दर्शनात् मृदादि-कारणम् नित्यम् तत्-कार्यम् घटाद्यनित्यम् यतः तन्-नाशः ईक्ष्यते।
तथा एव एतद् सर्वम् जगत् ब्रह्म-कार्यतः अनित्यम् तत्-कारणम् परम् ब्रह्म मृदादिवत् नित्यम् भवेत्।
तस्मात् एतस्मात् वै इति श्रुतिः अपि अस्य ब्रह्मणः सकाशात् सर्गम् वक्ति तस्मात् अनित्यत्वे संशयः न।
सावयवत्वेन सर्वस्य अनित्यत्वे सर्वतः सिद्धे वैकुण्ठादिषु नित्यत्व-मतिः मूढ-बुद्धीनाम् भ्रमः एव।
एवम् अनित्यत्वम् च नित्यत्वम् (भवति) श्रुति-युक्तिभिः इति यद् विवेचनम् नित्यानित्य-विवेकः कथ्यते।
ऐहिकामुष्मिकार्थेषु हि अनित्यत्वेन निश्चयात् यद् नैःस्पृह्यम् तुच्छ-बुद्ध्या तद् वैराग्यम् इति ईर्यते।
नित्यानित्य-पदार्थ-विवेकात् स्रक्-चन्दन-वनितादौ सर्वत्र अनित्य-वस्तुनि पुरुषस्य विरक्तिः सद्यः जायते।
भोग्येषु काकस्य विष्ठावत् (या) असह्य-बुद्धिः सा तीव्र-विरक्तिः इष्यते सन्तः भोग्येषु दोषेक्षणम् एव विरक्ति-तीव्रत्व-निदानम् आहुः।
यत्र वस्तुनि दोषः प्रदृश्यते तत्र पुंसः पुनः प्रवृत्तिः न अस्ति अन्तर्महारोगवतीम् विजानन् कः नाम रूपिणीम् अपि वेश्याम् व्रजेत्।
अत्र अपि च अन्यत्र च विद्यमान-पदार्थ-सम्मर्शनम् एव कार्यम् यथा-प्रकारार्थ-गुणाभिमर्शनम् तदीय-दोषम् सन्दर्शयति एव।
स्वमातुः कुक्षौ मल-मूत्र-मध्ये स्थितिम् च तदा विट्क्रिमि-दंशनम् तदीय-कौक्षेयक-वह्नि-दाहम् विचार्य कः वा विरतिम् न याति।
तदा तद् स्वकीय-विण्मूत्र-विसर्जनम् यद् उत्तान-गत्या शयनम् च बाल-ग्रहाद्याहति-भाक् शैशवम् (एतद्) विचार्य कः वा विरतिम् न याति।
कुमार-भावे स्वीयैः परैः ताडनम् अज्ञ-भावम् अत्यन्त-चापल्यम् असत्-क्रियाम् च प्रतिषिद्ध-वृत्तिम् विचार्य कः वा विरतिम् न याति।
मदोद्धतिम् मान्य-तिरस्कृतिम् कामातुरत्वम् समयातिलङ्घनम् च ताम् ताम् युवत्योदित-दुष्ट-चेष्टाम् विचार्य कः वा विरतिम् न याति।
विरूपताम् सर्व-जनात् अवज्ञाम् सर्वत्र दैन्यम् निज-बुद्धि-हैन्यम् ताम् वृद्धत्व-सम्भावित-दुर्दशाम् विचार्य कः वा विरतिम् न याति।
पित्तज्वरार्शः-क्षय-गुल्म-शूल-श्लेष्मादि-रोगोदित-तीव्र-दुःखम् दुर्गन्धम् अस्वास्थ्यम् अनून-चिन्ताम् विचार्य कः वा विरतिम् न याति।
यमावलोकोदित-भीति-कम्प-मर्म-व्यथोच्छ्वास-गतीः च प्राण-प्रयाणे परिदृश्यमानाम् वेदनाम् विचार्य कः वा विरतिम् न याति।
अङ्गार-नद्याम् तपने कुम्भी-पाके वीच्याम् असि-पत्र-कानने अपि च यमस्य दूतैः क्रियमाण-बाधाम् विचार्य कः वा विरतिम् न याति।
पुण्य-क्षये नभः-स्थैः निपात्यमानान् शिथिली-कृताङ्गान् नक्षत्र-रूपेण दिवः च्युतान् पुण्य-कृतः तान् विचार्य कः वा विरतिम् न याति।
ईशोग्र-भीत्या ग्रथितान्तर्-अङ्गान् विपक्ष-लोकैः परिदूयमानान् वाय्वर्क-वह्नीन्द्र-मुखान् सुरेन्द्रान् विचार्य कः वा विरतिम् न याति।
मही-महेशम् आरभ्य ब्रह्मान्तम् सुख-तारतम्यम् श्रुत्या निरुक्तम् तद् तु औपाधिकम् न (इति) वास्तवम् चेद् आलोच्य कः वा विरतिम् न याति।
सालोक्य-सामीप्य-सरूपतादि-भेदः तु सत्-कर्म-विशेष-सिद्धः कर्म-सिद्धस्य तु नित्यता न इति विचार्य कः वा विरतिम् न याति।
लोके यत्र उच्चावचत्वान्वितम् गति-तारतम्यम् अस्ति अत्र तद् कृतम् इह यथा तद्वत् (अन्यत्र अपि) खलु दुःखम् इस्ति इति आलोच्य कः वा विरतिम् न याति।
लोके कः नाम विवेकी पुरुषः विनश्वरे तुच्छ-सुखे गृहादौ वृथा एव मोहात् म्रियमाण-जन्तून् नित्यम् अवेक्षमाणः रतिम् कुर्यात्।
विचार्यमाणे अत्र गृहे अपि वा योषिति वा पदार्थे किम् सुखम् अस्ति ये मायातमोऽन्धीकृत-चक्षुषः ते विवेक-शून्याः एव मुह्यन्ति।
अविचारित-रमणीयम् उदुम्बर-फलोपमम् सर्वम् भोग्यम् अज्ञानाम् उपभोग्यम् (भवेत्) तज्-ज्ञानाम् तु योषिति वा पदार्थे न।
तोये गते अपि सुषिरन् हातुम् अशक्तः कुलीरः यथा विमोहात् हि म्रियते तथा गेह-सुखानुषक्तः नरः भ्रमेण विनाशम् आयाति।
गुप्तिम् इच्छन् कोशक्रिमिः आत्म-देहम् तन्तुभिः आवेष्ट्य च आवेष्ट्य च स्वयम् एव विनिर्गन्तुम् अशक्तः सन् ततः तद्-अन्ते लग्नः च म्रियते।
यथा तथा गृहस्थः पुत्र-कलत्र-मित्र-स्नेहानुबन्धैः ग्रथितः कदा अपि वा तान् परिमुच्य गेहात् गन्तुम् न शक्तः मुधा एव म्रियते।
साधु विचार्यमाणे अस्य च कारागृहस्य को विशेषः प्रदृश्यते इह अपि कान्ता-सुखाभ्युत्थित-मोह-पाशैः पुंसः मुक्तेः प्रतीपत्वम् (सदा एव भवति)।
गृह-स्पृहा पाद-निबद्ध-शृङ्खला कान्ता-सुताशा पटु-कण्ठ-पाशः प्रबला धनाशा शीर्षे पतद्भूर्यशनिः हि प्राणान्त-हेतुः साक्षात् (भवति)।
रागिषु आशा-पाश-शतेन पाशित-पदः उत्थातुम् एव न क्षमः काम-क्रोध-मदादिभिः प्रतिभटैः अनिशम् संरक्ष्यमाणः त्रि-विधेषणा-पर-वशः कः संमोहावरणेन गोपनवतः संसार-कारागृहात् निर्गन्तुम् शक्नुयात्।
कामान्धकारेण निरुद्ध-दृष्टिः असति अपि अबला-स्वरूपे मुह्यति हि अन्ध-दृष्टेः असतः सतः वा सुखत्व-दुःखत्व-विचारणा न अस्ति।

Go to Top Menu

vs.50 vs.51 vs.52 vs.53 vs.54 vs.55 vs.56 vs.57 vs.58 vs.59 vs.60 vs.61 vs.62 vs.63 vs.64 vs.65 vs.66 vs.67 vs.68 vs.69 vs.70 vs.71 vs.72 vs.73 vs.74 vs.75 vs.76 vs.77 vs.78 vs.79 vs.80 vs.81 vs.82 vs.83 vs.84 vs.85 vs.86 vs.87 vs.88 vs.89 vs.90 vs.91 vs.92 vs.93 vs.94 vs.95 vs.96 vs.97 vs.98 vs.99

मुखम् श्लेष्मोद्गारि नासा स्रवन्मलवती लोचनम् अश्रुमत् वपुः स्वेद-स्रावि मलाभिपूर्णम् अभितः दुर्गन्ध-दुष्टम् अन्यद् वक्तुम् अशक्यम् क्वचिद् मनसा मन्तुम् एव न अर्हति ईदृशम् स्त्री-रूपम् कथम् सुमनसाम् नेत्रयोः पात्रीभवेत्।
यथा पतङ्गः दूरात् अग्नि-शिखाम् रम्यत्व-बुद्ध्या अवेक्ष्य विनिपत्य नश्यति तथा एषः नष्ट-दृक् सूक्ष्मम् विमुक्ति-मार्गम् कथम् निरीक्षेत।
तद्वत् अयम् जनः अपि नष्ट-दृष्टिः कामेन कान्ताम् परिगृह्य नश्यति (तथा) मांसास्थि-मज्जा-मल-मूत्र-पात्रम् स्त्रियम् स्वयम् रम्यतया एव पश्यति।
विवेकिनाम् मुमुक्षूणाम् कामः एव साक्षात् यमः कान्ता वैतरणी नदी निलयः तु यमालयः।
यमालये अपि वा गृहे नृणाम् ताप-त्रय-क्लेश-निवृत्तिः न उ अपि अस्ति मूढ-लोकः तु किञ्चिद् तद्-विरामम् समालोक्य सुखात्मना पश्यति।
विचार्यमाणे लोके यमस्य च कामस्य महत् तारतम्यम् अस्ति यमः अस्य अप्रियः सन् हितम् करोति कामः तु प्रियः सन् अनर्थम् कुरुते।
यमः असताम् एव अनर्थम् करोति सताम् तु हितः सन् सौख्यम् कुरुते कामः हि सताम् एव गतिम् निरुन्धन् अनर्थम् करोति असताम् नु का कथा।
(विधाना) स्वयम् एव विश्वस्य वृद्धिम् काङ्क्षन् प्रवर्तकम् कामि-जनम् ससर्ज तेन एव परिमुह्यमानः लोकः चन्द्रमसा एव अब्धिः (यथा) प्रवर्धते च।
कामः नाम महान् जगद्-भ्रमयिता अन्तरङ्गे स्वयम् स्थित्वा इतरेतराङ्गकगुणैः स्फुटम् हासैः च भावैः तौ स्त्री-पुंसौ अन्योन्यम् परिमोह्य नैज-तमसा प्रेमानुबन्धेन बद्ध्वा प्रपञ्च-रचनानम् संवर्धयन् ब्रह्महा भ्रामयति।
अतः सर्वस्य जन्तोः अन्तरङ्ग-स्थित-काम-वेगात् भोग्ये प्रवृत्तिः स्वतः एव सिद्धा चेद् अन्यथा अबोधितार्थेषु ध्रुवम् प्रवृत्तिः कथम् (भवति)।
तेन एव सर्व-जन्तूनाम् कामना बलवत्-तरा (भवति) अस्मिन् देहे जीर्यति अपि च कामना न एव जीर्यते।
यः बुद्धि-युक्तः विचक्षणः विषये दोषम् अवेक्ष्य काम-पाशेन मुक्तः सः मुक्तेः पथि गोचरः (जातः)।
अहम् सताम् सूक्ष्मम् कामस्य विजयोपायम् वक्ष्यामि सङ्कल्पस्य परित्यागः सुलभः उपायः मतः।
श्रुते अपि वा दृष्टे यस्मिन् कस्मिन् च भोग्ये वस्तुनि समीचीनत्व-धी-त्यागात् कर्हिचिद् कामः न उदेति।
सङ्कल्पः कामस्य बीजम् सङ्कल्पात् एव (कामः) जायते बीजे नष्टे अङ्कुरः इव तस्मिन् नष्टे (कामः) विनश्यति।
कः अपि नरः सम्यक्त्व-धिया विना भोग्यम् कामयितुम् समर्थः न एव यतः ततः काम-जयेच्छुः विषये एताम् सम्यक्त्व-बुद्धिम् निहन्यात्।
काम-जयेच्छुः नरः भोग्ये विषये एताम् सुखत्व-बुद्धिम् निहन्यात् हि यावत् पदार्थे सुखत्व-भ्रम-धीः तावत् कामम् जेतुम् न प्रभवेद्।
यथा-भूतार्थ-दर्शनम् च अनर्थ-चिन्तनम् सङ्कल्पानुदये हेतुः आभ्याम् अस्य अवकाशः न विद्यते।
रत्ने यदि शिला-बुद्धिः वा ततः भयम् जायते (तदा) समीचीनत्व-धीः न एति उपादेयत्व-धीः न अपि।
तद् वस्तुनि यथार्थ-दर्शनम् अपि अनर्थस्य चिन्तनम् सङ्कल्पस्य अपि कामस्य वधोपाय इष्यते।
भय-निबन्धनम् सतत-दुःख-संवर्धनम् प्रचण्डतरकर्दनम् स्फुटित-बन्धु-संवर्धनम् विशिष्ट-गुण-बाधनम् कृपण-धी-समाराधनम् धनम् मुक्ति-गति-साधनम् न भवति अपि हृच्-छोधनम् न (भवति)।
राज्ञः भयम् चोर-भयम् प्रमादात् भयम् तथा ज्ञाति-भयम् वस्तुतः च यतः धनम् भय-ग्रस्तम् अनर्थ-मूलम् सताम् न एव सुखाय कल्पते।
आर्जने रक्षणे दाने वा व्यये अपि वस्तुतः च सदा धनम् नॄणाम् दुःखम् एव सुख-साधनम् न (भवति)।
सताम् अपि पदार्थस्य लाभात् लोभः प्रवर्धते लोभात् विवेकः लुप्यते तस्मिन् लुप्ते विनश्यति।
अलाभे निःस्वत्वम् दहति लाभे अमुम् लोभः दहति तस्मात् सन्तापकम् वित्तम् कस्य सौख्यम् प्रयच्छति।
भोगेन जन्तोः मत्तता दानेन पुनर्-उद्भवः उभयथा वित्तम् वृथा एव अन्यथा गतिः एव न अस्ति।
धनेन मद-वृद्धिः स्यात् मदेन स्मृति-नाशनम् (भवति) स्मृति-नाशात् बुद्धि-नाशः (भवति) बुद्धि-नाशात् प्रणश्यति।
धनम् सुखयति एव इति अन्तर्-आशा-पिशाच्या दृढतरम् उपगूढः जडात्मा मूढ-लोकः तद्-उपान्ते सन्ततम् प्रेक्षमाणः निवसति पश्चात् तद् अपि एतस्य प्राणम् हृत्वा व्रजति।
सम्पन्नः अन्धवत् एव अपरम् किञ्चिद् चक्षुषा न उ वीक्षते सद्भिः वर्जित-मार्गः एव बालिशैः प्रोत्सारितः चरति तस्मिन् एव प्रतिपदं मुहुः स्खलन् गत्वा अन्ध-कूपे पतति अस्य अन्धत्व-निवर्तकौषधम् एव इदम् दारिद्र्यम् अञ्जनम् (भवति)।
वित्त-सम्प्राप्त्या लोभः क्रोधः च डम्भः (दम्भः) च मदः मत्सरः एव च वर्धते तद् चित्त-शोधनम् कथम् (भवति)।
वित्तस्य व्यय-सम्भवे अलाभात् द्वि-गुणम् दुःखम् (भवति) दुर्व्यये विदुषाम् अपि ततः अपि त्रि-गुणम् दुःखम् (भवति)।
भय-चिन्तानपायिना नित्याहितेन वित्तेन जन्तोः गृह-स्थेन अहिना यथा चित्त-स्वास्थ्यम् कुतः।
विजने कान्तारे वने जन-पदे सेतौ वा निरीतौ च चोरैः तथा इतरैः नरवरैः युक्तः अपि वा वियुक्तो अपि वा निःस्वः स्वस्थतया सुखेन वसति हि जनैः आद्रीयमाणः धनी सदा आकुल-मतिः पुत्रात् अपि भीतः च क्लिश्नाति एव।
तस्मात् अर्थः अनर्थस्य निदानम् (अस्ति) अनेन पुमर्थ-सिद्धिः न भवति ततः सन्तः प्रतिकूलम् सर्वम् अर्थम् संन्यस्य वनान्ते निवसन्ति।
श्रद्धा-भक्तिमतीम् गुणवतीम् सतीम् श्रुतान् सम्मतान् पुत्रान् अक्षय्यम् वसु-धानु-भोग-विभवैः श्रीसुन्दरम् मन्दिरम् सर्वम् नश्वरम् इति श्रुत्युक्तिभिः युक्तिभिः अवेत्य कवयः संन्यस्यन्ति अपरे तु तद् सुखम् इति (अवेत्य) दुःखार्णवे भ्राम्यन्ति।
मल-राशौ गेहे सुर-पदे इव सुखम् इति (मत्वा) ये अत्र कलत्र-क्षेत्र-पुत्रानुषक्त्या कृमयः इव रमन्ते तेषाम् मोक्ष-प्रसङ्गः न एव तु अपि तु निरय-गर्भावास-दुःख-प्रवाहः।
येषाम् दारापत्य-धनादिषु निराशा आशा स्यात् तेषाम् मोक्षाशाभिमुखी गतिः सिध्यति अन्येषाम् न।
सत्-कर्म-क्षय-पाप्मनाम् श्रुतिमताम् सिद्धात्मनाम् धीमताम् मुहुः युक्त्या इदम् नित्यानित्य-पदार्थ-शोधनम् कुर्वताम् तस्मात् उत्थ-महाविरक्त्य्-असिमताम् मोक्षैक-काङ्क्षावताम् धन्यानाम् स्त्रियादि-विषयेषु आशालताच्छेदनम् सुलभम् (भवति)।
बलिनः संसार-मृत्योः प्रवेष्टुम् लोके कान्ता च जिह्वा कनकम् च त्रीणि महान्ति द्वाराणि तु (सन्ति) तानि यः रुणद्धि तस्य मृत्योः भयम् न (भवति)।
मुक्ति-श्री-नगरस्य यद् दुर्जयतरम् आदिमम् द्वारम् अस्ति तस्य धनम् च युवती द्वे अररे (स्तः) ताभ्याम् बलवता कामाख्यार्गल-दारुणा द्वारम् दृढम् पिनद्धम् यः धीरः तु तद् एतद् त्रयम् भिनत्ति सः विमुक्ति-श्रियः सुखम् भोक्तुम् अर्हति।
विवेकाश्वम् आरूढस्य तीव्र-वैराग्य-खड्गिनः तितिक्षा-वर्म-युक्तस्य प्रतियोगी न दृश्यते
सन्तः विवेक-जाम् तीव्र-विरक्तिम् एव मुक्तेः निदानम् निगदन्ति तस्मात् विवेकी मुमुक्षुः ताम् विरतिम् प्रथमम् प्रयत्नात् सम्पादयेत्।
अजात-निर्वेदः पुमान् देह-बन्धम् जिहासितुम् न हि शक्नोति असौ निर्वेदः महान् बन्ध-भेदः (अस्ति)।
वैराग्य-रहिताः एव पण्डिताः अपि मोहिताः यमालये इव आलये त्रिविधैः तापैः क्लिश्नन्ति।
शमः दमः तितिक्षा उपरतिः श्रद्धा ततः परम् समाधानम् इति प्रोक्तम् एते शमादयः षड् एव (सन्ति)।
मनसः स्व-लक्ष्ये एक-वृत्त्या एव नियत-स्थितिः शम-लक्षण-वेदिभिः सद्भिः शमः इति उच्यते।
तत्तल्-लक्षण-वेदिभिः विपश्चिद्भिः उत्तमः मध्यमः च जघन्यः च एव इति त्रिधा निरूपितः।
स्व-विकारम् परित्यज्य वस्तुमात्रतया मनसः (या) स्थितिः सा ब्रह्म-निर्वाण-लक्षणा उत्तमा शान्तिः (उच्यते)।
धियः यद् प्रत्यक्-प्रत्यय-सन्तान-प्रवाह-करणम् (अस्ति) एषा शुद्ध-सत्त्वैक-लक्षणा मध्यमा शान्तिः (उच्यते)।
विषय-व्यापृतिम् च त्यक्त्वा श्रवणैक-मन-स्थितिः मनसः इतरा मिश्र-सत्त्वैक-लक्षणा शान्तिः (उच्यते)।

Go to Top Menu

vs.100 vs.101 vs.102 vs.103 vs.104 vs.105 vs.106 vs.107 vs.108 vs.109 vs.110 vs.111 vs.112 vs.113 vs.114 vs.115 vs.116 vs.117 vs.118 vs.119 vs.120 vs.121 vs.122 vs.123 vs.124 vs.125 vs.126 vs.127 vs.128 vs.129 vs.130 vs.131 vs.132 vs.133 vs.134 vs.135 vs.136 vs.137 vs.138 vs.139 vs.140 vs.141 vs.142 vs.143 vs.144 vs.145 vs.146 vs.147 vs.148 vs.149

प्राच्योदीच्याङ्ग-सद्-भावे शमः सिध्यति अन्यथा न तीव्रा विरक्तिः प्राच्याङ्गम् दमादयः उदीच्याङ्गम्।
कामः क्रोधः च लोभः च मदः मोहः च मत्सरः इमे षट् येन न जिताः तस्य शान्तिः न सिध्यति
यः तीव्र-मोक्षेच्छया विषवत् शब्दादि-विषयेभ्यो न निवर्तते तस्य भिक्षोः शान्तिः न सिध्यति।
येन देवः न आराधितः यस्य गुर्वनुग्रहः न उ यस्य हृदयम् वश्यम् न तस्य शान्तिः न सिध्यति।
यत्-सत्त्वे मनः-प्रसादः (भवति) यद-भावे न सिध्यति मनः-प्रसाद-सिद्ध्यर्थम् साधनम् बुधैः श्रूयताम्।
ब्रह्म-चर्यम् अहिंसा च भूतेषु दया अवक्रता विषयेषु अतिवैतृष्ण्यम् शौचम् दम्भ-विवर्जनम्।
सत्यम् निर्ममता स्थैर्यम् अभिमान-विसर्जनम् ईश्वर-ध्यान-परता ब्रह्मविद्भिः सह स्थितिः।
ज्ञान-शास्त्रैक-परता सुख-दुःखयोः समता मानानासक्तिः एकान्त-शीलता च मुमुक्षुता।
यस्य एतद् सर्वम् विद्यते तस्य चित्तम् प्रसीदति एतद्-धर्म-शून्यस्य तु प्रकारान्तर-कोटिभिः न।
स्त्रीणाम् स्मरणम् दर्शनम् गुण-कर्मानुकीर्तनम् तासु समीचीनत्व-धीः प्रीतिः मिथः सम्भाषणम्…
सह-वासः च संसर्गः (एवम्) अष्टधा मैथुनम् विदुः एतद्-विलक्षणम् ब्रह्म-चर्यम् चित्त-प्रसादकम् (अस्ति)।
वाङ्मनःकायैः प्राणिमात्रा-प्रपीडनम् कायेन मनसा गिरा सर्व-भूतेषु स्वात्मवत् अहिंसा (कथ्यते)।
(लोके या) अनुकम्पा वेदान्त-वेदिभिः सा दया एव प्रोक्ता करण-त्रितयेषु एक-रूपता अवक्रता मता॥
यथा एव काकविष्ठायाम् (तथा) ब्रह्मादि-स्थावरान्तेषु विषयेषु अनु वैराग्यम् तद् हि निर्मलम् वैराग्यम्।
बाह्यम् च आभ्यन्तरम् इति शौचम् द्विविधम् उच्यते मृज्-जलाभ्याम् कृतम् शौचम् शारीरकम् बाह्यम् स्मृतम्
मानसम् शौचम् आन्तरम् (अस्ति, तद् एव) अज्ञान-दूरी-करणम् (भवति) अन्तः-शौचे सम्यक् स्थिते नृणाम् बाह्यम् न आवश्यकम्।
द्रष्टरि (स्थिते) एव लोके यः ध्यान-पूजादिकम् करोति पारमार्थिक-धी-हीनः सः दम्भाचारः उच्यते।
पुंसः तथा अनाचरणम् बुधाः अदम्भित्वम् विदुः स्वेन यद् दृष्टम् च सम्यक् श्रुतम् तस्य एव भाषणम्।
सत्यम् इति उच्यते ब्रह्म सत्यम् इति अभिभाषणम् देहादिषु स्वकीयत्व-दृढ-बुद्धि-विसर्जनम्…
निर्ममत्वम् स्मृतम् येन बुधः कैवल्यम् लभते गुरु-वेदान्त-वचनैः निश्चितार्थे दृढ-स्थितिः।
तद्-एक-वृत्त्या तत् स्थैर्यम् वर्ष्मणः नैश्चल्यम् न तु विद्यैश्वर्य-तपो-रूप-कुल-वर्णाश्रमादिभिः…
सञ्जाताहङ्कृति-त्यागः तु अभिमान-विसर्जनम् (कथ्यते) त्रिभिः च करणैः वैषयिकीम् क्रियाम् सम्यक् हित्वा…
यद् स्वात्मैक-चिन्तनम् तद् ईश्वर-ध्यानम् ईरितम् छाया इव सर्वदा ब्रह्मविद्भिः सह स्थितिः वासः (कथ्यते)।
ज्ञान-शास्त्रे यद् यद् उक्तम् श्रवणादि-कमेषु कर्म-धी-हीनः यः निरतः (भवति) सः एव हि ज्ञान-निष्ठः (उच्यते)।
धन-कान्ता-ज्वरादीनाम् प्राप्त-काले सुखादिभिः विकार-हीनता एव सुख-दुःख-समानता स्यात्।
माम् श्रेष्ठम् पूज्यम् विदित्वा भुवि जनाः मानयन्तु इति आसक्त्या विहीनत्वम् मानानासक्तिः उच्यते।
अयम् सम्बाधः सच्-चिन्तनस्य विघ्नः ततः निर्जने स्थेयम् इति चेद् एकः एव अस्ति सा एव एकान्त-शीलता (उच्यते)।
कदा झटिति मे संसार-बन्ध-निर्मुक्तिः भवेत् इति या सुदृढा बुद्धिः सा मुमुक्षुता ईरिता।
बुद्धेः दोष-निवृत्तये ब्रह्म-चर्यादिभिः धर्मैः दण्डनम् दमः इति दम-शब्दार्थ-कोविदाः आहुः।
तत्तद्-वृत्ति-निरोधेन बाह्येन्द्रिय-विनिग्रहः (तम् एव) योगिनः मनसः शान्ति-साधनम् दमः इति आहुः।
इन्द्रियार्थेषु इन्द्रियेषु प्रवृत्तेषु यदृच्छया अनलः वायुम् इव मनः तानि एव अनुधावति।
इन्द्रियेषु निरुद्धेषु मनः स्वयम् वेगम् त्यक्त्वा सत्त्व-भावम् उपादत्ते तेन प्रसादः जायते।
चित्ते प्रसन्ने सति अस्य मुक्तिः सिध्यति अन्यथा न यद् सकलेन्द्रियाणाम् निरोधनम् (तद्) एव मनः-प्रसादस्य निदानम् बाह्येन्द्रिये साधु निरुध्यमाने मनसः बाह्यार्थ-भोगः वियुज्यते।
तेन चित्तम् स्व-दौष्ट्यम् परिमुच्य शनैः शनैः शान्तिम् उपाददाति मोक्षण-लक्षण-ज्ञाः चित्तस्य बाह्यार्थ-विमोक्षम् एव मोक्षम् विदुः।
दमम् विना मुमुक्षोः सुकरम् मनः-प्रसाद-हेतुम् साधु न विद्मः दमेन चित्तम् निज-दोष-जातम् विसृज्य शीघ्रम् शान्तिम् समुपैति।
प्रतिनियत-दिग्-देश-कालादि अवेक्ष्य प्राणायामात् यस्य मनसः निश्चलत्वम् भवति अस्य क्वचिद् अपि तया सम्यग्-दृष्ट्या प्रसादः न उ (भवेत्) तद् ऽदमः हन्यते (अतः) धीमान् अनलसः प्रयत्नात् चित्त-शान्त्यै दमम् कुर्यात्।
सर्वेन्द्रियाणाम् गति-निग्रहेण भोग्येषु दोषाद्यवमर्शनेन ईश-प्रसादात् गुरोः प्रसादात् च अचिरेण चित्तम् शान्तिम् समायाति।
प्रारब्ध-वेगतः यद् आध्यात्मिकादि दुःखम् प्राप्तम् अचिन्तया तत्-सहनम् तितिक्षा इति निगद्यते।
मुमुक्षोः तितिक्षा-सदृशी रक्षा न विद्यते असौ पविना न भिद्यते याम् एव (एत्य) धीराः सर्वान् कवची इव विघ्नान् तृणी-कृत्य मायाम् जयन्ति।
क्षमावताम् एव हि योग-सिद्धिः (च) स्वाराज्य-लक्ष्मी-सुख-भोग-सिद्धिः (भवति) क्षमा-विहीनाः वातैरः हताः पर्णचयाः द्रुमात् इव विघ्नैः निपतन्ति।
तत्-तदर्थिभिः तितिक्षया तपः दानम् यज्ञः तीर्थम् व्रतम् श्रुतम् भूतिः स्वर्गः च अपवर्गः प्राप्यते ।
ब्रह्म-चर्यम् अहिंसा च साधूनाम् अपि अगर्हणम् (अपि च अर्हणम्) पराक्षे-पादि-सहनम् तितिक्षोः एव सिध्यति।
सर्वेषु अपि साधनेषु तितिक्षा उत्तम-साधनम् यत्र दैविकाः अपि भौतिकाः विघ्नाः पलायन्ते।
विघ्नेभ्यः अनिवर्तित-चेतसः तितिक्षोः एव तु सर्वाः अणिमाद्याः समृद्धयः सिद्धयः सिध्यन्ति।
तस्मात् ईप्सित-कार्य-सिद्ध्यै मुमुक्षोः अधिका तितिक्षा सम्पादनीया तीव्रा मुमुक्षा च महती उपेक्षा च उभे तितिक्षा-सहकारि-कारणम्।
भिक्षुः यदि तत्तत्-काल-समागतामयततेः शान्त्यै प्रवृत्तः स्यात् तत्तत्-परिहारकौषध-रतः तच्-चिन्तने तत्-परः तद् श्रवणादि-धर्म-रहितः भूत्वा चेद् मृतः ततः (सः) किम् सिद्धम् फलम् आप्नुयात् उभयथा स्वार्थतः भ्रष्टः भवेत्।
योगम् अभ्यस्यतः भिक्षोः केशवः योगाच्चलित-चेतसः पुण्य-कृतान् लोकान् प्राप्य इत्यादि प्राह।
संन्यासम् कृत्वा एव तूष्णीम् एव मृतस्य हि न्यास-मात्रतः पुण्य-लोक-गतिम् भगवान् न तु ब्रूते।
संन्यसनात् एव सिद्धिम् न च समधिगच्छति इति अनुष्ठेय-सन्त्यागात् सिद्ध्यभावम् उवाच च।
तस्मात् उपागतम् तत्तद्-दुःखम् तितिक्षया सोढ्वा शक्त्यनुरूपेण शनैः शनैः श्रवणादि कुर्यात्।

Go to Top Menu

vs.150 vs.151 vs.152 vs.153 vs.154 vs.155 vs.156 vs.157 vs.158 vs.159 vs.160 vs.161 vs.162 vs.163 vs.164 vs.165 vs.166 vs.167 vs.168 vs.169 vs.170 vs.171 vs.172 vs.173 vs.174 vs.175 vs.176 vs.177 vs.178 vs.179 vs.180 vs.181 vs.182 vs.183 vs.184 vs.185 vs.186 vs.187 vs.188 vs.189 vs.190 vs.191 vs.192 vs.193 vs.194 vs.195 vs.196 vs.197 vs.198 vs.199

प्राप्त-दुःखासहिष्णुत्वे प्रयत्नतः साधितायाः तितिक्षायाः किञ्चिद् अपि प्रयोजनम् न दृश्यते।
साधनत्वेन दृष्टानाम् सर्वेषाम् अपि कर्मणाम् विधिना यः परित्यागः सः संन्यासः (इति) सताम् मतः।
कर्माणि उपरमयति इति उपरति-शब्देन न्यासः कथ्यते सर्वेषाम् न्यासेन हि विकर्मणाम् त्यागः श्रुत्या प्रोक्तः।
यतः कर्मणा साध्यमानस्य अनित्यत्वम् श्रूयते (तस्मात्) परमार्थिनः नित्य-फलेप्सोः अनेन कर्मणा किम्।
कर्म-साध्यम् फलम् उत्पाद्यम् आप्यम् संस्कार्यम् विकार्यम् चतुर्विधम् परिगण्यते इतः परम् अन्यद् न (विद्यते)।
ब्रह्म (यतः) स्वतः-सिद्धम् सर्वदाप्तम् शुद्धम् निर्मलम् (च) अक्रियम् (अस्ति) (तद्) एतद्-अन्यतरम् कदा भवितुम् न अर्हति।
अस्य कश्चिद् न च जनिता इति (अस्ति) आगमेन ब्रह्म कारणम् निषिध्यते तस्मात् तद् ब्रह्म उत्पाद्यम् न इष्यते।
आप्त्राप्ययोः तु चेद् भेदः (स्यात् तदा) आप्त्रा च आप्यम् अवाप्यते एतद् ब्रह्म आप्तृ-स्वरूपम् एव आप्यम् कदाचन न।
इह दर्पणादेः मलिनस्य एव संस्कारः इष्यते व्योमवत् नित्य-शुद्धस्य ब्रह्मणः संस्क्रिया न एव।
निर्मलम् अक्रियम् वस्तु केन दुष्टेन युज्येत यद्-योगात् आगतम् दोषम् संस्कारः विनिवर्तयेत्।
यतः केवलः च निर्गुणः इति नैर्गुण्यम् श्रूयते (अतः) निर्गुणस्य गुणाधानम् अपि न एव उपपद्यते।
सावयवस्य परिणामिनः क्षीरादेः वस्तुनः येन केन विकारित्वम् स्यात् निष्कर्म-वस्तुनः न उ (भवति)।
निष्कलम् निष्क्रियम् शान्तम् निरवद्यम् निरञ्जनम् इति एव वस्तुनः तत्त्वम् श्रुति-युक्ति-व्यवस्थितम्।
तस्मात् ब्रह्मणः कर्म-साध्यत्वम् कुतश्चन न अस्ति कर्म-साध्यम् तु अनित्यम् ब्रह्म हि सना-तनम् नित्यम् (अस्ति)।
कर्मणा चितः देहादिः लोकः यथा एवम् क्षीयते तथा एव पुण्य-कर्मणा सञ्चितः आमुष्मिकः लोकः (क्षीयते)।
अनित्यत्वे कृतकत्वम् हेतुः सर्वदा जागर्ति तस्मात् अनित्ये स्वर्गादौ कः नु पण्डितः मुह्यति।
जगद्-धेतोः तु नित्यत्वम् सर्वेषाम् अपि सम्मतम् श्रुतिः मुहुः अस्य एव जगद्धेतुत्वम् वावदीति।
इदम् सर्वम् ऐतद्-आत्म्यम् तद् सत्यम् इति च श्रुतिः जगद्धेतोः अस्य एव नित्यताम् ब्रूते सतः स्फुटम्।
(अम्र्तत्वम्) कर्मणा न प्रजया न धनेन इति श्रुतिः स्वयं कर्मणः मोक्ष-हेतुत्वम् साक्षात् एव निषेधति।
पुरुषस्य पर-ब्रह्मात्मता-लक्षणम् कैवल्यम् प्रत्यग्-ब्रह्म-विचार-पूर्वम् उभयोः एकत्व-बोधात् विना स्नानैः अपि न कीर्तनैः अपि जपैः कृच्छ्र-चान्द्रायणैः न उ वा अध्वर-यज्ञ-दान-निगमैः अपि न उ मन्त्र-तन्त्रैः अपि न उ सिध्यति।
ज्ञानात् एव तु कैवल्यम् (भवति) इति श्रुत्या अन्य-व्यावृत्ति-पूर्वकम् ज्ञानस्य मुक्ति-हेतुत्वम् निगद्यते।
विवेकिनः ब्रह्म-नित्यत्व-वेदिनः विरक्तस्य तद्-भावेच्छोः अनित्यार्थे तत्-सामग्र्ये ऽरतिः कुतः।
तस्माद् ससाधनम् स्वर्गादौ अनित्ये साधनत्वेन चोदितम् अपि च नित्यं नैमित्तिकं सर्वं कर्म…
परित्याज्यम् ब्रह्म-भावम् अभीप्सुना मुमुक्षुणा श्रवणम् च कर्म अपि मुमुक्षोः अपि साधनम् अस्तु।
द्वयम् हस्तवत् एतस्य स्वकार्यम् साधयिष्यति ऋजू-करण-कर्मणा यथा दीपः विजृम्भते।
तथा विहित-कर्मणा पुंसो बोधः (विजृम्भते) अतः ज्ञानम् सापेक्षितम् अथवा अपि समुच्चयम्…
मोक्षस्य साधनम् इति ब्रह्म-वादिनः वदन्ति विहित-कर्मणः त्यागः मुमुक्षोः कथम् युज्यते।
इति शङ्का मूढवत् पण्डितोत्तमैः न कर्तव्या कर्मणः फलम् अन्यद् तु श्रवणस्य फलम् पृथक्।
उभयत्र अधिकारिणोः सामग्र्योः च वैलक्षण्यम् च (अस्ति) कामी कर्मणि अधिकृतः निष्कामी श्रवणे मतः।
अर्थी समर्थः इत्यादि कर्मिणः लक्षणम् मतम् लोकान् परीक्ष्य इत्यादि मोक्ष-काङ्क्षिणः लक्षणम् (कथितम्)।
संन्यासी मोक्षाधिकारी (भवति) गृहस्थः किल कर्मणि (अधिकारी भवति) भार्या स्रुक्-स्रुवादि-परिग्रहः कर्मणः साधनम्।
शुश्रूषोः तु गुरुम् विना अन्य-साधनापेक्षा न एव कर्मणा अहङ्कारः उपरि उपरि भृशम् वर्धते।
श्रवणेन प्रतिक्षणम् अहङ्कारस्य विच्छित्तिः (भवति) कर्म-शास्त्रम् प्रवर्तकम् (च) ज्ञान-शास्त्रम् निवर्तकम् (अस्ति)।
इत्यादि अधिकारिणोः तत्-साधने वैपरीत्यम् च (विद्यते अतः) द्वयोः कदाचन परस्-परापेक्षा न विद्यते।
उभयत्र अधिकारिणोः च सामग्र्योः उभयोः तद्वद् विज्ञानम् ऊर्ध्वम् नयति क्रिया अधः प्रापयति।
यथा अग्नेः तृण-कूटस्य च तेजसः तिमिरस्य अन्योन्य-सापेक्षा कथम् (सम्भवेत्) अपि वा समुच्चयः कथम् (सम्भवेत्)।
तथा एव ज्ञान-कर्मणोः सह-योगः न घटते कर्म स्व-प्रतियोगिनः ज्ञानस्य किमु उपकुर्यात् यस्य संनिधिमात्रेण स्वयम् स्फूर्तिम् न ऋच्छति।
यथा कोटीन्धनाद्रिज्वलितः अपि वह्निः अर्कस्य ईषत् उपकर्तुम् न अर्हति तथा कर्म-सहस्र-कोटिः ज्ञानस्य (ईषत् उपकर्तुम् न अर्हति) किम् नु स्वयम् एव लीयते।
उभौ हस्तौ एक-कर्त्राश्रयौ कर्मणि अधिकृतौ (भवतः) तयोः सह-योगः युक्तः तथा ज्ञान-कर्मणोः न।
कर्त्रा कर्म कर्तुम् अकर्तुम् वा अन्यथा (कर्तुम्) अपि शक्यते तथा वस्तुनो ज्ञानम् कर्तृ-तन्त्रम् कदाचन न (भवति)।
प्रमाणेन यथा वस्तु तथा ज्ञानम् विजायते यत् किञ्चिद् कर्म वा युक्ति-कौशलम् च न अपेक्षते।
ज्ञानस्य वस्तु-तन्त्रत्वे संशयाद्य्-उदयः कथम् अतः ज्ञानम् वास्तवम् न (भवति) बुधैः इति न उ शङ्क्यताम्।
प्रमाणासौष्ठव-वृतम् संशयादि वास्तवम् न (भवति) वास्तवम् ज्ञानम् श्रुतिप्रमाणसुष्ठुत्वे भवति।
परम् वस्तु तावत् ब्रह्म (तद्) नित्यम् सत्यम् ध्रुवम् विभु (अस्ति) श्रुति-प्रमाणे (सति) तज्-ज्ञानम् निरपेक्षकम् स्यात् एव।
सम्यग्-दृष्टौ सत्याम् यथा रूप-ज्ञानम् (वास्तवम्) भवेत् तथा श्रुति-प्रमाणे सति एव वास्तवम् ज्ञानम् भवति।
पुरुषस्य हि चक्षुः रूपोपलब्धौ यद् किञ्चिद् कर्म न अपेक्षते तथा एव श्रवणादि-जन्यम् ज्ञानम् वस्तु-प्रकाशे निरपेक्षम् एव।
कर्म कर्म-तन्त्रम् शुभाशुभम् कर्तृ-तन्त्रम् विज्ञानम् प्रमाण-तन्त्रम् इदम् जगत् माया-तन्त्रम् भवेत्।
विद्याम् च अविद्याम् च इति इयम् सहोक्तिः सद्भिः सत्-कर्मोपासनयोः (सहोक्तिः) उपकृता आत्म-ज्ञान-कर्मणोः (सहोक्तिः) क्वापि तु न (अस्ति)।
नित्यानित्य-पदार्थ-बोध-रहितः च यः उभयत्र स्रगाद्य्-अर्थानाम् अनुभूति-लग्न-हृदयः (च) ऽनिर्विण्ण-बुद्धिः जनः (अस्ति) तस्य अस्य जडस्य एव कर्म श्रुत्या विहितम् अभितः विरज्य परमानन्दार्थिनः धीमतः मोक्षेच्छोः न तु विधीयते।
असौ यद् अहः एव मोक्षेच्छया विरज्यते तदा एव विदुषः मुमुक्षोः न्यासः तया एव परया श्रुत्या विहितः ततः च अयम् प्रामाणिकः इति सुधीभिः चेतसि निश्चितव्यः।

Go to Top Menu

vs.200 vs.201 vs.202 vs.203 vs.204 vs.205 vs.206 vs.207 vs.208 vs.209 vs.210 vs.211 vs.212 vs.213 vs.214 vs.215 vs.216 vs.217 vs.218 vs.219 vs.220 vs.221 vs.222 vs.223 vs.224 vs.225 vs.226 vs.227 vs.228 vs.229 vs.230 vs.231 vs.232 vs.233 vs.234 vs.235 vs.236 vs.237 vs.238 vs.239 vs.240 vs.241 vs.242 vs.243 vs.244 vs.245 vs.246 vs.247 vs.248 vs.249

अहम् न वेदैः न तपसा इत्यादिना भगवान् अपि स्वापरोक्षस्य वेदादेः साधनत्वम् निषेधति।
प्रवृत्तिः च निवृत्तिः च एते द्वे श्रुति-गोचरे जन्तुः प्रवृत्त्या बध्यते निवृत्त्या तु विमुच्यते।
यद् मूढस्य अपि क्वचिद् स्वबन्धः न अभिमतः ततः मोक्ष-काङ्क्षिभिः निवृत्तिः कर्म-संन्यासः कर्तव्यः।
यस्मात् ज्ञान-कर्मणोः सह-योगः तु न युज्यते तस्मात् ज्ञानेच्छुना ध्रुवम् प्रयत्नेन कर्म त्याज्यम्।
इष्ट-साधनता-बुद्ध्या गृहीतस्य अपि वस्तुनः पश्चात् फल्गुताम् विज्ञाय तद् पुनः कः प्रतीक्षते।
पूर्व-दृष्ट-वृत्तिभ्यः उपरमणम् उपरति-शब्दार्थः हि सः अयम् वृत्त्या मुख्यः च गौणः इति च द्वि-रूपताम् धत्ते।
वृत्तेः दृश्य-परित्यागः मुख्यार्थः इति कथ्यते कर्म-संन्यासः अङ्गतया गौणार्थः श्रुतेः मतः।
प्रधान-सिद्ध्यर्थम् पुंसः अङ्गस्य आश्रयणम् ध्रुवम् कर्तव्यम् (तद्) चेद् अङ्ग-हीनम् (भवेत् तर्हि) प्रधानम् न एव सिध्यति।
इहमुत्रार्थतः सुखात् सुविरक्तः सन् संन्यसेत् अविरक्तस्य संन्यासः अयाज्य-यागवत् निष्फलः (भवति)।
संन्यस्य यतिः ताम् ताम् पूर्व-विषय-स्मृतिम् न तु कुर्यात् यतः तत्-स्मरणे तस्य जुगुप्सा जायते।
गुरु-वेदान्त-वाक्येषु सत्यम् एव इति या निश्चयात्मिका बुद्धिः सा श्रद्धा मुक्ति-सिद्धये निदानम्।
श्रद्धावताम् सताम् एव समीरितः पुम्-अर्थः सिध्यति इतरेषाम् न (सिद्ध्यति) सुसूक्ष्मम् परमार्थ-तत्त्वम् उक्तम् सोम्य श्रद्धत्स्व इति वेदः च वक्ति।
श्रद्धा-विहीनस्य प्रवृत्तिः तु न (भवति) प्रवृत्ति-शून्यस्य साध्य-सिद्धिः न (भवति) अश्रद्धया एव च अभिहताः सर्वे संसार-महा-समुद्रे मज्जन्ति।
दैवे च वेदे च गुरौ च मन्त्रे तीर्थे महात्मनि अपि च भेषजे यथा यथा अस्य अन्तः श्रद्धा भवति तथा तथा पुंसाम् सिद्धिः उदेति।
सद्-भाव-निश्चयात् वस्तु अस्ति इति एव उपलब्धव्यम् तस्य सद्-भाव-निश्चयः शास्त्र-सिद्धया श्रद्धया (भवति)।
तस्मात् गुरु-वेदान्त-वाक्ययोः श्रद्धा सुसम्पाद्या श्रद्दधानस्य मुमुक्षोः फलम् सिध्यति अन्यथा न।
पुंसाम् यथार्थ-वादिता श्रद्धा-जनन-कारणम् ईश्वर-वाक्यत्वात् वेदस्य यथार्थत्वे संशयः न।
मुक्तस्य ईश्वर-रूपत्वात् गुरोः वाक् अपि तादृशी (अस्ति) तस्मात् धीमताम् सताम् तद्-वाक्ययोः श्रद्धा सिध्यति।
श्रुत्युक्तार्थावगाहाय ज्ञेय-वस्तुनि चित्तस्य सम्यक् आधानम् समाधानम् इति विदुषा ईर्यते।
पुमर्थ-सिद्धेः चित्तस्य साध्यैक-परत्वम् एव नियमेन कारणम् अन्यथा साध्यम् न एव सिध्यति ईषत् मनः-प्रमादे प्रयत्नः विफलः।
लक्ष्य-भेत्ता चित्तम् दृष्टिम् तथ अन्यद् करणम् च एकत्र हि बघ्नाति लक्ष्य-भेत्तुः किञ्चिद् प्रमादे सति यथा बाण-प्रयोगः विफलः (भवति) तथा (अत्र बोध्यम्)।
यतः चित्त-समाधानम् सिद्धेः असाधारण-कारणम् ततः मुमुक्षूणाम् अमुना सदा भवितव्यम्।
अत्यन्त-तीव्र-वैराग्यम् महत्तरा फल-लिप्सा एतद् तद् उभयम् समाधानस्य कारणम् विद्यात्।
श्रुतिः ब्रह्म-चर्यादि-मुक्तये बहिर्-अङ्गम् प्राह एतद् शमादि-षट्कम् एव बुधाः अन्तर्-अङ्गम् विदुः।
यतः हि बहिरङ्गात् अन्तरङ्गम् बलवत् (भवति) ततः जिज्ञासोः शमादि-षट्कम् अवश्यम् आन्तरम् भाव्यम्।
यथा अधीरस्य योद्धुः अस्त्र-सम्पदः न फलन्ति (तथा) अन्तरङ्ग-विहीनस्य कृत-श्रवण-कोटयः।
विद्वान् ब्रह्मात्मैकत्व-विज्ञानात् संसार-पाश-बन्धम् मोक्तुम् यद् इच्छति तद् मुमुक्षुत्वम् निगद्यते।
सर्वेषाम् तु साधनानाम् मुमुक्षा मूल-कारणम् (अस्ति यतः) अनिच्छोः अप्रवृत्तस्य श्रुतिः क्व तत्-फलम् क्व नु।
तीव्र-मध्यम-मन्दातिमन्दभेदाः मुमुक्षा चतुर्विधाः तत्-प्रकारः अपि कीर्त्यते बुधैः श्रूयताम्।
अनेक-रूपैः त्रिभिः तापैः नित्यम् सन्तप्यमानः क्षुभितान्तरात्मा अनर्थ-बुद्ध्या सर्वम् परिग्रहम् (यथा) जहाति सा मुमुक्षा तीव्रतरा।
तीव्रम् ताप-त्रयम् अवेक्ष्य वस्तु दृष्ट्वा कलत्रम् तनयान् विहातुम् द्वयोः मध्ये आत्मनः यद् लोडनम् एषा सा माध्यमिकी मुमुक्षा मता।
मोक्षस्य (साधवाय) कालः अस्ति मे अद्य त्वरा किम् भोगान् भुक्त्वा एव कृत-सर्व-कार्यः अथ इति अहम् मुक्त्यै यतिष्ये एषा बुद्धिः एव मन्दा मुमुक्षा कथिता।
प्रयातुः मार्गे मणि-लाभवत् मे मोक्षः यदि लभेत तर्हि धन्यः इति आशया मूढ-धियाम् या मतिः (भवति) सा एषा अतिमन्दा मुमुक्षा अभिमता।
जन्मानेक-सहस्रेषु तपसा आराधितेश्वरः तेन निःशेष-निर्धूत-हृदय-स्थित-कल्मषः (भवति)।
शास्त्रवित् गुण-दोष-ज्ञः भोग्यमात्रे विनिस्पृहः नित्यानित्य-पदार्थ-ज्ञः मुक्ति-कामः दृढ-व्रतः।
अग्निना निष्टप्तम् पात्रम् उद्वास्य (उधृत्य) यथा त्वरया जहाति तद्वत् च द्विजः तीव्र-मोक्षेच्छया गेहम् (जहाति)।
सः एव गुर्वनुग्रहात् सद्यः संसृतिं तरति यः तु तीव्र-मुमुक्षुः स्यात् सः जीवन् एव मुच्यते।
मध्यमः तु जन्मान्तरे (मुच्यते) तद्-अन्यः तु युगान्तरे (मुच्यते) चतुर्थः कल्प-कोट्याम् बन्धात् विमुच्यते वा न एव।
जन्तोः नृजन्म अतिदुर्लभम् विदुः पुंस्त्वम् ततः अपि (दुर्लभम् विदुः) च विवेकः ततः (अपि दुर्लभः) तद् एतद् त्रितयम् लब्ध्वा महात्मा सहसा विरक्तः मुक्त्यै यतेत।
जन्मनि जन्मनि पुत्र-मित्र-कलत्रादि-सुखम् (लभते) मर्त्यत्वम् पुरुषत्वम् च विवेकः च न लभ्यते।
जन्तुः सुदुर्लभतरम् नर-जन्म लब्ध्वा तत्र अपि पौरुषम् अतः सदसद्-विवेकम् च सम्प्राप्य यदि ऐहिक-सुखाभि-रतः स्यात् (तदा) तस्य कुमतेः पुरुषाधमस्य जन्म धिक्।
शुनकः सूकरः खरः नित्यम् खादते मोदते येषाम् वृत्तिः तैः समा (भवति) तेषाम् तु एषाम् कः विशेषः (अस्ति)।
यावत् रोगः (शरीरम्) न आश्रयते यावत् जरा न आक्रमते यावत् धीः न विपर्येति यावत् मृत्युम् न पश्यति।
तावत् एव सार-ग्रहण-तत्परः स्वस्थः विवेकी नरः भव-बन्ध-विमुक्तये आशु प्रयतेत।
देवर्षि-पितृ-मर्त्य-र्ण-बन्ध-मुक्ताः तु कोटिशः (भवति) यः कश्चिद् तु ब्रह्म-वित्तमः भव-बन्ध-विमुक्तः (भवति)।
अन्तर्बन्धेन बद्धस्य बहिर्बन्ध-मोचनैः किम् तद् कृतिभिः अन्तर्बन्ध-मुक्त्यर्थम् कृतिः क्रियताम्।
तीव्र-मुमुक्षुता कृति-पर्यवसाना एव मता यत्र कृतिः न उ दृश्यते (सा) अन्या तु रञ्जनामात्रा।
लघुत्व-बुद्ध्या गेहादि सर्वम् अपहाय स्वपतिना सौख्येच्छया अनलम् आविविक्षोः कान्ता-जनस्य या नियता सुदृढा त्वरा सा मुमुक्षोः एषा फलान्त-गमने करणम् (भवति)।
नित्यानित्य-विवेकः च देह-क्षणिकता-मतिः च मृत्योः भीतिः च तापः मुमुक्षा-वृद्धि-कारणम् (भवति)।
विवेकः शिरः अत्यन्तम् वैराग्यम् तु वपुः उच्यते शमादयः षडङ्गानि (उच्यन्ते) मोक्षेच्छा प्राणः इष्यते।

Go to Top Menu

vs.250 vs.251 vs.252 vs.253 vs.254 vs.255 vs.256 vs.257 vs.258 vs.259 vs.260 vs.261 vs.262 vs.263 vs.264 vs.265 vs.266 vs.267 vs.268 vs.269 vs.270 vs.271 vs.272 vs.273 vs.274 vs.275 vs.276 vs.277 vs.278 vs.279 vs.280 vs.281 vs.282 vs.283 vs.284 vs.285 vs.286 vs.287 vs.288 vs.289 vs.290 vs.291 vs.292 vs.293 vs.294 vs.295 vs.296 vs.297 vs.298 vs.299

ईदृशाङ्ग-समायुक्तः जिज्ञासुः युक्ति-कोविदः शूरः सम्यग्-ज्ञानासिना मृत्युम् ध्रुवम् एव निहन्ति।
उक्त-साधन-सम्पन्नः आत्मनः जिज्ञासुः यतिः समित्-पाणिः नयोज्ज्वलः जिज्ञासायै गुरुम् गच्छेत्।
यः श्रोत्रियः ब्रह्म-निष्ठः प्रशान्तः समदर्शनः निर्ममः निरहङ्कारः निर्द्वन्द्वः निष्परिग्रहः…
अनपेक्षः शुचिः दक्षः करुणामृत-सागरः एवं-लक्षण-सम्पन्नः ब्रह्म-वित्तमः (भवेत्) सः गुरुः जिझासोः स्वार्थ-सिद्धये प्रयत्नेन उपासाद्यः।
जन्मानेक-शतैः भक्तैः सदा आदरयुजा भक्त्या वैदिक-लक्षणेन विधिना समाराधितः प्रभुः ईशः सन्तुष्टः स्वयम् साक्षात् श्रीगुरु-रूपम् एत्य दृग्-गोचरः कृपया सन् तत्त्वम् साधु विबोध्य तान् संसार-दुःखार्णवात् तारयति।
गुरु-शब्दार्थ-वेदिनः अविद्या-हृदय-ग्रन्थि-विमोक्षः अपि यतः भवेत् तम् एव गुरुः इति आहुः।
साक्षात् शिवः एव गुरुः गुरुः एव स्वयम् शिवः मुमुक्षुभिः उभयोः किञ्चिद् अन्तरम् न द्रष्टव्यम्।
बन्ध-मुक्तम् ब्रह्म-निष्ठम् कृत-कृत्यम् गुरुम् भजेत् यस्य प्रसादात् संसार-सागरः गोष्-पदायते।
शुश्रूषया सदा भक्त्या प्रणामैः विनयोक्तिभिः प्रसन्नम् गुरुम् आसाद्य आत्मनः ज्ञेयम् प्रष्टव्यम्।
करुणा-सिन्धः भगवन् भवान् भव-सिन्धोः तरिः याम् आश्रित्य अश्रमेण एव बुधाः परम् पारम् गताः।
अद्य जन्मान्तर-कृतानन्त-पुण्य-कर्म-फलोदयः संनिहितः यस्मात् अहम् त्वत्-कृपा-पात्रम् अस्मि।
ब्रह्म-विदः विलोकनम् अक्ष्णोः सम्प्रीतिम् वदन-प्रसादम् सद्यः अन्तः-करणस्य आनन्दम् तनोति मोहम् छिनत्ति सुगतिम् व्यनक्ति।
हुताशनानाम् शशिनाम् अपि वा इनानाम् अर्बुदम् अपि यद् निहन्तुम् न शक्नोति तद् आन्तरम् अनन्तम् ध्वान्तम् आत्म-वेत्ता सकृद् ईक्षणेन हन्ति।
दुष्पारे जनि-मृत-व्याध्यादि-दुःखोत्कटे पुत्र-कलत्र-मित्र-बहुल-ग्राहा-करे भी-करे घोरे भव-सागरे कर्मोत्तुङ्ग-तरङ्ग-भङ्ग-निकरैः मुहुः आकृष्यमाणः यातायात-गति-भ्रमेण (युक्तः) अहम् किञ्चिद् शरणम् न पश्यामि।
केन वा पुण्य-शेषेण तव पादाम्बुज-द्वयम् दृष्टवान् अस्मि आर्तम् माम् दया-दृशा मृत्योः त्राहि।
गुरुः एवम् वदन्तम् तम् शिष्यम् दयया दृष्ट्य एव एतस्मै मा भैष्ट इति मुहुर् मुहुः अभयम् दद्याद्।
विद्वन् मृत्यु-भयम् जहीहि भवतः क्वचिद् एव मृत्युः न अस्ति भ्रान्त्या किञ्चिद् मिथ्या अवेक्ष्य भीत-मनसा त्वया नित्यस्य द्वय-वर्जितस्य परमानन्दात्मनः ब्रह्मणः (मृत्युः) कथ्यते माम् त्राहि इति सुप्तवत् ते प्रलपनम् शून्यात्मकम् हि मृषा (अस्ति)।
किल निद्रा-गाढ-तमो-वृतः जनः स्वप्ने स्वम् भुजङ्गादिना ग्रस्तम् समवेक्ष्य त्रासात्_हतः अस्मि इति अलम् यद् प्रलपति आप्तेन कर-तलेनाताड्य प्रतिबोधितः (ततः) पृष्टः स्वयम् किञ्चिद् न इति वदति अमुष्य तद् वचनम् किमर्थम् स्यात् वद।
अयम् पुमान् तु रज्जोः तत्त्वम् अनवेक्ष्य (अत्र) अहिः वसति इति मोहात् गृहीत-सर्प-भावः आक्रोशति प्रतिबिभेति कम्पते च अत्र भुजगः न अस्ति विचार्यमाणे तद् मिथ्या एव।
तद्वत् त्वया अपि आत्मनः जन्माप्यय-व्याधि-जरादि-दुःखम् (सुख-दुःखादिकम्) उक्तम् एतद् सर्वम् ते भ्रम-कल्पितम् मृषा एव सम्यक् विचार्य आत्मनि भीतिम् मुञ्च।
अनात्मनः धर्मान् आत्मनि आरोप्य भवान् शोचति तद् अज्ञान-कृतम् सर्वम् भयम् त्यक्त्वा सुखी भव।
(शिष्यः उवाच) सकलम् मृषा इति श्रीमद्भिः (यद्) उक्तम् हि तद् दृष्टान्ते एव उपपद्यते दार्ष्टान्तिके न एव (यतः) भवादि-दुःखम् प्रत्यक्षतः सर्व-जन-प्रसिद्धम्।
प्रत्यक्षेण अनुभूतार्थः कथम् मिथ्यात्वम् अर्हति चक्षुषः विषयम् कुम्भम् अहम् कथम् मिथ्या करोमि।
प्रभो विद्यमानस्य मिथ्यात्वम् कथम् नु घटते प्रस्फुटार्थकम् प्रत्यक्षम् खलु सर्वेषाम् प्रमाणम्।
मर्त्यस्य जन्मादि-दुःख-भाजः अल्प-जीविनः मम ब्रह्मत्वम् नित्यत्वम् अपि परमानन्दता कथम्।
कः आत्मा कः तु अनात्मा च एतयोः लक्षणम् किम् उ आत्मनि अनात्म-धर्माणाम् आरोपः कथम् क्रियते।
अज्ञानम् किम् अपि वा तद्-उत्पन्न-भय-त्यागः कथम् ज्ञानम् किम् उ वा तद्-उत्पन्न-सुख-प्राप्तिः च कथम् (भवति)।
स्वामिन् करुणा-निधे श्री-गुरो एतद् सर्वम् मे करामलकवत् स्फुटम् यथा-पूर्वम् प्रतिपादय।
(श्रीगुरुः उवाच) त्वम् धन्यः कृतार्थः अहो विवेकः (जातः) तव (उपरि) महान् शिव-प्रसादः विद्यते यतः त्वम् प्राकृत-लोक-मार्गम् तु विसृज्य ब्रह्म अवगन्तुम् यतसे।
शिव-प्रसादेन विना सिद्धिः न शिव-प्रसादेन विना बुद्धिः न शिव-प्रसादेन विना युक्तिः न शिव-प्रसादेन विना मुक्तिः न।
यस्य प्रसादेन शुकादयः विमुक्त-सङ्गाः संसृति-बन्ध-मुक्ताः (जाताः) तस्य प्रसादः बहु-जन्म-लभ्यः भक्त्यैक-गम्यः भव-मुक्ति-हेतुः (अस्ति)।
यतः बहुषु जनिषु एव बहु-सुकृत-पाकोदय-वशात् ईशात् प्रसादात् एव जन्तूनाम् विवेकः प्रभवति तस्मात् एव त्वम् अपि परमार्थावगमने कृतारम्भः (भव) इह इदम् तु पुंसाम् विवेकस्य फलम् (अस्ति)।
मर्त्यत्व-सिद्धेः अपि पुंस्त्व-सिद्धेः विप्रत्व-सिद्धेः च विवेक-सिद्धेः मुख्यम् फलम् मोक्षम् एव वदन्ति यदि मोक्षः न चेद् (तदा) समस्तम् व्यर्थम्।
तव अयम् प्रश्नः समीचीनतरः यद् आत्म-तत्त्वावगमे प्रवृत्तिः (सञ्जाता) ततः तव एतद् सकलम् समूलम् निवेदयिष्यामि मुदा शृणुष्व।
भ्रम-वशात् मर्त्यत्वम् त्वयि कल्पितम् तेन एव जन्मादयः तत्-सम्भावितम् एव दुःखम् अपि ते न उ वस्तुतः तद् मृषा निद्रा-मोह-वशात् उपागत-सुखम् दुःखम् च त्वया प्रबोधागमे किम् नु सत्यत्वेन क्वचिद् अपि विलोकितम् ब्रूहि।
अशेष-लोकैः प्रत्यक्षतः अनुभूयमानः अयम् सकल-प्रपञ्चः कथम् मृषा स्यात् इति विचार-शून्येन विमुह्यता त्वया न शङ्कनीयम्।
दिवान्ध-दृष्टेः तु दिवा अन्धकारः प्रत्यक्ष-सिद्धः अपि स किम् यथार्थः तद्वत् भ्रमेण अवगतः पदार्थः भ्रान्तस्य सत्यः सुमतेः मृषा एव।
अत्र अयम् घटः (अस्ति) इति प्रत्यक्षतः दृष्टे कश्चिद् घटाभिधानः उदेति विचार्यमाणे तु सः तत्र न अस्ति तद्भाव-विलक्षणा सा मृद् अस्ति।
अर्कः प्रादेशमात्रः परिदृश्यते शास्त्रेण सन्दर्शित-लक्ष-योजनः मानान्तरेण क्वचिद् बाधाम् एति अत्र हि प्रत्यक्षम् अपिव्यवस्था न।
तस्मात् त्वयि भ्रमतः प्रतीतम् इदम् मृषा एव साक्षात् सत्यम् न उ अवेहि त्वम् एव सुख-स्वरुपम् ब्रह्म असि त्वत्तः भिन्नम् न (इति) बुद्धौ विचिनुष्व।
अत्र लोकान्तरे वा गुहान्तरे वा तीर्थान्तरे कर्म-परम्परान्तरे शास्त्रान्तरे (ब्रह्म) न अस्ति अनुपश्यताम् इह विचार्यमाणे स्वयम् परम् ब्रह्म।
मूढः आत्मस्थम् तत्त्वम् अज्ञात्वा शास्त्रेषु पश्यति यथा दुर्मतिः गोपः कक्ष-गतम् छागम् कूपेषु (पश्यति)।
स्वम् आत्मानं परम् मत्वा परमात्मानम् अन्यथा (मत्वा) पुनः पण्डितैः स्वात्मा कोशेषु बहिः विमृग्यते।
वस्तुनः तत्त्वम् विस्मृत्य वस्तुनि अवस्तुताम् च तद्-धर्मान् च अध्यारोप्य मुधा शोचति अन्यथा न।
आत्मानात्म-विवेकम् ते वक्ष्यामि सादरम् शृणु यस्य श्रवणमात्रेण अनात्म-बन्धनात् मुच्यते।
गुरुः इति उक्त्वा करुणया शिष्यम् अभिमुखी-कृत्य अध्यारोपाप-वादाभ्याम् निष्प्रपञ्चम् प्रपञ्चयन्…
शास्त्र-दृष्टेन वर्त्मना तत्त्वम् सम्यक् प्राबोधयत् अत्र सर्वेषाम् उपकाराय तत्-प्रकारः दर्श्यते।
वस्तुनि यः अवस्त्वारोपः सः अध्यारोपः इति ईर्यते यथा असर्प-भूते रज्ज्वादौ सर्पत्वारोपणम्।
तावत् परम् ब्रह्म वस्तु सत्य-ज्ञानादि-लक्षणम् खे नीलतादिवत् यत्र इदम् आरोपितम् भाति।
सकार्यम् सद्-विलक्षणम् यद् कारणम् अज्ञानम् तद् सद्भिः अवस्तु इति उच्यते यस्य बाधा प्रदृश्यते।

Go to Top Menu

vs.300 vs.301 vs.302 vs.303 vs.304 vs.305 vs.306 vs.307 vs.308 vs.309 vs.310 vs.311 vs.312 vs.313 vs.314 vs.315 vs.316 vs.317 vs.318 vs.319 vs.320 vs.321 vs.322 vs.323 vs.324 vs.325 vs.326 vs.327 vs.328 vs.329 vs.330 vs.331 vs.332 vs.333 vs.334 vs.335 vs.336 vs.337 vs.338 vs.339 vs.340 vs.341 vs.342 vs.343 vs.344 vs.345 vs.346 vs.347 vs.348 vs.349

यद् शुक्ति-रौप्यवत् प्रमाणैः बाध्यते तद् अवस्तु यद् शुक्तिवत् त्रिषु कालेषु न बाध्यते तद् वस्तु।
यथा रजतस्य बाधा तथा शुक्तेः खलु न अस्ति यद् अवस्तु-संज्ञितम् तद् जगद्-अध्यास-कारणम्।
अज्ञानम् सदसद्भ्याम् अनिर्वाच्यम् त्रि-गुणात्मकम् वस्तु तत्त्वावबोधैक-बाध्यम् तद्-भाव-लक्षणम्।
एतद् मिथ्या-सम्बन्धतः मणौ शक्तिः यथा तत्र ब्रह्मणि आश्रित्य तिष्ठति तद्वद् आश्रय-दूषकम् न।
एतस्य सद्-भावे एतद् चराचरम् कार्यम् लिङ्गम् श्रुतिः स्मृतिः च अहम् इति अज्ञः अनुभवः अपि च मानम्।
अज्ञानम् प्रकृतिः शक्तिः अविद्या इति निगद्यते तद् एतद् शुक्ति-रौप्यवत् सत् न भवति असत् वा न (भवति)।
दीपस्य प्रभा यथा सतः (अज्ञानम्) भिन्नम् अभिन्नम् वा न (निरूप्यते) क्वचिद् वा बीजस्य अङ्कुरवत् सावयवम् अन्यद् न।
अतः कवयः एतद् अनिर्वाच्यम् इति एव विदुः अज्ञानम् समष्टि-व्यष्टि-रूपेण द्विधा निगद्यते।
यथा भू-रुहाणाम् वनम् (भवति तथा) नानात्वेन प्रतीतानाम् अज्ञानानाम् अभेदतः एकत्वेन समष्टिः स्यात्।
इयम् उत्कृष्टा समष्टिः सत्त्वांशोत्कर्षतः पुरा तज्-ज्ञैः शुद्ध-सत्त्वैक-लक्षणा माया इति कथ्यते।
मायोपहित-चैतन्यम् साभासम् सत्त्व-बृंहितम् सर्व-ज्ञत्वादि-गुणकम् सृष्टि-स्थित्यन्त-कारणम्…
तद् अव्याकृतम् अव्यक्तम् ईशः इति अपि गीयते सर्व-शक्ति-गुणोपेतः सर्व-ज्ञानावभासकः…
(यः) स्व-तन्त्रः सत्य-सङ्कल्पः सत्य-कामः स: ईश्वरः तस्य एतस्य महा-शक्तेः महीयसः महा-विष्णोः…।
मनीषिणः सर्व-ज्ञत्वेश्वरत्वादि-कारणत्वात् सत्त्व-बृंहितम् समष्टिम् कारणम् वपुः इति आहुः।
कोशवत् साधकत्वेन आनन्द-प्रचुरत्वेन सा एषा ईशस्य आनन्दमयः कोशः इति निगद्यते।
सर्वोपरम-हेतुत्वात् सुषुप्ति-स्थानम् इष्यते यत्र प्राकृतः प्रलयः (भवति) श्रुतिभिः मुहुः श्राव्यते।
अज्ञानम् व्यष्ट्यभिप्रायात् अनेकत्वेन भिद्यते तत्तद्-गुण-विलक्षणाः अज्ञान-वृत्तयः नाना (भवन्ति)।
यथा वनस्य व्यष्ट्यभिप्रायात् भू-रुहाः (सन्ति) इति अनेकता (अस्ति) तथा एव अज्ञानस्य व्यष्टितः अनेकता स्यात्।
एषा व्यष्टिः मलिन-सत्वा रजसा तमसा युता या प्रत्यग्-आत्मनः उपाधिः ततः निकृष्टा भवति।
व्यष्ट्यवच्छिन्नम् चैतन्यम् प्रत्यग्-आत्मा इति गीयते साभासम् व्यष्ट्युपहितम् (भवति) सत्-तादात्म्येन तद्-गुणैः…
अभिभूतः सः एव आत्मा किञ्चिद् ज्ञत्वानीश्वरत्व-संसारित्वादि-धर्मवान् जीवः इति अभिधीयते।
बुधैः अस्य व्यष्टिः अहङ्कार-कारणत्वेन कारणम् वपुः उच्यते तत्र अभिमानी आत्मा प्राज्ञः इति ( उच्यते)।
अस्य एकाज्ञान-भासकत्वेन प्राज्ञत्वम् सम्मतम् अस्य व्यष्टेः निकृष्टत्वेन अनेकाज्ञान-भासकम् न।
कारणम् वपुः अपि स्व-रूपाच्छादकत्वेन आनन्द-प्रचुरत्वतः आनन्दमयः कोशः इति ईर्यते।
सुषुप्तिः अस्य अवस्था स्यात् यत्र आनन्दः प्रकृष्यते एषः अहम् सुखम् अस्वाप्सम् किञ्चिद् तु न अवेदिषम्।
इति आनन्द-समुत्कर्षः प्रबुद्धेषु प्रदृश्यते समष्टेः च व्यष्टेः अपि उभयोः वन-वृक्षवत्…
वस्तुतः जात्येकत्वेन अभेदः एव न उ भेदः तथा ईश-प्राज्ञयोः अपि अभेदः एव ज्ञातव्यः।
उपाध्योः अभिन्नत्वे सति तद्-विशिष्टयोः भेदः क्व तरङ्गाब्ध्योः एकी-भावे प्रतिबिम्बयोः कः भेदः।
अज्ञान-तद्-अवच्छिन्नाभासयोः उभयोः अपि यद् आधारम् तद् शुद्ध-चैतन्यम् तुर्यम् इति ईर्यते।
एतद् एव उपाधिभ्याम् च तद्-गुणैः अविविक्तम् सत् महा-वाक्यस्य वाच्यार्थः (तथा) विविक्तम् (सत्) लक्ष्यः इष्यते।
अनन्त-शक्ति-सम्पन्नः ईश्वरः मायोपाधिकः ईक्षा-मात्रेण एतद् चराचरम् विश्वम् सृजति।
अद्वितीय-स्वमात्रः निरुपादानः असौ ईश्वरः कथं स्वयम् एव सर्वं सृजति इति शङ्क्यताम् न।
प्रभुः स्वयम् एव निमित्तम् अपि उपादानम् भवन् चराचरात्मकम् विश्वम् सृजति अवति लुम्पति।
अयम् स्व-प्राधान्येन जगतः निमित्तम् कारणम् तथा उपाधि-प्राधान्येन उपादानम् अपि भवति।
यथा लूता स्व-प्रधानतया निमित्तम् च स्व-शरीर-प्रधानत्वेन उपादानम् भवेत् तथा ईश्वरः (अस्ति)।
तमः-प्रधान-प्रकृति-विशिष्टात् परमात्मनः सकाशात् आकाशम् अभूत् आकाशात् वायुः उच्यते।
वायोः अग्निः तथा एव अग्नेः आपः अद्भ्यः पृथिवी क्रमात् (उत्पद्यते) तत्-कार्ये जाड्य-दर्शनात् शक्तेः तमः-प्रधानत्वम्…
आरम्भन्ते ये हि कार्य-गुणान् (आरम्भन्ते) ते कारण-गुणाः एतानि सूक्ष्म-भूतानि भूत-मात्राः अपि क्रमात् (आरम्भन्ते)।
एतेभ्यः सूक्ष्म-भूतेभ्यः सूक्ष्म-देहाः अपि च अन्योन्यांश-विमेलनात् स्थूलानि भूतानि अपि च भवन्ति।
अपञ्ची-कृत-भूतेभ्यः संसार-कारणम् आत्मनः भोग-साधनम् सप्त-दशाङ्गकम् लिङ्गम् जातम्।
श्रोत्रादि-पञ्चकम् च एव वाग्-आदीनाम् पञ्चकम् च प्राणादि-पञ्चकम् बुद्धि-मनसी लिङ्गम् उच्यते।
श्रोत्र-त्वक्-चक्षुर्-जिह्वा-घ्राणानि पञ्च धीन्द्रियाणि अनुक्रमतः आकाशादीनाम् सत्त्वांशेभ्यः जातानि।
आकाशादि-गताः पञ्च सात्त्विकांशाः परस्-परम् मिलित्वा एव सर्व-कारणम् अन्तःकरणम् अभवत्।
यतः एतेषाम् प्रकाशकत्वात् सात्त्विकांशत्वम् इष्यते ततः सत्त्वस्य स्वच्छत्वेन प्रकाशकत्वम् (इष्यते)।
तद् अन्तः-करणम् वृत्ति-भेदेन चतुर्विधम् स्यात् तद् मनः बुद्धिः अहङ्कारः चित्तम् च इति उच्यते।
सङ्कल्पात् मनः अर्थस्य निश्चयात् बुद्धिः अभिमानात् अहङ्कारः अर्थस्य चिन्तनात् चित्तम् इति आहुः।
लिङ्ग-लक्षण-सिद्धये अत्र मनसि अपि च बुद्धौ च क्रमात् चित्ताहङ्कारयोः अन्तर्-भावः बोद्धव्यः।
यथा सङ्कल्पादिः मनो-धर्मः तथा चिन्तनम् च (मनो-धर्मः) मनसि एव चित्तस्य अन्तर्-भावः सम्यक् सिध्यति।
देहादौ धियः अहम् इति एव दृढतरः भावः दृश्यते तस्मात् अहङ्-कृतेः अत्र अन्तर्-भावः युज्यते।
तस्मात् एव बुद्धेः कर्तृत्वम् तद्-इतरस्य तु करणत्वम् सिध्यति उभयात् मोहात् आत्मनः संसार-कारणम् विद्यात्।

Go to Top Menu

vs.350 vs.351 vs.352 vs.353 vs.354 vs.355 vs.356 vs.357 vs.358 vs.359 vs.360 vs.361 vs.362 vs.363 vs.364 vs.365 vs.366 vs.367 vs.368 vs.369 vs.370 vs.371 vs.372 vs.373 vs.374 vs.375 vs.376 vs.377 vs.378 vs.379 vs.380 vs.381 vs.382 vs.383 vs.384 vs.385 vs.386 vs.387 vs.388 vs.389 vs.390 vs.391 vs.392 vs.393 vs.394 vs.395 vs.396 vs.397 vs.398 vs.399

ज्ञानेन्द्रियैः सह बुद्धिः विज्ञानमय-कोशः स्यात् विज्ञान-प्रचुरत्वेन आत्मनः आच्छादकतया अपि।
अयम् विज्ञानमय-कोशः इति विद्वद्भि्ः उच्यते अयम् महान् अहङ्कार-वृत्तिमान् कर्तृ-लक्षणः (भवति)।
जीवाभिमानः अम् पुरुषः एव सदा देहेन्द्रियादौ गृहादौ अहम् मम इति एव अभिमानम् कुरुते (अतः) कर्ता च भोक्ता च सुखी च दुःखी (भवति)।
(पुरुषः) स्व-वासना-प्रेरितः एव नित्यम् उभय-लक्षणम् कर्म करोति अत्र च परत्र च विशिष्टम् तद्-उत्पन्न-फलम् सुखम् च दुःखम् च भुङ्क्ते।
एषः जीवः नाना-योनि-सहस्रेषु मुहुः मुहुः जायमानः म्रियमाणः संसार-मण्डले भ्रमति।
ज्ञानेन्द्रियैः मनः मनोमयः कोशः भवेत् यत्र मनसः सह प्राचुर्यम् दृश्यते असौ मनोमयः।
चिन्ता-विषात् अस्य अहर्षाद्याः कामाद्याः वृत्तयः (भवन्ति) एषः मनसा एव मनुते बहिः फलम् कामयते यतते कुरुते भुङ्क्ते तद् मनः सर्व-कारणम्।
मनः हि अमुष्य प्रवणस्य हेतुः अनेन अन्तः बहिः च अर्थम् वेत्ति अमुना एव सर्वम् शृणोति जिघ्रत्ति ईक्षते वक्ति स्पृशति अत्ति करोति च।
पुंसाम् बन्धः च मोक्षः मनसा एव (भवति) अमुना एव अर्थः अपि अनर्थः अपि सिध्यति शुद्धेन मोक्षः मलिनेन बन्धः (भवति) विवेकतः अर्थः अपि अविवेकतः अन्यः (भवति)।
अज्ञान-जम् तु मनः रजस्-तमोभ्याम् मलिनं अशुद्धम् सत्त्व-गुणेन रिक्तम् तमो-दोष-समन्वितत्वात् जडत्व-मोहालसता-प्रमादैः तिरस्-कृतम् सत् उपलभ्यमानम् वास्तवम् पदार्थ-तत्त्वम् हि न तु वेत्ति।
दीपः यद्वत् प्रबल-मरुता ध्वस्त-महिमा (भवति तद्वत्) मनः यदि रजो-दोषैः युक्तम् भवति (तर्हि) प्रतीपैः कामाद्यैः विक्षेपक-गुणैः अनिशम् अभिभूतम् (सत् जीवम्) व्यथयति कथञ्चिद् सूक्ष्मार्थावगतिमत् अपि भृशम् भ्राम्यति।
ततः मुमुक्षुः भव-बन्ध-मुक्त्यै रजस्-तमोभ्याम् च तदीय-कार्यैः चित्तम् वियोज्य सदा एव प्रयत्नेन परिशुद्ध-सत्त्वम् प्रियम् कुर्यात्।
सुमतिः प्राणिनाम् गर्भ-वास-जनि-प्रणाशन-जरा-व्याध्यादिषु च नरके यद् दुःखम् परिदृश्यते तद् मुहुः चिन्तयित्वा दोषान् एव विलोक्य सर्व-विषयेषु आशाम् विमुच्य अभितः चित्त-ग्रन्थि-विमोचनाय सत्त्वम् समालम्बनात्।
यः तु यत्नतः यमेषु च नियमेषु निरतः (भवति) तस्य विवेकिनः चित्तम् प्रसादम् अधिगच्छति।
यः मोक्षैक-काङ्क्षया आसुरीम् सम्पदम् त्यक्त्वा दैव-सम्पदम् नित्यम् भजेत् तस्य चित्तम् प्रसीदति।
यस्य मनः पर-द्रव्य-पर-द्रोह-पर-निन्दा-पर-स्त्रियः न आलम्बते तस्य चित्तम् प्रसीदति।
यः आत्मवत् सर्व-भूतेषु समत्वेन सुखम् दुःखम् विवेकेन पश्यति तस्य चित्तम् प्रसीदति।
यः क्षान्तः आत्मनि अत्यन्तम् श्रद्धया भक्त्या गुरुम् ईश्वरम् अनिशम् भजति तस्य चित्तम् प्रसीदति।
तज्-ज्ञाः शिष्टान्नम् ईश्-आर्चनम् आर्य-सेवाम् तीर्थाटनम् स्वाश्रम-धर्म-निष्ठाम् यमानुषक्तिम् नियमानुवृत्तिम् चित्त-प्रसादाय वदन्ति।
कट्वाम्ल-लवणात्युष्ण-तीक्ष्ण-रूक्ष-विधायिनाम् पूति-पर्युषितादीनाम् त्यागः सत्त्वाय कल्पते।
सत्त्व-पुराणानाम् श्रुत्या सत्त्व-वस्तुनः सेवया च साधूनाम् अनुवृत्त्या सत्त्व-वृत्तिः प्रजायते।
यस्य चित्तम् निर्विषयम् यस्य हृदयम् शीतलम् सर्वम् जगत् तस्य मित्रम् मुक्तिः कर-स्थिता।
नित्यम् हित-परिमित-भोजी एकान्त-सेवी सकृद्-उचित-हितोक्तिः स्वल्प-निद्रा-विहारः अनुनियमन-शीलः यः उक्त-काले भजति सः शीघ्रम् साधु चित्त-प्रसादम् लभते इति।
(जनः) चित्त-प्रसादेन विना बन्धम् (तथा) परात्म-तत्त्वम् अवगन्तुम् न शक्नोति तत्त्वावगत्या तु विना ब्रह्म-सहस्र-कोटिषु विमुक्तिः न सिध्यति।
मनोऽप्रसादः पुरुषस्य बन्धः मनः-प्रसादः भव-बन्ध-मुक्तिः तस्मात् विद्वान् मनः-प्रसादाधिगमाय मनो-निरासम् विदधीत।
पञ्चानाम् एव भूतानाम् रजोंशेभ्यः क्रमात् वाक्-पाणि-पाद-पायूपस्थानि कर्मेन्द्रियाणि अनु अभवन्।
व्योमादीनाम् समस्तेभ्यः रजोंशेभ्यः क्रियात्मकाः पञ्च प्राणादयः आन्तर-वायवः अपि समुत्पन्नाः|
प्राग्-गमनेन प्राणः स्यात् च अवाग्-गमनेन अपानः विष्वग्-गमनात् तु व्यानः उत्क्रान्त्या उदानः इष्यते।
अशितान्न-रसादीनाम् समी-करण-धर्मतः समानः इति अभिप्रेतः यः तेषु पञ्चमः वायुः।
प्राण-कर्मेन्द्रियेषु प्रायः क्रिया एव अलम् दिश्यते ततः बुधैः (ततः) तेषाम् रजोंऽशेभ्यः जनिः अङ्गी-कृता।
मह-र्षयः तु क्रिया-शक्तिम् राजसीम् जडात्मिकाम् तमः-शक्तिम् प्रकाश-रूपिणीम् सत्त्व-शक्तिम् प्राहुः।
पञ्च-कर्मेन्द्रियैः सह एते प्राणादयः पञ्च प्राणमयः कोशः भवेत् येन एव स्थूलः चेष्टते।
वाग्-आदिभिः च वपुषा पुण्यम् वा एव पापम् वा यद् यद् कर्म निष्पाद्यते तद् प्राणमय-कर्तृकम् (भवति)।
यथा वायुना उच्चालितः वृक्षः नाना-रूपेण चेष्टते तस्मिन् विनिश्चले सः अपि निश्चलः स्यात् तथा…
प्राण-कर्मेन्द्रियैः प्रेर्यमाणः देहः सर्वत्र विहिताविहितादिषु नाना-क्रियासु प्रवर्तते।
कोश-त्रयम् मिलित्वा अतिसूक्ष्मतया आत्मनः सूक्ष्मम् एतद् वपुः स्यात् लीनस्य आत्मनः गमकत्वतः…
लिङ्गम् इति उच्यते स्थूलापेक्षया सूक्ष्मम् इष्यते सर्वम् लिङ्ग-वपुर्-जातम् एक-धी-विषयत्वतः…
समष्टिः स्यात् यथा तरु-गणः सामान्येन वनम् (स्यात्) एतद् समष्ट्युपहितम् चैतन्यम् स-फलम् जगुः।
पण्डिताः हिरण्य-गर्भः सूत्रात्मा प्राणः इति अपि (कथयन्ति) हिरण्मये बुद्धि-गर्भे हिरण्यवत् प्रचकास्ति।
ततः अस्य हिरण्य-गर्भः इति व्यपदेशः मतः मणि-पङ्क्तिषु सूत्रवत् समस्त-लिङ्ग-देहेषु व्याप्य स्थितत्वात् सूत्रात्मा प्राणनात् प्राणः उच्यते।
अथ नैक-धी-विषयत्वेन लिङ्गम् व्यष्टिः भवति यद् एतद् व्यष्ट्युपहितम् चिद्-आभास-समन्वितम्…
चैतन्यम् मनीषिणः तैजसः इति निगदन्ति तेजोमयान्तःकरणोपाधित्वेन एषः तैजसः (उच्यते)।
स्थूलात् सूक्ष्मतया अस्य व्यष्टिः सूक्ष्म-वपुः मतम् अस्य जागर-संस्कारमयत्वात् वपुः उच्यते।
तैजसः स्वप्ने जागर-कालीन-वासना-परिकल्पितान् सूक्ष्मार्थान् विषयान् सूक्ष्म-वृत्तिभिः भुङ्क्ते।
समष्टेः च व्यष्टे अपि पूर्ववत् सामान्येन एव अभेदः एव ज्ञातव्यः जात्येकत्वे भिदा कुतः।
द्वयोः उपाध्योः एकत्वे तयोः अभिमानिनोः अपि सूत्रात्मनः अपि तैजसस्य पूर्ववत् अभेदः मतः।
एवम् शास्त्र-सम्मतः सूक्ष्म-प्रपञ्चस्य प्रकारः (कथितः) अथ स्थूल-प्रपञ्चस्य प्रकारः कथ्यते शृणु।
तानि एव व्योमादीनि सूक्ष्म-भूतानि परस्-परम् पञ्ची-कृतानि स्थूलानि भवन्ति तत्-क्रमम् शृणु।
खादीनाम् एकैकम् भूतम् समम् एव द्विधा द्विधा विभज्य तत्र आद्यम् भागम् त्यक्त्वा द्वितीयकम् भागम्…
चतुर्धा सुविभज्य अथ क्रमेण स्वार्धम् अन्तरा चतुर्णाम् प्रथमे भागे तम् एकैकम् विनिक्षिपेत्।

Go to Top Menu

vs.400 vs.401 vs.402 vs.403 vs.404 vs.405 vs.406 vs.407 vs.408 vs.409 vs.410 vs.411 vs.412 vs.413 vs.414 vs.415 vs.416 vs.417 vs.418 vs.419 vs.420 vs.421 vs.422 vs.423 vs.424 vs.425 vs.426 vs.427 vs.428 vs.429 vs.430 vs.431 vs.432 vs.433 vs.434 vs.435 vs.436 vs.437 vs.438 vs.439 vs.440 vs.441 vs.442 vs.443 vs.444 vs.445 vs.446 vs.447 vs.448 vs.449

ततः व्योमादि-भूतानाम् पञ्च भागाः भवन्ति ते स्व-स्वार्ध-भागेन अन्येभ्यः प्राप्तम् भाग-चतुष्टयम्…
संयोज्य व्योमादीनि यथा-क्रमम् स्थूलताम् यान्ति अमुष्य पञ्ची-करणस्य अप्रामाण्यम् न शङ्क्यताम्।
तत्-त्रिवृत्-करण-श्रुतिः अस्य अपि उपलक्षणम् अन्यत्र पञ्चानाम् भूतानाम् अपि सम्भवः श्रूयते।
ततः बुधैः पञ्ची-करणम् प्रामाणिकम् मन्यताम् यदि अन्यथा क्रियते (तर्हि) प्रत्यक्षादि-विरोधः स्यात्।
यथा आकाश-वाय्वोः धर्मः वह्न्यादौ उपलभ्यते तथा अग्न्यादेः तु धर्मः आकाश-वाय्वोः न ईक्ष्यते।
अतः किञ्चिद् अपि अप्रामाणिकम् इति न चिन्त्यताम् पावकादिषु खांश-व्याप्तिः च ख-व्याप्तिः विद्यते।
तेन कारणस्य अतिरेकतः उपलभ्यते तथा अग्न्यादौ नभस्वतो शब्दः धर्मो अपि उपलभ्यते।
तथा वह्न्यादेः व्याप्तिः ख-नभस्वतोः न विद्यते अंशक-व्याप्तेः सूक्ष्मत्वात् तद्-धर्मः न उपलभ्यते।
सर्वत्र कारणस्य अनुरूपेण कार्यम् दृश्यते तस्मात् बुद्धैः पञ्ची-कृतेः अपि प्रामाण्यम् एष्टव्यम्।
अनेन उद्भूत-गुणकम् भूतम् वक्ष्ये अवधारय आकाशम् शब्दैक-गुणम् अनिलः शब्द-स्पर्श-गुणः।
तेजः शब्द-स्पर्श-रूपैः गुणवत् (अस्ति तद्) क्रमात् कारणम् क्रमात् आपः शब्द-स्पर्श-रूप-रसैः चतुर्-गुणः।
गन्धेन सह एतैः चतुर्भिः मही पञ्च-गुणा श्रोत्रम् आकाशांशतया तद्-गुणम् शब्दम् गृह्णाति।
त्वक् मारुतांशकतया तद्-गुणम् स्पर्शम् गृह्णाति चक्षू -रूपम् तेजोंशकतया तद्-गुणम् गृह्णाति।
जिह्वा अबंशकतया तद्-गुणम् रसम् गृह्णाति घ्राणम् भूम्यंशकतया तद्-गुणम् गन्धम् गृह्णाति।
वाक् खांशकतया शब्दोच्चारण-क्रियाम् करोति पादौ वाय्वंशकतया गमनादि-क्रिया-परौ (स्तः)।
पाणी तेजोंशकतया वह्न्याद्यर्चन-तत्-परौ (भवतः) उपस्थः जलांशकतया रेतो-मूत्र-विसर्ग-कृत् (भवति)।
पायुः भूम्यंशकतया कठिनम् मलम् उत्सृजेत् दिक् श्रोत्रस्य दैवतम् स्यात् त्वचः वायुः दृशः रविः।
जिह्वाया दैवम् वरुणः घ्राणस्य तु उभौ अश्विनौ वाचः अग्निः हस्तयोः इन्द्रः पादयोः तु त्रि-विक्रमः।
मृत्युः पायोः प्रजा-पतिः उपस्थस्य तु अधिदैवम् चन्द्रः मनसः दैवतम् बृहस्-पतिः बुद्धेः दैवम्।
रुद्रः तु अहङ्-कृतेः दैवम् क्षेत्र-ज्ञः चित्त-दैवतम् दिगाद्याः सर्वाः देवताः खादि-सत्त्वांश-सम्भवाः।
इन्द्रिय-स्थानेषु समन्ततः संमिताः इन्द्रियाणाम् प्राणि-कर्मानुरूपतः (देवताः) निगृह्णन्ति अनुगृह्णन्ति।
शरीर-करण-ग्रामाप्राणाहम्-अधिदेवताः एते पञ्च सर्व-कर्मणाम् निष्पत्तौ हेतवः प्रोक्ताः।
कर्मानुरूपेण गुणोदयः भवेत् गुणानुरूपेण मनः-प्रवृत्तिः अत्र मनोऽनुवृत्तैः उभयात्मकेन्द्रियैः पुण्यम् अपुण्यम् निवर्त्यते।
विज्ञानमयः अहम् एव कर्ता इति अभिमानम् करोति तद्-आत्मना स्थितः आत्मा साक्षी तु सदा तटस्थवत् किञ्चिद् न करोति न एव कारयति।
अहङ्कारः स्वयम् एतद्-विकृतीनां द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवति आत्मा साक्षी निर्लेपः एव।
लोके प्राणिभिः क्रियमाणेषु कर्मसु रविवत् आत्मनः साक्षिमात्रत्वम् कर्तृत्वम् न भोक्तृता न।
अर्कः हि कर्म न कुरुते न कारयति जन्तवः स्व-स्व-कर्मसु स्व-स्व-भावानुरोधेन वर्तन्ते।
तथा एव प्रत्यग्-आत्मा अपि रविवत् निष्क्रियात्मना देहादीनाम् प्रवृत्तिषु उदासीनतया एव आस्ते।
एवम् परम् तत्त्वम् अज्ञात्वा माया-मोहित-चेतसः स्वात्मनि एतद् अन्य-गोचरम् कर्तृत्वादि आरोपयन्ति।
विमूढ-बुद्धिः आत्म-स्वरूपम् अविचार्य भ्रमेण चन्द्रे दूरस्थ-मेघ-कृत-धावनवत् असङ्ग-चिति-निष्क्रिये स्वात्मनि एव अखिलम् एतद् अनात्म-कार्यम् आरोपयति।
अग्रे आत्मानात्म-विवेकम् स्फुटतरम् निवेदयिष्यामः विद्वन् इमम् जगदुत्पत्ति-प्रकारम् आवृत्त्या आकर्णय।
ईशितुः तु ईक्षया पञ्ची-कृतेभ्यः खादिभ्यः भूतेभ्यः इदम् स-चराचरम् स्थूलम् ब्रह्माण्डम् समुत्पन्नम्।
सर्वाः व्रीह्याद्योषधयः वायु-तेजोम्बु-भूमयः सर्वेषाम् चतुर्-विध-शरीरिणाम् अपि अन्नम् अभूत्।
खलु केचिद् मारुत-भोजनाः परे चन्द्रार्क-तेजोशनाः अपरिमिताः केचिद् तोय-कणाशिनः केचिद् तु मृद्-भक्षकाः केचिद् पर्ण-शिला-तृणादन-पराः केचिद् तु मांसाशिनः केचिद् व्रीहि-यवान्न-भोजन-पराः (एवम्) अमी जन्तवः जीवन्ति।
जरायुजाण्डज-स्वेदजोद्भिज्जाद्याः चतुर्विधाः जन्तवः स्व-स्व-कर्मानुरूपेण जाताः तिष्ठन्ति।
यत्र जरायुभ्यः जाताः ते नराद्याः जरायु-जाः ये विहगादयः अण्डेभ्यः जाताः ते अण्ड-जाः स्युः।
यूका अपि च लूक्षादयः (ये) स्वेदात् जाताः ते स्वेद-जाः (कथ्यन्ते) ये भूमिम् उद्भिद्य जाताः ते द्रुमादयः उद्भिज्-जाः (कथ्यन्ते)।
इदम् चतुर्-विधम् भौतिकम् स्थूल-वपुर्-जातम् च एक-धी-विषयत्वतः सामान्येन समष्टिः स्यात्।
वैदिकाः फल-संयुतम् एतद् समष्ट्यवच्छिन्नम् चैतन्यम् प्राहुः वैश्वानरः इति विराट् च इति।
विश्व-नरेषु आत्मत्वेन अभिमानतः वैश्वा-नरः विविधत्वेन स्वयम् एव विराजनात् विराट् स्याद्।
तत्-तज्-जाति-विशेषतः चतुर्-विधम् भूत-जातम् नैक-धी-विषयत्वेन पूर्ववत् व्यष्टिः इष्यते।
वेदान्त-नय-कोविदाः व्यष्ट्युपहितम् तत्-तादात्म्यम् उपागतम् साभासम् चैतन्यम् विश्वः इति आहुः।
यतः अत्र विश्वः अस्मिन् स्थूल-देहे स्वाभिमानेन तिष्ठति ततः अयम् विश्वः इति नाम्ना सार्थः भवति।
एषा व्यष्टिः अस्य विश्वस्य स्थूल-विग्रहः भवति अयम् अन्न-विकारित्वात् अन्नमयः कोशः इति उच्यते।
पितृ-भुक्तान्न-विकारात् शुक्ल-शोणितात् जातः अयम् देहः अन्नेन प्रवर्धते तद्-अभावे विनश्यति।
तस्मात् अयम् अन्न-विकारित्वेन असेः कोशवत् एतस्य आत्मनः अपि आच्छादकत्वात् अन्नमयः (कोशः) मतः।
एतद् आत्मनः स्थूल-भोगानाम् आयतनम् विदुः स्थूलात्मनि स्थितः स्थूलान् शब्दादि-विषयान् भुङ्क्ते।
ततः बहिर्-आत्मा स्थूल-भोगायतनम् उच्यते अयम् स्वयम् इन्द्रियैः उपनीतानाम् शब्दादीनाम् (भोगायतनम्) मनीषिणः देहेन्द्रिय-मनो-युक्तः (आत्मानम्) भोक्ता इति आहुः।
अयम् आत्मा उपाधि-संस्थः (सन्) सौधे महा-राजः इव एकादश-द्वारवति इह देहे अक्ष-वर्गैः संसेव्यमानः विषयोपभोगान् बुभुजे।
निज-दैवत-चोदितानि ज्ञानेन्द्रियाणि अपि कर्मेन्द्रियाणि तथा मन-आदिकानि स्व-स्व-प्रयोजन-विधौ नियतानि सन्ति किङ्कर-जनाः इव यत्नेन तं भजन्ते।

Go to Top Menu

vs.450 vs.451 vs.452 vs.453 vs.454 vs.455 vs.456 vs.457 vs.458 vs.459 vs.460 vs.461 vs.462 vs.463 vs.464 vs.465 vs.466 vs.467 vs.468 vs.469 vs.470 vs.471 vs.472 vs.473 vs.474 vs.475 vs.476 vs.477 vs.478 vs.479 vs.480 vs.481 vs.482 vs.483 vs.484 vs.485 vs.486 vs.487 vs.488 vs.489 vs.490 vs.491 vs.492 vs.493 vs.494 vs.495 vs.496 vs.497 vs.498 vs.499

यत्र एषः महा-मतिः अहम् मम इति स्थूलान् विषयान् उपभुङ्क्ते सा एषा अस्य जाग्रत् इति अवस्था ईर्यते।
एतत्-समष्टि-व्यष्ट्योः च उभयोः अपि अभिमानिनोः तद्-विश्व-वैश्वानरयोः अभेदः पूर्ववत् मतः।
ये स्थूल-सूक्ष्म-कारणाख्याः प्रपञ्चाः निरूपिताः ते सर्वे अपि मिलित्वा एकः महान् प्रपञ्चः अपि भवेत्।
महा-प्रपञ्चावच्छिन्नम् विश्व-प्राज्ञादि-लक्षणम् विराड्-आदीश-पर्यन्तम् तद् चैतन्यम् च एकम् एव।
यद् अनाद्यन्तम् अजम् अव्यक्तम् अक्षरम् चैतन्यम् महा-प्रपञ्चेन सह अयोऽग्निवत् अविविक्तम् सत्।
पण्डितैः तद् सर्वम् खलु इदम् ब्रह्म इति निर्णीतम् अस्य वाक्यस्य वाच्यार्थः इति विविक्तम् लक्ष्यः इति अपि।
विचक्षण स्थूलाद्यज्ञान-पर्यन्तम् कार्य-कारण-लक्षणम् सर्वम् दृश्यम् अनात्मा इति विजानीहि।
अन्तःकरण-तद्-वृत्ति-द्रष्टृ नित्यम् अविक्रियम् यद् चैतन्यम् तद् आत्मा इति सूक्ष्मया बुद्ध्या बुध्यस्व।
एषः प्रत्यक् स्वप्रकाशः निरंशः असङ्गः शुद्धः सर्वदा एक-स्वभावः नित्याखण्डानन्द-रूपः निरीहः साक्षी चेता केवलः निर्गुणः च।
प्रत्यक् न एव जायते न उ वर्धते किञ्चिद् न अपक्षीयते नाशम् न एव अयं आत्मा नित्यः शाश्वतः पुराणः (अस्ति) असौ शरीरे हन्यमाने न हन्यः (भवति)।
जन्मास्तित्व-विवृद्धयः परिणतिः अपक्षतिः च नाशनम् (एताः) षड्-विकृतयः नाना-विधाः व्याधयः दृश्यस्य एव भवन्ति स्थूलत्वादि च नीलतादि अपि मितिः वर्णाश्रमादि-प्रथा इमे वपुषः दृश्यन्ते च तद्-विक्रिया-साक्षिणः आत्मनः न (भवति)।
विमोहतः अस्मिन् आत्मनि अनात्मत्वम् अनात्मनि आत्मताम् पुनः विपरीततया अध्यस्य संसरन्ति।
(मूहाः) भ्रान्त्या अहम् मनुष्यः अहम् द्वि-जः अहम् तज्-ज्ञः अहम् अज्ञः अहम् अतीव पापी भ्रष्टः अस्मि शिष्टः अस्मि सुखी च दुःखी (अस्मि) इति एवम् विमुह्य आत्मनि कल्पयन्ति।
(जनाः) बुद्धि-दोषात् अतथाविधे अस्मिन् आत्मनि अनात्मनः जन्म-जरा-मृति-क्षुधा-तृष्णासुख-क्लेश-भयादि-धर्मान् विपर्ययेण हि आरोपयन्ति।
भ्रान्त्या यत्र यद्-अध्यासः तत्-कृतेन गुणेन वा दोषेण अणु-मात्रेण अपि सः क्वचिद् न सम्बध्यते।
मरुत् मृग-तृष्णाम्बु-पूरेण आर्द्रत्वम् किम् ऋच्छति शङ्खः किम् उ दृष्टि-संस्थित-पीतेन पीतायते।
बाल-कल्पितनैल्येन किम् व्योम मलिनायते। (शिष्यः उवाच) प्रभो अविषये प्रत्यग्-आत्मनि अनात्माध्यासः कथम् (भवति)।
(लोकाः) हि पुरः दृष्टे विषये विषयान्तरम् अध्यस्यन्ति तद् सादृश्याद्यनुबन्धतः शुक्ति-रज्ज्वादौ दृष्टम्।
स्वामिन् परत्र पूर्व-दृष्टस्य अवभासः स्मृति-लक्षणः (अस्ति) सः अध्यासः अगोचरे आत्मनि कथम् भवेत्।
आत्मा कदा अपि न अनुभूतः अननुभूतस्य वस्तुनः विलक्षणे अनात्मनि सादृश्यं कथम् सिध्यति।
एषः अनात्मनि आत्मताध्यासः कथम् समागतः एतस्य निवृत्तिः केन उपायेन कथम् सिध्यति।
ईश-जीवयोः उभयोः उपाधि-योगः समः एव (एवम् सति) बन्धः जीवस्य एव कथम् (भवति) तद् ईश्वरस्य कथम् न अस्ति।
सर्वज्ञ करुणा-निधे श्रीगुरो दया-दृष्ट्या एतद् सर्वम् करामलकवत् स्फुटम् प्रतिपादय।
(श्रीगुरुः उवाच –) आत्मा सावयवः न एकस्य अस्य अस्मत्-प्रत्ययार्थत्वात् सर्वशः अपरोक्षात् च विषयः न इष्यते।
आत्मनः प्रसिद्धिः अस्ति एव च अहम् न अस्मि इति प्रत्ययः कस्य अपि न दृश्यते प्रत्यग्-आत्मनि हि (तादृक् ज्ञानम्) न अस्ति।
कस्य अपि स्व-सद्-भावे प्रमाणम् न अभिकाङ्क्ष्यते प्रमाणानाम् च प्रामाण्यम् यन्-मूलम् किम् तु बोधयेत्।
यथा मेघ-वृन्दैः अयम् भानुः तथा माया-कार्यैः अहम्-आदिभिः तिरो-भूतः एषः आत्मा न अनुभूयते।
सद्भिः पुरः-स्थे एव विषये वस्तुनि अध्यस्यताम् इति नियमः न कृतः अत्र भ्रान्तिः एव कारणम्।
यथा अबुधाः दृग्-आद्यविषये व्योम्नि नीलतादि (अध्यस्यन्ति) तथा मति-भ्रमात् एव अस्मिन् आत्मनि अपि अध्यस्यन्ति।
अनात्मनि आत्मताध्यासे सादृश्यम् न अपेक्षते अयम् शङ्खः पीतः इति आदौ किम् सादृश्यम् अपेक्षितम्।
अस्मिन् निरुपाधि-भ्रमेषु (सादृश्यस्य) अपेक्षा न एव प्रदृश्यते सोपाधिषु रज्जु-सर्प-भ्रमादिषु एव तद् दृष्टम्।
तथा अपि किञ्चिद् सादृश्यम् वक्ष्यामि तत्-परः (सन्) शृणु अयम् आत्मा अत्यन्त-निर्मलः सूक्ष्मः अतिभास्-वरः (अस्ति)।
तथा एव बुद्धिः सत्त्वात्मा साभासा भास्वरा अमला (अस्ति) यथा स्फटिकः सूर्यवत् भाति सांनिध्यात् आत्मवत्।
ततः बुद्धिः आत्माभासा ततः मनः बुद्ध्याभासम् अक्षाणि मन-आभासानि इदम् वपुः अक्षाभासम्।
बालानाम् प्रतिबिम्बादौ इव मूढानाम् (अध्यासः) दृश्यते बुद्धौ अध्यास-कारणम् आत्मनः सादृश्यं विद्यते।
अनात्मनि अहम् इति एव यः अयम् अध्यासः ईरितः उत्तरोत्तराध्यासे पूर्व-पूर्वः तु कारणम् स्यात्।
सुप्ति-मूर्छोत्थितेषु एवः संसार-लक्षणः दृष्टः अतः एषा अविद्या अनादिः च संस्कारः अपि तादृशः।
अध्यास-बाधागमनस्य कारणम् प्रवक्ष्यामि समाहितात्मा (सन्) शृणु यस्मात् इदम् जन्माप्यय-व्याधि-जरादि-दुःखम् अनर्थ-जातम् प्राप्तम्।
आत्मोपाधेः अविद्यायाः महत् शक्ति-द्वयम् अस्ति विक्षेपः च आवृतिः इति याभ्याम् आत्मनः संसारः।
आवृतिः तमसः शक्तिः तद् हि आवरण-कारणम् सा मूलाविद्या इति प्रोक्ता यया जगत् संमोहितम्।
विवेकवान् अपि अतियौक्तिकः अपि श्रुतात्म-तत्त्वः अपि च पण्डितः अपि यया शक्त्या संवृत-बोध-दृष्टिः इमम् आत्म-स्थम् आत्मानम् न वेद।
रजसः तु विक्षेप-नाम्नी शक्तिः पुरुषस्य नित्यम् प्रवृत्ति-हेतुः (भवति) यया आत्मनि एतद् स्थूलादि-लिङ्गान्तम् अशेषम् असत् एव सदा सूयते।
यथा निद्रा अप्रमत्तम् पुरुषम् समावृणोति तथा विक्षेप-शक्तिम् परिजृम्भयन्ती इयम् आवृति-शक्तिः अपि प्रतीचम् अन्तर् आवृणोति।
आवरणाभिधानया महत्या शक्त्या अमल-स्वरूपे (आत्मनि) समावृते सति पुमान् मोहात् अनात्मनि एषः अहम् एव (अस्मि) इति आत्मत्व-बुद्धिम् विदधाति।
यथा प्रसुप्ति-प्रतिभास-देहे स्वात्मत्व-धीः (भवति) तथा हि एषः तस्य अनात्मनः जन्माप्यय-क्षुद्-भय-तृट्छ्रमादीन् धर्मान् आत्मनि आरोपयति।
(आत्मा) विक्षेप-शक्त्या परिचोद्यमानः उभयात्मकानि कर्माणि करोति उपात्तम् एतत्-फलम् अपि भुञ्जानः भवाम्बु-राशौ परिभ्रमति एव।
अध्यास-दोषात् प्रबल-प्रतीचः अयम् संसार-बन्धः समुपागतः यद्-योगतः गर्भ-वास-जन्माप्यय-क्लेश-भयैः अजस्रम् क्लिश्यति।
वस्तुनः यः अन्यथा-ग्रहः एषः खलु अध्यासः नाम स्वाभाविक-भ्रान्ति-मूलम् संसृतेः आदि-कारणम् (अस्ति)।
आत्मनः यः अन्यथा-ग्रहः तद् सर्वानर्थस्य बीजम् ततः सन्तत-क्लेश-लक्षणः संसार-सम्पातः (भवति)।
अध्यासात् एव संसारः (भवति) अध्यासे नष्टे न दृश्यते त्वम् बद्ध-मुक्तयोः तद् एतद् उभयम् स्पष्टम् पश्य।

Go to Top Menu

vs.500 vs.501 vs.502 vs.503 vs.504 vs.505 vs.506 vs.507 vs.508 vs.509 vs.510 vs.511 vs.512 vs.513 vs.514 vs.515 vs.516 vs.517 vs.518 vs.519 vs.520 vs.521 vs.522 vs.523 vs.524 vs.525 vs.526 vs.527 vs.528 vs.529 vs.530 vs.531 vs.532 vs.533 vs.534 vs.535 vs.536 vs.537 vs.538 vs.539 vs.540 vs.541 vs.542 vs.543 vs.544 vs.545 vs.546 vs.547 vs.548 vs.549

प्रवृत्तितः बद्धम् विद्धि निवृत्तितः मुक्तम् विद्धि प्रवृत्तिः एव संसारः निवृत्तिः मुक्तिः इष्यते।
मिथ्या-ज्ञान-पुरः-सरः सः अयम् अध्यासः रज्जु-सर्पवत् असत्कल्पः अपि आत्मनः संसारम् तनुते।
जीववत् परमात्मनः उपाधि-योग-साम्ये अपि उपाधि-भेदात् बन्धः तत्-कार्यम् अपि किञ्चन न उ।
अस्य शुद्ध-सत्त्व-प्रधाना माया उपाधिः तु यत्र अस्य अल्प-भावः न अस्ति सत्त्वस्य एव उत्कृष्टता (अस्ति) तेन विक्षेपः तत्-कृतः बन्धः लेश-मात्रः न उ।
सर्व-ज्ञः अप्रतिबद्ध-बोध-विभवः देवः तेन एव स्वयम् निश्चलतया स्वाम् मायाम् अवलम्ब्य स्व-च्छन्द-वृत्तिः प्रभुः (सन्) सृष्टि-स्थित्यदन-प्रवेश-यमन-व्यापार-मात्रेच्छया स्वया शक्त्या तद् रजः तमः उभे संस्तभ्य कुर्वन् क्रीडति।
तस्मात् आवृति-विक्षेपौ किञ्चिद् कर्तुम् न शक्नुतः असौ स्वयम् एव तत्-प्रवृत्ति-निरोधयोः स्व-तन्त्रः।
सा श्रुतिः तम् एव धी-कर्मा इति वक्ति यतः महेशितुः आवृति-क्षेपयोः निग्रहानुग्रहे शक्तिः (अस्ति)।
जीवोपाधौ तथा जीवे सत्त्वहानतः रजसः च तमसः एव प्राबल्यम् (भवति) तत्-कार्यम् बलवत्-तरम् (दृश्यते)।
तेन अस्य जीवस्य बन्धः च तत्-कृतः संसारः अपि सर्वदा सम्प्राप्तः यत्र सः भूयः दुःखम् ईक्षते।
अर्थ-विपर्ययः अध्यासः एतस्य संसृतेः हेतुः (पण्डिताः) अध्यास-मूलम् आवृति-लक्षणम् अज्ञानम् आहुः।
अज्ञानस्य निवृत्तिः तु ज्ञानेन एव न कर्मणा अविरोधितया कर्म अज्ञानस्य बाधकम् न एव।
जन्तुः कर्मणा जायते कर्मणा एव प्रलीयते एषा जन्म-मृत्यु-परम्-परा कर्मणः एव कार्यम्।
कर्मणः एतस्मात् विलक्षणम् अन्यद् कार्यम् न अस्ति यतः तद् कर्म अज्ञान-कार्यम् अज्ञानेन वर्धते।
यद् येन वर्धते तेन तस्य नाशः न सिध्यति येन यस्य सहावस्था (भवति तद् तस्य) निरोधाय न कल्पते।
कः तद्-उभयोः नाशकत्वम् (नु) कल्पयितुम् क्षमः सर्वम् कर्म सदा अज्ञानस्य सर्वदा अविरोधि एव।
ततः कर्मणा अज्ञानस्य विच्छित्तिः न एव सिध्यति तत्-क्षणे यत्-संयोगः यस्य प्रध्वस्त-जनकः अस्ति।
भिन्न-स्वभावयोः तयोः एव विरोधित्वम् युक्तम् यद्वत् तमः-प्रकाशयोः परस्-पर-विरोधिता (अस्ति)।
तद्वत् उभयोः अज्ञान-ज्ञानयोः एव (विरोधः) दृश्यते ज्ञानेन विना तस्य नाशः केन अपि न सिध्यति।
तस्मात् सुधीः अज्ञान-विच्छित्त्यै ज्ञानं सम्पादयेत् आत्मानात्म-विवेकेन ज्ञानम् सिध्यति अन्यथा न।
तस्मात् युक्त्या आत्मानात्मनोः विवेचनम् करणीयम् येन अनात्मनि आत्मता-बुद्धि-ग्रन्थिः विदीर्यते।
आत्मानात्म-विवेकार्थम् अयम् विवादः निरूप्यते येन आत्मानात्मनोः तत्त्वम् विविक्तम् प्रस्फुटायते।
अश्रुत-वेदान्ताः स्वयम् पण्डित-मानिनः ईश-प्रसाद-रहिताः च सद्-गुरोः बहिर्-मुखाः मूढाः…
विवदन्ति तम् प्रकारम् वक्ष्यामि सादरम् शृणु कश्चिद् अत्यन्त-पामरः पुत्र आत्मा इति मन्यते।
आत्मनि इव स्व-पुत्रे अपि प्रबल-प्रीति-दर्शनात् पुत्रे तु पुष्टे अहम् पुष्टः नष्टे अहम् नष्टः इति अतः…
अनुभूति-बलात् अपि च युक्तितः अपि वै पुत्रनामा आत्मा असि एवम् श्रुतिः वदति इति श्रुतेः अपि च।
यथा दीपात् दीपः (प्रज्वाल्यते) तद्वत् पितुः पुत्रः प्रजायते तनये पितुः गुणानाम् बीजाङ्कुरवत् ईक्षणात्।
अतः अयम् पुत्रः आत्मा (अस्ति) इति भ्रान्तिमत्-तमः मन्यते अन्यः तु पुत्रः कथम् आत्मा (भवितुम् अर्हति) इति तन्-मतम् दूषयति।
प्रीति-मात्रात् पुत्रः कथम् आत्मा भवितुम् अर्हति अन्यत्र क्षेत्र-पात्र-धनादिषु अपि प्रीतिः ईक्ष्यते।
अस्मिन् देहे प्राणिनाम् पुत्रात् विशिष्टा प्रीतिः इष्यते भवने प्रदीप्ते जन्तुः पुत्रम् त्यक्त्वा पलायते।
(जनः) देहार्थम् तम् विक्रीणाति च प्रतिकूलम् निहन्ति तस्मात् च तनयः तु कदाचन आत्मा न भवेत्।
सुते दीपवत् पितुः गुण-रूपादि-सादृश्यम् न (भवति) अव्यङ्गात् व्यङ्गः अपि सु-गुणात् दुर्-गुणः जायते।
सर्वाः ताः युक्तयः अपि उक्तयः अपि च आभास-मात्राः पितृवत् गेहे सर्व-कार्येषु वस्तुषु पुत्रस्य…
स्वामित्व-द्योतनाय अस्मिन् आत्मत्वम् उपचर्यते श्रुत्या तु पुत्रः आत्मा इति मुख्यया वृत्त्या न उच्यते
तस्मात् पुत्रे औपचारिकम् आत्मत्वम् (अस्ति) मुख्यतः न देहः एव अहम्-पद-प्रत्ययार्थः इतरः न च।
अहम् देहः (अस्मि) इति निश्चयः सर्व-जन्तूनाम् प्रत्यक्षः च एषः पुरुषः अन्न-रसमयः इति श्रुतिः अपि (अस्ति)।
(श्रुतिः) अस्य पुरुषत्वम् वदति ततः पुरुषः स्वात्मा हि (अस्ति) अयम् देहः एव आत्मा इति चार्वाकेण विनिश्चितम्।
असहमानः अन्यः पृथग्-जनः तन्-मतम् दूषयति नु देहः आत्मा कथम् स्यात् पर-तन्त्रः हि अचेतनः (अस्ति)।
अयम् इन्द्रियैः चाल्यमानः चेष्टते स्वतः क्वचिद् न (अयम्) गृह-मेधिनाम् गृहवत् चक्षुर्-आदीनाम् आश्रयः।
(देहः) बाल्यादि-नानावस्थावान् शुक्ल-शोणित-सम्भवः (अस्ति) अतः देहस्य आत्मत्वम् कदा अपि न उपपद्यते।
अहम् बधिरः अहम् काणः च मूकः (अस्ति) इति अनुभूतितः इन्द्रियाणि आत्मा भवन्ति येषाम् अर्थ-वेदनम् अस्ति।
देहे प्राणाः एतम् प्रजा-पतिम् एत्य इति ऊचुः इति श्रुत्या एव इन्द्रियाणाम् चेतनत्वम् प्रतिपाद्यते।
यतः तस्मात् इन्द्रियाणाम् आत्मत्वम् युक्तम् इति अमुम् निश्चयम् असहमानः अन्यः पृथग्-जनः दूषयति।
इन्द्रियाणि तु कथम् आत्मा (भवेयुः) कुठारवत् करणानि (सन्ति) कुठारादेः करणस्य चेतनत्वम् न हि ईक्ष्यते।
श्रुत्या इन्द्रियाणाम् अधिदेवताम् एव इन्द्रियेषु उपचर्यते साक्षात् चेतनत्वम् तु न उदीर्यते।
अचेतनस्य दीपादेः यथा अर्थाभासकता तथा एव जडानाम् चक्षुर्-आदीनाम् अपि सिध्यति।
अयम् पञ्च-वृत्तिकः प्राणः इन्द्रियाणाम् चेष्टयिता सर्वावस्थासु अवस्थावान् सः अयम् आत्मत्वम् अर्हति अहम् क्षुधावान् तृष्णावान् इत्यादि अनुभवात् अपि (प्राणः आत्मा)।
यस्मात् श्रुत्या अन्यः अन्तरः आत्मा प्राणमयः इति ईर्यते तस्मात् प्राणस्य आत्मत्वम् युक्तम् करण-संज्ञानाम् क्व अपि न उ।
इति अपरः जडः एतस्य निश्चयम् दूषयति प्राणः कथम् आत्मा भवति एषः आन्तरः वायुः एव।
भस्त्रिका-वायुवत् मुहुः बहिः याति अन्तर् आयाति हितम् वा अहितम् वा स्वम् अन्यद् वा न किञ्चन वेद।
(प्राणः प्राणः) जड-स्वभावः चपलः च सर्वदा कर्म-युक्तः सुप्ते मनसि स्थिते प्राणस्य भानम् न दृश्यते।

Go to Top Menu

vs.550 vs.551 vs.552 vs.553 vs.554 vs.555 vs.556 vs.557 vs.558 vs.559 vs.560 vs.561 vs.562 vs.563 vs.564 vs.565 vs.566 vs.567 vs.568 vs.569 vs.570 vs.571 vs.572 vs.573 vs.574 vs.575 vs.576 vs.577 vs.578 vs.579 vs.580 vs.581 vs.582 vs.583 vs.584 vs.585 vs.586 vs.587 vs.588 vs.589 vs.590 vs.591 vs.592 vs.593 vs.594 vs.595 vs.596 vs.597 vs.598 vs.599

मनः तु सर्वम् जानाति यद् सर्व-वेदन-कारणम् तस्मात् मनः एव आत्मा प्राणः तु न कदाचन।
अहम् सङ्कल्पवान् चिन्तावान् च अहं विकल्पवान् इत्यादि अनुभवात् अन्यः अन्तरः मनोमयः आत्मा…
इत्यादि-श्रुति-सद्-भावात् मनसः युक्ता आत्मता एतस्य इति निश्चयम् अपरः जडः दूषयति।
दृग्-आदिवत् करणस्य मनसः आत्मत्वम् (भवितुम् अर्हति) कर्तृ-प्रयोज्यम् करणम् कथम् तु स्वयम् न प्रवर्तते।
यः करण-प्रयोक्ता कर्ता तस्य एव आत्मत्वम् अर्हति स्व-तन्त्रः पुरुषः आत्मा प्रयोज्यः न कदाचन।
अहम् कर्ता अहम् भोक्ता सुखी अस्मि इति अनुभवात् अपि बुद्धिः आत्मा भवति अहङ्-कृतिः हि बुद्धि-धर्मः एव।
अन्यः अन्तरः विज्ञानमयः आत्मा इति निगमः वदति मनसः च अपि भिन्नम् कर्तृ-रूपम् विज्ञानमयम् आत्मानम् (वदति)।
विज्ञानम् यज्ञम् तनुते च कर्माणि अपि तनुते इति श्रुत्या अस्य कर्तृता मुखतः प्रतिपाद्यते तस्मात् बुद्धेः आत्मता युक्ता इति बौद्धेन निश्चितम्।
प्राभाकरः च तार्किकः तौ उभौ अपि अमर्षया बुद्धिः कथम् तु आत्मा (भवितुम् अर्हति) इति तन्-निश्चयम् दुषयतः।
बुद्धेः अज्ञान-कार्यत्वात् प्रतिक्षणम् विनाशित्वात् च बुद्ध्यादीनाम् सर्वेषाम् अज्ञाने लय-दर्शनात्।
अहम् अज्ञः इति आ-स्त्री-बालादि-गोचरात् अनुभवात् अज्ञानम् एव आत्मा भवति बुद्धिः तु न कदाचन।
अन्यः तु अन्तरः आनन्दमयः आत्मा इति वेदः अपि विज्ञानमयात् अन्यम् तथा परम् आनन्दमयम् आत्मानम् वदति।
दुःख-प्रत्यय-शून्यत्वात् आनन्दमयता मता सुप्तौ बुद्ध्यादि सकलम् अज्ञाने प्रविलीयते।
ततः दुःखिनः अपि सुषुप्तौ तु आनन्दमयता (भवति) सुप्तौ किञ्चिद् न जानामि इति अनुभूतिः च दृश्यते।
यतः एवम् अतः अज्ञानस्य आत्मता ध्रुवम् युक्ता हि इति तन्-निश्चयम् भाट्टाः स्व-युक्तिभिः दूषयन्ति।
अज्ञानम् एव आत्मा कथम् (भवितुम् अर्हति) ज्ञानम् च अपि उपलभ्यते ज्ञानाभावे अहम् अज्ञः इति च अज्ञताम् कथम् विद्युः अहम् सुखम् एव अस्वाप्सम् अत्र किञ्चन न जानामि।
इति अज्ञानम् अपि ज्ञानम् प्रबुद्धेषु प्रदृश्यते (च) प्रज्ञान-घनः एव आनन्दमयः इति अपि श्रुतिः।
सा स्वयम् एव उभयात्मत्वम् प्रब्रवीति अतः आत्मा आत्मनः खद्योतः इव चिज्-जड-तनुः सम्मतः।
(आत्मा) घट-कुड्यादिवत् जडः केवलाज्ञानमयः न इति अपरः जडः एतेषाम् निश्चयम् दूषयति।
तेजस्-तिमिरवत् तु तयोः परस्-पर-विरुद्धत्वात् ज्ञानाज्ञानमयः आत्मा कथम् भवितुम् अर्हति।
तमः-प्रकाशवत् हि ज्ञानाज्ञानयोः सामानाधिकरण्यम् वा संयोगः वा समाश्रयः न सिध्यति।
अज्ञानम् विज्ञानम् अपि वा बुद्धिः अपि च तद्-गुणाः सुषुप्तौ न उपलभ्यन्ते अपरम् यद् किञ्चिद् अपि वा।
मात्रादि-लक्षणम् किम् नु शून्यम् एव उपलभ्यते सुषुप्तौ अन्यद् न अस्ति एव अहम् अपि न आसम् इति अनु…
यद् (एवम् अस्ति) सर्वैः सुप्तोत्थित-जनैः शून्यम् एव अनुस्मर्यते ततः शून्यम् एव आत्मा ज्ञानाज्ञान-लक्षणः न।
यतः वेदेन अपि इदम् अग्रे असद् एव आसीत् इति स्फुटम् निरुच्यते क्ष्तस्मात् शून्यस्य एव आत्मता मता।
पूर्वम् असन् एव घटः जायमानः प्रदृश्यते पुरा एव हि कुम्भः अन्तः स्थित्वा बहिर्-मुखः न उदेति।
यद् (एवम् अस्ति) तस्मात् इदम् सर्वम् सत् असतः समजायत ततः सर्वात्मना शून्यस्य एव आत्मत्वम् समर्हति।
इति एवं परस्-पर-विरोधिभिः पण्डितं-मन्यैः तत्-तन्-मतानुरूपाल्प-श्रुति-युक्त्यनुभूतिभिः…
प्रतिवादिनाम् निर्णीत-मत-जातानि पण्डितैः श्रुतिभिः अनुभवैः च बाधकैः अपि खण्डितानि एव…
यतः (एवम् अस्ति) तस्मात् तु श्रुति-युक्त्यनुभूतिभिः पुत्रादेः शून्यान्तस्य अनात्मत्वम् विशेषतः सुसाधितम्।
महद्भिः प्रमाणान्तर-बाधितस्य याथार्थ्यम् न हि अङ्गी-क्रियते अतः पुत्रादि-शून्यान्तम् अनात्म-तत्त्वम् इति एव विस्पष्टम् सुजातम्।
(शिष्यः उवाच) सुषुप्ति-काले सकले विलीने इह शून्यम् विना अन्यद् न उपलभ्यते शून्यम् तु अनात्मा ततः परः आत्माभिधानः कः अपि अर्थः तु न अनुभूयते।
यदि च आत्मा अस्ति (तर्हि) किम् उ न उपलभ्यते सुप्तौ यथा तिष्ठति (तत्र) किम् प्रमाणम् असौ किं-लक्षणः अहम्-आदिषु प्रबाध्यमानेषु सः स्वयम् कथम् न बाध्यते।
गुरो मे हृदय-ग्रन्थि-लक्षणम् एतद् संशय-जातम् कृपया युक्ति-महा-खड्ग-धारया छिन्धि।
(गुरुः उवाच) अयम् अतिसूक्ष्मतरः प्रश्नः तव सदृशः मतः सूक्ष्म-बुद्धिषु एव सूक्ष्मार्थ-दर्शनम् प्रदृश्यते।
त्वया अधुना सूक्ष्मम् च मुमुक्षुभिः ज्ञातव्यम् परमम् रहस्यम् यद् यद् पृष्टम् सकलम् वक्ष्यामि शृणु।
सुप्तौ बीजे वटवत् स्व-कारणे अव्यक्ते अनुलीनम् बुद्ध्यादि सकलम् अविकृतात्मना तिष्ठति।
जगत् स्व-रूपेण तिष्ठति एव शून्यायते तु न यथा वटः क्वचिद् अङ्कुर-रूपेण क्वचिद् बीजात्मना तथा अदः कार्य-कारण-रूपेण तिष्ठति।
तर्हि (जगत्) अव्याकृतम् (आसीत्) इति असौ श्रुतिः अव्याकृतात्मना जगतः अवस्थाम् सुषुप्त्यादिषु तद्-भेदम् वदति।
अतद्-विदः इमम् अर्थम् अविज्ञाय श्रुति-युक्तिभिः निर्णीतम् जगतः दर्शनम् शून्यम् इति प्राहुः।
असतः सतः उत्पत्तिः न श्रूयते न च दृश्यते नर-शृङ्गात् किम् उदेति ख-पुष्पात् किम् भविष्यति।
अविद्यमानः कुम्भोः मृदः न हि प्रभवति चेद् (एवम् भवेत् तर्हि) सिकतायाः वा अथवा वारिणः वा प्रभवतु ताभ्याम् सर्वथा क्वापि न हि भवति च तस्मात् यः अर्थः यतः उदयति अत्र तस्य स्वभावः अस्ति।
अन्यथा विपरीतम् स्यात् सर्वतः सर्व-शास्त्रेषु सर्व-लोकेषु कार्य-कारण-लक्षणम् नियतम्।
असतः सत् कथम् जायेत इति श्रुत्या निषिध्यते तस्मात् असतः एव सज्-जननम् न उ घटते शून्य-शब्दार्थः मिथ्या (एव)।
भ्रान्ति-शिरो-मणे अव्यक्त-शब्दिते प्राज्ञे सति आत्मनि अत्र जाग्रति तस्य शून्यत्वम् कथम् सिध्यति।
सुषुप्तौ शून्यम् एव (भवति) इति केन पुंसा तव ईरितम् त्वया केन हेतुना अनुमितम् कथम् ज्ञातम् उच्यताम्।
इति पृष्टः मूढतमः किम् उत्तरम् वदिष्यति अनुरूपकम् लिङ्गम् न एव(अस्ति) कश्चन वा वक्ता न अस्ति सुषुप्ति-स्थित-शून्यस्य बोद्धा आत्मनः परः कः नु (अस्ति)।
(जनः) स्व-सुप्ति-काले स्वेन अनुभूतम् स्थित-शून्य-भावम् स्वयम् एव वक्ति तत्र अयम् मूढः स्वस्य अपि स्व-सत्ताम् अनवेक्ष्य शून्यत्वम् ब्रवीति।
अन्य-लोकैः अवेद्यमानः (आत्मा) स्वयम् साक्षात् सौषुप्तिकम् धर्मम् अवैति अत्र यः च बुद्ध्याद्यभावस्य सः एषः बोद्धा खलु निर्विकारः आत्मा।
यस्य महसा इदम् सकलम् विभाति स्वयञ्-ज्योतिषः तस्य सूर्यस्य इव इह किम् भासकम् अस्ति प्रज्ञादि सर्वम् जडम् हि क्षिति-तले अर्कस्य विभासकम् न दृष्टम् तथा एव आत्मनः अन्यः कः अपि अनुभासकः न अतः परः कश्चन अनुभविता न (अस्ति)।

Go to Top Menu

vs.600 vs.601 vs.602 vs.603 vs.604 vs.605 vs.606 vs.607 vs.608 vs.609 vs.610 vs.611 vs.612 vs.613 vs.614 vs.615 vs.616 vs.617 vs.618 vs.619 vs.620 vs.621 vs.622 vs.623 vs.624 vs.625 vs.626 vs.627 vs.628 vs.629 vs.630 vs.631 vs.632 vs.633 vs.634 vs.635 vs.636 vs.637 vs.638 vs.639 vs.640 vs.641 vs.642 vs.643 vs.644 vs.645 vs.646 vs.647 vs.648 vs.649

येन जाग्रत्-स्वप्न-सुषुप्तिषु सर्वम् अनुभूयते कः नु इमम् विज्ञातारम् कथम् वेदितुम् अर्हति।
यथा वह्निः सर्वस्य दाहकः वह्नेः दाहकः अन्यः न अस्ति तथा ज्ञातुः आत्मनः ज्ञाता कः अपि न दृश्यते।
अयम् केन उपलभ्येत स्वयम् हि उपलब्धा ततः अयम् आत्मा उपलब्ध्यन्तराभावात् न उपलभ्यते।
अयम् एकः एव बुद्ध्यादि-वेद्य-विलयात् सुप्तौ किञ्चिद् न पश्यति (न) शृणोति न वेत्ति अत्र सौषुप्तिकस्य तमसः स्वयम् एव साक्षी भूत्वा निर्विकल्पः (सन्) सुखेन च तिष्ठति।
पण्डितोत्तमाः सुषुप्तौ आत्म-सद्-भावे आ-बाल-वृद्ध-सम्मतम् स्व-प्रत्यभिज्ञानम् प्रमाणम् विदुः।
(आत्मनः) प्रत्यभिज्ञायमानत्वात् (आत्म-तत्त्वम्) लिङ्गमात्रानुमापकम् (अहम्) सुखम् अस्वाप्सम् इति स्मर्यमाणस्य अयम् सद्-भावः (ज्ञायते)।
पुरा चेद् अनुभूतः न उ (भवेत् तर्हि) स्मृतेः तु अनुदयः भवेत् इत्यादि-तर्क-युक्तिः च आत्मनः सद्-भावे मानम्।
यत्र आत्मनः अकामयितृत्व-बुद्धिः (भवति) अपि च स्वप्नानपेक्षा (भवति) तद् सुषुप्तम् इति श्रुत्या अपि अत्र आत्म-सद्-भावः उदीर्यते तस्मात् अत्र श्रुतिः मानम्।
अविद्यमानस्य अकामयितृता स्वप्नाद् दर्शनम् (स्वप्नादर्शनम्) कथम् घटते ततः आत्मास्तित्वम् प्रतीयते।
बुधैः एतैः प्रमाणैः केवलः शुद्धः सच्-चिद्-आनन्द-लक्षणः अयम् आत्मा साक्षितया अस्ति इति ज्ञातः।
सत्त्व-चित्त्वानन्दतादि प्रत्यग्-आत्मनः लक्षणम् नित्य-स्वरूपतः काल-त्रये अपि अबाध्यत्वम् सत्यम्…
ज्ञान-स्वरूपतः शुद्ध-चैतन्य-रूपत्वम् चित्त्वम् अखण्ड-सुख-रूपत्वात् आनन्दत्वम् (अस्ति) इति ईर्यते।
जाग्रत्-स्वप्न-सुषुप्तिषु अहम् अस्मि इति आत्मनः सत्ता अनुस्यूता अतः अयम् आत्मा नित्यः अव्ययः भवति।
सर्वदा अपि आसम् इति अभिन्न-प्रत्ययः एव ईक्ष्यते कदा अपि न आसम् इति (प्रत्ययः न ईक्ष्यते) अस्मात् आत्मनः नित्यता मता।
आयातासु गतासु शैशव-मुखावस्थासु अन्यासु जाग्रन्-मुखासु अपि दुष्टासु अदुष्टासु धियः अखिलासु वृत्तिषु अपि गङ्गा-भङ्ग-परम्-परासु जलवत् आत्मनः अनुवृत्ता सत्ता तिष्ठति एव अयम् अहम् इति साक्षिणः एकात्मता सदा स्थिरा (अस्ति)।
अहम्-आदयः प्रतिपदम् विभिन्नाः (सन्ति) ते क्षण-परिणामितया विकारिणः (सन्ति) निष्कलत्वात् अमुष्य परिणतिः न (अस्ति) अतः एव अयम् आत्मा अविकारी नित्यः (अस्ति)।
यः अहम् स्वप्नम् अद्राक्षम् यः (अहम्) सुखम् अस्वाप्सम् अथ सः एव जागरूकः अस्मि इति एवम् अच्छिन्नतया आत्मनः सत्ता अनुभूयते अत्र हि संशयः न अस्ति।
श्रुत्युक्ताः षोडश-कलाः चिद्-आभासस्य (भवन्ति) आत्मनः न अस्य निष्कलत्वात् लयः न तस्मात् आत्मनः नित्यत्वम्।
जड-प्रकाशकः सूर्यः प्रकाशात्मा एव जडः न उ तस्मात् बुद्ध्यादि-भासकः तथा चित्-स्वरूपः मतः।
कुड्यादेः तु जडस्य स्वतः भानम् न एव घटते (यथा) एतद् सर्वदा सूर्यादि-प्रभया विना क्वचिद् अपि प्रत्यक्षम् (न अस्ति) तथा आत्मना विना बुद्ध्यादेः अपि अणुः अपि स्फूर्तिः स्वतः न एव अस्ति यथा भानुः रुङ्मयः (तथा) सः अयम् केवल-चिन्मय-श्रुति-मतः।
अर्कः स्व-भासने वा अन्य-पदार्थ-भासने ईषत् प्रकाशान्तरम् न इच्छति अयम् चिद्-धातुः परात्मा स्व-बोधने वा अहम्-आदि-बोधने अपि तथा एव (अस्ति)।
यतः अयम् किम् अपि अन्य-प्रकाशम् न अपेक्ष्य निजात्मना एव आभाति ततः अयम् चिद्-आत्मा स्वयञ्-ज्योतिः (अस्य) आत्म-भाने पर-दीप्त्यपेक्षा न हि (अस्ति)।
इनः अपि चन्द्रः यम् किञ्चिद् न प्रकाशयति विद्युतः न उ मिताभः अयम् वह्निः किम् उत भान्तम् यम् एतम् समस्तम् जगत् अनुभाति सः अयम् आत्मा सर्व-दशासु स्वयम् स्फुरति च।
सुख-रूपत्वात् आत्मनः स्व-लक्षणम् आनन्दत्वम् (अस्ति) पर-प्रेमास्पदत्वेन आत्मनः सुख-रूपत्वम्।
सर्वेषाम् सुख-हेतुषु सावधिः प्रीतिः ईक्ष्यते क्वचिद् कदा अपि स्वात्मनि प्राणिनाम् प्रीतेः अवधिः न।
क्षीणेन्द्रियस्य जीर्णस्य वा सम्प्राप्तोत्क्रमणस्य (च) जीवितुम् एव आशा अस्ति यतः स्वात्मा प्रियतमः।
अतः आत्मा सर्व-शरीरिणाम् परम-प्रेमास्पदः यस्य शेषतया सर्वम् उपादेयत्वम् ऋच्छति।
एषः एव पुत्रात् अपि धनात् अपि अन्यस्मात् सर्वस्मात् अपि प्रियतमः अयम् आत्मा परमान्तरः।
यद् तु प्रियत्वेन मतम् तद् सदा नृणाम् अप्रियम् न (भवति) विपत्तौ सम्पत्तौ अपि यथा (अयम्) आत्मा (भवति) तथा अपरः न (भवति)।
आत्मा खलु असु-भृताम् प्रियतमः भार्यात्मजाप्त-गृह-वित्त-मुखाःः पदार्थाः च वाणिज्य-कर्षण-गवावन-राजसेवा-भैषज्यक-प्रभृतयः विविधाः क्रियाः यदर्थाः (सन्ति)।
प्रवृत्तिः च निवृत्तिः च यद् च यावत् च चेष्टितम् (तद् सर्वम्) आत्मार्थम् एव न अन्यार्थम् न (अस्ति) अतः परः प्रियतमः (न अस्ति)।
तस्मात् आत्मा केवलानन्द-रूपः यः सर्वस्मात् वस्तुनः प्रेष्ठः उक्तः यः वै अस्मात् यम् अन्यम् प्रियम् मन्यते सः अयम् तस्मात् शोकम् एव अनुभुङ्क्ते।
(शिष्यः उवाच —) प्रभो मया अयम् अपरः प्रश्नः क्रियते क्षम्यताम् अज्ञ-वाक् महात्मनाम् अपराधाय न कल्पते।
आत्मा अन्यः च सुखम् अन्यद् आत्मनः सुख-रूपता न सकलः जनः आशास्यम् आत्मनः सुखम् यतते।
स्वामिन् आत्मनः सुख-रूपत्वे देहिनाम् प्रयत्नः किम् उ मे एषः संशयः कृपया निरस्यताम् एव।
(श्री-गुरुः उवाच —) पृथग्-जनः आनन्द-रूपम् आत्मानम् अज्ञात्वा एव बहिः-सुखाय यतते कश्चिद् तु बुधः विदन् न (यतते)।
दुर्मतिः निक्षेपम् हि अज्ञात्वा एव भिक्षाम् अटति कः नु सुधीः स्व-वेश्मनि निधिम् ज्ञात्वा भिक्षाम् अटेत्।
अज्ञः स्व-भावतः दुःखात्मकम् स्थूलम् च सूक्ष्मम् च वपुः स्वात्मतया गृहीत्वा च आत्मनः स्वम् सुख-रूपम् विस्मृत्य दुःख-प्रदेभ्यः सुखम् इच्छति।
दुःख-प्रदम् वस्तु हि सुखम् दातुम् न समर्हति विषम् पिबतः जन्तोः किम् अमृतत्वम् प्रयच्छति।
पामरः आत्मा अन्यः च सुखम् अन्यद् इति एवं निश्चित्य सत्यम् एव बहिः-सुखाय यतते संशयः न।
इह सर्वेषाम् देहिनाम् इष्टस्य वस्तुनः ध्यान-दर्शनाद्युपभुक्तिषु यः आनन्दः प्रतीयते।
सः वस्तु-धर्मः न उ यस्मात् मनसि एव उपलभ्यते मनसि वस्तु-धर्मस्य उपलम्भनम् कथम् स्यात्।
अन्यत्र तु अन्य-धर्माणाम् उपलम्भः न दृश्यते तस्मात् अयम् आनन्दः तु कदाचन वस्तु-धर्मः न (अस्ति)।
एषः मनसः अपि धर्मः न अर्थे असति तद्-अदर्शनात् व्यञ्जके असति व्यङ्ग्यम् न उदेति इति न मन्यताम्।
अर्थे अपि च सति उक्त-लक्षणः आनन्दः तु न उदेति हि व्यञ्जके सति अपि व्यङ्ग्यानुदयः न एव सम्मतः।
अत्र दुरदृष्टादिकम् प्रतिबन्धः न प्रकल्प्यताम् प्रियस्य वस्तुनः लाभे दुरदृष्टम् न सिध्यति।
तस्मात् (आनन्दः) मानसः धर्मः न निर्गुणत्वात् आत्मनः न च किम् तु पुण्यस्य सांनिध्यात् च इष्टस्य वस्तुनः अपि…
सत्त्व-प्रधाने अस्मिन् चित्ते स्वच्छे पयसि सुधा-करः इव आनन्द-लक्षणः तु आत्मा प्रतिबिम्बति एव।
सः अयम् आभासः आनन्दः यः चित्ते प्रतिबिम्बितः (सन्) पुण्योत्कर्षापकर्षाभ्याम् स्वयम् उच्चावचः भवति।
श्रुत्या सार्व-भौमादि-ब्रह्मान्तम् यः प्रतिपादितः सः क्षयिष्णुः सातिशयः (अस्ति) कारणे प्रक्षीणे लयम्…

Go to Top Menu

vs.650 vs.651 vs.652 vs.653 vs.654 vs.655 vs.656 vs.657 vs.658 vs.659 vs.660 vs.661 vs.662 vs.663 vs.664 vs.665 vs.666 vs.667 vs.668 vs.669 vs.670 vs.671 vs.672 vs.673 vs.674 vs.675 vs.676 vs.677 vs.678 vs.679 vs.680 vs.681 vs.682 vs.683 vs.684 vs.685 vs.686 vs.687 vs.688 vs.689 vs.690 vs.691 vs.692 vs.693 vs.694 vs.695 vs.696 vs.697 vs.698 vs.699

याति ये तु पुण्य-कारिणः वैषयिकानन्दम् भुञ्जते पुण्यैक-साधनः तु यः एषः विषयानन्दः…
भोग-काले च तेषाम् अपि दुःखम् (भवति) अन्ते महत्तरम् (भवति) विषय-सम्पृक्तम् सुखम् विष-सम्पृक्त-भक्तवत् (भवति)।
सुखम् उच्चावचत्वेन क्षयिष्णुत्व-भयेन च भोग-काले अपि भोगान्ते दुःखम् एव प्रयच्छति ।
यथा भोग-काले ब्रह्मादि-पद-भागिनाम् राज-स्थान-प्रविष्टानाम् नॄणाम् तारतम्यम् मतम् भवेत्…
तथा एव ब्रह्मादि-पद-भागिनाम् जन्तूनाम् दुःखम् (भवति) तस्मात् विदुषा वैषयिकम् सुखम् न काङ्क्षणीयम्।
यः बिम्ब-भूतः आनन्दः सः आत्मानन्द-लक्षणः (आत्मा) शाश्वतः निर्द्वयः पूर्णः नित्यः एकः अपि निर्भयः (अस्ति)।
बिम्बवत् प्रतिबिम्बेन आभासानन्देन लक्ष्यते बिम्ब-मूलः विना प्रतिबिम्बः बिम्बम् न सिध्यति।
ततः यद् बिम्बः आनन्दः प्रतिबिम्बेन लक्ष्यते पण्डित-जनैः युक्त्या एव कदा अपि न अनुभूयते।
अविद्या-कार्य-करण-सङ्घातेषु पुरा उदितः एषः आत्मा जाग्रति अपि स्वप्ने गोचरः न भवति।
सुषुप्तौ दुःख-रूपस्य स्थूलस्य च सूक्ष्मस्य अपि वर्ष्मणः लये आनन्द-लक्षणः प्रत्यक् स्फुरति।
अत्र हि कश्चिद् विषयः न (भवति) बुद्ध्यादि किञ्चन अपि न (भवति) केवलानन्द-मात्रः निर्द्वयः आत्मा एव तिष्ठति।
सर्वैः सुप्तोत्थितैः जनैः एषः सुख-मात्रतया प्रत्यभिज्ञायते अत्र संशयम् कर्तुम् न अर्हसि।
सुषुप्तात् उत्थितवता त्वया अपि सुखम् अस्वाप्सम् इति अनु आत्मनः सुख-मात्रत्वम् प्रत्यभिज्ञातम्।
अनाघ्रातोपनिषदा पूर्व-वादिना दुःखाभावः सुखम् इति यद् उक्तम् तद् वचः असारम् मृषा।
दुःखाभावः तु लोष्टादौ विद्यते न अनुभूयते सुख-लेशः अपि सर्वेषाम् तद् इदम् खलु प्रत्यक्षम्।
अयम् हि सत् एषः एव (सत्) इति प्रस्तुत्य श्रुतिः वदति अयम् सद्-घनः अयम् चिद्-घनः आनन्द-घनः (अस्ति) इति अपि (शुतिः)…
अस्य प्रत्यग्-आत्मनः आनन्द-घनताम् स्व-रूपम् (वदति) धन्यैः धीरैः सद्-उत्तमैः ब्रह्मविद्भिः महात्मभिः…
समाधै आत्मा अपरोक्षतया केवलानन्द-मात्रत्वेन एव अनुभूयते अत्र एवम् संशयः न।
ब्रह्माद्याः सर्व-जन्तवः स्व-स्वोपाध्यनुरूपेण अमुष्य इव आनन्द-लक्षणाम् मात्राम् उपजीवन्ति।
भक्ष्येषु यः सुख-कृत् मधुरः रसः आस्वाद्यते सः गुडस्य एव (भवति) तेषाम् क्वचिद् माधुर्यम् न उ विद्यते।
तद्वत् विषय-सांनिध्यात् यः आनन्दः प्रतीयते असौ बिम्बानन्दांश-विस्फूर्तिः एव (अस्ति) जडात्मनाम् न।
यत्र कुत्र अपि यस्य कस्य अपि योगेन आनन्दः दृश्यते सः परस्य ब्रह्मणः एव स्फूर्ति-लक्षणः (अस्ति)।
यथा कुवलयोल्लासः चन्द्रस्य एव प्रसादतः (भवति) तथा एषाम् आनन्दोदयः वस्तुनः स्फुरणात् एव अपि (भवति)।
परमात्मनः सत्त्वम् चित्त्वम् तथा आनन्द-स्वरूपम् निर्गुणस्य तु गुणायोगात् ते गुणाः न भवन्ति।
द्रव्यान्तरे सति विशेषणम् तु व्यावृत्त्यै भवेत् प्रपञ्चस्य मृषात्वतः अयम् परमात्मा अद्वितीयः।
वस्त्वन्तरस्य अभावेन न व्यावृत्त्यः कदाचन केवलः निर्गुणः च इति निर्गुणत्वम् निरुच्यते।
ततः श्रुत्या एव तेषाम् गुणत्वम् न उपपद्यते यथा वह्नेः उष्णत्वम् च प्रकाशः च (अस्ति) तथा आत्मनः…
सत्त्व-चित्त्वानन्दतादि (आत्मा) स्व-रूपम् इति निश्चितम् अतः एव सजातीय-विजातीयादि-लक्षणः…
अद्वितीये परात्मनि वस्तुनि विद्यते भेदः न प्रपञ्चस्य अपवादेन विजातीय-कृता भिदा…
न इष्यते तत्-प्रकारम् ते वक्ष्यामि सादरम् शृणु (यथा) गुण-विवर्तस्य अहेः वस्तुतः गुण-मात्रस्य…
दर्शनम् (भवति) अस्य विवर्तस्य जगतः सन्-मात्रत्वेन अद्वैत-ब्रह्म-दर्शिनः अपवादः इति प्राहुः।
सुयुक्तिभिः सूक्ष्म-बुद्धिभिः तद्-उत्पत्ते व्युत्क्रमेण प्रतीतस्य अस्य जगतः सन्-मात्रत्वम् द्रष्टव्यम्।
चतुर्विधम् स्थूल-शरीर-जातम् तद्-भोज्यम् अन्नादि तद्-आश्रयादि ब्रह्माण्डम् पञ्ची-कृत-भूत-मात्रम् ईक्षेत।
यद् यत्-कार्य-रूपेण ईक्ष्यते अत्र विचार्यमाणे तद् तन्-मात्रम् एव (प्रतीयते) मृत्-कार्य-भूतम् कलशादि सम्यक् विचारितम् सत् मृदः न विभिद्यते।
(कलशस्य) अन्तर् बहिः च अपि मृद् एव दृश्यते कलशादि किञ्चन मृदः भिन्नम् न ग्रीवादिमत् यद् कलशम् तद् एतद् मृद् एव न अन्यद् इत्थम् च न वाच्यम्।
ततः मूढैः स्व-रूपतः मृद् एव तद् कलशादि-नाम्ना अभिधीयते तत्र विचार्यमाणे नाम्नः हि भेदः (भवति) वस्तु-भेदः तु न प्रदृश्यते।
(हे) अङ्ग तस्मात् हि कार्यम् यतः स्व-कारणात् कदा अपि भिन्नम् न अस्ति ततः यद् भौतिकम् इदम् सर्वम् तथा एव तद् भूत-मात्रम् ततः भिन्नम् न अपि (अस्ति)।
स्व-स्व-गुणैः शब्दादिभिः च सार्धम् तद् पञ्ची-कृत-भूत-जातम् च अपि सूक्ष्माणि वपूंषि च एतद् सर्वम् अपञ्ची-कृत-भूत-मात्रम् भवति।
रजस्-तमः-सत्त्व-गुणैः च सार्धम् तद् अप्यपञ्ची-कृत-भूत-जातम् (अपि) स्व-रूपतः अव्यक्त-मात्रम् भवति इदम् च अव्यक्तम् स्वयम् साभासम्।
यद् आधार-भूतम् अखण्डम् आद्यम् शुद्धम् सदा एक-रूपम् सन्-मात्रम् परम् ब्रह्म एव अस्ति अथ सतः परम् केवलम् वस्तु एव (अस्ति इति) विकल्पः न उ (कर्त्तव्यः)।
यथा पुंसः दृष्टेः दोषात् एव एकः चन्द्रः सद्-वितीयः स्यात् तथा एतद् ब्रह्म एकम् अस्ति बुद्धि-दोषेण नाना (भाति) दोषे नष्टे भाति एकम् एव वस्तु (भाति)।
यथा रज्जोः स्व-रूपाधि-गमे सर्प-धीः न (भवति) रज्ज्वाम् तु विलीना (जायते) तथा एव ब्रह्मावगत्या तु जगत्-प्रतीतिः भ्रमेण सह तत्र एव लीना (भवति)।
सदा अद्वितीयम् भ्रान्त्या उदित-द्वैत-मति-प्रशान्त्या सदा एकम् एव अस्ति ततः अत्र निर्विकल्पे ब्रह्मणि विजातीय-कृतः भेदः न विद्यते।
यदा उपाधिः अस्ति तदा तद्-अभिन्नः आत्मा सजातीयः इव अवभाति स्वप्नार्थतः तस्य मृषात्मकत्वात् तदप्रतीतौ एषः आत्मा स्वयम् ब्रह्मैक्यताम् एति पृथक् न भाति ततः सजातीय-कृतः भेदः न।
यथा घटाभावे घटाकाशः महा-काशः (अस्ति) तथा उपाध्यभावे तु स्वयम् एषः आत्मा केवलम् ब्रह्म एव।
घटे सति अपि असति अपि सदा आकाशः पूर्णः एव नित्य-पूर्णस्य नभसः विच्छेदः केन सिध्यति।
यथा अच्छिन्नः (आकाशः) पामराणाम् घटादिना छिन्नवत् भाति वसुधा ग्राम-क्षेत्राद्यवधिभिः भिन्ना इव (भाति)…
तथा एव महताम् च महत्तमम् परमम् ब्रह्म भ्रान्त्या कल्पित-वस्तुना परिच्छिन्नम् इव आभाति।
तस्मात् ब्रह्मात्मनोः भेदः कल्पितः वास्तवः तु न अतः एव श्रुत्या अपि मुहुः एकत्वम् प्रतिपाद्यते।
त्वम् तद् असि इति ब्रह्मात्मनोः अद्वयत्वोपपत्तये प्रत्यक्षादि-विरोधेन वाच्ययोः न उपयुज्यते लक्ष्ययः तत्-त्वम्-पदार्थयोः एव ऐक्यं सिध्यति।

Go to Top Menu

vs.700 vs.701 vs.702 vs.703 vs.704 vs.705 vs.706 vs.707 vs.708 vs.709 vs.710 vs.711 vs.712 vs.713 vs.714 vs.715 vs.716 vs.717 vs.718 vs.719 vs.720 vs.721 vs.722 vs.723 vs.724 vs.725 vs.726 vs.727 vs.728 vs.729 vs.730 vs.731 vs.732 vs.733 vs.734 vs.735 vs.736 vs.737 vs.738 vs.739 vs.740 vs.741 vs.742 vs.743 vs.744 vs.745 vs.746 vs.747 vs.748 vs.749

(शिष्य: उवाच —) (हे) स्वामिन् तत्-त्वम्-पदयोः कति-विधः अर्थः मतःः स्यात् उभयोः पदयोः कः वाच्यार्थः च कः नु लक्ष्यार्थः।
वाच्यैकत्व-विवक्षायाम् कः विरोधः प्रतीयते लक्ष्यार्थयोः अभिन्नत्वे सः कथम् विनिवर्तते।
अत्र एकत्व-कथने का वा लक्षणा उररी-कृता एतद् सर्वम् त्वम् करुणया सम्यक् प्रतिपादय।
(श्रीगुरुः उवाच —) विद्वन् अवहितः (सन्) शृणुष्व अद्य ते तपः फलितम् वाक्यार्थ-श्रुति-मात्रेण सम्यग् ज्ञानम् भविष्यति।
यावत् तत्-त्वम्-पदयोः अर्थः सम्यक् न विचार्यते तावत् एव नृणाम् मृत्यु-संसार-लक्षणः बन्धः (अस्ति)।
सताम् वाक्यार्थापरोक्ष-ज्ञानतः सच्-चिद्-आनन्दाखण्डैक-रस-रूपिणी अवस्था मोक्षः सिध्यति।
मुमुक्षोः भव-मुक्तये वाक्यार्थः एव ज्ञातव्यः तस्मात् अवहितः भूत्वा शृणु समासतः वक्ष्ये।
पण्डितोत्तमैः वाच्य-लक्ष्यादि-भेदेन वाक्यानाम् बहु-विधाः अर्थाः प्रोक्ताः प्रस्तुतम् त्वया श्रूयताम्।
तद् त्वम् असि इति अत्र वाक्ये यद् पद-त्रयम् तत्र आदौ विद्यते विद्यमानस्य तत्-पदस्य (अर्थः) निगद्यते।
शास्त्रार्थ-कोविदैः पण्डितैः वाच्यः लक्ष्यः इति द्विधा यः अर्थः उदीरितः ते वाच्यार्थम् प्रवक्ष्यामि।
(तद्) वियद्-आदि-विराड्-अन्तम् समष्टि-रूपम् सत्त्व-बृंहितम् साभासम् अज्ञानम् स्व-कार्येण समन्वितम्।
(Anvaya of 710–20 is preliminary, also topics)
तद्-अवच्छिन्नम् सत्य-ज्ञानादि-लक्षणम् चैतन्यम् सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादि-गुणैः युतम् (भवेत्)।
यद् जगत्-स्रष्टृत्व-पातृत्व-संहर्तृत्वादि-धर्मकम् सर्वात्मना भासमानम् तद् (ब्रह्म) च गुणैः अमेयम्।
अव्यक्तम् अपरम् ब्रह्म वाच्यार्थः इति कथ्यते अत्र वाक्यार्थ-सङ्गतिः यथा नीलम् उत्पलम् इति।
तथा तद् त्वम् असि इति अत्र वाक्यार्थ-सङ्गतिः न अस्ति (यथा) नीलः उत्पलेन विशेषितः पटात् व्यावर्तते।
इत्थम् नीलेन तु उत्पलम् विशेषितम् तयोः अन्योन्य-भेदस्य व्यावर्तकतया शौक्ल्यात् व्यावर्तते।
वाक्यार्थत्वे विशेषण-विशेष्यत्व-संसर्गस्य इतरस्य वा प्रमाणान्तर-विरोधः न विद्यते।
अतः बाध-वर्जितः वाक्यार्थः सम्यक् सङ्गच्छते अत्र एवम् तद् त्वम् असि इति वाक्यार्थः न समञ्जसः।
तद्-अर्थस्य परोक्षत्वादि-विशिष्ट-चितेः अपि त्वम्-अर्थस्य अपरोक्षत्वादि-विशिष्ट-चितेः अपि…
तथा एव तयोः अन्योन्य-भेदस्य व्यावर्तकतया विशेषण-विशेष्यस्य इतरस्य वा संसर्गस्य…
वाक्यार्थत्वे विरोधोः प्रत्यक्षादि-कृतः अस्ति ततः वाक्यार्थः न सङ्गच्छते तद् च विरोधम् (अहम्) ते वच्मि।
सर्वेशत्व-स्व-तन्त्रत्व-सर्वज्ञत्वादिभिः गुणैः सर्वोत्तमः सत्य-कामः सत्य-सङ्कल्प ईश्वरः…
तत्-पदार्थः (अस्ति) किञ्चिज्-ज्ञः तु दुःख-जीवनः तद्-गतिकः प्राकृत-लक्षणः अयम् संसारी जीवः त्वम्-अर्थः (अस्ति)।
विपरीतयोः अनयोः एकत्वम् कथम् घटते उभयोः अयम् विरोधः प्रत्यक्षेण उपलभ्यते।
वह्नि-तुहिनौ इव विरुद्ध-धर्माक्रान्ततत्वात् परस्-पर-विलक्षणौ जीवेशौ विद्येते) शब्दार्थतः अपि च…
प्रत्यक्षादि-विरोधः स्यात् इति तयोः ऐक्ये परित्यक्ते महान् श्रुति-वचन-विरोधः स्मृति-वचन-विरोधः च भवति।
श्रुत्या अपि अनयोः एकत्वम् तात्पर्येण निगद्यते अस्मात् मुहुः तद् त्वम् असि इति श्रुतेः वचः अङ्गी-कार्यम्।
विशिष्टस्य वा संसर्गस्य वाक्यार्थत्वे पुनः च अयथार्थतया सः अयम् वाक्यार्थः श्रुतेः मतः न।
अखण्डैक-रसत्वेन वाक्यार्थः श्रुति-सम्मतः स्थूल-सूक्ष्म-प्रपञ्चस्य सन्मात्रत्वम् पुनः पुनः…
दर्शयित्वा सुषुप्तौ आत्मनः तद्-ब्रह्माभिन्नत्वम् उपपाद्य सदैकत्वं प्रदर्शयितुम् इच्छया…
इदम् सर्वम् ऐतद्-आत्म्यम् इति उक्त्या एव श्रुतिः ब्रह्मणः अद्वैत-सिद्धये सद्-आत्मनोः एकत्वम् ब्रवीति।
प्रपञ्चे जीवे वा सति ब्रह्मणः अद्वैतत्वम् कुतः अतः तयोः अखण्डत्वम् एकत्वम् श्रुति-सम्मतम्।
विरुद्धांश-परित्यागात् प्रत्यक्षादिः न बाधते अविरुद्धांश-ग्रहणात् श्रुत्या अपि न विरुध्यते।
ततः वाक्यार्थ-सिद्धये लक्षणा हि उपगन्तव्या वाच्यार्थानुपपत्त्या एव लक्षणा अभ्युपगम्यते।
बुधाः च सम्बन्धानुपपत्त्या लक्षणा इति जगुः गङ्गायाम् घोषः (वसति) इत्यादौ या (भवति सा) जहल्-लक्षणा मता।
तद् त्वम् असि इति अत्र वाक्ये सा एषा न प्रवर्तते गङ्गायाः अपि घोषस्य आधाराधेयत्व-लक्षणम् (अस्ति)।
तत्र प्रत्यक्षतः सर्वः विरुद्ध-वाक्यार्थः (प्रतीयते) ततः गङ्गा-सम्बन्धवत्-तीरे लक्षणा सम्प्रवर्तते।
तथा तद् त्वम् असि इति अत्र चैतन्यैकत्व-लक्षणे विवक्षिते अपरोक्षत्वादि-लक्षणः तु वाक्यार्थे…
भाग-मात्रः सर्वः तु न विरुध्यते तस्मात् विरुध्यते अत्र जहल्-लक्षणायाः प्रवृत्तिः न युज्यते।
नृणाम् कठिनत्व-धिया नालिकेर-फलस्य इव सर्वस्य वाच्यार्थस्य तु त्यागे फलम् न ईक्ष्यते।
यथा गङ्गा-पदम् स्वार्थम् त्यक्त्वा तटम् लक्षयते यथा तत्-पदम् त्वम्-पदम् अपि वा अखिलम् स्वार्थम् त्यक्त्वा…
यदि तद्-अर्थम् वा त्वम्-अर्थम् वा स्वयम् लक्षयति तदा जहल्-लक्षणायाः प्रवृत्तिः उपपद्यते।
इति आर्यैः न शङ्कनीयम् ज्ञातार्थे हि लक्षणा न (भवति) तत्-पदम् त्वम्-पदम् अपि वा श्रूयते प्रतीयते च।
तत्र च तदर्थे कथम् लक्षणा सम्प्रवर्तेत अत्र शोणः धावति इति वाक्यवत् न प्रवर्तते…
यथा सा जहल्-लक्षणा अजहल्-लक्षणा अपि वा (न प्रवर्त्तते) द्रव्यम् अन्तरा लोके गुणस्य गमनम् विरुद्धम्।
अतः तम् अपरित्यज्य तद्-गुणाश्रय-लक्षणः लक्ष्यादिः लक्ष्यते तत्र असौ लक्षणा प्रवर्तते।
(यतः) ब्रह्मात्मैकत्व-बोधके तद् त्वम् असि इति अत्र वाक्ये द्वयोः परोक्षत्वापरोक्षत्वादि-विशिष्ट-चितोः…
यतः विरुद्धांश-विवर्जनात् एकत्व-रूप-वाक्यार्थः न सिध्यति तस्मात् अजहल्-लक्षणा न मता।
तत्-पदम् त्वम्-पदम् अपि च स्वकीयार्थ-विरोधिनम् अंशम् सम्यक् परित्यज्य स्वाविरुद्धांश-संयुतम्।
तद्-अर्थम् वा त्वम्-अर्थम् वा स्वयम् सम्यक् लक्षयतः भाग-लक्षणया किम् साध्यम् अस्ति इति न शङ्क्यताम्।

Go to Top Menu

vs.750 vs.751 vs.752 vs.753 vs.754 vs.755 vs.756 vs.757 vs.758 vs.759 vs.760 vs.761 vs.762 vs.763 vs.764 vs.765 vs.766 vs.767 vs.768 vs.769 vs.770 vs.771 vs.772 vs.773 vs.774 vs.775 vs.776 vs.777 vs.778 vs.779 vs.780 vs.781 vs.782 vs.783 vs.784 vs.785 vs.786 vs.787 vs.788 vs.789 vs.790 vs.791 vs.792 vs.793 vs.794 vs.795 vs.796 vs.797 vs.798 vs.799

तद् एकम् पदम् अविरुद्धम् पदार्थान्तरांशम् च स्वांशम् कथम् लक्षणया संलक्षयितुम् अर्हति।
पदान्तरेण स्वतः पदार्थ-प्रमितौ सिद्धायाम् पुनः लक्षणया तद्-अर्थ-प्रत्ययापेक्षा कुतः।
तस्मात् तद् त्वम् असि इति अत्र लक्षणा वाक्यार्थ-सत्त्वाखण्डैक-रसता-सिद्धये भाग-लक्षणा मता।
यदा विरुद्धम् भागम् सन्त्यज्य अविरोधः लक्ष्यते लक्षण-ज्ञाः विचक्षणाः सा भाग-लक्षणा इति आहुः।
(यथा) सः अयम् देव-दत्तः इति वाक्यम् वा वाक्यार्थः एव देव-दत्तैक्य-रूप-स्ववाक्यार्थानवबोधकम्…
देश-कालादि-वैशिष्ट्यंम् विरुद्धांशम् निरस्य च अविरुद्धम् स्व-लक्षणम् देवदत्त-देह-मात्रम्।
यथा अनया भाग-लक्षणया सम्यक् लक्षयति तथा तग् त्वम् असि इति अत्र वाक्यम् वा वाक्यार्थः एव।
द्वयोः परोक्षत्वापरोक्षत्वादि-विशिष्ट-चितोः उपस्थितम एकत्व-रूप-वाक्यार्थ-विरुद्धांशम्…
परोक्षत्वापरोक्षत्व-सर्वज्ञत्वादि-लक्षणम् बुद्ध्यादि-स्थूल-पर्यन्तम् आविद्यकम् अनात्मकम्…
परित्यज्य विरुद्धांशम् शुद्ध-चैतन्य-लक्षणम् केवल-सन्मात्रं निर्विकल्पम् निरञ्जनम् वस्तु।
अनया भाग-लक्षणया सम्यक् लक्षयति ततः सर्वोपाधि-विनिर्मुक्तं सच्-चिद्-आनन्दम् अद्वयम्।
निर्विशेषम् निराभासम् अतादृशम् अनीदृशम् अनिर्देश्यम् अनाद्यन्तम् अनन्तम् शान्तम् अच्युतम् अप्रतर्क्यम् अविज्ञेयम् निर्गुणम् ब्रह्म शिष्यते।
ब्रह्मात्मनोः उपाधि-वैशिष्ट्य-कृतः विरोधः (अस्ति ब्रह्मात्मनोः) एकतया अधिगत्या उपाधि-वैशिष्ट्य उदस्यमाने एतयोः कश्चिद् अपि विरोधः न अस्ति।
तयोः उपाधिः च विशिष्टता च तद्-धर्म-भाक्त्वम् च विलक्षणत्वम् भ्रान्त्या कृतम् इदम् सर्वम् स्वप्नार्थवत् मृषा एव जाग्रति सत्यम् न एव।
निद्रा-सूत-शरीर-धर्म-सुख-दुःखादि-प्रपञ्चः अपि वा जीवेशादि-भिदा अपि वा क्वचिद् च ऋतम् कर्तुम् न शक्यते माया-कल्पित-देश-काल-जगद्-ईशादि-भ्रमः तादृशः अनयोः द्वयोः तु कः भेदः अस्ति अन्यतः कतमः कः सत्यः भवेत्।
यद् क्वचिद् अपि दृष्ट-दर्शन-मुखैः भ्रमजैः विकल्पैः स्वप्न-जागरणयोः उभयोः विशेषः न सन्दृश्यते अतः एव मिथ्याः ननु यथा स्वप्नः तथा एव हि जागरः अपि।
स्वप्न-जागरौ द्वौ अपि अविद्या-कार्यतः तुल्यौ उभयतः दृष्ट-दर्शन-दृश्यादि-कल्पना समा।
सर्वैः अपि सुप्तौ उभयोः अभावः अनुभूयते अनयोः कश्चिद् भेदः न तस्मात् मिथ्यात्वम् अर्हतः।
हे विद्वन् काल-त्रये अपि भ्रान्त्या अयम् सजातीयादि-लक्षणः कश्चन भेदः वस्तुतः ब्रह्मणि न एव।
यत्र अन्यद् न पश्यति इति श्रुतिः भ्रमात् भूम्नि कल्पितस्य मिथ्यात्वावगमाय तद् द्वैतम् निषेधति।
यतः ततः सदा अद्वितीयम् विकल्प-शून्यम् निरुपाधि निर्मलम् निरन्तरानन्द-घनम् निरीहम् निरास्पदम् केवलम् एकम् एव ब्रह्म।
(ब्रह्मणि) काचन भिदा न एव अस्ति गुण-प्रतीतिः न वाक्-प्रवृत्तिः अपि वा न उ मनः-प्रवृत्तिः न यद् केवलम् परम-शान्तम् अनन्तम् आद्यम् अद्वितीयम् सत् आनन्द-मात्रम् अवभाति।
यद् इदम् अजरा-मरणम् सच्-चित्-सुखात्मकम् परमम् सत्यम् तत्त्वम् (तद्) नित्यम् एतद् मम वचः सत्यम्।
असौ देहः हि त्वम् न च असुः अपि वा अक्ष-निकरः अपि वा मनः बुद्धिः वा क्वचिद् अपि तथा अहङ्-कृतिः अपि न एषाम् सङ्घातः च त्वम् (न) उ भवसि विद्वन् परम् शृणु एतेषाम् यद् साक्षी अमलम् स्फुरणम् हि तद् त्वम् असि।
यद् वस्तु जायते तद् एव वर्धते तद् एव काले मृत्युम् समुपैति विभोः अजस्य नित्यस्य तेन जन्म एव (न) अस्ति तथा एव मृत्युः एव न अस्ति।
यः एषः देहः कर्म-योगात् जनितः सः एव समेधते नश्यति एतदीयासु अखिलासु अवस्थासु अवस्थितः त्वम् बोध-मात्रः साक्षी असि।
यद् आ-सुषुप्तेः स्व-प्रकाशम् अखिलात्मकम् एकात्मना अहम् अहम् इति नित्यम् अवभाति बुद्धेः समस्त-विकृतेः अविकारि बोद्धृ यद् केवल-बोध-मात्रम् ब्रह्म तद् त्वम् असि।
यद् अनस्तमय-संविदि स्वात्मनि कल्पितस्य व्योमादि-सर्व-जगतः सत्ताम् प्रददाति स्वकीय-महसा स्फूर्तिम् वितनोति केवल-बोध-मात्रम् साक्षात् तद् ब्रह्म त्वम् असि।
समाधि-निरतैः परम-हंस-कुलैः यद् अपार-सौख्यम् निज-तत्त्वम् विमलान्तर्-अङ्गे सम्यक् साक्षात् अवेक्ष्य अजस्रम् सन्तुष्यते तद् केवल-बोध-मात्रम् ब्रह्म त्वम् असि।
अन्तर् बहिः स्वयम् अखण्डितम् एक-रूपम् मूढ-बुद्धेः आरोपितार्थवत् उदञ्चति मृत्-स्नादिवत् विगत-विक्रियम् आत्म-वेद्यम् केवल-बोध-मात्रम् यद् ब्रह्म तद् त्वम् असि।
यद् अव्ययम् अनन्तम् अनादि-मध्यम् अव्यक्तम् अक्षरम् अनाश्रयम् अप्रमेयम् आनन्द-सद्-घनम् अनामयम् अद्वितीयम् श्रुत्युक्तम् केवल-बोध-मात्रम् ब्रह्म तद् त्वम् असि।
त्वदीयम् शरीर-तद्-योग-तदीय-धर्माद्य्-आरोपणम् भ्रान्ति-वशात् वस्तुतः किञ्चिद् न (अस्ति) अतः त्वम् तु अजः (असि) तव मृत्योः भयम् क्व अस्ति पूर्णः असि।
भ्रान्तिमत्या स्व-दृष्ट्या यद् यद् दृष्टम् सम्यक् वस्तु-दृष्ट्या तद् तद् त्वम् एव (असि) त्वत्तः अन्यद् वस्तु तु लोके किञ्चिद् न (अस्ति) अद्वयस्य ते कस्मात् भीतिः भवेत्।
इदम् सर्वम् तु अहम् एव (अस्मि) इति अखिलम् आत्मना पश्यतः विदुषः (तु) कस्मात् भयम् स्यात् स्वस्मात् भयम् न इष्यते।
तस्मात् त्वम् अभयम् नित्यम् केवलानन्द-लक्षणम् निष्कलम् निष्क्रियम् शान्तम् सदा अद्वयम् ब्रह्म एव असि।
ज्ञातृ-ज्ञान-ज्ञेय-विहीनम् ज्ञातुः अभिन्नम् अखण्डम् ज्ञानम् ज्ञेयाज्ञेयत्वादि-विमुक्तम् शुद्धम् बुद्धम् तत्त्वम् त्वम् असि।
यद् अन्तः-प्रज्ञत्वादि-विकल्पैः अस्पृष्टम् दृशि-मात्रम् तद् सत्ता-मात्रम् सम-रसम् एकम् शुद्धम् बुद्धम् तत्त्वम् त्वम् असि।
यद् सर्वाकारम् सर्वम् असर्वम् सर्व-निषेधावधि-भूतम् सत्यम् शाश्वतम् एकम् अनन्तम् शुद्धम् बुद्धम् तत्त्वम् (तद्) त्वम् असि।
नित्यानन्दाखण्डैक-रसम् निष्कलम् अक्रियम् अस्त-विकारम् प्रत्यग्-अभिन्नम् परम-व्यक्तम् शुद्धम् बुद्धम् (तद्) तत्त्वम् त्वम् असि।
त्वम् प्रत्यस्ताशेष-विशेषम् व्योम इव अन्तर् बहिः अपि पूर्णम् ब्रह्मानन्दम् परम् अद्वैतम् शुद्धम् बुद्धम् तत्त्वम् त्वम् असि।
अहम् ब्रह्म एव अहम् निर्गुणम् निर्विकल्पकम् ब्रह्म इति एव अखण्डया वृत्त्या निष्क्रिये ब्रह्मणि तिष्ठ।
एताम् अखण्डाम् एव घटित-परमानन्द-लहरीम् परिध्वस्त-द्वैत-प्रमितिम् अमलाम् वृत्तिम् अमुञ्चानः त्वम् अनुपम-सुखे स्वात्मनि परे ब्रह्मणि अनिशम् रमस्व अनया सुख-वृत्त्या प्रारब्धम् क्षपय।
मुने विद्वन् ब्रह्मानन्द-रसास्वाद-तत्-परेण चेतसा एव सदा समाधि-निष्ठितः भूत्वा तिष्ठ।
(शिष्यः उवाच —) श्रोतुः वाक्यार्थ-श्रुति-मात्रतः अखण्डाख्या एषा वृत्तिः सञ्जायते किम् वा क्रियान्तरम् अपेक्षते।
समाधिः कः कति-विधः तत्-सिद्धेः साधनम् किम् उ समाधेः अन्तरायाः के एतद् सर्वम् निरूप्यताम्।
(श्रीगुरुः उवाच —) अत्र मुख्य-गौणादि-भेदेन अधिकारिणः विद्यन्ते तेषाम् प्रज्ञानुसारेण अखण्डा वृत्तिः उदेष्यते।
यः श्रद्धा-भक्ति-पुरः-सरेण विहितेन कर्मणा एव ईश्वरम् सन्तोष्य जन्मान्तरेषु एव अर्जित-तत्-प्रसाद-महिमा नित्यानित्य-विवेक-तीव्र-विरति-न्यासादिभिः साधनैः युक्तः सः द्विजः श्रवणे मुख्याधिकारी सताम् अभिमतः।
अत्र अध्यारोपापवाद-क्रमम् अनुसरता देशिकेन वेत्त्र-वाक्यार्थे बोध्यमाने सति सपदि शुद्ध-बुद्धेः सतः अमुष्य नित्यानन्दाद्वितीयम् निरुपमम् अमलम् यद् परम् एकम् तत्त्वम् तद् ब्रह्म अहम् एव अस्मि इति परमा अखण्डताकार-वृत्तिः उदयति।
सा चिद्-आभास-समन्विता अखण्डाकार-वृत्तिः केवलम् आत्माभिन्नम् परम् ब्रह्म विषयी-कृत्य (वर्त्तते)।
अखण्डाकारया वृत्त्या तु अज्ञाने बाधिते सति यद् आवरण-लक्षणम् तद्-गताज्ञानम् बाधते।

Go to Top Menu

vs.800 vs.801 vs.802 vs.803 vs.804 vs.805 vs.806 vs.807 vs.808 vs.809 vs.810 vs.811 vs.812 vs.813 vs.814 vs.815 vs.816 vs.817 vs.818 vs.819 vs.820 vs.821 vs.822 vs.823 vs.824 vs.825 vs.826 vs.827 vs.828 vs.829 vs.830 vs.831 vs.832 vs.833 vs.834 vs.835 vs.836 vs.837 vs.838 vs.839 vs.840 vs.841 vs.842 vs.843 vs.844 vs.845 vs.846 vs.847 vs.848 vs.849

यथा तन्तु-दाहे तु तत्-कार्य-पट-दाहः (भवति) तथा तेन समम् सकलम् तत्-कार्यम् बाधितम् भवति।
तस्य कार्यतया जीव-वृत्तिः बाधिता भवति यथा उपप्रभा सूर्यम् प्रकाशयितुम् अक्षमा।
तद्वत् एव वृत्ति-संस्थितम् चिद्-आभास-चैतन्यम् स्व-प्रकाशम् परम् ब्रह्म प्रकाशयितुम् अक्षमम्।
प्रचण्डातप-मध्यस्थ-दीपवत् नष्ट-दीधितिः (चिदाभासः) तद् तेजसा अभिभूतं सत् लीनोपाधितया ततः…
केवलम् बिम्ब-भूत-पर-ब्रह्म-मात्रम् भवति यथा आदर्शे तु अपनीते स्वयम् प्रतिबिम्ब-मुखम्…
मुख-मात्रम् भवेत् तद्वत् उपाधि-सङ्क्षयात् एतद् च (भवति) यथा व्याप्तया वृत्त्या घटाज्ञाने बाधिते सति…
एषः चिद्-आभासः स्व-तेजसा घटम् विस्फुरयति तथा स्व-प्रभे ब्रह्मणि आभासः न उपयुज्यते।
अतः एव वस्तुनः वृत्ति-व्याप्यत्वम् सताम् मतम् फल-व्याप्यता न परस्-परम् विरोधः न तेन…
श्रुत्या उदितम् ततः सूक्ष्मया बुद्ध्या एव ब्रह्म ज्ञेयम् येषाम् (तु) प्रज्ञामान्द्यम् तेषाम् श्रुति-मात्रतः न भवेत्…
अखण्डाकार-वृत्तिः तु मननादिना विना स्याद् निरन्तरम् तात्पर्येण श्रवणात् मननात् ध्यानात्…
बुद्धेः सूक्ष्मत्वम् आयाति ततः वस्तु उपलभ्यते तस्मात् करणीयम् मन्द-प्रज्ञावताम् पुनः पुनः…
श्रवणम् मननम् ध्यानम् सम्यक् वस्तूपलब्धये सर्व-वेदान्त-वाक्यानाम् (बुधाः) षड्भिः लिङ्गैः सद्-अद्वये…
परे ब्रह्मणि तात्पर्य-निश्चयम् श्रवणम् विदुः श्रुतस्य एव अद्वितीयस्य प्रत्यग्-आत्मनः वस्तुनः…
वेदान्त-वाक्यानुगुण-युक्तिभिः तु अनुचिन्तनम् तच्-छ्रुतार्थस्य मननम् साक्षात्-करण-कारणम् (विदुः)।
यथा विजातीय-शरीरादि-प्रत्यय-त्याग-पूर्वकम् सजातीयात्म-वृत्तीनाम् प्रवाह-करणम्…
तैल-धारावत् अच्छिन्न-वृत्त्या तद् ध्यानम् इष्यते तावत् कालम् सदा प्रयत्नेन श्रवणम् कर्तव्यम्…
यावत् स्व-बुद्धेः प्रमाण-संशयः न निवर्तते यावत् प्रमेय-संशयः तावत् तु श्रुति-युक्तिभिः…
आत्म-याथार्थ्य-निश्चित्त्यै मुहुः मननम् कर्तव्यम् यावत् चेतसि विपरीतात्म-धीः न विनश्यति तावत् मोक्षम् इच्छता निरन्तरम् ध्यानम् कर्तव्यम्।
यावत् तर्केण दृश्य-प्रपञ्चः निरासितः अपि अपरोक्ष-बोधात् न तु विलीयते तावत् अमुष्य भिक्षोः ध्यानादि सम्यक् करणीयम् एव।
समाधिः स-विकल्पः निर्-विकल्पः इति द्वेधा निगद्यते सविकल्पस्य लक्षणम् वच्मि तद् छृणु।
ज्ञात्राद्यविलयेन एव केवले ज्ञेये ब्रह्मणि तद्-आकाराकारितया चित्त-वृत्तेः अवस्थितिः।
सद्भिः सः एव सविकल्पकः समाधिः विज्ञेयः मृदः एव अवभाने अपि मृण्मय-द्विप-भानवत्।
सन्मात्र-वस्तु-भाने अपि सन्मयी त्रि-पुटी भाति अतः एव अयम् सविकल्पः समाधिः इति ईर्यते।
ज्ञात्रादि-भावम् उत्सृज्य मनसः दृढा ज्ञेय-मात्र-स्थितिः योग-संज्ञितः निर्विकल्पः समाधिः स्यात्।
जले निक्षिप्त-लवणम् जल-मात्रतया स्थितम् पृथक् न भाति किम् नु एकम् अम्भः एव अवभासते…
यथा तथा एव ब्रह्म-मात्रतया स्थिता सा वृत्तिः पृथक् न भाति अद्वितीयम् ब्रह्म एव अवभासते।
ज्ञात्रादि-कल्पनाभावात् अयम् निर्विकल्पकः मतः वृत्तेः सद्-भाव-बाधाभ्याम् उभयोः भेदः इष्यते।
अत्र सुप्त्या समाधि-सुप्त्योः ज्ञानम् च अज्ञानम् न इष्यते सविकल्पः निर्विकल्पः इमौ द्वौ समाधी हृदि…
विपरीत-निवृत्तये मुमुक्षोः यत्नतः कार्यौ अस्मिन् कृते विपरीतायाः भावनायाः निवर्तनम् (भवति)।
ज्ञानस्य अप्रतिबद्धत्वम् च सदा आनन्दः (सविकल्पः) दृश्यानुविद्धः शब्दानुविद्धः द्विधा मतः सिध्यति इति च।
तयोः यद् सविकल्पः लक्षणम् तद् वच्मि तद् छृणु यत्र कामादि-प्रत्ययैः दृश्यैः संसर्गः दृश्यते…
सः अयम् दृश्यानुविद्धः सविकल्पकः समाधिः स्यात् अहम् मम इदम् इत्यादि-काम-क्रोधादि-वृत्तयः…
येन दृश्यन्ते अहम्-आदयः दृश्याः (येन) सन्दृष्टाः कामादि-सर्व-वृत्तीनाम् द्रष्टारम् अविकारिणम् स्युः…
साक्षिणम् स्वम् यः विजानीयात् (यः) निष्क्रियः (सन्) ताः पश्यति अहम् कामादीनाम् साक्षी (अस्मि) ततः ते मया दृश्यन्ते।
इति साक्षितया आत्मनि आत्मानम् साक्षिणम् जानाति कामादि सकलम् दृश्यम् स्वात्मनि एव विलापयेत्।
अहम् देहःन असुः न अपि अक्ष-वर्गः न अहङ्कारः न मनः न उ बुद्धिः न अपि (यत्र) तेषाम् च तद्-विक्रियाणाम् अपि अन्तर् (सः) साक्षी नित्यः प्रत्यक् अहम् एव अस्मि।
(यः) वाचः साक्षी प्राण-वृत्तेः च साक्षी बुद्धेः च साक्षी बुद्धि-वृत्तेः (च) साक्षी चक्षुः-श्रोत्रादीन्द्रियाणाम् च साक्षी (सः) साक्षी नित्यः प्रत्यक् अहम् एव अस्मि।
अहम् स्थूलः न सूक्ष्मः न अपि दीर्घः न अहम् बालः न युवा न उ वृद्धः न अपि अहम् काणः न मूकः न अपि षण्डः न (अस्मि) अहम् साक्षी नित्यः प्रत्यक् एव अस्मि।
आगन्ता न अस्मि गन्ता न अपि हन्ता न अहम् कर्ता न प्रयोक्ता न वक्ता न अहम् भोक्ता न सुखी न उ दुःखी न एव (अस्मि) अहम् साक्षी नित्यः प्रत्यक् एव अस्मि।
अहम् योगी न वियोगी न उ रागी न अहम् क्रोधी न कामी न एव लोभी न अहम् बद्धः न युक्तः न अपि मुक्तः न (अस्मि) अहम् साक्षी नित्यः प्रत्यक् एव अस्मि।
(अहम्) एषः अन्तः-प्रज्ञः न बहिः-प्रज्ञकः वा न प्रज्ञः न एव अप्रज्ञः न अपि च अहम् श्रोता न मन्ता न अपि बोद्धा न (अस्मि) अहम् साक्षी नित्यः प्रत्यक् एव अस्मि।
मे देहेन्द्रिय-बुद्धि-योगोन न अस्ति पुण्य-लेशः न पाप-लेशः न अपि (अस्ति) क्षुधा-पिपासादि-षड्-ऊर्मि-दूरः सदा विमुक्तः केवलः चित् एव अस्मि।
(अहम्) अपाणि-पादः अहम् अवाक् अचक्षुः अप्राणः एव अस्मि अमना हि अबुद्धिः व्योम इव पूर्णः अस्मि विनिर्मलः अस्मि सदा एक-रूपः केवलः चित् एव अस्मि।
इति स्वम् आत्मानम् अवेक्षमाणः विद्वान् सदा प्रतीत-दृश्यम् प्रविलापयन् भ्रान्ति-वशात् प्रतीतम् स्वाभाविकम् विपरीत-भावम् जहाति।
विपरीतात्मता-स्फूर्तिः एव मुक्तिः इति ईर्यते सा एषा सदा समाहितस्य एव सिध्यति न अन्यथा।
अमुष्य वेष-भाषाभिः मुक्तिः न (भवति) या केवलाखण्ड-चिद्-आत्मना स्थितिः (अस्ति) तत्-सिद्धये स्वात्मनि सर्वदा स्थितः अहन्ताम् ममताम् उपाधौ जह्यात्।
स्वात्म-तत्त्वम् समालम्ब्य प्रकृति-नाशनम् कुर्यात् तेन एव मुक्तः भवति अन्यथा कर्म-कोटिभिः न।
देवम् ज्ञात्वा सर्व-पाशापहानिः (भवति) क्लेशैः क्षीणैः जन्म-मृत्यु-प्रहानिः (भवति) एषा वैदिकी वाक् इति एव क्लेश-क्षत्याम् जन्म-मृत्यु-प्रहाणिम् ब्रवीति।
भूयः जन्माद्यप्रसक्तिः विमुक्तिः (कथ्यते) क्लेश-क्षत्याम् जन्माद्यभावः भाति आत्मैक-निष्ठा क्लेश-क्षत्या हेतुः (अस्ति) तस्मात् मुमुक्षोः आत्म-निष्ठा हि कार्या।
वासनाः एव क्लेशाः जन्तोः जन्मादि-कारणम् स्युः ज्ञान-निष्ठाग्निना तासाम् दाहे जन्म-हेतुता न उ।

Go to Top Menu

vs.850 vs.851 vs.852 vs.853 vs.854 vs.855 vs.856 vs.857 vs.858 vs.859 vs.860 vs.861 vs.862 vs.863 vs.864 vs.865 vs.866 vs.867 vs.868 vs.869 vs.870 vs.871 vs.872 vs.873 vs.874 vs.875 vs.876 vs.877 vs.878 vs.879 vs.880 vs.881 vs.882 vs.883 vs.884 vs.885 vs.886 vs.887 vs.888 vs.889 vs.890 vs.891 vs.892 vs.893 vs.894 vs.895 vs.896 vs.897 vs.898 vs.899

यथा अग्नि-प्रदग्धानि बीजानि पुनः न रोहन्ति तथा ज्ञान-दग्धैः क्लेशैः आत्मा पुनः न सम्पद्यते।
तस्मात् मुमुक्षोः निःशेष-वासना-क्षत्यै विपरीत-निवृत्तये प्रयत्नतः ज्ञान-निष्ठा कर्तव्या।
ज्ञाननिष्ठातत्परस्य कर्म न एव उपयुज्यते कर्मणः (च) ज्ञाननिष्ठाया सहस्थितिः न सिध्यति।
भिन्न-स्वभावयोः तयोः परस्-पर-विरुद्धत्वात् कर्म कर्तृत्व-भावना-पूर्वम् (भवति) ज्ञानम् विलक्षणम्।
ज्ञानम् देहात्म-बुद्धेः विच्छित्त्यै कर्म विवृद्धये (भवति) कर्म तु अज्ञान-मूलकम् ज्ञानम् उभय-नाशकम् (भवति)।
वैरिणा ज्ञानेन कर्मणः योगः कथम् सिध्यति यथा तिमिर-तेजसोः सह-योगः न घटते।
(यथा) निमेषोन्मेषयोः वा अपि तथा एव ज्ञान-कर्मणोः प्रतीचीम् पश्यतः पुंसाम् प्राची-विलोकनम् कुतः प्रत्यक्-प्रवण-चित्तस्य कर्मणि योग्यता कुतः।
ज्ञानैक-निष्ठा-निरतस्य भिक्षोः कर्म-तन्त्रे अवकाशः न एव हि अस्ति तद् एव कर्म तद् एव सन्ध्या तद् एव सर्वम् ततः अन्यद् न अस्ति।
बुद्धि-कल्पित-मालिन्य-क्षालनम् आत्मनः स्नानम् तेन एव एतस्य शुद्धिः मृदा न जलेन न च।
स्व-स्व-रूपे (यद्) मनः-स्थानम् तद् अनुष्ठानम् इष्यते यद् करण-त्रय-साध्यम् तद् तद्-असत्यतः मृषा।
अखिलम् दृश्यम् विनिषिध्य स्व-स्व-रूपेण या स्थितिः सा सन्ध्या तद् अनुष्ठानम् तद् दानम् तद् हि भोजनम्।
विज्ञात-परमार्थानाम् शुद्ध-सत्त्वात्मनाम् सताम् यतीनाम् स्वानुसन्धिम् विना अपरम् किम् अनुष्ठानम् (अस्ति)।
तस्मात् क्रियान्तरम् त्यक्त्वा ज्ञान-निष्ठा-परः यतिः सदा आत्म-निष्ठया निश्चलः तत्-परायणः (सन्) तिष्ठेत्।
योगम् आरोढुम् इच्छता स्वोचितम् कर्म कर्तव्यम् आरोहणम् कुर्वतः कर्म तु न आरोहणम् मतम्।
यः मुमुक्षुः योगम् समारोहति तस्य ईषत् क्रियान्तरम् युक्तम् न असौ क्रियान्तर्-आसक्त-मनाः (सन्) ध्रुवम् ताल-द्रुमारोहण-कर्तृवत् पतति।
योगारूढस्य सिद्धस्य कृत-कृत्यस्य धीमतः बहिर्-दृष्टिः न एव अस्ति तत्र हि कर्मणाम् का कथा दृश्यानुविद्धः सविकल्पकः समाधिः कथितः।
अहम् शुद्धः अहम् बुद्धः अहम् प्रत्यग्-रूपेण नित्य-सिद्धः अहम् शान्तः अहम् अनन्तः अहम् सतत-परानन्द-सिन्धुः एव (अस्मि)।
अहम् आद्यः अहम् अनाद्यः अहम् वाङ्-मनसा साध्य-वस्तु-मात्रः अहम् निगम-वचो-वेद्यः अहम् अनवद्याखण्ड-बोध-रूपः (अस्मि)।
अहम् विदिताविदितान्यः अहम् माया-तत्-कार्य-लेश-शून्यः अहम् केवल-दृग्-आत्मकः अहम् संविन्-मात्रः सकृद्-विभातः (अस्मि)।
अहम् अपरः अहम् अनपरः अहम् बहिर् च अन्तः अपि पूर्णः एव अहम् अजरः अहम् अक्षरः अहम् नित्यानन्दः अहम् अद्वितीयः (अस्मि)।
अहम् प्रत्यग्-अभिन्नम् अखण्डम् सत्य-ज्ञानादि-लक्षणम् शुद्धम् श्रुत्यवगम्यम् तथ्यम् परम् ज्योतिः ब्रह्म एव (अस्मि)।
एवम् यतिः सन्-मात्र-गाहिन्या वृत्त्या निश्चलः (सन्) तन्-मात्र-गाहकैः शब्दैः समर्पितम् वस्तु भावयेत्।
कामादि-दृश्य-प्रविलाप-पूर्वकम् अहम् शुद्धः इत्यादिक-शब्द-मिश्रः दृशि एव निष्ठस्य यः एषः भावः (सः) शब्दानुविद्धः समाधिः कथितः।
दृश्यस्य अपि च साक्षित्वात् आत्मनि समुल्लेखनम् निवर्तक-मनोऽवस्था निर्विकल्पः इति ईर्यते।
यः दीर्घ-कालम् निरन्तरम् संस्कार-पूर्वकम् सविकल्प-समाधिम् कुर्यात् अस्य निर्विकल्पः सिध्यति।
निर्विकल्पक-समाधि-निष्ठया तिष्ठतः ध्रुवम् नित्यता उद्भवाद्यपगतिः निर्-अर्गला नित्य-निश्चल-निरस्त-निर्वृतिः भवति।
अनन्यः कश्चिद् विद्वान् अहम् इदम् (सुखी दुःखी वा) इति वा किञ्चिद् बाह्याभ्यन्तर-वेदन-शून्यः स्वानन्दामृत-सिन्धु-निमग्नः (सन्) तूष्णीम् आस्ते।
यद् निर्विकल्पम् परम् ब्रह्म तस्मिन् एव निष्ठिताः एते धन्याः बहिर्-दृशाम् जीवन्तः अपि मुक्ताः एव।
यथा हृदि यत्नेन समाधि-त्रितयम् क्रियते तथा एव द्वैत-निवृत्तये बाह्य-देशे अपि कार्यम्।
तत्प्रकारम् समासतः प्रवक्ष्यामि निशामय सच्-चिदानन्द-लक्षणम् परम् ब्रह्म अधिष्ठानम्।
तत्र अध्यस्तम् इदम् नाम-रूपात्मकम् जगत् भाति सत्त्वम् चित्त्वम् तथा आनन्द-रूपम् यद् ब्रह्मणः त्रयम्।
अध्यस्त-जगतः इदम् नाम-रूपम् द्वयम् रूपम् एतानि सच्-चिद्-आनन्द-नाम-रूपाणि पञ्च च।
एकी-कृत्य मूर्खैः भ्रमात् इदम् विश्वम् इति उच्यते (यथा) शैत्यम् श्वेतम् रसम् द्राव्यम् तरङ्गः इति नाम च।
यथा एकी-कृत्य अयम् तरङ्गः इति निर्दिश्यते ततः ब्रह्मणः आरोपिते नाम-रूपे उपेक्ष्य।
स्व-रूप-मात्र-ग्रहणम् बाह्यः आदिमः समाधिः यतिः सच्-चिद्-आनन्द-रूपस्य ब्रह्मणः सकाशात्।
नाम-रूपे पृथक् कृत्वा ब्रह्मणि एव विलापयन् अधिष्ठानम् सच्-चिद्-आनन्दम् अद्वयम् यद् परम् ब्रह्म तद् एव अहम् (अस्मि) इति एव ध्रुवम् निश्चितात्मा भवेत्।
इयम् भूः सत् न तोयम् अपि न तेजः न वायुः न खम् न तत्-कार्य-जातम् न अपि यद् एषाम् अधिष्ठान-भूतम् विशुद्धम् एकम् सत् परम् तद् (परम्) सत् एव अहम् अस्मि।
शब्दः न रूपम् न च स्पर्शकः न वा तथा रसः न उ गन्धः न अपि अन्यः न च यद् एषाम् अधिष्ठान-भूतम् विशुद्धम् सत् एकम् परम् सत् तद् एव अहम् अस्मि।
द्रव्य-जातम् सत् न गुणाः न क्रिया वा न जातिः विशेषः न च अन्यः कदा (न) अपि यद् एषाम् अधिष्ठान-भूतम् विशुद्धम् सत् एकम् परम् सत् तद् एव अहम् अस्मि।
देहः न अक्षाणि न च प्राण-वायुः न मनः न अपि बुद्धिः न चित्तम् हि अहन्-धीः (न) यद् एषाम् अधिष्ठान-भूतम् विशुद्धम् सत् एकम् परम् सत् तद् एव अहम् अस्मि।
देशः सत् न कालः न दिक् न वा अपि स्यात् स्थूल-सूक्ष्मादि-रूपम् वस्त्वन्तरम् न यद् एषाम् अधिष्ठान-भूतम् विशुद्धम् सत् एकम् परम् सत् तद् एव अहम् अस्मि।
यः विद्वान् नित्यम् गच्छन् तिष्टन् वा शयानः अपि बाह्य-दृश्यानुविद्धम् एतद् नाम-रूपात्मकम् दृश्यम् कुर्यात् तद् अधिष्ठानम् सत् सत्यम् ब्रह्म एति।
(यतिः) अध्यस्त-नाम-रूपादि-प्रविलापेन निर्मलम् अद्वैतम् परमानन्दम् ब्रह्म एव अस्मि इति भावयेत्।
अहम् निर्विकारम् निराकारम् निरञ्जनम् अनामयम् आद्यन्त-रहितम् पूर्णम् ब्रह्म एव (अस्मि) संशयः न।
निष्कलङ्कंम् निरातङ्कम् त्रिविध-च्छेद-वर्जितम् आनन्दम् अक्षरम् मुक्तम् ब्रह्म एव अस्मि इति भावयेत्।
निर्विशेषम् निराभासम् नित्य-मुक्तम् अविक्रियम् प्रज्ञानैक-रसम् सत्यम् ब्रह्म एव अस्मि इति भावयेत्।
शुद्धम् बुद्धम् तत्त्व-सिद्धम् परम् प्रत्यक् अखण्डितम् स्व-प्रकाशम् पराकाशम् ब्रह्म एव अस्मि इति भावयेत्।
सुसूक्ष्मम् अस्तिता-मात्रम् निर्विकल्पम् महत्तमम् केवलम् परमाद्वैतम् ब्रह्म एव अस्मि इति भावयेत्।
इति एवं निर्विकारादि-शब्द-मात्र-समर्पितम् केवलम् वस्तु ध्यायतः लक्ष्ये चित्तम् प्रतिष्ठति।
ब्रह्मानन्द-रसावेशात् तद्-आत्मना एकी-भूय वृत्तेः या निश्चलावस्था सः अकल्पकः समाधिः।

Go to Top Menu

vs.900 vs.901 vs.902 vs.903 vs.904 vs.905 vs.906 vs.907 vs.908 vs.909 vs.910 vs.911 vs.912 vs.913 vs.914 vs.915 vs.916 vs.917 vs.918 vs.919 vs.920 vs.921 vs.922 vs.923 vs.924 vs.925 vs.926 vs.927 vs.928 vs.929 vs.930 vs.931 vs.932 vs.933 vs.934 vs.935 vs.936 vs.937 vs.938 vs.939 vs.940 vs.941 vs.942 vs.943 vs.944 vs.945 vs.946 vs.947 vs.948 vs.949

अप्रमत्तः जितेन्द्रियः यतिः प्रयतः उत्थाने वा अपि अनुत्थाने अपि सर्वदा समाधि-षट्कम् कुर्वीत।
यावत् विपरीतार्थ-धीः निःशेषम् न निवर्तते यावत् स्व-रूप-स्फुरणम् अनर्गलम् न प्रसिध्यति तावत् समाधि-षट्केन निरन्तरम् कालम् नयेत्
मोक्षम् इच्छता विदुषा प्रमादः न अत्र कर्तव्यः प्रमादे सूर्यापाये तमः यथा माया जृम्भते।
बुधाः स्वानु-भूतिम् परित्यज्य क्षणम् न तिष्ठन्ति स्वानु-भूतौ यः प्रमादः सः सताम् मृत्युः यमः न।
यः अस्मिन् समाधौ प्रयासम् कुरुते तस्य पुनः विकल्पः न एव अस्ति सर्वात्म-भावः अपि अमुना एव सिध्येत् खलु केवलत्वम् सर्वात्म-भावः।
(पण्षिताः) विदुषः सर्वात्म-भावः ब्रह्म-विद्या-फलम् (इति) विदुः तस्य एव जीवन्-मुक्तस्य स्वानन्दानुभवः फलम्।
यः अहं-ममेत्याद्यसद्-आत्म-गाहकः वासनामयः ग्रन्थिः सः लयम् याति समाधिना कर्म-बन्धः नश्यति अप्रतिबन्धः ब्रह्मात्म-बोधः इष्यते।
शुद्धात्मनाम् मुमुक्षूणाम् यद् सद्-एकत्व-दर्शनम् एषः ब्रह्मात्मना स्थितेः मुक्तेः निष्कण्टकः पन्थाः।
तस्मात् त्वम् च अपि अप्रमत्तः (सन्) समाधीन् कृत्वा साधु ग्रन्थिम् निर्दह्य युक्तः (सन्) नित्यम् ब्रह्मानन्द-पीयूष-सिन्धौ मज्जन् क्रीडन् मोदमानः रमस्व।
यः निर्विकल्प-समाधिः नैश्चल्य-लक्षणा वृत्तिः योग-शास्त्रार्थ-कोविदाः तम् एव योगः इति आहुः।
योगस्य अष्टौ अङ्गानि यमः नियम आसनम् प्राणायामः तथा च प्रत्याहारः अपि च धारणा…
ध्यानम् समाधिः इति एव मनीषिणः निगदन्ति सर्वम् ब्रह्म इति विज्ञानात् इन्द्रिय-ग्राम-संयमः…
अयम् यमः इति सम्प्रोक्तः (असौ) मुहुः मुहुः अभ्यसनीयः सजातीय-प्रवाहः च विजातीय-तिरस्-कृतिः।
नियमः हि (कथ्यते) बुधैः नियमात् परानन्दः क्रियते यस्मिन् सुखेन एव अजस्रम् ब्रह्म-चिन्तनम् भवेत्।
चित्तादि-सर्व-भावेषु ब्रह्मत्वेन एव भावनात् (यद्) इतरद् सुख-नाशनम् तद् आसनम् विजानीयात्।
(यः) सर्व-वृत्तीनाम् निरोधः सः प्राणायामः उच्यते प्रपञ्चस्य निषेधनम् रेचकाख्यः समीरणः।
ब्रह्म एव अस्मि इति या वृत्तिः (सः) पूरकः वायुः ईरितः ततः तद्-वृत्ति-नैश्चल्यम् (तथा) प्राण-संयमः कुम्बकः (उच्यते)।
अयम् अपि प्रबुद्धानाम् च अज्ञानाम् प्राण-पीडनम् विषयेषु आत्मताम् त्यक्त्वा मनसः चिति-मज्जनम्…
सः प्रत्याहारः विज्ञेयः मुमुक्षुभिः अभ्यसनीयः यत्र यत्र मनः याति तत्र ब्रह्मणः दर्शनात्।
मनसः धारणम् एव च सा परा धारणा मता ब्रह्म एव अस्मि इति सद्-वृत्त्या निरालम्बतया स्थितिः।
ध्यान-शब्देन विख्याता परमानन्द-दायिनी निर्विकारतया ब्रह्माकारतया वृत्त्या पुनः।
सम्यक् वृत्ति-विस्मरणम् ध्यान-संज्ञिकः समाधिः (उच्यते) समाधौ क्रियमाणे तु विघ्नाः हि बलात् आयान्ति वै।
अनुसन्धान-राहित्यम् आलस्यम् भोग-लालसम् भयम् च तमः विक्षेपः तेजः-स्पन्दः च शून्यता (एते योग-विघ्नाः सन्ति)।
एवम् यद् विघ्न-बाहुल्यम् तद् ब्रह्मविज्-जनैः त्याज्यम् (त्वम्) एतान् विघ्नान् परित्यज्य प्रमाद-रहितः वशी समाधि-निष्ठया ब्रह्म साक्षात् भवितुम् अर्हसि।
(शिष्यः) इति श्रुति-प्रमाणात् गुरु-वचनात् आत्म-युक्त्या परम् स्व-तत्त्वम् अवगम्य प्रशमित-करणः क्वचिद् अचलाकृतिः (च) आत्म-निष्ठितः समाहितात्मा अभूत्।
(धीमान्) बहु-कालम् स्व-स्व-रूपे तु मानसम् समाधाय परमानन्दात् उत्थाय मुदा पुनः गुरुम् एत्य…
धीमान् प्रमाण-पूर्वकम् सगद्गदम् उवाच ह नित्यानन्द-स्वरूपिणे गुरवे ते नमः नमः।
मुक्त-सङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः दया-धाम्ने भूम्ने नमः ते अस्य महिम्नः पारम् न एव अस्ति यत्-कटाक्षेण अद्वयम् ब्रह्म एव अभवम्।
किम् करोमि क्व गच्छामि किम् गृह्णामि किम् त्यजामि यद् मया विश्वम् महा-कल्पाम्बुना यथा पूरितम्।
महति सुख-बोध-पयो-धौ मयि ब्रह्माण्ड-बुद्बुद-सहस्रम् मायामयेन मरुता भूत्वा भूत्वा पुनः तिरोधत्ते।
सद्-गुरो अहम् त्वद्-अनुग्रहात् नित्यानन्द-स्वरूपः अहम् आत्मा अहम् पूर्णः अहम् अनवद्यः अहम् केवलः च।
अहम् अकर्ता अहम् अभोक्ता अहम् अविकारः अहम् अक्रियः (अहम्_ आनन्द-घनः एव अहम् असङ्गः अहम् सदा-शिवः।
त्वत्-कटाक्ष-वर-चान्द्र-चन्द्रिकापात-धूत-भवतापज-श्रमः अहम् क्षणात् अखण्ड-वैभवानन्दम् अक्षयम् आत्म-पदम् प्राप्तवान्।
छायया स्पृष्टम् उष्णम् वा शीतम् वा दुष्ठु सुष्ठु वा यत्-किञ्चिद् (तद्) तद्-विलक्षणम् पुरुषम् न एव स्पृशति।
न गृह-धर्माः प्रदीपवत् साक्ष्य-धर्माः साक्षिणम् अविकारम् उदासीनम् विलक्षणम् (आत्मानम्) न स्पृशन्ति।
यथा रवेः कर्मणि साक्षि-भावः यथा वा वह्नेः अयसि दाहकत्वम् यथा रज्जोः आरोपित-वस्तु-सङ्गः तथा एव कूटस्थ-चिद्-आत्मनः मे (सङ्गः)।
इति उक्त्वा गुरुम् स्तुत्वा प्रश्रयेण कृतानतिः सः मुमुक्षोः उपकाराय प्रष्टव्यांशम् अपृच्छत।
भगवन् जीवन्-मुक्तस्य च अनुभूतेः च विदेह-मुक्तस्य लक्षणम् तत्त्वतः कृपया मे ब्रूहि।
(श्रीगुरुः उवाच —) तुभ्यम् ज्ञान-भूमिकायाः लक्षणम् आदितः वक्ष्ये यस्मिन् ज्ञाते त्वया अद्य यद् पृष्टम् (तद्) सर्वम् ज्ञातम् स्यात्।
शुभेच्छा ज्ञान-भूमिः प्रथमा स्यात् द्वितीया तु विचारणा तृतीया तनु-मानसी समुदीरिता…
चतुर्थी सत्त्वापत्तिः स्यात् ततः (पञ्चमी) असंसक्ति-नामिका षष्ठी पदार्थाभावना सप्तमी तुर्यगा स्मृता।
शास्त्र-सज्जनैः प्रेक्ष्यः अहम् किम् मूढ: एव स्थितः अस्मि इति वैराग्य-पूर्वम् इच्छा बुधैः शुभेच्छा च उच्यते।
शास्त्र-सज्जन-सम्पर्क-वैराग्याभ्यास-पूर्वकम् या सद्-आचार-प्रवृत्तिः सा विचारणा प्रोच्यते।
यत्र विचारणा-शुभेच्छाभ्याम् इन्द्रियार्थेषु रक्तता तनुताम् एति सा तनु-मानसी प्रोच्यते।
भूमिका-त्रितयाभ्यासात् चित्ते अर्थ-विरतेः वशात् शुद्धे सत्त्वात्मनि स्थिते सत्त्वापत्तिः उदाहृता।
दशा-चतुष्टयाभ्यासात् तु या असंसर्ग-फला रूढ-सत्त्व-चमत्-कारा (सा) संसक्ति-नामिका प्रोक्ता।
भूमिका-पञ्चकाभ्यासात् स्वात्मारामतया आभ्यन्तराणाम् बाह्यानाम् पदार्थानाम् भृशम् अभावनात्…
पर-प्रयुक्तेन चिर-प्रयत्नेन अवबोधनम् (सः) पदार्थाभावना नाम षष्ठी भूमिका भवति।
षड्-भूमिका-चिराभ्यासात् भेदस्य अनुपलम्भनात् यद् स्व-भावैक-निष्ठत्वम् (भवति) सा गतिः तुर्य-गा ज्ञेया।
महान्तः ब्रह्मवित्तमाः सर्वेषु दृश्य-भावेषु इदम् मम इति अभावना जाग्रज्-जाग्रत् इति प्राहुः ।

Go to Top Menu

vs.950 vs.951 vs.952 vs.953 vs.954 vs.955 vs.956 vs.957 vs.958 vs.959 vs.960 vs.961 vs.962 vs.963 vs.964 vs.965 vs.966 vs.967 vs.968 vs.969 vs.970 vs.971 vs.972 vs.973 vs.974 vs.975 vs.976 vs.977 vs.978 vs.979 vs.980 vs.981 vs.982 vs.983 vs.984 vs.985 vs.986 vs.987 vs.988 vs.989 vs.990 vs.991 vs.992 vs.993 vs.994 vs.995 vs.996 vs.997 vs.998 vs.999

सच्-चिद्-आनन्दे मयि दृश्य-परम्-पराम् विदित्वा नाम-रूप-परित्यागः जाग्रत्-स्वप्नः समीर्यते।
परिपूर्ण-चिद्-आकाशे मयि बोधात्मताम् विना अन्यद् किञ्चिद् न अस्ति इति जाग्रत्-सुप्तिः समीर्यते।
मूलाज्ञान-विनाशेन कारणाभास-चेष्टितैः मे अतिस्वल्पः अपि बन्धः न इति स्वप्न-जाग्रत् ईर्यते।
कारणाज्ञान-नाशात् द्रष्टृ-दर्शन-दृश्यता कार्यम् न अस्ति (इति) यद् ज्ञानम् तद् स्वप्न-स्वप्नः समीर्यते।
यदा अतिसूक्ष्म-विमर्शेन अचञ्चला स्व-धी-वृत्तिः बोधे विलीयते (तदा) स्वप्न-सुप्तिः इति ईर्यते।
विद्वन् (यस्य) चिन्मयाकार-मतयः धी-वृत्ति-प्रसरैः गतः आनन्दानुभवः सुप्ति-जाग्रत् इति ईर्यते।
चिरानुभूतान्तरानन्दानुभव-स्थितौ वृत्तौ यः समात्मताम् याति एषः सुप्ति-स्वप्नः इति ईर्यते।
एतस्य (या) दृश्य-धी-वृत्तिः केवली-भाव-भावना परम् बोधैकतावाप्तिः (अस्ति सा) सुप्ति-सुप्तिः इति ईर्यते।
सर्वावस्थासु पर-ब्रह्मवत् निर्विकारैक-रूपिणी एका धारा आभाति तुर्याख्या परिकीर्तिता।
(योगी) इति अवस्था-समुल्लासम् विमृशन् सुखी (भवति) मुच्यते शुभेच्छादि-त्रयम् भूमि-भेदाभेद-युतम् स्मृतम्।
इदम् यथावद् भेद-बुद्ध्या जगज्-जाग्रत् इति ईर्यते (चेत्ते) अद्वैते स्थैर्यम् आयाते द्वैते च प्रशमम् गते…
तुर्य-भूमि-सुयोगतः लोकम् स्वप्नवत् पश्यन्ति सुषुप्ति-पद-नामिकाम् पञ्चमीम् भूमिम् आरुह्य…
शान्ताशेष-विशेषांशः अद्वैत-मात्रके तिष्ठेत् अन्तर्-मुखतया नित्यम् षष्ठीम् भूमिम् उपाश्रितः…
परिश्रान्ततया गाढ-निद्रालुः इव लक्ष्यते (योगि-राट्) एतस्याम् भूम्याम् अभ्यासम् कुर्वन् सम्यक् विवासनः…
(योगि-राट् भूत्वा) क्रमात् तुर्यावस्थाम् सप्त-भूमिम् प्राप्नोति अत्र विदेह-मुक्तिः एव तुर्यातीत-दशा उच्यते।
यत्र (योगी) असत् न सत् च अपि न अहम् न अपि अनहङ्-कृतिः न केवलम् अद्वैते अतिनिर्भयः क्षीण-मननः आस्ते।
अम्बरे शून्य-कुम्भः इव अन्तः-शून्यः बहिः-शून्यः अर्णवे पूर्ण-कुम्भः इव अन्तः-पूर्णः बहिः-पूर्णः।
यथा-स्थितम् इदम् सर्वम् व्यवहारवतः अपि च स्थितम् व्योम अस्तम् गतम् सः जीवन्-मुक्तः उच्यते।
यस्य सुख-दुःखे मनः-प्रभा न उदेति न अस्तम् आयाति (यस्य) यथा-प्राप्त-स्थितिः (भवति) सः जीवन्-मुक्तः उच्यते।
सुषुप्ति-स्थः यः जागर्त्ति यस्य जाग्रत् न विद्यते यस्य बोधः निर्वासनः सः जीवन्-मुक्तः उच्यते।
यः राग-द्वेष-भयादीनाम् अनुरूपम् चरन् अपि अन्तर् व्योमवत् अत्यच्छः सः जीवन्-मुक्तः उच्यते।
कुर्वतः अकुर्वतः वा अपि यस्य अहङ्-कृतः भावः न यस्य बुद्धिः न लिप्यते सः जीवन्-मुक्तः उच्यते।
यः समस्तार्थ-जालेषु व्यवहारी अपि शीतलः परार्थेषु इव पूर्णात्मा सः जीवन्-मुक्तः उच्यते।
(यः) द्वैत-वर्जित-चिन्-मात्रे परम-पावने पदे अक्षुब्ध-चित्त-विश्रान्तः सः जीवन्-मुक्तः उच्यते।
इदम् जगत् अयम् सः अयम् अवास्तवम् दृश्य-जातम् यस्य चित्ते न स्फुरति सः जीवन्-मुक्तः उच्यते।
अहम् चिद्-आत्मा अहम् परात्मा अहम् निर्गुणः परात् परः (इति) यः आत्म-मात्रेण तिष्ठेत् सः जीवन्-मुक्तः उच्यते।
अहम् देह-त्रयातिरिक्तः अहम् शुद्ध-चैतन्यम् अस्मि अहम् ब्रह्म इति यस्य अन्तः सः जीवन्-मुक्तः उच्यते।
यस्य देहादिकम् न अस्ति यस्य (अहम्) ब्रह्म इति निश्चयः यः परमानन्द-पूर्णः सः जीवन्-मुक्तः उच्यते।
अहम् ब्रह्म अस्मि अहम् ब्रह्म अस्मि अहम् ब्रह्म इति निश्चयः (यस्य) अहम् चित् अहम् चित् च इति सः जीवन्-मुक्तः उच्यते
जीवन्-मुक्ति-पदम् त्यक्त्वा स्व-देहे कालसात्कृते (ज्ञानी) पवनः अस्पन्दताम् इव अदेह-मुक्तित्वम् विशति।
ततः यद् गिराम् अपि अगोचरम् यद् शून्य-वादिनाम् शून्यम् यद् ब्रह्म-विदाम् ब्रह्म च असौ तद् सम्बभूव।
(यद्) विज्ञान-विदाम् विज्ञानम् मलानाम् मलात्मकम् च (सः) साङ्ख्य-दृष्टीनाम् पुरुषः योग-वादिनाम् ईश्वरः।
शैवागम-स्थानाम् शिवः कालैक-वादिनाम् कालः यद् सर्व-शास्त्र-सिद्धान्तम् यद् सर्व-हृदयानुगम् यद् सर्वम् सर्वगम् वस्तु तद् तत्त्वम् असौ तद् स्थितः।
अहम् ब्रह्म एव अहम् चित् एव एवम् अपि वा न चिन्त्यते यः चिन्-मात्रेण इव तिष्ठेत् सः विदेहः मुक्तः एव।
इह यस्य प्रपञ्च-भानम् न ब्रह्माकारम् अपि न यः अतीतातीत-भावः सः विदेहः मुक्तः एव।
यः चित्त-वृत्तेः अतीतः (यः) चित्त-वृत्त्या अवभासकः यः चित्त-वृत्ति-विहीनः सः विदेहः मुक्तः एव।
(यः) जीवात्मा इति परात्मा इति सर्व-चिन्ता-विवर्जितः सर्व-सङ्कल्प-हीनात्मा सः विदेहः मुक्तः एव।
(यः) ओङ्कार-वाच्य-हीनात्मा सर्व-वाच्य-विवर्जितः अवस्था-त्रय-हीनात्मा सः विदेहः मुक्तः एव।
अहि-निर्ल्वयनी-सर्प-निर्मोकः (slough of a snake; Bṛ.Up.4.4.7, the outward appearance of the snake) जीव-वर्जितः वल्मीके पतितः तिष्ठेत् सर्पः तम् न अभिमन्यते।
एवम् सहेतुके मिथ्या-ज्ञाने प्रत्यग्-ज्ञान-शिखि-ध्वस्ते स्थूलम् च सूक्ष्मम् च शरीरम् न अभिमन्यते।
अयम् न इति न इति इत्यरूपत्वात् अशरीरः भवति विश्वः च तैजसः च एव प्राज्ञः च इति च ते त्रयम्…
विराट् हिरण्य-गर्भः च ईश्वरः च इति ते त्रयम् ब्रह्माण्डम् च पिण्डाण्डम् एव भूर्-आदयः लोकाः क्रमात्।
स्व-स्वोपाधि-लयात् एव प्रत्यग्-आत्मनि लीयन्ते ततः तूष्णीम् तूष्णीम् तूष्णीम् एव (भवति) किञ्चन सत्यम् न।
तस्य काल-भेदः वस्तु-भेदः देश-भेदः स्व-भेदकः किञ्चिद्-भेदः न अस्ति किञ्चिद् वा अपि न विद्यते।
अहम् वेद-शास्त्रेषु तु जीवेश्वरेति-वाक्ये च अति इदम् चैतन्यम् एव इति अहम् चैतन्यम् इति अपि…
यः इति निश्चय-शून्यः सः एव विदेहः मुक्तः वस्तुतः अवस्तुतः अपि च साक्षात् ब्रह्म एव विद्यते।
तद् सत्य-ज्ञान-सुखात्मकम् ब्रह्म विद्या-विषयम् शान्तम् च तद्-अतीतम् च तद् परम् ब्रह्म उच्यते।
अध्यात्म-शास्त्राणाम् हि सर्वापह्नवः एव सिद्धान्तः इह शान्तम् ब्रह्म एव तद्-विना अविद्या न माया न उ अस्ति।
(ज्ञानी) स्वेषु प्रियेषु सुकृतम् अप्रियेषु च दुष्कृतम् विसृज्य ध्यान-योगेन सनातनम् ब्रह्म अप्येति।
सद्-बुद्धे च यावत् यावत् अखिलम् सन्त्यज्यते तावत् तावत् स्वयम् परानन्दः परमात्मा एव शिष्यते।

Go to Top Menu

परमाक्षरविद् ज्ञानी यत्र यत्र सदा मृतः (भवेत्) परे ब्रह्मणि लीयेत तस्य उत्क्रान्तिः न इष्यते।
यद् यद् स्वाभिमतम् वस्तु (भवेत्) तद् त्यजन् मोक्षम् अश्नुते यदा असङ्कल्पेन शस्त्रेण इदम् चित्तम् छिन्नम् (भवति)।
तदा सर्वम् सर्वगतम् शान्तम् ब्रह्म सम्पद्यते इति शिष्यः तु गुरोः वाक्यम् श्रुत्वा छिन्न-संशयः (अभूत्)।
ज्ञात-ज्ञेयः सः सद्गुरोः चरणाम्बुजम् सम्प्रणम्य तेन समनुज्ञातः निर्मुक्त-बन्धनः (सन्) ययौ।
एषः गुरुः सदा-आनन्द-सिन्धौ निर्मग्न-मानसः सर्वाम् वसुधाम् पावयन् निरुत्तरः विचचार।
इति आचार्यस्य शिष्यस्य (च) संवादेन मुमुक्षूणाम् सुख-बोधोपपत्तये आत्म-लक्षणम् निरूपितम्।
अयम् सर्व-वेदान्त-सिद्धान्त-सार-सङ्ग्रह-नामकः ग्रन्थः सताम् हृदय-ग्रन्थि-विच्छित्त्यै रचितः।

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति सर्व-वेदान्त-सिद्धान्त-सार-सङ्ग्रहः॥