Sorry, your browser does not support JavaScript!
प्रश्न-उपनिषद्
with शङ्कर-भाष्यम्

🙏
Praśna 1 Praśna 2 Praśna 3 Praśna 4 Praśna 5 Praśna 6

Format by A.K. Aruna, 2019 ver.4.0: UpasanaYoga. If downloaded, requires installed Devanāgarī Siddhanta1.ttf font, downloadable from UpasanaYoga. If run from UpasanaYoga website, it alternatively can use online Web Font. Any Devanāgarī in parentheses () is an alternate reading of text in Red. Top button "Collapse all panels" contracts the view in which individual items can be re-expanded, or again the top button "Restore all panels" reloads page to original view. The Devanagari text source is the Sharada Peetham, Sringeri (advaitasharada.sringeri.net).
Praśna Upaniṣad from the Atharva Veda, consists of the answers to six praśnas (questions) posed to the sage Pippalāda.

by A.K. Aruna
First Update to HTML Jan 2018 with Creative Commons International License:
This work is licensed under the Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License. To view a copy of this license, visit http://creativecommons.org/licenses/by-nc-sa/4.0/, or click the following logo:
Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License

ओम्, भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः।
स्थि॒रैर् अङ्गै᳚स् तुष्टु॒वाग्ँस॑स् त॒नूभिः॑ व्यशे॑म दे॒व-हि॑तं॒ यद् आयुः॑॥
स्व्-अ॒स्ति न॒ इन्द्रो॑ वृ॒द्ध-श्र॑वाः। स्व्-अ॒स्ति नः॑ पू॒षा वि॒श्व-वे॑दाः।
स्व्-अ॒स्ति न॒स् तार्क्ष्यो॒ अरि॑ष्ट-नेमिः। स्व्-अ॒स्ति नो॒ बृह॒स्-पति॑र् दधातु॥
ओं शान्तिः॒ शान्तिः॒ शान्तिः॑॥

Om, bhadra, karṇa, √śṛ, deva. bhadra, √dṛś, akṣa, yajatra.
sthira, aṅga, tuṣṭuvas, tanū, vi-√aś, deva-hita, yad, āyus.
su-asti, asmad, indra, vṛddha-śravas. su-asti, asmad, pūṣan, viśva-deva.
su-asti, asmad, tārkṣya, a-riṣṭa-nemi. su-asti, asmad, bṛhas-pati, √dhā.
om, śānti, śānti, śānti.

Go to Top ('Home' key on many Windows browsers)

Where do creatures come from?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13 mn.14 mn.15 mn.16

Sukeśan, son of Bharad-vāja; Satya-kāma, the son of Śibi; Gārgya, descendent of Garga, and grandson of Surya; Kausalya, son of Aśvala; Bhārgava, descendent of Bhṛgu, from Vidarbha; and Ka-bandhin, descendant of Katya; these six were intent upon brahman and engaged for brahman, and (now) were desirous of traditionally inquiring into (the ultimate) brahman. They approached the revered Pippalāda with fire kindling in hand (as a show of desire to serve the teacher), thinking he certainly will tells us everything.
मन्त्रोक्तस्यार्थस्य विस्तरानुवादीदं ब्राह्मणमारभ्यते। ऋषिप्रश्नप्रतिवाचनाख्यायिका तु विद्यास्तुतये। एवं संवत्सरब्रह्मचर्यसंवासादितपोयुक्तैर्ग्राह्या, पिप्पलादवत्सर्वज्ञकल्पैराचार्यैः वक्तव्या च, न येन केनचिदिति विद्यां स्तौति। ब्रह्मचर्यादिसाधनसूचनाच्च तत्कर्तव्यता स्यात् –
सुकेशा च नामतः, भरद्वाजस्यापत्यं भारद्वाजःशैब्यश्च शिबेरपत्यं शैब्यः, सत्यकामो नामतः। सौर्यायणी सूर्यस्यापत्यं सौर्यः, तस्यापत्यं सौर्यायणिः; छान्दसं सौर्यायणीति; गार्ग्यः गर्गगोत्रोत्पन्नः। कौसल्यश्च नामतः, अश्वलस्यापत्यम् आश्वलायनःभार्गवः भृगोर्गोत्रापत्यं भार्गवः, वैदर्भिः विदर्भेषु भवः। कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः; विद्यमानः प्रपितामहो यस्य सः; युवप्रत्ययः। ते ह एते ब्रह्मपराः अपरं ब्रह्म परत्वेन गताः, तदनुष्ठाननिष्ठाश्च ब्रह्मनिष्ठाः, परं ब्रह्म अन्वेषमाणाः किं तत् यन्नित्यं विज्ञेयमिति तत्प्राप्त्यर्थं यथाकामं यतिष्याम इत्येवं तदन्वेषणं कुर्वन्तः, तदधिगमाय एष ह वै तत्सर्वं वक्ष्यतीति आचार्यमुपजग्मुः। कथम्? ते ह समित्पाणयः समिद्भारगृहीतहस्ताः सन्तः, भगवन्तं पूजावन्तं पिप्पलादम् आचार्यम् उपसन्नाः उपजग्मुः॥
To them the seer, Pippalāda, said, “Stay here a year more with religious discipline, as scriptural students, and with trust. Thereafter, you may ask questions as you wish. If we know, we will answer everything.”
तान् एवमुपगतान् सः ह किल ऋषिः उवाच भूयः पुनर् एव – यद्यपि यूयं पूर्वं तपस्विन एव, तथापीह तपसा इन्द्रियसंयमेन विशेषतो ब्रह्मचर्येण श्रद्धया च आस्तिक्यबुद्ध्या आदरवन्तः संवत्सरं कालं संवत्स्यथ सम्यग्गुरुशुश्रूषापराः सन्तो वत्स्यथ। ततः यथाकामं यो यस्य कामस्तमनतिक्रम्य यद्विषये यस्य जिज्ञासा तद्विषयान् प्रश्नान् पृच्छतयदि तद्युष्मत्पृष्टं विज्ञास्यामः। अनुद्धतत्वप्रदर्शनार्थो यदि - शब्दो नाज्ञानसंशयार्थः प्रश्ननिर्णयादवसीयते सर्वं ह वो वः पृष्टार्थं वक्ष्याम इति
After that year, Ka-bandhin, descendant of Katya, approached and asked, “Venerable sir, from what indeed are all these beings born?”
अथ संवत्सरादूर्ध्वं कबन्धी कात्यायनः उपेत्य उपगम्य पप्रच्छ पृष्टवान् – हे भगवन्, कुतः कस्मात् ह वै इमाः ब्राह्मणाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते इति। अपरविद्याकर्मणोः समुच्चितयोर्यत्कार्यं या गतिस्तद्वक्तव्यमिति तदर्थोऽयं प्रश्नः॥
To him the teacher said:
Prajā-pati (the Lord of creatures) became desirous of progeny. He contemplated what He knew (by which he attained this exalted status via rituals and meditation in an earlier life) and thereupon He created from Himself a pairing of food and life-energy (rayi and prāṇa), thinking that these two will produce for Me the variety of creatures.
तस्मै एवं पृष्टवते स ह उवाच तदपाकरणायाह – प्रजाकामः प्रजाः आत्मनः सिसृक्षुः वै, प्रजापतिः सर्वात्मा सन् जगत्स्रक्ष्यामीत्येवं विज्ञानवान्यथोक्तकारी तद्भावभाविताः कल्पादौ निर्वृत्तो हिरण्यगर्भः, सृज्यमानानां प्रजानां स्थावरजङ्गमानां पतिः सन्, जन्मान्तरभावितं ज्ञानं श्रुतिप्रकाशितार्थविषयं तपः, अन्वालोचयत् अतप्यत। अथ तु सः एवं तपः तप्त्वा श्रौतं ज्ञानमन्वालोच्य, सृष्टिसाधनभूतं मिथुनम् उत्पादयते मिथुनं द्वन्द्वमुत्पादितवान् रयिं च सोममन्नं प्राणं च अग्निमत्तारम् इत्येतौ अग्नीषोमौ अत्रन्नभूतौ मे मम बहुधा अनेकधा प्रजाः करिष्यतः इति एवं सञ्चिन्त्य अण्डोत्पत्तिक्रमेण सूर्याचन्द्रमसावकल्पयत्॥
The sun is indeed the life-energy (the eater), and the moon is indeed matter to be consumed (which gets ‘eaten’ during the lunar cycles). Everything is only formed (material) and unformed (subtle) matter. Other than the latter, material matter is (in turn) food (for the subtle).
तत्र आदित्यः ह वै प्राणः अत्ता अग्निः। रयिरेव चन्द्रमाः। रयिरेवान्नं सोम एव। तदेतदेकमत्ता अग्निश्चान्नं च प्रजापतिरेकं तु मिथुनम्; गुणप्रधानकृतो भेदः। कथम्? रयिर्वै अन्नमेव एतत् सर्वम्। किं तत्? यत् मूर्तं च स्थूलं च अमूर्तं च सूक्ष्मं च। मूर्तामूर्ते अत्त्रन्नरूपे अपि रयिरेव। तस्मात् प्रविभक्तादमूर्तात् यदन्यन्मूर्तरूपं मूर्तिः, सा एव रयिः अन्नम् अमूर्तेन अत्त्रा अद्यमानत्वात्॥
Now, the sun rises and pervades the eastern region, by that it absorbs (becomes one with) the life-energies into its rays in the east.
The same in the south, the west, the north, as well as below, above, and in-between in those regions, in all directions. By illuminating them it absorbs all the life-energies into its rays.
तथा अमूर्तोऽपि प्राणोऽत्ता सर्वमेव यच्चाद्यम्। कथम्? अथ आदित्यः उदयन् उद्गच्छन् प्राणिनां चक्षुर्गोचरमागच्छन् यत्प्राचीं दिशं स्वप्रकाशेन प्रविशति व्याप्नोति, तेन स्वात्मव्याप्त्या सर्वान्तःस्थान् प्राणान् प्राच्यान् अन्नभूतान् रश्मिषु स्वात्मावभासरूपेषु व्याप्तिमत्सु व्याप्तत्वात्प्राणिनः संनिधत्ते संनिवेशयति आत्मभूतान्करोतीत्यर्थः। तथैव यत् प्रविशति दक्षिणां यत्प्रतीचीं यदुदीचीम् अधः ऊर्ध्वं यत् प्रविशति यच्अन्तरा दिशः कोणदिशोऽवान्तरदिशः यच् चान्यत् सर्वं प्रकाशयति, तेन स्वप्रकाशव्याप्त्या सर्वान् सर्वदिक्स्थान् प्राणान् रश्मिषु संनिधत्ते
That very one (the eater) who daily rises is vaiśvā-nara (the fire within all), who takes all forms as the life-energy (prāṇa), and is fire itself.
This one is indicated by the following mantra.
स एषः अत्ता प्राणो वैश्वानरः सर्वात्मा विश्वरूपः विश्वात्मत्वाच्च प्राणः अग्निः च स एवात्ता उदयते उद्गच्छति प्रत्यहं सर्वा दिशः आत्मसात्कुर्वन्। तदेतत् उक्तं वस्तु ऋचा मन्त्रेणापि अभ्युक्तम्
(The wise knew) the one possessed of all forms, full of rays, endowed with knowledge, the resort of all, the sole light and the source of heat, to be this sun that rises, that possesses thousand(s) of rays, manifest in hundred(s) of (life) forms, and is the very life (prāṇa) of all living creatures.
(They knew) the one possessed of all forms, full of rays, endowed with knowledge (विश्व-रूपं, हरिणं, जात-वेदसम्),
the resort of all, the sole light and the source of heat (परायणं, ज्योतिस् एकं तपन्तम्),
that possesses thousand(s) of rays (सहस्र-रश्मिः), manifest in hundred(s) of (life) forms (शतधा वर्तमानः),
(and) the very life (prāṇa) of all living creatures (प्राणः प्रजानाम्), to be this sun that rises (उदयति एषः सूर्यः).
विश्वरूपं सर्वरूपं हरिणं रश्मिवन्तं जातवेदसं जातप्रज्ञानं परायणं सर्वप्राणाश्रयं ज्योतिः सर्वप्राणिनां चक्षुर्भूतम् एकम् अद्वितीयं तपन्तं तापक्रियां कुर्वाणं स्वात्मानं सूर्यं विज्ञातवन्तो ब्रह्मविदः। कोऽसौ यं विज्ञातवन्तः? सहस्ररश्मिः अनेकरश्मिः शतधा अनेकधा प्राणिभेदेन वर्तमानः प्राणः प्रजानाम् उदयति एषः सूर्यः
The saṃvatsara (the year, consisting of lunar and solar days) is indeed (thus a manifestation of) Prajā-pati. Of that (Prajā-pati as the year) there are two paths, the southern and the northern (the six months from summer solstice onward as the sun tracks southward and the six months from winter solstice onward as the sun tracks northward, related to the moon and sun respectively).
Concerning this, those who worship that one in the form of their ritual (iṣṭa) and charity (pūrta) acts that create (puṇya, karma merit), they go (by the southern path) to a lunar heaven alone.
(When their puṇya is cashed in) they are again reborn back here. Because of that, those who see the scripture as only this much, who are desirous of more progeny, go along the southern path.
This which is the path of the ancestors is indeed but food (rayi, the moon, the eaten).
यश्चासौ चन्द्रमा मूर्तिरन्नममूर्तिश्च प्राणोऽत्तादित्यस्तदेतदेकं मिथुनं सर्वं कथं प्रजाः करिष्यत इति, उच्यते – तदेव कालः संवत्सरो वै प्रजापतिः, तन्निर्वर्त्यत्वात्संवत्सरस्य। चन्द्रादित्यनिर्वर्त्यतिथ्यहोरात्रसमुदायो हि संवत्सरः तदनन्यत्वाद्रयिप्राणैतन्मिथुनात्मक एवेत्युच्यते। तत्कथम्? तस्य संवत्सरस्य प्रजापतेः अयने मार्गौ द्वौ दक्षिणं चोत्तरं च। प्रसिद्धे ह्ययने षण्मासलक्षणे, याभ्यां दक्षिणेनोत्तरेण च याति सविता केवलकर्मिणां ज्ञानसंयुक्तकर्मवतां च लोकान्विदधत्। कथम्? तत् तत्र च ब्राह्मणादिषु ये ह वै ऋषयः तद् उपासत इति। क्रियाविशेषणो द्वितीयस्तच्छब्दः। इष्टं च पूर्तं च इष्टापूर्ते इत्यादि कृतम् एव उपासते नाकृतं नित्यम्, ते चान्द्रमसमेव चन्द्रमसि भवं प्रजापतेर्मिथुनात्मकस्यांशं रयिमन्नभूतं लोकम् अभिजयन्ते कृतरूपत्वाच्चान्द्रमसस्य। ते एव च कृतक्षयात् पुनरावर्तन्ते इमं लोकं हीनतरं वा विशन्तीति ह्युक्तम्। यस्मादेवं प्रजापतिमन्नात्मकं फलत्वेनाभिनिर्वर्तयन्ति चन्द्रमिष्टापूर्तकर्मणा प्रजाकामाः प्रजार्थिनः एते ऋषयः स्वर्गद्रष्टारः गृहस्थाः, तस्मात् स्वकृतमेव दक्षिणं दक्षिणायनोपलक्षितं चन्द्रं प्रतिपद्यन्तेएष ह वै रयिः अन्नम्, यः पितृयाणः पितृयाणोपलक्षितश्चन्द्रः॥
However, others attain the solar heaven through the northern path by their religious disciples, their pursuit of scripture (instead of progeny) with trust, and by meditation, while appropriately seeking the self (ātman, the Lord as the prāṇa, the eater within).
This is the home of all prāṇas (all lives). This is deathless and fearless. This is the final goal. From this there is no rebirth (in this universe manifestation cycle). There is blockage (the shut door of the solar orb, IsU.15, by their desire that keeps the others from seeing, much less reaching here).
In regard to that, there is this verse.
अथ उत्तरेण अयनेन प्रजापतेरंशं प्राणमत्तारम् आदित्यम् अभिजयन्ते। केन? तपसा इन्द्रियजयेन। विशेषतो ब्रह्मचर्येण श्रद्धया विद्यया च प्रजापत्यात्मविषयया आत्मानं प्राणं सूर्यं जगतः तस्थुषश्च अन्विष्य अहमस्मीति विदित्वा आदित्यम् अभिजयन्ते अभिप्राप्नुवन्ति। एतद्वै आयतनं सर्व-प्राणानां सामान्यमायतनम् आश्रयः एतत् अमृतम् अविनाशि अभयम् अत एव भयवर्जितम् न चन्द्रवत्क्षयवृद्धिभयवत्; एतत् परायणं परा गतिर्विद्यावतां कर्मिणां च ज्ञानवताम् एतस्मान्न पुनरावर्तन्ते यथेतरे केवलकर्मिण इति यस्मात् एषः अविदुषां निरोधः, आदित्याद्धि निरुद्धा अविद्वांसः। नैते संवत्सरमादित्यमात्मानं प्राणमभिप्राप्नुवन्ति। स हि संवत्सरः कालात्मा अविदुषां निरोधः। तत् तत्रास्मिन्नर्थे एषः श्लोकः मन्त्रः॥
Some say this (Prajā-pati as the year) is the (progenitor) father, having five feet (seasons: bright spring, hot summer, monsoon, fall, and the combined late-fall and winter), with twelve forms (months), which is in a region beyond the sky, as the giver of the rains (via clouds). But other eminent ones say it is the all-seeing, having seven runners (horses, or seven cycling wheels), with six (seasons as) spokes, in which is fixed (as spokes in its hub).
Having five feet (seasons: bright spring, hot summer, monsoon, fall, and the combined late-fall and winter) (पञ्च-पादं), the (progenitor) father (पितरं), having twelve forms (months) (द्वा-दश-आकृतिम्),
they say is in a region beyond the sky (दिवः आहुः परे अर्धे), as the giver of the rains (via clouds) (पुरीषिणम्).
But as the all-seeing, other eminent ones (अथ इमे अन्ये उ परे विचक्षणम्)
say is having seven runners (horses, or seven cycling wheels), with six (seasons as) spokes, in which is fixed (as spokes in its hub) (सप्त-चक्रे षडरे आहुः अरर्पितम् इति).
पञ्चपादं पञ्च ऋतवः पादा इवास्य संवत्सरात्मन आदित्यस्य, तैर्ह्यसौ पादैरिव ऋतुभिरावर्तते। हेमन्तशिशिरावेकीकृत्येयं कल्पना। पितरं सर्वस्य जनयितृत्वात्पितृत्वं तस्य; द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकरणं वा अवयविकरणमस्य द्वादशमासैः तं द्वादशाकृतिम्, दिवः द्युलोकात् परे ऊर्ध्वे अर्धे स्थाने तृतीयस्यां दिवीत्यर्थः; पुरीषिणं पुरीषवन्तम् उदकवन्तम् आहुः कालविदः। अथ तम् एव अन्ये इमे उ परे कालविदः विचक्षणं निपुणं सर्वज्ञं सप्तचक्रे सप्तहयरूपे चक्रे संततगतिमति कालात्मनि षडरे षडृतुमति आहुः सर्वमिदं जगत्कथयन्ति – अर्पितम् अरा इव रथनाभौ निविष्टम् इति। यदि पञ्चपादो द्वादशाकृतिर्यदि वा सप्तचक्रः षडरः सर्वथापि संवत्सरः कालात्मा प्रजापतिश्चन्द्रादित्यलक्षणो जगतः कारणम्॥
The month is indeed Prajā-pati. The dark (waning) fortnight is His food, and the bright (waxing) fortnight is His prāṇa. Therefore, those who see the scripture (for gaining the bright prāṇa) perform their rituals (as if it is always) in the bright fortnight. The others perform them (as if it is always) in the other fortnight (always for food, reward, etc.).
यस्मिन्निदं प्रोतं विश्वं स एव प्रजापतिः संवत्सराख्यः स्वावयवे मासे कृत्स्नः परिसमाप्यते। मासो वै प्रजापतिः यथोक्तलक्षण एव मिथुनात्मकः। तस्य मासात्मनः प्रजापतेरेको भागः कृष्णपक्ष एव रयिः अन्नं चन्द्रमाः अपरो भागः शुक्लः शुक्लपक्षः प्राणः आदित्योऽत्ताग्निर्यस्माच्छुक्लपक्षात्मानं प्राणं सर्वमेव पश्यन्ति, तस्मात् प्राणदर्शिन एते ऋषयः कृष्णपक्षेऽपि इष्टं यागं कुर्वन्तः शुक्ल-पक्ष एव कुर्वन्ति। प्राणव्यतिरेकेण कृष्णपक्षस्तैर्न दृश्यते यस्मात्; इतरे तु प्राणं न पश्यन्तीत्यदर्शनलक्षणं कृष्णात्मानमेव पश्यन्ति। इतरे इतरस्मिन् कृष्णपक्ष एव कुर्वन्ति शुक्ले कुर्वन्तोऽपि॥
Day and night are indeed Prajā-pati. The day is surely His prāṇa, and the night is His food. (For whose who desire progeny) they waste their prāṇa (as sexual energy) when they have sex during the day, whereas if they have sex at night (related to the evening’s food and the seed, PrasU.1.14), then it is equivalent to brahma-carya (the celibacy of a religious student, even while being a householder).
सोऽपि मासात्मा प्रजापतिः स्वावयवे अहोरात्रे परिसमाप्यते। अहोरात्रो वै प्रजापतिः पूर्ववत्। तस्य अपि अहरेव प्राणः अत्ता अग्निः रात्रिरेव रयिः पूर्ववदेव। प्राणम् अहरात्मानं वै एते प्रस्कन्दन्ति निर्गमयन्ति शोषयन्ति वा स्वात्मनो विच्छिद्यापनयन्ति। के? ये दिवा अहनि रत्या रतिकारणभूतया सह स्त्रिया संयुज्यन्ते मैथुनमाचरन्ति मूढाः। यत एवं तस्मात्तन्न कर्तव्यमिति प्रतिषेधः प्रासङ्गिकः। यत् रात्रौ संयुज्यन्ते रत्या ऋतौ ब्रह्मचर्यमेव तद् इति प्रशस्तत्वात् रात्रौ भार्यागमनं कर्तव्यमित्ययमपि प्रासङ्गिको विधिः॥
Anna (food, especially cooked rice) is indeed Prajā-pati. From that is the human seed. From that seed are born all these progeny.
प्रकृतं तूच्यते सोऽहोरात्रात्मकः प्रजापतिर्व्रीहियवाद्यन्नात्मना व्यवस्थितः एवं क्रमेण परिणम्य। तत् अन्नं वै प्रजापतिः। कथम्? ततः तस्मात् ह वै रेतः नृबीजं तत् प्रजाकारणं तस्मात् योषिति सिक्तात् इमाः मनुष्यादिलक्षणाः प्रजाः प्रजायन्ते यत्पृष्टं कुतो ह वै प्रजाः प्रजायन्त इति। तदेवं चन्द्रादित्यमिथुनादिक्रमेण अहोरात्रान्तेन अन्नरेतोद्वारेण इमाः प्रजाः प्रजायन्त इति निर्णीतम्॥
In that case, those who undertake that Prajā-pati vow (consisting of procreating only in the evening) produce a pair (both son and daughter). For those alone who keep to their religious disciplines, observe chastity (during the day), in whom truthfulness abides, etcetera (for the southern path, PrasU.1.9), is there a lunar heaven within brahman.
In that case, that Prajā-pati vow (consisting of procreating only in the evening) those who (तद् ये ह वै तद् प्रजा-पति-व्रतम्)
undertake, they produce a pair (both son and daughter) (चरन्ति, ते मिथुनम् उत्पादयन्ते)
For those alone is there a lunar heaven within brahman, who also keep to their religious disciplines (तेषाम् एव एषः ब्रह्म-लोकः येषां तपस्),
observe chastity (during the day), in whom truthfulness abides, etcetera (for the southern path) (ब्रह्म-चर्यं येषु सत्यं प्रतिष्ठितम्).
तत् तत्रैवं सति ये गृहस्थाः। ह वै इति प्रसिद्धस्मरणार्थौ निपातौ। तत् प्रजापतेर्व्रतं प्रजापतिव्रतम् ऋतौ भार्यागमनं चरन्ति कुर्वन्ति, तेषां दृष्टं फलमिदम्। किम्? ते मिथुनं पुत्रं दुहितरं च उत्पादयन्ते। अदृष्टं च फलमिष्टापूर्तदत्तकारिणां तेषामेव एषः यश्चान्द्रमसो ब्रह्मलोकः पितृयाणलक्षणः येषां तपः स्नातकव्रतादि ब्रह्मचर्यम् ऋतोरन्यत्र मैथुनासमाचरणं येषुसत्यम् अनृतवर्जनं प्रतिष्ठितम् अव्यभिचारितया वर्तते नित्यमेव॥
(Whereas) the pure (no waxing and waning) brahma-loka is there for those who have no dishonesty, no falsehood, no deception (and who undertake the rituals with meditation to qualify for the northern path, PrasU.1.10).
(Whereas) the pure (no waxing and waning) brahma-loka is there for those (तेषाम् असौ विरजः ब्रह्म-लोकः)
who have no dishonesty, no falsehood, no deception (and do as above for entering the northern path) (न येषु जिह्मम् अनृतं न माया च इति).
यस्तु पुनरादित्योपलक्षित उत्तरायणः प्राणात्मभावो विरजः शुद्धो न चन्द्र-ब्रह्मलोकवद् रजस्वलो वृद्धिक्षयादियुक्तः असौ तेषाम्, केषामिति, उच्यते – यथा गृहस्थानामनेकविरुद्धसंव्यवहारप्रयोजनवत्त्वात् जिह्मं कौटिल्यं वक्रभावोऽवश्यंभावि तथा न येषु जिह्मम्, यथा च गृहस्थानां क्रीडादिनिमित्तम् अनृतम् अवर्जनीयं तथा येषु तत् तथा माया गृहस्थानामिव न येषु विद्यते। माया नाम बहिरन्यथात्मानं प्रकाश्यान्यथैव कार्यं करोति, सा माया मिथ्याचाररूपा। मायेत्येवमादयो दोषा येष्वेकाकिषु ब्रह्मचारिवानप्रस्थभिक्षुषु निमित्ताभावान्न विद्यन्ते, तत्साधनानुरूप्येणैव तेषामसौ विरजो ब्रह्मलोक इत्येषा ज्ञानयुक्तकर्मवतां गतिः। पूर्वोक्तस्तु ब्रह्मलोकः केवलकर्मिणां चन्द्रलक्षण इति॥

Go to Top ('Home' key on many Windows browsers)

Who are the deities? And who is most important?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12 mn.13

Now, Bhārgava from Vidarbha asked, “Venerable sir, How many deities sustain a creature? Which of them boast this greatness? And who is superior in this to those deities?”
प्राणोऽत्ता प्रजापतिरित्युक्तम्। तस्य प्रजापतित्वमत्तृत्वं चास्मिञ्शरीरेऽवधारयितव्यमित्ययं प्रश्न आरभ्यते। अथ अनन्तरं किल एनं भार्गवः वैदर्भिः पप्रच्छ – हे भगवन् कत्येव देवाः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते। कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्तेकः असौ पुनः एषां वरिष्ठः प्रधानः कार्यकरणलक्षणानाम् इति
To him Pippalāda said:
This deity is space, as well as air, fire, water, earth, and speech, mind, eye, and ear.
Boasting, they say, “By supporting this reed of a body, we sustain the creature.”
एवं पृष्टवते तस्मै स ह उवाचआकाशः ह वै एषः देवः वायुः अग्निः आपः पृथिवी इत्येतानि पञ्च महाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रम् इत्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि । कार्यलक्षणाः करणलक्षणाश्च ते देवा आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्य अभिवदन्ति स्पर्धमाना अहंश्रेष्ठतायै। कथं वदन्ति? वयमेतत् बाणं कार्यकरणसंघातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टं धारयामः। मयैवैकेनायं संघातो ध्रियत इत्येकैकस्याभिप्रायः॥
Prāṇa (the life-force), who is superior, said to them, “Do not fall to this delusion. I alone, dividing myself five ways (as prāṇa, outward exhalation; apāna, downward inhalation and energy; vyāna, dispersing circulation; udāna, upward ejecting energy including the ejecting of the subtle body upon death; and samāna, uniting digestion) to support this reed of a body and sustain the creature.” They did not trust (this truth).
तान् एवमभिमानवतः वरिष्ठः मुख्यः प्राणः उवाच उक्तवान् – मा मैवं मोहम् आपद्यथ अविवेकितयाभिमानं मा कुरुत; यस्मात् अहमेव एतद् बाणम् अवष्टभ्य विधारयामि पञ्चधा आत्मानं प्रविभज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामि इति उक्तवति च तस्मिन् ते अश्रद्दधानाः अप्रत्ययवन्तः बभूवुः – कथमेतदेवमिति॥
Confidently prāṇa starts rising out of the body. When he arises, then (helplessly) all the others rise; when he settles back, every one of them settles back.
In the same way all bees (praise) the royal bee, who arises, by their rising and sit when (s)he sits, so too speech, mind, eye, and ear, being satisfied, praise prāṇa.
च प्राणः तेषामश्रद्दधानतामालक्ष्य अभिमानात् ऊर्ध्वम् उत्क्रामत इव उत्क्रामतीव उत्क्रान्तवानिव स रोषान्निरपेक्षः। तस्मिन्नुत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति – तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्व एव प्राणाश्चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः। तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति, सर्व एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूवुः। तत् यथा लोके मक्षिकाः मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति। यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं च इत्यादयः ते उत्सृज्याश्रद्दधानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति॥
This prāṇa as fire burns, as the sun (it shines), as Parjanya (Lord of the rain-clouds, it rains), as Maghavan (Indra, it reigns); it is the wind.
This deity is the earth and moon, whatever has form or is formless (sad or a-sad), and what is immortal.



.
कथम्? एषः प्राणः अग्निः सन् तपति ज्वलति। तथा एषः सूर्यः सन् प्रकाशते। तथा एषः पर्जन्यः सन् वर्षति। किंच मघवान् इन्द्रः सन् प्रजाः पालयति जिघांसत्यसुररक्षांसि। किंच, एषः वायुः आवहप्रवहादिभेदः। किंच, एषः पृथिवी रयिः देवः सर्वस्य जगतः सत् मूर्तम् असत् अमूर्तं च अमृतं च यत् देवानां स्थितिकारणम्॥
Like spokes fixed in the hub of a wheel, prāṇa is all these:
the Ṛg, Yajus and Sāman mantras (i.e., verse, prose, and sung forms, respectively), and the sacrifice along with its kṣatriyas (protectors) and brāhmaṇas (performers).



.
किं बहुना? अरा इव रथनाभौ श्रद्धादि नामान्तं सर्वं स्थितिकाले प्राणे एव प्रतिष्ठितम्। तथा ऋचः यजूंषि सामानि इति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्त्रं च सर्वस्य पालयितृ ब्रह्म च यज्ञादिकर्मकर्तृत्वेऽधिकृतं च एष एव प्राणः सर्वम्॥
Prāṇa as Prajā-pati, it is you who moves (as the father’s seed and the child) in the womb. You indeed are born (in the form of all these). O prāṇa, these creatures bring the oblation (the sense objects through the senses) to you (as their eater) who dwells in the form of these prāṇas (the senses).
(Prāṇa as) Prajā-pati, it is you who moves (as the father’s seed and the child) in the womb (प्रजापतिः चरसि गर्भे).
You indeed are born (in the form of all these) (त्वम् एव प्रतिजायसे).
O prāṇa, these creatures, the oblation (the sense objects through the senses) to you (as their eater) (तुभ्यं, प्राण, प्रजाः तु इमाः बलिम्)
who dwells in the form of these prāṇas (the senses), they bring (the oblation) (हरन्ति यः प्राणैः प्रतितिष्ठसि).
किंच, यः प्रजापतिः अपि स त्वमेव गर्भे चरसि, पितुर्मातुश्च प्रतिरूपः सन् प्रतिजायसे; प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वम्; सर्वदेहदेह्याकृतिच्छन्नः एकः प्राणः सर्वात्मासीत्यर्थः। तुभ्यं त्वदर्थाय इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति, यः त्वं प्राणैः चक्षुरादिभिः सह प्रतितिष्ठसि सर्वशरीरेषु, अतस्तुभ्यं बलिं हरन्तीति युक्तम्। भोक्तासि यतस्त्वं तवैवान्यत्सर्वं भोज्यम्॥
This being the first food offering to the ancestors, you are the best carrier of this offering to the gods. You are the unfailing active principle within the seer-senses, called the atharva-aṅgiras-es (the keepers, priests, of the fire, or the essences of the body which are the prāṇas).
You are the best carrier of this offering to the gods (देवानाम् असि वह्नितमः),
the first food offering to the ancestors (पितॄणां प्रथमा स्वधा).
The unfailing active principle within the seer-senses (ऋषीणां चरितं सत्यम्),
(called) the atharva-aṅgiras-es (the keepers, priests, of the fire, or the essences of the body which are the prāṇas) (अथर्वाङ्गिरसाम्), you are (असि).
किंच, देवानाम् इन्द्रादीनाम् असि भवसि त्वं वह्नितमः हविषां प्रापयितृतमः। पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वधा अन्नं सा देवप्रदानमपेक्ष्य प्रथमा भवति। तस्या अपि पितृभ्यः प्रापयिता त्वमेवेत्यर्थः। किंच, ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसाम् अङ्गिरसभूतानामथर्वणाम् – ‘तेषामेव प्राणो वाथर्वा’ (?) इति श्रुतेः – चरितं चेष्टितं सत्यम् अवितथं देहधारणाद्युपकारलक्षणं त्वमेव असि
O prāṇa, you are Lord Indra in prowess. You are Lord Rudra in protector (mode). You are the sun who travels across the sky (when you arise), and the Lord of the luminaries (after you set).
O prāṇa, you are Lord Indra in prowess (इन्द्रः त्वं, प्राण, तेजसा).
You are Lord Rudra in protector (mode) (रुद्रः असि परिरक्षिता).
You travel across the sky (when you arise) (त्वम् अन्तरिक्षे चरसि),
(and) you are the sun, the Lord of the luminaries (after you set) (सूर्यः त्वं ज्योतिषां पतिः).
किंच, इन्द्रः परमेश्वरः त्वं हे प्राण, तेजसा वीर्येण रुद्रोऽसि संहरन् जगत्। स्थितौ च परि समन्तात् रक्षिता पालयिता; परिरक्षिता त्वमेव जगतः सौम्येन रूपेण। त्वम् अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वम् एव च सर्वेषां ज्योतिषां पतिः
When you give forth the rains, then all these propagate (prajāḥ), O prāṇa (or, read ‘prāṇate,’ “then the creatures are nourished”). They continue to be full of joy, thinking, “Food will be produced to our hearts’ content.”
When you give forth the rains (यदा त्वम् अभिवर्षसि),
then (all) these propagate (prajāḥ), O prāṇa (or, read ‘prāṇate,’ “then the creatures are nourished”) (अथ इमाः, प्राण, ते प्रजाः).
They continue to be full of joy (आनन्द-रूपाः तिष्ठन्ति),
(thinking) “Food will be produced to our hearts’ content” (कामाय अन्नं भविष्यति इति).
यदा पर्जन्यो भूत्वा अभिवर्षसि त्वम्, अथ तदा अन्नं प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्तीत्यर्थः। अथवा, हे प्राण, ते तव इमाः प्रजाः स्वात्मभूतास्त्वदन्नसंवर्धितास्त्वदभिवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्तिकामाय इच्छातः अन्नं भविष्यति इति एवमभिप्रायः॥
You are (like) an outlaw (beyond scriptural injunctions, or, as first born, you are unbaptized), O prāṇa, the (Atharva-Veda) ekarṣi fire, the (oblation) eater, the good (or, existence) Lord of everything. We are the givers of the food oblation to you. You are our father and the one who grows in the mother (or, read ‘mātariśvanaḥ,’ “the father of the wind [or of the embryo]”).
You are (like) an outlaw (beyond scriptural injunctions, or, as first born, you are unbaptized), O prāṇa (व्रात्यः त्वं, प्राण), the (Atharva-Veda) ekarṣi fire (एक-ऋषिः),
the (oblation) eater (अत्ता), the good (or, existence) Lord of everything (विश्वस्य सत्-पतिः).
We are the givers of the food oblation (to you) (वयम् आद्यस्य दातारः).
You are our father and the one who grows in the mother (or, read ‘mātariśvanaḥ,’ “the father of the wind [or of the embryo]”) (पिता त्वं मातरि-श्व नः).
किंच, प्रथमजत्वादन्यस्य संस्कर्तुरभावादसंस्कृतो व्रात्यः त्वम्, स्वभावत एव शुद्ध इत्यभिप्रायः। हे प्राण, एकर्षिः त्वम् आथर्वणानां प्रसिद्ध एकर्षिनामा अग्निः सन् अत्ता सर्वहविषाम्। त्वमेव विश्वस्य सर्वस्य सतो विद्यमानस्य पतिः सत्पतिः; साधुर्वा पतिः सत्पतिः। वयं पुनः आद्यस्य तव अदनीयस्य हविषो दातारःत्वं पिता मातरिश्व हे मातरिश्वन्, नः अस्माकम् अथवा, मातरिश्वनः वायोः पिता त्वम्। अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम्॥
The body of yours which abides in the organ of speech, in the hearing, in the sight, and which pervades the mind, please make that body of yours calm, do not let it (prematurely) ascend out of my body.
The body of yours which abides in (the organ of) speech (या ते तनूः वाचि प्रतिष्ठिता),
which is in the hearing, which is in the sight (या श्रोत्रे, या च चक्षुषि),
and which pervades the mind (या च मनसि संतता),
please make that (body of yours) calm (शिवां तां कुरु), do not let it (prematurely) ascend (out of my body) (मा उत्क्रमीः).
किं बहुना? या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती, या च श्रोत्रे या चक्षुषि या च मनसि सङ्कल्पादिव्यापारेण संतता समनुगता तनूः, तां शिवां शान्तां कुरु; मा उत्क्रमीः उत्क्रमणेनाशिवां मा कार्षीरित्यर्थः॥
All this is under the control of prāṇa, and all which exists in the third world (heaven, beyond the earth sphere and the atmosphere). Please protect us, like a mother her children. Provide us what we need (śrī, śreyas) and wisdom.
All this is under the control of prāṇa (प्राणस्य इदं वशे सर्वम्),
(and all) which exists in the third world (heaven, beyond the earth sphere and the atmosphere) (त्रि-दिवे यद् प्रतिष्ठितम्).
Please protect (us) like a mother her children (माता इव पुत्रार् रक्षस्व).
Provide us what we need (śreyas) and wisdom (श्रीः च प्रज्ञां च विधेहि नः इति).
किं बहुना। अस्मिंल्लोके प्राणस्य एव वशे सर्वम् इदं यत्किंचिदुपभोगजातं त्रिदिवे तृतीयस्यां दिवि च यत् प्रतिष्ठितं देवाद्युपभोगलक्षणं तस्यापि प्राण एव ईशिता रक्षिता। अतो माता इव पुत्रान् अस्मान् रक्षस्व पालयस्व। त्वन्निमित्ता हि ब्राह्म्यः क्षात्त्र्यश्च श्रियः ताः त्वं श्रीश्च श्रियश्च प्रज्ञां च त्वत्स्थितिनिमित्तां विधेहि नः विधत्स्वेत्यर्थः। इति एवं सर्वात्मतया वागादिभिः प्राणैः स्तुत्या गमितमहिमा प्राणः प्रजापतिरेवेत्यवधृतम्॥

Go to Top ('Home' key on many Windows browsers)

Who is this deity Prāṇa?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11 mn.12

Then Kausalya, son of Aśvala, asked Pippalāda, “Venerable sir, from what is this prāṇa born? How is does it enter into this body? How does it divide itself and remain there? By what (path) does it depart? How does it relate to the external and (that external prāṇa relate to, by supporting) the internal (adhyātma)?”
अथ हैनं कौसल्यश्चाश्वलायनः प्रपच्छ। प्राणैर्ह्येवं निर्धारिततत्त्वः उपलब्धमहिमापि संहतत्वात्स्यादस्य कार्यत्वम्; अतः पृच्छामि। हे भगवन्, कुतः कस्मात्कारणात् एषः यथावधृतः प्राणः जायते। जातश्च कथं केन वृत्तिविशेषेण आयाति अस्मिन् शरीरे; किंनिमित्तकमस्य शरीरग्रहणमित्यर्थः। प्रविष्टश्च शरीरे आत्मानं वा प्रविभज्य प्रविभागं कृत्वा कथं केन प्रकारेण प्रातिष्ठते प्रतितिष्ठति। केन वा वृत्तिविशेषेणास्माच्छरीरात् उत्क्रमते उत्क्रामति। कथं बाह्यम् अधिभूतम् अधिदैवतं च अभिधत्ते धारयति; कथम् अध्यात्मम् इति, धारयतीति शेषः॥
To him Pippalāda said:
You are asking a lot of questions, but I think you are an eminent brāhmaṇa, so I will answer all these questions.
एवं पृष्टः तस्मै स होवाच आचार्यः। प्राण एव तावद्दुर्विज्ञेयत्वाद्विषमप्रश्नार्हः; तस्यापि जन्मादि त्वं पृच्छसि; अतः अतिप्रश्नान् पृच्छसिब्रह्मिष्ठोऽसीति अतिशयेन त्वं ब्रह्मवित्, अतस्तुष्टोऽहम्, तस्मात् ते तुभ्यम् अहं ब्रवीमि यत्पृष्टं शृणु॥
From the (parama, limitless) ātman this prāṇa (life energy) manifests in the world. In the same way a person’s shadow (chāyā) is naturally wherever the person (puruṣa) is, similarly this prāṇa is fixed here. It is fixed in this body owing to the (past) actions of the person’s mind.
आत्मनः परस्मात्पुरुषादक्षरात्सत्यात् एषः उक्तः प्राणः जायते। कथमित्यत्र दृष्टान्तः। यथा लोके एषा पुरुषे शिरःपाण्यादिलक्षणे निमित्ते च्छाया नैमित्तिकी जायते, तद्वत् एतस्मिन् ब्रह्मणि एतत् प्राणाख्यं छायास्थानीयमनृतरूपं तत्त्वं सत्ये पुरुषे आततं समर्पितमित्येतत्। छायेव देहे मनोकृतेन मनःकृतेन मनःसङ्कल्पेच्छादिनिष्पन्नकर्मनिमित्तेनेत्येतत्। वक्ष्यति हि पुण्येन पुण्यमित्यादि। ‘तदेव सक्तः सह कर्मणैति’ (BrhU.4.4.6) इति श्रुत्यन्तरात्। आयाति आगच्छति अस्मिञ्शरीरे
In the same way a king alone appoints officers saying, “Over this village, over that village you rule,” this prāṇa individually delegates the different life energies (to be in charge of specific organs in this body).
यथा येन प्रकारेण लोके राजा सम्राडेव ग्रामादिषु अधिकृतान्विनियुङ्क्ते। कथम्? एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेतिएवमेव यथायं दृष्टान्तः। एषः मुख्यः प्राणः इतरान् प्राणान् चक्षुरादीनात्मभेदांश्च पृथक्पृथगेव यथास्थानं संनिधत्ते विनियुङ्क्ते॥
Prāṇa placed apāna (downward energy) below in the anus and genital organ, and prāṇa itself above in the eyes and ears and from it issues out the breath energy through the mouth and nostrils, whereas in the middle is placed samāna (digestion and circulation energy).
Since this samāna distributes equally the food offered (into the fire of prāṇa), from that samāna these seven flames (of prāṇa issue out through the mouth and the two eyes, ears, and nostrils).”
तत्र विभागः। पायूपस्थे पायुश्च उपस्थश्च पायूपस्थं तस्मिन्। अपानम् आत्मभेदं मूत्रपुरीषाद्यपनयनं कुर्वन् संनिधत्ते तिष्ठति। तथा चक्षुःश्रोत्रे चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तस्मिश्चक्षुःश्रोत्रे। मुखनासिकाभ्यां मुखं च नासिका च मुखनासिके ताभ्यां मुखनासिकाभ्यां निर्गच्छन् प्राणः स्वयं सम्राट्स्थानीयः प्रातिष्ठते प्रतितिष्ठति। मध्ये तु प्राणापानयोः स्थानयोः नाभ्याम्, समानः अशितं पीतं च समं नयतीति समानः। एषः हि यस्मात् यद् एतत् हुतं भुक्तं पीतं चात्माग्नौ प्रक्षिप्तम् अन्नं समं नयति, तस्मात् अशितपीतेन्धनादग्नेरौदर्याद्धृदयदेशं प्राप्तात् एताः सप्त-सङ्‍ख्याका अर्चिषः दीप्तयो निर्गच्छन्त्यो भवन्ति। शीर्षण्यप्राणद्वारा दर्शनश्रवणादिलक्षणरूपादिविषयप्रकाश इत्यभिप्रायः॥
This self (as the subtle body) is surely in the heart. In that heart are one hundred and one of the (chief) nāḍīs (energy pathways). Each one of these is divided into one hundred branches. Each of these branches is divided into seventy-two thousand sub-branches. Among them moves vyāna (dispersing energy circulation).
हृदि ह्येषः पुण्डरीकाकारमांसपिण्डपरिच्छिन्ने हृदयाकाशे एषः आत्मा आत्मसंयुक्तो लिङ्गात्मा, जीवात्मेत्यर्थः; अत्र अस्मिन्हृदये एतत् एकशतम् एकोत्तरशतं संख्यया प्रधान-नाडीनां भवति। तासां शतं शतम् एकैकस्याः प्रधाननाड्या भेदाः; पुनरपि द्वासप्ततिर्द्वासप्ततिः द्वे द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि, सहस्राणां द्वासप्ततिः, प्रतिशाखानाडीसहस्राणि प्रतिप्रतिनाडीशतं संख्यया प्रधाननाडीनां सहस्राणि भवन्तिआसु नाडीषु व्यानो वायुः चरति। व्यानो व्यापनात्। आदित्यादिव रश्मयो हृदयात्सर्वतोगामिनीभिर्नाडीभिः सर्वदेहं संव्याप्य व्यानो वर्तते। संधिस्कन्धमर्मदेशेषु विशेषेण प्राणापानवृत्त्योश्च मध्ये उद्भूतवृत्तिर्वीर्यवत्कर्मकर्ता भवति॥
(Udāna is the upward and ejecting energy, which, since it also is the vomiting energy, is likely centered in the throat area for this upward and ejecting energy to sit in wait, while also being the energy to do the one-time job of ejecting the subtle body out one of the nāḍī paths depending on where is the next body to enter.)
Now then udāna when it is moving upward through one of the nāḍīs, (having collected the other prāṇas), it leads the subtle body to a virtuous world due to predominant karma merit, (otherwise it goes differently), due to predominant karma demerit to a non-virtuous world, or by an equal mixture of both to a human world.
अथ या तु तत्रैकशतानां नाडीनां मध्ये ऊर्ध्वगा सुषुम्नाख्या नाडी, तया एकया ऊर्ध्वः सन् उदानः वायुः आपादतलमस्तकवृत्तिः सञ्चरन् पुण्येन कर्मणा शास्त्रविहितेन पुण्यं लोकं देवादिस्थानलक्षणं नयति प्रापयति। पापेन तद्विपरीतेन पापं नरकं तिर्यग्योन्यादिलक्षणम्। उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्याम् एव मनुष्यलोकं नयतीत्यनुवर्तते॥
The sun is indeed the external prāṇa. By the sun rising, it favors (blesses) the prāṇa in the eye (the organ of sight).
The earth deity (devatā) by gravity-attracting (avaṣṭabhya) favors apāna (downward, evacuating energy). The intermediate space (the atmosphere, not the element space) (favors) samāna (by its being in the external middle region, like where the digestion in the body presides). The wind (favors) vyāna (by its circulation movement paralleling the activity of vyāna within the body).
आदित्यः ह वै प्रसिद्धो ह्यधिदैवतं बाह्यः प्राणः स एष उदयति उद्गच्छति। एष हि एनम् आध्यात्मिकं चक्षुषि भवं चाक्षुषं प्राणं प्रकाशेन अनुगृह्णानः रूपोपलब्धौ चक्षुष आलोकं कुर्वन्नित्यर्थः। तथा पृथिव्याम् अभिमानिनी या देवता प्रसिद्धा सैषा पुरुषस्य अपानम् अपानवृत्तिम् अवष्टभ्य आकृष्य वशीकृत्याध एवापकर्षणेनानुग्रहं कुर्वती वर्तत इत्यर्थः। अन्यथा हि शरीरं गुरुत्वात्पतेत्सावकाशे वोद्गच्छेत्। यद् एतत् अन्तरा मध्ये द्यावापृथिव्योः यः आकाशः तत्स्थो वायुराकाश उच्यते, मञ्चस्थवत्। स समानः समानमनुगृह्णानो वर्तत इत्यर्थः। समानस्यान्तराकाशस्थत्वसामान्यात्। सामान्येन च यो बाह्यो वायुः स व्याप्तिसामान्यात् व्यानः व्यानमनुगृह्णानो वर्तत इत्यभिप्रायः॥
The well known light (tejas, in general, not just from the sun) is the external prāṇa called udāna. Therefore, one whose “light” is extinguished (so to speak, upon death this tejas favors the bodily udāna) by gathering together the subtle organs into the mind for ejection to a rebirth.
यद्बाह्यं ह वाव प्रसिद्धं सामान्यं तेजः तच्छरीरे उदानः उदानं वायुमनुगृह्णाति स्वेन प्रकाशेनेत्यभिप्रायः। यस्मात्तेजःस्वभावो बाह्यतेजोनुगृहीत उत्क्रान्तिकर्ता तस्मात् यदा लौकिकः पुरुषः उपशान्ततेजाः भवति, उपशान्तं स्वाभाविकं तेजो यस्य सः। तदा तं क्षीणायुषं मुमूर्षुं विद्यात्। सः पुनः भवं शरीरान्तरं प्रतिपद्यते। कथम्? सह इन्द्रियैः मनसि सम्पद्यमानैः प्रविशद्भिर्वागादिभिः॥
With whatever dominant thought one has (or can muster by one’s will, near the time of death when one normally would take stock of one’s life) the person enters into prāṇa. That prāṇa gets associated with one’s tejas udāna (the rocket fuel to the next world).
Along with the jīva-ātman (the individual identified therein), this prāṇa leads the person to the next world according to one’s dominant thinking (in keeping with one’s karma merit and demerit).
मरणकाले यच्चित्तो भवति तेन एषः जीवः चित्तेन सङ्कल्पेनेन्द्रियैः सह प्राणं मुख्यप्राणवृत्तिम् आयाति। मरणकाले क्षीणेन्द्रियवृत्तिः सन्मुख्यया प्राणवृत्त्यैवावतिष्ठत इत्यर्थः। तदा हि वदन्ति ज्ञातय उच्छ्वसिति जीवतीति। स च प्राणः तेजसा उदानवृत्त्या युक्तः सन् सहात्मना स्वामिना भोक्ता स एवमुदान उदानवृत्त्यैव युक्तः प्राणस्तं भोक्तारं पुण्यपापकर्मवशात् यथासङ्कल्पितं यथाभिप्रेतं लोकं नयति प्रापयति॥
When one has this knowledge of prāṇa (and has arranged his or her life activities accordingly), then the person will be blessed with a line of progeny that does not have untimely death. (Eventually this knowledge with proper meditations can lead one to the highest heaven, brahma-loka, wherein) one gains immortality. In regard to that, there is this verse.
यः कश्चित् एवं विद्वान् यथोक्तविशेषणैर्विशिष्टमुत्पत्त्यादिभिः प्राणं वेद जानाति तस्येदं फलमैहिकमामुष्मिकं चोच्यते। न ह अस्य नैवास्य विदुषः प्रजा पुत्रपौत्रादिलक्षणा हीयते च्छिद्यते। पतिते च शरीरे प्राणसायुज्यतया अमृतः अमरणधर्मा भवति; तत् एतस्मिन्नर्थे संक्षेपाभिधायक एष श्लोकः मन्त्रो भवति॥
Having known the source, the entering, the location, the fivefold overlordship, and the external and internal connections of prāṇa (PrasU.3.1), one achieves immortality.
The source (उत्पत्तिम्), the entering (आयतिं), the location (स्थानम्),
the fivefold overlordship (विभुत्वं च एव पञ्चधा),
(the external) and the internal connections of prāṇa (अध्यात्मं च एव प्राणस्य),
having known (विज्ञाय), one achieves immortality (अमृतम् अश्नुते, विज्ञाय अमृतम् अश्नुते इति).
उत्पत्तिं परमात्मनः प्राणस्य आयतिम् आगमनं मनोकृतेनास्मिञ्शरीरे स्थानं स्थितिं च पायूपस्थादिस्थानेषु विभुत्वं च स्वाम्यम् एव सम्राडिव प्राणवृत्तिभेदानां पञ्चधा स्थापनम्। बाह्यमादित्यादिरूपेण अध्यात्मं चैव चक्षुराद्याकारेणावस्थानं विज्ञाय एवं प्राणम् अमृतम् अश्नुते इति। विज्ञायामृतम् अश्नुत इति द्विर्वचनं प्रश्नार्थपरिसमाप्त्यर्थम्॥

Go to Top ('Home' key on many Windows browsers)

Who sleeps? And upon whom does all this rest?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08 mn.09 mn.10 mn.11

Then Gārgya, descendent of Garga and grandson of Surya, asked Pippalāda, “Venerable sir, in this person (puruṣa), which go to sleep? In this person, which awake? Which is the bright one (the deva, deity) that sees the dream objects? Which has this happiness? And in what do all these get merged?
अथ ह एनं सौर्यायणी गार्ग्यः पप्रच्छ प्रश्नत्रयेणापरविद्यागोचरं सर्वं परिसमाप्य संसारं व्याकृतविषयं साध्यसाधनलक्षणमनित्यम्। अथेदानीं साध्यसाधनविलक्षणमप्राणममनोगोचरमतीन्द्रियमविषयं शिवं शान्तमविकृतमक्षरं सत्यं परविद्यागम्यं पुरुषाख्यं सबाह्याभ्यन्तरमजं वक्तव्यमित्युत्तरं प्रश्नत्रयमारभ्यते। तत्र सुदीप्तादिवाग्नेर्यस्मात्परस्मादक्षरात्सर्वे भावा विस्फुलिङ्गा इव जायन्ते तत्र चैवापियन्तीत्युक्तं द्वितीये मुण्डके; के ते सर्वे भावा अक्षराद्विस्फुलिङ्गा इव विभज्यन्ते। कथं वा विभक्ताः सन्तस्तत्रैवापियन्ति। किंलक्षणं वा तदक्षरमिति। एतद्विवक्षया अधुना प्रश्नानुद्भावयति – भगवन्, एतस्मिन् पुरुषे शिरःपाण्यादिमति कानि करणानि स्वपन्ति स्वापं कुर्वन्ति स्वव्यापारादुपरमन्ते; कानिअस्मिन् जाग्रति जागरणमनिद्रावस्थां स्वव्यापारं कुर्वन्ति। कतरः कार्यकरणलक्षणयोः एष देवः स्वप्नान्पश्यति। स्वप्नो नाम जाग्रद्दर्शनान्निवृत्तस्य जाग्रद्वदन्तःशरीरे यद्दर्शनम्। तत्किं कार्यलक्षणेन देवेन निर्वर्त्यते, किं वा करणलक्षणेन केनचिदित्यभिप्रायः। उपरते च जाग्रत्स्वप्नव्यापारे यत्प्रसन्नं निरायासलक्षणमनाबाधं सुखं कस्य एतत् भवति। तस्मिन्काले जाग्रत्स्वप्नव्यापारादुपरताः सन्तः कस्मिन्नु सर्वे सम्यगेकीभूताः सम्प्रतिष्ठिताः। मधुनि रसवत्समुद्रप्रविष्टनद्यादिवच्च विवेकानर्हाः प्रतिष्ठिता भवन्ति संगताः सम्प्रतिष्ठिता भवन्तीत्यर्थः। ननु न्यस्तदात्रादिकरणवत्स्वव्यापारादुपरतानि पृथक्पृथगेव स्वात्मन्यवतिष्ठन्त इत्येतद्युक्तम्; कुतः प्राप्तिः सुषुप्तपुरुषाणां करणानां कस्मिंश्चिदेकीभावगमनाशङ्कायाः प्रष्टुः? युक्तैव त्वाशङ्का; यतः संहतानि करणानि स्वाम्यर्थानि परतन्त्राणि च जाग्रद्विषये; तस्मात्स्वापेऽपि संहतानां पारतन्त्र्येणैव कस्मिंश्चित्संगतिर्न्याय्येति; तस्मादाशङ्कानुरूप एव प्रश्नोऽयम्। अत्र तु कार्यकरणसंघातो यस्मिंश्च प्रलीनः सुषुप्तप्रलयकालयोः, तद्विशेषं बुभुत्सोः स को नु स्यादिति कस्मिन्सर्वे सम्प्रतिष्ठिता भवन्तीति॥
To him Pippalāda said:
O Gārgya, like all the rays of the setting sun appear to merge back into this glowing orb (withdrawn from the outward daily world), and again they appear to come back out from it as it rises again, so too all of those (which you ask) merge back into the mind (manas), as their high deity (deva).
Hence at that time (in dream and then in deep sleep) this person (puruṣa, here the waker) does not hear, does not see, does not smell, does not taste, does not touch, does not speak, does not grasp, does not sexually enjoy, does not excrete, and does not move (by means of the five senses and five organs of action). The others say, “He is sleeping.”
तस्मै स ह उवाच आचार्यः। शृणु हे गार्ग्य, यत्त्वया पृष्टम्। यथा मरीचयः रश्मयः अर्कस्य आदित्यस्य अस्तम् अदर्शनं गच्छतः सर्वाः अशेषतः एतस्मिन् तेजोमण्डले तेजोराशिरूपे एकीभवन्ति विवेकानर्हत्वमविशेषतां गच्छन्ति, ताः मरीचयस्तस्यैवार्कस्य पुनः पुनः उदयतः उद्गच्छतः प्रचरन्ति विकीर्यन्ते यथायं दृष्टान्तः। एवं ह वै तत् सर्वं विषयेन्द्रियादिजातं परे प्रकृष्टे देवे द्योतनवति मनसि चक्षुरादिदेवानां मनस्तन्त्रत्वात्परो देवो मनः, तस्मिन्स्वप्नकाले एकीभवति मण्डले मरीचिवदविशेषतां गच्छति। जिजागरिषोश्च रश्मिवन्मण्डलान्मनस एव प्रचरन्ति स्वव्यापाराय प्रतिष्ठन्ते यस्मात्स्वप्नकाले श्रोत्रादीनि शब्दाद्युपलब्धिकरणानि मनस्येकीभूतानीव करणव्यापारादुपरतानि तेन तस्मात् तर्हि तस्मिन्स्वापकाले एषः देवदत्तादिलक्षणः पुरुषः न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते स्वपिति इति आचक्षते लौकिकाः॥
The prāṇas, likened to the home fires (with three altars and activities of offering and reaching the sacrificial results, see Dharmawiki-Agnihotram), alone remain watchful (even at night) in this (nine-gated, BhG.5.13) city of the body.
The apāna (inward breath) resembles the gārha-patya fire (the kitchen fire in the western altar direction, into which the morning and evening oblations of ghee to agni for agni-hotra are offered, from which the other altar fires are rekindled, and which is always kept alive, watchful, until the householder passes away), vyāna (circulation, since it is said to issue from below, from the south, of the heart) resembles the anvāhārya-pacana fire (the dakṣiṇa-agni, southern fire, used for the new-moon srāddha sacrifice distributing gifts to all the ancestors). Since extracted from the gārha-patya fire (related to apāna, the in-breath), then prāṇa (the outward breath, which comes from the inward breath) likewise resembles this extracted āhavanīya fire (which is also in the western arrangement of altars, out of which most of the śrauta rituals are performed).
सुप्तवत्सु श्रोत्रादिषु करणेषु एतस्मिन् पुरे नवद्वारे देहे प्राणाग्नयः प्राणा एव पञ्च वायवोऽग्नय इवाग्नयः जाग्रति। अग्निसामान्यं हि आह – गार्हपत्यो ह वा एषोऽपानः कथमिति, आह। यस्मात् गार्हपत्यात् अग्नेरग्निहोत्रकाले इतरोऽग्निः आहवनीयः प्रणीयते प्रणयनात्, प्रणीयते अस्मादिति प्रणयनो गार्हपत्योऽग्निः, तथा सुप्तस्यापानवृत्तेः प्रणीयत इव प्राणो मुखनासिकाभ्यां सञ्चरति अत आहवनीयस्थानीयः प्राणःव्यानः तु हृदयाद्दक्षिणसुषिरद्वारेण निर्गमाद्दक्षिणदिक्संबन्धात् अन्वाहार्यपचनः दक्षिणाग्निः॥
Because it unites both to fairly and equally distribute (samaṃ nayati) the digestion energy stoked by exhalation and inhalation, like the two (agni-hotra) oblations (āhutis, of heated ghee, one in the morning and one in the evening), this samāna (uniting digestion) is like the hotṛ priest (who presides over the sacrifice and officiates over the proper duties of the other priests).
The mind is verily the yajamāna (the one who is the beneficiary of the sacrifice, in the agni-hotra it would be the householder). The desired result (of the daily offerings) is the udāna which then leads this yajamāna sacrificer daily to brahman (since udāna also ejects the person between the states of waking, dream and deep sleep, the brahman is here the daily refreshing bliss in the deep sleep, as we are still here in the dream state where the physical activities of the prāṇas are first united into the mind, but still subtly functioning therein for the dreamer).
अत्र च होता अग्निहोत्रस्य यत् यस्मात् उच्छ्वासनिःश्वासौ अग्निहोत्राहुती इव नित्यं द्वित्वसामान्यादेव तु एतौ आहुती समं साम्येन शरीरस्थितिभावाय नयति यो वायुरग्निस्थानीयोऽपि होता चाहुत्योर्नेतृत्वात्। कोऽसौ? स समानः। अतश्च विदुषः स्वापोऽप्यग्निहोत्रहवनमेव। तस्माद्विद्वान्नाकर्मीत्येवं मन्तव्य इत्यभिप्रायः। सर्वदा सर्वाणि च भूतानि विचिन्वन्त्यपि स्वपत इति हि वाजसनेयके। अत्र हि जाग्रत्सु प्राणाग्निषूपसंहृत्य बाह्यकरणानि विषयांश्चाग्निहोत्रफलमिव स्वर्गं ब्रह्म जिगमिषुः मनो ह वाव यजमानः जागर्ति। यजमानवत्कार्यकरणेषु प्राधान्येन संव्यवहारात्स्वर्गमिव ब्रह्म प्रति प्रस्थितत्वाद्यजमानो मनः कल्प्यते। इष्टफलं यागफलम् एव उदानः वायुः। उदाननिमित्तत्वादिष्टफलप्राप्तेः। कथम्? सः उदानः एनं मनआख्यं यजमानं स्वप्नवृत्तिरूपादपि प्रच्याव्य अहरहः सुषुप्तिकाले स्वर्गमिव ब्रह्म अक्षरं गमयति। अतो यागफलस्थानीयः उदानः॥
Here (in dream) the deity (the mind) (undergoes the experience) of the vastness (of the dream world).
Whatever is seen (before) is seen again (in the dream); whatever it hears was only heard before in a different place, etcetera and it experiences again and again. Whatever was seen and unseen, heard and unheard, experienced and not experienced (since the mind is also aware of what it doesn't experience – just ask it), and whatever is real and unreal – all this it perceives over and over here in dream.
एवं विदुषः श्रोत्राद्युपरमकालादारभ्य यावत्सुप्तोत्थितो भवति तावत्सर्वयागफलानुभव एव, नाविदुषामिवानर्थायेति विद्वत्ता स्तूयते। न हि विदुष एव श्रोत्रादीनि स्वपन्ति, प्राणाग्नयो वा जाग्रति। जाग्रत्स्वप्नयोर्मनः स्वातन्त्र्यमनुभवदहरहः सुषुप्तं वा प्रतिपद्यते। समानं हि सर्वप्राणिनां पर्यायेण जाग्रत्स्वप्नसुषुप्तगमनम्; अतो विद्वत्तास्तुतिरेवेयमुपपद्यते। यत्पृष्टं कतर एष देवः स्वप्नान्पश्यतीति; तदाह – अत्र उपरतेषु श्रोत्रादिषु देहरक्षायै जाग्रत्सु प्राणादिवायुषु प्राक्सुषुप्तिप्रतिपत्तेः एतस्मिन्नन्तराल एषः देवः अर्करश्मिवत्स्वात्मनि संहृतश्रोत्रादिकरणः स्वप्ने महिमानं विभूतिं विषयविषयिलक्षणमनेकात्मभावगमनम् अनुभवति प्रतिपद्यते। ननु महिमानुभवने करणं मनोऽनुभवितुः; तत्कथं स्वातन्त्र्येणानुभवतीत्युच्यते? स्वतन्त्र हि क्षेत्रज्ञः। नैष दोषः। क्षेत्रज्ञस्य स्वातन्त्र्यस्य मनउपाधिकृतत्वात्। न हि क्षेत्रज्ञः परमार्थतः स्वतः स्वपिति जागर्ति वा। मनउपाधिकृतमेव तस्य जागरणं स्वप्नश्च। उक्तं वाजसनेयके ‘सधीः स्वप्नो भूत्वा’ (बृ. मा. ४-३-७) ‘ध्यायतीव लेलायतीव’ (BrhU.4.3.7) इत्यादि। तस्मान्मनसो विभूत्यनुभवे स्वातन्त्र्यवचनं न्याय्यमेव। मनउपाधिसहितत्वे स्वप्नकाले क्षेत्रज्ञस्य स्वयंज्योतिष्ट्वं बाध्येत इति केचित्। तन्न। श्रुत्यर्थापरिज्ञानकृता भ्रान्तिस्तेषाम्। यस्मात्स्वयंज्योतिष्ट्वादिव्यवहारोऽप्यामोक्षान्तः सर्वोऽप्यविद्याविषय एव मनआद्युपाधिजनितः; ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येन्मात्रासंसर्गस्त्वस्य भवति’ (BrhU.4.3.31, BrhU.4.5.14) ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (BrhU.4.5.15) इत्यादिश्रुतिभ्यः। अतो मन्दब्रह्मविदामेवेयमाशङ्का, न त्वेकात्मविदाम्। नन्वेवं सति ‘अत्रायं पुरुषः स्वयंज्योतिः’ (BrhU.4.3.14) इति विशेषणमनर्थकं भवति। अत्रोच्यते। अत्यल्पमिदमुच्यते ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्शेते’ (BrhU.2.1.17) इति अन्तर्हृदयपरिच्छेदकरणे सुतरां स्वयंज्योतिष्ट्वं बाध्येत। सत्यमेवम्; अयं दोषो यद्यपि स्यात्स्वप्ने केवलतया स्वयंज्योतिष्ट्वेनार्धं तावदपनीतं भारस्येति चेत्, न; तत्रापि ‘पुरीतति नाडीषु शेते’ इति श्रुतेः पुरीतन्नाडीसम्बन्धादत्रापि पुरुषस्य स्वयंज्योतिष्ट्वेनार्धभारापनयाभिप्रायो मृषैव। कथं तर्हि ‘अत्रायं पुरुषः स्वयंज्योतिः’ (BrhU.4.3.14) इति? अन्यशाखात्वादनपेक्षा सा श्रुतिरिति चेत्, न; अर्थैकत्वस्येष्टत्वात्। एको ह्यात्मा सर्ववेदान्तानामर्थो विजिज्ञापयिषितो बुभुत्सितश्च। तस्माद्युक्ता स्वप्न आत्मनः स्वयंज्योतिष्ट्वोपपत्तिर्वक्तुम्, श्रुतेर्यथार्थतत्त्वप्रकाशकत्वात्। एवं तर्हि शृणु श्रुत्यर्थं हित्वा सर्वमभिमानम्; न ह्यभिमानेन वर्षशतेनापि श्रुत्यर्थो ज्ञातुं शक्यते सर्वैः पण्डितंमन्यैः। यथा हृदयाकाशे पुरीतति नाडीषु च स्वपतस्तत्संबन्धाभावात्ततो विविच्य दर्शयितुं शक्यत इति आत्मनः स्वयंज्योतिष्ट्वं न बाध्यते। एवं मनस्यविद्याकामकर्मनिमित्तोद्भूतवासनावति कर्मनिमित्ता वासना अविद्यया अन्यद्वस्त्वन्तरमिव पश्यतः सर्वकार्यकरणेभ्यः प्रविविक्तस्य द्रष्टुर्वासनाभ्यो दृश्यरूपाभ्योऽन्यत्वेन स्वयंज्योतिष्ट्वं सुदर्पितेनापि तार्किकेण केन वारयितुं शक्यते? तस्मात्साधूक्तं मनसि प्रलीनेषु करणेष्वप्रलीने च मनसि मनोमयः स्वप्नान्पश्यतीति। कथं महिमानमनुभवतीति उच्यते। यन् मित्रं पुत्रादि वा पूर्वं दृष्टं तद्वासनावासितः पुत्रमित्रादिवासनासमुद्भूतं पुत्रं मित्रमिव वा अविद्यया पश्यति इत्येवं मन्यते। शृणोति तथा श्रुतम् अर्थं तद्वासनयानु शृणोति इव। देशदिगन्तरैश्च देशान्तरैर्दिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः तत् प्रत्यनुभवनि इव अविद्यया। तथा दृष्टं च अस्मिञ्जन्मनि अदृष्टं च जन्मान्तरदृष्टमित्यर्थः। अत्यन्तादृष्टे वासनानुपपत्तेः। एवं श्रुतं चाश्रुतं च अनुभूतं च अस्मिञ्जन्मनि केवलेन मनसा अननुभूतं च मनसैव जन्मान्तरेऽनुभूतमित्यर्थः। सच्च परमार्थोदकादि। असच्च मरीच्युदकादि। किं बहुना, उक्तानुक्तं सर्वं पश्यति सर्वः पश्यति सर्वमनोवासनोपाधिः सन्नेवं सर्वकरणात्मा मनोदेवः स्वप्नान्पश्यति॥
Then at that time this (deity, the mind) becomes overwhelmed (abhibhūta, and exhausted).
Here the deity does not see the dream world, at which time in this body occurs this (unobstructed) bliss (of deep sleep).
सः यदा मनोरूपो देवो यस्मिन्काले सौरेण पित्ताख्येन तेजसा नाडीशयेन सर्वतः अभिभूतो भवति तिरस्कृतवासनाद्वारो भवति, तदा सह करणैर्मनसो रश्मयो हृद्युपसंहृता भवन्ति। यदा मनो दार्वग्निवदविशेषविज्ञानरूपेण कृत्स्नं शरीरं व्याप्यावतिष्ठते, तदा सुषुप्तो भवति। अत्र एतस्मिन्काले एषः मनआख्यो देवः स्वप्नान् न पश्यति दर्शनद्वारस्य निरुद्धत्वात्तेजसा। अथ तदा एतस्मिन् शरीरे एतत्सुखं भवति यद्विज्ञानं निराबाधमविशेषेण शरीरव्यापकं प्रसन्नं भवतीत्यर्थः॥
Like this, O dear one, the birds (RigV.1.164.19-21) rest in the tree that lodges them, so all this (enumerated in the next mantra) rests in the ultimate ātman (the brahman, wherein is the daily bliss at the end of the day).
एतस्मिन्काले अविद्याकामकर्मनिबन्धनानि कार्यकरणानि शान्तानि भवन्ति। तेषु शान्तेष्वात्मस्वरूपमुपाधिभिरन्यथा विभाव्यमानमद्वयमेकं शिवं शान्तं भवतीत्येतामेवावस्थां पृथिव्याद्यविद्याकृतमात्रानुप्रवेशेन दर्शयितुं दृष्टान्तमाह – दृष्टान्तः यथा येन प्रकारेण हि सोम्य प्रियदर्शन, वयांसि पक्षिणः वासार्थं वृक्षं वासोवृक्षं प्रति सम्प्रतिष्ठन्ते गच्छन्ति, एवं यथा दृष्टान्तः ह वै तत् वक्ष्यमाणं सर्वं परे आत्मनि अक्षरे सम्प्रतिष्ठते
The gross and subtle element earth, the gross and subtle water, gross and subtle fire, gross and subtle air, gross and subtle space, vision and the seen, hearing and the heard, smelling and the smelled, taste and the tasted, touch and the touched, speech and the spoken, holding and the held, sex and its enjoyment, excretion and the excreted, locomotion and the gotten to, mind and its content, intellect and its content, I-notion and its content, memory and the recollected (including dream), the tejas (the deva, PrasU.4.6, the shining one reflected in this mind) and all it reveals, and prāṇa (sūtra-ātman, in which all this is strung) and all it supports.
किं तत्सर्वम्? पृथिवी च स्थूला पञ्चगुणा तत्कारणं च पृथिवीमात्रा गन्धतन्मात्रा, तथा आपश्च आपोमात्रा च, तेजश्च तेजोमात्रा च, वायुश्च वायुमात्रा च, आकाशश्चाकाशमात्रा च, स्थूलानि च सूक्ष्माणि च भूतानीत्यर्थः। तथा चक्षुश्च इन्द्रियं रूपं च द्रष्टव्यं च, श्रोत्रं च श्रोतव्यं च, घ्राणं च घ्रातव्यं च, रसश्च रसयितव्यं च, त्वक्च स्पर्शयितव्यं च, वाक्च वक्तव्यं च, हस्तौ च आदातव्यं च, उपस्थश्च आनन्दयितव्यं च, पायुश्च विसर्जयितव्यं च, पादौ च गन्तव्यं च; बुद्धीन्द्रियाणि कर्मेन्द्रियाणि तदर्थाश्चोक्ताः। मनश्च पूर्वोक्तम्। मन्तव्यं च तद्विषयः। बुद्धिश्च निश्चयात्मिका। बोद्धव्यं च तद्विषयः। अहंकारश्च अभिमानलक्षणमन्तःकरणम्। अहंकर्तव्यं च तद्विषयः। चित्तं च चेतनावदन्तःकरणम्। चेतयितव्यं च तद्विषयः। तेजश्च त्वगिन्द्रियव्यतिरेकेण प्रकाशविशिष्टा या त्वक्। तया निर्भास्यो विषयो विद्योतयितव्यम्प्राणश्च सूत्रं यदाचक्षते तेन विधारयितव्यं सङ्ग्रथनीयम्। सर्वं हि कार्यकरणजातं पारार्थ्येन संहतं नामरूपात्मकमेतावदेव॥
And this puruṣa (who fills all this, this one deva reflected in the mind, or, the one deva in every mind) is the seer, feeler, smeller, taster, thinking, knower, doer, and knowledge itself. This one is fixed in the ultimate, imperishable ātman (brahman).
अतः परं यदात्मस्वरूपं जलसूर्यकादिवद्भोक्तृत्वकर्तृत्वेनेहानुप्रविष्टम्, एषः हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा, विज्ञानं विज्ञायतेऽनेनेति करणभूतं बुद्ध्यादि, इदं तु विजानातीति विज्ञानं कर्तृकारकरूपम्, तदात्मा तत्स्वभावो विज्ञातृस्वभाव इत्यर्थः। पुरुषः कार्यकरणसंघातोक्तोपाधिपूरणात्पुरुषः। च जलसूर्यकादिप्रतिबिम्बस्य सूर्यादिप्रवेशवज्जलाद्याधारशोषे परे अक्षरे आत्मनि सम्प्रतिष्ठते
One attains the ultimate immutable brahman who simply knows that as shadowless (a-cchāya, PrasU.3.3), (hence) bodiless, colorless, pure, and imperishable (a-kṣara, PrasU.4.9), O dear one.
That knower of the all, becomes all. In regard to that, there is this verse.
तदेकत्वविदः फलमाह – परमेव अक्षरं वक्ष्यमाणविशेषणं प्रतिपद्यते इति। एतदुच्यते – स यो ह वै तत् सर्वैषणाविनिर्मुक्तः अच्छायं तमोवर्जितम्, अशरीरं नामरूपसर्वोपाधिशरीरवर्जितम्, अलोहितं लोहितादिसर्वगुणवर्जितम्, यत एवमतः शुभ्रं शुद्धम्, सर्वविशेषणरहितत्वाद् अक्षरम्, सत्यं पुरुषाख्यमप्राणममनोगोचरं शिवं शान्तं सबाह्याभ्यन्तरमजं वेदयते विजानाति यस्तु सर्वत्यागी हे सोम्य, सः सर्वज्ञः न तेनाविदितं किञ्चित्संभवति। पूर्वमविद्यया असर्वज्ञ आसीत्। पुनर्विद्यया अविद्यापनये सर्वः भवतितत् अस्मिन्नर्थे एषः श्लोकः मन्त्रो भवति उक्तार्थसंग्राहकः॥
The one who knows, O dear one, the imperishable one in which are fixed the one whose nature is knowledge (vijñāna-ātman, the puruṣa, PrasU.4.9), along with the all the deities, the energies (prāṇas, and the elements, that one knows the all and merges into this all (the brahman).
The one whose nature is knowledge, along with the all the deities (विज्ञान-आत्मा, सह देवैः च सर्वैः),
the energies, (and) the elements, (all these) into which they are fixed (प्राणाः, भूतानि संप्रतिष्ठन्ति यत्र),
that imperishable, the one who knows (तद् अ-क्षरं वेदयते यः तु), O dear one (सोम्य),
that one knows the all and merges into this all (the brahman) (सः सर्व-ज्ञः सर्वम् एव आविवेश इति).
विज्ञानात्मा, सह देवैश्च अग्न्यादिभिः प्राणाः चक्षुरादयः भूतानि पृथिव्यादीनि सम्प्रतिष्ठन्ति प्रविशन्ति यत्र यस्मिन्नक्षरे, तत् अक्षरं वेदयते यस्तु हे सोम्य प्रियदर्शन, स सर्वज्ञः सर्वमेव आविवेश आविशतीत्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

What is the contemplation on Om?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07

Then Satya-kāma, the son of Śibi, asked Pippalāda,
“Venerable sir, The rare one among all these people, who intently meditates upon that well-known Om until death, gains which world by that.”
अथ ह एनं शैब्यः सत्यकामः पप्रच्छ। अथेदानीं परापरब्रह्मप्राप्तिसाधनत्वेन ओङ्कारस्योपासनविधित्सया प्रश्न आरभ्यते। सः यः कश्चित् ह वै भगवन्, मनुष्येषु मनुष्याणां मध्ये तत् अद्भुतमिव प्रायणान्तं मरणान्तं यावज्जीवमित्येतत्; ओङ्कारम् अभिध्यायीत आभिमुख्येन चिन्तयेत्। बाह्यविषयेभ्य उपसंहृतकरणः समाहितचित्तो भक्त्यावेशितब्रह्मभावे ओङ्कारे आत्मप्रत्ययसंतानाविच्छेदो भिन्नजातीयप्रत्ययान्तराखिलीकृतो निवातस्थदीपशिखासमोऽभिध्यानशब्दार्थः। सत्य-ब्रह्मचर्याहिंसा-परिग्रह-त्याग-संन्यास-शौच-संतोषा-मायावित्वाद्यनेक-यम-नियमानुगृहीतः सः एवं यावज्जीवव्रतधारणः, कतमं वाव, अनेके हि ज्ञानकर्मभिर्जेतव्या लोकास्तिष्ठन्ति; तेषु तेन ओङ्काराभिध्यानेन कतमं सः लोकं जयतीति
To him Pippalāda said:
O Satya-kāma, Om is this very brahman, the higher and the lower aspect.
Therefore, the discerning person with this one support (āyatana, ālambana) alone attains either one of these two.
पृष्टवते तस्मै स ह उवाच पिप्पलादः – एतद्वै सत्यकाम। एतत् ब्रह्म वै परं च अपरं च ब्रह्म परं सत्यमक्षरं पुरुषाख्यम् अपरं च प्राणाख्यं प्रथमजं यत् तद् ओंकार एव ओङ्कारात्मकम् ओङ्कारप्रतीकत्वात्। परं हि ब्रह्म शब्दाद्युपलक्षणानर्हं सर्वधर्मविशेषवर्जितम्, अतो न शक्यमतीन्द्रियगोचरत्वात्केवलेन मनसावगाहितुम्। ओङ्कारे तु विष्ण्वादिप्रतिमास्थानीये भक्त्यावेशितब्रह्मभावे ध्यायिनां तत्प्रसीदतीत्यवगम्यते शास्त्रप्रामाण्यात्। तथा परं च ब्रह्म। तस्मात्परं चापरं च ब्रह्म यदोंकार इत्युपचर्यते। तस्माद् एवं विद्वान् एतेनैव आत्मप्राप्तिसाधनेनैव ओङ्काराभिध्यानेन एकतरं परमपरं वा अन्वेति ब्रह्मानुगच्छति; नेदिष्ठं ह्यालम्बनमोंकारो ब्रह्मणः॥
Should one intently meditate (until death, primarily) upon the first sound (the “a” component of the diphthong “o,” representing the universe of the senses, Virāṭ), by this alone the discerning one quickly is reborn here on earth.
Ṛc mantras lead this one to a human embodiment. There, being endowed with religious discipline, Veda studentship, and trust in the Vedas, this one attains the greatness available there.
यद्यप्योंकारस्य सकलमात्राविभागज्ञो न भवति, तथाप्योंकाराभिध्यानप्रभावाद्विशिष्टामेव गतिं गच्छति; एतदेकदेशज्ञानवैगुण्यतयोंकारशरणः कर्मज्ञानोभयभ्रष्टो न दुर्गतिं गच्छति; किं तर्हि, यदि एवमोंकारमेव एकमात्राविभागज्ञ एव केवलः अभिध्यायीत एकमात्रं सदा ध्यायीत, स तेनैव एकमात्राविशिष्टोंकाराभिध्यानेनैव संवेदितः संबोधितः तूर्णं क्षिप्रम् एव जगत्यां पृथिव्याम् अभिसम्पद्यते। किम्? मनुष्यलोकम्। अनेकानि हि जन्मानि जगत्यां सम्भवन्ति। तत्र तं साधकं जगत्यां मनुष्यलोकम् एव उपनयन्ते उपनिगमयन्ति ऋचः। ऋग्वेदरूपा ह्योंकारस्य प्रथमा एकमात्रा। तेन स तत्र मनुष्यजन्मनि द्विजाग्र्यः सन् तपसा ब्रह्मचर्येण श्रद्धयासम्पन्नः महिमानं विभूतिम् अनुभवति न वीतश्रद्धो यथेष्टचेष्टो भवति; योगभ्रष्टः कदाचिदपि न दुर्गतिं गच्छति॥
If one (intently meditates until death, primarily) upon the second sound (the “u” component of the diphthong “o,” representing the universe of the mind which includes the preceding sound and world of the senses), by this one becomes identified only in the mind (the subtle body). Yajus mantras lead this one to the intermediate lunar heaven.
In this lunar world one attains the greatness available there, and then is reborn (back on earth).
अथ पुनः यदि द्विमात्राविभागज्ञो द्विमात्रेण विशिष्टमोंकारमभिध्यायीत स्वप्नात्मके मनसि मननीये यजुर्मये सौमदैवत्ये सम्पद्यते एकाग्रतयात्मभावं गच्छति, एवं सम्पन्नो मृतः अन्तरिक्षम् अन्तरिक्षाधारं द्वितीयमात्रारूपं द्वितीयमात्रारूपैरेव यजुर्भिः उन्नीयते सोमलोकं सौम्यं जन्मप्रापयन्ति तं यजूंषित्यर्थः। तत्र विभूतिमनुभूय सोमलोके मनुष्यलोकं प्रति पुनरावर्तते
Again, the one who would intently meditate (until death, primarily) upon the third sound (“m,” representing the entire manifestation of the Lord which includes the preceding two sounds and worlds) as the imperishable, ultimate puruṣa, this one arrives at the brilliant solar heaven.
Like a snake sloughs its dead skin, this one is freed of karma demerit (and does not return back into the human body, in this cycle of manifestation). This one is led to brahma-loka (Hiraṇya-garbha) by Sāman mantras. From this one, the totality of all jīvas, one sees (is taught to see) the ultimate puruṣa (brahman) residing in all bodies.
In regard to that, there are these two verses.
यः पुनः एतम् ओङ्कारं त्रिमात्रेण त्रिमात्राविषयविज्ञानविशिष्टेन ओमित्येतेनैव अक्षरेण परं सूर्यान्तर्गतं पुरुषं प्रतीकत्वेन अभिध्यायीत तेनाभिध्यानेन प्रतीकत्वेन ह्यालम्बनत्वं प्रकृतमोंकारस्य परं चापरं च ब्रह्मेति अभेदश्रुतेः, ओङ्कारमिति च द्वितीयानेकशः श्रुता बाध्येतान्यथा। यद्यपि तृतीयाभिधानत्वेन करणत्वमुपपद्यते, तथापि प्रकृतानुरोधात्त्रिमात्रं परं पुरुषमिति द्वितीयैव परिणेया ‘त्यजेदेकं कुलस्यार्थे’ इति न्यायेन। सः तृतीयमात्रारूपे तेजसि सूर्ये सम्पन्नो भवति ध्यायमानः, मृतोऽपि सूर्यात्सोमलोकादिवन्न पुनरावर्तते; किंतु सूर्ये सम्पन्नमात्र एव। यथा पादोदरः सर्पः त्वचा विनिर्मुच्यते जीर्णत्वग्विनिर्मुक्तः स पुनर्नवो भवति। एवं ह वै एष यथा दृष्टान्तः स पाप्मना सर्पत्वक्स्थानीयेनाशुद्धिरूपेण विनिर्मुक्तः सः सामभिः तृतीयमात्रारूपैः ऊर्ध्वम् उन्नीयते ब्रह्मलोकं हिरण्यगर्भस्य ब्रह्मणो लोकं सत्याख्यम्। सः हिरण्यगर्भः सर्वेषां संसारिणां जीवानामात्मभूतः। स ह्यन्तरात्मा लिङ्गरूपेण सर्वभूतानाम्। तस्मिन् हि लिङ्गात्मनि संहताः सर्वे जीवाः। तस्मात्स जीवघनः विद्वांस्त्रिमात्रोंकाराभिज्ञः एतस्माज् जीवघनात् हिरण्यगर्भात् परात्परं परमात्माख्यं पुरुषमीक्षते पुरिशयं सर्वशरीरानुप्रविष्टं पश्यति ध्यायमानः। तत् एतौ अस्मिन्यथोक्तार्थप्रकाशकौ श्लोकौ मन्त्रौ भवतः
The three sounds (individually, and as not indicating para brahman, PrasU.5.3–4) are within death (with rebirth). But joined with each other and not separately applied, and properly applied towards the three functions externally, internally, and in-between (i.e., waking, dream and deep sleep, per ManU.5 ceto-mukha, to move back and forth between waking and dream, one has to pass through deep sleep at least for a moment, i.e., closing down the identification with the prior state to reawaken fresh into the external world or into the internal world as “real,” KaivU.1.13), then the wise person does not waver from wisdom.
The three sounds (individually) are within death (rebirth) (तिस्रः मात्राः मृत्युमत्यः प्रयुक्ताः).
(But) joined with each other (and) not separately applied (अन्य-अन्य-सक्ताः, अन्-अविप्रयुक्ताः)
towards the three functions of external, internal, and inbetween (i.e., waking, dream, deep sleep) (क्रियासु बाह्य-अभ्यन्तर-मध्यमासु)
(and) properly applied, the wise person does not waver (from wisdom) (सम्यक् प्रयुक्तासु, न कम्पते ज्ञः).
तिस्रः त्रिसङ्‍ख्याका अकारोकारमकाराख्याः ओङ्कारस्य मात्राःमृत्युमत्यः मृत्युर्यासां विद्यते ता मृत्युमत्यः मृत्युगोचरादनतिक्रान्ताः मृत्युगोचरा एवेत्यर्थः। ता आत्मनो ध्यानक्रियासु प्रयुक्ताः। किंच, अन्योन्यसक्ताः इतरेतरसम्बद्धाः। अनविप्रयुक्ताः विशेषेणैकैकविषय एव प्रयुक्ता विप्रयुक्ताः, न तथा विप्रयुक्ता अविप्रयुक्ताः, न अविप्रयुक्ता अनविप्रयुक्ताः। किं तर्हि, विशेषेणैकस्मिन्ध्यानकाले तिसृषु क्रियासु बाह्याभ्यन्तरमध्यमासु जाग्रत्स्वप्नसुषुप्तस्थानपुरुषाभिध्यानलक्षणासु योगक्रियासु युक्तासु सम्यक्प्रयुक्तासु सम्यग्ध्यानकाले प्रयोजितासु न कम्पते न चलति ज्ञः योगी यथोक्तविभागज्ञः ओङ्कारस्येत्यर्थः। न तस्यैवंविदश्चलनमुपपद्यते। यस्माज्जाग्रत्स्वप्नसुषुप्तपुरुषाः सह स्थानैर्मात्रात्रयरूपेणोंकारात्मरूपेण दृष्टाः; स ह्येवं विद्वान्सर्वात्मभूत ओङ्कारमयः कुतो वा चलेत्कस्मिन्वा॥
The wise seers explain that this world is by Ṛc mantras, the intermediate region is by Yajus mantras, and the other world is by Sāman mantras, through the syllable Om alone. The wise person through this same support (Om), merges into this which is peaceful, ageless, deathless, fearless, and is the ultimate brahman (beyond the three-fold universe).
This (world) is by Ṛc mantras ( ऋग्भिः एतं), the intermediate region is by Yajus mantras (यजुर्भिः अन्तर्-इक्षम्),
(and) this other (world) is by Sāman mantras (सामभिः यद्), the wise seers explain that (तद् कवयः वेदयन्ते)
is through the syllable Om alone (तम् ओं-कारेण एव). Through this same support merges (आयतनेन अन्वेति)
the wise person into that which is peaceful, ageless, deathless, fearless, and is the ultimate (brahman, beyond the three-fold universe) (विद्वान् यद् तद् शान्तम् अ-जरम् अ-मृतम् अ-भयं परं च इति).
सर्वार्थसङ्ग्रहार्थो द्वितीयो मन्त्रः – ऋग्भिः एतं लोकं मनुष्योपलक्षितम्। यजुर्भिः अन्तरिक्षं सोमाधिष्ठितम्। सामभिः यत् तद् ब्रह्मलोक इति तृतीयं कवयः मेधाविनो विद्यावन्त एव नाविद्वांसः वेदयन्तेतं त्रिविधं लोकम् ओंकारेण साधनेन अपरब्रह्मलक्षणम् अन्वेति अनुगच्छति विद्वान्। तेनैवोंकारेण यत्तत् परं ब्रह्माक्षरं सत्यं पुरुषाख्यं शान्तं विमुक्तजाग्रत्स्वप्नसुषुप्तादिविशेषं सर्वप्रपञ्चविवर्जितम्, अत एव अजरं जरावर्जितम् अमृतं मृत्युवर्जितमत एव। यस्माज्जरादिविक्रियारहितमतः अभयम्। यस्मादेव अभयं तस्मात् परं निरतिशयम्। तदप्योंकारेण एव आयतनेन गमनसाधनेनान्वेतीत्यर्थः। इति-शब्दो वाक्यपरिसमाप्त्यर्थः॥

Go to Top ('Home' key on many Windows browsers)

Who is the person of sixteen parts?

mn.01 mn.02 mn.03 mn.04 mn.05 mn.06 mn.07 mn.08

Then Sukeśan, son of Bharad-vāja, asked Pippalāda,
“Venerable sir, Hiraṇya-nābha, a prince of Kosala, approached me and asked this question, ‘O Bharad-vaja, do you know the puruṣa of sixteen parts?’
To that prince I replied, ‘I do not know this. If I had known this, there is no way I would not tell you.’
I then said to him, ‘Anyone who speaks an untruth dries up, root and all. Therefore, I cannot afford to speak an untruth.’
The prince silently mounted his chariot and rode away.
That same question I ask you. Who is this puruṣa of sixteen parts?”
अथ ह एनं सुकेशा भारद्वाजः पप्रच्छ समस्तं जगत्कार्यकारणलक्षणं सह विज्ञानात्मना परस्मिन्नक्षरे सुषुप्तिकाले सम्प्रतिष्ठत इत्युक्तम्। तत्सामर्थ्यात्प्रलयेऽपि तस्मिन्नेवाक्षरे सम्प्रतिष्ठते जगत्तत एवोत्पद्यत इति च सिद्धं भवति। न ह्यकारणे कार्यस्य सम्प्रतिष्ठानमुपपद्यते। उक्तं च ‘आत्मन एष प्राणो जायते’ (PrasU.3.3) इति। जगतश्च यन्मूलं तत्परिज्ञानात्परं श्रेय इति सर्वोपनिषदां निश्चितोऽर्थः। अनन्तरं चोक्तम् ‘स सर्वज्ञः सर्वो भवति’ (PrasU.4.10) इति। वक्तव्यं च क्व तर्हि तदक्षरं सत्यं पुरुषाख्यं विज्ञेयमिति; तदर्थोऽयं प्रश्न आरभ्यते। वृत्तान्वाख्यानं च विज्ञानस्य दुर्लभत्वज्ञापनेन तल्लब्ध्यर्थं मुमुक्षूणां यत्नविशेषोपादानार्थम्। हे भगवन्, हिरण्यनाभः नामतः कोसलायां भवः कौसल्यः राजपुत्रः जातितः क्षत्रियः माम् उपेत्य उपगम्य एतम् उच्यमानं प्रश्नम् अपृच्छतषोडशकलं षोडशसङ्‍ख्याकाः कला अवयवा इवात्मन्यविद्याध्यारोपितरूपा यस्मिन्पुरुषे, सोऽयं षोडशकलः; तं षोडशकलं हे भारद्वाज, पुरुषं वेत्थ त्वं विजानासि। तम् अहं राजपुत्रं कुमारं पृष्टवन्तम् अब्रवम् उक्तवानस्मि – न अहम् इमं वेद यं त्वं पृच्छसीति। एवमुक्तवत्यपि मय्यज्ञानमसंभावयन्तं तमज्ञाने कारणमवादिषम् – यदि कथंचित् अहम् इमं त्वया पृष्टं पुरुषम् अवेदिषं विदितवानस्मि, कथम् अत्यन्तशिष्यगुणवतेऽर्थिने ते तुभ्यं न अवक्ष्यं नोक्तवानस्मि न ब्रूयामित्यर्थः। भूयोऽप्यप्रत्ययमेवालक्ष्य प्रत्याययितुमब्रवम् – समूलः सह मूलेन वै एषः अन्यथा सन्तमात्मानमन्यथा कुर्वन् यः अनृतम् अयथाभूतार्थम् अभिवदति, स परिशुष्यति शोषमुपैति इहलोकपरलोकाभ्यां विच्छिद्यते विनश्यति। यत एवं जाने तस्मात् न अर्हामि अहम् अनृतं वक्तुं मूढवत्। राजपुत्रः एवं प्रत्यायितः तूष्णीं व्रीडितः रथम् आरुह्य प्रवव्राज प्रगतवान् यथागतमेव। अतो न्यायत उपसन्नाय योग्याय जानता विद्या वक्तव्यैव; अनृतं च न वक्तव्यं सर्वास्वप्यवस्थास्वित्येतत्सिद्धं भवति। तं पुरुषं त्वा त्वां पृच्छामि मम हृदि विज्ञेयत्वेन शल्यमिव स्थितम्, क्व असौ वर्तते विज्ञेयः पुरुष इति
To him Pippalāda said:
O dear one, Here itself inside this body is that puruṣa, in whom arise these sixteen parts (kalās).
तस्मै स होवाचइहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषः, न देशान्तरे विज्ञेयः। यस्मिन् एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशभिः कलाभिरुपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति; तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते प्राणादीनाम्। अत्यन्तनिर्विशेषे ह्यद्वये विशुद्धे तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्तेऽविद्याविषयाः। चैतन्याव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते। अत एव भ्रान्ताः केचित् – अग्निसंयोगाद्धृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति। तन्निरोधे शून्यमेव सर्वमिति अपरे। घटादिविषयं चैतन्यं चेतयिदुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीत्यपरे। चैतन्यं भूतधर्म इति लौकायतिकाः। अनपायोपजनधर्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (TaitU.2.1.1) ‘प्रज्ञानं ब्रह्म’ (AitU.3.1.3) ‘विज्ञानमानन्दं ब्रह्म’ (BrhU.3.9.28) ‘विज्ञानघन एव’ (BrhU.2.4.12) इत्यादिश्रुतिभ्यः। स्वरूपव्यभिचारिषु पदार्थेषु चैतन्यस्याव्यभिचाराद्यथा यथा यो यः पदार्थो ज्ञायते,तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वम्। वस्तुतत्त्वं भवति किञ्चित्, न ज्ञायत इति चानुपपन्नम्; रूपं च दृश्यते, न चास्ति चक्षुरिति यथा। व्यभिचरति तु ज्ञेयम्; न ज्ञानं व्यभिचरति कदाचिदपि ज्ञेयम्, ज्ञेयाभावेऽपि ज्ञेयान्तरे भावाज्ज्ञानस्य। न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित्; सुषुप्तेऽदर्शनात् – ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयवज्ज्ञानस्वरूपस्य व्यभिचार इति चेत्, न; ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यक्त्यर्थत्वात्स्वव्यङ्ग्याभावे आलोकाभावानुपपत्तिवत् अप्रतीतेषु वस्तुषु सुषुप्ते विज्ञानाभावानुपपत्तेः। न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुमवैनाशिकेन। वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत्, येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यं वैनाशिकेन; तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे तदनुपपत्तेः। ज्ञानस्य ज्ञेयाव्यतिरिक्तत्वाज्ज्ञेयाभावे ज्ञानाभाव इति चेत्, न; अभावस्यापि ज्ञेयत्वाभ्युपगमात् – अभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैर्नित्यश्च। तदव्यतिरिक्तं चेज्ज्ञानं नित्यं कल्पितं स्यात्। तदभावस्य च ज्ञानात्मकत्वादभावत्वं च वाङ्मात्रमेव; न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य। न च नित्यस्य ज्ञानस्याभावनाममात्राध्यारोपे किञ्चिन्नश्छिन्नम्। अथाभावो ज्ञेयोऽपि सन् ज्ञानव्यतिरिक्त इति चेत्, न तर्हि ज्ञेयाभावो ज्ञानाभावः। ज्ञेयं ज्ञानव्यतिरिक्तम्; न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेत्, न; शब्दमात्रत्वाद्विशेषानुपपत्तेः। ज्ञेयज्ञानयोरेकत्वं चेदभ्युपगम्यते, ज्ञेयं ज्ञानव्यातिरिक्तम्, न ज्ञेयव्यतिरिक्तं ज्ञानम् इति तु शब्दमात्रमेव तत् – वह्निरग्निव्यतिरिक्तः, अग्निर्न वह्निव्यतिरिक्त इति यद्वत् – अभ्युपगम्यम्। ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा। ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेत्, न; सुषुप्ते ज्ञप्त्यभ्युपगमात् – वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वम्। तत्रापि ज्ञेयत्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेत्, न; भेदस्य सिद्धत्वात् – सिद्धं ह्यभावविज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोरन्यत्वम्। न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्तुं शक्यते वैनाशिकशतैरपि। ज्ञानस्य स्वाज्ञेयत्वे तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेत्, न; तद्विभागोपपत्तेः सर्वस्य – यदा हि सर्वं ज्ञेयं कस्यचित्, तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः। न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः। ज्ञानस्य स्वेनैवाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्, सोऽपि दोषस्तस्यैवास्तु; किं तन्निबर्हणेनास्माकम्? अनवस्थादोषश्च ज्ञानस्य ज्ञेयत्वाभ्युपगमात् – अवश्यं च वैनाशिकानां ज्ञानं ज्ञेयम्। स्वात्मना चाविज्ञेयत्वेनानवस्था अनिवार्या। समान एवायं दोष इति चेत्, न; ज्ञानस्यैकत्वोपपत्तेः – सर्वदेशकालपुरुषाद्यवस्थास्वेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिबिम्बवदनेकधावभासत इति। नासौ दोषः। तथा चेहेदमुच्यते। ननु श्रुतेरिहैवान्तःशरीरे परिच्छिन्नः कुण्डबदरवत्पुरुष इति, न; प्राणादिकलाकारणत्वात् – न हि शरीरमात्रपरिच्छिन्नः प्राणश्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात्। कलाकार्यत्वाच्च शरीरस्य – न हि पुरुषकार्याणां कलानां कार्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डबदरमिवाभ्यन्तरीकुर्यात्। बीजवृक्षादिवत्स्यादिति चेत् – यथा बीजकार्यं वृक्षस्तत्कार्यं च फलं स्वकारणकारणं बीजमभ्यन्तरीकरोत्याम्रादि, तद्वत्पुरुषमभ्यन्तरीकुर्याच्छरीरं स्वकारणकारणमपीति चेत्, न; अन्यत्वात्सावयवत्वाच्च – दृष्टान्ते कारणाद्बीजाद्वृक्षफलसंवृत्तान्यन्यान्येव बीजानि; दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते। बीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वम्; निरवयवश्च पुरुषः, सावयवाश्च कलाः शरीरं च। एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नम्; किमुताकाशकारणस्य पुरुषस्य? तस्मादसमानो दृष्टान्तः। किं दृष्टान्तेन? वचनात्स्यादिति चेत्, न; वचनस्याकारकत्वात् – न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते; किं तर्हि, यथाभूतार्थावद्योतने। तस्मादन्तःशरीर इत्येतद्वचनम् ‘अण्डस्यान्तर्व्योम’ इतिवद्द्रष्टव्यम्। उपलब्धिनिमित्तत्वाच्च – दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते पुरुष उपलभ्यते चात्र। अत उच्यते – अन्तःशरीरे सोम्य स पुरुष इति। न पुनराकाशकारणभूतः सन्कुण्डबदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि; किमुत प्रमाणभूता श्रुतिः॥
The puruṣa (remembered and) envisioned, “In whose departure would I depart (from this lifeless body). And in whose presence would be able to remain (in this body)?”
यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तः पुरुषविशेषणार्थः कलानां प्रभवः, स चान्यार्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते। चेतनपूर्विका च सृष्टिरित्येवमर्थं च। स पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन सः ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे – कृतवानित्यर्थः – सृष्टिफलक्रमादिविषयम्। कथमिति, उच्यते – कस्मिन् कर्तृविशेषे देहाद् उत्क्रान्ते उत्क्रान्तो भविष्यामि अहम् एव; कस्मिन् वा शरीरे प्रतिष्ठिते अहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः। नन्वात्मा अकर्ता प्रधानं कर्तृ; अतः पुरुषार्थं प्रयोजनमुररीकृत्य प्रधानं प्रवर्तते महदाद्याकारेण; तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्वकं कर्तृत्ववचनम्, सत्त्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्तरि सति ईश्वरेच्छानुवर्तिषु वा परमाणुषु सत्सु आत्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च। न हि चेतनावान्बुद्धिपूर्वकारी आत्मनः अनर्थं कुर्यात् तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्वकमिव नियतक्रमेण प्रवर्तमानेऽचेतनेऽपि प्रधाने चेतनवदुपचारोऽयं स ईक्षाञ्चक्रे इत्यादिः; यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति, तद्वत्। न; आत्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः – यथा साङ्‍ख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वम्, तद्वद्वेदवादिनामीक्षापूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात्। तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्तं चिन्मात्रस्वरूपविक्रियातः पुरुषस्य स्वात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय। भवतां पुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेत्, न; एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमात्। अविद्याकृतनामरूपोपाधिनिमित्तो हि विशेषोऽभ्युपगम्यते आत्मनो बन्धमोक्षादिशास्त्रकृतसंव्यवहाराय। परमार्थतोऽनुपाधिकृतं च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगम्यं ह्यजमभयं शिवमिष्यते। न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलं वास्ति, अद्वैतत्वात्सर्वभावानाम्। साङ्‍ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलं चेति कल्पयित्वा आगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति। तत्त्वान्तरं च प्रधानं पुरुषाद्बाह्यं परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किककृतबुद्धिविषयाः सन्तो विहन्यन्ते। तथेतरेतार्किकाः सांख्यैः; इत्येवं परस्परविरुद्धार्थकल्पनात आमिषार्थिन इव प्राणिनोऽन्योन्यविरुध्यमानार्थदर्शित्वात्परमार्थतत्त्वाद्दूरमेवापकृष्यन्ते। अतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमतदोषप्रदर्शनं किञ्चिदुच्यतेऽस्माभिः; न तु तार्किकवत्तात्पर्येण। तथैतदत्रोक्तम् – विवदत्स्वेव निक्षिप्य विरोधोद्भवकारणम्। तैः संरक्षितसद्बुद्धिः सुखं निर्वाति वेदवित्।
किंच, भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः। का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया, यतो भोक्तैव पुरुषः कल्प्यते न कर्ता; प्रधानं तु कर्त्रेव न भोक्तृ इति। ननु उक्तं पुरुषश्चिन्मात्र एव; स च स्वात्मस्थो विक्रियते भुञ्जानः, न तत्त्वान्तरपरिणामेन। प्रधानं तु तत्त्वान्तरपरिणामेन विक्रियते; अतो नैकमशुद्धमचेतनं चेत्यादिधर्मवत्। तद्विपरीतः पुरुषः। नासौ विशेषः, वाङ्मात्रत्वात्। प्राग्भोगोत्पत्तेः केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेत् जायते, निवृत्ते च भोगे पुनस्तद्विशेषादपेतश्चिन्मात्र एव भवतीति चेत्; महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानस्वरूपेण व्यवतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते। अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत्, न तर्हि परमार्थतो भोगः पुरुषस्य। अथ भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेत्, न; प्रधानस्यापि भोगकाले विक्रियावत्त्वाद्भोक्तृकत्वप्रसङ्गः। चिन्मात्रस्यैव विक्रिया भोक्तृत्वमिति चेत्, औष्ण्याद्यसाधारणधर्मवतामग्न्यादीनामभोक्तृत्वे हेत्वनुपपत्तिः। प्रधानपुरुषयोर्द्वयोर्युगपद्भोक्तृत्वमिति चेत्, न; प्रधानस्य पारार्थ्यानुपपत्तेः – न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने। भोगधर्मवति सत्त्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिबिम्बोदयादविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेत्, न; पुरुषस्य विशेषाभावे भोक्तृत्वकल्पनानर्थक्यात्। भोगरूपश्चेदनर्थः पुरुषस्य नास्मि सदा निर्विशेषत्वात्पुरुषस्य, कस्यापनयनार्थं मोक्षसाधनं शास्त्रं प्रणीयते? अविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्, परमार्थतः पुरुषो भोक्तैव, न कर्ता; प्रधानं कर्त्रेव न भोक्तृ परमार्थसद्वस्त्वन्तरं पुरुषाच्च इतीयं कल्पना आगमबाह्या व्यर्थानिर्हेतुका च इति नादर्तव्या मुमुक्षुभिः। एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेत्, न; अभावात् – सत्सु हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमर्थवदनर्थकं वेति विकल्पना स्यात्। न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततो भिन्नाः सन्ति; तदभावे एवं विकल्पनैवानुपपन्ना। अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता। तदभ्युपगमे च विकल्पानुपपत्तिमाह शास्त्रम् ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (BrhU.4.5.14) इत्यादि; शास्त्रप्रणयनाद्युपपत्तिं चाह अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये ‘यत्र हि द्वैतमिव भवति’ (BrhU.4.5.14) इत्यादि विस्तरतो वाजसनेयके। अत्र च विभक्ते विद्याविद्ये परापरे इत्यादावेव शास्त्रस्य। अतो न तार्किकवादभटप्रवेशो वेदान्तराजप्रमाणबाहुगुप्ते इहात्मैकत्वविषये इति। एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः, परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च। यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्तरि भृत्ये उपचारो राजा कर्तेति, सोऽत्रानुपपन्नः; ‘स ईक्षाञ्चक्रे’ इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः। तत्र हि गौणी कल्पना शब्दस्य, यत्र मुख्यार्थो न सम्भवति। इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते; यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तु उपपन्ना। ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते॥
That puruṣa (the Lord) created (those sixteen necessary parts starting with the universal) (1.) prāṇa (Hiraṇya-garbha). From out of prāṇa (he created) (2.) trust (śraddhā, the ability to abide in learning what is helpful for life), (then the five elements) (3.) space, (4.) air, (5.) fire, (6.) water and (7.) earth, (and the means to sense them) (8.) each sense organ (indriya, counting as one to get to the number sixteen), and (9.) the mind (manas, to be in charge of them).
Then (to feed them he created) (10.) food (anna). From out of food (he created) (11.) vitality (vīrya), (12.) religious discipline (tapas), (13.) mantras (the teachings of what is helpful), (14.) karma and (15.) the realms (of karma), and in those realms (16.) the nāman (name, of these kalās and of everything else by which we distinguish things and people).
कथम्? सः पुरुषः उक्तप्रकारेणेक्षित्वा सर्व-प्राणं हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानम् असृजत सृष्टवान्। ततः प्राणात् श्रद्धां सर्वप्राणिनां शुभकर्मप्रवृत्तिहेतुभूताम्; ततः कर्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतानि असृजत – खं शब्दगुणकम्, वायुः स्वेन स्पर्शगुणेन शब्दगुणेन च विशिष्टो द्विगुणः, तथा ज्योतिः स्वेन रूपेण पूर्वगुणाभ्यां च विशिष्टं शब्दस्पर्शाभ्यां त्रिगुणम्, तथा आपो रसगुणेनासाधारणेन पूर्वगुणानुप्रवेशेन च चतुर्गुणाः, तथा गन्धगुणेन पूर्वगुणानुप्रवेशेन च पञ्चगुणा पृथिवी, तथा तैरेव भूतैरारब्धम् इन्द्रियं द्विप्रकारं बुद्ध्यर्थं कर्मार्थं च दशसङ्‍ख्याकम्, तस्य चेश्वरमन्तःस्थं संशयविकल्पादिलक्षणं मनः। एवं प्राणिनां कार्यं करणं च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणम् अन्नम्, ततश्च अन्नात् अद्यमानात् वीर्यं सामर्थ्यं बलं सर्वकर्मप्रवृत्तिसाधनम्, तद्वीर्यवतां च प्राणिनां तपः विशुद्धिसाधनं संकीर्यमाणानाम्, मन्त्राः तपोविशुद्धान्तर्बहिःकरणेभ्यः कर्मसाधनभूता ऋग्यजुःसामाथर्वाङ्गिरसः; ततः कर्म अग्निहोत्रादिलक्षणम्, ततो लोकाः कर्मणां फलम् (कर्म-लोकाः), तेषु च लोकेषु सृष्टानां प्राणिनां नाम च देवदत्तो यज्ञदत्त इत्यादि। एवमेताः कलाः प्राणिनामविद्यादिदोषबीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वपदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम्॥
It is like this, these flowing rivers reach the ocean and get absorbed (astaṃ gacchanti). Their names (nāmans) and forms (rūpas) are lost, and it is only called, “ocean.”
In this way, these sixteen parts of the all-seeing puruṣa have as their abode (āyana) this one puruṣa, and resolve into the puruṣa. Their names (nāmans) and forms (rūpas) are lost, and it is only called, “puruṣa.” This very one (who knows this) is this immortal, partless one (a-kala puruṣa). In regard to that, there is this verse.
कथम्? सः दृष्टान्तः, यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः, समुद्र एव अयनं गतिरात्मभावो यासां ताः समुद्रायणाः, समुद्रं प्राप्य उपगम्य अस्तम् अदर्शनं नामरूपतिरस्कारं गच्छन्ति; तासां चास्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गा यमुनेत्यादिलक्षणे; तदभेदेन समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणम्; एवं यथायं दृष्टान्तः उक्तलक्षणस्य प्रकृतस्य अस्य पुरुषस्य परिद्रष्टुः परि समन्ताद्द्रष्टुर्दर्शनस्य कर्तुः स्वरूपभूतस्य। यथा अर्कः स्वात्मप्रकाशस्य कर्ता सर्वतः, तद्वत् इमाः षोडश प्राणाद्या उक्ताः कलाः पुरुषायणाः नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथा एव अस्तं गच्छन्तिभिद्येते च आसां नामरूपे कलानां प्राणाद्याख्या रूपं च यथास्वम्। भेदे च नामरूपयोर्यदनष्टं तत्तत्त्वं पुरुषः इत्येवं प्रोच्यते ब्रह्मविद्भिः। य एवं विद्वान्गुरुणा प्रदर्शितकलाप्रलयमार्गः, स एषः विद्यया प्रविलापितास्वविद्याकामकर्मजनितासु प्राणादिकलासु अकलः अविद्याकृतकलानिमित्तो हि मृत्युः; तदपगमेऽकलत्वादेव अमृतः भवतितद् एतस्मिन्नर्थे एषः श्लोकः
Like spokes on a hub of a chariot wheel, that one in which these parts are fixed, the puruṣa that is to be known – I (Pippalāda) know (or, one [should] know). In this way, may you (the puruṣa), as death, not afflict* all of you others.
(* “may you not afflict,” ‘pari vyathāḥ’ in form is Vedic Present Subjunctive 2nd person sg. ‘pari vyath-a-a-s’ with ‘’ making it negative imperative; Sankara’s commentary paraphrases it with a 3rd person sg. Imperative, “may he not afflect.”)
Like spokes on a hub of a chariot wheel (अराः इव रथ-नाभौ),
that in which these parts are fixed (कलाः यस्मिन् प्रतिष्ठिताः),
the one to be known as the puruṣa – I know (or, one [should] know) (तं वेद्यं पुरुषं वेद).
In this way, may you, as death, not afflict all of you (यथा मा वः मृत्युः परिव्यथाः इति).
अरा इव रथचक्रपरिवारा इव रथनाभौ रथचक्रस्य नाभौ यथाप्रवेशिताः तदाश्रया भवन्ति यथा, तथेत्यर्थः। कलाः प्राणाद्याः यस्मिन् पुरुषे प्रतिष्ठिताः उत्पत्तिस्थितिलयकालेषु, तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्णत्वात्पुरुषं पुरि शयनाद्वा वेद जानाति; यथा हे शिष्याः, मा वः युष्मान् मृत्युः परिव्यथाः मा परिव्यथयतु। न चेद्विज्ञायेत पुरुषो मृत्युनिमित्तां व्यथामापन्ना दुःखिन एव यूयं स्थ। अतस्तन्माभूद्युष्माकमित्यभिप्रायः॥
To them Pippalāda said, “This much alone I know the ultimate brahman (reality). Beyond this there is nothing.”
तान् एवमनुशिष्य शिष्यान् तान् होवाच पिप्पलादः किल एतावदेव वेद्यं परं ब्रह्म वेद विजानामि अहम् एतत्न अतः अस्मात् परम् अस्ति प्रकृष्टतरं वेदितव्यम् इति एवमुक्तवान् शिष्याणामविदितशेषास्तित्वाशङ्कानिवृत्तये कृतार्थबुद्धिजननार्थं च॥
While worshipping Pippalāda they said, “You indeed are our father who has ferried us across an ocean of ignorance to the far shore. Salutation to the great seers. Salutation to the great seers.”
ततः ते शिष्या गुरुणानुशिष्टाः तं गुरुं कृतार्थाः सन्तो विद्यानिष्क्रयमन्यदपश्यन्तः किं कृतवन्त इत्युच्यते – अर्चयन्तः पूजयन्तः पादयोः पुष्पाञ्जलिप्रकिरणेन प्रणिपातेन च शिरसा। किमूचुरित्याह – त्वं हि नः अस्माकं पिता ब्रह्मशरीरस्य विद्यया जनयितृत्वान्नित्यस्याजरामरणस्याभयस्य। यः त्वमेव अस्माकम् अविद्यायाः विपरीतज्ञानाज् जन्मजरामरणरोगदुःखादिग्राहाद् अपाराद् अविद्यामहोदधेर्विद्याप्लवेन परम् अपुनरावृत्तिलक्षणं मोक्षाख्यं महोदधेरिव पारं तारयसि अस्मानित्यतः पितृत्वं तवास्मान्प्रत्युपपन्नमितरस्मात्। इतरोऽपि हि पिता शरीरमात्रं जनयति, तथापि स पूज्यतमो लोके; किमु वक्तव्यमात्यन्तिकाभयदातुरित्यभिप्रायः। नमः परमऋषिभ्यः ब्रह्मविद्यासम्प्रदायकर्तृभ्यः। नमः परमऋषिभ्य इति द्विर्वचनमादरार्थम्॥

Go to Top ('Home' key on many Windows browsers)

ओं, पूर्ण॒म् अदः॒ पूर्ण॒म् इदं॒ पूर्णा॒त् पूर्ण॒म् उद॒च्यते।
पूर्ण॒स्य पूर्ण॒म् आदा॒य पूर्ण॒म् एवावशि॒ष्यते।
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः॥

Om; pūrṇa, adas, pūrṇa, idam, pūrna, pūrṇa, ud-√añc.
pūrṇa, pūrṇa, ādāya, pūrṇa, eva, ava-√śiṣ.
Om, śānti, śānti, śānti.

॥इति प्रश्न-उपनिषद् समाप्ता॥