हठालु = पु० हठः प्लवमानः आलुरिव। कुम्भिकायाम्। (पाना) शब्दच०।
हठी = स्त्री हठ–अच् गौरा० ङीष्। वारिपर्ण्याम् (पाना) धरणिः।
हडि = पु० हठ–इन् पृषो०। पशुमारणसाधने काष्ठयन्त्रभेदे (हाडिताठ) शब्दर०।
हडिक = पु स्त्री० हठ–इकक् पृषो०। नीचजातिभेदे (हाडि) शब्दमा० स्त्रियां ङीष्।
हड्ड = न० हठ–ड डस्य नेत्त्वम् पृषो०। अस्थ्नि (हडि)। संज्ञायां कन्। नीचजातिभेदे। (हाडि) शब्दमा०। इन् हड्डिरप्यत्र।
हड्डज = न० हड्डात् जायते जन–ड। अस्थिसारे मज्जायां शब्दच०।
हड्डिक = पु० हडिक–स्वार्थे क। (हाडि) जातिभेदे स्त्रियां जातित्वात् ङीष्। स च वणः “सद्यश्चाण्डालकन्यायां नेटवीर्य्येण शौनक!। बभूवतुस्तौ द्वौ पुत्रौ हड्डिकः शौण्डिकस्तथा” ब्रह्मवै० व्र० ख० १० अ०।
हण्डा = स्त्री हन–डा डस्य नेत्त्वम्। १ वृहति मृत्पात्रभेदे (हा~डा) नाट्योक्तौ नीचसम्बाधने अव्य०। हञ्जावत् आवन्तोऽपि शेषार्थे स्त्री भरतः।
हण्डिका = स्त्री क्षुद्रा हण्डा कन्। क्षुद्रे मृत्पात्रे (हा~डि)।
हण्डिकासुत = पु० हण्डिकायाः सुत इव। क्षुद्रे मृण्मये हण्डिकाकारे (हा~डि) त्रिका०।
हण्डे = अव्य० हन–डे डष्य नेत्त्वम्। नाट्योक्तौ नीचसम्बोधने अमरः।
हत = त्रि० हन–क्त। १ नाशिते २ प्रतिहते ३ प्रतिबद्धे ४ मागा रहिते अमरः ५ गुणिते च। भावे क्त। ६ हनने ७ गुणने च न०।
हतक = त्रि० हत इव नष्टप्रायत्वात् कन्। नष्टप्राये (मडा)।
हताश = त्रि० हता आशा यस्य। १ आशाशून्ये २ निर्दये २ पिशुने च मेदि० ४ बन्ध्ये शब्दर०।
हति = स्त्री हन–भावे क्तिन्। १ हनने २ मारणे ३ व्याघाते ४ अपकर्षे ५ गुणने च।
हत्नु = पु० हन–क्त्नु। १ व्याधौ २ शस्त्रे च उणा०।
हत्या = स्त्री हन–भावे क्यप्। १ मारणे बधे प्राणवियोगानुकुलव्यापारे “ब्रह्महत्या सुरापानम्” स्मृतिः २ हनने च।
हथ = त्रि० हन–क्थ। विषण्णे उणादि०।
हद = विष्ठोत्सर्गे भ्वा० आ० अक० अनिट्। हदते अहत्त।
हद्दा = स्त्री ताजकोक्ते पञ्चवर्गीबलानयनोपयोगिनि ग्रहभेदस्वामिकराशिभेदस्यांशभेदे यथाक्तं नील० ता०
“मेषेऽङ्गतर्काष्टशरेषुभागा जीवास्फुजितज्ञारशनैश्चराणाम्। वृषेऽष्टषण्णागशरानलांशाः शुक्रज्ञजीवार्किकुजेशहद्दाः। युग्मे षडङ्गेषुनगाङ्गभागाः सौम्या स्फुजिज्जीवकुजार्किहद्दाः। कर्केऽद्रितर्काङ्गनगाब्धिभागाः कुजास्फुजिज्ज्ञेज्यशनैश्चराणाम्। सिंहेऽङ्गभूताद्रि- रसाङ्गभागा देवेज्यशुक्रार्किबुधारहद्दाः। स्त्रियां नगाशाब्धिनगाक्षिभागाः सौम्योशनोजीवकुजार्किनाथाः। तुले रसाष्टाद्रिनगाक्षिभागाः कोणज्ञजीवास्फुजिदारनाथाः। कीटे नगाब्ध्यष्टशराङ्गभागाः भौमास्फुजिज्ज्ञेज्यशनैश्चराणाम्। चापे रवीष्वम्बुधिपञ्च वेदा जीवास्फुजिज्ज्ञारशनैश्चराणाम्। मृगे नगाद्र्यष्टयुगश्रुतीनां सौम्ये ज्यशुक्रार्किकुजेशहद्दाः। कुम्भे नगाङ्गाद्रिशरेषुभागाज्ञशुक्रजीवारशनैश्चराणाम्। मीनेऽर्कवेदानलनन्दपक्षाः सितेज्यसौम्यारशनैश्चराणाम्। त्रिंशत्स्वभे विंशतिरुच्चभे स्वे हद्देऽक्ष ५ चन्द्रादशकं द्रिकाणे”।
हन = बधे गतौ च भ्वा० प० सक० अनिट्। हन्ति प्रणिहन्ति प्रहन्व (ण्वः) जहि अवधीत्। जथान कर्मणि अघानि अवधि। णिच् घातयति जिघांसति जघंन्यते” “कुञ्जं हन्ति कुशादरि” इत्यादावालङ्कारिकाः गतौ निहतार्थतामाहुः।
अभि + आघातभेदे केनचित् पदार्थेन संयोगभेदे अभिघातः।
अव + तुपाद्यपसरसार्थव्यापारभेदे व्रीहीनवहन्ति।
आ + केनचित् पदार्थेन संयोगानुकूलव्यापार आहन्ति आघातः। स्वाङ्गकर्मणि अकर्मत्वे च आत्म० वक्ष आहते।
प्रति आ + प्रत्याघाते प्रतिबन्धे प्रत्याहन्ति।
वि + आ परस्परेण विरोधे बिगेषेण ताडिते च व्याहन्ति व्याघतः
उद् + ऊर्ध्वं गतौ उत्तोल्य हनने च।
उप + उद् + आरम्भे उपोदथातः आरम्भार्थः सङ्गतिभेदः।
नि + निशेषेण हनने स्वरान्तरथातेन उदात्तस्वरसम्पादने च
निर् + निःशेषेण हनने वज्रादिशब्दे च। “निर्घाते भूमिचसने मनुः।
परा + प्रतिबन्धे निरोधे।
प्रति + प्रतिराधे प्रतिकूलगतौ च।
वि + अति + परस्परहनने व्यतिहारेऽपि न आत्म०। व्यतिघ्नन्ति योधाः।
सम् + सम्यक् हनने समूहभावे अक०।
हन् अव्य० हन–भावे विच्। १ रुषाक्तौ २ अनुनये च मेदि०। कर्त्तरि विच्। ३ हननकर्त्तरि त्रि० वृत्रहा ब्रह्महा।
हन = त्रि० हन कर्त्तरि अच्। हननकर्त्तरि सि० कौ०।
हनन = न० हन–भावे ल्युट् “स्यात् प्राणवियोगफलव्यापारी हननं स्मृतम्” इत्युक्ते १ व्यापारभेदे २ गुणने च।
हनील = पु० हन–इन् ङीष् हन्यां लीयते ली–ड। केतकीवृक्षे रत्नमा०।
हनु(नू) = पुंस्त्री० हन–उन् स्त्रीत्वे वा–ऊङ्। १ कपोलद्वयोपरिस्थे मुखभागभेदे २ हट्टविलासिन्यां स्त्री अमरः। ३ रोगे ४ अस्त्रभेदे ५ मृतौ च स्त्री जटाधरकोषः।
हनुग्रह = पु० हनुजाते रोगभेदे तन्निदानादि “जिह्वा निर्लेखनाच्छष्कभक्षणादभिघाततः। कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो हनुम्। करोति विवृतास्यत्वमथ वा संवृतास्यताम्। हनुग्रहः स तेन स्यात् कृच्छ्र च्चर्वणभाषणम्”। स्रंसयित्वा अधःकृत्वा विवृतास्यत्वं व्यातमुखत्वम्। निर्लेखनं कर्षणम् शुष्कं चणकादि संवृतास्यत्वं दन्तलग्नताम्” भावप्र० हनुस्तम्भाऽप्यत्र।
हनु(नू)मत् = पु० हनु(नू) + अस्त्यर्थे मतुप्। रामस्य अनुचरे अञ्जनागर्भजाते पवनतनये वानरभेदे त्रिका०।
हनूष = पुंस्त्री० हन–ऊषन्। राक्षसे त्रिका० स्त्रियां ङीष्।
हन्त = अव्य० हर्न–त। १ हर्षे २ अनुकम्पायां ३ विषादे अमरः। ४ वाक्यारम्भे ५ आर्त्तौ ६ वादे ७ सम्भ्रमे शब्दच०। ८ खेदे मेदि० ९ अन्तकल्पने च अजयपालः।
हन्तकार = पु० हन्तेत्यस्य कारः करणं उच्चारणम् वा कृ–घञ्। १ अतिथये अन्नदाने २ हन्तशब्दप्रयोगे च।
हन्तु = पु० हन–तुन्। १ मृत्यौ २ वृषे च।
हन्तृ = त्रि० हन–तृच्। १ हननकर्त्तरि २ सततहननानुशीलयितरि च स्त्रियां ङीप्। “महिषासुरहन्त्र्याश्च प्रतिष्ठा दक्षिणायने” देवप्र० त०।
हन्न = त्रि० हद–क्त। कृतपुरीषोत्सर्गे अमरः।
हपुषा = स्त्री हेति पुष्यति पुष–क। मरीचवृन्तवद्दीर्घकृष्णवर्णवस्तुनि बणिग्द्रव्यविशेषे। पृषो० षस्य सः तत्रार्थे। “हपुषा हपुसा विश्रा पराऽश्वत्थफला स्मृता। मत्स्यगन्धा प्लीहहन्त्री विषथ्नी धाङ्क्षनाशिनी। हपषा दी पनी तिक्ता मृदूष्णा तुवरा गुरुः। पित्तीदरप्रमेहार्शो ग्रहणीगुल्मशूलहृत्। पराप्येतद्गुणा प्रोक्ता रूपभेदो द्वयोरपि” भावप्र०।
हम् = अव्य० हा–डगु। १ रुषोक्तौ २ अनुनये च मेदि०।
हम्भा(म्मा) = स्त्री हम् + भा–हम्म–अङ् वा। गवां ध्वनौ त्रिका० पृषो०। हम्बाप्यत्र हेमच०।
हम्म = गतौ भ्वा० प० सक० सेट्। हम्मति। अहम्मीत्।
हय = गतौ सक० क्लान्तो अक० भ्वा० प० सेट। हयति अहयीत्।
हय = पुंस्त्री० हय–हि–वा अच्। १ थोटके अमरः स्त्रियां योपधत्वेऽपि हयगवयेत्यादिना ङीष्। अश्वशब्दे दृश्यम्। तत्र वर्ण्यपदार्थाः कविस० उक्ता यथा “औनन्यं वेगस्तेजश्च तथा सल्लक्षणस्थितिः। खुरोत्खातरजो रूपं जातिर्गतिविचित्रता”। तस्य शकुनाद्युक्तं वसन्तराजशाकुने यथा “हेषारवं मुञ्चति वामतायः क्षणक्षतिर्दक्षिर्णपादघातै। कण्डूयते दक्षिणमङ्गभागं तुङ्गं तुरङ्गः स पद ददाति”
हयकातरा = स्त्री हयः कातरो यस्याः ५ त०। अश्वकातराख्यवृक्षे “कातरा हयपर्य्यायैः कातरान्तैः प्रकीर्त्तिता। अश्वकातरिका तिक्ता वातघ्नी दीपनी परा” राजनि०।
हयगन्ध = पु० हयस्येव गन्धोऽस्य। १ काचलवले २ अश्वगन्धायाम् ३ अजमोदायाञ्चं स्त्रा राजनि०।
हयग्रीव = पु० हयस्येव दीथां ग्रीवाऽस्य। १ विष्णरवतारभदे २ दैत्यभेदे च “हयग्रीवेण युयुधे तत्र देवो जगत्पतिः। हयग्रीवं यत्र हत्वा मणिकूटं तथागम हं कालिपु० ८२ अ०। ३ दुर्गायां स्त्री तन्मूर्त्तिलक्षणं अश्वाशरम् शब्दे ५१४ पृ० दृश्यम्। ४ राजार्षभेदे “यद्वृत्तं पूर्वराजर्षे र्हयग्रीवस्य पाण्डव!” भा० शा० २४ अ०।
हयग्रीवहन् = पु० हयग्रीवाख्यं दैत्यं हतवान् हन–क्विप्। विष्णौ हेमच०।
हयङ्गष = पु० हयमुच्चैःश्रवसं कषति कष–खच्। १ मातलौ इन्द्रसारथौ त्रिका०। २ अश्वचालके च।
हयन = न० हि–गतौ करणे ल्यट्। कर्णीरथे अमरः।
हयपुच्छी = स्त्री हयम्य पुच्छाकारोऽस्त्यस्याः अच् गौरा० ङीष्। माषपर्ण्याम् अमरः।
हयप्रिय = पु० ६ त०। १ यवे हेमच०। २ अश्वगन्धाया ३ खर्जू र्य्याञ्च स्त्री राजनि० ४ अश्ववल्लभे त्रि०। हयेष्टादयोऽप्यत्र
हयमार = पु० हयं मारयति निषेवणात् मृ–णिच्–अण्। करवीरे राजनि० ण्वुल्। तत्रैव अमरः।
हयमारण = पु० हयं मारयति मृ–णिच्–ल्यु। अश्वत्थलक्षे शब्दच०।
हयवाहन = पु० हयो वाहनमस्य। सूर्य्यपुत्रे रेवन्ते हेमच०। २ अश्ववाहनयुक्ते त्रि०। ६ त०। ३ अवस्य चालने न०।
हयवाहनसद्भर = पु० हयस्य वाहनं चालनं सङ्किरति सम् + कॄ–अच्। रक्तकाञ्चने शब्दच०।
हयशाला = स्त्री ६ त०। अश्वशालायां तत्करणप्रकारादि मत्स्यपु० अ० उक्त यथा “गवां स्थानं तथैवात्र तुरनाणां तथ च। उत्तराभिमुखी श्रेणी तुरगाणां विधीयते। दक्षणाभिमुखी वाथ परिशिष्टास्तु गर्हि ताः। तुरगास्तु तथा धार्य्याः प्रदीपैः सार्वरात्रिकै। कुक्कुटान् वानरांश्चैव मर्कटांश्च नराधिप!। धारयेदश्वशालायां सवत्सां धेनुमेव च। अजाश्च धार्य्या यत्नन तुरगाणां हितैषिणा। गोगजाश्वादिशालासु तत्पुरीषस्य निर्गमम्। अस्तं याते न कुर्वीत देवदेवे दिवाकरे। अधिकमश्वशालाशब्दे ५२४ पृ० अश्वशब्दे च द्वश्यम्।
हयशीर्ष = पु० हयस्येव शीर्षमस्य। १ विष्णुमूर्त्तिभेदे हयशीर्ष पञ्चरात्रे तत्पूजादिकं दृश्यम्। २ शालग्राभूर्त्तिभेदे शालग्रामशब्दे ६००१ पृ० दृश्यम्।
हया = स्त्री हयः हयगन्धोऽस्त्यस्याः अच्। अश्वगन्धायाम् राजनि०। घोटक्यां तु हयीत्येव।
हयाध्यक्ष = पु० हयेषु तद्रक्षणेषु अध्यक्षः। अश्वरक्षणाधिकृते
हयानन्द = पु० हयमानन्दयति आ + नन्द–णिच्–अण्। मुद्गे राजनि०।
हयारि = पु० ६ त०। करवीरे रत्नमा०।
हयाशना = स्त्री हयैरशाने अश–ल्युट्। सल्लकीवृक्षे शब्दच०
हयोत्तम = पु० हयेषु उत्तमः। अश्वरत्ने आजानेयेऽश्वे त्रिका०
हर = पु० हृ–अच्। १ रुद्रे अमरः २ अग्नौ ३ गर्द्धभे ४ विभाजके च “अनोन्यहाराभिहतौ हरांशाविति” लीला०। हृ–भावे अप्। ५ हरणे ६ विभाजने च।
हरगीरी = स्त्री हरदेहार्द्धहरा गौरी शा० त०। अर्द्धनारीश्वररूपे १ शिवपार्वत्योर्मूर्त्तिभेदे तल्लक्षणम्। ३७०१ पृ० दृश्यम्। द्वन्द्व०। २ शिवपार्वत्योः द्वि० व०।
हरचूडामणि = पु० हरस्य चूडामणिरिव। चन्द्रे।
हरण = न० हृ–भावे ल्युट्। १ स्थानान्वरकरणे २ विभाजने च कर्मणि ल्युट्। ३ योतुकादौ देवे धने भा० आ० हरणाहरणपर्व २२१ अ०। ४ भुजे मेदि०।
हरतेजस् = न० ६ त०। १ पारदे राजनि० २ शिववीर्य्ये च। हरवाजादयोऽप्यत्र।
हरशेखरा = स्त्री हरस्य शेखरमावासत्वेनास्त्यस्याः अच्। गङ्गायां हेमच०।
हरि = पु० हृ–इन्। १ विष्णौ २ सिंहे ३ सर्पे ४ वानरे ५ भेके ६ शुकखगे अमरः। ७ चद्रे ८ सूर्य्ये ९ वायौ १० अश्वे ११ यमे १२ हरे १३ ब्रह्मणि १४ किरणे जम्बुद्वीपस्य १५ वर्षभेदे १६ इन्द्रे च मेदि० १७ मयूरे १८ कोकिले १९ हंसे २० वह्नौ शब्दर०। भर्तृहरिनामके वाक्यप्रदीय ग्रन्थकारके २१ पण्डिते त्रिका०। २२ पिङ्गलवर्णे २३ हरि द्वर्णे हेमच० २४ तद्वति त्रि०। “हरिं विदित्वा हरिभिश्च वाजिभिः” रघु। २५ पीते अनेकार्थको०।
हरिक = पु० हरि + संज्ञायां कन्। पीतहरिद्वर्णाश्वे हेमच०
हरिकेलीय = पु० हरिकेलिमर्हति छ। वङ्गदेशे हेमच०।
हरिकेश = पु० हरिः पिङ्गलः केशोऽस्य। १ शिवे २ शिपभक्त- यक्षभेदे च। स एव तत्प्रसादात् काश्यां दण्डपाणित्वमाप्तवान् इति काशीखण्डे ३२ अ० स्थितम्। मत्स्यपु० १५८ अ० दृश्यम्।
हरिक्रान्ता = स्त्री हरिस्तद्वर्णः क्रान्तो येन।। विष्णुक्रान्तायाम् अपराजितायां राजनि०।
हरिगृह = न० ६ त० हरेर्विष्णुमूर्त्तेर्गृहम्। १ हरिमूर्त्तिगृहे २ एकचक्रपुरीभेदे च त्रिका०।
हरिचन्दन = न० हरेरिन्द्रस्य प्रियं चन्दनम् चन्दयति यदि–ल्यु ६ त० वा। १ देवतरुभेदे अमरः। हरेर्विष्णोः प्रियं चन्दनम्। २ श्वेतचन्दने ३ गोशीर्षनामके मलयेकदेशजाते चन्दनभेदे ४ ज्योत्स्नायां ५ कुङ्कुमे मेदि०। ६ पद्मकेशरे हला०। ७ सुन्दराङ्गे च न० शब्दर०। “हरिचन्दनन्तु दिव्यं हिमं तदिह दुवेहं मनुजैः। पित्ताटोपविलोपिवमथुभ्रवशोषमान्द्यमेदोहृत्” राजनि०। “घृष्ट च तुलसीकाष्ठं कर्पूरागुरुयोगतः। अथ वा केशरैर्योज्यं हरिचन्दनमुच्यते” पद्मपु० पा० ख० १२ अ० उक्ते ८ संयुक्तद्रव्यगणे च।
हरिण = पुंस्त्री० हृ–इनन्। स्वनामख्याते १ पशौ अमरः स्त्रियां ङीष्। २ शिवे ३ विष्णौ ४ हंसे ५ शुक्लवर्णे ६ पाण्डुवर्णे च। ७ तद्वति त्रि० अमरः। “हरिणः शीतलो वद्ध० विण्मूत्रो दीपनो लथुः। रसे पाके च मधुरः सुगन्धः सन्निपातहा” राजव० तन्मांसगुणाः। “हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव!। ऋष्यः खङ्गो रुरुश्चैव पृषतश्च मृगस्तथा। एते बलिप्रदानेषु चर्मदाने च कीर्त्तिताः” कालिकापु० ६६ अ०।
हरिणनर्त्तक = पु० हरिण इव नृत्यति नृत–ण्वुल्। किन्नरे शब्दर०।
हरिणहृदय = पु० हरिणस्येव भीतं हृदयमस्य। भीरौ शब्दर०
हरिणाक्षी = स्त्री हरिणस्येवाक्षि यस्याः ५ त० ६ त० वा षचसमा० ङीष् १ हट्टविलासिनीनामगन्धद्रव्ये शब्दच०। २ हरिणतुल्यनेत्रयुते त्रि० स्त्रियां ङीष्। “हारणाक्षि! कटाक्षेण आत्मानमवलोकय” इत्युद्भटः।
हरिणाङ्क = पु० हरिणः शशनामको मृगोऽङ्कश्चिह्नम् अङ्के क्रोडे वा अस्य। १ चन्द्रे शब्दर० २ कर्पूरे च।
हरिणी = स्त्री हरितवर्णा स्त्री ङीष् तस्य नः। १ हरितद्वणांयां स्त्रियां मेदि० २ स्वर्णप्रतिमायाम् अमरः। ३ स्वर्णयुथ्यां ४ मञ्जिष्ठायां राजनि०। ५ तरुण्यां ६ वरस्त्रियां शब्दर० “वसुयुगहयैनर्सौ म्नौ म्लो गो यदा हरिणी तदा” वृ० र० उक्तलक्षणके ७ सप्तदशाक्षरपादके छन्दोमेदे हरिणस्य स्त्री ङीष्। ८ मृग्याञ्च ९ अप्सरोगेदे। “चरतः किल दुश्चरं तपः पृणविन्दीः परिशङ्कितः पुरा। प्रजिघाय समाधिभेदिगीं हरिरस्मै हरिणीं सुराङ्गनाम्” रघुः।
हरित् = पु० हृ–इति। १ नीलपीतमिश्रितवर्णे (पाताररङ्ग पलाशवर्ण च अमरः २ तद्वति त्रि०। ३ सूर्य्याश्वे त्रिका० ४ मुद्गे हेमच०। ५ सिंहे ६ सूर्य्ये ७ विष्णौ च पु० ८ दिशि स्त्री अमरः। ९ हरिद्रायां राजनि० १० तृणे न० मेदि०।
हरित्पर्ण = न० हरित् पर्णमस्य। मूलके राजनि०।
हरित = पु० हृ–इतच्। १ सिंहे २ मन्थानतृणे राजनि० ३ हरिद्वर्णे ४ तद्वति त्रि० अमरः स्त्रियां ङीप् तस्य नश्च। ५ दूर्वायां मेदि० ६ जयन्त्यां ७ हरिद्रायां ८ कपिलद्राक्षायां ९ पाच्यां १० नीलदूर्वायाञ्च स्त्री राजनि० टाप्। ११ स्थौणेयके न० राजनि०।
हरितक = न० हरितेन वर्णेन कायति प्रकाशते कै–क। शाके न० राजनि०
हरितपत्रिका = स्त्री हरितं पत्रं यस्याः कप् कापि अत इत्त्वम्। पाच्यां राजनि०।
हरितशाक = पु० हरितं शाकमस्य। शोमाञ्जने राजनि०।
हरिताल = न० हरिवर्णस्य पीतवर्णस्य तालः प्रतिष्ठा यत्र। १ पीतवर्णे उपधातुभेदे “स हरितालसमाननवांशुकः” माघः। २ पीतवर्णपक्षिभेदे पुंस्त्री० राजनि०। स्त्रियां ङीष्। स्वार्थे क। हरिताले न० अमरः। “हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम्। तयोराद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम्। स्वर्णवर्णं गुरु स्निग्धं सपत्रं आभ्रपत्रवत्। पत्राख्यं तालकं विद्याद् गुणाद्यं तद्रसायनम। निष्पवं पिण्डसदृशं स्वल्पसत्वं तथा गुरु। स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम्। हपति च हरितालञ्चारुता देहजाताम् सृजति च बहुतापामङ्गसङ्कोचपीडाम्। वितरति कफवातौ कुष्ठरोगं विदध्यादिदमशितमशुद्धम् मारितञ्चाप्यसम्यक्”। “तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत्। दोलायन्त्रेण यामैकं ततः कूष्माण्डजद्रवैः। तिलतैले पचे द्याम यामञ्च त्रिफलाजले। एवं यन्त्रे चतुर्य्यामं पक्व शुद्ध्यति तालकम्”। अथ तालस्य मारणविधिः “सदलं तालकं शुद्धं पौनर्नवरसेन तु। खल्वे विमर्दयेदेकं दिनं पश्चाद्विशाषयेत्। ततः पुनर्नवाक्षारैः स्थाल्यामूर्द्धं प्रपूरयेत्। तत्र तद्वोलकं धृत्वा पुनस्तेमैव पूरयेत्। आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे। स्थालीं चुल्यां समा रोप्य कमाद्वह्नि विवर्द्धयेत्। दिनान्यन्तरशून्यानि पञ्च वह्निं प्रदापयेत्। एवं तन्म्रियते तालं मात्रा तस्यैकरक्तिका। अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत्”। एवं शोधितस्य मारितस्य तालकस्य गुणाः। “हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्। कण्डू कुष्ठास्यरोगाम्रकफपित्तकचव्रणान्”। “तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम्। शोधितं कुरुते कान्तिं वीर्य्यवृर्द्धिं तथायुषम्” भावप्र०। हरितालखगमांसगुणाः “हरितालोऽल्पविट्कः स्यात् कषायो मधुरो लघुः। रक्तपित्तपशमनस्तृषाघ्नो वातकोपनः” राजनि०।
हरितालिका = स्त्री हरेस्तालो हस्ततालो यस्यां कप् अत इत्त्वम्। १ सौरभाद्रशुक्लचतुर्थ्याम् हरितवर्णाय अलति पर्य्याप्नोति अल–ण्वुल्। २ दूर्वायाम् त्रिका०। अण् ङीप्। हरिताली दूर्वायाम् सा च आकाशरेखायां मेदि० खङ्गलतायाम् हरितालिकायाञ्च। “भाद्रे मासि सिते पक्षे वसुदैवतसंयुता। हरित लो चतुर्थी स्यात् सर्वाणीप्रीतिदा सदा। भाद्रे मासि सिते पक्षे चतुर्थ्याख्याभियोगतः। ददाति किल्विषं घोरं दृष्टश्चन्द्रो न संशयः। करचित्रानलर्क्षेषु हरौ सूर्य्ये चतुर्थिका। हरिताली समाख्याता रुद्राणीप्रीतिदा सदा” राजमार्त्तण्डः
हरिताश्म = न० हरितवर्ङमश्म अश्मेव वा अच्समा० (पेरीजा) १ मणिभेदे तुत्थे (तु~त) उपधातुभेदे च राजनि०।
हरिदर्भ = पु० हरिर्हरिद्वर्णो दर्भः हरिद्वर्णकुशे अमरः।
हरिदश्व = पु० हरिन्नामकोऽश्वो यस्य। १ सूर्य्ये २ अर्कवृक्षे च अमरः।
हरिदेव = पु० हरिर्देवोऽधिष्ठाता अस्य। श्रवणानक्षत्रे।
हरिद्गर्भ = पु० हरिद्वर्णो गर्भो यस्य। हरिद्वर्णे कुशे राजनि०। “दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितोऽधिकः। यदि श्वेतकुशाभावस्त्वपरं योजयेद्भिषक्” राजनि०। “टर्भद्वयं त्रिदोषघ्नं मधुरं तुवरं हिमम्। मूत्रकृच्छ्राश्मरीतृष्णाघस्तिरुक् प्रदराम्रजित्” भावप्र०। तन्मूलगुणाः “कुगमूलं हिमं रुच्यं मधुरं पित्तनाशनमू। रक्तज्वरतृषाश्वासकामलादोषमीक्षकृत्” राजनि०।
हरिद्रव = पु० हरिवर्णः पिङ्गलवर्णा द्रव इव। नागकेशररजसि त्रि०।
हरिद्रा = स्त्री हरिं पीतवर्णं द्रवति द्रु–गतौ ड। स्वनामख्याते ओपधिभेदे। “हरिद्रा कटुका तिक्ता रूक्षोष्णा कफपित्तनुत्। वर्ण्या त्वग्दोषमे हास्रशोथपाण्डुव्रणापहा”। (वनहरिद्रा) “अरण्यहलद्दीकन्दः कुष्ठवातास्रनाशनः”। (कर्पूरहरिद्रा) “दार्वी भेदाम्रगन्धा च सुरभिश्चारुदारु च। कर्पूरा पद्मपत्रा स्यात् सुरभिः सुरनायिका आम्रगन्धिर्हरिद्रा या सा शीता वातला मता। पित्तहृन्मधुरातिक्ता सर्वकण्डूविनाशिनी” भावप्र०।
हरिद्रागणेश = पु० हरिद्रावर्णयुक्तो गणेशः। पीतवर्णे गणेशभेदे तन्त्रसारः।
हरिद्राङ्ग = पुंस्त्री० हरिद्रेव अङ्गमस्य। हरितालखगे शब्दच० स्त्रियां ङीष्।
हरिद्राभ = पु० हरिद्रेव आभाति आ + भा–क। १ पीतसाले (पियासाल) २ कर्वुरके ३ पीतवर्णे च। ४ तद्वति त्रि० अमरः।
हरिद्राराग = त्रि० हरिद्राया इव रागा रञ्जनमनुरागः। अस्थिरानुरागे सौहृदे। “क्षणमात्रानुरागश्च हरिद्राराग उच्यते” हला०।
हरिद्रु = पु० हरिः हरिद्वर्णो दलादिद्वारा द्रुः। १ वृक्षमात्रे हेमच०। २ दारुहरिद्रायाञ्च अमरः।
हरिद्वार = न० हरेस्तत्प्राप्तेः द्वारं सेवनात्। स्वनामख्याते तीर्थभेदे
हरिनामन् = न० हरेर्नाम तदाख्यानं वा। १ विष्णुनामनि २ तदाख्याने च हरेरिव नामास्य। ३ मुद्गे पु० त्रिका०।
हरिनेत्र = न० हरेर्नेत्रमिव। १ श्वेतपद्मे राजनि०। ६ त०। २ विष्णोर्लोचने। हरेः सिंहस्येव नेत्रमस्य दीर्षत्वात्। ३ पेचके पुंस्त्री० त्रिका० स्त्रियां ङीष्।
हरिन्मणि = पु० हरिद्वर्णो मणिः। मरकते मणौ अमरः।
हरिन्मुद्ग = पु० हरिद्वर्णो मुद्गः। शरदि पक्वे मुद्गे राजनि०।
हरिप्रिय = न० हरेर्विष्णोः प्रियम्। १ कालीयके चन्दने शब्दच०। २ उशीरे राजनि०। ३ कदम्बे पु० शब्दच०। ३ पीतभृङ्गराजे ५ विष्णुकन्दे ६ करवीरे ७ शङ्खे ८ बन्धूके पु० राजनि०। ९ शिवे २० वातुले च पु०। ११ लक्ष्म्यां स्त्री १२ तुलस्यां। १३ पृथिव्यां १४ द्वादश्यां तिथौ च स्त्री। १५ हरिवल्लभे त्रि०।
हरिबालुक = न० हरेर्विष्णोः प्रिया बालुकास्य। एलयालुके अमरः।
हरिभक्त = त्रि० हरौ विष्णौ भक्तः। १ विष्णुभक्तियुते “सर्व जीवेषु यो विष्णुं भावयेत् समभावतः। हरो करोति भक्तिञ्च हरिभक्तः स च स्मृतः” ब्रह्मपु० ३५ अ० उक्ते २ सर्वेत्रसमदृष्टिपूर्वकहरिसेवके पु०।
हरिभद्र = स० हरिं भद्रयति सतर्पयति अच्। हरिवालुके शब्दर०।
हरिभुज् = पु० हरिं भेकं भुङ्क्ते भुज–क्विप्। सर्पे शब्दच०।
हरिमन्थ = पु० मथ्यते भन्थः हरिर्मन्ध एकदेशो यस्य। १ चणके राजनि० तस्य बहुमन्थनेऽपि पीतत्वामपायात्तथात्वम्। हरिं सर्पं मथ्नाति मन्थ–अण्। २ गणिकारिकायाम् शब्दच०। ३ देशभेदे पु० भरतः।
हरिमन्थक = पु० हरिः पीतो मन्थ एकखण्डो यस्य कप्। १ चणके भरतः।
हरिमन्थज = पु० हरिमन्थे देशभेदे जायते जन–ड। चणके अमरः। २ कृष्णमुद्गे श्च हेमच०।
हरिय = पु० हरिं हरिवर्णं याति या–क। पीतवर्णघटके हेमच०।
हरिलोचन = पु स्त्री० हरेरिव लोचनमस्य। १ कर्कटे (क~कडा) त्रिका०। २ पेचके।
हरिवंश = पु० ६ त०। १ विष्णुर्वशे हरेर्वंशो वर्ण्यत्वेनास्त्यत्र अच्। महाभारतान्तर्गते खिलरूपे व्यासकृते २ ग्रन्थभेदे। तत्प्रतिपाद्यविषयाश्च हरिवं० ३२५ अ० उक्ता यथा “हरिवंशेऽत्र वृत्तान्ताः कीत्त्यंन्ते क्रमशोदिताः। तत्राद्यमादिसर्गस्तु भूतसर्गस्ततः परः। पृथार्वेण्यस्य चाख्यानं मनूनां कीर्त्तनं तथा। वैवस्वतकुलोत्पत्तर्द्धुन्धुमारकथा तथा। गालवोत्पत्तिरिक्ष्व कुवंशस्याप्यनुकोर्त्तनम्। पितृकल्पस्तथोत्प त्तः सोमस्य च बुधस्य च। अमावसारन्वयस्य कीर्त्तनं कीर्त्तिवर्द्धनम्। द्युतिप्रतिष्ठे शक्रस्य प्रसवः क्षत्त्रवृद्धिजः। दिगेदासप्रतिष्ठा च त्रिशङ्कोः क्षत्रियस्य च। ययातिचरितञ्चैव पुरुवंशस्य कीर्त्तनम्। कीर्त्तनं कृष्णसम्भूतेः स्यमन्तकमणेस्तथा। संक्षेपात् कीर्त्तिता विष्णोः प्रादुर्भावास्ततः परम्। तारकामययुद्धञ्च ब्रह्मलोकस्य वर्णनम्। योगानिद्रासमु त्थ नं विष्णोर्वाक्यञ्च वेधसः। पृथ्वीवासश्च देवानामशावतरणं तथा। ततो नारदवाक्यञ्च स्वप्नगर्भविधिस्तथा। आर्य्यास्तवः पुनः कृष्णसमुत्पत्तिः प्रपञ्चतः। गाव्रजे गमनं विष्णोः शकटल मिवर्त्तनम्। पूतनाथा बवो भङ्गो यमलार्जुनयोरपि। वृकसंमर्दनञ्चैव व्ड्नॢआवननिवेशनम्। प्रावृषो वर्णनद्यापि यमुनाह्रददर्शनम्। कालियस्यापि दमनं घेनुकस्व बहस्तथा। प्रलम्बनिधनञ्चैव शरद्वर्णनमेव च। गिरियज्ञप्रवृत्तिश्च गोवर्द्धनविधारणम्। गोविन्दस्याभिषेकश्च गोपीसंक्रोडनं तथा। अन्धकस्य च वाक्यानि केशिनो निधनम् तथा। अक्रूरागमनञ्चैव नागलोकस्य दर्शनम्। धनुर्मङ्गस्य कथन कसवाक्यनतः परम्। कुवलयापीडनश्चाणूरान्ध्रवपस्तथा। कंसस्य निधनञ्चापि विलापः कंसयोषिताम्। उग्रसेना- भिषेकश्च यादवाश्वासनं तथा। प्रत्यागतिर्गुरुकुलादथोक्ता रामकृष्णयोः। मथुरायाश्चोपरोधो जरासन्धनिवर्त्तनम्। विकद्रुवाक्यं रामस्य दर्शनं भाषणं तथा। गोमन्तारोहणञ्चापि जरासन्धगतिस्तथा। गोमन्तस्य र्गिर्दाहः करवीरपुरे गतिः। शृगालस्य बधस्तत्र मथुरागमनं ततः। यमुनाकर्षणञ्चैव मथुरापक्रमस्तथा। उपायेन बधः कालयवनस्य प्रकीर्त्तितः। निर्माणं द्वारवत्यास्तु रुक्मिणीहरणं तथा। विवाहश्चैव रुक्मिण्या रुक्मिणो निधनं तथा। बलदेवाह्निकं पुण्यं बलमाहात्म्यमेव च। नरकस्य बधः पारिजातस्य हरणं तथा। निकुम्भस्य बधाख्यानं प्रपञ्चेनैव कीर्त्तितम्। प्रभावत्याश्च हरणं वज्रनाभवधस्तथा। द्वारवत्या विशेषेण पुनर्निर्माणकीर्त्तनम्। द्वारकायां प्रवेशश्च समायाञ्च प्रवेशनम्। तारदस्य च वाक्यानि वृष्णिवंशानुकीर्त्तनम्। षट्पुरस्य बलाख्यानमन्धकस्य निबर्हणम्। समुद्रयात्रा कृष्णस्य जलक्रीडाकुतूहलम्। तथा भैमप्रवीराणां मधुपानप्रवर्त्तनम्। ततश्छालिक्ययान्धर्वसमुदाहरणं हरेः। भानोश्च दुहितुर्भानुमत्या हरणकीर्त्तनम्। शम्बरस्य बधश्चैव धन्योपाख्यानमेव च। वासुदेवस्य माहात्म्यं वाणयुद्धं प्रपञ्चितम्। भविष्यं पुष्करञ्चैव प्रपञ्चेनैव कीर्त्तितम्। वाराहं नारसिंहञ्च वामनं बहुविस्तरम्। कैलासयात्रा कृष्णस्य पौण्डकस्य बधस्ततः। हंसस्य डिम्भकस्यैव बधश्चैव प्रकीर्त्तितः। पुरत्रयस्य संहार इति वृत्तान्तसंग्रहः। कथितो नृपशार्दूल! सर्वपापप्रणाशनः। वृत्तान्तं शृणुयाद्यस्तु सायं प्रातः समाहितः। स याति वैष्णवं धाम् लब्थकामः कुरूद्वह!। घन्यं यशस्य मायुष्यं भुक्तिमुक्तिफलप्रदम्”।
हरिवल्लभा = स्त्री १ जयायां २ तुलस्यां राजनि० ३ लक्ष्म्याञ्च।
हरिवात् = पु० हरिणा षोटकेन उच्चैस्रवसा वाति पच्छति वा–शतृ। इन्द्रे हलायुधः।
हरिवर्ष = न० हरिनामकं वर्षम्। जम्बुद्वीपस्य नववर्षमध्ये वर्षभेदे त्रिका०। “एवं दक्षिणेनेलावृतं निषथो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथासंख्यम्” भाग ५ ख्य० १६ अ०
हरिवासर = न० हरिप्रियं वासरम्। १ एकादशीदिवसे २ द्वादशीप्रथमपादे च। “अन्नमाश्रित्य पापानि तिष्ठन्ति हरिवासरे” इति। “द्वादश्याः प्रथमः पादो हरि- वासरसंज्ञक” इति च एकादशीतत्त्वे विष्णुधर्मो०।
हरिवाहन = पु० हरिं वाहयति स्थानान्तरं नयति वह + णिचल्यु। १ गरुडे हारा०। ६ त०। २ हरिवाहनमप्यत्र न०।
हरिवीज = न० हरेर्वीजमुत्पत्तिकारणत्वेनास्त्यस्य अच्। हरिताले “हरिताल हरेर्वीजं लक्ष्म्यावीलं मनःशिला” इति वैद्यकम्।
हरिशयन = न० हरेः शयनं निद्रा। १ बिष्णु निद्रायाम्। हरेः शयनं यत्र। २ तदुपलक्षिते काले। स च “मैत्राद्यपादे स्त्रपितीह विष्णुः” इत्युपक्रम्य “प्रबुध्यते मासचतुष्टयेन” इत्यन्तेन दर्शितः आषाढस्य शुक्लद्वादश्यवधिकार्त्तिकशुक्लद्वादशीपय्यन्तरूपो मासचतुष्टयात्मकः। उत्थानैकादशीशब्दे। ०७ पृ० वृश्यम्।
हरिश्चन्द्र = पु० हरिः चन्द्र इव ऋषौ सुट्। सूर्य्यवंश्ये त्रिशङ्गुपुत्रे नृपभेदे। ऋषिभिन्ने तु न सुट्। हरिचन्द्र एव।
हरिश्चन्द्रपुर = न० ६ त०। सौभनगरे त्रिका०।
हरिषेण = पु० जिनचक्रवर्त्तिविशेषे हेमच०। हरिसुतोऽप्यत्र।
हरिसङ्कीर्त्तन = न० हरेर्हरिनाम्नः संकीर्त्तनं कथनम्। श्रीविष्णार्नामोच्चारणे “सकमं निष्फलं राजन्! हरिसहीर्त्तनं पिना” इति कर्मलोचनम्।
हरिहय = पु० हरिनामा हरिवर्णो वा हयो यस्य। इन्द्रे अमरः “हरिं विदित्वा हरिभिश्च वाजिभिः” इति रघौ तस्य हरिवर्णतुरगत्वमुक्तम्।
हरिहर = पु० हरियुक्तो हरः। हरिहरयोः संश्लिष्टार्द्धदेहतया स्थिते मूर्त्तिभेदे देवप्रतिमाशब्दे ३७०१ तन्यूर्त्तिलक्षणं दृश्यम्। द्व०। २ शिवनारायणयोः द्वि० व०।
हरिहरक्षेत्र = न० हरिहरयोः प्रियं क्षेत्रम्। गङ्गागण्डकीसङ्गमान्तिकदेशस्थे पाटलिपुत्रादुत्तरस्यां दिशि स्थिते तीर्थभेदे।
हरिहरात्मक = पु० १ गरुडे २ शिववृषे च शब्दर०।
हरीतकी = न० हरिं पीतवर्णं फलद्वारा इता प्राप्ता इणक्त संज्ञायां कन् गोरा० ङीष्। १ स्वनामख्याते वृक्षे तस्याः फलम् अण् तस्य लुप्। २ हरीतकीफले स्त्री अमरः। “कदाचित् कुपिता माता नोदरस्था हरीतकी” इति वैद्यकम्। चेतकीशब्दे २९६२ पृ० दृश्यम्।
हरेणु = स्त्री हृ–ऐनु। १ रेणुकानासगन्धद्रव्ये अमरः। २ कुलस्त्रियां। ३ सतीले (मटर) पु० मेदि०। स्वार्थे क तत्रैव।
हर्त्तृ = त्रि० हृ–तृच्। १ हरणकारिणि। २ चौरे ३ सूर्य्ये च पु०
हर्मन् = न० ह्य + मनिन्। जृम्भणे (हाइतोला) शब्दरत्ना बली।
हर्मित = त्रि० हर्मन् + तार० इतच्। १ जातजृम्भणे शब्दर० २ दग्धे ३ क्षिप्ते च मेदि०।
हर्म्य = न० हृ–यत मुट् च। इष्टकाकाष्ठादिरचिते धनिनां गृहभेदे अमरः “रम्यं हर्म्यतलम्” इति प्रबोध०।
हर्य्य = क्लमे अक० गतौ सक० भ्वा० पर० सेट्। हर्यति अहर्य्यीत्।
हर्य्यक्ष = पुंस्त्री० हरि पिङ्गलमक्षि यस्य षच्समा०। १ सिंहे अमरः। स्त्रियां ङीष् २ कुवेरे च जटा०।
हर्य्यश्व = पु० हरिनामा हरिवर्णो वाऽश्वोऽस्य। इन्द्रे।
हर्ष = पु० हृष–घञ्। १ सुखे अमरः २ इष्टाधिगमजन्यानन्दे। ३ कन्दर्पपितरि “पुलस्त्य उवाच। “कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते। स शङ्करेण संदग्धो ह्यनङ्ग त्वमुपागतः”। वामनपु० ५ अ०। ३ कलियुगीयनृपभेदे हर्षचरिते तत्कथा दृश्या।
हर्षक = त्रि० हृष्–णिच् ण्वुल्। १ हर्षकारके। २ पर्वतविशेषे शब्दमा०।
हर्षण = पु० हर्षयति अभीष्टदानात् हृष–णिच्–ल्यु। १ विष्कम्भादिमध्ये चतुर्दशे योगे ज्यो०। २ हर्षकारके त्रि०। ३ नेत्ररोगभेदे ४ श्राद्धभेदे ५ श्राद्धदेवभेदे पु० शब्दच०। हृष–भावे ल्युट्। ६ हर्षे न०।
हर्षपद = न० ६ त०। नील० ताजकोक्ते ग्रहविशेषस्य लग्नादिस्थानभेदे। यथोक्तम् “नन्दत्रिषड्लग्नभवर्क्षपुत्रव्यया इलाद्धर्षपदं स्वभोच्चम्। त्रिभं त्रिभं सग्नभतः क्रमेण स्त्रीणां नॄणां रात्रिदिनेषु तेषु”। हर्षस्थानादयोऽप्यत्र। “न हर्षस्थानमाश्रितः” नीलक०।
हर्षमाण = पु० हृष–ताच्छील्ये चानश्। हृष्टचित्ते अमरः।
हर्षयित्नु = पु० हृष् णिच्–इत्नु। १ पुत्रे २ स्वर्णे न० मेदि०। ३ हर्षणशीले त्रि०।
हर्षिणी = स्त्री हृष–णिच्–णिनि ङीप्। १ विजयायाम् २ हर्षकारके त्रि०।
हर्षित = त्रि० हर्षो जातोऽस्य इतच्। १ जातानन्दे। २ हर्षस्थानगते ग्रहे च।
हर्षुल = पुंस्त्री० हृष + उलच्। १ मृगे स्त्रियां ङीष्। २ कामुके त्रि० सि० कौ०। २ हर्षणशीले त्रि०।
हल = विलेखे भ्वा० पर० सक० सेट्। हलति अहालीत् ज्वलादि० हलः हालः
हल = न० हल्यते कृष्यतेऽनेन हल–घञर्थे करणे क। लाङ्गले अमरः। कृषिशब्दे २१९८ पृ० दृश्यम्।
हलद्दी = स्त्री हल–शतृ–हलन्तं कृषकमपि दायति शीधयति दै–क गौरा० ङीष्। हरिद्रायाम राजनि०।
हलधर = पु० हलं धरति आयुथत्वंन कृषिसाधनत्वेन वा धृ–अच्। १ बलरामे शब्दर०। २ कृषके त्रि० “उन्मूलिता हलधरेण पदावधतैः” उद्भटः।
हलभूति = स्त्री हलेन हलसाध्या भूतिः। कृषिवृत्तौ शब्दर०
हलभृत् = पु० हलं बिभर्त्ति हृ–क्विप्। १ बलदेवे त्रिकाण्ड० २ लाङ्गलधारके च।
हलभृति = पु० उपवर्ङे १ मुनिभेदे त्रिका०। २ हलस्य धारणे ३ कृषिकार्य्ये च।
हला = अव्य० हेति लीयते ला–क। नाट्योक्तौ १ सखीसम्बोधने अमरः। २ सख्यां जटा० ३ पृथिव्यां स्त्री ४ जले च स्त्री अजयपालः।
हलायुध = पु० हलेन आयुध्यति आ + युध क। १ बलदेवे अमरः २ ब्राह्मणसर्वस्त्रादिग्रन्थकारके विद्वद्भेदे च।
हलाह = पुंस्त्री०। चित्रिताश्वे हेमच० स्त्रियां ङीष्।
हलाहल = पु० हलेनेव आहलति विलिखति आ + हल–अच्। १ विषभेदे २ ब्रह्मसर्पे ३ अञ्जनायां मेदि०। ४ बुद्धभेदे त्रिका०।
हलि = पु० हल–इन्। वृहद्धले शब्दर०।
हलिन् = पु० हलोऽस्त्यसायुधत्वेन कृषिसाधनत्वेन वा इनि। १ वलरामे अमरः २ कृपके त्रि०। हलस्य आकारो विद्यते यस्या ङीप् हलिनी (विषलाङ्गला) ३ खाङ्गलीवृक्षे रत्नमा० इति। हसानां समूहः ङीप् ४ हलसमूहे स्त्री।
हलिप्रिय = पु० ६ त०। १ कदम्बवृक्षे अमरः। २ मदिरायां स्त्री राजनि०।
हली = स्त्री हल–इन् ङीप्। कलिकारीवृक्षे राजनि०।
हलीन = पु० हलाय हितः ख। शाकवृक्षे (शेगुन) शब्दच०।
हली(म)सक = पु० पाण्डुरोगभेदे “यदा तु पाण्डोर्वर्णः स्याद्धरित श्यावपीतकः। बलोत्साहः क्षयस्तन्त्रामन्दाग्नित्वं मृदुज्वरः। स्त्रीष्वहर्षोऽङ्गमर्दश्च श्वासतृष्णारुचिभ्रमाः। हली(म)सकं तदा तस्य विद्यादनिलपित्ततः” भावप्र०।
हलीशा = स्त्री हलस्य ईशा शक०। लाङ्गलदण्डे।
हल्य = त्रि० हलं हलकर्षणमर्हति तस्येदं वा यत्। १ हलकर्थणयोग्ये क्षेत्रादौ अमरः। २ हलसम्बन्धिनि च। हलानां समूहः यत्। ३ हलसमूहे स्त्री अमरः।
हल्ल = विकाशे भ्वा० पर० अक० सेट् भानुदीक्षितः। हल्लति अहल्लीत्।
हल्लक = न० हल्ल–ण्वुल् भानुदीक्षितः। हल–सम्प० भावे क्विप् हलं लाति ला–क। संज्ञावां कन् वा। रक्तकह्लारे (हेला) अमरः।
हल्लीष = न० हल–क्विप् लघ–अच् पृषो० कर्म०। स्त्रीणां मण्डलिकाकारनृत्ये। ततः स्वार्थे क। तत्रैव। “मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीषकन्तु तत्” हेमच० २ रासक्रीडायाञ्च तल्लक्षणं यथा “पृथुं सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुकम्। आक्रम्य पद्भ्यामितरेतरन्तु हस्तैर्भ्रमोऽयं खलु रासगोष्ठी” हरिवं० टी० नीलकण्ठः।
हव = पु० हु–अप् ह्वे–अप् संप्र० पृषो० वा। १ यज्ञे २ आज्ञायां ३ होमे ४ आह्वाने च अमरः।
हवन = न० हु–भावे ल्युट्। होमे देवाद्युद्देशेन मन्त्रपूर्वकं वह्नौ हविःप्रक्षेपे शब्दच०।
हवनी = स्त्री हूयतेऽस्यां हु–आधारे ल्युट् ङीप्। यज्ञकुण्डे त्रिका०
हवनीय = त्रि० हु–कर्मणि अनीयर्। होमीयद्रव्ये।
हवा = अव्य० ह च वा द्वन्द्व०। प्रसिद्धार्थे।
हविरशन = पु० हविरश्नाति अश–युच्। १ वह्नौ हेमच०। २ चित्रकवृक्षे च। भावे ल्युट्। ३ घृतभोजने न०।
हविर्गन्धा = स्त्री हविषो गन्धो यस्याम्। शम्यां (शा~इ) राजनि०।
हविर्गेह = न० हविषो गेहम्। यज्ञमण्डपसन्निकृष्टस्थे हवनीयद्रव्यस्थापनार्थे गेहभेदे हेमच०।
हविर्मन्थ = पु० हविषे मथ्यतेऽसौ मन्थ–कर्मणि घञ्। गणिकारीवृक्षे रत्नमा०।
हविष्य = न० हविषे हितम् यत्। १ वृते हेमच०। स्मृत्युक्ते हैमन्तिकादावन्ने च “चेरुर्हविष्यं भुञ्जामाः” भाग० १०। “नारिकेलफलञ्चैव कदलीं लवलीं तथा। आम्बमामलकञ्चैव पनपञ्च हरीतकीम्। प्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः” ति० त० अगस्त्यसंहिता।
हविष्यान्न = न० कर्म०। “हैमन्तिकं सिताऽस्विन्नं धान्यं मुद्गास्तिला यवाः। कलायकङ्गुनोवारा वास्तूकं हिलमोचिका। षष्टिका कालशाकञ्च मूलकं केमुकेतरत्। लवणे सिन्धुसामुद्रे गव्ये च दधिसर्पिषी पयोऽनुद्धृतसारञ्च पनसाम्रहरितकी। तिन्तिडी जीरकञ्चैव नागरङ्गञ्च पिप्पली। कदली लवलो धात्री फलान्यगुडमैक्षवम्। अतैलपक्वं मुनयो हविष्यान्नं प्रचक्षते” इत्युक्ते व्रतादो भक्ष्यद्रव्यभेदे।
हविस् = न० हूयते हु–कर्मणि असुन्। १ घृते अमरः २ हवनीवहव्यमात्ने च “वपाया मेदसो हविषोऽनुब्रूहीति” श्रुतिः। “मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम्। अक्षारलवणञ्चैव प्रकृत्या हविरुच्यते” श्रा० त० उक्ते ३ द्रव्यभेदे। भावे असुत्। ३ होमे!
हव्य = न० हु–कर्मणि यत्। १ देवयोम्यान्ने अमरः। २ हवनीयद्रव्ये त्रि०। भावे यत्। ३ होमे न०।
हव्यपाक = पु० हव्याय होमाय पाको यस्य। होमार्थं दुग्धघृताद्दिमिश्रिते स्विन्ने अन्ने चरौ अमरः।
हव्यवाह = पु० हव्यं वहति देवान् वह–अण्। १ अग्नौ रत्नमा० २ चित्रकवृक्षे च।
हव्यवाहन = पु० हव्यं वाहयति वह–णिच्–ल्यु। १ वह्नौ अमरः। २ चित्रकवृक्षे च।
हव्याश = पु० हव्यमश्नाति अश–अण्। १ वह्नौ शब्दर० २ चित्रकवृक्षे। ल्यु। हव्याशनोऽप्युभयत्र पु० हेमच०।
हस = हासे भ्वा० प० अक० सेट् एदित् सिचि न वृद्धिः। हसति अहसीत्। दोषदर्शनपूर्वकहासे तु सकर्मकः “स्थितावहस्येव पुरं मघोनः” इति भट्टिः।
ह(हा)स = पु० हस–अप् घञ् वा। हास्ये सुखविकाशनभेदे अमरः।
हसन = न० हस–भावे ल्युट्। प्रीत्यामुखकपोसादेर्विकाशने हास्ये
हसन्ती = स्त्री हस–झ ङीष्। अङ्गारधानिकायां अमरः। २ मल्लिकाभेदे ३ शाकिनीभेदे च मेदि०। हस–शतृ–ङीप्। हसत् ४ हासिनि त्रि० स्त्रिषाम् ङीप्।
हसित = न० हस–भावे क्त। १ हास्ये कर्त्तरि क्त। २ कृतहास्ये ३ विवकशिते च त्रि०। हास्यशब्दे दृश्यम्।
हस्त = पु० हस–तन् न इट्। १ देहावयवभेदे (हात) अमरः। २ चतुर्विंशत्यङ्गुलपरिमाणे “यबोदरैरङ्गुलमष्टसंख्यैर्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः” लीला०। ३ हस्तिशुण्डे च। ४ अश्विन्यादिषु त्रयोदशे नक्षत्रे पुंस्त्री० मेदि० अश्लेषाशब्दे पृ० दृश्यम्। “जाह्नवी हस्तयोगे” इति पुराणम्। “पुष्या हस्ता तथा स्रातिः” ज्यो०। केशवाचकात् परः। ५ समूहे। केशहस्तः। “हस्तदत्ताश्च ये स्नेहा लवर्णव्यञ्जनानि च। दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते तु किल्विषम्। तस्मादन्तरितं कृत्वा पर्णेनाथ तृणेन वा। प्रदद्यात् न तु हस्तेन नायसेन कदाचन” श्र० त०।
हस्तजोडि = पु० हस्तं जुडति जुड इन्। (हातजोडा) वृक्षे राजनि०।
हस्तपुच्छ = न० ६ त०। हस्तावयवभेदे (हातेर पो~छा)। त्रिका०
हस्तवारण = न० ३ त०। मारणोद्यतस्य निवारणे अमरः।
हस्तविन्य = न० हस्तस्य विम्बं यत्र। स्त्रासके चन्दनादिना देहविसेपनविशेषे हेमच०।
हस्तसिद्धि = स्त्री हस्तस्य तत्कर्मणः सिद्धिर्यतः। वेतने श्री
हस्तसूत्र = न० हस्तस्य सूत्रमिव। वलये हेमच०।
हस्तामलक = न० हस्तस्वितमामलकम्। आमलक्याः फलं तदिव वा। १ करावस्थितामलकफले तद्वत् २ अनायासलभ्ये पदार्थे च। करामलकादयोऽप्यत्र। ३ वेदान्तप्रसिद्धग्रन्थभेदे च।
हस्तिक = न० हस्तिनां समूहः कन्। हस्तिपमूहे शब्दर०।
हस्तिकन्द = पु० हस्ती तत्पदमिव कन्दोऽस्य। स्वनामख्याते कन्दभेदे (हातिका~दा) राजनि०।
हस्तिकरञ्ज = पु० हस्तीव महान् करञ्जः। महाकरञ्जे राजनि०
हस्तिकर्ण = पु० हस्तिनः कर्ण इव पर्णमस्य अच्। १ एरण्डवृक्षे २ पलाशभेदे ३ गणदेवताभेदे मेदि०। ४ हस्तिकन्दे ५ रक्तैरण्डे च राजनि०। स्वार्थे क तत्रार्थे। ६ त०। ६ गजव्य कर्णे।
हस्तिकर्णदल = पु० हस्तिनः कर्ण इव दलमस्य। पलाशभेदे अमरः।
हस्तिकोलि = पु० हस्तीव कोलिः। वदरीभेदे रत्नमा०।
हस्तिघोषा = स्त्री हस्तीव वृहवी घोषा। वृहद्वाषायाम् मदनपालः।
हस्तिघोषातकी = स्त्री हस्तीव वृहती घोषातकी। हस्तिघोषायाम् रात्रमा०।
हस्तिचारिणी = स्त्री हस्तीव चरति चरे–णिनि ङीप्। महाकरञ्जे राजनि०।
हस्तिदन्त = पु० ६ त०। १ करिदन्ते। तदाकारोऽस्त्यस्य अच्। २ मूलके न० राजनि०। तत्रार्थे पु० शब्दर०। ३ गृहभित्तिनिखातार्द्धे काष्ठनिर्मितकलिकाकारे षदार्थे नागदन्तादयोऽप्यत्र।
हस्तिदन्तफला = स्त्री हस्तिदन्त इव फलमस्याः। एर्वारौ कर्कटीभेदे राजनि०।
हस्तिन् = पु० हस्तः शुण्डादण्डोऽस्त्यस्य। १ गजे २ चन्द्रवंश्ये नृपभेदे च। “सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह। तेनेदं निर्मित पूर्वं पुरैव हस्तिनापुरम्। हस्तिनश्चैव दायादा स्त्रयः परमधार्मिकाः। अजमीडो द्विमीढश्च पुरुमीढस्तथैव च” हरिवं० २० अ०।
हस्तिनख = पु० हस्तिनो मख इव हस्तिमा न खन्यते नञ् + खन–ड वा। १ पुरद्वारस्ये मृत्कूटे अमरः। २ दुर्गद्वारावरोधनार्थे निम्नोन्नते स्वातोद्धृते मुद्राशौ च भरतः।
हस्तिनापुर = न० हस्तिना तदाख्यगृपेण चिह्नितं तत्कृतत्वात् पुरम् अलुक्स०। (दिल्ली) पुरभेदे।
हस्तिनी = स्त्री हस्तिनः योषा ङीप्। १ करिण्याम् गजयोषिति चतुर्विधस्त्रीमध्ये २ स्त्रीविशेषे तल्लक्षणं यथा “स्थूलाधरा स्थूलनितम्बभागा स्थूलाङ्गुली स्थूलकुचा सुशीला। कामोत्मुका गाढरतिप्रिया च नितम्बखर्वा खलु हस्तिनी स्यात्” “हये तुष्टा च हस्तिनी” रतिमञ्जरी। ३ हट्टविलासिन्यां शब्दच०।
हस्तिप = पु० हस्तिनं पाति पा–क। हस्त्यारोहे अमरः। स्वार्थे क तत्रैव।
हस्तिपत्त्र = पु० हस्ती तत्कर्ण इव पत्त्रमस्य। हस्तिकन्दवृक्षे राजनि०।
हस्तिपर्णिका = स्त्री हस्ती तत्कर्ण इव पर्णमस्याः कप् अत इत्त्वम्। राजकोषातक्याम् राजनि०।
हस्तिपर्णी = स्त्री हस्ती तत्कर्ण इव पर्णमस्या ङीष्। १ मोरटालतायां रत्नमा०। २ कर्कट्याञ्च राजनि०।
हस्तिमद = पु० ६ त०। १ करिकरनिःसृतमदजले। स इव। २ गन्धद्रव्यभेदे च राजनि०।
हस्तिमल्ल = पु० हस्तिसु मल्लः। १ ऐरावतगजे। २ गणेशे ३ शङ्खे ४ नागे च मेदि०।
हस्तिरोहणक = पु० हस्तीव रोहते ल्यु स्वार्थे क। महाकरञ्जे राजनि०।
हस्तिलोध्रक = पु० हस्तीव लाध्रः स्वार्थे क। लाध्रभेदे राजनि०
हस्तिविषाणी = स्त्री हस्तिविषाणं गजदन्तस्तदाकारः मध्यभागः (थोड) यस्याः गौरा० ङीष्। १ कदल्याम् राजनि०।
हस्तिशुण्डा(ण्डी) = स्त्री हस्तिशुण्डस्तदाकारोऽस्त्यस्याः अच् वा गौरा० ङीष्। (हातिशुडा) वृक्षे राजनि०।
हस्तिश्यामाक = पु० हस्तीव स्थूलः श्यामाकः। स्थूलश्यामाके राजनि०।
हस्ते = अव्य० हस्त + ए। १ पाणौ इत्यर्थे २ स्वीकारे च हस्तेकृत्य कृत्वा वा।
हस्त्य = त्रि० हस्त्रेन मृहीतः दत्तः कृतो वा यत्। १ हस्तगृहीते २ पाणिदत्ते ३ पाणिकृते सि० कौ०।
हस्त्यध्यक्ष = पु० ७ त०। गजाध्यक्षे गजरक्षणादो नियुक्ते “हस्तशिक्षाविधानाज्ञो वन्यजातिविशारदः। क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते” मत्स्यपु० १८९ अ०।
हस्त्यारोह = पु० हस्तिनमारोहति आ + रुह अण्। हस्तिपके अमरः।
हस्र = त्रि० हस–कर्मणि र। मूर्खे उणा०।
हहल = अव्य० हेति हलति। हालाहले स्थावरविषभेदे शब्दच०।
हहा = पु० हेति शब्दं जहाति हा–क्विप्। गन्धर्वभेदे शब्दमा०
हा = त्यागे जु० प० स० अनिट्। जहाति जहति जहि अहासीत् हीयते ओदित् निष्ठातस्य नः हीनः हानिः।
हा = गतौ जु० आ० स० अनिट् ओदित् निष्ठातस्य नः। जिहीते अहासिष्ट जहे हानम्।
हा = अव्य० हा–का। १ विषादे २ शोके ३ पीडायाम् अमरः ४ कत्सायाञ्च मेदि०। हाशब्दस्य निन्दापरत्वे तद्योगे षष्ट्यर्ये द्वितीया “हा लोकं केशवद्विषम्” वोपदेवः। निन्दनीयपरत्वे न, “हा पितः! क्वासि वैदेहि! भट्टिः।
हाङ्गर = पुंस्त्री हा विषादाय पीडायै वा अङ्गं राति रा–क। स्वनामख्याते जलजन्तुभेदे शब्दच० स्त्रियां ङीष्।
हाटक = न० हट–ल्युल्। १ देशभेदे २ तत्रजे स्वर्णे तन्नाम- नामके धुस्तुये च अमरकोषः। ४ स्वर्णनिर्मिते त्रिलिङ्गः।
हाटकेश्वर = पु० गोदावरीतीरस्थे शिवलिङ्गभेदे यथा “एतस्मिन्नन्तरे प्राप्ताः सर्व एवर्षिपार्थिवाः। द्रष्टुं त्रैलोक्यभर्त्तारं त्र्यम्बकं हाटकेश्वरम्। ततः कपिवरः प्राप्तो घृताच्या सह सुन्दरि!। स्नात्वा गोदावरीतीर्थे दिदृक्षुर्हाटकेश्वरम्” वामनपु० ६२ अ०।
हात्र = न० हा–करणे त्रल्। वेतने सि० कौ०। पृषो०। हान्त्र। मरणे उणादि०।
हान = न० हा–भावे क्त। परित्यागे “हिमहानकृता न कृता क्वचन” भट्टिः।
हानि = स्त्री हा–क्तिन् तस्य निः। १ क्षतौ २ अपचये च जटा।
हापुत्री = स्त्री हा इति रबः पुत्राय यस्याः ङीप्। पक्षिभेदे हारा०। स्वार्थे क ह्रस्वः। तत्रार्ले त्रिका०।
हायन = पु० अम्बु जहाति हा–ल्यु–नि०। १ व्रीहौ भावं जहाति हा–ल्यु–नि०। २ वत्सरे पुंस्त्री० अमरः। ३ अग्निशिखायां स्त्री मेदि०।
हार = पु० हृ–कर्मणि घञ्। १ मुक्तामालाभेदे अमरः “हारो नारोपितः कण्ठे” इति सीतावाक्यम्। २ युद्धे मेदि०। हरतीति कर्त्तरि घञ् ण वा। ३ भाजके “अन्योन्य हाराभिहतौ हरांशौ” इति लीला०।
हाफिका = स्त्री जृम्भायां (हाइतोला) हारा०।
हारक = पु० हृ–ण्वुल्। १ चोरे २ कितवे ३ गद्यभेदे ४ विज्ञानभेदे मेदि०। ५ शाखोठकभेदे शब्दच०। ६ भाजकाङ्के च। ७ हरणकर्त्तरि त्रि०।
हारहारा = स्त्री हार इव हरति आखादनात् हृ–ण। कपिलद्राक्षायाम् राजनि०
हारहूरा = स्त्री ह्वे–क्विप् हूः हार इव हुवं राति रा–क। १ द्राक्षायाम् हला०। २ मद्ये पु० मेदि०।
हारावली = स्त्री हार इवावली। मुक्तावल्यां “शृङ्गारहारावलो” इति गङ्गास्तवः। २ पुरुषोत्तमकृते कोषभेदे च।
हारि(री) = स्त्री हृ–णिच्–इन् वा ङीप्। १ द्यूतादिभङ्गे २ तत्पराजये ३ पथिकसमूहे च मेदि०। ङीवलः ४ मुक्तायां स्त्री शब्दमा०।
हारिकण्ठ = पुंस्त्री० हारी मनोहरः कण्ठस्तद्रवा यस्य। कोकिले मेदि० स्त्रियां ङीष्।
हारित = पुंस्त्री० हृ–णिच्–क्त। हारीते पक्षिभेदे जटा० स्त्रियांङीष्। हरिदेव स्वार्थे अण्। हरिद्वर्णे पु०।
हारितक = न० हारितेन हरिद्वर्णन कायति कै–क। शाकेर्शब्दर०
हारिद्र = पु० हरिद्रया रक्तः अण्। १ कदम्बवक्षे तत्पुष्पस्य पीतप्रायत्वात् तथात्वम्। २ हरिद्रया रक्ते त्रि० मेदि०।
हारिन् = त्रि० हारोऽस्त्यस्य इनि हृ–णिनि वा। १ हारके २ हारविशिष्टे ३ मनोहारिणि च। “हारीण्यबलानां हारीण्यबलानाम्” भट्टिः” स्त्रियां ङीप्।
हारिल = पुंस्त्री० हृ–णिच् इलच्। खनामख्याते खगभेदे राजनि० स्त्रियां जातित्वात् ङीष्।
हारीत = पु० हृ–णिच्बा०–ईतच्। स्मृतिकर्त्तरि मुनिभेदे। २ पक्षिभेदे ३ कितवे च मेदि०। स्वार्थे क। हारिलखगे (हरेल) राजनि०।
हार्द्द = न० हृदयस्य कर्म युवा० अण् हृदादेशः। १ स्नेहे २ प्रेमणि अमरः। हृदि भवः विदितो वा अण्। ३ हृदयस्थे ४ हृदयवेद्ये च त्रि० हार्दविद्या शा० भा०।
हार्य्य = पु० ह्रियतेऽसौ हृ–ण्यत्। १ विभीतकवृक्षे २ हरणीये त्रि० मेदि०।
हाल = पु० हलोऽस्त्यस्य अण् हल एव वा अण्। १ बलरामे त्रिका०। २ हले च मेदि०। ३ शालिवाहननृपे हेमच०।
हालक = पु० हाल + संज्ञायां कन्। पीतहरितवर्णाश्वे हमच०।
हालह(हा)ल = न० हलाहल पृषो०। हालाहलविषे शब्दर
हाला = स्त्रा हल–घञ्। १ मद्ये अमरः २ तालरसजे (ताडि) मद्ये च राजनि०।
हालाहल = पुंन० हालेव हलति हस–अच्। १ स्थावरविषभेदे शब्दर०। २ कोटभेदे च पु० राजनि०। २ मद्ये स्त्री तत्र ङाष् राजनि०। “गोस्तनाभफला गुच्छस्तालपत्रच्छदस्तथा। तेजसा यस्य दह्यन्ते समीपस्था द्रुषादयः। असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालवे। दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते” भावप्र०।
हालिक = त्रि० हलेन स्वनति हलः प्रहरणमस्य तस्येदं वा ठक् ठञ् वा। १ हलकर्षके २ हलेन योद्धरि ३ हलसभ्यन्धिनि च अमरः।
हालिनी = स्त्री हल–णिनि ङीप्। स्थूलपल्ल्यां हेमच०।
हाली = स्त्री हल–इण् ङीप्। कनिष्ठायां श्यालिकायाम् हमच०।
हालु = पु० हल–उण्। दन्ते त्रिका०।
हाव = पु० ह्वे–भावे घञ् नि० सम्प्र० हु–करणे घञ्। १ आह्वाने २ स्त्रीणां शृङ्गारभावजे चेष्टाभेदे च अमरः। “युवानोऽनेन हूयन्ते नारीभिर्मदनानले। अतो निरुच्यते हावस्ते विलासादयो मताः” भरतधृतवाक्यम्। “ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत्। भावादीषत्प्रकाशो यः स हाव इति कथ्यते” उज्वलमणिः।
हास = पु० हस–भावे घञ्। हास्यस्थायिभावके रसभेदे तत्स्वरूपं सा० द० “विकृताकारवाग्वेशचेष्टादेः कुहकाद्भवेत्। हासो हास्यस्थायिभावः श्वेतः प्रमथदैवतः। विकृताकारवाक् चेष्टं यदालोक्य हसेज्जनः। तदत्रालम्बनं प्राहुस्त च्चेष्टोद्दीपनं मतम्। अनुभावोऽक्षिसङ्कोचवदनस्मेरतादिकः। निद्रालस्याबहित्थाद्या अत्र ल्युर्व्यभिचारिणः”।
हासस् = पु० हस–णिच् असुन्। चन्द्रे वेदनि०।
हासिका = स्त्री हस–भावे ण्वुल्। हास्ये हेमच०।
हास्तिक = न० हस्तिनां समूहः वुण्। १ हस्तिसमूहे अमरः। हास्तनमारोहति ठक्। २ हस्त्यारोहे।
हास्तिन = न० हस्तिना नृपेण निर्वृत्तम् नगरम् अण् संयो गपरत्वादिनो नटिलोपः। हस्तिनापुरे त्रिका०। हासिना इदं हस्तिनः परिमाणं वा अण्। २ हस्तिसम्बन्धिनि ३ हस्तिपरिमाणे च त्रि०।
हास्य = न० हस–ण्यत्। १ हासे हसने अमरः २ अलङ्कारोक्ते रसभेदे च। “अकम्पं हसितं श्रेष्ठं मीलिताक्षमघापहम्। असकृद्धसितं दुष्येत् तत् सोन्मादस्य नैकधा” गारुडे ६६ अ०। “ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च नीचानामपहसितं तथाऽतिहसितञ्च षड्भेदाः”। “ईषद्विकासि नयनं स्मितं स्यात् स्पन्दिताधरम्। किञ्चित् लक्ष्यद्विजं तत्र हसितं कथितं बुधैः। मधुरस्यरं विहसितमास्यशिरःकम्पमवहसितम्। अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम्” सा० द०।
हाहा = पु० हेति शब्दं जहाति क्विप्। १ देवगन्धर्वभेदे अमरः। असुन् हाहस् शब्दोऽपि तत्रार्थे मरतः। हा–द्वित्वम् २ विस्ययशब्दे ३ शोकशब्दे च अब्ध० मेदि०।
हाहाकार = पु० हाहा इत्यस्य कारः कृ–भावे घञ्। १ युद्धशब्दे २ शोकध्वनौ च।
***