हठयोग = पु० हठेन बलात्कारेण योगः। प्राणायामादिक्रियाभ्यासजे राजयोगं विनैव परमात्मसाक्षात्काररूपे चित्तवृत्तिरोधात्मके योगे। योगश्च द्विविधः हठयोगः राजयोगश्च। तत्र हठयोगः क्रियाविशेषसाध्यः हठदीपिकादावुक्तप्रकारः। राजयोगस्तु भावनाविशेषसाध्यः पातञ्जलादावुक्तः। स च पतञ्जश्चिशब्दे ४२०४ पृ० दर्शितः। हठयोगोऽत्र साङ्गाऽभिधीयते
तत्साधनप्रशंसादिः उभवयोगयोरपि परपरसापेक्षतया एककार्य्याकरत्वम्। “हठं विना सिव्यति राजयोगो नर्त्ते हठाच्चापि न राजयोगः। तदाभ्यसेत् पूर्वमतः सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम्। अभ्यासेन विना दृढेन सुचिरं साङ्गस्य योगस्य वा योगी याति न राजयोगपदवीं मध्येऽन्तरालैर्युताम्। वृद्धो वा तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत्। यो नास्तिकोऽभ्यासविहीन उग्रश्चण्डप्रियो वै बहुभाषितो यः। अपथ्यशीलोऽमितभुगदरिद्रो न योगसिद्धिं लभते कदाचित्। योगस्य वीजं परमं क्रियैव क्रियैव योगस्य फलप्रदात्री। सङ्केतविद्योगगुरोः प्रलब्धा सुधीरतो योगपरस्य नान्यत्। स्यात् सङ्गः सिद्धतीर्थैर्यदि सुकृतवशात् प्राग्भवाभ्यासजोऽयं यद्द्वारा पश्चिमेन त्वरितमिह फलं दृश्यते क्वापि लाके। तत्सर्वं नान्य नाड्या शिरसि परिगतेनानिलेनेक्ष्यतेऽदस्तस्मादभ्यास एव त्वरितलघुभिदायोगतस्तीर्थलब्धात्। अवृत्तिकस्यात्मनि शान्तवाहसम्पादानार्थं मनसः प्रयत्नः। अभ्यास एवं चिरकालः सेवितः सत्कारवान् स्याद् दृढभूमिरेष। जितो भवति मारुतोऽभ्यसनभूरिदार्ढ्यन्ततः कृशानुरभिबर्द्धते सततकुम्भकाभ्यासतः। गते हुतभुजीद्धतामशनमेति पाकं सुखं रसादिकसुधातवः स्युरनु याति देहो वलम्। महाभ्यासबन्धौ बलात् सद्रमस्य तदा जारणं स्याच्च दोषा अशेषाः। विशुष्यन्ति विण्मूत्ररोगादयो वै नृणां काटिजन्माजितव्याधयश्च। नाडाविशुद्धिर्हठसिद्धिलक्षणं विना ह्यपार्था चिरकुम्भसंधृतिः। गुरूक्ततो युक्तविशेषतो धृतेऽनिले सुषुमणा कुरुतेऽग्निदीपनम्। प्रत्याहारात् प्राग्जिताऽक्षौघवृत्तिर्योगीन्द्राऽथो चालयेत् कुण्डलीं स्वाम्। सिद्धपाणाभ्यासतश्चालिताऽसावत्युच्चैर्द्राक् व्रह्म रन्ध्रान्तरे स्यात्” हठस०।
योगदेशभेदास्तत्रैव “सुविषये शुभधार्मिकभूपतेर्बहुसुभिक्षवतीतभये शुचौ। सुकृतशालिनि मालिंनि वैभवैर्मनसि योगविधौ मतिमाश्रषेत्। अतिनिगूढपदं मशकोज्झितं तुहिनतापविवर्जितमन्तरा। उषरकण्टकशुष्कदलीज्झितं विगतगःगणगोष्ठमृते मलम्। वल्मीकसञ्चयचतुष्पथवर्जमग्न्या भ्यासोज्झितं विगतमर्वभयं विजन्तु। बात्याभिथातरहित गतभूतरक्ष यागार्थमेवमवलाक्य मठा विधेयः। धनुः णाप्रस्तुन शिला ग्नजलवाजेते। एकान्तमाठका मध्ये स्थातव्यं हठयोगिना” हठसङ्केतः। “तल्पद्वार- मरन्धुगर्त्तविटपं नात्युच्चरीचायतं सम्यग्गोमयसान्द्रलिप्तमयनं निःशेषजन्तूज्झितम्। व ह्ये मण्डपकूपौर्वेदिरुचिरं प्राकारसंवेष्टतं प्रीक्तं योगमठस्य लक्षणमिदं सिद्धैहठाभ्यासिभिः” हठप्रदीपिका। “द्वार स्मृत योगमठस्य वृत्तं व्यायामतस्तच्चतुरस्रमार्य्यम्। विस्तारतश्चापि रवीन्द्रभूपाङ्गुलं सुरस्यं रमणीअमध्यम्। निर्वातभूमन्दिरमुच्छ्रमात्मदोषापहं मारुतदोषशोषि। विशोध्य नाडामलमङ्घमन्तर्दत्ते विकाशं हृदि सुस्थिरे च” हठमं०।
तत्रोचितकालः “एकाहे वाऽथ द्विकालं त्रिकाल प्राणयामं मध्यरात्रे भजेत। यामे रात्रेः पश्चिमे पूर्व एव पूर्वाह्णे वाह्नश्च मध्ये प्रदोषे” हठम०।
निषिद्धावस्थादि “न शीते नात्युष्णे श्रमविकलदेहे न हि तथा क्षुधायामाध्माने विकलवपुषाऽचेतमासा। अजीर्णेऽम्लेद्गारे न च विहितवान्तावतिसृते प्रभुक्तौ व्यासङ्गाकुलहृदि न युक्ताऽनिलघृतिः। चिन्ताकुलो मूलफलप्रदूषितोऽभ्यासं न योगस्य कदापि कुर्य्यात्। कार्य्यातिसक्तौ रतिकार्य्यतत्परो नानेकरोगाधियुतो जनान्ते। रथ्यान्तरे सिन्धुमरित्तटान्तरे चिरन्तने वेश्मनि चेत्यदेशे। योग विदध्यान्न कदापि साधकः सुदौमनस्यादि भवेत कृतेऽत्र। अनादृत्य यः साधको देशक लौ प्रयुञ्जीत योग हि दाषास्तु तस्य। प्रकुप्यन्ति देहेऽन्तराया इवोच्चैजड त्व न्धमूकत्वबाधिर्य्यमुख्याः। स्मृतिलया जडता च विमूकता वधिरतान्धमहादहनज्वराः। कुविषयेऽसमये परियुञ्जता वपुषि योगममी नव दोषकाः” हठस०।
वर्ज्यमा० सदोषाः “कामोभय स्वप्नमतीव लोभः प्राग् योगदोषानतिकोपयुक्तान्। विहाय युक्तः सुसमाहितात्या युञ्जीत योगं मनसा स्थिरेण” हठस०।
तद्दोषजयोपायाः “निद्रां सत्त्वनिषेवणेन दलयेद्धृत्या च शिश्नोदरे रक्षेद् दोश्चरणौ दृशा श्रुतिदृशौ चित्तेन चेतो गिरौ। रक्षेत् सद्विधिना प्रमादत इतस्त्रासं तुदंस्तं धिया सङ्कल्पस्य जयेन काममिति वै ज्ञो योगदोषान् जयेत्” हठसं०। वर्ज्यसेव्ये = “अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः। जनसङ्गश्च लौल्यञ्च षडभिर्योगो विनश्यति। “उत्साहान्निश्चयाद्धैर्य्यात् तत्त्वज्ञानाच्च निश्चलात्। जनसङ्गपरित्यागात् षङ्मिर्योनश्च सिध्यति। अहिम। सत्यमस्तेयं ब्रह्मचर्य्यं क्षमा धृतिः। दयार्जवमिताहाराः शौचं चैव यमा दश। तसःसन्तोभ कास्तिक्यं दानिमांश्वरपूज- नम्। सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च तपोहुतम् हठप्र०।
आहारः “आहारशुद्धौ सत्त्वशुद्धिरिति श्रुतेः मिताहारस्य योगाङ्गत्वाच्च योगाङ्गाहारो यथा “न जीवनं देहधृतिश्च जन्मिनामृतेऽन्नपानं न मलैर्विना बलम्। योगे तदर्थं मलजिद्वलप्रदं भक्ताज्यदुग्धं मितमत्र सेवयेत्। न कन्दमूचानि गुरूणि शीतोष्णान्यत्र पानानि बलप्रदानि। सत्त्रप्रदायुर्बलतृप्तिदानि पूतानि च त्रीणि हितानि योगे। हठप्रदीपिकादिभिः सुपथ्यवर्ग ईरितः। सुताडिशोधनादनु भजेन्नतं पुरा शुभम्” हठम०। स च वर्गो यथा “गोधूमशालियवषष्टिकशोभनान्नं क्षोराज्यखण्डनवनीतसितामधूनि। शुण्ठीपटोलफलकानि च पञ्चशाकं मुद्गादि चाल्पमुदर्क च मुनीन्द्रपथ्यम्। क्षीरपर्णी च जैवन्ती मत्स्याक्षी च पुनर्नवा। मेघनादी च पञ्चैते शाकवर्गः प्रकीर्त्तितः। मिष्टं सुमधुरं स्निग्धं पथ्यं धातुप्रपोषणम्। मनोऽभिलषितं योग्यं योगीभीजनमाचरेत्” मुख्यं घृतं क्षीरमिति द्वयं स्यात् नाडीविशुद्धावथ मूलबन्धे। ओजो बलं तृप्तिमतीव धत्ते सत्त्वन्नतोऽन्तःस्थितनाडिशुद्धिः” हठमः। “कन्दं च शाकादिकमूलभव्यं विहाय दध्यम्लतषायतिक्तम्। घृतौ दनक्षीरमपूरितोदरं यमी च गोधूमविकारमाश्रयेत्” हठच०। ग्रन्थान्तरे “पीत्वा क्षीरं पयोमिश्रं योगी वलमवाप्नुयात्। सितांशयुक् च पक्वं च हितं क्षीरं न केवलम्। गोघृते च हविष्यान्नं भुक्त्व भ्यासं समा चरेत्। एवं वाढं भजेदत्राष्टमेऽह्नि मलशोधनम्।
निकृष्टभक्ष्यवर्गः “सस्नेह ईषत्तुवरीजमूपः क्वाथी भृगं सुक्वथिता ह्य० म्ला। जीरोषधाद्याऽलवणा हिताल्पा हविष्यभुक्तं यतिनिस्वपथ्यम्। आवश्यके सैन्धवमल्पमुक्तं सदार्द्रकं केऽपि वदन्ति भक्ते। स्याल्लाजसक्तुः ससिताज्यदुग्धं पयोऽथ वा केवलमग्निपक्वम्” हठस०।
वर्ज्याहारः “स्निग्धं भृशं वाऽभृशमेव रूक्षं क्षीरप्रभूतान्न मिहोत्सृजेद्यः। दध्ना च तक्रेण रुजाकृदन्नमन्नं च भूर्य्याज्यमपथ्यमुक्तम्। पुंस्त्वापहाः स्युश्चणका अपथ्या माषाश्च बल्या कफपित्तदोः। सितातियोगः कृमिकृत्तु नेष्टो गुड विकारो सह फाणितेन। अत्यल्पमिष्टाशनतो न योगः स्यात् साधकस्याल्पबलस्य नूनम्। योगानुगुण्येन ततोऽन्नजग्धिर्मतोदितानाल्पतरा न भूरिः” हठस० “कङ्कम्लतीक्ष्णलवणोणहरिच्च शाकं सौवीरतैलतिलसर्षपमत्स्यमद्यम्। आजाविमांसदधितक्रकुलत्थकोल- पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः। भोजनमहितं विद्यात् पुनरुष्णीकृतं तथा रूक्षम्। अतिलवणादिकयुक्तं कदशनशाकोत्कटं वर्ज्यम्” हठप्र०।
वर्ज्यानि “वर्जयेद्दुर्जनप्रीतिं वह्निस्त्रीपथसेवनम्। प्रातः स्नानोपवासादिकायक्लेशादिकं तथा” हठप्र०। “मद्यं गर्भान्नपानं सुतनुरतिगृहारामपाण्डित्यवेदशास्त्रालोकः सुगीतं सततमतिकलं हेमरूप्याम्बराणि। नृत्यं राज्ये च सङ्गः कुसुममलयजे सम्पदः स्फीतिशोर्य्ये ताम्बूलं चेति सर्वं विषयसुखमथासष्मिकं यत्त्यजेत्तत्। नित्यस्नानार्च्चा व्रतं शौचसक्तिर्ध्यानं ध्येयं मन्त्रजाप्यं च दानम्। गेहारामाद्यास्तथा कल्पना वै धर्मा एते थोगविघ्नः प्रदिष्टाः” हठस०।
आहारमानम् “स्याच्छालिमुद्गादिकमुष्टिकद्वयं प्राक् प्राणपूर्णोदरकेऽशनस्य। ह्रासो विधेयो ह्यनु साघकेन दुग्धाद्यभावे क्रमकुम्भवृद्ध्या” हठस०। अत्र ह्रासक्रमेण स्वल्पाहारः प्राणायामे विधेयः। यथीक्तं सनातनसिद्धान्ते “अभावे शालिमुद्गादिभोजनं मुष्टिकद्वयम्। ततो ह्रासः शनैः कुर्य्यात् प्राणे पूर्णे तथोदरे” अस्यार्थः अभावे घृतदुग्धयोरभावे मितभोजने कुम्भकवृद्धिक्रमानुरूपः मन्दमन्दमशनह्रास उचितः। न हि प्रथममभ्यासे यथा यथा कुम्भकवृद्धिर्भवति तथा तथा कुम्भकपूर्णोदरत्वात् कुम्भजाग्निना क्रमजितवायुवेगतया जिताग्निर्भवति तथा तथाऽशनह्रासः। साधकस्य योगानुसारेणानुकूलः आरोग्यवीजमुत्साहपलौजःप्रमृतिकरश्च भवति न प्रथमम्” हठस०। ग्रन्थ न्तरे “आहारं क्षपयेद्योगी कृष्णपक्षे कलाक्रमात्। शुक्लपक्षे यथा चन्द्रस्तथा कुर्म्भोऽप्य वर्द्धते”। योगसारसमुच्चये। “तनौ येन केनाप्युपायेन पितं सदाभ्यासिना पालनीयं प्रयत्नात्। विशुद्धो हि यश्चित्तसंद्योत एषः शुभो ज्ञानवह्निस्वरूपः प्रकाशी। सूर्य्यप्रवेशे पवनेऽशनं सच्चन्द्रप्रवेशे शयनाम्बुवानम्। इत्यादि चान्यत् स्वधिया विचार्य्य पथ्यानि योगाभ्यसने हितानि”।
योगनिषेधावस्थादि “मलाः सद्रवाः पूतिगन्धाश्च किञ्चित् सरुक् चोदरे गौरवं चालसत्वम्। यदैतद्भवेद् विग्रहे साधवेन तदा प्राणरोधोऽह्नि तस्मिन्न कार्य्यः” हठस०।
योगारम्भकालः “अन्तर्हृताः सान्द्रतमा विशुष्का अपद्रवाः पक्वमलादयोऽपि। अभ्यामिनां प्राणनिरोध एष तदा विधेयः। शुभयोगसिद्धिदः” हठस०।
नित्यकर्त्तव्याकर्त्तव्ये। “नं लालयेन्नो करणं निपीडयेत् भृशं मिताशी मितनिद्रणोक्तिः। प्रातःशिरःस्नानमथो न रोचयेदारूढयोगोऽपि कदापि योगी। आवश्यके तूष्णजलैर्विधेयं स्नानं न कार्य्यं हिमवारिणा तत्। स्नानं प्रगेऽनिष्टमिदन्तु कण्ठस्नानं स्मृतं ज्ञैरिह मध्यमेऽह्नि। व्य याममात्रपरुषं भृशशैत्यदेशमत्यम्बुपानमतिबिभ्रमणंथैव। निद्रां दिवा निशि च जागरणं च चिन्तां क्लेशावहं यदखिलं तदिहापि जह्यात्। यत् स्वस्यान्यस्य दुःखावहमपि न भजेत् तद्गिरा मानसेन कायेनापीषदग्ने र्नहि न हि वनितायाश्च सेवां विदध्यात्। हिंसां द्वेषं तथाहङ्कृतिमशनमति प्राणिपीडां वियोगं भिन्नाभिन्नत्वबुद्धिं ह्यनशनमसतां सङ्गतिं संत्यजेच्च। आयाममभ्यस्य ततोऽङ्गमर्दनं कुर्य्याद् वरिष्ठोत्तरसाधकस्य। स्यादङ्गमर्देन तथा मृदुत्वं वायोर्जयो देहह्रदोः समाप्तिः। पानाशने कर्म सुखावहं यद्योगस्य विघ्नो न हि तेन किञ्चित्। सेव्यं तदेकं परमार्य्यवव्यैर्हेयं मनःक्लेशकरं रुजाकृत्। अभ्यासिना भूमिगृहे मठे वा न तैलदीपः प्रविधेय ईक्षणे। अस्मिन् ज्वलत्येत्य सुकुम्भितो द्राक् प्राणो विमार्गं द्रवतीत्यमुं त्यजेत्”। अतो योगमठे घृतदीप एवोप युज्यते” हठम०। “उत्थाय ब्राह्मणाले रहसि च परितः साधकः प्राणरोधस्याभ्यासं प्रातरङ्कै ६ र्मितघटिकमथो पीठमुद्रादि कुर्य्यात्। आयामं चानु सार्द्धप्रहरयुगलकान्तं ततः पथ्यमल्पं भुञ्जीयादम्लतीक्ष्णोषणलवणविदाह्युज्झितं चाज्यदुग्धम्। प्राणायाममथाचरेत् प्रथमके यामे निशः साधको यामैकं शयनं भजेदनुकृती प्राणावरोधं श्रयेत्। शौचाद्यं घटशोधनादिकमथो यामे निशायां श्रयेत्तुर्य्ये नाडिविशोधनं त्वतिदृढोऽभ्यासस्तु षाण्मासकः। मध्ये मध्ये चित्तविश्रान्तिहेतोः साम्बं शश्वत् संभजेदासनज्ञः। अभ्यासान्तेऽभ्यासिना स्वल्पमल्पं संभोक्तव्यं भूरिवारं सुरुच्यम्। मध्ये मध्ये चारणं मेरु चालमभ्यास्यादौ संभजेताविशङ्कः। सर्वाङ्गीणा नाडिका दोषपूर्णा आभ्यां मृद्व्यः स्युर्मरुन्मध्यमास्ताः” हठस०। आभ्यां चारणमेरुचालनाभ्यां दोषा दुष्टान्नरसमलाः)
गजकरणी “दृढं त्राटकाभ्यासतः कूर्मवायोर्जये मूलबन्धे। चापानसिद्धिः। जये स्यादुदानस्य जालन्धरेण समानस्य चलेन च प्राणवायोः। धते गजकरण्येषा समानोदानयोर्जयम्। पक्वामाशयगाजीर्णनाहाद्यखिलशोधिनी। कोष्ठहृत्कण्ठसंवृद्धामपित्तकफबाधनी। श्वासं बलं हृत्प्र सादं वह्निदीप्तिं समुद्यमम्। धत्ते लाघवमङ्गेषु प्राणस्य सुखवाहिताम्। हृतकण्ठकोष्ठसंशुद्धा शूलाजीर्णादिरोगहृन्। हन्ति गजकरण्येषा नाभेरूर्ध्वमधोमलान्। पक्वापक्वान् रोगहेतून् बहिः प्रक्षाल्य पातयेत्। कोष्ठगुदादागलान्तं गलान्तं क्षालयेत् भृशम्। आभ्यां विशुद्धकोष्ठो यः सप्राणापानयोर्गतिम्। सूक्ष्मां देहसञ्चरितां लूतिकागतिवत्सुधीः वेत्तीषिकासमां चित्ते कोष्ठान्तः परिसर्पतोः। नाडीसञ्चारविज्ञानमनयोः सकलं यथा। जानाति साधकः शुद्धो नाडीसंस्थानसंविदम्। (एवं धौत्यामपि नाभ्यूर्द्धमङ्गं ज्ञेयम्) “महाचक्रमादौ विरुध्यानु सम्यग् भजेद्बन्धमुद्रामथो स्वेचरीं च। ततो वारिपानं प्रकुर्य्यात् सुधांशोः सुधां साधुपेयां प्रयागे प्लुतिञ्च। विना ग्रन्थिभेदं विना चक्रभेदं विना ब्रह्मरन्ध्रप्रवेशं जितस्य। खगस्यात्मना कायसिद्धिं विनास्ते न सिद्धिर्न योगो न शून्यत्वलाभः” हठस०।
आसनफलम् “संप्राप्तवीजभावो यमनियमाभ्यामयं योगः। प्राणायामासनकैरङ्कुरवान् साधकस्य भवेत्। स्यादासने स्थैर्य्यमरोगिताङ्गे सुलाघवं दुःखसुखोष्णशीतैः। द्वन्द्वैजितेऽस्मिन्नभिभूयते नाऽनन्ते समापत्तिरतो यमाभ्याम्। साधनत्रयमिदं मरुज्जये प्रोदितं प्रमितजग्धिरिष्टदा। शक्तिचालमथ साधनद्वयम् नाभिवायुधृतिनाडिचालनम्”। नियमैश्च यमैर्विषाणि रोगाः प्रविनश्यन्ति सुसंयतस्य पीठैः। चिरकालपदान्तरा असाध्याः यमिनः साधुजितासनस्य पुंस” हठस०। (यमाभ्यां यमनियमाभ्याम्)
ककुटासनम् “संस्थाप्य पद्मासनमत्र सम्यक् करौ तु जानूरुयुगान्तरे दृढम्। निवेश्य संस्थाप्य तले धरायां व्योमस्थ उक्तं त्विति कुक्कुटासनम्” हठस०।
उत्तानकूर्मकम् “कुक्कुटासनवन्धस्थो दोर्भ्यां संबध्य कन्धरे। भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम्” हठप्र०।
धनुरासनम् “पादाङ्गुष्ठौ पाणियुग्मेन धृत्वा कर्णावध्याकर्षयेत् स्वस्य शश्वत्। कुर्य्याच्चापाकर्षणं प्रोक्तमेतदालस्यघ्नं दोषजिन्नाडिशुद्ध्यै” हठस०।
मत्स्येन्द्रासनम् “वामोरुमूलार्पितदक्षपादं जान्वोर्वहिर्वेष्टितवामदोष्णा। प्रगृह्य तिष्ठेत् परिवर्त्तिताङ्गो मत्स्येन्द्रनाम्नोदितमासनं स्यात्। मत्स्येन्द्रपीठे जठरं प्रदीप्तं प्रचण्डरुग्मण्डलखण्डनाच्च। अभ्यासतः कुण्डलिनी प्रवोधं दत्ते स्थिरत्वं हि ददाति पुंसाम्” हठस०।
पश्चिमतानासनम् “प्रसार्य्य पादौ भुवि दण्डरूपौ दोर्भ्यां च पादद्वितयं गृहीत्वा। जानूपरि न्यस्तललाटदेशोऽभ्यसेदिदं पश्चिमतानमाहुः। इति पश्चिमतानमासनाख्यं पवनं पश्चिमवाहिनं कराति। उदयं जठरानलस्य कुर्य्यात् उदरे कार्श्यमरोगतां च पुंसाम्” हठप्र०।
मयूरासनम् “धरामवष्टभ्य करद्वयेन तत्कूर्परे स्थापितनाभिपार्श्वे। उच्चासने दण्डवदुत्थितस्य मयूरमेतत् प्रवदन्ति पीठम्। हरति सकलरोगानाशु गुल्मोदरादीनभिभवति च दोषानासनं वै मयूरम्। बहुकदशनभुक्तं भस्म कुर्य्यादशेषं जनयति जटराग्निं जारयेत् कालकूटम्” हठप्र०।
शवासनम् “उत्तानशववद्भूमौ शयनं तु शवासनम्। शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्” हठप०।
सिंहसनम् “गुल्फौ च वृषणस्याधः सीवन्याःपार्श्वयोः क्षिपेत्। दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके। हस्तौ तु जानुनोः स्थाप्य स्वाङ्गुलीं संप्रसार्य्य च। व्यात्तवक्त्रो निरीक्षेत नासाग्रे न्यस्तलोचनः। सिंहासनं भवेदेतत् पूजितं योगिभिः सदा। बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम्” हठप्र०।
भद्रासनम आसनशब्दे ८८६ पृ० दृश्यम् तत्फलम् “भद्रं कफक्लेशसमीरहारि” हठस०।
कूर्मासनम् “गुल्फद्वयेनापरिपीड्य पायुं जानुद्वयं भूमितले निधाय। कूर्मासनं स्यादिति योगिवर्य्यैरशोतिवाता मयहारि चोक्तम्” हठस०।
बल्लर्य्यासंनम् “स्थित्वा समं सरसिजे कृतवङ्क्षणोर्वोरङ्घ्र्यो रधःस्थकरकूर्परकौ विधाय। वद्धोर्द्धषाणितलयुग्म तदुत्तमाङ्गम्प्रशांङ्गुलस्य कलयेदुपरि प्रकामम्। उत्तान एव चिवकं हृदयेऽर्प्य तिष्ठेत् कुर्वन् समीरणनिरोधनमेकचित्तः। काये यदोदर उदेति च भूरिदाहोऽधोवायुनिःसृतिरुदेति तदा क्रमेण। संमोचनीयमिदमासनमार्य्यधीभिर्मन्दं विनाशयति घोरतरज्वरार्त्तिम्। सन्दीपने हुतवहस्य च वल्लरीति संज्ञं प्रभुक्तपरिपाचनमासनं स्यात्” हठ स०।
वृश्चिकामनम् “धरामवष्टभ्य करद्वयेनोरः पार्श्वयोः स्थापितत् स्थकूर्परः। वृश्चीव पुच्छप्रतिमाङ्घ्रिपार्ष्णी धृत्वाऽप्य शीर्षे चिवुकं विधार्य। यत्रेति सन्तिष्ठति साधकस्तत् विषापहं वृश्चिकसंज्ञमासनम्” हठस०।
मूलवन्धासनम् “वामाङ्घ्रिपार्ष्ण्यग्र तदुच्चकैर्गुदाननान्तरं भूर निपोह्य साधकः। व्यस्तं विधायाग्रपदं सुगुल्फतोऽधो दक्षपाद लघु वामजानुनि। विन्यस्य बद्ध्वा गलकेऽनुजालन्धरं समं स्थापितसर्वगात्रः। महाश्मवत्स्थाणुरनन्यचेता भ्रूमध्यदृग् दोर्युगसधृतोरुः। इदं मूलबन्धासनं योगसिद्धिप्रदं दीपनं जाठराग्नेरतीव। ध्रुवं शक्तिसन्दीपनं मूत्रवर्चाजिदर्शोग्रहण्यामयानां विनाशि। समवाहनमाशु मारुतस्य विदधात्यूर्द्धगतिं जयं च सिद्धीः। विहिते किल विष्टरेऽत्र पायौ महती वह्निशिखा सदोपयाति। भुजगी परिजागराद्यवस्था विबुधैरूर्ध्वगतिस्त्वपानवायोः” हठस०।
गोमुखासनम् “सव्ये कृत्वा दक्षगुल्फं तु पूर्वं पार्श्वे यत्र स्थाप्यते सन्निवेश्य। दत्त्वा वामं गुल्फलं पृष्ठपार्श्वे तत् पीठं स्यात् गोमुखं गोमुखाभम्। अपानसिद्धिं विदधाति मूलबन्धान्निहन्त्येव भगन्दरार्शः। धौत्याश्च नौलेर्वितनोति सिद्धिं सुसाधकस्यामनमेतदग्र्यम्” हठम०।
कुब्जिकासनम् “किञ्चित् तिर्य्यक् साम्यमास्थाप्य जानुमूर्द्ध्वं धृत्वा संपरावर्त्तितेन। कृत्वा मूले पादमाधाय तिष्ठेदेतत् पीठं कुब्जिकं वह्निकारि” हठस०।
पार्श्वोपधानासनम् “समानभूमौ शयनं विधायोत्तानौ करौ पार्श्वयुगान्तराले। पृष्ठे मिथः साधु निबध्य यत्र पार्श्वोपधानासनमुक्तमुत्तमैः” हठस०।
उत्कटासनम् “युजा स्फिचोः स्थीयत ऊर्द्धजानुर्यत्रासने पादतलद्वयोपरि। स्फिग्भ्यां मनागुत्कटकं धरित्रीमस्पृश्य पीठं स्मृतमुत्कटाख्यम्” हठस०।
पद्मासनम् “वामोरूपरि दक्षणं च चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्। अङ्गुष्ठौ, हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधिविनाशकारि यमिनां पद्मासनं प्राच्यते” हठस०।
प्राणायामाङ्गपद्मासनम् “उत्तानौ चरणौ विधाय विविवत् सक्थिस्थितौ योगिर डुत्तानौ स्वकरौ विधाय च मिथो जङ्घे समाकृष्य च। नासाग्रे दृशमाविधाय चिवुक चात्तभ्य वक्ष स्थलं मूले साधु सरज्ञयाऽभिकलयेदेतत् सरोजस्य सत्। अपानमुत्थाप्य शनैः स्वशक्तितः प्राणं समाकृष्य च कुम्भकं चरेत्। धृत्वा यथ शक्त्यनुरेचये च्छनैर्वायुं गदघ्नं स्मृतमम्बुजासनम्। समस्तदाषज्वरदाहमाहपित्तामयष्न सकलं सुखावहम्। प्राणः समोऽस्मिंश्चसति क्षणेन मुनेरनुष्ठानविधौ सरोरुष्ठे” हठम०।
करसंपुटपद्मासनम् “कृत्वा संपुटितौ करौ दृढतरं यद्ध्वा तु पद्मासनम् गाद वक्षसि संविधाय चिवुक ध्यानश्च तच्चेतसि। वारंवारमपानमूर्द्ध्वमनिलं प्रोच्चालयन् पूरयन् मुञ्चन् प्राणमुपैति रोधमतुलं शक्तिप्रभावादतः” हठयोगः।
सिद्धासनम् “योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा ध्रुवं विन्यमेन्मेढ्रे पादमथैकमेव हृदये धृत्वा समं विग्रहम्। स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् भ्रुवोरन्तरं चैतन्मोक्षकपाटभेदजनकं सिद्धासनं पोच्यते” पवनयोगसं०।
वीरासनभद्रासनस्वस्तिकासनानि आसनशब्दे ८८६ पृ० दृश्यानि
सुखासनम् “येन केन प्रकारेण सुखं स्थैर्य्यं च जायते। तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत्” सूतसंहिता। इदमेव “स्थिरसुखसामनमिति” पात० लक्षितम्।
षट्कर्मोपक्रमः “अथासने दृढो योगी वशी हितमिताशनः। गुरूपदेशमार्गेण प्राणायामं समभ्यसेत्। यावद्धायुः स्थितो देहे तावज्जीवितमुच्यते। मरणं तस्य निष्क्रान्तिस्तस्मात् वायुं निरोधयेत्। चले वाते चलं चित्तं निश्चले नि श्चलं तथा। योगी स्थाणुत्वमाप्नोति ततो वायुं निरो धयेत्। मलाकुलाषु नाडीषु मारुतो नैव मध्यगः। कथं स्यादुन्मनीभावः कर्मसिद्धिः कथं भवेत्। शुद्धिमेति यदा सर्वं नाडीचक्रमनाकुलम्। तदैव जायते योगी प्राणसंग्रहणे क्षमः” इत्युपक्रमे “यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः। कायस्य कृशता कान्तिस्तथा जयेत निश्चितम्। यथेष्टं धारणं वायोरनलस्य च दीपनम्। नाडीभिर्व्यक्तिरारेग्यं जायते नाडिशोधनात्। मेदश्लेष्मादिनाशार्थं षट्कर्माणि समाचरेत्। अन्यथा नाचरेत्तानि दोषाणां समभावतः। धौती वस्ती तथा नेती त्राटकं मौलिकं तथा। कपालभाती चैतानि षट्कर्माणि प्रचक्षते। कर्मषट्कमिदं गोप्यं घटशोधनकारकम्। विचित्रगुणसन्धायि पूज्यते योगि पुङ्गवैः” हठप्र०।
धौती “चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम्। गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत्। पुनः प्रत्याहरेच्चैत दभ्यासाङ्गेतिकर्मवित्। कासश्वासप्लीहकुष्ठं कफरागाश्च विंशतिः। धौतीकर्मपभावेण शुध्यन्त्येव न संशयः” हठप्र० “विंशद्दोःप्रमितं च पञ्चदशदोर्मानं च विस्तारतश्चत्वार्य्यरङ्गलविस्तृतं सुमृदुलं सिक्तं सुवस्त्रं तनु। स्थित्वा गोमुखविष्टरे सुशनकैरेतत् ग्रसेत् साधको मन्दं चानु विनिर्हरेत् कफगदश्वामेषु धौती हिता” हठस०।
वस्ती “नाभिदध्ने जले पायुन्यस्तनालोत्कटासनः। आधारात् कुञ्चनं कुर्य्यादपानं वस्तिकर्मविद्। गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवम्। वस्तिकर्मप्रभावेण क्षोयन्ते सकलामयाः। धात्विन्द्रियान्तःकरणप्रसादं दद्याच्च कान्तिं दहनप्रदीप्तिम्। अशेषदाषोपचयं हि हन्यात् अभ्यस्यमानं जलवस्तिकर्म” हठप्र०। “जलं पायुविन्यस्तनालस्य मार्गात् जले नाभिदघे समाकृष्य चोर्द्ध्वम्। चलत्युत्कटे विष्टरेऽपानकोषात् जलं याति तुन्देऽम्बुना वस्तिकर्म” (नालं वंशादिसूक्ष्मस्निग्धनालिका)। आदावुत्कटविष्टरे परिगतः प्रोत्थाप्य सम्यग्नलं पायुद्वारविकाशकोचविधिना वायूर्द्धमाकर्षयेत। आपूर्य्यं दृतिवत्त तुन्दमभितो नौल्या प्रचाल्यानिलं कृत्वाऽधोमलमुत्सृजेत् समकिलं योगी बहिःकोष्ठगम्। अत्र वस्तिकर्मणि गोमुखमेव प्रशस्तमनुभूतमिति सङ्केतः। अत्र सर्वकोष्ठमलानां कोष्ठक्षालनपूर्वकद्रवत्वेन बहिःकृतिर्यथा भवति। तदुपायसङ्केतेन वस्तिकर्मकर्त्तव्यम्। पूर्वोक्तविधिना गोमुखे चोत्कटासने स्थित्वाऽपानद्वारोर्ध्वमन्तर्जलं किञ्चिद्गृहीत्। तदूर्ध्वं स्वस्तिकासने स्थित्वा समाकृष्य नामेरूपरि हृदयान्तं कर्त्तव्यम्। पुनरुत्कटासनेन जलं गृहीत्वा प्राग्वन्नाभौ विधेयं स्वस्तिकेनं स्थेयं विधेयम्। एवं वस्तौ स्वस्तिकेन चैयं सर्वं कोष्ठं जलपूणं कृत्वाऽभितः कोष्ठं बिभ्राम्यान्त्रसन्धिगतमन्त्रादिलीनपक्वापक्वसद्रवघनमलादि द्रवीकृत्य पश्चाद्बहिस्तज्जलं कुर्य्यात् क्रमेण न त्वरयेत्। तदाऽनेन विधिना कोष्ठः प्रक्षालितवस्त्रबद्धोऽपास्तदोषो भवति हठस०।
नेती “सूत्रं विस्तस्ति सुस्निग्धं नासानाले प्रवेशयेत्। मुखान्निर्गमयेत् सा हि नेतो सिद्धैर्निगद्यते। कपालशोधनी कार्य्या दिव्यदृष्टिप्रदायिनी। जत्रूर्द्ध्वजातरोगौघं नेतिराशु निहन्ति च” हठप्र०। “आखुपुच्छसदृशं सुनिर्मलं षड्बितस्तिमितसूत्रमरूक्षम्। संप्रवेश्य लघु नासिकाबिले वक्त्रतो रहसि निर्गमयेच्च तत्। नेतीति कर्मोदितमेतदार्य्यैर्जत्रूर्ध्वजाताखिलरोगहारि। कपालसंशोधनकारि कार्य्यं द्विवारकं दिव्यदृशञ्च धत्ते हठस०
त्राटकम् “निरीक्षेत् निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः। अश्रुसंपातपर्य्यन्तमाचार्य्यैस्त्राटकं स्मृतम्। स्फोटनं नेत्ररोगाणां तन्द्रादीनां कपाटकम्। प्रयत्नात् त्राटकं गोप्यं यथा हाटकपेटकम्” हठप्र०। अस्य फलान्तरं हठस० उक्तं यथा “सिद्धेऽस्मिन् नासिकाग्रेक्षणहततनुरुक्क्लेशवान् साधकः स्याद् भ्रूमध्यं च क्रमेणाकलयति सतताभ्यासतः खेचरीञ्च। दिव्यां दृष्टिञ्च धत्ते जनयति यमिनो योगविष्पत्तिसिद्धिं मूर्ध्वस्थम्भोरुहे वै पवनहृददयोरक्रमेणानुलोम्यम्” प्रकारान्तरं यथा “प्रातः समुत्थाय सुखासने गतः समभ्यसेत् त्राटकमेक एव। प्रसार्थ्य दृष्टिं ननु लक्ष्यमीक्षेत् समुज्ज्वलं तत् रहसीतचिन्तः। अभ्यासतोऽस्मात् स्थिरतां समश्नुतः समीरनेत्रे इति लक्ष्यदीक्षा। विधाय किञ्चित समये विलोचने संमुद्र्य पश्चात् झटिति प्रमार्य्य। पश्येत् परोनिश्चलमेकधीः खं पश्येत्तु यावत् पुरतोऽर्कृविम्बम। समभ्यसेत्तावदिमां क्रियां चेत् सुनिर्मला दृष्टिरनेन वै स्यात्” हठस०।
नौलीकर्म तच्च द्विविधं बाह्यमान्तरं च तत्र बाह्यं यथा “सव्यापसव्यं लघु नालिकाभिर्व्यावर्त्त्य वेगैः कृतदोर्युगः कौ। कृत्वा भ्रमंस्वस्तिक आनतांसस्तुन्दस्थनालोत्थितिमेवमीहेत” हठस०। “अमन्दामन्दवेगेन तुन्दं सव्यापसव्ययोः। शतशो भ्रामयेदेष नौलीयोगः प्रचक्ष्यते। मन्दाग्निसन्दीपनपाचकाग्निसन्घानमानन्दकरी सदैव। अशेषदोषामयशोषणी च हठक्रियाऽसौ जयतीह नीली” हठप्र०। आभ्यन्तरमुक्तं हठरत्नावल्यां यथा “इडयावर्त्त्य वेगेन तथा पिङ्गलया पुनः। उभाभ्यां भ्रामयेदेषा ह्यान्तरा कीर्त्तिता मया”।
कपालभाती “लोहकारस्य भस्त्रावत् कुर्य्यात् सव्यापसव्यतः। कपालभाती विख्याता कफामयविशोधिनी” हठप्र०। “सल्लोहकारधमनीव च संप्रपूर्य्यैकं नासिकापुटमरं सुविरेचयच्च। योगी द्विवीयमिति भस्त्रिकयेव शश्वत् सव्यापसव्यचरिचालनमत्र कार्य्यम्” हठस०।
चक्रांकर्म “सुस्निग्धं मसृणेन वा सुहविषा मध्याङ्गुलीयुग्मकं सार्द्रं लूनं खं प्रसार्य्य शनकैः वायुं हृदन्ते क्रियात्। ऊर्ध्वं सर्वमिहाभितोऽत्र नलकाद्यं भ्रामयेदन्तरे यावत् पायुविकाश उद्भवति संप्रोक्तेति चक्री बुधैः। कृत्वेति चक्रीविधिमादरेण प्रक्षालयेत्तद्विषयं ततो दृढम्। आमादिदोषान्तमिति प्रकुर्य्यात् यथा गुदास्यं श्लथविश्लथं भवेत्। तथाङ्गुलीनां त्रिचतुःक्रमेण संभ्रामयेत् पायुविकाशनावधि। नलान्त्रगाढावृतिदुर्मलान्तः स्यान्मूलचक्रस्य विकाशनं च हठस०। “पायुवक्त्रं प्रसार्य्यान्तरङ्गुल्यौ भ्रामयेत् भृशम्। यावद् गुदविकाशः म्यात् चक्रीकर्म निगद्यते। शूलव्याधिर्गुल्मरोगो नश्यत्यत्र न संशयः। मलशुद्धिर्दीपनं च जायते चक्रिकर्मणि” हठरत्नाबली।
गिलिकर्म “यद्घण्टिकामस्तकयोः पिधानमथो ललन्ती कथितोपजिह्वा। तदग्रकं तर्जनीमध्यमाभ्यां संमन्थयेद् ज्ञो मुहुराकलय्य। गिलीति कर्मोदितमार्य्यवर्य्यैः सन्धिप्रलीनामकफैघहारिं हठम०।
गजकरणीकर्म “उदरगतपदार्थानुद्वमेदेव नित्यं पवनगमनमार्गात्कण्ठनालप्रवेशात्। क्रमपरिचयवश्यो वायुमार्गो भवेद्वै गजकरणमितीव प्राहुरार्यांहठज्ञाः। (अपानवायोरूर्द्ध्वकरणात्। पवनोर्द्धकरणेनवा। पाय्वाकर्षणेन यद्भक्षितं वस्तु तदुद्वमेत्। कण्ठनालप्रवेशात्। कण्ठे नालस्य प्रवेश एरण्डनालस्य प्रवेशस्तस्मात्। तदा क्रमपरिचयक्रमेण वस्तुपरिचयः स्यादित्यर्थः) हठस०। “प्राक् स्थित्वोत्कटविष्टरे समतनुर्नौल्यानलोत्थापनं कृत्वाऽपानमनूर्ध्वमीरणपथा गल्यीं विधायोद्वमेत्। यत् प्राग्भक्षितमन्नपानमथ वा नालप्रवेशाद्गले तत् पश्चःदशितं वमेदनुविधिः प्रोक्तो हठज्ञैरिह। आसने गोमुखे स्थित्वा कृत्वा भूमौ करौ दृढम्। नम्र ऊर्ध्वं वायुकृष्टिं नालादुत्थाप्य चाचरेत्। वक्त्राग्रमेवं विहिते दोषोभक्षितसंयुतः। एवं गजकरण्युक्ता भक्षितोद्वमनक्रियेति”। वायुकृष्टिम् अपानेन सह प्राणस्य प्रकाममूर्ध्वाकर्षणम्। नालोत्थानसमकालं कुर्य्यादिति भावः। अस्यार्थः उत्कटे आसने स्थित्वा बाहुयुगलं बद्धमुष्टिं जानुद्वयोपरि सस्थाप्यानु नम्राधोमुखः आनम्रकटिपृष्ठ आस्मिताङ्गोनालत्थानं कृत्वाऽनु पश्चाद्वायुमूर्ध्वं विधाय सोदरवेगैरशितमुद्वमेत। यदि कदाचिन्नोर्ध्वमशित याति तदात्थायानमूकटिपृष्ठो जानुद्वयं तिष्ठन् दोर्भ्या धृत्वा प्राग्वदुद्वमेत्” हठस०।
शङ्खप्रक्षालनम् “नास पुटेन सलिलं परिपीय वक्त्रमार्गेण तद्बहिरहो कलयेत् सुधीरः। पीत्वैककेन पुटकेन च नासिकाया वृन्येन वारि शनकैर्बहिरुद्वमेद्वा। शङ्ख प्रक्षालनमिदं कफपित्तहरं परम्” हठस०।
वायुसाधनम “इदानीं क्लेशहानार्थं कर्त्तव्यं वायुसाधनम्। येन संसारचक्रेऽस्मिन् रोगहीनो भवेद् ध्रुवम्”। शिवसंहिता “राजदन्तयुगलान्तमस्पृशन् सन्निधाय रसनां तदन्तिके द्विक (काक) चञ्चपुटमारुतं पिबेत् प्राणसंयमनमेतदुत्तमम्”। “जिह्वां कृत्वाऽनाकुलस्तालुमूले दन्तैर्दर्न्तान् गाढभापीड्य सद्यः। मन्दं मन्दं यः पिबद गन्घवाहं सोस्रौ। पूरैः साकमन्तः स्रवद्भिः” त्रिपुरा- सारसमुच्चये। एतदभ्यासप्रकारः “नलिकासदृशीं काकं विधाय पूरयेत् तया। श्वसनं कुम्भयेन्नाड्यं रेचयेत् काकचञ्चुकम्” कुम्भकपद्धतिः। “द्विक(काक) चञ्चुवदानेन वायुं परिपूर्य्यानु निरोधयेद्धि वायुम। रसनामुपरिध्रुवं विधायामृतधारां पिबतीह यः सुखी सः। अमुं रेचयेद् घ्राणान्ध्रद्वयेन स्मृता शीतली काकचञ्च्वाख्य एषः। मरुद्द्वन्द्वयोगप्रवीणोऽस्य मर्त्यो भवेदेव संसाधनात् मुक्तिभाग् द्राक्” कुम्भकपद्धतिः। आसने स्थिरीभूते प्राणामं कुर्य्यात् तत्प्रकारः प्राणायामगब्दे ४५१५ पृ० उक्तप्रायः अधिकमत्रोच्यते। “मात्राप्रमाणयुक्तात् प्राणायामोऽयमोङ्कारात्। सेव्यः प्राणापानावुर्ध्वमधः सन्निरूध्य यत्नेन। प्राणायामे पद्मपीठे स्वदक्षाङ्गुष्ठेनादौ सन्निरुध्येन्दुनाडीम्। वायुं नातिद्राक् शनैर्नातियुक्त्या व्याकृष्योर्ध्वं पूरयेत् स्वोदरान्ते। यथा स्वशक्त्या लघु धारयित्वा नाड्या ततः पिङ्गलया विरेचयेत्। निरोधहीनं विपतीतमध्यं हृदास्थिरेणाभ्यसनं मुनिश्चरेत्। येन त्यजेत् तेन निरोधहीनं धृत्वा पुरान्येन विरेचयेत् शनैः। यान्त्येवमभ्यासरतस्य पुंसः स्थितिं स्वलक्ष्ये चलचित्तवृत्तयः। यथाशक्त्यः कृष्य स्वाङ्गं पूरयेदुदरं शनैः। यथाशक्त्याधृत पश्चाद्रेचयेदविरोधतः”। हठयोगे “प्राणं चेडिकया पिवेन्नियमितं भूयोऽन्यया रेचयेत्। पीत्वा पिङ्गलया समीरणमथो बद्धा त्यजद्वामया। सूर्य्या चन्द्रमसोरनेन विधिनाऽभ्यासं समातन्वतां शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वंतः” हठस०। “तत्र भूतिशुद्धिप्राणायामं कृत्वा तदन्तेऽभ्यासार्थमुक्तसंख्यासहितकुम्भकयथाशक्तिप्रणवजपध्यानाभ्यां सार्द्धमांसत्रय कुक्षिस्थ शेषोपपातकपातकसहितपापपुरुषनिरासनद्वारा मनोबहनाडीगतमानसकामक्रीधादिमलशुद्धये यथोक्तपथ्येकान्तसेवापूर्वकं विधायानु शारीरनाडीगणशुद्धिः षण्मासं विधेया” हठस०। सनातनसिद्धान्ते “निरालम्बमनाभूत्वा प्राणायामं” समभ्यसेत्। शनैश्च शतपर्य्यन्तं श्चतुर्वारं समभ्यसेत्। प्रातःसायञ्च मध्याह्ने ह्यर्द्धरात्रौ विशेषतः। याममात्रं यदा पूर्णं भवेदभ्यामयोगतः। एकवारं प्रकुर्वीत तदा योगीन्द्रजृम्भ णम। षडत्रिंशच्च शतैकञ्च प्राणायामांश्च नित्यशः। “षण्मास भ्यन्तरेणैव शुद्धा नाडीगणास्तथा। ततो वृद्धिक्रमेणैव प्रणवेन च धीरधीः। गङ्क्यार्थ गुटिका कार्य्या मृण्मयो चातिशोभना। ततो नाडिगणः शुध्येत् वरं भवति लक्षणम्। चन्द्रं पियति सूर्य्येण सूर्य्यं चन्द्रुमवा पिबेत्। अयं हि कालाभाकेन जीवेदा चन्द्रतारकम्”। तदङ्गासनमुक्तं सनातनसिद्धान्ते “चतुरस्रं द्विहस्तञ्च उत्तुङ्गं चतुरङ्गुलम्। चेलोर्णद्दश चर्माद चासनं सर्वसौख्यदम्”।
नाडीशुद्धेस्तदङ्गता “नाडीविशुद्ध्यास्तसिरामलो यदा तदा समर्थोऽनिलधारणे चिरम्। स्यात् कोष्ठगर्त्तस्थमलोग्रकर्दमक्षयेऽग्निरिद्धः क्व तनौ रुजां जनिः। सिद्धापानादजग्रन्थिं भित्त्वोर्ध्वं सर्पताऽर्ग्निना। मुनेस्तदा प्राणयुतोहृद्यास्तेऽनाहतध्वनिः। नाडीमध्यमलक्षयेऽल्पशयनं मूत्रं विडस्तैनसः पुंसः स्वल्पमरोगता न कृमयो लाला न घर्मोरतिः। दुश्लेष्मानिलपित्तशान्तिरमलः कायो भवेत् सुन्दरस्तावत्कालमयं कुभाजनियमग्राह भजेदल्पभुक्। योगाराम्भाद्यङ्गमुक्तं हि नाडीशुद्धिर्देहे शीर्षमाद्यं यथाङ्गे। यावत् सिद्धैषा हठाङ्गं न मुख्यं तावद्योगः साधकस्य व्यलीकः। नाडीविशुद्वेर्मरुतो जय स्यात् जितेऽनिले याति मनः स्वयं क्षयम्। क्षीणे मनस्यस्तमितैहिकार्थे ज्ञानप्रकाशः स्वमुपैति निर्मले। पूते त्रिधानाडिविशुद्धितः स्यादारम्भकाले हठसिद्धिचिह्नम्। क्रमेण कम्पादिजिताऽनिलानुरूपं हि घर्मान्तरमभ्युदेति। सगर्भकायामविनिर्गतांहा मुनिस्तदारम्भ उदेति सिद्धिभूः। सन्नाडिशुद्धेः परिणाम एषः संप्याप्यते सद्गुरुणा विना नो” हठस०।
प्राणायामलक्षणं मार्कण्डेयपु० “शृणुष्व च महीपाल प्राणायामस्य लक्षणम्। युञ्जतश्च सदा योगं यादृग्विहितमासनम्। पद्मं सिद्धासनं वापि तथा स्वस्तिकमासनम्। आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि। समः समासनो भूत्वा संहृत्य चरणावुभौ। संवृतास्यस्तथेवोरू सम्यग्यिष्टभ्य चाग्रतः। संपश्यन्नासिकाग्रं स्वन्दिशश्चानबलोकयन्। इत्थं योगी यताहारः प्राणायामपरायणः”। “यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः। आपिबेयुस्तथा वायुं पिबेद्यागी जितश्रमः। मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुञ्जराः। यथा यान्ति तथा प्राणो वश्यो मवति योगिनः। विश्वासतां यथेच्छातो नागं नयति हस्तिप। तथैव योगी स्वच्छन्दं प्राण नयति शोधितम्। यथा हि साधितः सिंहो मृगान् हन्ति न मानवान्। तद्वन्निरुद्धः पवनः किल्विमं न नृणां तनुम्। तस्माद्युक्तं सदा योगी प्राणायामपरा भवेत्” इति योगचन्द्रिकायाम्। “प्रणायामान्नरः षाष्टं कुर्य्यादेवमहर्मुखे। चत्वारिंशच्च मध्याह्ने सन्ध्यायां विंशतिर्भवेत्। अर्द्धरात्रे विंशतिः स्यादेवं प्राणविनिग्रहः” इति। “इडया वायुमाकृष्य परयित्वादरस्थितम्। शनै षोडशमात्राभिरकारं तत्र संस्मरेत्। पूरितं धारयेत् पश्चाच्चतुःषष्ठ्या तु मात्रया। उकारमूर्त्तिमत्रापि सस्मरन् प्रणवं जपेत्। यावद् वा शक्यते तावद्धारयन् जपसंस्थितः। पूरितं रेचयेत् पश्चान् मकारेणानिलं बुधः। शनैः पिङ्गलया विप! द्वात्रिंशन् मात्रया पुनः। प्राणायामो भवेदेष ततश्चैनं समभ्यसेत्। प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः। कम्पनं मध्यमं विद्यादुत्थानं च त्तमं तथा। पूर्वं पूर्वं प्रकुर्वीत यावदुत्तमसम्भवः। उत्तमे तु मुनिर्ज्जाते प्राणायामे सुखी भवेत्। प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः। देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहः”। योगसाराव ल्याम्। “सरेचपूरैरनिलस्य कुम्भैः सार्वासु नाडीषु विशोधितासु। अनाहताख्यो वहुभिः प्रकारैग्रन्तः प्रवर्त्तेत सदा निन दः” इति। “अस्मिन्ननाहते प्राणनादे कृत्वा मनः स्थिसम। निर्भयं साधकः कुम्भवृद्ध्याभ्यसनमाश्रयेत्। ध्यायेन्मूले कर्णिकान्तः कुण्डलीरूपमीश्वरम्। नादासंक्रमणं शान्तं शिवध्याने कृक्रमात्। मूर्त्तिध्यानानन्दपीने नादानन्दे प्रलीयते। यथा यथा ममः शुद्धं लीयते ध्याननादयोः। तथा तथा वायुजय सिद्धिकृन कुम्भ एधते। अहोरात्रमिति ध्यायन्नादासकमतिर्मुनिः। दृढभ्य मपरः शीघ्रं योगसिद्धिमवाप्नुयात्। यावन्न श्रूयते नादस्तावच्चित्तमिदं चलम्। नदि लानं ममो ध्याने विना यत्नं हि युज्यते। स्वेदनिद्राङ्गमोटाद्याः क्षयं संयान्ति साधके। सपादघटिकार्ध्वं स्यात कम्पो जल्पनमेव च। आनन्दः स्यात् सदाभ्यामादारम्भे कुम्भकाग्निना। शुष्के नाडोमले दग्धे हृद्विकरे जयाग्निना। मूलस्थितपदोर्भेदे पृथ्व्यम्बुविलयोद्गमे। अपाने ऊर्द्ध्वं क्रमशः प्राणेना कर्षित यदा। मूलारपृथिवोभेदेऽपाने जाड्यतमो बलम। क्षणं ततोद्ध्व भाकृष्टावपानस्याधराङ्गकम्। उत्ति ष्ठन्ति गिरालम्बं लघुतूलवदस्वरो। तदासनोत्थ नमक्त वायोर्विजयलक्षणम। पतन् लक्षणसिद्ध्याद्यः स्थितिचक्रविभेदने। वक्ष्यमाणाभ्याममतिं कुर्य्यात् योऽपानमारुतम। उद्गत्युन्मुखमृजुसत्पृष्ठवाहविधित्- सया। पृष्ठवंशान्तरगतसुषुम्णार्द्धस्थले पदम्। त्रिकोणं दहनस्यान्तं तदधः स्थितिरित्यसौ। अभ्यासेन जितापानं प्राणेनोर्द्ध्वमुखीकृते। पूर्ववाहं निराकर्तुं प्रतीचीपथमुत्तमम्। समवाहेन सुमतिर्नेतुं स्थितिमुखान्तरे। स्थित्यारभेदभ्यसनं कुर्य्यात् सद्गुरुणोदितम्। विधिपद्मप्रभेदेन सर्वा आरम्भसिद्धयः। तावत्कालं साधकस्य योगोक्तनियमग्रहः। स्वाधिष्ठानं विभिद्योद्ध्वेमपानः प्रगतः स्वयम्। तिर्य्यग्गतेन प्राणेन निरावरण ऊर्द्ध्वगः। अधः स्थितः सन्धमति त्रिकोणं वह्निमण्डलम्। ध्मातो भस्त्रेव दहनो दृढाभ्यासो मुनेर्हि सः। क्रमेण दीप्तो भवति सुषुमणास्थमलं स्यति। कुण्डलीं तापयत्येष चालितां प्राणवायुना। उत्कर्षप्राणायामेन शक्तिचालेन चाल्यताम्। ततः परिचयावस्थाशक्तेर्बोधकरी भवेत्। दीप्तोनलोऽपानजाड्यं शिष्टं दहति वैकृतम्। प्रकाशावरणे जाड्ये दग्धेऽङ्गे क्वरुजो मलाः। ज्ञानाग्निः स तदा सत्वप्रकाशक उपाधिहा। तथा योगा ग्नना दग्धा देहो योगिवरस्य हि। न दृश्यते योगिदेहो देवैरपि महाबलः। इच्छारूपस्तदा योगि देहः स्यादजरामरः। सुषुमणाचक्रनिलया प्राणापानौ ग्रसेद्यदा। तदा केवलकम्भः स्यान्मुनेस्त्रैलोक्य सिद्धिकृत्। जलूका रुधिरं यद्द्बलादाकर्षयेद् घ्रुवम्। ब्रह्मपाडी तथा धातून् सतताभ्यासयोगतः। तदा नद्यः पुष्कराद्यानदाः शुष्यन्ति पुद्गले क्व दोषाः क्षुत्पिपासाद्या सर्वे नश्यन्ति योगितः”। हठस०
प्राणायामकाललमानम “अथ प्रमाणमेतेषां रहम्यमपि कथ्यते चतुरष्टद्वादशभिः क्रमादाढ्याः पलैस्त्रयः। ततः पञ्चदशोन्मानपलैरष्टादशोन्मितः। परंस्ततश्चतुर्विंशस्तीव्रहेतुरिहेरितः। निसर्गाद्द्वादशगुणाः प्रत्याहारस्ततः परम्” हठस०।
निसर्गपाणायामकालः कुम्भकपद्धतौ “पञ्चगुर्वक्षरैर्युक्तः कालः पलमितो हि यः। निसर्गतः कुम्भकोऽयमतोऽर्ध्दं रेचकः स्मृतः। अर्द्धः पूरक इत्युक्ता मात्राकुम्भविश रदैः। पञ्चविंशतिभिः प्रोक्तः पलैद्वांदशमात्रिकः”। अयमेव नाडोशोधभोऽभ्यामप्राण यामः। “पञ्चशद्भिर्द्वितीयस्तु सपादोद्व्यधिकोन्मितः। तृतीय इति नि र्दष्टो दत्तात्रेयमतं यथा”। तदयं संक्षेपः “कनिष्ठे प्राणायामे एकस्मिन कालमानं चत्वारि पलानि भवन्ति तद द्वादशप्राणायामे सर्वकालमानं ४८ पलानि असौ प्रथम द्घातः स्वद सम्भाकालः। एवं द्वितीये मध्यमेरौ कालमानमष्टौ ८ पलानि तदा द्वादशभिः ९६ पलानि। अत्र सर्बकालः १। २६ घटिकादि मध्यमेरौ कालः। तीव्रमेरौ कालमानं १२ पलादि तदा द्वादशभिः १४४ पलानि २२४ चट्यादि एवमुत्तमोत्तमो वायुजयकालो ज्ञेयः” हठस०। तत्र अधमसाधके स्वेदातिरिक्तकम्पाद्यभावः। उत्तममाधके यमादिगुणसम्पत्तौ कामसंकल्पाद्यपाये कम्पासमोत्थानादिसिद्धिमम्भवः” हठस०। “तदा विध्वस्तपापस्य भवेदारम्भमम्भवः। चिह्नानि यागिनो देहे दृश्यन्ते नाडिशुद्धितः” इत्युपक्रमे “वलीयसि भवेत् स्वेदाऽङ्गे मुतेः प्रथमोद्यमे। यदा संजायते स्वेदा मर्दनं कारयेत्तदा विभूत्या मह मिश्रेण श्रमजाताम्बुनाऽमुना। अकथा विग्रहाद्वायुर्नष्टो भवति योगिनः। दृढता लघुतऽङ्गे स्यात् श्रमजाम्बुङ्गमर्दनात्। कम्पो द्वितीये भवति दार्दुरी मध्यमे ततः”। (दार्दुरी दर्दुरो भेकस्तस्येव उत्प्लुतोतप्लुत्य गतिः)। ततोऽधिकतर भ्या माद् गगने माधको हि सः। योगी पद्म सनस्थोऽपि भुवमुत्सृज्य वर्त्तते। वायुसिद्धिस्तदा ज्ञेया संसारध्वन्तनाशिनी” कुम्भकपद्धता “एवं नाड्याविवेकेन चतःकालेषु विंशतिम्। कुम्भकान् यदि कुर्वीत नाडी शुद्ध्य ख्यकम्भत। ग्रीष्ममध्यदिनार्कामं नामो सवितृमण्डलम्। मूर्ध्वनाड्या कृते कुम्भे ध्यात्वा शुध्यन्ति नाडिकाः। चन्द्रेण पित्तदोषाणामितरेषां परेण तु। नाडीशुद्ध्य त्मना भूयात्त्रिमिर्मासैर्न संशयः। नादश्रुति र्वपुःकार्श्यमारोग्यं वह्निदीपनम्। नैर्मल्यमक्ष्णार्वदनप्र सादो विन्दनिर्जनयः। द्विसप्ततिसहस्राणां नाडीनां मल शोधनम। यथे धारणं वायोर्विकाराभाव एव च” हठस०
मात्राकम्भकः “भात्राः षोडश पूरेस्युश्चस्तुःषष्टिस्तु कुम्भक। द्वात्रिं शद्रेचके प्रोक्ताः म त्राकुम्भः समीःरतः। मात्रा कुम्भो हृदिकृतः शोषकः सपकीर्त्तितः। स्वाधिष्ठानानु गश्चाय प्लावनोऽमृतमेचनः। दाहना नाभिसस्थानो मात्राकुम्भः प्रकीर्त्तितः। मूलाधारे कृतश्चायं कठिती करणो मतः। पुनः कण्ठानुगो यश्च व्यूहनः स्यति म कुम्भक। ब्रह्मस्थाने नियोगेन सुक्तिदः परिकीर्त्तितः”। अयमाशयः। पूर्वाभ्य मे स्थानावलोकनचिन्तनाभ्यां मनमा दग्भ्या ताद त्म्येन नामाग्रनागिभ्रूमध्याङ्गुष्ठहृदयवण्ठा दिनिखिलशरीरान्तर्गतप्रदेशेषु स्थानात् स्थानान्तर साधकेन कु म्भतस्य वायोर्यथानयनं स्थापनं च पुनस्ततः स्तम्भितस्य वायोः प्रदेशान्तरे नयनमिति चतसाऽस्य प्राणस्य चालनं कर्त्तव्यं गुरूपदेशेनेति मात्राकुम्भः। सूर्य्येण हृदि कुम्भनात् तदूर्ध्वं रसवहानां नाडीनां रसशोषणं भवति। एवं नाभौ सर्वसिरामूलत्वात् सूर्य्यमण्डलपदत्वात् आग्नय गादत्यौष्ण्यमव नाडिगतमलदाहः। एवं स्वाधिष्ठाने स्थितौ तस्य सौम्यापानचन्द्रपदत्वात् अमृतरसमेचनस्तत्तत्पार्थिवांशतमोऽपायद्वारा प्लावनो भवति। कठिनीकरणं मृदुतापिधानं देह्येन्द्रियेषु” हठम०।
मात्रामानम् “प्रदक्षिणीकृत्य जानुं नातिद्रुतविलम्बितम्। अङ्गुलीत्रिकतो मात्रा छोटिकाकरणाद् भवत्”। “मात्रा नवविधा प्रोक्ता योगिभिस्तत्त्वदर्शिभिः। निमेषोन्मेषणं मात्रा कालो लघ्वक्षरोन्मितः। गोदाहवत्सपानेषुक्षेपघण्टारवोन्मिताः। चतुरो ह्यतिमात्राः स्युस्ताश्च सेव्याः शनैः शनैः। देशंकालानुसारेण प्राहुर्योगीश्वराः पुरा। पूरकुम्भकरेचेषु निसर्गजनितेषु यः। कालः स मात्रासंज्ञः स्यात् सर्वमात्राः क्रमादिमाः। अष्टमा इति ताश्चैव महामात्राः पुरोदिताः। जानुं प्रदक्षिणीकृत्य त्रिवारं छोटिकामनु। करणात् ह्रस्वमात्रैषा मध्यैषा षड्मिरीरिता। जान्वोः प्रदक्षणकृतिर्नववारमसौ वरेति” हठस०।
गृहस्थस्य प्राणायामकालः “सव्याकृत सप्रणवां गायत्रीं शिरसा सह। त्रिर्जपेदायतप्राणः पाणायामः स उच्यत” गीता। अयञ्च पापशुद्धये गृहस्थैः योगसिद्वये च योगिभिश्च कार्य्यः। तादृशसमुदायस्य त्रिजपे पलद्वयं भवतीत तस्य कम्भकालसंख्यावेदकत्व वोध्यम्। योगदीपिकायाम्” हठस०।
प्राणस्वरूपम् “समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकीत्तितः। तज्जुयादि न्द्रयाण्येव विजितानि भवन्ति हि। अतः प्राणमनःस्पन्दयोः सहभावित्वात् प्राणनिग्रहे मनो निगृह्यते” हठस। यागसासिष्ठे “बाह्याभ्यान्तरस्पन्दश्चित्तजो वातजोऽथ वा। न यस्य विद्यते तस्य दूरस्थौ विकृतिक्षयो। अयं भावः प्राणायामोपायोपेतथ इतरस्मादल्पः श्वासपश्वासो भवति यथा स्वननच्छेदनोदिषु व्याप्रियमाणस्य पर्वतमाराहतः शीघ्रं धावतो वा श्वसिवेगो यावान् भवति न तावा। स्थितस्यासीनस्य वा भवति। यथा दुष्टैःश्वेरुपतो। तथः म त्यक्त्वा क्वापि नीयत स च भार थना दृढःज्ज्वाकृतः स्वमार्ग पुनर्धार्य्यते तथेन्द्रियैर्सिनादिभिरितस्ततां नीय- मानं चित्तं प्राणरज्ज्वौ दृढधारितायां स्वात्मतत्वे धार्य्यते” इत्येवं चित्तविकारप्राणक्षयौ प्रकृतेऽभिप्रेतौ” हठस०।
अभ्यामक्रमः “प्रथमे दिवसे कार्थ्यं कुम्भकानां चतुष्टयम्। प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिः सह। विंशतिं च तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने” योगदीपिका।
प्राणायामफल हठयोगे गोरक्षनाधः। “द्वाराणां नवकं निरुध्य मरुतं पीत्वामृतं धारित भीत्वाकाशमपानवह्निसहितं शक्त्या समुच्छासितम्। आत्मध्यानयुता ह्यनेन विधिना विन्यस्य मूर्ध्नि ध्रुवं यावत्तिष्ठति तावदेव महताऽसङ्गेन संयुज्यते”।
प्रण यामप्रकारः “प्राणायामं ततः कुर्य्यान्नित्यं सत्त्वजयाधिया। यथा सुषुम्णान्तरस्थामलाः शोषं प्रवान्ति च। वद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्। धारयित्वा यथाशक्त्य भूयः सूर्य्येण रेचयेत्। प्राणं सूर्य्येण चाकृत्य पूरयेदुदरं शनैः। विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत्। येन त्यजेत् तेन पूर्य्यं धारयेत्तु निरोधतः। रेचयेच्च ततोऽन्येन शनैः पवमवेगतः। प्राणं चेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बध्वा त्यजेद्वामया। सूर्य्याश्चन्द्रमसोरनेन विधिना विम्बद्वयं ध्यायताम् शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्द्ध्वतः। प्रातर्मध्यं दिने सायमर्द्धरात्रे च कुम्भ कान्। शनैरशीतिपर्य्यन्तं चतुर्वारं समभ्यसेत्। इडयापि च षाडशभिः पवनं कुरु षष्टिचतुष्टयमन्तरगम्। त्यज पिङ्गलया शनकैः शनकैः दशभिर्दशभिर्दशर्भिर्द्व्यधिकैः। अधमे जायते स्वेदः कम्पो भवति मध्यमे। उत्तिष्ठत्युत्तरे प्राणो बद्वे पद्मासने हठे। ततोऽधिकतराभ्यासाद् भवतः स्वेदकम्पनौ। ततोऽधिकतराभ्यासाद् दार्दुरी जायते भृगम्। यथैव दर्दुरागच्छदुत्प्लुत्यात्प्लुत्य भूतले। पद्मा० मनस्थिता योगी तथा गच्छति भूतले। जलेन श्रमजा तेन गात्रमर्दनमाचरेत्। दृढता सघुता चापि तेन गात्रस्य जायते। अभ्यासकाले प्रथमे शस्तं क्षीराज्य भोजनम। तताऽभ्यासे दृढीभूते न तादृक् नियमाग्रहः। यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः। तथैव सेवितो वायुरन्यथा हन्ति साधकम्। प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत्। अयुक्ताभ्यासयोयेन सर्वरोगसमुद्भवः। हिक्का कासतथा श्वासः शिरःकर्णाक्षिवेदनाः। भवन्ति विविधारोगाः पवनस्य प्रकोपनात्। युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तञ्च पूरयेत्” हठप्रदीपिकाग्रन्थे।
प्रणायामाभ्यासफलम् “एवमासनबन्धस्थो योगीन्द्रो विगत श्रमः। अभ्यसेन्नाडिशुद्धिं च मुद्रादिपवनक्रियाम्” हठस०। “क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्। क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः। न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते। प्राणायामैरेव सर्वे प्रशुष्यन्तिमलाशयाः। आचार्य्याणान्तु केषाञ्चिदन्यत कर्म न सम्म तम्। षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः। अभूवन्नान्तकभियस्तस्मात्पवनमभ्यसेत्। ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः। सर्वसिद्धिं गताः सर्वे तस्मात् पवनमभ्यसेत्। यावद्बद्धो मरुद्देहे तावत् चिन्ता निराकुला। यावद्दृष्टिर्भ्रुर्वोर्मध्ये तावत्कालभयं कुतः। विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते। सुषुमणा वदनं भित्त्वा मुखाद्विशति मारुतः। मारुते मध्यसञ्चारे मनः स्थैर्य्यं प्रजायते। यो मनःसुस्थिरीभावः सैषावस्था मनोन्मनी। तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान्। विचित्रकुम्भकाभ्यासाद् विश्चित्रां सिद्धिमाप्नुयात्। सूर्य्यभेदनमुज्जायी तथा शीत्क रः शीतलो। भस्त्रिका भ्रमरी मूर्च्छा केवलश्चाष्टकुम्भकाः। पूरकान्ते तु कर्त्तव्यो वेधो जालन्घाराभिथः। कुम्भकान्ते रेचकादौ कर्त्तव्यास्तूड्डियानकः। अधस्तात कुञ्चनेनैव कण्टसङ्कोचने कृते। मध्यपश्चिमतानेन ग्यात् प्राणो मध्यना डगः। अपानमूर्द्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत्। योगी जराविनिर्मुक्तो षोडशो वयसाभवत्” हठप्र०।
सूर्य्यमेदनम् “अथासनं सुखादेव बद्ध्वा मुद्रा समन्ततः। दक्षप्राड्या समाकृष्य वहिःस्थं पवनं शनैः। आकेशाग्रं नखाग्रं च शिरोधावधिकुम्भकम्। ततः शनैः सव्य०। ड्या रेचयेत् पवनं पुनः। कपालशोधनं वातदोषध्नं कृमिनाशनम्। पुनः। पुवरिदं कुर्य्यात् सूर्थभेदनमुत्तमम्” हठस०।
उज्जायी “मुखं संयम्य नासाभ्यामाकृष्य पवनं शनैः। यथा लगति कण्ठान्त देहानलविवर्द्धनम्। पूर्ववत् कुम्भकं कृत्वा रेचयेदिडया ततः। श्लेष्मदोषहरं कण्ठे दावानलविवर्द्धनम्। नाडीजलोदरधातुगतदोषविनाशमम्। गच्छता तिष्ठता कार्य्यसुज्जयाख्यं च कुम्भकम्” हठप्र०।
अथ शीत्कारः “कुम्भ कुर्य्यात् सदा वक्त्रे घ्राणेनैव विसजयेत्। एवमभ्यासयोगेन कामदेवो द्वितीयकः। योगिनीचक्रसामान्यसृष्टिसंहारकारकः। न क्षुघा न तृषा निद्रा नैवालस्यं प्रजायते। भवेत् स्वच्छन्ददेहस्तु सर्वोपद्रववर्जितः। अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले। स भवेत् सर्वसिद्धीनां भाजनं नात्र संशयः। नासिकामूलरन्ध्रेण यः प्राणं सततं पिबेत्। स भवेत् सर्वसिद्धीर्ना भाजनं नात्र संशयः। रसनातालुमूलेन यः प्राणं सततं पिवेत्। अव्दार्द्धेन भवेत्तस्य सर्वरोगपरिक्षयः” हठप्र०।
शीतलीकुम्भकः “जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम्। शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः। गुलमप्लीहोदरं चापि ज्वरपित्तं क्षुधां तृषाम्। एताश्च शीतली नाम कुम्भकोऽयं निहन्ति च” हठप्र०।
मस्त्रिका “ऊर्वोरुपरि संस्थाप्य उभे पादतले तथा। पद्मासनं भवेत् सम्यक् सर्वपावप्रणाशनम्। सम्यक पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः। मुख्यं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्। यथा लगति हृत्कण्ठे कपालावधि पूरयेत्। वेगेन पूरवेत् सम्यक् हृत्पद्मावधि मारुतम्। पुनर्विरेचयेत् तद्वत् पूरयित्वा पुन पुनः। यथैव लोहकारणां भस्त्रा वेगेन चाल्यते। तथैव स्वशरीरस्थ चाल्पते पवनो बलात्। यदा श्रमो भवेद्देहे तदा सूर्य्येण तेजयेत्। अथोदरे भवेत् पूर्णे पवनेन यथा लघुः। धारयेन्नासिकामध्ये तर्जनीभ्यां तथा दृढम्। कुम्भकं पूर्ववत् कृत्वा रेचगेदिडयाऽनिलम्। वातपित्तश्लेष्महरं शरीराग्निविवर्द्धनम्। कुण्डलीबोधनं कुम्भे रोगघ्नं सुखदं शुभम्। ब्रह्मनाडीमुखे संस्थकपाटार्गलनाशनम्। सम्यग्भस्त्रा समुद्भूता ग्रन्थित्रयविभेदिका। विशेषेणैव कर्त्तव्यं भस्नाख्यं कुम्भकं त्विदम्” हठप्र०।
भ्रमरीकुम्भकम् “वेगोद्घेषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम्। योगीन्द्राणां नित्यमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला” हठप्र०।
मूर्च्छनाकुम्भकः “पूरकान्ते बहुतरं बद्ध्वा जालन्धरं शनैः। रेचयेन् मूर्च्छनाख्योऽयं मनोमूर्च्छासुखप्रदा। अन्तः प्रवर्त्तिताधारमारुतापूरितोदरः। साक्षात्पयस्यगाधे तु विप्लवेत् पद्मपत्रवत्” हठप्र०।
संहितकुम्भकः “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः। सोहतः केवलश्चेति कुम्भको द्विविधो मतः। रेचकं पूरकं कुर्य्यात् स वै संहितकुम्भकः। यावत् केवलसिद्धिः स्यात् तावत् संहितमभ्यसेत्” हठप्र०।
केवलकुम्भकः “रेचकं पूरकं त्यक्त्वा मुखाद्वायुनिरोधनम्। प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः। केवले कुम्भके सिद्धे रेचपूरविवर्जिते। न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते। शुद्धकेवलकुम्भेऽत्र यथेष्टं वायुधारणम्। राजयोगपदं चैव लभते नात्र संशयः। आहारः क्षीयते योगे कृष्णपक्षे यथा शशी। शुक्लपक्षे यथा चन्द्रस्तथा श्वासोऽमृतोपमः। हठं विना राजयोगो राजयोगं विना हठः। न सिध्यति ततो युग्मनिष्यत्त्यै च समभ्यसेत्। कुम्भकप्राणरेचान्ते कुर्य्याच्चित्तं निराश्रयम्। एवमभ्यासयोगेन राजयोगपदं व्रजेत्। कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत्। अनर्गला सुषुमणा च हठसिद्धिश्च जायते। वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले। आरोग्यता विन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठयोगलक्षणम्” हठप्र०।
उपदेशः “सशैलवनधात्रीणां यथाधारोऽहिनायकः। सर्वेषां योगतन्त्राणां तथाधारोहि कुण्डली। सप्ता गुरुप्रसादेन बोधिता सुखदा भवेत्। तथा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयस्तथा। प्राणस्य शून्यपदबी तथा राजपथायते। तथा चित्तं निरालम्ब तथा कालस्य वञ्चनम्। सुषुम्णा शून्यपदवी ब्रह्मारन्ध्रं महापथम्। श्मशानी शाम्भवी मध्यमार्गश्चैत्येकवाचकाः। तस्मात् सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम्। ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासेन बोधयेत्” हठप्र०।
दशमुद्रोद्देशः “महामुद्रा १ महाबन्धो २ महाबेधश्च ३ खेचरी ४। उड्डियानं ५ मूलबन्धो ६ बन्धोजालन्धराभिधः ७। करणी विपरीताख्या ८ वज्रोली ९ शक्तिचालनम् १०। इदं हि मुद्रादशकं जरामरणनाशनम्। आदिनाथोदितं सर्वमष्टैश्वर्य्यप्रदायकम्। वल्लभं सर्वसिद्धानां दुर्लभं महतामपि। गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम्। कस्यचित् नैव वक्तव्यं कुलस्त्रीसुरतं यथा। वज्राली त्वमरोली च सहजोली त्रिधा मता। एतेषां लक्षणं वक्ष्ये कर्त्तव्यञ्च विशेषतः”।
महामुद्रा १ “पादमूलेन वामेन योनिं संपीड्य दक्षिणम्। पादं प्रसारितं धृत्वा कराभ्यां धारयेद् दृढम्। कण्ठे वन्ध समारोप्य धारयेद्वायुमूर्द्धनि। यथा दण्डहतः। मर्पो दण्डाकारः प्रजायते। ऋज्वी भूत्वा तथा शक्ति कुण्डली सहसा भवेत्। तदासौ मरणावस्यां हरते द्विपुटा- श्रिता। ततः शनेः शनैरेव रेचयेन्न च वेगतः। इदं खलु महामुद्रा महासिद्धैः प्रशस्यते। महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः। महामुद्राञ्च तेनैव वदन्ति, विबुधोत्तमाः। चन्द्राङ्गे च समभ्यस्य सूर्य्याङ्गे पुनरभ्यसेत्। यावत्तुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत्। न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः। अपि भुक्तं विषं घोरं पीयूषमिव जीर्य्यति। क्षवकुष्ठगुदावर्त्तगुल्माजार्णपुरागमाः। दोषाः सर्वे क्षयं यान्ति महामुद्रां च योऽभ्यसेत्। कथितेयं महामुद्रा महासिद्धिकरी नृणाम्। गोपनीया प्रयत्नेन न देया यस्य कस्यचित्” हठप्र०।
महाबन्घः २ “पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत्। वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा। पूरयित्वा मुखे वायुं हृदये चिवुकं दृढम्। निष्पीड्य योनिमाकुञ्च्य मनोमध्ये नियोजयेत्। धारयित्वा यथाशक्ति रेचयेदनिलं शनैः। सव्याङ्गे पूर्वमभ्यस्य दक्षाङ्गे पुनरभ्यसेत्। मतान्तरे तु केषाञ्चित कण्ठबन्धं विवर्जयेत्। राजदन्तस्य जिह्वायां बन्धः शस्तो भवेदिति। अर्य खलु महाबन्धो महासिद्धिप्रदायकः। कालपाशमहाबन्धविमोचनविचक्षणः। अयं च सर्वनाडीनामूर्द्ध्वगमनरोधकः। त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः। रूपलावण्यस म्पन्ना यथा स्त्री पुरुषं विना। महामुद्रामहाबन्धो निः फलौ बेधवर्जितौ” हठप्र०।
हाबेधः ३ “महावेधे स्थितो योगी कृत्वा पूरकमेकधीः। वायुना गतिमाकृष्य निभृतं कण्ठमुद्रया। समहस्तयुगे भूमौ स्फिक्षौ सन्ताडयेत् शनैः। पुटद्वयं सम क्रम्य वायुः स्फुरति मध्यगः। सोमसूर्य्याग्निसम्बन्धात् जायते च मृतिञ्जयः। मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः। महाबेधोऽयमभ्यासान्महासिद्धिप्रदायकः। बलीपलितनिर्मुक्तैः सेव्यते साधकोत्तमैः। एतद् त्रयं महासुद्रा जंरामृत्युविनाशिनी। वह्निवृद्धिकरञ्चैवमणिमादिगुण प्रदम्। अष्टधा क्रियते चैव यामे यामे दिने दिने। पुण्यसम्भारसन्धायि पापौघभिदुरं सदा। सम्यक् जिज्ञा सतामेव स्वल्पं प्रथमसाधनम्। वह्निस्त्रीपथसेवाना मादौ वजंनमाचरेत्” हठप्र०।
खेचरी ४ “छेदनचालनदोहैः जिह्वां क्रमेण वर्द्धयेत्तावत्। यावद्भ मध्यं स्पृशति तदा च खेचरीसिद्धिः। स्नुहीपत्रनिभं शस्त्रं सुतोक्ष्णस्निग्धनिर्मलम्। समादाय ततस्तेन रोममात्रं समुत्च्छिदेत्। कृत्वा सैन्धवप थ्यादिचूर्णं ताभ्यां प्रघर्षयेत। पुनः सप्तदिने प्राप्ते रोममात्रं समुत्च्छिदेत्। एवं क्रमेण षण्मासं नित्ययुक्त समाचरेत्। षण्मासाद् रसनामूलनाडाबन्धो विनश्यति। अथ वागीश्वरीधाम शिरोवस्त्रेण वेष्टयेत्। शनैरुत्कर्षयेद्यागी कालवेलाविधानवित्। वितस्तिप्रमितं दैर्व्ये विस्तारे चतुरङ्गुलम् मृदुलं धवलं प्राक्तं वेष्टिताम्बरलक्षणम्। पुनः षण्मासमात्रेण पुनः सङ्कर्षणात् प्रिये!। भ्रूमध्यावधि वर्द्धेत तिर्य्यक् कर्णबिलावधि। अधस्तात् चिवुकं मूलं प्रयाति क्रमकारिता। केशादूर्द्ध्वञ्च क्रामति तिर्य्यक्शङ्खावधि प्रिये!। पुनः संवत्सराद्देवि। द्वितीया चैव लीलया। ब्रह्मरन्ध्रान्तमावृत्य तिष्ठत्यमरवन्दिते! स्वतालुमूलं सङ्घृष्य सप्तवासरमात्मनि। स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत्। अङ्गल्यग्रेण सङ्घृष्य जिह्वां तत्र निवेशयेत्। शनैः शनैर्मस्तकाच्च महावज्रै कपाटभृत्। पूर्ववीर्य्ययुतां विद्यां व्याख्यातामतिदुर्लभाम्। अस्याः षडग्ङ्गं प्रकुर्वीत तया षट्चक्रभिन्नया। खे निरस्त सकलक्रियाक्रमा चित्ततश्चरति शाश्वतोदरे। सा शिवत्व समवायकारिणी खेचरी च भवखेदहारिणी। क्रमेणैव प्रकर्त्तव्याऽभ्यासेन वरवर्णिनि!। युगपद्यतते तस्य शरीरं विलयं व्रजेत्। तस्मात् शनैः शनैः कार्य्याभ्यासेन युगवत् प्रिये!। एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं विशेद् ध्रुवम्। षट्चक्राणि विभिद्य शक्तिभुजगीं प्रोत्थाप्य मूल स्थितां भित्त्वा ग्रन्थिपुटं च पश्चिमसिराप्राकाररूपं महत्। नीत्वा प्राणमतः सिराविलमलं निर्मथ्य चित्तेन तत् लिङ्गं यः पिवतीन्दुमण्डलगलत् मुक्तः स साक्षात् शिवः”। “तीक्ष्णकं हरते व्याधिं कटुकं कुष्ठनाशनम्। घृतस्वादूपमं चैवामरत्वं लभते ध्रुवम्। मधुस्वादूपमं चैव शालिमुद्गादिकं बहु। लड्डुस्वण्डक पानानि पक्वान्नानि ह्यनेकशः। दिव्यकल्पं क्रीडेन्नित्य मुत्कृष्टो जायते ध्रुवम्। तन्मयत्वमवाप्नोति कोषकारीव कीटकः। कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्भुद्रा भवति खेचरी। काकचञ्चुविधानेन शीतलं सलिलं पिबेत्। प्राणापानप्रयोगे च योगी भवति निर्जरः। कलां पराङ्मुखीं कृत्वा त्रिपथे परिवर्त्तयेत्। सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते। रसनामर्द्ध्वगां कृत्वा क्षणार्द्धं यदि तिष्ठति। यिषमैर्मुच्यते योगी व्याधिमृत्युजरादिभिः। न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा। न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्। पीड्यते न तु रागेण न लिप्यति च कर्मणा। ब ध्यते न च कालेन या मुद्रां वेत्ति खेचरीम्। चित्तं चरति खे यस्मात जिह्वा चरात खे गता। तेनेयं खेचरीमुद्रा सर्वसिद्धैर्नमस्कृता। खेचर्य्या मुद्रितं येन विवरं लम्बिकोर्द्धतः। तस्य नाक्षरते विन्दुः कामिन्यालिङ्गतस्य च। चलितोऽपि यदा विन्दुः संप्राप्तश्च हुतामनम्। व्रजत्यूर्द्धं हठशक्त्या निरुद्धा योनिमुद्रया। कपालकुहरे जिह्वा कालसन्धानसद्रया। तस्मादिदं प्रकुर्वीत नित्ययुक्तः समाहितः। नित्यं सोमकलापूर्णं शरीरं यस्य यागिनः। तक्षकेणापि दष्टस्य विषं तस्य न सर्पति। ऊर्द्ध्वजिह्वास्थिरो भूत्वा सोमपानं करोति यः। मासार्द्धेन न सन्देहो मृत्युञ्जयति योगवित्। इन्धनानि यथा वह्निस्तैलवर्त्तिं च दीपकः। तत्षोडशकलापूर्णं देही देहं न मुञ्चति। रसनां वेशयेदूर्द्धं पिबेत्तत् क्षरितं जलम्। गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम्। कुलीनन्तमहं मन्ये इतरे कुलघातका। गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि। गोमांसभक्षणं तच्च महापातकनाशनम्। जिह्व प्रवेशसंभूतवह्निनोत्पादितः खलु। चन्द्रात्स्रवति यः सारः स स्यादमरवारुणी। नाभिदेशे भवत्येष भास्करो दहनात्मकः। अमृतात्मा स्थिरो नित्यं तालुमध्ये तु चन्द्रमाः। वर्षत्यधोमुखश्चन्द्रेग्रसेदूर्द्धमुखो रविः। ज्ञातव्यं कारर्ण तस्य येन पीयूषमाप्यते। मूर्द्ध्नः षोडशपद्मपत्रगलितं प्राणादवाप्तो हठात् ऊर्द्धास्यो रसनां नियम्य बिवरे शक्तिं परां चित्तप्रेय। उत्कल्लोलकलाजलं च बिमलं धारामृतं यः पिबेत् भिर्दोषः स भृणालकोमलवपुर्य्योगी चिरञ्जीवति। चस्वन्ती यदि लम्बिकाग्रमनिशं जिह्वारसस्यन्दिनी सक्षाराकटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यं यथा। व्याधीनां हरणं चरान्तकरणं शास्त्रागमोद्धार णम् तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम्। सुखितं ज्ञानजनकपञ्चस्रोतःसमन्वितः। तिष्ठति स्वेचरीमुद्रा तस्मिन् शून्ये निरञ्जने। यत्प्रलयं चापि गतं सुखितं मेरुमूर्द्धतः। तस्मिंस्तत्त्व प्रवदति सुधीस्तनमुखं निम्नगानां चन्द्रात्सारः स्रवति च सुधा तेन मृत्युर्नरा णाम्। तं वध्नीयात् सुकरणमथा नान्यथा कायसिद्धिः इष्टा सैषा मुवमचिदिता खेचरी यागिवृन्दैः। एकं सृष्टमयं वीजमेका मुद्रा च खेचरी। एकौ देवो निरा- लम्ब एकावस्था मनोन्मनी” हठमङ्केते नानास्थाने।
उडडीयानम ५ “सति वज्रासने प्रादौ कराभ्यां धारयेद् दृढम्। गुल्फदेशसमीपे च कन्दं तत्र निपीडयेत्। पश्चिमा तानमुदते कुर्य्याञ्च चिवुकं हृदि। शनैः शनैर्यथा प्राणः कन्दसन्धिं मिगच्छति”। “उड्डीयानाख्येत बन्धेन वायुः प्रोड्डीयास्ते ब्रह्मनाड्यां यनोऽसौ। उड्डायानाख्यः स्मृतो बन्ध आद्यैः सेव्यस्तस्मात् योगिभिः सिद्धसेव्यः। अविश्रान्तः प्राणवायुः सदैव यस्मादुड्डीनं दृढं संविधत्ते। उड्डीयानं स्यात्ततस्तत्र बन्धं धीरो नित्यं साधकः संविधत्ते” हठस०।
मूलबन्धः ६ “गुदं पार्ष्ण्या तु संपीड्यबलादाकुञ्चयेत् तथा। वारंवारं यथा चोर्ध्वं समायाति समीरणः। प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम्। गच्छतो योगसंसिद्धिं कुरुतो नात्र संशयः। अपानप्राणयोरैक्यं क्षयो मूत्रपुरोषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्” हठप्र०। “पादमूलेनं संपीड्य गुदमार्गं सुयन्त्रितः। बलादपानमाकृष्य क्रमादूर्ध्वं सुचःलयेत्। कथितोऽयं मूलवन्धो जरामरणनाशनः”। “ऐक्ये प्राणापानयोर्मूत्रगूथक्षैण्याद्वृद्धः स्यात् वयःस्थोऽपि मूलात्। भित्त्वा द्वारं यात ऊर्ध्वं ह्यपाने हृद्यग्नेः। स्याद्वायुनेद्धा शिखोग्रा। ततो वह्न्यपानौ हृद प्राणमुष्णं ततोऽन्ते प्रदीप्तस्तदा देहगोऽग्निः। घटे तेन निश्वस्य सा निद्रिता स्यात् प्रतप्ता समन्तात् क्रमेणैव शक्तिः। परिचये मरुतो मनसः स्थितौ झटिति दण्डहतेव भुजङ्गमी। शयनमुत्सृजति क्षुधिता रुषा कवलयत्यधरानिलमूर्ध्वगम्। बिलं प्रविष्टे पवने ऋजुत्वं व्रजेत् सुषुम्णान्तसमीरणानुगा। शक्तिस्तती योगिभिरेव नित्यं श्रीमूलबन्धोऽभ्यासनीय आदरात्” हठस०।
जालन्घरबन्ध ७ “खेचरी चित्तपीयूषप्रवाहपरिबन्धिनी। जालन्धरोऽमृतमरुत्प्रवाहपरिरोधकः। आकुञ्च्यं कण्ठं हृदये निदध्यात् किञ्चित् स जालन्धरबन्ध एषः। अयं करोत्यव्ययमर्कबक्त्रे पतत्सुधाया वपुषोऽमरत्वम्। बध्नाति यत् कण्ठसिरासमूहं नाधस्ततो याति नभःस्रवज्जलम्। जालन्धरस्तन कृतः सुसिद्धैः स्यात् कण्ठदुःखौघविनाशहेतुः”। “नृणां कण्ठसङ्कोचनेनैव नाडावुभे स्तम्भयेत्तेन मध्यस्थचक्रम्। इदं षोडशारं च नाम्नोक्तमाशु गते स्तम्भिवाबोः सुधापानमग्नौ। अमृतमहिमगुः स्वमेष नाभिस्थितदहनः प्रपिवन् ज्वलत्यजसम्। नि खिलकमलतश्च्युतं तदग्निर्न पिबति पाति बन्धमेव धत्ते’
विपरीतक रणी ८ “यत्किञ्चित् स्ववते चन्द्रादमृतं दिव्यरूपि च। तवसर्वं ग्रसते सूर्य्यस्तेन पिण्डो विनश्यति। तत्रास्ति कारणं दिव्यं सूर्य्यस्य मुखबन्धनम्। गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः। ऊर्ध्वपादोऽन्वधो मस्तकः स्यात् क्षणं वासरेऽथादिमेऽभ्यासवृद्ध्यैधयेत्। एवमभ्यासतो याममात्रं सदा मृत्युजित् स्याज्जराजिच्च षण्मासतः। आरोप्य भूमाविति मस्तकं यो यामत्रयं तिष्ठति चोर्ध्व पादः। विध्युक्तसंरुद्धसमीरवेगो मासत्रयात् स्वाद्धि तदाऽम्रः सः। ऊध्वं सोमकलाजर्ल सुविमलं कण्ठस्थलादुर्ध्वतो नासान्ते सुषिरे नयेच्च गगनद्वारं ततः सर्वतः। ऊर्ध्वाव्यो भुवि सन्निपत्य नितरामुत्तानपादः पिवेदेवं यः कुरुते जितेन्द्रियचयो नैवास्ति तस्य क्षयः। नित्याभ्यासादस्य हि जठराग्निर्वृद्धिमायाति। आहारोऽतस्तस्मै सम्पाद्यः साधकाय भूरिर्ज्ञैः। जितेन्द्रियो यश्चलचित्तवृत्त्या प्राणावरोधेन कृतेष्टचिन्तनः विनिश्चलोऽर्द्धाङ्घ्रियुगस्तु तूष्णीं योगं भजन्नेव तदाऽमरो भवेत्। वलितं पलितं चास्य षण्मासान्नैव दृश्यते। याममात्राभ्यासतोऽयं कालजित् स्यादिति क्रमः” हठच०।
लम्बिका हठसङ्केते प्रसङ्गादत्रैव लम्बिकादिविधिर्दर्शितः तत्रादौ जिह्वयालम्बनाय विधिर्यथा “तालुमूलगतां यत्नात् जिह्वयाक्रम्य घण्टिकाम्। ऊर्ध्वरन्ध्रगते वायौ प्राणस्पन्दो निरुध्यते” तत्करणप्रकारादि “समुद्घर्षयेत्तालुमूलं रसज्ञासिरामूलमुच्चैश्च सप्ताहमेतैः। सिरासिन्धुतीक्ष्णैः सहैयङ्गवीनैर्मलं सर्वमाशोधयेत् तत्समुत्थम्” हठस०।
छेदनम् “सकण्टवज्री लघुवृत्तपत्रनिभं सुशस्त्रं भृशतीक्ष्ण धारम्। अङ्गुष्ठपर्वार्धसुविस्तृतं तदर्द्धेन्दुतुल्यं विमलं ह्यरूक्षम्। दण्डस्तु कार्य्योऽस्य षडङ्गुलोऽग्रे समुच्छिदेत्तेन च रोममात्रम्। उच्चैर्गतोत्संप्रतिबन्धहेतोर्न्यग् भागसंस्थस्य कुचर्मणोऽस्याः। अधोर्ध्वतन्तूपमरक्तभासो बन्धः कलाया अमिताभनाड्याः। मध्ये गतस्योद्भव पीठतोऽस्य छिदेत् यवार्धोपरि नित्यमेव। संछेदनात् प्रागनुचोक्तचूर्णेनाघर्षयेज्ज्ञो रसनातलव्रणम्। घटीद्वयं गाढ मिति त्रिवारं संछेदनादूर्ध्वमतन्त्र आचरेत्। संछेदकर्मोत्तरमस्ततन्द्रः सञ्चालनं दोहनमाविदध्यात्। अहर्निशं तदगतचित्तवृत्तः कार्य्याः पटीतोककणास्तु भेदे। दीर्थं वितस्तिप्रमितं च विस्तृतं वेदाङ्गुलं स्यान्मृदुलं सितञ्च। सूक्ष्मं कलावेष्टनवस्त्रलक्षणं प्रोक्तं पुराणै रसनाभिचालने। आर्द्रेण चानेन कलां सुयुक्त्या संवेष्ट्य चाङ्गुष्ठकतर्जनीभ्याम्। दोष्णोः सदाकर्षणचालने स्वमभ्यासमाकृष्य बहिर्विदध्यात्। एवं दृढाभ्यासत एव जिह्वा लम्बा भवेद्वै मृदुला सुपत्तला। आकर्षणेनैव वदेत किञ्चित् सुसाधकः सुस्थिर एकमानसः” हठस०। “जिह्वां समालिप्य मधूग्रगन्धक्षोदेन सञ्चालनदोहने सदा। कार्य्या रसज्ञा विधिनेति शीघ्रं स्यात् खेचरी साधकपुङ्गवस्य। रंछेदसंचालनदोहनानां षण्मासमभ्यासयुतः सदैव। नश्येत् कलामूलसिरोग्रबन्धो नासार्द्धमुच्चै रसना स्पृशेत् स्वम्। छिन्नं कलामूलमलं यदाखिलं छिन्द्यात् क्रमेणानु शनैस्तदान्तिके। सिद्धे विलीनारुणवर्णके द्वे युक्त्या सदा च्छेदनयुक्तितो बुधः। यदा लम्बिका कर्मणि स्वं रसज्ञा स्पृशेत् नासिकार्द्धं तदा साधकस्य। अलं लम्बिकाकर्मणाऽनु स्वमेषा कला प्रत्यहं छिन्नमूलेति दैर्घ्यम्” हठस०। “छेदनचालनदोहैः क्रमशः कलां वर्द्धयेत्तावत्। सा यावद् भ्रूमध्यं विशति तदा खेचरी सिद्धिः। एवं कृतेऽथ रसना प्रयात्यनुभ्रूलतान्तविलम्। तिर्य्यक् कर्णावधि हि चिवुकावधि सा स्वयं याति। अभ्यास इति वष त्रयमत्र कृतस्तदा रसज्ञेयम्। ब्रह्मद्वारं प्रविशति भित्त्वा भ्रूमध्यमूर्ध्वं गता” हठस०।
वज्रोली ९ “प्रागपानध्विनोर्ध्वं” समाकुञ्चनं सुन्दरं सुन्दरी वाभ्यसेत् पूरुषः। याति वज्रोलिकासिद्धिमत्यूमां कायसिद्धेः प्रसूं विन्दुसिद्धिर्यथा। शलाकया धातुगणान्तरोत्थया कनीनिकान्तः परिसृक्ष्मयाल्पकम्। रन्ध्रे स्वलिङ्गस्य शनैः प्रवेशनाभ्यासक्रमाद्वायुगतिक्षमञ्चरेत्”। अस्यार्थः आदौ मूत्ररेचौषधेन दुष्टपूतिक्वथितौष्ण मेहदोषोञ्झितं विशुद्धसाधनं विधाय ततस्तदल्पविलमल्पाभ्यान्तरं द्वादशाङ्गुलां कनीनिकाग्रसमां सरलां विशुद्धसीसकस्य पत्तलां शलाकां शनैर्लघुहस्तेन लिङ्गद्वारे क्रमेण समाहितः सततं विधाय तया तद्द्वारं वायुगतागतक्षमं गुदापान इव कृत्वा प्रथमाभ्यासे पात्रनिहितक्षीराकृष्टिमूर्ध्वानिलाकर्षणविधिना स्तोक स्तोकं मन्दमूर्ध्वमाचरेत्” हठस०। “इति क्रमाभ्यासवृद्ध्या क्षीरपाने भगाख्यतः। दृढे नु कामिनीयोनिपुष्पाकर्षणमभ्यसेत्। स्थानात् संचलितं विन्दुमूर्द्ध्वमाकर्षयेदिति। अम्यसेत् साधकः सम्यक् या- वत् स्थिरपदं भवेत्। यन्त्रितः शरनालेन फूत्कारं वज्रकन्दरे। शनैः शनैः शकुर्वीत वायुसञ्चारकारणात्” अस्यायमाशयः। “षोडशाङ्गुलमानां तु प्रकुर्य्यात् वंश नालिकाम्। सूक्ष्माग्रमूलां तां लिङ्गमुखे दत्त्वास्य तन्मुखम्। धृत्वा फूत्कारमन्तेऽस्याः कुर्य्यात् वाढं मुहुर्मुहुः। प्रत्यहं तेन विवृतं लिङ्गद्वारं क्रमाद्भवेत्। ततो नाल्याऽनया तोयमल्पं फूत्कारतोऽन्तरे। लिङ्गरन्ध्रेणस् गृह्णीयात् क्रमवृद्ध्या सुसाधकः। लिङ्गच्छिद्रेऽथ विवृते क्षीराकृष्टिं ततो भजेत्” वज्रकन्दरे लिङ्गद्वारे। “अपानमाकुञ्च्य ततो बलेनोर्ध्वं दुग्धमाकृष्टिविधिक्रमेण। समभ्यसेन्निश्चलमल्पमल्पं भगे पतद्विन्दुमथोर्ध्वमाहरेत्” हठस०।
तद्भेदः सहजोली “अथ हि कुसुमितायां पुष्पमर्द्ध्वं स्वमूर्ध्नि क्रमश उपरि कुर्य्यात् कुञ्चितात्लिङ्गनालात्। निज उपगतविन्दुं सन्निबध्यानुकुर्य्यात् सुरतरसनिमग्नो लिङ्गसञ्चालनानि। विन्दुः पाण्डुर एष चन्द्र उदितः सूर्य्यो भवेदार्त्तवं सिन्दूरप्रतिमं रवेः पदगतं शुक्रं शशिस्थानके। ऐक्यं साध्वनयोः स्ववर्ष्मणि नृणां नो जायतेऽतो मृतिरन्थोन्यं नृवधूरते निजमहिम्नैक्यं द्वयोर्विग्रहे। अभ्यासपाटवतया विदधाति योषिदेवं नुरूर्ध्वपरिकर्षणतः सुविन्दुम्। यद्यार्त्तयं स्वमभिरक्षति योगिनी सा वज्रो लेखेत्यखिलसिद्धिपदं प्रयाति। शक्तीरजों विन्दुरथं महेशो द्वयोः सुयोमात् परिवभ्यतेऽखिलम्। वीर्य्यं निजम् ह्यार्त्तवमेतयोस्तनावैक्यं हि वज्रोल्युदिता सुसिद्धिदा। नहजोली त्वमरोली वज्रोल्या भेदतो मवतः। विन्दुं देहे बिभृयाद् येन च केन प्रकारेण। वज्रीणी मिथुनोत्तरं नरबधूत्था स्वाङ्गसलेपनात् सदग्धाच्छगणोत्ययाम्बुवृतया भूत्वा क्षणं संस्थिति। सैषोक्ता सहजोलिका सुरनुतैरार्य्यादिनाथैः शुना वज्रोडीति नृणां यनोति नियतं भोगेऽतिभुक्तेऽमृतस। आकृष्योर्ध्वं मूत्रमल्पाल्पके तद्वारंवारं संसृजेन्मूत्रनालात्। आकृष्योर्ध्वं वायुना यो हठेन नित्यं धत्ते विन्दुसिद्धिं स याति। इति षण्मासाभ्यासनाद् गुरुणोक्तपथेन सन्ततं योगी। शान्तिं गतः संभोगेन तस्य विन्दुः क्षयं व्रजति” हठस०।
शक्तिचालनम् १० “कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी। कुटीलारुन्धती देवीशब्दाः पर्थ्यायवाचकाः। कन्दोर्द्धे कुण्डली शक्तिरष्टधा कुण्डलाकृतिः। ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति। येन संर्गिण गन्तव्यं ब्रह्म- स्थामं निरामयम्। मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी। उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात्। कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत्। कन्दोर्द्धे कुण्डलीशक्तिर्बुद्ध्वा मोक्षाय योगिनाम्। बन्धनाय च मूढानां यस्तां वेत्ति स योनवित्। अम्भोधिद्वीपशैलानामाधारः शेषकुण्डली। अमोघयोगतन्त्राणामाधारः कुण्डली तथा। कुण्डली कुटिलाकारा सर्पबत् परिकीर्त्तिता। सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः। गङ्गायमुनयोर्मध्ये बालरण्डा तपस्विनी। बलात्कारेण गृह्णीयात् तद्विष्णोः परमं पदम्। इडा भगवती गङ्गा पिङ्गला यमुना नदी। इडापिङ्गलयोर्मध्ये बालरण्डा सरस्वती। पुच्छं प्रगृह्य भुजगीं सुप्तामुद्बोधयेच्च ताम्। निद्रां विहाय सा ऋज्वी मूर्द्धमुत्तिष्ठते हठात्। परिस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्द्धमात्रम्। प्रपूर्य्य सौर्व्यात् परिधानयुक्ता प्रगृह्य निर्य्यात्यतिचालिता सा। वितस्तिप्रमितं दीर्घं विस्तारं चतुरङ्गुलम्। मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम्। वज्रासनस्थितो योगी चालयित्वा त कुण्डलोम्” हठप्र०।
तदङ्गसूर्य्यभेदनम् सूर्य्यादनन्तरं भस्त्रा कुण्डलीमाशु बोधयेत्। भानोराकुञ्चनं कुर्य्यात् कुण्डलीं चालयेत्ततः। मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः। नासादक्षिणमार्गवाहिपवनात् प्राणोऽतिदीर्घीकृतः चन्द्रान्तः परिपूरितामृततनुः प्राग्घण्टिकामस्तका। भिन्दन् कालविशालवह्निपशगान् भ्रूरन्ध्रन्तडीगणान् तत्कार्य्यं कुरुते पुनर्नवतरं जीर्णद्रुमस्कन्धवत्। कुण्डलीं चालयित्वा तु कुर्य्याद्भस्त्रां विशेषतः। एवमभ्यासतो नित्यं यमिनः शङ्कते यमः। सदान्यसेत् सूर्यभेदमुज्जावीं चापि शीतलोम्। एवमभ्यासयुक्तस्व यमस्तु यमिनः कुतः। मुहूर्त्तद्वयपर्य्यन्तं निर्भरं चाकनादसौ। उर्द्धमाकृष्यते किञ्चित् सुषुम्णागतकुण्डसी। मुहूर्त्तद्वयपर्य्यन्तं निर्भरं चामनादमौ। ब्रह्मचर्य्यरतस्यैव नित्यं हितमिताशनैः” हठप्र०।
समाघिक्रमः “अथेदानीं प्रवक्ष्यामि समाधिक्रमलक्षणम्। मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम्। सलिले सैन्धर्बं यद्वत् साम्यं भजति योगतः। तषात्ममनसोरैक्यं समाधिः सोऽभिधीयते। राजयोगस्य माहात्म्यं कोवा जानाति तत्त्वतः। ज्ञानान्मुक्तिस्थितेः सितिः गुरुवाक्येन लभ्यते। दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम्। दर्लभा सहजावस्था सद्गुरोः करुणां विना। विविधैरासनैः कुम्भैर्विचित्रकरणैरपि। प्रबुद्धायामादिशक्तौ प्राणः शून्थे विलीयते। उत्पा शक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः। योगिनः सहजावस्थ स्वयमेव प्रकाशते। सुषुम्णावाहिनि प्राणे शून्यं विशति मारुते। तदा समस्तकर्माणि निर्मूलयति कर्मवित्। अमलो निर्मलः शून्यं जगदेतच्चराचरम्। चित्ते समत्वमापन्ने वायुं व्रजति मध्यमे। एषाऽमरोली व ज्रोलो सहजोली मताऽपि च। ज्ञानं कुतो मनसि जीवति देवि! तावत् प्राणेऽपि जीवति मनो म्रियते न तावत्। प्राणमनोद्वयमिदं विलयं प्रयाति मोक्षं स गच्छति नरो न कथञ्चिदन्यः। रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः। रसो बद्धो मनो वद्धं किं न सिध्यति भूतले। मूर्च्छितो हरते व्याधिं मृतो जीवयति स्वयम्। वद्धः स्वेचरतां धत्ते रसो वायुश्च भैरवि!। इन्द्रियाणां मनो नाथो मनोनाथश्च मारुतः। मारुतस्य लयो नाथः स लयो नादमाश्रितः। अयमेव तु मोक्षाख्यो अस्तु वापि मतान्तरे। मनःप्राणलयौ नादमैकीकृत्य प्रवर्त्तते। प्रनष्टोच्छासनिःश्वासप्रध्वस्तविषयग्रहः। निश्चेष्टा निर्विकाराश्च लयं यान्ति च योगिनः। उच्छिन्नसर्वलङ्कल्पो निःशेषाशेषचेष्टितः। स्वावगम्यो लयः कोऽपि मनोवाचामगोचरः। यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय सनातनी। स्वात् शक्तिः सर्वभूतानां दृष्टिर्लक्ष्ये न सङ्गता। वेदशास्त्रपुराणाद्याः सामान्यगणिका इव। एकैव शाम्भवी मुद्रा सर्वतन्त्रेषु गोषिता। अन्तलक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषयर्जिता। एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता। अन्तलक्ष्यविलौनचित्त पवनो योगी यदा वर्त्तते दृष्ट्या निश्चलतारया बहिरसौ पश्यन्न पश्यत्यपि। सुद्रेय खलु शाम्भवो भवति सायुष्मत्पसादाद्गुरोः शून्याशून्याविवर्जिते स्फुरति यत्तत्त्वं पद शाम्भवम्। अर्द्धोद्वाटितलाचनः स्थिरमना नासाग्रदत्ते क्षणः। चन्द्रार्कावमिलीनतामुपनयेन्नैष्यन्दभावान्तरे। ज्योतीरूपमशपबाह्यरहित ददाप्यमान परम् तत्त्वं तत्पदमेव वस्तु परमं वाच्यं किमत्राधिकम्। श्रीशाम्भव्याः खेचर्य्याश्च अवस्थाचत्सभेदतः। तारे ज्योतिःषु सयोज्य किञ्चितुज्वालयेद् भ्रुवौ। पूर्वयोगस्य मार्गोऽयमुन्मनीकारनक्षणः। केचिदागमजालेन कचिन्निवमसर्ङ्कुलाः। कपितर्केण सह्यन्ति गैव जानन्ति वारकम्। षाताकाद्यद्वितीवशिखरे मेरुमूले तदस्तितत्त्वं चैतत् प्रवदति सुधीः सन्मुखं निन्मगानाम्। चन्द्रात् सारः स्रवति वपुषस्तेन मृत्युर्नराणान्तं बध्नीयात् स्वकरणभिदा नान्यथा कायसिद्धिः। दिवा न पजयेल्लिङ्गं रात्रौ नैव प्रपूजयेत्। सततं पूजयेल्लिङ्गं दिवारात्रौ च पूजयेत्। सुचिरं ज्ञानजनकपञ्चस्रोतःसमन्वितम्। तिष्ठते खेचरौ मुद्रा तस्मिन् स्थाने न संशयः। चित्तं चरति खे यस्माज्जिह्वा चरति खे गता। तेनैव खेचरी नाम मुद्रा सिद्धैर्नमस्कृता। इडापिङ्गलयोर्योगे शून्ये चैवानिलं ग्रसेत्। तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः। सूर्य्याचन्द्रमसोर्मध्ये निरालम्बे तले पुनः। संस्थिता व्योमचक्रेण सा सुद्रा नाम खेचरी। सा मयोद्भेदिता वामा साक्षाच्च शिबवल्लभा। पूरयेन्मारुत दिव्यं सुषुम्णापश्चिमे मुखे। पुरस्ताच्चैव पूर्य्येत निश्चिता खचरो भवेत्। अभ्यसेत् स्येचरीमुद्रामुनमनी सा प्रजायते। अभ्यसेत् खेचरीं ताब्दयावत् स्याद्योगनिद्रितः। संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन। भ्रुवोर्मध्ये शियस्थानं मनस्तत्र विलीयते। ज्ञातम्यं तत्पदं तुर्य्य तत्र कालो न विद्यते। चन्द्रसूर्य्यद्वयोर्मध्ये मुद्रा दद्याच्च खचरीम्। निरालम्बे महाशूग्ये व्योमचक्रे व्यवस्थिताम्। निरालम्ब मनः कृत्वा न किञ्चिदपि चिन्तयेत्। सबाह्यान्वरे व्योम्नि घठवत् तिष्ठति ध्रुवम्। वाह्यवायुर्यथा लीनः खस्य मध्ये न संशयः। स्वस्थार्न गच्छति प्राणः सूर्य्याङ्गे पवने तथा। एवमभ्यस्यमानस्य वायुमार्गे दिवानिशम्। अभ्यासाज्जीर्य्यते वायुर्मनस्तत्रैव लीयते। अमृत प्लावयेद्देहमापादतलमस्तकम्। सिध्यत च महायोगो महाबलपराक्रमः। शक्तिमध्ये मनः कृत्वा मनः शक्तेस्तु मध्यगम्। मनसा चित्तमालोक्य धारयेत् परम पदम्। खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु!। आत्मानं खमयं कृत्वा न किञ्चिदपि चिन्तयत्। बाह्याचन्ता न कत्तव्या तथैवान्तरचिन्तनम्। सर्वचिन्तां परित्यज्य न किञ्चिदपि चिन्तवेत्। सङ्कल्पमात्रकलनाच्च जगत् समग्रं सङ्कल्पमात्रकलनाद्धिमनोविलीनम्। सङ्कल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य निश्चलमवाप्नु मिहात्मशान्तिम्। कर्पूरं सलिले यद्वत् सैन्घवं सलिले यथा। तथा सन्घीयमानं च मनस्तत्त्वे विलीयते। ज्ञेयं सर्वमतीतञ्च ज्ञानञ्च मन उच्यते। ज्ञानं ज्ञेयं मनश्चैव नान्थः पुन्था द्वितीयदः। मनो श्यमिदं सर्वं यत्किञ्चित् सचराचरम्। मनसोह्युन्मनीभावे द्वैतभावः प्रणश्यति। ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम्। मानसे विलयं याते कैवल्यमपि कल्पते। लयो लय इति प्राहुः कीदृशं लयलक्ष णम्। स पुनर्वासनोत्थानो लयोविषयविस्मृतिः। एवं नानाविधोपायाः सम्यक्स्वानुभवान्विताः। समाधिमार्गाः कथिताः पूर्वाचार्य्यैमहात्मभिः। सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्रजन्मने। मनोन्मन्यै नम स्तभ्यं महाशक्त्यै चिदात्मने। आसक्ततत्त्वबोधानां मूढनामप्रि सन्मतम्। प्रोक्तं गोरक्षनाथेन नादोपास नमुच्यते” हठप्र०।
नादानुसन्धानप्रशंसा श्री आदिनाथेन सपादकोटिप्रकाराः काथता जयन्ति। नादानुसन्धानकमेव कार्य्यं मन्यामहेनान्यतम लयानाम्। मुक्तासनस्थितो योगी मुद्रा सन्घाय शाम्भवीम्। शृणयादृक्षिणे कर्णे नादमेकान्तके सुधीः। काष्ठेः प्रवर्त्तितो वह्निः काष्ठेन सह शाम्यति। नादे प्रवर्त्तितं चित्तं नादेन सह लीयते। श्रवणमुखनयननासानिरोधनेनैव कर्त्तव्यः। सुषुम्णामार्गेण स्फुटयमकः श्रूयते नादः” हठप्र०। “आरम्भश्च घटश्चक तथा परिचयस्तथा। निष्पत्तिश्चेति योगषु स्यादवस्थाचतुष्टयम्। विस्मृत्य सकलं वाह्यं नादे दुग्धाम्बुवन्नरः। एकीभूयाथ सहसा चिदाकाशे विलीयते। औदासीन्यपरो भूत्वा सदाभ्यासेन संयमी। उन्मनीकरणं सद्यो नादमेपाबधारयेत्”। शति काले चौपटी वा कटी वा पथ्याहारे गोपथे वा पथे वा भक्ष्ये भिक्षावृन्दमारण्यकन्दं पाणौ द्रोणीकर्परं भोज्य पात्रम्। सर्वचिन्तां परित्यज्य सर्वकाले च सर्वदा। नाद मेवानुसन्धत्ते नादे चित्तं विलीयते” हठप्र०।
आरम्भावस्था “ब्रह्मग्रन्थिमेवेद्भिन्न आनन्दः शून्यसम्भवः विचित्रक्षणिको देहे श्रूयमेऽनाहनो ध्वनिः। सम्पूर्णहृदये शून्ये आरम्भो योगवान् भरेत्” हठप्र०।
घटावस्था “द्वितीयायां घटोकृत्य–व युगवति मध्यमः। दृढा सनो भवेद्यागो ज्ञानी देवसमस्तथा। विष्णुग्रन्थिर्यदाभिन्नः परमानन्दसूचकः। अतिशून्यपिभेदश्च मेरीशब्दस्तथा भवेत्” हठप्र०
परिचयावस्था “प्रतीयग्रन्थिभेदेषु जायते मर्दल ध्वनिः। महाशून्यं तथा याति सर्वासिद्धिसममाश्रयम्। चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः दोषो दुःखक्षुधानिद्राजरामृत्युविवर्जितः। रुद्रग्रन्थिं ततो नित्त्वा सर्वपीठगतोऽनिलः” हठप्र०।
निष्ठावस्था “निष्ठातो वैणवः शब्दः क्वणद्वीणाक्वणो भवेत्। एकीभूतं तथा चित्तं राजयोगाभिधायकम्। सृष्टिसंहारकर्त्तासौ योगीश्वरसमो भवेत्। अस्तु वा मास्तु वा मुक्तिरत्रै{??}खण्डितं महत्। लयामृतमिटं सौख्यं राजयोगादवाप्यते। राजयोगपदं प्राप्तं सुखोपायश्च चेतसाम्। हठं विना राजयोगो राजयोग विना हठः। सद्यः प्रत्ययसन्धायी जायते नादजो लयः हठप्र०।
नादानुसन्धानं तत्फलञ्च “नादानुसन्धानसमाधिभाजां योगीश्वराणां हृदये प्ररूढम्। आनन्दमेकं वचसामवाच्य जानाति तत्त्व गुरुनाथ एव। कर्णो पिधाय हस्ताभ्यां यं शृणोति ध्वनिं मुनिः। तत्र चित्तं स्थिरीकुर्याद्यावत् स्थिरपद व्रजेत्। सर्वचिन्तां परित्यज्य सावधानेन चेतसा। नादमेवानुसन्धत्तं योगसाम्राज्यमिच्छता। मकरन्दं पिबन् भृङ्गो गन्धान्नापेक्षते यथा। नादासक्तं तथा चित्तं विषयान्न हि काङ्क्षति। नादश्रवणतश्चित्तमन्तरङ्गभुजङ्गमः। विस्मृत्य सर्वमेकाग्रं कुत्रचिन्न हि धावति। मनोमत्तगजन्द्रस्य विषयोद्यानचारिणः नियामनसमथाऽयं निनादो निशिताङ्कुशः। नादोऽन्तरङ्गसारङ्गबन्धन वागुरायते। अन्तरङ्गतुरङ्गस्य रोधे बाधायतेऽपि च। अन्तरङ्गस्य जविनो वाजिनः परिघायते। नादोपास्तिरतो नित्यमवधार्य्यापि योगिनः। अभ्यस्यमानो मादाऽय बाह्यमावर्त्तयेत ध्वनिम्। पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत्। श्रूयते प्रथमाभ्यासे नादी नानाविधो महान्। वर्द्धमाने ततोऽभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः। आदौ जलधिजीमूतभेरीनिर्झरनिस्वनः। मध्ये मर्दलशङ्खेत्थघण्टाकोलाहलस्तथा। अन्ते तु किङ्किणीशब्दवीणाभ्रमरनिस्वनः। इति नानाविधो नादः श्रूयते देहमध्यतः। महति श्रूयमाणेऽपि मेघभेर्य्यादिके ध्वनौ। तत्र सूक्ष्मतरं ध्वानं नादमेव परामृशेत्। यत्र कुत्रापि वा नादे लगति प्रथमं मनः। तत्रैव तत् स्थिरीभूय तेन सार्द्धं विलीयते। घण्टानिनादसक्तस्य शब्दान्तःकरणस्य तु। अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः। ध्वनेरन्तर्रतं ज्योतिर्ज्ञेयस्यान्तर्गतं मनः। तन्मनो विलयं याति तद्विष्णोः परमं पदम्। तावदाकाशसङ्कल्पो यावत् शब्दः प्रवर्त्तते। निःशब्दं तत्परं ब्रह्म परमात्मा समीर्य्यते। यत् किञ्चि- न्नामरूपेण श्रूयते शक्तिरेव सा। यस्तच्छ्रोता निराकारः स एव परमेश्वरः। नादः शक्तिरिति ज्ञेयं नाद ज्ञानं सदाशिवः। ज्ञेयज्ञाने विलीने च सोन्मन्थेवावशिषग्रते। नादोयावान् मनस्तावन्नादान्ते तु मनोन्मनी। सशब्दं कथितं व्योम्नि निःशब्दं ब्रह्म कथ्यते। सदा न्यदानुसन्धानात् संक्षीणाः सर्ववासनाः। निरब्जने विलीयन्ते निश्चितं मारुतात्मनः। नादकोटिसहस्राणि विन्दुकोटिशतानि च! सर्वे तत्र लयं यान्ति यत्र देवी निरञ्जना” हठप्र०।
हठलोगफलम् ईश्वरमीनसंवादे “यदा परिचये शक्तिश्चलि तोर्ध्व मुपैति खम्। षट्चक्राणि क्रमाद्भित्त्वा तदा स्यु रणिमादयः। पुरा ग्रन्थित्रयं भित्त्वा यात्यूर्ध्वं मरुतो रगी। स्फुटन्ति पृष्ठवंशास्थिग्रन्थयो योगिनस्तदा। वायुस्तदैव सर्वाङ्गे नीनोभवति सञ्जितः। धीरैः केवलकुम्भ स उच्यते सर्वसिद्धिदः। मूलाधारं यदाऽपानो मित्त्वोर्द्धं याति वेगतः। वदातीतानागतज्ञो योगी भवति सत्त्वसीः। स्थितिं भित्त्वाऽर्द्धगाऽपानक्षोभिता स्थाद्यदोरगो। तदा नादोत्पत्तिरस्य जायते योगिनो हृदि। मृद ङ्गनादोत्पत्तिस्तु मणिपूरभिदा भवेत्। अनाहतविभेदेन घण्टाध्वनिरुदेति च। विशुद्धचक्रभेदेन यन्त्रनादः प्रजायते। यदा त्वाज्ञाचक्रभेदस्तदोपैति मनोलयम्। सहस्रदलकमलं वायुना शक्तिराव्रजेत्। यदा तदा मुनिस्तिष्ठेदाकल्पं सहजेऽव्ययम्”। पवनयोगसंग्रहे “महामुद्रां समभ्यस्य महाबन्धमतः परम्। महाबेधञ्च नियत प्रकुर्य्याच्छक्तिचालनम्। आसनं सुदृढं बद्ध्वा मूल बन्धं विधाय च। उड्रियानं तथा बन्धं ततो जालन्धराभिधम्”। “अभ्यसेदिति सम्बन्धः। “प्राणे सुषुम्णां सम्प्राप्ते नादोऽन्तः श्रूयतेऽष्टधा। च ण्टादुन्दभि शङ्खान्धिवीणावेण्वादितालवत्। तनूनपात्तडितारातारेशतपनोपनम्। ब्रह्मनाडीं गते प्राणे विम्ब रूपं प्रकाशते। तथाच विश्वरूपाचार्य्याः “यदा संक्षीयते प्राणो मानसं च प्रलीयते। तदा समरसत्वं यत्समाधिः मोऽभिधायते। मनःस्थैर्य्यात् स्थिरो वायुस्ततो विन्दुः स्थिरो भवेत्। विन्दुस्थैर्य्योदयात् सत्यं पिण्डस्थैर्य्यं प्रजायते”। सैषा निष्पत्तिदशा साषकस्य राजयोगारम्भ इति तथा च हठप्रदीपिकायाम्। “प्रनष्टोच्छ्वासनिःस्वासः प्रध्वस्तविषयज्वरः। निश्चिष्टो निर्विकारश्च लयो जयति योगिनः। तथा चोक्तं ग्रन्थान्तरे “शुष्के मले तु वायोः स्याद्गतिरस्स्वलिता ततः। अधोगतिं विहायाशु भवत्यूर्द्धमुखस्ततः। अपानस्त्र्ध्वगो भूत्वा वह्निना सह गच्छति। प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम्। मिलित्वा कुण्डलीं नीत्वा प्रसूतां कुण्डलीं पुनः। प्रसह्य विंशतिस्थानं सुषुम्णा बहुगन्धिकम्। ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुण समुद्भवम्। सुषुम्णा वदनस्थासा प्रयात्यूर्द्धञ्च सत्वरम्। विष्णुग्रन्थिं प्र यात्युच्चैः सत्वजं हृदि संस्थितम्। वेगेन महता गच्छेद्विष्णुग्रन्थं विभिद्य सा। ऊर्द्धं गच्छति यत्रास्ते रुद्रग्रन्थिस्तमोभवः। तत ऊर्द्ध्वं सुषुम्णाया याति शीतांशुमण्डलम्। आकुलाख्यं तु तच्चक्रं दलैः षोडशभिर्वृतम्। तत्र शीतांशुसम्भूतं द्रावं शोषयतेऽनिशम्। चलिता प्राणवेगेन रक्तपित्तरवेर्गृहम्” हटम०। “योगिनः कालवञ्चनोपायो यथा “ज्ञात्वा कालं निजं योगी लयस्थानं समाश्रितः। युञ्जीत योगं कालस्य वञ्चनाय यथाक्रमम्। बद्धसिद्धासने देहं पूरयेत् प्राणवायुना। कृत्वा दण्डस्थिरं बुद्ध्या दश द्वाराणि रोधयेत्। बद्धा च खेचरीं मुद्रां ग्रीवायाञ्च जनन्धरीम्। अपाने मूलबन्धञ्च उड्डिय नं तथेदरे। उत्थाप्य भुजगीं शक्तिं मूलाधाराम्बुज स्थिताम्। सुषुम्णान्तर्गतां पञ्चचक्राणां भेदिभीं शिवाम्। जीवं हृदाश्रयं नीत्वा यान्तीं बुद्धिमनोयुताम्। सहस्रदलमध्यस्थशिवे लीनां सुधारयेत्। यतः सुधाकरोद्भूतममृतं तेन मूलतः। सिञ्चन्तीं सकलं देहं प्लावयन्तीं विचिन्तयेत्। तया सार्द्धं ततो योगी शिवेनैकात्मतां ब्रजेत्। परानन्दमयो भूत्वा चिद्बत्तिमपि संत्यजेत्। ततोऽलक्ष्यमनाभासमहभावविवर्जितम्। सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम्। स एव कालः सशिवः ससर्वो नास्त्यतःपरः। कः केन हन्यते तत्र म्रियते नापि कश्चन। ततो व्यतोते समवे कालस्य भ्रान्तिरूपिणि। योगी सुप्तोत्थित इव प्रतिबोधे ब्रबोधितः। एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः। कालं कलितसंसारपौरुषेणाद्भूतं हि तम्। ततस्त्रिभुवने योगी विचरत्येक एव सः। पश्यन् संसारवैचित्र्यं स्वेच्छया निरहङ्कृतिः” हठस०।
***