स्विद् = अव्य० स्विद–क्विप्। १ पश्ने २ वितर्के अमरः ३ पादपूरणे च मेदि०
स्विन्न = त्रि० स्विद–क्त। १ थर्मयुक्ते २ स्वेदान्विते च ३ पक्वे “स्विन्नमन्नमुदाहृतम्” स्मृतिः।
स्वीकार = पु० अखस्य स्वस्य कारः करणं स्व + च्वि + कृ–घञ्। अङ्गीकारे।
स्वीय = त्रि० स्वस्येदम् छ अपाणिनीयैरत्र न कुगिति मन्यते। १ निजसम्बन्धिनि २ नायिकाभेदे स्त्री नायिकाशब्दे दृश्यम्।
स्वुर्च्छ = विस्मृतौ भ्वा० प० सक० सेट्। स्वूर्च्छति अस्वूर्च्छीत् आदित् स्वूर्णं स्वूर्च्छितम्।
स्वृ = शब्दे अक० उपतापे सक० भ्वा० प० येट्। खरति अस्वारीत् अस्वार्षीत्।
स्वॄ = हिंसने क्र्या० प्वा० प० सक० सेट्। स्वृणाति अस्वारीत्।
स्वेक = गतौ भ्वादि० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः। स्वेकते अस्वेकिष्ट।
स्वेच्छा = स्त्री ६ त०। स्वाभिलाषे हेमच०।
स्वेच्छामृत्यु = पु० स्वेच्छया मृत्युर्यस्य। १ भीष्मे त्रिका० २ स्वेच्छाघीनमृत्युयुक्ते त्रि०।
स्वेद = पु० स्विद–भावे घञ्। १ पाकभेदे (सेका) २ घर्मे गात्रादितो जलादेः निष्यन्दने। णिच् भावे अच्। वर्मनिस्रावणे तत्प्रकारादिकं चरकेणाभिहितं यथा “अतः स्वेदाः प्र क्ष्यन्ते यैर्यथावत् प्रयोजिताः। स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः। स्नेहपूर्वं प्रयुक्तेन स्वेदेनावर्जितेऽनिले। पुरीषमूत्ररेतांसि न सज्जन्ति कथञ्चन। शुष्काण्यपि हि काष्ठानि स्नेदं स्वेदापपादनैः। गमयन्ति यथान्यायं किं पुनर्जीवतो मरान्। रोगर्त्तुव्याधितापेक्षोनात्युष्णोऽतिमृदुर्न च। द्रव्यवान् कल्पितो देशे स्वेदः कार्य्यकरो मतः। व्याधौ शीते शरीरे च महान् स्वेदो महाबले। दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः। वातश्लेष्मणि वाते वा कफे वा स्वेष्ट इष्यते। स्निग्धरूक्षस्तथा स्निग्धोऽरूक्षश्चा प्यपकल्पितः। आमाशयगते वाते कफे पक्वाशयाश्रिते। रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च। वृषणौ हृदयं दृष्टी स्वेदयेन् मृदुनैव वा। मध्यमं वङ्क्षणौ शेषमङ्गावयवमिष्टतः। सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा। पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी। मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि। जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्। शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे। सञ्जाते मार्दवे स्वेदे स्वेदनाद् विरतिर्मता। पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा। दाहः स्वेदाङ्गदौर्बल्यमतिस्निग्धस्य लक्षणम्। उक्त स्तस्याश्रितीये यो ग्रैष्मिकः सर्वशो विधिः। सोऽतिसिन्नस्य कर्त्तव्यो मधुरः स्निग्धशीतलः। कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिमाम्। पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्। विदग्धभ्रष्टनाडीनां विषमद्यविकारिणाम्। श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम्। तृष्यतां क्षिधितानाञ्च क्रुद्धानां शोचतामपि। कःमल्युदरिणाञ्चैव क्षतानामाढ्यरोगिणाम्। दुबेलातिविशुष्काणामुपक्षीणौजसां तथा। मिषक् तैमिरिकाणाञ्च न स्वेदमवतारयेत्। प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे। कर्णमण्यां शिरः शूले स्वरभेदे गलग्रहे। अर्दितैकाङ्गनर्पाङ्गपक्षाघाते विनामके। कोष्ठानाहविबन्धेषु शुक्राघाते विजम्भके। पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीपु च। मत्रकृच्छ्रे महत्त्वे च मुष्कयारङ्गमर्दके। पादोरुजानुजङ्घार्त्तिसग्रहे श्वयथावपि। स्वल्लीषामेषु शीते च वेपथौ वातकण्टके। सङ्कोदायाम शूलेषु स्तम्भगौरवसुप्तिषु। मर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते। तिलमाषकुलत्थाम्लवृततैलामिषौदनैः। पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्। गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः। सिकतापांशुपाषाणकरीषायसपूटकैः। श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत्। द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि। भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च। विधूमाङ्गारतप्तेष्वभ्यक्तः स्विद्यति ना सुखम्। ग्राम्यानूपोदकं मांसं पयोवस्तशिरस्तथा। वराहमध्यपित्तासृकस्नेहवत्तिलतण्डुलान्। इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्। देशकालबिभागज्ञो युक्त्यपेक्षा भिषक्तमः। वारणाघृतकैरण्डशिग्रुमूलकसर्षपैः। वासावंशकरञ्जाकंपत्रैरश्मन्तकस्य च। शोभाञ्जनकशेरीयमालतीसुरसार्जकैः। पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्। भूतीकपञ्चमूलाभ्यां सुरया दधिलस्तुना। पत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्। अतएव च निर्य्यूहाः प्रयोज्या जालकोष्टके। स्वेदनार्थं घृतक्षीरतैलकोष्टांश्च कारयेत्। गोचूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः। सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते। गन्धैः सुरायाः किट्टेन जीवन्त्या शतपुष्पवा। उमया कुष्ठतैलाम्यां युक्तया चोपनाहयेत्। चर्मभिश्चोपनद्धव्यः सलोमभिरपुतिभिः। उष्णवीर्य्यैरलाभे तु कौशेयाविकशास्टकैः। रात्रौ बद्धं दिवा मुञ्चेत् मुञ्चेद्रात्रौ दिवाकृतम्। विदाहपरिहारार्थं स्यात् प्रकर्षस्तु शीतले। सङ्करः १ प्रस्तरो २ नाडी ३ परिषेको ४ऽवगाहनम् ५। जेन्ताको ६ऽश्यथघनः ७ कर्षूः ८ कुटी ९ भूः १० कुम्भिकैव ११ च। कूपो २१ दालाक १३ इत्येते स्वेदयन्ति त्रयोदश। तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः” इति। तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद १ इति विद्यात्। शूकशमीधान्यपुलाकानां वेशवारायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदे पञ्चाङ्गुलोरुवकार्कपत्रप्रच्छेदे वा स्वभ्यक्त्रसर्वगात्रस्य शयानस्योपरि स्वेदनं प्रस्तरस्वेद २ इति विद्यात्। स्वेदनद्रव्याणां पुनर्मूलफलपत्रभङ्गादीनां मृगशकुनपि शितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां वाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदोर्घया व्यामार्द्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्या विना- मितया वातहरसिद्धस्नेहाभ्यक्तगात्रो वाष्पवपहरेत्। वाष्पो ह्यनूर्द्धगामी विहतचण्डवेगस्त्वचमविदहन् सुस्थं स्वेदयतीति नाडीस्वेदः ३। वातिकोत्तरवातिकानां पुनर्मू षादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वाधुलिकाः प्रनाडीर्वापूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः ४। वातहरोत्क्वाथक्षीरतेलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः” ५। “अथ जेन्ताकं चिकीर्षुर्भूमिं परोक्षत इत्यादि”। (जेन्ताकशब्दे ३१४४ पृ० अस्य लक्षणाद्युक्तप्रायम् ६।) “शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्। ताप यित्वामारुतघ्नैर्दारुभि सम्प्रदीपितैः। व्यपोज्झ्य सर्वानङ्गारान् प्रोक्ष्य चैवोष्णवारिणा। तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्। तस्यां स्वभ्यक्तसर्वाङ्ग शयानः स्विद्यते सुखम्। रौरवाजिनकौषेयप्रावाराद्यैः सुसंवृतः। इत्युक्तोऽश्मथनस्वेदः ७। कर्षूस्वेदः प्रबक्ष्यते। स्वानयेच्छयनस्याधः कर्षूं स्थानविभागवित्। दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत् ततः। तस्यामुपरि शय्यायां स्वप्रन् स्विद्यति ना सुखम् ८। अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्। घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः सम्प्रप्रलेपयेत्। कुटीमध्ये भिषक् शय्यां स्वास्तीर्णाञ्चोपकल्पयेत्। प्रावाराजिनकौषेयकुत्थकम्बलगोलकैः। हसन्तिकाभिरङ्गारपूर्णाभिस्ताञ्च सर्वशः। परिवार्य्यान्तरारोहेदभ्यक्तः स्विद्यते सुखम् ९। य एवाश्मघ० स्वे दबिधिर्भूमौ स एव तु। प्रशस्तायां निवाताया समायामुपदिश्यते १०। कुम्भीं वातहरक्वाथपूर्णां भूमौ निखातयेत्। अर्द्धभागं रिभा गं वा शयनं तत्र चोपरि। स्थापयेदासनं वापि नातिसान्द्रपरिच्छदम्। अथ कुम्भ्य सुसन्तप्तान् प्रक्षिपेदयसोगुडान्। पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम् ११। सुसंवृताङ्गः स्वभ्यङ्गः स्नेहैरनिलनाशनैः। कूपं शयनविस्तारं द्विगुणञ्चापि वेधतः। देशे निवाते शस्ते च कुर्य्यादन्तः सुमाजितम्। हस्त्यश्वगोखरोष्ट्राणां करोषैर्दग्धपूरिते। स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम् १२। वीथीकान्तु करोषाणां यथोक्तानां प्रदीपयेत्। शयनान्तः प्रमाणेन शय्यामुपरि तत्र च। सुदग्धायां विधूमायां यथीक्तामुपकल्पयेत्। स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्। दोलाकस्वेद १३ इत्येष सुखः प्रोक्तो सहर्षिणेति”। इति त्रयादशविधः स्वेदोऽग्निगुणसंश्रयः। व्यायाम उष्णसदनं गुरुपावरणं क्षुधा। बहुपानं भयक्रोधावुपनाहाहवातपाः। स्वेदयन्ति दशैतानि नरमग्निगुणादृते। इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च। एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च। इत्येतत् त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्त्तितम्। स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भनेत्। तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः” इति। तत्र श्लोकाः “स्वेदा यथा कार्य्यकरोहितो येभ्यश्च यद्विधः। यत्र देशे यथायोग्या देशो रक्ष्यश्च यो यथा। स्विन्नातिस्विन्नरूपाणि तथातिस्विन्नभेषजम। अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना। त्रयोदशविधः स्वेदो विना दशविधोऽग्निना। सग्रहेण च षट्स्वेदाः स्वेदाध्याये निदर्शिताः। स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा। शिष्यैस्तु प्रतिपत्तव्यसपदेष्टा पुनर्वसुरि त”।
स्वेदज = पु० स्वेदाज्जायते जन–ड। १ स्वेदजाते दंशादिजन्तौ अमरः २ स्वेदजातमात्रे त्रि०। “संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च। मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च। नवमेघप्रसिक्तायां पिपीलिकगणादयः। संस्वेदजास्तु विज्ञेया वृक्षगोपशुजन्तवः। समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः। जायन्ते क्रिमयो विप्राः! काष्ठेभ्यो घुणकादयः। तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च। संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात्। गाभ्यो हि महिषेभ्यश्च मानुषेभ्यश्च जन्तवः। मत्स्यादिम्यश्च विविधा अन्तःकुक्षौ विशेषतः। अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च। गोभ्योऽश्वेभ्यस्तथा चैव अष्टास्पदकिनीनकाः। माक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः। शरावति विकाराश्च करीषेभ्यो भवन्ति हि। एवमादिरसंख्यातो गणः संस्वेदजो मया। सर्वासान्निहितो ह्येष प्राक्कर्मवशजः स्मृतः” वह्निपु०।
स्वेदन = न० स्विद–णिच् ल्युट्। गात्रादितो घर्मादेर्निःसारणव्यापारे (भापरा)। स्वेदशब्दे दृश्यम्।
स्वेदनी = स्त्री स्विद्यते पच्यतेऽनया सिद–ल्युट्। लौहपात्रभेदे (ताओया) अमरः। संज्ञायां कन् टापि ह्रस्वः स्वेदनिका कन्दुरूपे पात्रे हेमच० भर्जवपात्रे शब्दमा०
स्वैर = न० स्वस्य ईरम् ईर–अच् वृद्धिः। १ स्वेच्छायाम् २ तद्वति ३ मन्दे च त्रि० मेदि०।
स्वैरिन् = त्रि० स्वेनैव ईरयितुं शीलमस्य ईर–णिनि वृद्धिः। १ स्वेच्छाचारिणि स्वतन्त्रे। २ व्यभिचारिस्त्रियां स्त्री ङीप्। ३ परपुरुषचतुष्कगामिन्यां स्त्रियां च। “नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत। अतःपरं स्वैरिणी स्यात् बन्धकी पञ्चमे भवेत्” भा० आ० १२३ अ०।
स्वोपार्जित = त्रि० स्वेन उपार्जितम्। स्वयमर्जिते धनादौ। तस्य विभागो दायभागे दर्शितो यथा “सम्प्रति विमाज्यमविभाज्यञ्चोच्यते। तत्र कात्यायनः “पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्जितम्। दायादानां विभागे तु सवंमेतद्विभज्यते”। “यच्चान्यदिति चकारः स्वयमित्यनेन संबध्यते स्वयञ्चार्जितमिति चकाराद्यन्य स्यापि तदर्जनं साधारणधनद्वारेणेत्यर्थः। अनुपघातोपात्तमुविभाज्यमाहतुर्मनुविष्णू “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जयेत्। स्वयमीहितलब्धं तन्नाकामो दातुमर्हति”। पितृद्रव्योपघाताभावेन द्रव्यद्वारेण नेतरेषां व्यापारः, स्वचेष्टालब्धत्वेन शारीरोऽपि व्यापारो नेतरेषामिति अर्जकस्यैव तदसाधारणं स्वयमीहितलब्धं तदिति हेतुत्वेनोपन्यासात्। तथा च व्यासः “अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति, यद्धनम्। दायादेभ्यी न तद्दद्याद्विद्यालब्धन्तु यद्भवेत्”। स्वशक्तिमात्रेण यत् प्राप्तमिति सामान्येनाभिधानात् सर्वमेवंविधं स्वीयमसाधारणं द्रष्टव्यम्। स्वशक्तिप्राप्तस्यापि विद्याधनस्य समाधिकविद्यैः साधारणत्वात् न्यूनविद्याविद्यनिराकरणार्थं विद्यालब्ध पदम्। तथा याज्ञवल्क्यः “पितृद्रव्याविरोधेन यद न्यत् स्वयमर्जितम्। मैत्रमौद्वाहिकञ्चैव दायादानां न तद्भवेत्”। मैत्रादिग्रहणं प्रदर्शनार्थं, एवमादिषु प्रायेणानुपघातसम्भवात्। तथा मनुः “विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत्। मैत्रमौद्वाहिकञ्चैव माधुपर्किकमेव च”। तथा व्यासः “विद्याप्राप्तं शौर्य्यधनं यच्च सौदायिकं भवेत्। विभागकाले तत्तस्य नान्वेष्टव्यं स्वरिक्थिभिः”। पितृपितृव्यादिभ्यः सुदायससम्बन्धिभ्यः प्रसादादिना लब्धं सौदायिकम्। तथा नारदः “शौर्य्यभार्य्याधने, हित्वा, यच्च विद्याधनं भवेत् त्रीण्येतान्यविभाज्यानि प्रसादो यश्च षैतृकः”। भार्य्याप्राप्तिकाले लब्धं भार्य्याधनम् औद्वाहिकमित्यर्थः, एतानि वर्जयित्वा अन्यद्विभजेदित्यनुवर्त्तते वाक्यान्तरीयम्। तदवमादिभिः शौर्य्यादिधनत्वमविभाज्यत्वे कारणं नोच्यते शौर्य्याद्यर्जितस्यावि विभागश्रुतेः। तथा च व्यासः “साधारणं समाश्रित्य यत् किञ्चिद्वाहनायुधम्। शौर्य्या- दिनाप्नोति धनं भ्रातरस्तत्र भागिनः। तस्य भागद्वयं देयं शेषास्तु समभागिनः। साधारणद्रव्येणार्जितस्य धनस्य विभागं वदति। तथा नारदः “कुटुम्बं विभृयाद् भ्रातुर्यो विद्यामधिगच्छतः। भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन्”। विभृयादित्येकवचननिर्देशात् यटि विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधनव्ययशरीरायासाभ्यां संवर्द्धयति तदा तद्विद्योपार्जितधने तस्याप्यधिकारः। तथा “वैद्योऽविद्याय नाकामो दद्यादंशं स्वतो धनात्। पित्र्यं द्रव्यं समाश्रित्य न चेत्तेन तदर्जितम्”। पत्रपदं साधारणघनपरं तदनाश्रित्यार्जितं वैद्योऽविद्याय अनिच्छन्न दद्यात् वैद्याय विदुषे पुनः साधारणमन्तरेणाप्यर्जितं दद्यादेव। तथा च गौतमः “स्वयमर्जितमवैद्येभ्यो वैद्यः कामं न दद्यात्”। असाधारणधनशरीरव्यापारार्जितं स्वयमर्जितं अविद्वद्भ्यो दातुमनच्छिन् न दद्यात् विद्वद्भ्यः पुनर्दद्यादेव। एतच्च विद्याधनमात्रविषयम्। तदाह कात्यायनः “नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित्। समविद्याधिकानान्तु देयं वैद्येन तद्धनम्”। तन्त्रोच्चरितविद्यापदम् उभाभ्यां समाधिकपदाभ्यां संबध्यते तेन समविद्याधिकविद्यानां दातव्यं न्यूनविद्याविद्ययोः पुनरनधिकारः। “तदेवमादिवनैर्विद्याशौर्य्यादिधनेष्वपि साधारणधनोपघातानुपघाताभ्यां विभागाविभागयोरवगमात् तस्यैव प्रयोजकत्वात् तत्पदवत्येव श्रुतिः कल्पनीयाउपघातःर्जितं विभजेदिति, न पुनः शौर्य्यादिपदवत्यपि, अवश्यकल्पनीयसामान्यश्रुतिकल्पनयैवोपपत्तेः। होलाकाधिकरणन्यायस्यायमेव विषयः। यद्वा न्यायप्राप्त एवायमर्थः, यद्येनार्जितं तत् तस्मिन् जीवति तस्यैव, असति विशेषवचने, यत्र पुनः साधारणधनमात्रेणैकस्य व्यापारोऽपरस्य धनशरीराभ्यां तत्रैकस्यैको भागोऽपरस्य भागद्वयं न्यायावगतमेवं सिद्धम्। एतेन चैतदपि सिध्यति, यत् साधारणधनोपघाते सति यस्य यावतोऽंशस्य स्वल्पस्य महतोवोपघातः, तस्य तदनुसारेण भागकल्पना कार्य्या। किञ्च कात्यायनवचनम् “विभक्ताः पितृवित्ताच्चेदेकत्र प्रतिवासिनः। विभजेयुः पुनद्र्व्यंशं सलभेतोदयो यतः”। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये सकारादिशब्दार्थसङ्कलनम्।
—ह—
हकारः = ष्यञ्जनेषु ऊष्मवर्णभेदः। कण्ठस्थानोच्चर्य्यः। “हकारं पञ्चमैर्युक्तसन्तःस्थाभिश्च संयुतम। औरस्यं तं विजामीयात् कण्ठ्यमाहुरसंयुतम् शिक्षोक्तेः पञ्च मादिवर्णमंयोगे उरसोच्चार्य्यश्च। तस्योच्चारणे आभ्यन्तर प्रवत्नः जिह्वाग्रेण कण्ठस्थानस्य अर्द्धस्पर्शः। “अचोऽस्पृष्टायणस्तीषन्नेमस्पृष्टाः शलस्तष्ठेति” शिक्षोक्तेः। बाह्यप्रयत्नास्तु घोषसंवारनादा महाप्राणश्च। अस्य ध्येयरूपं कामधेनुतन्त्राक्तं यथा “हकारं शृणु चार्वङ्गि! चतुवर्गपदायकम्। कुण्डलीद्वयसंयुक्तं रक्तविद्यल्लतोपम्। रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा। पञ्चपाणा त्मकं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दसहितं वर्णं हृदि भावय पार्वति!”। अस्याधिष्ठातृदेवताध्यानमुक्तं वर्णोद्वारतन्त्रे यथा “करवीरभूषिताञ्च सादृहामां दिग म्बराम्। अस्थिमाल्यामष्टभुजां वरदाममुजेक्षणाम्। न गेन्द्रहारभूषाढ्यां जटामुकुटमण्डिताम्। सर्वसिद्धिप्रयां नित्यां धर्मकामार्थमोक्षदाम्। एवं ध्यात्वा हकारन्तु तन्मन्त्रं दशधा जपेत्”। मातृकन्यासेऽप्य दक्षपादेन्यम्यता काष्य ष्टौ पथमप्रयोगे खेदःफलं वृ० र० टीकायामुक्तं यथा “मः मौख्य हस्तु खेदम विनयमपि च लं क्षः समृद्धिं करोति”। अकारादिवर्णानां प्रयोगे फलादिकं यत्र भवतीत तत्रैवोक्तं यथा “पद्यादौ गद्यवक्त्रे वचसि च यकले प्राकृतादौ समोऽयम्” इति। एतेषां फलाधार निरूपणमप्याकारे “नायको वर्ण्यते यत्र फलं तस्य समा दशेत्। अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम्” तस्य प्रतिप्रसवो यथा “देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः। मित्रामित्रविचारो वा न तत्र फलकल्पना। देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोपि वा”। अस्य वाचकशब्दास्तन्त्राक्ता यथा “हः शिवो गगनं हसो नागलोकोऽम्बिकापतिः। नकुलीशो जगत्प्राणः प्राणेशः कपिलामलः। परमात्म त्मजो जीवः वराकः शान्तिदोऽकुलः। मृगोऽभयोऽरुणःस्थाणुः कूटकूपनिवारकाः। लक्ष्मीर्हरिहरः शम्भुः प्राणसन्धिर्ललाटजः। स्वकोपवारण शूली चैतन्यं पादपूरणम्। महामक्ष्मीः परं नादो मघनादो विमर्दनः। विन्दुर्दुर्गा प्रिय। देवी मेचश्यामः महेश्वरः। दक्षपादः सदा शम्भुः श्यामो यः साममण्डलम्” वर्णांभिषानम्। “शुक्रश्चाथ हकारोऽंशुः प्राणः शान्तः शिवो वियत। अकुलो नकुलीशश्च हंसः शून्यञ्च हाकिनी। अनन्तो नकुली जीवः परमात्मा ललाटजः” इति वीजवर्णाभिधातम। “हकारा नकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिये। महेशो नकुली चैव वराको गगनं रविः। लिङ्गं गूवामहाशून्यः प्राणश्च परमेश्वरि!” रुद्रयामले ८ पष्टले।
ह = अव्य० हा–ड। १ पादपूरणे अमरः २ मम्ब धने ३ नियोगे ४ क्षेपे ५ निग्रहे ६ निन्दायां मेदि० ७ प्रसिद्धौ च। ८ शिवे पु० ९ जले १० शून्ये १२ आकाशे १३ रक्ते १४ स्वर्गे १५ धारणे पु० मेदि०। १ पापहरणे १८ चन्द्रे शब्दर० १९ सकोपवारणे २० शुष्के च एकाक्षरकोषः।
हंस = पुंस्त्री० हस–अच्–पषो० वर्णागमः। स्वनामख्याते १ पक्षिभेदे अमरः स्त्रियां ङीष् २ निर्लोभनृपे ३ विष्णौ ४ सूर्य्ये ५ परमात्मनि “हंसं तनौ सान्नहितं चरतम” नैष०। ६ मत्सरे ७ गतिभेदे ८ मन्त्रभेदे ९ देहस्थवायुभेदे १० अश्वमेदे मेदि० ११ गुरौ १२ पर्वते शब्दर०। १३ शिबे अमरः १४ अग्रस्थिते १५ श्रेष्ठे हेमच०। १६ विशुद्धे अमरः। १७ अजपामन्त्ररूपे वर्णे च “हंकारेण वाहर्याति सकारेण विशेत् पुनः। हसेति सततं मन्त्रं जीवो जपति सर्वदा” इति तन्त्रम्। अजपाशब्दे ८९ पृ० दृश्यम्। हंसखगस्य भेदाः तन्मांसगुणाश्च यथा “हंसाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः। वातश्लेष्मप्रदाश्चापि बलशुक्रकरा मताः” भावप्र० तड्डिम्बगुणाः “हंसडिम्बं परं वल्य वृंहणं वातनाशनम्। पाके लघुतरं प्रोक्तं सर्वामयविनाशनम्” राजनि०। अस्य दर्शनादेः शुभाशुभत्वं वसन्तराज्ञशाकुने उक्तं यथा “काष्ठासु सर्वास्वपि दर्शनेन हंसस्य शब्दस्य तु सर्वसिद्धिः। नामानि हंसस्य शृणोति यस्तु प्रयान्ति नाशं दुरितानि तस्य। चौरैः समं दर्शनमाद्यशब्दे निधिर्द्वितीयेऽथ भयं तृतीये। युद्धं चतुर्थे नृपतिप्रसादः स्यात् पञ्चमे हंसरवे नराणाम्। यतिभेदहसलक्षणं परमहंसशब्दे ४२३७ पृ० दृश्यम्। प्राणस्य हसपदार्थत्वे हेतुरुक्तः पदार्थादर्शे “उच्छ्वासे चैव श्वामे च हस इत्यक्षरद्वयम्। तस्मात् प्राणस्तु हंसात्मा आत्माकारेण संस्थितः। नाभेरुच्छासनिश्वसात् हृदयाग्नेर्व्यवस्थितिः”।
हंसक = पु० हंस इव कायति कै–क। १ पादकटके नूपूरादौ अमरः। संज्ञायां कन्। २ राजहंसे शब्दच०। स्वार्थे क। ३ हंसशब्दार्थे “लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतः” संगातदा० उक्ते ४ तालभेदे।
हंसकीलक = पु० “नारी पादद्वयं कृत्वा कान्तस्योरुयुगोपरि। कटिमान्दोलयेत् यत्र बन्धाऽयं हंसकीलकः” स्मरदीपि कोक्ते रतिबन्धभेदे।
हंसगद्गदा = स्त्री हंसस्येव गद्गदः स्वरी यस्याः। मधुर भाषिण्यां स्त्रियां त्रिका०।
हंसगामिनी = स्त्री हंस इव मृदु गच्छति गम–णिनि। १ हसतुल्यमृदुगामिन्यां स्त्रियाम्। हंसेन गच्छति णिनि ङीप्। २ ब्रह्माण्याम्। ३ हसेन गन्तरि त्रि०।
हंसदाहन = न० हस इव श्रेष्ठं सुरभित्वात् दाहनमस्य। अगुरुचन्दने शब्दच०।
हंसनादिनी = स्त्री “गजेन्द्रगमना तन्वी कोकिलाकापसंयुता। नितम्बे गुर्विणी या स्यात् सा स्मृता हसनादिनी” इत्युक्तलक्षणायां नार्य्याम् शब्दमाला।
हंसपदी = स्त्री हंसस्थेव पादाः मूलान्यस्याः पाद्भावे स्त्रियां ङीपि पद्भावः। गोधापदीलतायाम् राजनि०।
हंसपाद = न० हसस्य पादः तद्वर्णोऽस्त्यस्य अच्। हिङ्गले हला०।
हंसपादिका = स्त्री हंसस्येव पादाः मूलान्यस कप् कापि अत इत्त्वम्। हंसपदीलतायां राजनि०।
हंसपादी = स्त्री हंसस्येव पादा मूलानि सन्त्यस्याः अच् गौरा० ङीष्। हंसपदीलतायां रत्नमा०।
हंसमाला = स्त्री ६ त०। पङ्क्त्याकारेण स्थिते १ हंससमूहे २ कादन्वे हमे च शब्दच०।
हंसमाषा = स्त्री हंसा विशुद्धः माषः तदाकारः पर्णेऽस्याः। भाषपर्ण्याम् राजनि०।
हंसरथ = पु० हंसः रधो वाहनं यस्य। १ चतुर्मखे ब्रह्माणि त्रिका० हंसवाहनादयोऽप्यत्र।
हंसलोमश = न० हस इव लोमशं लोमयुक्तम्। कासीसे उपधातौ राजनि०।
हंसलोहक = न० हंस इव लोहकम्। पित्तले धातो हेमच०।
हंसवती = स्त्री हसस्तत्पादाकारः मूले अस्त्यस्याः मतुप् मस्य वः ङीप्। २ हंसपट्याम् जटा०। २ हंसयुक्ते त्रि०।
हंसवीज = न० हसस्य वोजमत्र। हंसडिम्बे राजनि०।
हंसाङ्घ्रि = पु० हंसस्याङ्ध्रिरिव लोहितत्वात्। हिङ्गुले।
हंसारूढ = पु० हंसमारूढः आ + रुह–क्त। १ ब्रह्मणि २ तच्छक्त्यां ब्रह्माण्यां स्त्री हंसाधिरूढ उभयत्र सरस्वत्यां स्त्रा।
हंसाभिख्य = न० हसस्येवाभिख्या शुभ्रत्वात् यस्य। रूप्ये हेमच०
हंसी = स्त्री हंसस्य भार्य्या ङीप्। १ हंसयोषिति शब्दर० द्वाविंशत्यक्षरपादले २ छन्दोभेदे च “कौ गौ माश्चत्वारा गो गो वसुमुवनयतिरिह भवति हंसी” छन्दो०। ३ हंस जातिस्त्रियाञ्च।
हंसोदक = न०। “नादेयं नवमृद्घटेषु निहितं सन्तप्तमर्कांशुभः यामिन्याञ्च निविष्टमिन्दुकिरणैर्मन्दानिलान्दोलितम्। एलाद्यैः परिवासितं श्रमहरं पित्तोष्णदाहे विषे मूर्च्छारक्तमदात्ययेषु च हितं शंसन्ति हंसोदकम्” राजनि० उक्ते जलभेदे।
हंहो = अव्य० हसित्यव्यक्तं जहाति हा–डो। १ सम्बाधने “हंहो चिन्मयचित्तचन्द्रमणयः” चन्द्रालोकः। २ दर्पे ३ दम्भे ४ प्रश्ने च शब्दर०।
हक्क = पु० हक् इत्यव्यक्तं कायति कै–क। गजसमाह्वाने जटा०
हञ्जे(ञ्जा) = अव्य० हमित्यव्यक्तं जप्यतेऽत्र जप–डे डा वा। नाट्यक्रियायां नटाभिनेयकृते चेटीसम्बाधने अमरः टाबन्तस्तत्रार्थे भरतः आदन्तोऽप्यव्ययम् वसन्तराजः।
हञ्जि = पु० हमित्यव्यक्तं जयति जि–डि। क्षुधायां जटा०।
हञ्जिका = स्त्री हञ्जौ क्षुधायां कायति शब्द्यते कै घञर्थे कर्मणि क। भार्ग्यां भावप्र० क्षुधाहेतुत्वात्तस्यास्तथात्वम्।
हट = दीप्तौ भ्वा० प० अक० सेट्। हटाति अहतीत्–अहातीत्
हटपर्णि = न० हटं दीप्तिं पिपर्ति पॄ० बा० नि। शैवाले शब्दर०।
हट्ट = पु० हट–ट टस्य नेत्त्वम्। क्रवविक्रयस्थाने (हाट) अमरः। “प्रतिहट्टपथे घरट्टजादिति” नैष०।
हट्टचौरक = पु० हट्टे प्रकाशिते स्थाने एव चौरः स्वार्थे क। (हाटचोर) चौरमेदे शब्दर०।
हट्टविलासिनी = स्त्री हट्टं विलासयति वि + कम–णिच्णिनि ङीप्। १ गन्धद्रव्यभेदे अमरः। २ हरिद्रायाञ्च भावप्र०।
हठ = कीलबन्धे सक० बल त्कारे प्लुतौ च अक० भ्वा० पर० सेट्। हठति। अहाठात्–अहठात्।
हठ = पु० हठ–अच्। बलात्कारे अमरः २ प्रश्न्याञ्च मेदि०।
हठपर्णी = स्त्री हठते प्लवते हठ–अच् हठं प्लवमानं पर्णं यस्याः ङीप्। १ शैबाले त्रिका० २ कुम्भिकायाञ्च।
***