स्व = न० स्यन–ड। १ धने अमरः। २ आत्मनि ३ ज्ञातौ च पु० अमरः। ४ आत्मीये त्रि०। आत्मनि आत्मोये चार्थेऽस्य सर्वनामता।

स्वकम्पन = पु० स्वेनैव पराप्रयुज्यमान एव कम्पते कपियुच। वायौ शब्दर०।

स्वकर्म्मन् = न० स्वस्य कर्म। स्ववर्णोचिते कृत्ये “स्वकर्मनिरतः सदा” गीता

स्वकीय = त्रि० स्वस्येदम् छ कुक् च। आत्मीये। अत्र नित्य मेव कुक्, अकुक्युक्तप्रयोगस्तु अपाणिनीयः।

स्वग = सर्पणे भ्वा० प० सक० सेट् इदित्। स्वङ्गति अपङ्गीत्।

स्वगत = त्रि० स्वस्मिन् मनसि आत्मनि वा गतम् गम–क्त। १ मनोगते २ आत्मगते च। नाटकाभिनये प्रतिपाद्यपुरुषा श्राव्ये रङ्गभूमिस्थसामाजिकजनश्रवणयोग्ये वाक्ये न०। “अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्” सा० द०।

स्वगुप्ता = स्त्री स्वेनैव गुप्ता। १ शूकशिम्ब्याम् शब्दर०। २ लज्जालुलतायाञ्च राजनि०।

स्वगृह = पुंस्त्री० स्वकृत गृहं यस्य। १ कलिकारखगे जटा० ६ त०। २ निजमन्दिरे ३ निजराशौ च ज्यो०।

स्वच्छ = त्रि० सुष्ठु अच्छः प्रा०। १ अतिनिर्मले कालुष्यरहिते २ मुक्तायां ३ स्फटिके च पु० राजनि०। ४ श्वेतदूर्वायाम् स्त्री राजनि०। ५ विमलोपरमे न० ६ रोगवियुते त्रि० शब्दर०। ७ शुक्ले च।

स्वच्छन्द = त्रि० स्वस्य छन्दोऽभिपायः स्वकृते यस्य। स्वाधीने अमरः।

स्वच्छपत्त्र = ने० स्वच्छं पत्यं थस्य। अभ्रके हेमच०।

स्वच्छमणि = पु० कर्म०। स्फाटिके मणौ राजनि०।

स्वच्छबालुक = न० स्वच्छा बालुकेव यत्र। विमलोपरसे राजनि०

स्वज = न० स्वस्मात् देहात् आत्मनी वा जायते। १ रुधिरे मेदि० ३ पुत्रे पु० ४ कन्यायां स्त्री मेदि०। ५ आत्मजाते त्रि०।

स्वजन = पु० स्वस्येव जनो जननमेककुले यस्य। १ ज्ञातौ अमरः। ६ त०। २ आत्मसम्बन्धिलोके।

स्वठ = गतौ संस्कारेऽसंस्कारे च चु० उ० सक० सेट्। स्वठयति–ते असिस्वठत्–त।

स्वतन्त्र = त्रि० स्वस्य तन्त्रं वशीकारः स्रकृत्ये यस्य। १ स्वाधीने अपराधीने अमरः। तत्त्वञ्च इतरव्यापारानधीनव्यापारवत्त्वम्। २ कर्त्तरि च सहि समभिव्याहृतक्रियाकारकान्तरानधीनव्यापारवान् इति शाब्दिकाः “स्वतन्त्रः कर्त्ता” पा० कर्त्तृशब्दे १७१६ पृ० दृश्यम्।

स्वतस् = अव्य० स्व + तसिल्। आत्मतः इत्यर्थे।

स्वता = स्त्री स्वस्य स्वकीयस्य भावः तल्। स्वकीयत्वे “कामः स्वतां पश्यति” शकृन्तणा।

स्वतोग्राह्य = न० स्वग्राहकसामग्रीग्राह्ये ज्ञानप्रामाण्ये वेदान्तादिमनस “प्रामाण्यं अन् स्वतोग्राह्यं संशयानुपपत्तितः” भाषा० उक्तेर्न तत् स्वतोग्राह्यमिति न्यायमतम्।

स्वत्व = न० स्वस्य भावः त्व। द्रव्याणां यथेष्टक्रयविक्रयादिक्रियासु विनियोजके १ धर्मभेदे २ स्वाभित्वे च, तच्च सम्बन्धभेदेन द्रव्यगतमात्मगतञ्च। स्वत्वपदार्थस्तु दायभा० टोकायां श्रीकृष्णतर्कालङ्कारेण निरूपितो यथा “स्वत्वञ्च यथेष्टविनियोगार्हत्वेन शास्त्रबोधितत्वमिति प्राञ्चः। अतिरिक्तः पदार्थ इति शिरोमणिः। स्वामित्वञ्च तन्निरूपक्तत्वं निरूपकतया तदेव वा तच्च द्रव्यगतं गुणगतञ्च द्रव्यस्य दानादिश्रुतेः नीलं वा वृषमुत्सृजेदित्यादौ लौःहत्यादिगुणावशिष्टपारिभाषिकनीलवृषोत्सर्गश्रुतेश्च। वस्तुतस्तु आत्मसमवत स्वामित्वामतिरिक्तः पदार्थः विक्रयदानादीनां तन्नाशकत्वेतद्धेतुत्वे च सम्बन्धलाघवात् तदेव निरूपकरया स्वत्वव्यवहारहेतुः विषयतया ज्ञाततावत्। अतएव निबन्धादौ भाविन्यपि स्वत्वम् अन्यथा प्रतिमासं प्रतिवर्षं वा देयत्वन प्रतिश्रुतस्य धान्यादिरूपस्य भावित्वेन तत्र तदुत्पत्त्यनुप पत्तेरिति चूडामणिसम्मतोलीलावतीरहस्यसिद्धः समीचीलः पन्थाः। तच्च स्वत्व लौकिकमिति मिता० व्यवस्थापितं यथा “स्वत्वमेव तावन्निरूप्यते किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति। तत्र शास्त्रैकसमधिगम्यमिति तावद्युक्तं गौतमवचनात्। स्वामी ऋक्थक्रयसं विभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्ध क्षत्रगस्य विजित निर्विष्टं वैश्यशूद्रयोरिति” प्रभाणान्तरगम्ये स्वत्वे नेदं वचनम्। तथा स्तेनातिदेशे मनुः “योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्। याजनाध्यापनेनापि यथा स्तनस्तथैव सः” इत्यदत्तादायिनः सकाशात् याजनादिकरणन द्रव्यमर्जयतां दण्डविधानमनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे। अपि च। लौकिकं चेत् स्वत्वं मम स्वमपहृतमनेनेति न मयात् अपहर्तुरेव स्वत्वादथान्यस्य स्वन्तेनापहृतमिति नापहर्तुः स्वम्। एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वा स्वमन्यस्य वा स्वमिति सशथो न स्वात् तस्माच्छास्त्रैकसमधिगम्यं स्वत्वमिति। अत्रोच्यते। कौकिकमेव स्वत्वलौकिकार्थक्रियासाधनत्वात् व्रोह्यादिवत्। आहवनीयादीनां हि शास्त्रगस्यानां न लीकिलक्रियासाध- नत्वमस्ति। नन्वाहवनीयादीनामपि पाकादिसाधनत्व मस्त्वेव। नैतत्। न हि तत्राहवनींयादिरूपेण पाकादिसाधनत्वं किं तर्हि प्रत्यक्षादिपरिदृश्यमानाग्न्यादिरूपेण। इह तु सुवर्णादिरूपेण न क्रयादि साधनत्वमपि तु स्वत्वेनैव। न हि यस्य यत्स्वं न भवति तत्तस्य क्रयाद्यर्थक्रियां साधयति। अपि च प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्य्वहारो दृश्यते क्रयविक्रयादिदर्शनात्। किञ्च। नियतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्यन्ते। तथा हिं लिप्सासूत्रे तृतीयवर्णके द्रव्यार्थननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षसम्भायमाशङ्ख्य द्रव्यार्जनस्य पितग्रहादना स्वत्वसाधनत्वं लोककिद्धमिति पूर्वपक्षः समर्थितो गुरुणा। ननु द्रव्यार्जनस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न संप्रव त्तेत। प्रलपितमिदङ्गेनापि अर्जनं स्वत्वं नापादयतीति विप्रतिसिद्धमिति वदता। तथा सिद्धद्वान्तेऽपि स्वत्वस्य लौलिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम्। अतो नियमातिक्रमः पुरुषस्य न क्रतोविति। अस्य चार्थ एवं विवृतः। यदा द्रव्यार्जगनियमानां क्रत्वर्थत्वं तदा नियषार्जितेनैव द्रव्येण क्रतुसिद्धिः। नियमातिक्रमार्जितेन द्रव्येण न क्रतुमिद्धिरिति न पुरुषस्य नियमाति क्रमदोषः पूर्वपक्षे। सिद्धान्ते तु अर्जननियमस्य पुरुषार्थ त्वात्तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर्भवति। पुरुषस्यैव नियमातिकसाद्दोष इति नियनातिक्रमार्जितस्यापि स्वत्वमङीकृतम् अन्यथा क्रतुसिद्ध्यभावात् ग चैतावता चौर्य्यादिप्राप्तस्य पि स्वत्वं स्यादिति प्रन्तव्यम् लोके तत्र स्वत्वप्रसिद्ध्यभावाद् व्यवहारविसवादाच्च। एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते ब्राह्मणस्य प्रतिग्रहादय उपायाः। क्षत्रियस्य विजितादय उपाया वैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादय इत्यदृष्टार्था नियमाः। ऋक्थादयस्तु सर्वसाधारणाः “स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेष्वित्युक्ताः। तत्राप्रतिबन्धा दायो रिक्थम्। क्रयः प्रसिद्धः संयिभागः स प्रतिबन्धो दायः। परिग्रहोऽनन्यपूवस्य जलतृणकाष्ठादेः स्वाकारः। अधिगमो निधादेः प्राप्निः। एतषु निमि त्तेषु सत्सु खामी भवति। ज्ञातेषु ज्ञायते स्वामी ब्राह्मणस्याधिकं लब्धमिति ब्राह्मणस्य प्रतिग्रहाद् अन” यल्लब्ध तदधिकमसाधारणम्। क्षत्रियस्य विजितमित्य त्राधिकमित्यनुवर्तते क्षत्रियस्य विजयदण्डादिलब्ध्रमसाधारणम्। निर्विष्टं दैश्यशूद्रयोरिति। अत्राप्यधिकमित्यनुवर्त्तते वैश्यस्य कृषिगोरक्षादिलब्धन्निर्विष्टं तदसाधारणं शूद्रस्य द्विजशुश्रुषादिना भृतिरूपेण यल्लब्धं तदसाधारणमेवमनुलोमजानां प्रतिलामजानञ्च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तम् “सूतानामश्वसारथ्यम्” इत्यादि तत्तत् सर्वं निर्विष्टशब्देनोच्यते सर्वस्यापि भृतरूपत्वात् “निर्वेशी भृतिभोगयीरिति” त्रिकाण्डीस्मरणात्। तत्तदसाधारणं वेदितव्यम्। यदपि पत्नीदुहितरश्चेत्यादिस्मरणम्। तत्रापि स्वामिसम्बन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यमोहमिवृत्त्यर्थं स्मरणमिति सर्वमनवद्यम्”। तच्च स्वत्वं जन्मनैवेति मिताक्षरादयः। पित्रादिमरणादिनैवति दायभागादयः। तत्रापि समुदायद्रव्ये स्वत्वमिति मिताक्षरादयः। प्रदेशभेदे इति दायभागादयः। तत्तद्ग्रन्थ विस्तरा दृश्यः

स्वदन = न० स्वद–भावे ल्युट्। १ आस्वादे २ लेहने च राजनि०। सुष्ठु अदनम्। ३ सुभक्षणे हेमच०।

स्वधर्म्म = पु० स्वस्य येदादिविहतो धर्मः। स्वानुरुपे वेटाद्युक्ते आचारादिधर्मे। “यो यस्य विहितो धर्मः स तज्जातिः प्रकीर्त्तितः। तस्मात् स्ववर्मं कुर्य्याच्च द्विजो नित्यमनापदि” नरसिहपु०। “श्रेयान् स्वधर्मो विगुणः परघर्मात् स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः” गीता।

स्वधा = अव्य० स्वद–आ पुषो० दस्य धः। १ पितृदेवोद्देशेप्र हविस्त्यागे अमरः। स्वेन धयति धै–क आप्। २ मातृकाभेदे स्त्रा “नमःस्वधायै स्वाहायै” इति पितृगाथा। “निपातस्वधायोगे त्यागोद्देश्यपदात् चतुर्थी पितृभ्यः स्वधेत्यादौ पित्र्यद्देश्यकस्त्याग इति बोधः। तदर्थश्च विषयतया अन्न दावन्वयी तस्य निपातत्वेन तदर्थस्य भेदान्वयस्य व्युत्पत्तिसिद्धत्वात्। इदमन्नं पित्रे स्वधेत्यादौ पित्र्युद्देशकत्यागविषय इदमन्नमित्यादि वोधः। मातृभेदस्व्धा च दक्षकन्या ब्रह्मणो मानसी कन्था च पितृपत्नी। तन्नामोच्चारणे पित्रादिश्राद्धकरणरूपोऽस्यावरो ब्रह्मणा दत्तः। “ब्रह्मा च मानसीं कन्यां ससृजे तां मनोहराम्” “स्वधामिधानां सुदतीं लक्ष्मीलक्षणसंयुताम्” “पितृभ्यस्तां ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम्। ब्राह्मणानामुपदेशं चकार लोमनायकः। स्वधान्तं मन्त्रमुव्वाय्य पितृभ्योदेहि चेति च। क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा” ब्रह्मयै० प्र० स्वधानामकस्वधाशब्दस्यापि पितृदाने विनियोग इति बोध्यम्।

स्वधाप्रिय = पु० स्वधाशिनां प्रियः शाक०। १ कृष्णतिले शब्दर० २ स्वधोपलक्षितश्राद्धादिप्रिये पित्रादौ च। स्वधा प्रिया यस्य। ३ पितृलोके स्वधाशब्देमूलं दृश्यम्।

स्वधाभुज् = स्वधेत्यनेन त्यक्तद्रव्यं भुङ्क्ते भुज–क्विप्। १ पितृगणे २ देवे च

स्वधि(ती)ति = स्त्री स्वेन धीयते धा–क्तिच् वा ङीप्। कुठारे परश्वधे अमरः पृषो०। श्वधितिरप्यत्र।

स्वन = शब्दे भ्वा० पर० अक० सेट्। स्वनति अस्वनीत् अस्वानीत्। फणा० स्वेनतुः सस्वनतुः। अयं भूषणे वा घटा० (स्वा)स्वनयति।

स्वन = ध्वाने अद० चु० उभ० अक० सेट्। स्वनयति–ते असस्वनत्–त।

स्वन = पु० स्वन + अप्। शब्दे अमरः।

स्वनि = पु० स्वन + इन्। शब्दे हेमच०।

स्वनित = त्रि० स्वन–कर्त्तरि–क्त। १ शब्दिते अमरः। मावे क्त। २ शब्दे ३ मेघगर्जिते च न० हेमच०।

स्वनिताह्वय = पु० स्वनितमाह्वयते आ + ह्वेश। तण्डुलीयशाके राजनि०।

स्वनोत्साह = पुंस्त्री० स्वने उत्साहो यस्य। गण्डके शब्दर० स्त्रियां ङीष्।

स्वपन = न० स्वप–ल्युट्। १ शयने २ निद्रायाञ्च शब्दर०।

स्वपिण्डा = स्त्री स्वेनैव पिण्डः पिण्डाकारोऽस्त्यस्याः अच्। पिण्डखर्जूर्य्याम् राजनि०।

स्वप्न = पु० स्वप–भावे नन्। १ निद्रायाम् अमरः २ शयने ३ मानसिकज्ञानभेदे ५ दर्शने च मेदि० आर्षे न०। स्वप्नदृष्टपदार्थस्य मायामात्रत्वं शा० सू० भाष्ययोर्व्यवस्थापितं यथा “सन्ध्ये सृष्टिराह हि” सू०। “अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसा रगतिप्रभेदः प्रपञ्चितः इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते। इदमामनन्ति “स यत्र प्रस्वपिति” इत्युपक्रम्य “न तत्र रथा न रथयोगा न पन्थानो भवन्ति अथ रथान् रथयोगान् पथः सृजते” इत्यादि। तत्र संशयः किं प्रवोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति। तत्र तावत् प्रतिपद्यते। सन्ध्ये सृष्टिरिति। सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् “सन्ध्य तृतीयं स्वप्नस्थानम्” इति। द्वयोर्लाकस्थानयोः प्रबोध सम्प्रसादस्थानयोर्वा सन्धो भवतीति सन्ध्यं तस्मिन् सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्मवितुमर्हति। कुतः, यतः प्रमाणभूता श्रुतिरेवमाह “अथ रथान् रथयोगान् पथः सृजते” इत्यादि। स हि कर्त्तेति चोपसंहारादेवमेवावगम्यते” भा०। “निर्मातारं चैके पुत्रादयश्च”। सू० “अपि चैके शाखिनोऽस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति “य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः” इति। पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति। ननु कामशब्देनेच्छाविशेषा एवोच्येरन्, न, “शतायुषः पुत्रपौत्त्रान् वृणीष्व” इति प्रकृत्य “अन्ते कामानान्त्वा कामभाजं करोमि” इति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात्। प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः। प्राज्ञस्य हीदं प्रकरणम् “अन्यत्र धर्मादन्यत्राधर्मात्” इत्यादि। तद्विषय एव च वाक्यशेषोऽपि– “तदेव शुक्रं तदब्रह्म तदेवामृतमुच्यते। तस्मि~ल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन”। इति प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता यथा जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति। तथा च श्रुतिः “अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत् पश्यति तानि सुषुप्तः” इति स्वप्नजागरितयोः समानन्यायतां श्रावयति। तस्मात् तथ्यरूपैव सन्ध्ये सृष्टिरित्येवं प्राप्ते प्रत्याह। “मायामात्रन्तु कात्स्न्येनानभिव्यक्तस्वरूपत्वात्” सू०। “तुशब्दः पक्षं व्यावर्त्तयति। नैतदस्ति यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति। मायामय्येव सन्ध्ये सृष्टिर्न परमार्थतोऽप्यस्ति। कुतः कात्स्न्येनानभिव्यक्तस्वरूपत्वात्। न हि कात्स्न्येन परमार्थवस्तुधुर्मेणाभिव्यक्तस्वरूपः स्वप्नः। किं पुनरत्र कात्र्स्न्यमभिप्रेतं, देशकालनिमित्तसम्पत्तिरबाबधश्च। न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने रथादीनामुचितो देशः सम्भवति, न तावत् संवृते देहदेशे रथादयोऽवकाशं लभेरन्। स्यादेतत्, बहिर्देहात् स्वप्नं द्रक्ष्यति देशान्तरितद्रव्यग्रहणात्। दर्शयति च श्रुतिः बहिर्देहात् स्वप्नं “यहिःकुलायादमृतश्चरित्वा स ईयते अमृतो यत्र कामम्” इति। स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीतेति। नेत्युच्यते, न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्य्येतुं विपर्य्येतुञ्च ततः सामर्थ्यं सम्भःव्यते। क्वचिच्च प्रत्यागमनवर्जित स्वप्र श्रावयति “कुरुष्यहं शय्यायां शयानो निदूयाभप्लुतः स्वप्रे पञ्चालानभिगतश्चास्मिन् प्रतिबुद्धश्च” इति। देहा- च्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इति करुष्वोव तु प्रतिबुध्यते। येन चायं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्चस्थाः शयनदेश एव पश्यन्ति। यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति, परिधावंश्चेत् पश्येज्जाग्रद्वस्तुभूतमर्थमाकलयेत्। दर्शयति च श्रुतिः “अन्तरेव देहे स्वप्नं स यत्रैतत् स्वप्नयाचरति” इत्युपक्रम्य “स्वे शरीरे यथाकामं परिवर्त्तते” इति। अतश्च श्रुत्युपपत्तिविरोधाद्बहिःकुलायश्रुतिर्गौणी व्याख्यातव्या वहिरिव कुलायादमृतश्चरित्वा, इति यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स वहिरिव शरीराद्भवति इति। स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाप्युपगलव्यः, कालविसंवादोऽपि च स्वप्ने भवति रजन्यां सुप्तो वासुरं भारते वर्षे मन्यते तथा मुहूर्त्तमात्रप्रवर्त्तिनि स्वप्ने कदाचिद् बहून् वर्षपूगानतिवाहयति। निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते, करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति, रथादिनिर्वर्त्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारुणि वा। बाध्यन्ते चैते रथादयः स्वप्नसृष्टाः प्रबोधे, स्वप्न एव चैते सुलभबाधा भवन्ति आठ्यन्तयोर्व्यभिचारदर्शनात्, रथोऽयमिति हि कदाचित् स्वप्ने निर्द्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति वा निर्द्धारितः क्षणेन वृक्षः। स्पष्टञ्चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् “न वत्र रथा न रथयोगा न पन्थानो भवन्ति” इत्यादि। तस्मान्मयामात्रं स्वप्नदर्शनम्” भा०। “सूचकश्च हि श्रुतेराचक्षते च तद्विदः” सू०। “मायामात्रत्वात् तर्हि न कश्चित् स्वप्ने परमार्थगन्ध इति, नेत्युच्यते। सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः। तथा हि श्रूयते “यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने” इति। तथा “पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति” इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति। आचक्षते च स्वप्नाध्यायविदः “कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि” इति। मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित् स्वप्नाः सव्यार्थगन्धितो भवन्तीति मन्यन्ते। तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्य- मानत्वादित्यभिप्रायः। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्। यदुक्तमाह हीति तदेवं सति भाक्तं व्याख्यातव्यं यथा लाङ्गलं गवादोनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति, एवं निमित्तमात्रत्वात् सुप्तो रथादीन् सृजते स हि कर्त्तेति चोच्यते न तु प्रत्यक्षमेव सुप्तो रथाटीन् सृजति। निमित्तत्वन्त्वस्य रथादिप्रतिभाननिमित्तमोदत्वासदर्शनात् तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम्। अपि च जागरिते विषयेन्द्रियसंयोगादादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयं ज्योतिष्ट्वं द्रष्टर्दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः, तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत स्वयं ज्योतिष्ट्वं न निर्णींतं स्यात्। तस्माद्रथाद्यभाववचनश्रुत्या रथादिसृष्टिवचनं भाक्तमिति व्याख्येयम्। एतेन निर्माणश्रवणं व्याख्यातम्। यदन्युक्तम् “प्राज्ञमेनं निर्मातारमामनन्ति” इति, तदप्यसत् श्रुत्यन्तरे स्वयं विहृत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति” इति जोवव्यापारश्रवणात्। इहापि च “य एष सुप्तेषु जागर्त्ति इति प्रसिद्ध्वानुवादाज्जीव एवायं कामानां निर्माता सङ्कीर्त्यते, तस्य तु वाक्यशेषेण “तदेव शुक्रन्तद्व्रह्मेति” जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते “तत्त्वमसि” इत्यादिवदिति न ब्रह्मप्रकरणत्वं विरुध्यते। त्म चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वथिष्ठातृत्वोपपत्तेः। पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत् प्रतिपाद्यते। न च वियदादिसर्गस्यात्यन्तिकं सत्यत्थमस्ति, प्रतिपादितं हि “तदनन्यत्वमारम्भणशब्दादिभ्यः, इत्यत्र समस्तस्य मायामात्रत्वम्। प्राक् च ब्रह्मात्मदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति, सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इत्यतो वैशेषिकं सन्ध्यस्य मायामात्रत्वमुदितम्” भा०। “पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्य्ययौ” सू०। “अथापि स्यात् परस्यैव तावदाननोऽंशो जीवोऽग्नेरिव विस्फुलिङ्गः। तत्रैवं सति यथाऽग्निविस्फुलिङ्गयीः समाने दहनप्रकाशनशक्ती भवतः एवं जीवेरश्वयोरपि ज्ञानैश्वर्य्यशक्ती, ततश्च जीवस्यैश्वर्य्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति, अत्रोच्यते। सत्यपि जीवेश्वरयोरंशांशीभावे प्रत्यक्षमेव जीवेश्वरविपरीतवर्मत्वं, किं पुनर्जी- वस्यैश्वरसमानधर्मत्वं नास्त्येव न नास्तीति, विद्यमानमपि तु तत् तिरोहितं, अविद्यादिव्यवधानात्। तत् पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतस्येव दृक्शक्तिरौषधवीर्य्यादिवेश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनां, कुतस्ततो हि ईश्वरा द्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः, ईश्वरस्य स्वरूपा परिज्ञानाद् बन्धः तत्स्वरूपपरिज्ञानात्तु मोक्षः। तथा च श्रुतिः “ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः”। तस्याभिध्यानात् तृतीयं देहभेदे विश्वैर्श्वर्य्यं केवल आप्तकामः” इत्येवमाद्या” भा०। “देहयोगाद् वा सोऽपि” सू०। “कस्मात् पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्य्यो भवति युक्तन्तु ज्ञानैश्वर्य्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्वेव दहनप्रकाशयोरिति। उच्यते सत्यमेवैतत्, सोऽपि तु जीवस्य ज्ञानै श्वर्य्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदनानादियोगाद्भवति। अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोभवतः, यथा वा भस्मनाच्छन्नस्य, एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्य्यतिरोभावः। वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थः। नन्वन्थ एव जीव ईश्वरादस्तु तिरस्कृतज्ञानैश्वर्य्यत्वात् किं देहयोगकल्पनया। नेत्युच्यते, न ह्यन्यत्वं जीवस्येश्वरादुपपद्यते “सेयं देवतैक्षत” इत्युपक्रम्य “अनेन जीवेनात्मनानुप्रविश्य” इत्यात्मशब्देन जीवस्य परामर्शात्। “तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो” इति च जीवस्योपदिशतीश्वरात्मत्वम्, अ तोऽनन्य एवेश्वरात् जीवः सन् देहयोगात् तिरोहितज्ञानैश्वर्य्यो भवति, अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिसिद्धिर्घटते! यदि च साङ्कल्पिकी स्वप्ने सृष्टिसिद्धिः स्यात् नैवानिष्टं कञ्चित् स्वप्नं पश्येत्। न हि कश्चिदनिष्टं सङ्कल्पयते। यत् पुनरुक्तं जागरित देशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयंज्योतिष्ट्वविरोधात्, श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात्, जागरितप्रभववासनानिमित्तत्वात् तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत्। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्”। स्वप्नभेदस्य शुभाशुभसूचकत्वं नानापुराणेषुक्तं तत्र दिङ- मात्रं मत्स्यपुराणे २४२ अध्याये उक्तमत्र प्रदर्श्यते यथा “इदानीं कथयिष्यामि गिमित्तं स्वप्नदर्शने। नाभिं विनान्यगात्रेषु तृणवृक्षसमुद्भवः। चूर्णनं मूर्ध्नि कांस्यानां मुण्डनं नग्नता तथा। मलिनाम्बरधारित्वमभ्यङ्गः पङ्कदिग्धता। उच्चात् प्रपतनञ्चैव दोलारोहणमेव च। अर्जनं पक्वलोहानां हयानामपि मारणम्। रक्तपुष्पद्रुमाणाञ्च मण्डलस्य तथैव च। वराहर्क्षखरोष्ट्राणां तथा च रोहणक्रिया। भक्षणं पक्वमांसानां तैलस्य कृसरस्य च। नर्त्तनं हसनञ्चैव विवाहा गीतमेव च। तन्त्रीवाद्यविभिन्नानां वाद्यानामभिवादनम्। स्रोतोऽवगाहगमनं स्नानं गोमयवारिणा। पङ्कोदकेन च तथा महीतोयेन चाप्यथ। मातुः प्रवेशो जठरे चितारोहणमेव च। शक्रध्वजाभिपतनं पतनं शशिसूर्य्ययोः। दिव्यान्तरिक्षभौमानामुत्पातानाञ्च दर्शनम्। देवद्विजातिभूपालगुरूणां क्रोध एव च। आलिङ्गनं कुमारीणां पुरुषाणाञ्च मैथुनम्। हानिश्चैव स्वगात्राणां विरेककवमनक्रिया। दक्षिणाशाभिगमनं व्याधिनाभिभवस्तथा। फलापहानिश्च तथा पुष्पहानिस्तथैव च। गृहाणाञ्चैव पातश्च गृहसम्भार्जनन्तथा। क्रीडा पिशाचक्रव्यादवानरर्क्षनरैरपि। परादभिभवश्चैव तस्माच्च व्यसनोद्भवः। काषायवस्त्रधारित्वं तद्वत् स्त्रीक्रीडनन्तथा। स्नेहपानावगाहौ च रक्तमाल्यानुलेपनम्। एवमादीनि चान्यानि दुःस्वप्नानि विनिर्दिशेत्। एषां सङ्कथनं धन्यं भूयः प्रस्वपनं तथा। कल्कस्नानं तिलैर्होमो व्राह्मणानाञ्च पूजनम्। स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम्। नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम्। स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः। षड्सिमांसैर्द्वितीये तु त्रिमिर्मासैस्तृतीयके। चतुर्थे मासमात्रेण पश्यतो नात्र संशयः। अरुणोदयवेलायां दशार्हन फलं भवेत्। एकस्यां यदि वा रात्रौ शुभं वा यदि वा शुभम्। पश्चाद् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत्। तस्माच्छोभनके स्वप्ने पश्चात् स्वप्नं न पश्यति। शैलप्रासाद नागाश्ववृषभारोहणं हितम्। द्रुमाणां श्वेतपुष्पाणां गमने च तथा द्विज!। द्रुमतृणोद्भवो नाभौ तथैव बहुवाहुता। तथैव बहुशीर्षत्वं फलितोद्भव एव च। सुशुक्लमाल्यधारित्वं सुशुक्लाम्बरधारिता। चन्द्रार्कताराग्रहणं परिमार्जनमेव च। शक्रध्वजालिङ्गनञ्च तदुच्छ्रायक्रिया तथा। भूम्यम्बुधीनां ग्रसनं शत्रूणाञ्च बधक्रिया। जयो विवादे द्यूते च संग्रामे च तथा द्विज!। भक्षणञ्चार्द्रमांसानां मत्स्यानां पायसस्य च। दर्शनं रुधिरस्यापि स्नानं वा रुधिरेण च। सुरारुधिरमद्यानां पानं क्षीरस्य चाथ वा। अन्त्रैर्वा वेष्टनं भूमौ निर्मलं गमनं तथा। मुखेन दोहनं शस्तं महिषीणां तथा गवाम्। सिंहीनां हस्तिनीनाञ्च वडवानां तथैव च। प्रसादो देवविप्रेभ्यो गुरुभ्यश्च तथा शुभः। अम्भसा त्वभिषेकस्तु गवां शृङ्गाश्रितेन वा। चन्द्राद् भ्रष्टेन वा राजन्! ज्ञेयो राज्यप्रदो हि सः। राज्याभिषेकश्च तथाच्छेदनं शिरसस्तथा। मरणं वह्निदाहश्च वह्निदाहो गृहादिषु। लब्धिश्च राज्यलिङ्गानां तन्त्रीवाद्याभिवादनम्। तथोदकानां तरणं तथा विषमलङ्घनम्। हस्तिनीबडवानाञ्च गवाञ्च प्रसवो गृहे। आरोहणमथाश्वानां रोदनञ्च तथाशुभम्। वरस्त्रीणां तथालाभस्तथालिङ्गनमेव च। निगडैर्बन्धनं धन्यं तथा विष्ठानुलेपनम्। जीवतां भूमिपालानां सुहृदामपि दर्शनम्। दर्शनं देवतानाञ्च विमलानां तथाम्भसाम्। शुभान्यथैतानि नरस्तु दृष्ट्वा प्राप्नोत्ययत्नाद् ध्रुवमर्थलाभम्। स्वप्नानि वै धर्ममृतां वरिष्ठ! व्याधेर्विमोक्षञ्च तथातुरोऽपि” आर्षं न०।

स्वप्नकृत् = न० स्वप्नं निद्रां करोति कृ–क्विप्। (सुमुनि) शाके शब्दच०।

स्वप्नज् = त्रि० स्वप–नजिङ्। शयनशीले अमरः।

स्वभाव = पु० स्वस्य भावः। १ निसर्गे अजन्ये स्वतःसिद्धे भावे च अमरः। “वहिर्हेत्वनपेक्षी तु स्वभावोऽथ प्रकी र्त्तितः। निसर्गश्च स्वभावच इत्येष भवति द्विधा। निसर्गः सुदृढभ्यासजन्यः संस्कार उच्यते। अजनयस्तु स्वतः सिद्धः स्वरूपो भाव उच्यते” उज्ज्वलद०।

स्वभावोक्ति = स्त्री स्वभावस्योक्तिरत्र। १ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०८ पृ० दृश्यम्। ६ त०। २ स्वभावस्य कथने।

स्वभू = पु० स्वेनैव भवति मू–क्विप्। १ ब्रह्मणि मेदि० २ विष्णौ अमरः। ३ शिवे ४ ईश्वरे ५ कामे च।

स्वयंवर = पु० स्वयमात्मना वरो वरणम्। कन्ययात्मनैव स्वपतेर्वरणे “सदसि स्वयंवरः” नैष०। स्वयं वृणुते पतिम्। वृ–अच्। आत्मनैव पतिवरणकर्त्त्र्यां २ कन्याकायां स्त्री।

स्वयंहारिका = स्त्री ब्रह्मणो मानससृष्टपुत्रस्य दुःसहस्य निर्माष्ट्या भार्य्यायामुत्पन्ने कन्याभेदे मार्कण्डेयपु०। तत् कन्याश्चाष्टौ नियोजिकादयः तासां कर्माणि तत्रोक्तानि तत्र “एतासां कर्म वश्यामि दापप्रशमनञ्च यत्” इत्युपक्रमे “धान्यं खलात् गृहात् गोष्ठात् पयःसर्पिस्तथा परा। समृद्धिमृद्धिवद्द्रव्यमपहन्ति च कन्यका। सा स्वयंहारिकेत्युक्ता सदान्तर्द्धानतत्परा” इति तस्याः कर्मोक्तम्।

स्वयङ्कृत = पु० स्वयमात्मना कृतः। १ कृत्रिमे पुत्रे “माता पितृविहीनस्तु कृत्रिमः स्यात् स्वयंकृता” स्मृतिः। २ आत्मकृते त्रि०। “पूर्वजुष्टः स्वयंकृतः” (पुरोहितः) स्मृतिः।

स्वयङ्गुप्ता = स्त्री स्वयमात्मनैव गुप्ता। शूकशिम्ब्याम् शब्दच०।

स्वयन्दत्त = पु० स्वयमात्मनैव न तु पितृमातृभ्यां दत्तः उपनतः दत्तात्मके पुत्त्रभेदे “दत्तात्मा तु स्वयन्दत्तः” याज्ञ०। “दत्तात्मा तु पुत्रो मातापितृविहीनस्ताभ्यां विमुक्तो वा तवाह पुत्रो भवामीति स्वयंदत्त उपनतः” मिता०।

स्वयम् = अव्य० सु + अय–अमु। आत्मनेत्यर्थे अमरः।

स्वयम्भु = पु० स्वयम् + भू–डु। ब्रह्मणि द्विरूप०।

स्वयम्भुवा = पु० स्वयम्भवति भू–मूलवि० क। धूम्रपत्त्रायाम् राजनि०।

स्वयम्भू = पु० स्वयं भवति भू–क्विप्। १ चतुर्मुखे ब्रह्मणि अमरः ३ कुचे च। ४ काले शब्दर० ४ कामदेवे ५ विष्णौ ६ शिवे च। ७ माषपर्ण्यां षलिङ्गिन्याम् राजनि०। ९ जिनभेदे हेमच०। १० परमेश्वरे “ततः स्वयम्भूर्भगवान्” मनुः।

स्वर = आक्षेपे अद० चुरा० उभ० सक० सेट्। स्वरयति–ते असस्वरत्–त।

स्वर् = अव्य० स्वृ–विच्। १ स्वर्गे अमरः “यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतञ्च तत्सुखं स्वःपदास्पदम्” इत्युक्ते दुःखासंभिन्ने २ सुखसन्ताने ३ परलोके ४ आकाशे ५ शोभने च शब्दच०। दुःखासंभिन्नत्वं च स्वावच्छेदकशरीरानवच्छिन्नत्वं तेन दुःखासमानकालीने सुखे नातिव्याप्तिः।

स्वर = पु० स्वर–अच् स्वृ–अप् वा। १ उदात्तानुदात्तस्वरितरूपे वर्णोच्चारणयत्नभेदे तादृशस्वरवत्त्वाच्च २ व्यञ्जनभिन्नवर्णेषु अकारादिषु शिक्षा। तन्त्रोक्ते २ प्राणादिवायोर्व्यापारभेदे ३ काक्वादिकृते वर्णाद्युच्चारणध्वनिविशेषे ४ निषादादिषु तन्त्रीकण्ठोत्थेषु गानजध्वनिषु च अमरः। “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः” शिक्षा० अकारादीनां स्वयंराजमानत्वात् स्वरवत्त्वाच्च स्वरपदाभिधेयता, “अचः स्वयं विरोजन्ते हलस्तु परगामिनः” इत्युक्ते। “यदात्तश्चादुदात्तश्च स्वरितश्च स्वरास्त्रयः। ह्रस्वो दीर्घः प्लुतश्चेति कालतो नितमा अचि” शिक्षोक्तेश्च। निषादादिसवराणां प्राणिभेदस्वरतुल्यता नारदेनोक्ता यथा “षड्जं रौति मयूरो हि दृषो नर्दति चर्षभम्। अजा विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम्। पुष्पसाधारणे काले कोकिलो रौति पञ्चमम्। अश्वश्च धैवतं रौति निषादं रौति कुञ्जरः” इति। “अश्वस्तु धैवतं सोऽपि मत्तः पञ्चमसंज्ञकम्। निषादन्तु गजो गर्जत्युन्मदोऽसौ सपञ्चमम्” इति। भरतोऽप्याह “षड्जञ्च पञ्चमञ्चेति मयूरो नदति द्विधा। अश्वाद्या धैवतादींश्च प्राहुर्मत्ताश्च पञ्चमम्” इति। निषादादिशब्दनिरुक्तिश्च “निषीदन्ति स्वरा अस्मिन्निषादस्तेन हेतुना। अशेषसन्धिविषयं स हि व्याप्यावतिष्ठते”। “वायुः समुद्गतो नाभेः कण्ठशीर्षसमुद्गतः। नदत्यृधभवद् यस्मात्तैनैप ऋषभः स्मृतः” “वायुः समुद्गतो नाभेः कण्ठशीर्षंसमाहतः। नानागन्धवहः पुण्यो गान्धारस्तेन हेतुना। “नासां कण्ठमुरस्तालुजिह्वां दन्तांश्च संश्रितः। षड्भ्यः सं जायते यस्मात्तस्मात् षड्ज इति स्मृतः”। “तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः। नाभिप्राप्तो महानादो मध्यभस्तेन स स्मृतः”। “अभिसन्धयते यस्मात् स्वरांस्तेनेष धैवतः। स तु तावत् प्रधानत्वात् ललाटे व्यवतिष्ठते। “वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु। विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते”। “स स्वरो यः श्रुतिस्थाने स्वरन् हृदयरञ्जकः। षड्ज ऋषभगान्धारा मध्यमः पञ्चमस्तथा। धैवतश्च निषादश्च स्वराः सप्त प्रकीर्त्तिताः” भरतः। बालादिस्वराश्च चक्रशब्दे २८११ पृ० दृश्याः।

स्वरघ्न = पु० स्वरं हन्ति हन–क। गलरोगभेदे “अष्टादशगलरोगोपक्रमे “यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः। कफोपदुष्टेष्वनिलायनेषु ज्ञेयः सरोगः श्वसनात् स्वरघ्नः”। ताम्यमानः तमः पश्यन् शुष्को विमुक्तोऽस्वाधीनकण्ठो यस्यसः अस्वाधीनता भक्तं गिलितुमशक्यत्वात् अनिलायनेषु वातवर्त्मशु श्वसनाद्वातात्” भावप्र०

स्वरचक्र = न० स्वरोदयोक्ते चक्रभेदे चक्रशब्दे २८। ० पू० दृश्यम्।

स्वरपत्तन = न० स्वराणां निषादादीनां गानध्वनिविशेषाणां पत्तनमाश्रयः। सामवेदे त्रिका०।

स्वरभङ्ग = पु० स्वरस्य कण्ठध्वनिभेदस्य भङ्गो यस्मात्। रोगभेदे स्वरभेदोऽप्यत्र तल्लक्षणादि सुश्रु० उक्तं यथा “अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः। अत्युच्चभाषणविषाध्ययनाभिघातशीतादिभिः प्रकुपिताः पवनादयस्तु। ते शब्दवाहिधमनीषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः। वातेन कृष्णनय- नाननमूत्रवर्च्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च। पित्तेन पीतवदनाक्षिपुरीषमूत्री ब्रूयाद्गलेन च विदाहसमन्वितेन। कृच्छ्रात्कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदति वापि दिवा विशेषात्। सर्वात्मके भवति सर्वविकारसम्पदव्यक्तता च वचसस्तमसाध्यमाहुः। धूप्येत वाक्क्षयकृते क्षयमाप्नुयाच्च वागेष वापि हतवाक् परिवर्जनीयः। अन्तर्गतस्वरमलक्ष्यपद चिरेण मेदोऽन्वयाद्वदति दिग्धगलोष्ठतालुः। क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः। मेदस्वितः सर्वसमुद्भवश्च स्वरामयी यो न स सिद्धिमेति। स्निग्धात् स्वरातुरनरानपकृष्टदोषान् संयोजयेद्वमनरेचनवस्तिभिश्च। नस्यावपीडमुखधावनधूमलेहैः सम्पादयेच्च विविधैः कबलग्रहैश्च”।

स्वरमण्डलिका = स्वराणां मण्डलमस्त्यस्य ठन्। वीणायाम् ६ त०। २ स्वरसमूहे।

स्वरलासिका = स्त्री स्वरैः निषादादिभिः लस्यति नृत्यतीव लस–ण्वुल्। १ वीणायां २ वंश्याञ्च शब्दर०।

स्वरस = पु० स्वेन स्वभावेन रसः आस्वाद्यः। १ शिलापिष्टकल्कभेदे शब्दर० २ क्वाथभेदे च। “सद्यः क्षुण्णादार्द्रद्रव्याद्वस्त्रयन्त्रादिपीडनात्। यो रसस्त्वभिनिर्याति स्वरसः सः प्रकीर्त्तितः” वैद्यक०। स्वस्य रसः रागः। ३ स्वाभिप्राये ३ स्वतात्पर्य्ये ४ वाक्यादौ रचनाभङ्गीभेदे च।

स्वरसन्धि = पु० स्वरनिमित्तकः सन्धिः। व्याकरणोक्ते स्वरनिमित्तके दीर्घादौ कार्य्ये।

स्वरसामन् = पु० गवामयनयज्ञीयषष्ठमासीयदिनभेदे गवामयनशब्दे २५६४ पृ० दृश्यम्।

स्वरा = स्त्री ब्रह्मणः प्रथमपत्न्यां पद्मपु०।

स्वरापगा = स्त्री स्वः स्वर्गस्यापगा। गङ्गायाम् हेमच०। स्वर्गापगादयोऽप्यत्र।

स्वरालु = पु० स्वराय अलति पर्य्याप्नोति अल–उण्। वचायां शब्दच० तत्सेवने हि स्वरस्वोत्तेजनात्तस्यास्तथात्यम्।

स्वराज् = पु० स्वेनैव राजते राज–क्विप्। ईश्वरे “अर्थेष्वभिज्ञः स्वराडिति” भागवतम् १। १। १।

स्वरित = पु० स्वरो जातोऽस्य इतच्। १ जातस्वरे २ उदारत्तानुदात्तसमाहाररूपे स्वरभेदे पा० “उच्चेरुदात्तः” “नीचैरनुदात्तः”। “समाहारः स्वरितः” पा० “उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसंज्ञः स्यात्” सि० कौ०। “तस्यादित उदात्तमर्द्धह्रस्वम्” पा० “ह्रस्वग्रहणमतन्त्रम् स्वरितस्यादितोऽर्द्धमुदात्तम्बोध्यम् उत्तरार्द्धन्तु परिशेषादनुदात्तम्। तस्य चोदात्तस्वरितपरत्वे श्रवणम् स्पष्टम्” सि० कौ०। स्वरिताः शब्दाश्च पाणिनिना फिट्सुत्रेण च अनुशिष्टा यथा। “तित् स्वरितम्” पा० तकारेत् प्रत्ययः स्वरितः स्यात्। “विल्वतिष्ययोः स्वरितो वा” फिट्सू० १ पादः। “अनयोरन्तः स्वरितो वा पक्षे उदात्तः” सि० कौ०। “उदात्तस्वरितयोर्य्यणः स्वरितोऽनुदात्तस्य” पा० “उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात्। अभ्यभि हि। स्वरितस्य यणः। स्वलप्व्याशा। अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न” सि० कौ० “स्वरिती वाऽनुदात्ते पदादौ” पा० “अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात्। पक्षे पूर्वसूत्रेणोदात्तः। वीदं ज्योतिर्हृदये। अस्य श्लोको दिवीयते। व्यवस्थितविभषात्वादिकारयोः स्वरितः दीर्घप्रवेशे तूदात्तः। किञ्च एङः पदान्तादिति पूर्वरूपे स्वरित एव। तेऽवदन्। सोऽयमागात्। उक्तञ्च प्रातिशाख्ये “इकारयोश्च प्रश्लेषे क्षैप्राभिनिहतेषु चेति” सि० कौ०। “उदात्तादनुदात्तस्य स्वरितः” पा० “उदात्तात् परस्यानुदात्तस्य स्वरितः स्यात्। अग्निमीले”। अस्याप्यसिद्धत्वाच्छेषनिघातो न। “तमीशानासः” सि० कौ०। “नोदात्तस्वरितपरोऽगार्ग्यकाश्यपगालवानाम्” पा० उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात्। गार्ग्यादिमते तु स्यादेव। प्रय आरुः। क्व वोऽश्वाः ३। क्वा ३ भीशवः” सि० कौ०। “न्यङ्स्वरौ स्वरिती” फि० “एतौ स्वरितौ। न्यङुत्तानः। व्यचक्षयत् सुः” सि० कौ। “न्यर्वुदव्यल्कयोरादिः” फि०। स्वरितः स्यात्। “तिल्यशिक्यकाश्मर्य्यधान्यकन्याराजन्यामनुष्याणामन्तः” फि०। स्वरितः स्यात्। “तिलानां भवनं क्षेत्रं तिल्यम्। यतोऽनाव इति प्राप्ते” सि० कौ०। “बिल्वभक्ष्यवीर्य्याणि छन्दसि” फि० ४ र्थपादः। “अन्तस्वरितानि” सि० कौ०। “स्वरितेनाधिकारः” पा० “स्वरितत्वयुक्तशब्दस्वरूपमधिकृते, वीध्यम्” सि० कौ “स्वरितेनेति इत्थं भावे तृतीया स्वरितत्वज्ञाप्योऽधिकार इत्यर्थः। स्वरितत्वञ्च दोषविशेषजन्थमज्झल्माधारणाश्रयम् अरिक्रियमाणपदघटकाजाश्रितं वा बोध्यम्। तच्चानु नासिकत्ववत् प्रतिज्ञयैव निश्चीयते अधिकारश्च कियद्दूरमित्यत्रामति बाधके व्याख्यानमेव शरणम्” शब्देन्दु०। “स्वरितञित आत्मनेपदं कर्त्त्रभिप्राये क्रियाफले” पा० स्वरितेतो ञितश्च धातोरात्मनेपदं स्वात् कर्त्रभिपाये क्रियाफले” सि० कौ०। स्वर–क्त। ४ स्वरयुक्ते त्रि०।

स्वरु = पु० स्वृ–उ। १ वज्रे अमरः २ यूपखण्डे ३ वाणे ४ यज्ञे मेदि०। ५ सूर्य्यकिरणे ६ वृश्चिकभेदे च उणा०।

स्वरुचि = त्रि० स्वस्यैव रुचिः प्रवर्त्तिका स्वकृत्ये यस्य। १ स्वतन्त्रे हेमच० ६ त०। २ स्वस्याभिलाषे स्त्री।

स्वरूप = न० स्वस्य रूपम्। १ स्वभावे अमरः। स्वमेव रूपम्। २ स्वात्मके पदार्थे। स्वं यथ स्वं रूपयति रूप–अण्। ३ यथास्वरूपाभिज्ञे पण्डिते पु० अमरः। स्वेन स्वभावेनैव रूपमस्य। ४ मनोज्ञे त्रि० अमरः।

स्वरूपसंबन्ध = पु० स्वरूपं सम्बन्धः स्वरूपयोर्वा सम्बन्धः। न्यायोक्ते स्वात्मके सम्बन्धे षट्पदार्थातिरिक्ते पदार्थभेदे यथा प्रतियोगित्वम् विषयत्वमित्थादि।

स्वरोदय = पु० स्वरणामुदयो शुभादिज्ञापकतया यत्र। स्वरस्य श्वासविशेषस्य शुभाशुभत्वज्ञानसाधने तन्त्रशास्त्रभेदे चक्रशब्दे २८१० पृ० दृश्यम्।

स्वर्ग = पु० स्वरिति गीयते गै–क सु + ऋज–घञ् वा। १ दुःखासम्भिन्ने सुखे २ देवानाभावासस्थाने च अमरः। स्वर्गकारणस्वरूपादिकं भा० व० २६० अ० उक्तं यथा “उपरिष्टाच्च स्वर्लोको योऽयं स्वरिति संज्ञितः। ऊर्द्ध्वगः सत्पथः शश्वद्देवयानचरो मुने!। नातप्नतपसः पुंसो नामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल!। धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरताः लोका शूराश्चाहवलक्षणाः। तत्र गच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान् पुण्यकृतान् ब्रह्मन्! सद्भिराचरितान्नृमिः। देवाः साध्यास्तथा विश्वे तथैव च महर्पयः। यामा धामाश्च मौद्गल्य! गन्धर्वाप्सरसस्तथां। एषां देवनिकायानां पृथक् पृथगनेकशः। भास्वन्तः कामसम्पन्ना लोकास्तेजोमयाः शुभाः। त्रयस्त्रिंशतसहस्राणि योजनानि हिरण्मयः। मेरुः पर्वतराड् यत्र दिव्योद्यानानि सौद्गज!। नन्दानादोनि पुण्यानि विहाराः पुण्यकर्मणाम्। न क्षुत्पिपामे न ग्लानिर्न शीतोष्णे भयं तथा। बीभत्समशुभं वाऽपि तत्र किञ्चिन्न विद्यते। मनोज्ञाः सर्वतो गन्धाः मुखस्पर्शाश्च सर्वशः। शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्र वै मुने!। न शोको न जरा तत्र नायासपरिदेवने। ईदृशः स मुने! लीकः स्वकर्मफलहेतुकः। सुकृतैस्तत्र पुरुषाः सम्भवन्त्यात्मकर्मभिः। तैजसानि शरीराणि भवन्त्यत्रोपपद्यताम्। कर्मज न्येव मौद्गल्यो!। न मातृपितृजान्युत। न संस्वेदो न दौगन्ध्यं पुरीषं मूत्रमेव च। तेषां न च रजो वस्त्रं बाधते तत्र वै मुने!। न म्लावत्वि स्रजस्तेषां दव्यगन्धा सनोरमाः। संयुज्यन्ते विमानैश्च ब्रह्मन्नेवंविधैश्च ते। ईर्षाशोकक्लमापेता मोहमात्शर्य्यवजिताः। सुखं स्वर्गजितस्तत्र वर्त्तयन्ते महामुने!। तेषां तथाविधानान्तु लोकानां मुनिपुङ्गव!। उपर्य्यपरि लोकस्य लोका दिव्या गुणान्विताः। पुरस्ताद् ब्रह्मणास्तत्र लोकास्तेजीमयाः शुभाः। यत्र यान्त्यृषथो ब्रह्मन्! पूताः स्वैः कर्मभिः शुभैः। ऋभवो नाम तत्र न्ये देवानासपि देवताः। तेषां लोकाः परतरे यान् यजन्तीह देवताः। स्वयस्प्रभास्ते भाम्वन्तो लोकाः काभ दुचाः परे। न तेषां स्त्रीकृतस्तापी न लोकैश्वर्य्यमत्सरः। च वर्त्तयन्त्याहुतिभिस्तेनाप्यभृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्त्तयः। न सुखे सुखकामास्ते देवदेवाः सनातनाः। न कल्पपरिवर्त्तेषु परिवर्त्तन्ति ते तथा। जरा मृत्युः कुतस्तेषां हर्षः पीतिसुखं न च। न दुःखं न सुखञ्चापि रागद्वेषौ कुतो मुने!। देवानामपि मौद्गल्य! काङ्क्षिता सा गतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः। त्रयस्त्रि शदिमे देवा येषां लोका मनीषिभिः। गम्यन्ते नियसैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः। सेयं दानकृता व्युष्टिरनुप्राप्त्वा सुखं त्वया। तां भुङ्क्ष्व सुकृतैलब्धां तपस्याद्योतितप्रभः। एतत् स्वर्गसुखं विप्र! लोका नानाविधास्तथा। गुणाः स्वर्गस्य प्रोक्तास्ते दीषानपि निबोध मे। कृतस्य कर्मणस्तत्र भुज्यते यत् फलं दिवि। न चान्यत् क्रियते कर्म मूलच्छेदेन भुज्यते। सोऽत्र दोषो मम मतस्तस्यान्ते षतनञ्च यत्। सुखव्याप्तमत् स्कानां पतनं यच्च मुद्गल!। असन्तोषः परीतापो दृष्ट्वा दोप्ततराः श्रियः। यद्भवत्यवरे स्थाने स्थितानां तत् सुदुष्करम्। संज्ञा मोहश्च पततां रजसा च प्रधर्षणम्। प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्। आब्रह्मभवनादेते दोषा मौद्गल्य! दारुणाः। ताकलोके सुकृतिनां गुणास्त्वयुतशो नृणाम्। अय त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने!। शुभानुशययोगेन मनुष्येषूपजायते। तत्रापि स महाभागः सुखभागभिजायते। न चेत् सम्बुध्यते तत्र गच्छत्यधमतां ततः। इह यत् क्रियते कर्म तन् परत्रोपभुज्यते। कर्मभूमिरिवं व्रह्मत्! फल भूमिरमो मतः”। स च लोकी भूरादिषु ऊर्द्ध्वस्थस्तृतीयः।

स्वर्गङ्गा = स्त्री ६ त०। मन्दाकिन्यां शब्दर०।

स्वर्गनाथ = पु० ६ त०। इन्द्रे स्वर्गपत्यादयोऽप्यत्र हेमच०।

स्वर्गबधू = स्त्री ६ त०। अप्सरःसु हेमच०।

स्वर्गाचल = पु० स्वर्गलोकस्थोऽचलः। सुमेरुपर्वते स्वर्गगिर्य्या दयोऽप्यत्र हेमच०।

स्वर्गिन् = पु० स्वर्गोऽस्त्यस्य भोग्यत्वेन इनि। १ देवे त्रि० २ देवलोकगामिनि च त्रि० स्वर्गगामित्वसूचकगुणभेदा गुरुडपु० उक्ता यथा “समाभूतषु सवादः परलोकं प्रति क्रिया। सतां परहिताः योक्तिर्वेदप्रामाण्यदर्शनम्। गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः। सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः”।

स्वर्गौकस् = पु० स्वर्ग ओको यस्य। देवे हला०।

स्वर्जिक = पु० सु + अर्ज–घञ् ततः अस्त्यर्थे ठन्। सर्जिकाक्षारे राजनि० २ यवक्षारे स्त्री भावप्र०। “कथितः स्वर्जिकाभेदः विशेषज्ञैः सुवर्चिका। यवक्षारो लघुः स्निग्धः सुसूक्ष्मो वह्निदोपनः। निहन्ति शूलं वातामश्लेष्मश्वासगलामयान्। स्वर्जिकाल्पगुणा तस्मात् विशेषात् गुल्मशूलहृन्” भावप्र०। कर्म० स्वर्जिकाक्षारोऽपि तत्रार्थे राजनि० णिनि स्वर्जिन् तत्रार्थे राजनि०।

स्वर्ण = न० मुष्ठु आर्णो वर्णो यस्य। १ काञ्चने २ धुस्तूरे अमरः ३ नागकेशरे ४ गौरवर्णशाके च राजनि०। सुवर्णशब्दे दृश्यम्।

स्वर्णकण = न० स्वर्णमिव पीतत्वात् कणोऽस्य। १ कणगुग्गुलौ राजनि०। ६ त० २ सुवर्णस्य लेशे पु०।

स्वर्णकदली = स्त्री स्वर्णमिव कदली (चा~पाकत्वा)कदलीभेदे।

स्वर्ण्णकाय = पु० स्वर्णमिव पीतत्वात् कायोऽस्य। १ गरुडे हेमच०। २ स्वर्णवर्णदेहयुते त्रि०।

स्वर्णकार = पु० स्वर्ण्ण स्वर्णमयमलूङ्कारादि करोति कृ० अण्। (मेकरा) जातिभेदे। “विश्वकर्मा तु शूद्रायां वीर्य्याधानं चकार सः। ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः। मालाकारः कर्मकारः शङ्खकारः कुविन्दकः। कुम्भकारः कंसकारः षडेते शिल्पिनां वराः। सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च। पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः। स्वर्णकारः स्वर्णचौर्य्यात् ब्रह्मणानां द्विजोत्तम! बभूव सद्यः पतितो ब्रह्मशापेन कर्मणा” ब्रह्मवै० व्र० ख० १० अ०। “तैलचौरस्तैलकीटो मूर्ध्निकीटस्त्रिजन्मकम्। ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः” ब्रह्मवै० जन्मख० ८५ अ०। तज्जातिलाभकर्म।

स्वर्णकृत् = पु० स्वर्ण्णं तन्मयभूषादिकं करोति कृ–क्विप्। स्वर्णकारे शब्दमा०।

स्वर्णकेतकी = स्त्री स्वर्णमिव पीतत्वात् केतकी। पीतकेतक्याम् राजनि०। तत्पुष्पादिगुणाः “केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम्। हेमाभं मदनोन्मादब हुल्यसौख्य कारि च। तस्याः स्तनोऽतिशिशिरः कटुः पित्तकफापहः। रसायनकरो वर्ण्यो देहदार्ढ्यकरः परा” राजनि०।

स्वर्णक्षीरी = स्त्री स्वर्णमिव पीतत्वात् क्षीरं निर्य्यासो यस्याः गौरा० ङीष्। ओषधिभेदे सा च हिमालये जायते। “हेमवर्णो रसस्तस्या हिमबद्भूमिसम्भवा। सा नागजिह्विकाकारा तन्मूलं वाणिजौषधम्। स्वर्ण्णक्षीरी हिमा तिक्ता कृमिपित्तकफापहा। मूत्रकृच्छाश्मरी शाथदाहस्वरहरा परा” राजनि०।

स्वर्णगैरिक = न० स्वर्णमिव पीतं गैरिकम्। (वर्णकमाटि) पदार्थभेदे राजनि०।

स्वर्णग्रीवा = स्त्री नदीभेदे। “या निःसृता पूर्वभागात् तस्मात् गिरिवरात् (नाटकशैलात्) नदी। स्वर्णग्रीवेति विख्याता सा गङ्गासदृशीफले” कालिकापु० ८२ अ०।

स्वर्णचूड = पुंस्त्री० स्वर्ण्णमिव पीतत्वात् चूडा यस्य। चाषपक्षिणि जटा० स्त्रियां ङीष्।

स्वर्णज = न० स्वर्णात् जायते जन–ड। १ वङ्गे हेमच० २ स्वर्णजातमात्रे त्रि०।

स्वर्णजीवन्ती = स्त्री० स्वर्णमिव पीतत्वात् जीवन्ती। पीतपुष्पजीवन्त्याम् राजनि०।

स्वर्णदी = स्त्री स्वर्णं द्यति अपसारयति तुल्यवर्णत्वात् दो–क गौरा० ङीष्। १ वृश्चिकाल्याम् राजनि०। ६ त० णत्वम्। २ गङ्गायाम् अमरः।

स्वर्णदीधिति = पु० स्वर्णमिव भास्वरा दीधितिरस्य। १ अग्नौ, २ चित्रकवृक्षे च त्रिका०।

स्वर्णद्रु = पु० स्वर्णमिव पुष्पे पीतो द्रुः। आरग्बधे राजनि०।

स्वर्णपक्ष = पु० स्वर्णमिव पीतः पक्षोऽस्य। गरुडे त्रिका०।

स्वर्णपाटक = पु० स्वर्णं पाटयति पट–णिच्–ण्वुल्। दङ्कणे (सोहागा) शब्दर०।

स्वर्णपुष्प = पु० स्वर्णमिव पीतं पुष्पमस्य। १ चम्पके २ आरग्बधे पुंस्त्री० राजनि० स्त्रीत्वे ङीप। सा च ३ स्वर्णकेतक्याञ्च राजनि०। ४ सातलायार ५ कलिकारौ स्त्री राजनि० टाप्।

स्वर्णफला = स्त्री स्वर्णमिव पीतं फलमस्याः। (चांपाकला) सुवर्णकदल्याम् राजनि०।

स्वर्णबणिज् = पु० ६ त०। सुवर्णबणिजि जातिभेदे।

स्वर्णभृङ्गार = पु० स्वर्णमिव स्वर्णमयो वा भृङ्गारः। १ पीतभृङ्गराजे राजनि०। २ स्वर्णमयकलसभेदे च।

स्वर्णमाक्षिक = न० स्वर्णमिव पीतं माक्षिकम्। स्वनामख्याते उपधातुभेदे “किञ्चित् सुवर्णसाहित्यात् स्वर्ण्णमाक्षिकमीरितम्। उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम्। तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम्। किन्तु तस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः। न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके। द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणास्ततः। सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम्। चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम्। अर्शःशोथं विषं कण्डुं त्रिदोषमपि नाशयेत्”। अशुद्धस्वर्णमाक्षिकस्य दोषमाह “मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान् सकुष्ठान्। मालां तथैब ब्रणपूर्विकाञ्च कुर्य्यादशुद्धं खलु माक्षिकञ्च”। तद्दोषशान्त्यर्थं शोधनमाह “माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च। मातुलुङ्गद्रवैर्वाथ जम्बीरस्य द्रवैः पचेत्। चालयेल्लोहजे पात्रे यावत् पात्रं सुलोहितम्। भवेत्ततस्तु संशुद्धं स्वर्णमाक्षिकमीरितम्”। तन्मारणं यथा “कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत्। तैलेनैवाजमूत्रेण म्रियते स्वर्णमाक्षिकम्” भावप्र०।

स्वर्णयूथी = स्त्री स्वर्णमिव पीता यूथी। पीतयूथिकायाम् शब्दच०।

स्वर्णलता = स्त्री स्वर्णमिव पीता लता। ज्योतिष्मत्यां राजनि०

स्वर्णवर्णा = स्त्री स्वर्णमिव वर्णोरूपमस्याः। १ हरिद्रायाम् राजनि०। २ सुवर्णवर्णे त्रि० ३ हेममूल्यज्ञापके वर्णे च।

स्वर्णवल्कल = पु० स्वर्णमिव पीतं बल्कलमस्य। स्योनाकवृक्षे शब्दच०।

स्वर्णवल्ली = स्त्री स्वर्ण्णमिव पीता वल्ली। लताभेदे “स्वर्णवल्ली रक्तफला काकायुः काकवल्ल्यपि। शिरापीडा त्रिदोषघ्नी दुग्धदात्री तु सा मता” राजनि०।

स्वर्णशेफालिका = स्त्री स्वर्णमिव पीता शेफालिका। १ पीतशेफालिकायाम्। २ आरग्बधे राजनि०।

स्वर्णाङ्ग = गु० स्वर्णमिवाङ्गं पुष्पं यस्य। १ आरग्बधे राजनि० २ पीतवर्णदेहयुते त्रि० स्त्रियां ङीष्।

स्वर्णारि = पु० ६ त०। गन्धके तस्य स्वर्णमारकत्वात्तथात्वम्।

स्वर्णुली = स्त्री स्वर्ण्णं तद्वर्णं लीयते पुष्पेऽत्र ली–आधारे क्विप् पृषो०। स्वर्णुली हेमपुष्पी च स्वर्णपुष्पाध्वजा तथा। सा कषाया कटुः शीता व्रणहा परिकीर्त्तिता” राजनि० उक्ते लताभेदे।

स्वर्त्त = गतौ सक० दुखेन जीवने अक० चु० उ० सेट्। स्वर्त्तयति ते असस्वर्त्तत् त।

स्वर्द्द = प्रीतौ अक० प्रीणने लेहने च सक० भ्वा० आत्म० सेट्। स्वर्दृते अस्वर्द्दिष्ट।

स्वर्भानव = पु० निस्वर्भानो राहोः प्रियः अण् नि० नादिवृद्धिः। गोमेदमणौ राजनि०।

स्वर्भानु = पु० स्वः स्वर्गे भानुर्दीप्तिरस्य। रहौ अमरः। तस्य भूमिच्छायारूपतया भूमिस्थैर्भानुमत्त्वेनादर्शनात् दिवि दीप्तिमत्त्वात्तथात्वम्।

स्वर्लोक = पु० स्वरेव लोकः भुवनम्। १ स्वर्गे ६ त०। २ स्वर्गस्थे लोके शब्दच०।

स्वर्वापी = स्त्री स्व० स्वर्गस्य वापीव। १ गङ्गायाम् हेमच०।

स्वर्वेश्या = स्त्री स्वः स्वर्गस्य वेश्या। मेनकाद्यप्सरस्मु अमरः।

स्वर्वैद्य = पु० द्वि० च०। स्वः स्वर्गस्य वैद्यौ। अश्विनीकुमारयोः अमरः। आयुर्वेदशब्दे ७७९ पृ० दृश्यम्।

स्वलीन = पु० दानवेभेदे वह्निपु०।

स्वल्प = त्रि० सुष्ठु अल्पम् प्रा० स०। अत्यल्पे क्षुद्रे।

स्वल्पकेशरिन् = पु० स्वल्पः केशरो नित्यमस्त्यस्य इनि। कोवि दारवृक्षे राजनि०।

स्वल्पकेशिन् = त्रि० स्वल्पः केशो नित्यमस्त्यस्य! १ अत्यल्पकेशयुते स्त्रियां ङीप्। २ पिशाचभेदे पु० शब्दच०।

स्वल्पपत्त्रक = पु० स्वल्पं पत्त्रमस्य कप्। गौरशाके मधूकभेदे रत्नमा०।

स्वल्पफला = स्त्री स्वल्पं फलं यस्याः। हपुसाभेदे राजनि०।

स्ववासिनी = स्त्री स्वस्मिन् पित्रालये वसति वस–णिनि ङीप्। चिरं पितृगृहादिवासिन्यामूढायामनूढायां वा स्त्रि याम्। सुवासिनीत्यस्य स्वाने अमरे पाठान्तरम्।

स्ववीज = पु० स्वमेव वीजं यस्य। १ आत्मनि शब्दर०। २ पुत्रे ३ कन्यायां स्त्री ६ त०। ४ निजकारणे न० ५ स्थस्य वीर्य्ये च न०।

स्वसृ = स्त्री सु + अस–ऋन्। भगिन्याम् अमरः।

स्वस्क = गतौ व्या० आ० सक० सेट्। स्वस्कते असस्किष्ट।

स्वस्ति = अव्य० सु–अस–क्तिच्, अस्तीति विभक्तिप्रतिरूपकम् अव्ययं प्रादि० वा। १ क्षेमे २ आशिषे ३ पुण्यादौ अमरः ४ स्वीकारसूचने च। एतद्योगे क्षेमादिलम्बन्धिनि चतुर्थी।

स्वस्तिक = पुनि०। स्वस्ति शुभाय हितम् ठत्। “स्रस्तिकं प्राङमुखं यत् स्यादलिन्द्यानुगतं भवेत्। तत्पार्श्वौनुगतौ चान्यौ तत्पर्य्यन्तगतोऽपरः” इत्युक्तलक्षणे गृहभेदे साञ्जः। २ सितावरशाके पु० राजनि० ३ आसनभेदे तल्लक्षणम् आसनशब्दे ८८६ पृ० दृश्यम्। ४ तण्डुल चूर्णनिर्मिते त्रिकोणाकारे द्रव्यभेदे च “घृतं स्वस्तिकसिन्दूरम्” इत्यधिवासनद्रव्यज्ञापकवाक्यम् ५ चतुष्पथे पु० मेदि०। ६ जिनध्वजभेदे हेमच०। ७ रततालिके विश्वः

स्वस्तिमुख = पु० स्वस्ति मुखे वक्त्रे आदौ वा यस्य। १ लेख्ये पत्रादौ २ विप्रे पु० ३ स्वस्तिवादिनि त्रि० मेदि०।

स्वस्तिवाचन = न० स्वस्ति शुभस्य विप्रद्वारा वाचनम्। कर्मारम्भे विघ्नोपशान्तये ब्राह्मणाद्वारा कर्त्तव्यकर्मणां शुभतावाचने। “संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत्। धर्म्ये कर्मणि माङ्गल्ये संग्र मेऽद्भुतदर्शने” व्यासः।

स्वस्तिवाचनिक = त्रि० स्वस्तिवाचनाय हितं तत आगतम् तत्र भवं वा ठन्। १ स्वस्तिवाश्चनसाधने २ तदुक्तिलब्धे ३ तत्सम्बन्धिनिञ्च।

स्वस्त्ययन = न० स्वस्ति शुभस्यायनं लाभो यस्मात्। शुभार्थं क्रियमाणे येदादिविहिते ग्रहयानादौ।

स्वस्थ = त्रि० स्वः परलोके तिष्ठति स्वेन स्वभावेन सुखेन, वा वा तिष्ठति स्था–क वा विसर्गलोपः। स्वभावस्थे २ स्वर्गस्थिते ३ विनायासेन सुखेनावस्थिते च। “स्वस्था भवन्तु मयि जीवति धार्त्तराष्ट्राः” वेणीसं०।

स्वस्रीय = पु० स्वसुरपत्यम् छ। १ भागिनेये अमरणः २ भागिनेय्यां स्त्री टाप्।

स्वागत = न० सुखेन आगतम् सु + आ + गम्–भावे क्त। १ सुखे० नागमने “स्वागतं स्वानधीकारान्” कुमारः तदस्यास्ति अच्। २ कुशले ३ कुशलप्रश्ने हारा०। स्वापतञ्च षोडशोपचारमध्यो द्वितीयोपचारः आसनं स्व गतं पाद्यभित्यादि। उपचारशब्दे दृश्यम्।

स्वाङ्किक = पु० साङ्कमर्हति ठक्। १ मृदङ्गे २ तद्धादके शब्दर०।

स्वाच्छन्द्य = न० स्वच्छन्दस्य भावः ष्यञ्। १ स्वाधीनत्वे २ स्वास्थ्ये च।

स्वातन्त्र्य = न० स्वतन्त्रस्य भावः ष्यञ्। १ स्वाधीनत्वे २ परानधानत्वे। व्या० उक्ते इतरव्यापारानधीनव्यापारवत्त्वरूपे कर्तृत्वे कर्तृशब्दे १७१६ पृ० दृश्यम्।

स्वाति(ती) = पुंस्त्री० स्वेनैव अतति अत–इन् स्त्रीत्वपक्षे वा ङीप्। १ अश्विन्यादिषु पञ्चदशे नक्षत्रे अमरः “हस्तास्वातिः श्रवणा अक्लीवे” ति० त० उक्तेरुभयलिङ्गताऽस्य। २ सूर्व्यपत्नीभेदे स्त्री त्रिका० ३ स्वगे धरणिः। स्वातिनक्षत्राधिष्ठात्यदेवयोगतारास्वरूपादिकम् अश्लेषाशब्दे ४९७ पृ० दृश्यम्।

स्वातियोग = पु० आशाडशुभ्रपक्षे कस्यां तित् तिथौ माघकृष्णपक्षसप्तभ्या तिथौ च स्वातिनक्षत्रस्थचन्द्रस्य शुभफलादिज्ञापके योमभेदे यथोक्तं वृ० सं० २५ अ० “यद्रोहिणीयामभफलं तदेव स्वातावषाढासहिते च चन्द्रे। च चन्द्रे। आषाढशुक्ले निखिलं विचिन्त्यं योऽस्मिन् विशेषन्तमहं प्रवक्ष्ये। स्वातौ निशांशे प्रथमेऽभिवृष्टे शस्यानि सर्वाण्युपयान्ति वृद्धिम्। भागे द्वितीये तिलमुद्गमाषा ग्रैष्मं तृतीयेऽस्ति न शरदानि। वृष्टेऽह्नि भागे प्रथमे सुवृष्टिस्तद्वद्वितीये तु सकीटसर्पा। वृष्टिस्तु मध्यापरभागवृष्टे निश्छिद्रवृष्टिर्द्युनिशं प्रवृष्टे। सममुत्तरेण तारा चि त्रायाः कीर्त्यते ह्यपांवत्सः। तस्यासन्ने चन्द्रे स्वातेयोगः शिवो भवति। सप्तम्यां स्वातियोगे यदि पतति हिमं माघमासान्धकारे वायुर्वा चण्डवेगः सजलजलधरो वापि गर्जत्यजसम्। विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं विज्ञेया प्रावृडेषा मुदितजनपदा सर्वशस्यैरुपेता। तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा। स्वातियोगं विजानीयादाषाढे च विशेषतः”।

स्वाद = पीतौ अक० प्रीणने लेहने च सक० भ्वा० आ० सेट्। स्वादते आस्वादिष्ट।

स्वाद = पु० स्वद–स्वाद–वा घञ्। १ रसानुभवे २ प्रीतौ ३ प्रीणने ४ लेहने च। ल्युट्। स्वादनमप्यत्र न०। रसानुभवप्रकारः सा० द० उक्तो यथा “न जायते तद स्वादो विना रत्थादिवासनाम्” वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः। तत्रा। यदि आद्या न ल्याच्छोत्रियजरन्मीमांसकादीनामपि सा स्यात्। यदि द्वितीया न स्याद् यद्रागिणामपि केषाञ्चिद्रसोद्बीधो न दृश्यते तन्न स्मात्। उक्तञ्च धर्मदत्तेन “सवासनानां सभ्यानां रसस्यास्वादनं भवेत्। निर्वासतास्वु रङ्गान्तःकाष्ठकड्याश्मसन्निभाः”।

स्वादिष्ठ = त्रि० अतिशथेन स्वादुः। इष्ठन् डित्। अतिमधुरे ईःसुन्। स्वादीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।

स्वादु = पु० स्वद–उण्। १ मधुररसे हेमच० २ गुडे त्रिका० ३ जोवकौषधौ जटा०। ४ रष्टे ५ मधुरे ६ मनोज्ञे च त्रिमेदि० स्त्रियां वा ङीप्। सा च ७ द्राक्षायां अमरः ८ अगुरुसारे गन्धद्रव्ये पु० राजनि०।

स्वादुकण्टक = पु० स्वादुः कण्टकोऽस्य। विकङ्कतवृक्षे राजनि०

स्वादुकन्दा = स्त्री स्वादुः कन्दोऽस्याः। विदार्य्याम् राजनि०।

स्वादुका = स्त्री स्वादुना सधुररसेन कायति कै–क। नागदन्त्याम् राजनि०।

स्वादुखण्ड = प० स्वादुः मिष्टः खण्डोऽस्य। गुडे शब्दर० कर्म०। २ मधुरे भागे।

स्वादुगन्धा = स्त्री स्वादुरिष्टगोन्धोऽस्याः। १ रक्तशोभाञ्जने रत्नमा०। २ भूमिकुष्माण्ड्याञ्च जटा०।

स्वादुपर्णी = स्त्री स्वादूनि पर्णान्यस्याः ङीप्। दुग्धिकायाम् राजनि०।

स्वादुपाका = स्त्री स्वादुः पाकोऽस्याः। काकमाच्याम् राजनि०

स्वादुपिण्डा = स्त्री स्वादुः पिण्डः पिण्डाकारफलमस्याः। पिण्डस्वर्जूर्य्याम् राजनि०।

स्वादुफला = स्त्री स्व दु फलमस्याः। १ वदरीफले शब्दर० कर्म०। २ मिष्टे फले न०। ३ कोलौ स्त्री शब्दर० टाप्।

स्वादुमज्जन् = पु० स्वादुः मज्जा यस्य। पर्वतजे पीलौ जटा०

स्वादुमांसी = स्त्री स्वादु मांसमिव फलमस्याः गौरा० ङीष्। कालोल्याम् राजनि०।

स्वादुमूल = न० स्वादु मूलमस्य। गर्जरे (गा~जर) राजनि०।

स्वादुरसा = स्त्री स्वादुः रसो यस्याः। १ काकोल्याम् अमरः २ मदिरायाम् हेमच०। ३ शतावर्य्यां ४ द्राक्षायाम् ५ आम्रातके च शब्दर०।

स्वादुलता = स्त्री स्वाद्वी लता। विदार्य्याम् राजनि०।

स्वादुपुष्प = पु० स्वादु पुष्पं यस्य। कटभ्यां राजनि०।

स्वादूदक = पु० स्वादु उदकं यस्य। समुद्रभेदे सि० शि०।

स्वाद्वम्ल = पु० स्वादुः अम्लः। दाडिमे त्रिका०

स्वाधिष्ठान = न० लिङ्गमूलस्थे सुषुम्णान्तर्गते षड्दलपद्मभेदे। “षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनचन्धिषि। बभमैर्यरलैर्युक्ते वर्णैः षङ्मिश्च सुव्रत!” तन्त्रसा०। “सिन्दूरपूररुचिरारुणपद्ममन्यत्सौषुम्णमध्यघटितं ध्वजमूलदेशे। अङ्गच्छदैः परिवृतं तडिताभवर्णैर्बाद्यैः सविन्दुलसितैश्च पुरन्दरान्तैः (लान्तैः)। तस्यान्तरे प्रविलसद्विशदप्रकाशमम्भोजमण्डलमथो वरुणस्य तस्य। अर्द्धेन्दुरूपलसितं शरदिन्दुशुभ्रं वङ्कारवीजमलं मकराधिरूढम्। तस्याङ्कदेशे लसितो हरिरेव पायान्नीलप्रकाशरुचिरश्रियमादधानः। पीताम्बरः प्रथमयौवनगर्भधारी श्रीवत्सकौस्तुभधरो धृतवेदवाहुः। तत्रैव भाति सततं खलु राकिणी सा नीलाम्बुजद्युतिसहोदरकान्तिशोभा। नानायुधोद्यतकरैर्ललिताङ्गलक्ष्मीर्दिव्याम्बराभरणभूषितमत्तचित्ता। स्वाषिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद्यो मुनोन्द्रस्तम्याहङ्कारदोषादिकसकलरिपुः क्षीयते तत्क्षणेन” पूर्णानन्दषट्चक्रम्।

स्वाधीन = त्रि० स्वस्याधीनः। स्वायत्ते स्वतन्त्रे।

स्वाधीनपतिका = स्त्री स्वाधीनः पतिर्यस्याः कप्। नायिकाभेदे स्वाधीनभर्तृकादयोऽप्यत्र। “कान्तो रातगुणाकृष्टो न जहाति यदन्तिकम्। वि- चित्रबिभ्रमा मत्ता सा स्यात् स्वाधीनभर्तृका” सा० द०। सा च पञ्च वधा “मुग्धा मध्या प्रौढा स्वकीया सामान्या चेति” रसमञ्जरी।

स्वाध्याय = पु० स्वः स्वकीयत्वेन विहित अध्यायः द्विजानाम्, अधि + इङ–कर्मणि घञ्। १ द्विजैः पाठ्येवेदभागभेदे “स्वाध्यायोऽध्येतव्यः” इति श्रुतिः। सु + आ + अधि इङ भावे घञ्। २ अवश्यपाठ्यवेदाध्ययने “स्वाध्यायो जप इत्युक्तो येदाध्ययनकर्मणीतिं” स्मृतिः।

स्वान्त = न० स्वन–क्त। १ मनसि अमरः २ गह्वरे मेदि०। ३ श ब्दिते त्रि०।

स्वाप = पु० स्वप–घञ्। निद्रायाम् अमरः। २ शयने ३ अज्ञाने ४ स्पर्शाज्ञतायां च मेदि०।

स्वापतेय = न० स्वपतेरागतः ढञ्। धने अमरः।

स्वाभाविक = त्रि० स्वभावादागतः ठञ्। स्वभावसिद्धे स्त्रियां ङीप् (स्वाभाविको स्वच्छतेत्युद्भटः)।

स्वामिन् = पु० सव + अस्त्यर्थे मिनि दीर्घः। १ भर्त्तरि पत्यौ धरणिः। २ कार्त्तिकेये मेदि०। ३ राजनि अमरः। ४ विभौ ५ हरे ६ हरौ च शब्दर०। ७ वात्स्यायनमुनौ त्रिका०। ८ अधिपतौ त्रि० अमरः। ९ जैनभेदे पु० हैमच०। १० परिव्रा जकोपाधिभेदे पु०। तस्य भावः त्व स्वामित्व स्वत्वनिरूपिते क्रयाद्यधीने आत्मवृत्तौ पदार्थभेदे स्वत्वशब्दे दृश्यम्।

स्वामिपालविवाद = पु० स्वामी च पालौ च तयार्विवादः विवादभेदे तत्स्वरूपादिकं वीरमि० उक्तं यथा “अथ स्वामिपालविवादाख्यव्यवहारपदम्। तत्र मनु स्तदभिधानप्रतिज्ञां करोति। “पशुषु स्वामिनां चैव पालानाञ्च व्यतिक्रमे। विवादं संपवक्ष्यामि यथावद्धर्म तत्त्वतः” इति। स्यामिपालयोः प्रतिदिनकृत्यमाह नारदः “उपानयेद्गा गोपाय प्रत्यहं रजनीक्षये। चीर्णाः पीताश्च ता गोपः सायाह्ने प्रत्युपानयेद्” इति। चीर्णा स्तृणादिकं भक्षितवतीः। पीताः पीतवतीः। स्वामिना प्रातर्यावत्यः समर्पितास्तावत्यो गोपालेन सायं प्रत्यर्पणीया इत्यर्थः। गोग्रहणं पशुमात्रोपलक्षणार्थम्। तथा च याज्ञवल्क्यः “यथार्पितान् वशून् योपः सायं प्रत्यर्पयेत् तथा” इति। गवादिपरिपालकस्य भृति परिमाणमाह नारदः “गवां शताद्वत्सतरी धेनुः स्याद् द्विशताद् मृतिः। प्रतिसंवत्सरं गोपे सन्दोहश्चाष्टमेऽहनि” इति। प्रतिसंवत्सरं संवत्सरे संवत्सरे गोशतपरिपालने वत्सतरी द्विहायनी गौर्भृतिः। द्विशतपरिपालने सेनुर्दोगुध्री सवत्सेति यावत्। अष्टमे दिवसे सन्दोहः सर्वासां गवान्दोहश्च भृतित्वेन कल्पनीय इत्यर्थः। वृहस्पतिरपि “तथा धेनुभृतः क्षीरं लभेताप्यष्टमेऽहनि” इति। धेनुभृतः धेन्वाभृतः द्विशतपालक इत्यर्थः। तथा च सन्दोहो धेन्वा समुच्चीयते न वत्सतर्य्येति मदनरत्ने। कल्पतरौ तु धेनुभृतो गोपाल इति व्याख्यातन्तेन वत्सतर्यापि समुच्चीयत इति गम्यते। गोग्रहणं महिष्यादीनामुपलक्षणम्। न्यूनाधिकपरिपालने तु तदमुसारेण भृतिकल्पना द्रव्यव्या। इयञ्च वत्सतर्यादिभृतिकल्पनापरिभाषितभृत्यभावविषया। परिभापिते तु परिभाषानतिक्रमेणैव देया। मनुस्तु प्रकारान्तरेण भृतिपरिमाणमाह “गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम्। गास्वाम्यनुमतो भृत्यः सा स्यात् पालेऽभृते भृतिः” इति। दशानान्दोग्ध्रीणां मध्ये वरासुत्कृष्टां स्वीकृत्य तत्क्षीरभृतो भृत्यो गोपः दशदोग्ध्रीपालनकृद् गृह्णीयाद् भृत्यर्थम्। सैषा भृतिः पूर्वं द्रव्यान्तरेणाभृते ज्ञेया। यस्तु द्रव्यान्तरेण भृतः तत्र तदेव भृतिरित्यर्थः। यस्तु भृतिं गृहीत्वा पशून्मारयेत् विनाशयति वा तं प्रत्याह याज्ञवल्क्यः “प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः” इति। प्रमादग्रहणं प्रशुपालकदोषोपलक्षणार्थम् मनुना प्रमादनाशः स्पष्टोकृतः “नष्टं विनष्टं कृमिभिः श्वहतं विषगे सृतम्। हीनं पुरुषकारेण प्रद० द्यात् पाल एव तु” इति। श्वहतम् शुना हतम्। विषमे दुर्गमप्रदेशे। पुरुषकारः पुरुषप्रयत्नः। यत् पुरुषप्रयत्नेन हीनं सन्नाशादिकं प्राप्तं तद्दातव्यमित्यर्थः। पुरुषकारश्च वृहस्पतिना दर्शितः “कृमिचोरव्याघ्रभयाद्दरीश्वभ्राच्च पालयेत्। व्यायच्छेच्छक्तितः क्रोशे स्वामिने वा निवेदयेत्” इति। व्यायच्छेत् व्यसनामावाय यतेतेत्यर्थः। चौरैर्बलात्कारेणापहृते न दाप्यं इत्याह मनुः “विघुव्य तु हृतञ्चौरैर्न पालोदातुमर्हति। यदि देशे च काले च स्वामिनः स्वस्य शंसति” इति। विघुष्य शृङ्गकादिभिर्थोषं कृत्वा। देशे स्वाम्यवस्थानदेशे। काले अपहरणकालाव्यवहितकाले। विषयविशेषे पशुपालस्य दण्डमाह व्यासः “गृहीतमूल्यो गोपालस्तांस्त्यक्त्रा नि० र्जने वने। ग्रामचारी नृपैर्वाध्यः शलाकी च वनेचरः” इति। शलाकी नापित इति कल्प्तरौ। पुरुषेण प्रयत्नाकरणे दण्डमाह नारदः “स्याच्चेद्गोव्यसनं गोपोव्यायच्छेत् तत्र शक्तितः। अशक्तस्तूर्णमागम्य स्वामिने च निवेदयेत्”। अव्यायच्छन्नविक्रोशन् स्वामिने चा- निनेदयन्। वोढुमर्हति गोपस्तं विनयञ्चैव राजनि” इति। तङ्गवादिकम्। पशूनां दैवान् मरणे पालकस्य दोषाभावज्ञानोपाथमाह व्यासः “मृतेषु च विशुद्धः स्याद् बालशृङ्गादिदर्शनात्”। आदिशब्देन कर्णादीनां ग्रहणम्। तथा च मनुः “कर्णौ चर्म च बालांश्च वस्तिं स्रायुञ्च रोचनाम्। पशुषु स्वामिनां दद्यान्मृतेष्वङ्गानि दर्शयेत्” इति। अङ्कादि दर्शयेदिति क्वचित् पाठः। अङ्कः शृङ्गकर्णादिरूपञ्चिह्नम्। आदिशब्दः साक्षिसंग्रहार्थः। पशुषु मृतेष्वङ्कादिकं स्वामिने दर्शयेत्। रोचनादिकं यत्प्रयोजनं तत् तस्मै दद्याच्चेत्यर्थः। नष्टगवादिदानञ्च तत्स्वामिने मूल्यद्वारेण ज्ञातव्यम्। अतएव विष्णुः “दिवा पशूनां वृकाद्युपघाते पालेऽत्वनायति पालकदोषो विनष्टपशूनां मूल्यं स्वामिने दद्यादिति”। अनायति अनागच्छति। विनयद्रव्यप्रम णमाह याज्ञवल्क्यः “पालदोषविनाशे तु पाले दण्डो विधीयते। अर्द्ध्वत्रयोदपणः स्वामिनो द्रव्यमेव च” इति। अर्द्धत्रयोदशपणः अर्द्धरहितत्रयोदशपणः। सार्द्धद्वादशपण इति यावत्। उत्तरपदलोपी कर्मधारयः। यत् तु केनचिदर्द्धाधिकत्रयोदशपणो दण्ड इति व्याख्यातं तत् सार्द्धद्विमात्रादिषु अर्द्धत्रिमात्रादि महा भाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम्। पालदोषमाह मनुः “अजाविके तु संरुद्धे वृकैः पाले त्वनायति। यां प्रसह्य वृको हन्यात् पाले तत् किल्विषं भवेत्” इति। अनौयति उपद्रवनिवारणाय अनागच्छतीत्यर्थः। याम् अजाविकजातीयाम्। सुगमस्थलस्थ विषयमेतत्। दुर्गमस्थलस्थविषये त्वाह स एव “तासा ञ्चेदवरुद्धानां चरन्तीनां मिथोवने। यामुत्प्लुव्य वृको हन्यान्न पालस्तत्र किल्विषी” इति। अवरुद्धानां पालकेन स्थापितानामित्यर्थः। गवादिप्रचारणार्थं भूमिमाह याज्ञवल्क्यः “ग्राम्येच्छया गोप्रचारो भूमीराजवशेन वा”। ग्राम्येच्छया ग्रामीणजनवशेन राजेच्छया वा। गोप्रचारो गवां तृणादिभक्षणार्थं कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्यर्थः। गवां स्थानासनसौकर्य्याय ग्राम क्षेत्रयोरन्तरमाह स एव “धनुः शतपरीणाहो ग्रामणेत्रान्तरं भवेत्। द्विशते खर्वटस्य स्यान्नगरस्य चतुः शतम्” इति। परीणाहशब्देनात्र सर्वासु दिक्षु अनुप्तशस्यस्थलं गृह्यते। एतादृशं धनुः शतं परिमितं ग्रामक्षेत्रयोरन्तरं काय्यैम्। खर्वटस्य शतद्वयपरिमितमि- त्यर्थः। खर्वटः अनेककारुकृषीवलयुक्तो ग्राम इति मदनरत्ने। माधवाचार्य्यैस्तु प्रचुरकण्डकसन्तानो ग्राम इति व्याख्यातम्। तत्र शस्योत्पत्तेः प्रागेवावरणं कार्य्यमित्याह कात्यायनः “अजातेष्वेव शस्येषु कुर्य्यादावरणं महत्। दुःखेन विनिवार्य्यन्ते लब्धस्वादरसा मृगाः” इति। एवं पशुनिवारणार्थं कृतेऽप्यावरणे तमतिक्रम्य पशुभिः शस्यादिविनाशे कृते कर्त्तव्यमाह मनुः “पथिक्षवे परिवृते ग्रामान्तीयेऽथ वा पुनः। स पालः शतदण्डार्हो विपालं वारयेत् पशुम्” इति। पथिक्षेत्रे मार्गसमीपे क्षेत्रे। ग्रामान्तीये ग्रामसमीपवर्त्तिनि। सपालः पशुः पणशतदण्डार्हः तत्पशुपालः पणशतं दण्डनीय इत्यर्थः। अयञ्च दण्डः पशुपालने समर्थेन सता पशावनिवार्य्यमाणे वेदितव्यः। अतएव नारदः “उत्क्रम्य तु वृतिं यः स्याच्छस्यघातो गवादिभिः। पालः शास्यो भवेत् तत्र न चेच्छक्तो निवारयेत्” इति। आवरणाभायेनापरिहार्य्ये शस्योपघातेऽपि न पालस्य दण्डः। तथा च मनुः “तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि। न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणास” इति। अनेनावृतक्षेत्रशस्योपघ ते पशुरक्षिणां दण्ड इत्यर्थादुक्तं भवति। अदीर्घकालप्रचारविषयमेतत्। दीर्घकालप्रचारे तु अपरिवृतेऽपि पशुपालो दण्डार्होभवति। अतएवाल्पकालप्रचारे दोषाभावं दर्शयति विष्णुः “पथि ग्रामविवीतान्ते न दोषोऽल्पकालमिति”। पशुविशेषे दण्डपरिमाणमाह याज्ञवल्क्यः “माषानष्टौ तु महिषी शस्यघातस्य कारिणी। दण्डनीया तदर्द्धं तु गौस्तदर्द्धमजाविकम्। भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः। सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम्” इति। परशस्यर्घातकारिण्या महिष्याः स्वामी अष्टौ माषान् दण्ड्य। गोः स्वामी चतुरः। छागस्वामी मेषस्वामी च द्वौ। एतेषां पशूनां शस्यभक्षणादारभ्य तत्रैव उपविष्टानां स्वामी यथोक्तदण्डाद् द्विगुणं ग्राह्यः। विवीतस्थतृणाद्युपघातेऽपि शस्योपघातवद्दण्डनीयः। स्वरस्वाम्युष्ट्रस्वामी च महिषीस्वामिवद्दण्डनीयः। अत्र वशुस्वामिनो दण्ड इत्यभिधातव्ये महिष्यादिग्रहणं प्रतिपशुदण्डप्राप्त्यर्थम्। भक्षयित्वोपविष्टवत्साविषये ययोक्ताच्चतुर्गुणो दण्डः। तथा च स्मृत्यन्तरम् “वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः” इति। अत्रापराधानुसारेण दण्डनार्थं ताम्रिकमाषो ग्राह्यः न पुनः सौवर्णो राजतो वेति स्मृतिचन्द्रिकायाम्। ताम्रिकमाषर्श्चकर्षपरिभाषितस्य षोडशो भागो भवति। अयमेव “पणस्यैपञ्च वापि प्रकीर्त्तिताः इति याज्ञवल्क्योक्तपञ्चसुवर्णपरिमितत्वपक्षे पणचतुर्थाऽंशस्य विंशतिमाषात्मककार्षापणस्य “माषो विंशतिमोभागः पणस्य परिकीर्त्तितः” इति नारदोक्तो विंशो भागोऽपि भवति। एतेन स्मृतिचन्द्रिकायाम् अपराधानुसारेण दण्डनार्थं माषो “विंशतिमो भागः पणस्य परिकीर्त्तित” इति नारदोक्तो माषः कैश्चित् स्वीकृत इत्येकीयमतत्वेनोपन्यस्य “सङ्ख्या रश्मिरजोमूला मनुनासमुदाहृता। कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा” इति वृहस्पतिवचनविरोधेन दूषितं तदुभयथाप्यर्थभेदाभावेन विरोधाभावान्निरस्तं मन्तव्यम्। यत् तु, मनुनोक्तम् “सपादं पणमर्हतीति” तत् स्वामिनो मतिपूर्वं पशुव्यतिक्रमविषयम्। याज्ञवल्क्यवचनन्त्ववुद्धिपूर्वविषयमिति न तयोर्विरोधः। यत् तुं “पणस्य पादौ द्वौ गान्तु द्विगुणं महिषीं तथा। तथाजाविकवत्सानां पादो दण्डः प्रकीर्त्तित” इति स्मृत्यन्तरं तद्भक्षयित्वोपविष्टगवादिविषयम्। यत् पुनर्नारदेनाभिहितम् “माभङ्गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा। तथा जाविकवत्सानां दण्डः स्यादर्द्धमाषिकः” इति। तन्मुहूर्त्तमात्रभक्षणविषयम् अत एवाहतुः शङ्खलिखितौ। “रात्रौ चरन्ती गौः पञ्चमाषां दिवा त्रोन्मुहूर्त्तो माषं ग्रामे त्वदण्डमिति”। ग्रासे त्वदण्ड इत्यस्यायमर्थः। महिष्यादिभिः परशस्येषु कबलमात्रभक्षणे कथञ्चित् कृते पालकस्य स्वामिनो वा स्वल्पोऽपि दण्डी नास्तीति। आतुरपशुविषये बहुशम्यनाशेऽप्येवमेव दण्डाभावप्रतिपादनमुखेनाह नारदः “राजग्रहगृहीतो वा वज्राशनिहतोऽपि वा। अथ सर्पेण दष्टो वा वृक्षाद् वा पतितो भवेत्। व्याघ्रादिभिर्हतो वापि व्याधिभिर्वाप्युपद्रुतः। न तत्र दोषः पालस्य न च दोषोऽस्ति गोमिनाम्” इति। गोमिनां गोस्वामिनाम्। आतुराणामनिवार्यत्वादित्यभिप्रायः। अनातुराणामपि केषाञ्चित् पशूनां दण्डाभावमाह स एव “गौः प्रसूता दशहात् तु महोक्षा वाजिकुञ्जराः। न निवार्याः प्रयत्नेन तेषां स्वामी न दण्डभाग्” इति। दशदिनपर्य्यन्तं प्रसूताया निरोद्धुमशक्यत्वान्न स्वामी दण्ड्यभाक्। सहोक्षस्य सर्वासाङ्ग र्भाधानार्थं सर्वदा बन्धनायोगात् तत्स्वामी न दण्डभाक्। वाजिकुञ्जराणां स्वामिनोऽदण्डभागित्वे हेतुमाहोशनाः

“अदण्ड्या हस्तिनो ह्यश्वा प्रजापालाहि ते स्मृताः” स्वामिग्रहणं पालकस्याप्युपलक्षणार्थम्। यदाह मनुः “अनिर्दशाहां गा सृतां वृषान् देवपशूंस्तथा। सपालान् वा विपालान् वा अदण्ड्यान्मनुरव्रवीत्” इति। वृषाः महोक्षाः। यद् वा वृषोत्सर्गविधानेनोत्सृष्टाः। देव पशवः देवालयेषु देवोपभोगार्थं स्थापिताः पशवः। याज्ञवल्क्योऽपि “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः। पालोयेषान्न ते मोच्या दैवराजपरिप्लुताः”। अनिर्दशाहा आगन्तुकः स यूथात्परि भ्रष्टः सन् देशान्तरात् समागतः। येषां पालो नास्ति तेऽपि दैवराजोपहताः शस्यादिनाशकारिणो न दण्ड्या इत्यर्थः। आदिशब्देन मृतवत्सादीनां ग्रहणम्। अतएवोशनाः “अदण्ड्या मृतवत्सा च संज्ञा रोगवती कृशा। अदण्ड्याः काणकूटाश्च वृषाश्च कृतलक्षणाः। अदण्ड्यागन्तुका गौश्च सूतिका चाभिसारिणी” इति। कूटः एकशृङ्गः। कृतलक्षणः प्रतप्तायसेन कृतलाश्छनः। अभिसारिणीं स्वयूथात् प्रच्युता पुनः स्वयूथगामिनी। परशस्यर्विनाशे न केवलं पशुस्वामी दण्डनीयः सदमपि दापनीय इत्याह वृहस्पतिः “शस्यान्निवारयेद्गास्तु चीर्णे दोषो द्वयोर्भवेत्। स्वामी सददमं दाप्यः पालस्ताडनमर्हति” इति। सदश्च दमश्च सददमम्। समूलशस्यनाशविषयमेतत्। अतएव नारदः “समूलशस्यनाशे तु तत्स्वामी प्राप्नुयात् सदम्। वधेन गौ र्योमुच्येत दण्डं स्वामिनि पातयेत्” इति। तत्स्वामी शस्यस्वामी सदं प्राप्नुयात्। पशुस्वामिनः सकाशादिति शेषः। बधोऽत्र कशादिना ताडनम्। न प्राणच्छेदः। पालस्तडनमर्हतीति वचनात्। सदश्च सःमन्तादिभिः परिकल्पितो देयः। अतएव स एवाह “गोभिस्तु भक्षितं शस्यं यो नरः प्रतियाचते। सामन्तानुमतं देयं धान्यं यत् तत्र वापितम्” इति। यत् तु सदयाचननिषेधनम् “गोभिर्विनाशितं धान्यं यो नरः प्रतियाचते। पितरस्तस्य नाश्नन्ति न वापि त्रिदिवौकसः”। इत्युशनोवचनन्तद् ग्रामादिसमीपस्थ नावृतक्षेत्रविषयमिति माधवाचार्य्याः। श्राद्धकालादौ गोभक्षितविषयमिति मदनरत्नकृतः। सर्वासाङ्गवामुत्सने श्राद्धदिवसे चादण्ड्यत्वमाह स एव “अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च” इति। गोभिः श्राद्धकालादौ भुक्तमतिश्रेयस्करमित्याशयेनाह। व्यासः “आक्रम्य च द्विजैर्भुक्तं परिक्षीणञ्च बान्धवैः। गाभिश्च नरशार्दूल! वाजपेयाद्विशिष्यते” इति एतत्पदमुपसंहरति मनुः “एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः। स्वामिनाञ्च पशूनाञ्च पालानाञ्च व्यतिक्रमे”।

स्वायम्भुव = पु० स्वयंभुवोऽपत्यम्, तस्येदम् वा अण् ओरोदिति वक्तव्ये ओर्गुण इत्युक्त्या संज्ञापूर्वकविधेरनित्यत्वज्ञापनान्न गुणः उवड्। १ स्वयम्भूपुत्रे मनौ २ स्वयम्भूसम्बन्धिनि त्रि० “धाम स्वायम्भुवं ययुः” कुमारः। स्त्रियां ङीप्। सा च ३ ब्राह्म्याम्। “भार्गवी नारदोया च वार्हस्पत्याङ्गिरस्यपि। स्वायम्भुवस्य शास्त्रस्य चतस्रः संहिता मताः” इति तदुक्तधर्मशास्त्रसंहिताचतुष्टयम्। तदुत्पत्त्यादिकं यथा “ततः कालेन महता तस्याः पुत्रोऽभवन् मनुः। स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम्। तद्रूपगुणसामान्यादविपूरुष उच्यते। वैराजा यत्र ते जाता वहवः संशितव्रताः। स्वायम्भुवान् महाभागाः सप्त सप्त तथापरे। स्वारोचिषाद्या ते सर्वे ब्रह्मतुल्यस्वरूपिणः। औत्तमिप्रमुखास्तद्वद् येषान्त्वं सप्तमोऽधुना” मत्स्यपु० ४ अ०। “ऋषीस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा। मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः। पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः। उत्तरस्यां दिशि तथा राजन्! सप्तर्षयः स्थिताः। यामा नाम तथा देवास्त्वासन् स्वायम्भुवेऽन्तरे। आग्नीध्रश्चग्निबाहुश्च मेधा मेधातिथिर्वसुः। ज्योतिष्मान् द्युतिमान् हव्यः स नः पुत्र एव च मनोः स्वा म्भुवस्यैते दश पुत्रा महौजसः। एतत्ते प्रथमं राजन्! मन्वन्तरमुदाहृतम्” हरिवं० ७ अ०।

स्वाराज् = पु० स्वः स्वर्गे राजते राज–क्विप्। इन्द्रे अमरः।

स्वाराज्य = न० स्वराजः भावः ष्यञ्। ब्रह्मत्वे स्वाराज्यसिद्धिः।

स्वारोचिष = पु० द्वितीये मनौ। “और्वो वशिष्ठपुत्रश्च स्तम्बः काश्यप एव च। प्राणो वृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा। एते महर्षयस्तात! वायुप्रोक्ता महाव्रताः। देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे। हविर्ध्रः सुकृतिर्ज्योतिरापो मूर्त्तिरयस्ययः। प्रथितश्च नभस्यश्च नभ ऊर्जस्तथैव च। स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः। कीर्त्तिताः पृथिवीपाल! महावीर्य्यपराक्रमाः। द्वितीयमेतं कथितं तव मन्वन्तरं मया” हरिवं० ७ अ०।

स्वार्थ = पु० स्वस्य अर्थः प्रयोजनम् अभिधेयो वा। १ स्वाप्रयोजने २ स्वाभिधेये च “स्वार्थकः स्वार्थबोधकृदिति” शब्दश०

स्वार्थिक = त्रि० स्वार्थे विहितः ठण्। स्वार्थविहिते व्याकर- णोक्ते प्रत्यये। “स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यनुवर्त्तन्ते” महाभाव्यं यथा बहुगुडोद्राक्षा “क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते” महाभाष्यम्। देवता अपकृष्टशुण्डा शुण्डीर इत्यादि।

स्वास्थ्य = न० स्वस्थस्य भावः ष्यञ्। १ आरोग्ये २ सन्तोषे अमरः।

स्वाहा = अव्य० सु + आ + ह्वे–डा। १ देवोद्देशेन हविस्त्यागे अमरः। २ अग्निभार्य्यायां स्त्री “स्वाहयेव हविर्भुजम्” रघुः। ३ मातृकाभेदे च स्त्री “नमः स्वधायै स्वाहायै” इति पितृगाथा। “प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी। वभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी। ग्रीष्ममध्याह्णामार्त्तण्डप्रभाच्छादनकारिणि। त्वमग्नेर्दाहिका शक्तिर्भवपत्नी च सुन्दरी। दग्धुं न शक्तस्त्वदृते हुताशश्च त्वया विना। त्वन्नामोचार्य्य मन्त्रान्ते यो दास्यति हविर्नरः। सुरेभ्यस्तत्प्राप्नुवन्ति सुराः स्वानन्दपूर्वकम्। अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी। देवानां पूजिता शश्वत् नरादीनां भवाम्बिके!” ब्रह्मवै० प्र० ३७ अ०। ३ दुर्गाशक्तिभेदे “दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽन्तु ते” दुर्गापूजामन्त्रः।

स्वाहाप्रिय = पु० ६ त०। अग्नौ हला० स्वाहापत्यादयोऽप्यत्र।

स्वाहाभुज् = पु० स्वाहेतिमन्त्रेण त्यक्तद्रव्यं भुङ्क्ते भुज–क्विप्। देवे अमरः।

***