स्निग्ध = त्रि० स्निह–क्त। स्नेहयुक्ते वयस्ये २ मसृणे चिक्कणे अमरः। ३ रक्तैरण्डे ४ सरलवृक्षे च पु० राजनि० ५ भक्तमण्डे न० ६ मेदायां स्त्री राजनि०।
स्निग्धतण्डुल = पु० ६ ब०। षष्टिधान्ये राजनि०। शब्दर०।
स्निग्धता = स्त्री स्निंग्धस्य भावः। १ म्नेहे राजनि० २ प्रियत्वे च शब्दर०।
स्निग्धदारु = पु० स्निग्धं दारु कष्ठिमस्य। १ सरलवृक्षे जटा० २ देवदारुवृक्षे च राजनि०।
स्निग्धपत्त्रक = पु० स्निग्धं पत्त्रमस्य कप्। १ घृतकरञ्जे २ गुच्छकरञ्जे ३ गर्जरतृणे च राजनि० ४ वदर्य्यां स्त्री जटाः। ५ पालक्यां ६ काश्मर्य्याञ्च स्त्री राजनि०।
स्निग्धपिण्डीतक = पु० कर्म०। १ मदनवृक्षभेदे २ पिण्डीतकवृक्षे च राजने०।
स्निग्धफला = स्त्री स्निग्धं फलमस्याः। नाकुल्याम् राजनि०।
स्निट = स्नेहे चु० उम० सक० सेट्। स्नेटयति–असिस्रिटत्- त। दन्त्यान्तसादितयायं षोपदेश एव न्याय्यः।
स्नु = पु० सानु + स्नु आदेशः स्ना–कु वा। १ पर्वतस्य समभूभागे अमरः २ स्नायौ च। “त्रिष्टुप् मांसात् स्नुतोऽनु ष्टुप्” भाग० ३१२ अ०। “स्नुतः स्नायुतः” इति श्रीधरः।
स्नुक्छद = पु० स्नुह्यति स्नुह–क्विन् कुत्वम् स्नुक् छदोऽस्य। क्षीरकञ्चुकीवृक्षे रत्नमा०।
स्नुत = पु० स्नु–क्त। क्षरिते जलादो अमरः।
स्नुषा = स्त्री स्नु–सक्। १ पुत्रबध्वाम् अमरः २ स्नुहीवृक्षे च शब्दर०।
स्नुह्(हा) = स्त्री स्नुह–क्विन् वा टाप्। स्नहीवृक्षे अमरः।
स्नुहि(ही) = स्नुह–इन् वा ङीप्। (मनसासिजु) वृक्षे अमरः “स्नुहीविटपसंश्रिताम्” ति० त० देवीपु०।
स्नेह = पु० स्निह–घञ्। १ प्रेम्णि अमरः २ तैलादिरसभेदे ३ न्यायाक्ते गुणभेदे च यद्वशात् दाहानुकूत्यम्। स च गुणः जलस्य चूर्णादिपिण्डोभावहेतुः। “जले मधुरशीतलौ। स्नेहस्तत्र द्रव्यत्वन्तु सांसिद्धिकमुदाहृतम्” भाषा०। “घृतादावपि तदन्तर्वर्त्तिजलस्यैव स्नेहः जलस्य स्नेहसमवायिकारणत्वात् तेन जल एव स्नेह इति मन्तव्यम्” नुक्ता० “स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ। तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता” भाषा०। “ननु पृथिव्यामपि तैले स्नेह उपलभ्यते न चासौ जलीयः तथा सति दहनप्रातिकूल्यं स्यादत आह तैलान्तरे इति तत्प्रकर्षात् स्नेहप्रकर्षात्। तैले उपलभ्यमानः स्नेहोऽपि जलीय एव तस्य प्रकर्षादग्नेरानुकूल्यम्। अपकृष्टस्नेहं हि जलं वह्निं नाशयतीति भावः” मुक्ता०। प्रमरूपस्नेहश्च वत्सलरसस्य स्थायिभावः स च रसः भरतसम्माः सा० द० उक्तो यथा “स्फुटं चमत्कारितया वत्सलञ्च रसं विदुः। स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम्। उद्दीपनानि तच्चेष्टा विद्याशौर्य्योदयादयः। आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम्। पुलःकानन्दवाष्पाद्या अनुभावाः पकीर्तिताः। सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादया मताः। पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः”। “अपेक्षन्ते म च म्नेह न पात्रं न दशान्तरम्। परोपकारनिरतामणिदीपा इवोत्तमाः” उद्ध०।
स्नेहन् = पु० स्निह कनिन् नि० गुणरागभेदे उणा०।
स्नेहन = न० स्निह–णिच्–ल्युट्। १ तैलादिमदेने अभ्यङ्गे राजनि० २ स्नाधासाधने क्रियाभेदे भा० प्र० तत्प्रकार उक्तो यथा “स्नेहनविधिः “स्नेहश्चतुर्विधः प्रोक्तो घृतं तेलं वसा तथा मज्जा च तं प्रिवेन्मर्व्यः किञ्चिदभ्युदिते रवौ। स्थावरो जङ्गनश्चैव द्वियोनिः स्नेह उव्यते। तिलतैल स्थावरेषु जङ्गमेषु घृतं वरम्। द्वाभ्या त्रिभिश्चतुर्भिर्वा यमकस्त्रिवृतो महान्”। अस्यायमर्थः द्वाभ्यां स्ने हाभ्यां घृततैलाभ्यां यमक ख्यः स्नेहः स्यात्। त्रिभिः स्नेहैः घृततैलवसारूपै स्त्रिवृताख्यः स्यात्। चतुर्भिर्घृततैलवसामज्जामिर्महान्महास्नेहः स्यादित्यर्थः। “पिबेत् त्र्यहं चतुरहं पञ्चाहं षडहानि वा”। मृदुमव्यक्रूरकोष्ठापेक्षया त्र्यहं चतुरहं पञ्चाहं षडहानि चेति। यदुक्तम् “मृदुकोष्ठस्त्रिरात्रेण स्निग्धस्नेहोप सेवया। मध्यकोष्ठश्चतुर्भिश्च दिवसैः स्निह्यति ध्रुवम्। पञ्चभिर्वाथ षड्भिर्वा दिनैः क्रूरो विशुद्ध्यति। सप्तरात्रात्परं स्नेहः सात्मोभवति सेवितः”। मृदुमध्यक्रूरकोष्ठानां सर्वेषां सप्तरात्राप्तरं सात्मीभवति वातानुलोम्याह्निदीप्तिकोष्ठशुद्धिमृदुस्निग्धाङ्गातास्वरवचनाङ्गलाघवधातुपुष्टिद्विजदार्ट्यनिर्जरताबलवर्णकारी भवति। न तु मक्तद्वये वातानुलोम्यादीन् करोति। “दोषकालवयोवह्निवलान्यालोक्य याजयेत्। हीनाञ्च मध्यमां ज्येष्ठां भात्रां स्नेहस्य बुद्धिमान्। अमात्रया तथाऽकाले मिथ्याहारविहारतः। स्नेहः करोति शोथार्शस्तन्द्रानिद्राविसंज्ञिताः। देया दीप्ताग्नये मात्रा म्नेहर्यैकपलोन्मिता। मध्यमाय त्रिकार्षा स्याज्जवन्याय द्विकार्षिकी”। मव्यमाय मध्यमाग्नये जघ त्याय हीनाग्नये “अय वा स्नेहमत्राः स्युस्तिस्रोऽन्याः सर्वसम्मताः। अहोरात्रेण महती जीर्यत्यह्नि तु मध्यमा। जीर्य्यत्यल्पा दिनार्द्धेन सा विज्ञेया सुखावहा”। अयमर्थः याहोरात्रेण जीर्य्यति सा मात्रा महती। एवं मध्यमा कनिष्ठा च ज्ञेया “अल्पा स्याद् दीपनी वृव्यां स्वल्पदोषे प्रपूजिता। मध्यमा स्नेहनी ज्ञेया वृंहणी भ्रमहारिणी। ज्येष्ठा कुष्ठविषोन्मादग्रहापस्मारनाशिनी”। सुश्रुतः पुनरेवमाह “या मात्रा प्रथमे यामे गते जीर्य्यति वासरे। सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता। या सत्रा वासरस्यार्द्धे व्यतीते परिजीर्य्यति। सा वृष्या वृंहणी च स्यान्मव्यदोषे प्रपूजिता। या मात्रा चरमे यामे स्थितेऽह्नः परिलीर्य्यति। सा मात्रा स्नेहनी ज्ञेया बहुदोषेषु पूजिता। केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम्। देयं वहुकफे वह्निव्योषक्षारसमन्वितम्। रूक्षक्षतविषार्त्तानां वातपित्त विकारिणाम्। हीनमेध स्मृतीनाञ्च सपिःपानं प्रश- स्यते। कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः। पिबेयु स्तैलसात्म्यामे तैलं दार्ढ्यार्थिनस्तु ये। व्यायामाकर्षिताः शुष्करेतोरक्तामहारुजाः”। क्रूराशयाः क्रूरकोष्ठाः सर्वतः सर्वस्मात् मेहात्। “शीतकाले दिवा मेह मुष्णकाले पिवेन्निशि। वातपित्ताधिके रात्रौ वातश्लेष्माधिके दिवा। नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणे। तैलं घृतं वा युञ्जीत दृष्ट्वा दोषवलाबलम्। घृते कोष्ण जलं पेयं तैले यूषः प्रशस्यते। वसामज्जे पिबेन्मण्ड मनुपानं सुखावहम्। स्नेहद्विषः शिशून् वृद्धान् सुकु मारान् कृशानपि। तृष्णालुकानुष्णकाले सह भक्तेन पाययेत्। सर्पिष्मती बहुतिला यवागूः स्वल्पतण्डुला। सुखोष्णा सेव्यमाना तु सद्यः स्नेहनकारिणी। शर्कराचूर्णसंयुक्ते दोहनस्थे घृते तु गाम्। दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यः स्नेहनमुत्तमम्। मिथ्याचाराद् बहुत्वाच्च यस्य स्नेहो न जीर्य्यति। विष्टम्भो वापि जीर्य्येत वारिणोष्णेन वामयेत्। स्नेहस्याजीर्णशङ्कायां पिवेदुष्णोदकं नरः। तष्टोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा। स्नेहेन पैत्तिकस्याग्निर्यदा तीक्ष्णतरीकृतः। तदास्योदीर्य्यते तृष्णा विषमा तस्य पाययेत्। शीतलं पायसं, तन तृष्णा तस्य प्रशाम्यति। दुर्बलोऽरोचकी स्थूलो मूर्च्छालुर्मेहपीडितः। दत्तवस्तिर्विरिक्तश्च वान्तस्तृष्णाश्रमान्वितः। अकालप्रसवा नारी दुर्दिने च विवर्जयेत्। स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तचित्तकाः। वृद्धवालकृशा रूक्षाः क्षीणास्राः क्षीणरेतसः। वातार्त्तास्तिमिरार्त्ता ये तेषां स्नेहनसुत्तमम्। वातानुलोम्य दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्। मृदुस्निग्धाङ्गता म्लानिः स्नेहद्वेषोऽथ लाथवम्। विमलेन्द्रियता सम्यक् स्निग्धे रूक्षे विपर्य्ययः। भक्तद्वेषो मुखस्रावो गुदे दाहः प्रवाहिका। तन्द्रातीसारखण्डत्वं भृशं स्निग्धस्य लक्षणम्। रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम्। श्यामाकचणकाद्यैश्च तिलपिण्याकसक्तुभिः। दीप्ताग्निः शुद्धकोष्ठश्च पुष्टधातुर्दृढेन्द्रियः। निर्जरो बलवर्णाद्यः स्नेहसेवी भवेन्नरः। स्नेहे व्यायामसंशीतवेगाघात प्रजागरान्। दिवास्वप्नमभिष्यन्दि रूक्षान्नञ्च विषर्जयेत्”। करणे–ल्युट्। स्नेहसाधने त्रि०। स्त्रियां ङीप्। उदा० अत्रैव दृश्यम्।
स्नेहप्रिय = पु० स्नेहः तैलादिः प्रियोऽस्य। प्रदीपे हेमच०।
स्नेहभू = स्त्री ६ त०। १ श्लेष्माख्ये देहस्थे धातुमेदे हेमच० २ स्नेहपात्रे च शब्दर०।
स्नेहरङ्ग = पु० स्नेहेन रज्यते रन्ज–कर्मणि घञ। तिले शब्दच०।
स्नेहवत् = त्रि० स्नेहोऽस्त्यस्य मतुप् मस्य वः। १ स्नेहयुक्ते स्त्रियां ङीप्। सा च २ मेदायां पुस्त्री० राजनि०।
स्नेहविद्ध = न० स्नेहेन विद्धम्। देवदारुणि जटा०।
स्नेहवस्ति = स्त्री स्नेहपूरिता वस्तिः। तैलादिस्नेहयुतद्रव्यपूरिते अनुवासनाख्ये पदार्थे (पिचकारी) वस्तिशब्दे ४८६४ पृ० दृश्यम्।
स्नेहवीज = पु० स्नेहाद्यं वीजमस्य। पियाक्षवृक्षे राजनि०। ६ त०। २ सेहकारणे न०।
स्नेहाश = पु० स्नेहमश्नाति अश–अण्। प्रदीपे त्रिका०।
स्नेहिन् = पु० स्निह–णिनि। १ वयस्ये बन्धौ त्रिका०। २ स्नेहयुक्ते त्रि० स्त्रियां ङीप्।
स्नेहु = पु० स्निह–उन्। रोगभेदे उणा० को० २ चन्द्रे संक्षिप्त०
स्पद = ईषत्कम्पे भ्वा० आ० अक० सेट् इदित्। स्पन्दते अस्पन्दिष्ट स्पन्दितम्।
स्पन्द = पु० स्पदि–घञ। १ ईषच्चलने ईषत्कम्पे २ क्रियाभेदे च। ल्युट्। तत्रार्थे न० नेत्रस्पन्दादौ शुभाशुभविवेचनं मत्स्यपु० २४१ अ० उक्तं यथा “ब्रूहि मे त्वं निमित्तानि अशुभानि शुभानि च। सर्वधर्मभृतां श्रेष्ठ! त्वं हि सर्वविदुच्यसे” मत्स्य उवा च “अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत्। अथाशस्त तथा वामे पृष्ठस्य हृदयस्य च”। मनुरुवा च “अङ्गानां स्पन्दनञ्चैव शुभाशुभविचेष्टितम्। तन्मे विस्तरतो ब्रूहि येन स्यान्तद्विदो भुवि”। मत्स्य उवा च “पृथ्वीलाभो भवेन्मूर्घ्नि ललाटे रविनन्दन!। स्थानं विवृद्धिमायाति भ्रूनसोः प्रियसङ्गमः। भृत्यलब्धिश्चाक्षिदेशे दृगुपान्ते धनागमः। उत्कण्ठोपागमो मध्ये दृष्टं राजन्! विचक्षणैः। दृग्बन्धने सङ्गरे च जयं शीघमवाप्नुयात्। योषिद्भोगोऽपाङ्गदेशे श्रवणान्ते प्रियाश्रुतिः। नासिकायां प्रीतिसौख्यं प्रजाप्तिरधरोष्ठजे। कण्ठे तु भोगलाभः स्याद्भोगवृद्धिरथांसयोः। सुहृत्स्नेहश्च बाहुभ्यां हस्ते चैव धनागमः। पृष्ठे पराजयः सद्योऽजयो वक्षःस्थले भवेत्। कुक्षिभ्यां प्रीतिरुद्दिष्टा स्त्रियाः संजननं स्तने। स्थानभ्रंशो नाभिदेशे अन्त्रे चैव धनागमः। जानुसन्धौ जातसन्धिर्बलवद्भिर्भवेन्नृपः। दिशैकदेशनाशोऽथ जङ्घायां रविनन्दन!। उत्तमं स्थानमाप्नोति पद्भ्यां प्रस्फुरणान्नृप!। सलाभञ्चाध्वगमनं भवेत् पादतले नृप!। लाञ्छानं पिटकञ्चैव ज्ञेयं स्फु- रणवत्तथा। विपर्य्ययेण विहिता सर्वस्त्रीणां फलागमः। दक्षिणेऽपि पशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः। अतोऽन्यथा सिद्धिप्रजैल्पनात्तु फलस्य शस्तस्य च निन्दि तस्य। अनिष्टचिह्नोपगमे द्विजानां कार्य्यं सुवर्णेन तु तर्पणं स्यात्”।
स्पर्द्ध = संहर्षे (पराभिभवेच्छायाम्) भ्वा० अ त्म० अक० सेट्। स्पर्द्धते अस्पर्द्धिष्ट।
स्पर्द्धा = स्त्री स्पर्द्धं–अ। १ संहर्षे २ पराभिभवेच्छायां ३ साम्ये ४ क्रमोन्नतौ च मेदि०।
स्पर्श = ग्रहणे स्तेये च चु० आ० सक० सेट्। स्पर्शयते अप स्पर्श त।
स्पर्श = पु० स्पर्श–स्पृश–वा अच् घञ् वा। न्यावोक्ते १ त्वगि न्द्रियग्राह्ये गुणभेदे २ ग्रहणे “मात्रास्पर्शास्तु कौन्तेयं गीता। ३ रोगे ४ युद्धे ५ गुप्तचरे मेदि० ६ उपतप्ते अमरः। ७ वायौ पु० ८ स्पर्शके त्रि० मेदि०। स्मृणणिच–अच्। ९ दाने मेदि० स्पृश्यन्ते वायुना जिह्वाग्रादय उच्चारणाय घञ्। १० कादिषु मावसानेषु वर्ग्यवर्णेषु पु० कादयोमावसानाः स्पर्शः सि० कौ०। “स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः। अनुष्णा शीतशीतोष्णभेदात् स त्रिविधो मतः। काठिन्यादिः क्षितावेव नित्यतादि च पूर्ववत्। एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित्। तथापि परमाणौ स्यात् पाको वैशेषिके नये। नैवयायिकानान्तु नये द्व्यणुकादावपीष्यते” “स्पर्शस्त्व गन्द्रियग्राह्यस्त्वचः स्यादुपकारकः। अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः। काठिन्यादिः क्षितावेव नित्यतादि च पूववत्। एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित्। तत्रापि परामाणौ स्यात् पाको वैशेषिके नये। नैयायिकानान्तु नये द्व्यणुकादावपीष्यते” भाषा०। “उपकारक इति स्पार्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः। अनुर्ष्णाशीतेति। पृथिव्या वायोश्च स्तर्शोऽनुष्णाशीतः। जलस्य शीतः। तेजस उष्णः। काठिन्येति। कठिनसुकुमारस्पर्शौ पृथिव्या एवेत्यर्थः। कठिनत्वादिकन्तु न संयोगनिष्ठो जातिविशेषः चक्षुर्ग्राह्यतापत्तेः। पूर्ववदिति। जलतेजोवायुपरमाणूनां स्पर्शा नित्याद्यलुकादेस्त्वनित्या इत्यर्थः। एतेषामिति। एतेषां रूपरसगन्धस्पर्शानाम्। नान्यत्रेति। पृथिव्या हि रूपरसगन्धस्पर्शपरावृत्तिः पावकसंयोगादुपलभ्यते। न हि शतधापि ध्मयमाने जलादौ रूपादिकं परावर्त्तते। नीरे सौरभमौष्णञ्च अन्वयव्यतिरेकाभ्यामौपाधिकमेवेति निर्णीयते पवनपृथिव्योः शीतस्पर्शादिवत्। तत्रापि पृ- थिवीष्वपि मध्ये परमाणावेव पाक इति वैशेषिकाषदन्ति। तेषामयमाशयः। अवयविनाऽवष्टब्धेष्ववयविषु पाको न सम्भवति। परन्तु वह्निसंयोगेनावयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः। पुनश्च पक्वपरमाणुसंयोगाद्द्यणुकादिक्रमेण पुनर्महावयविपर्य्यन्तोत्पत्तिः तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्तिश्चेति। अथ द्व्यणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भवतीति शिष्यबुद्धिर्वैशद्याय प्रक्रिया। “तत्र संयीगविभागयोरनपेक्षकारणं कर्म” इति वैशेषिकसूत्रम्। स्वोत्तरवृत्तिभावान्तरानपेक्षत्वं तस्यार्थः। अन्यथा कर्मणाऽप्युत्तरसंयोगस्य जनने पूर्वसंयोगनाशापेक्षणादव्याप्तिः स्यादिति। तत्र विभागजविभागानङ्गीकारे नव क्षणाः। तदङ्गीकारेऽपि यिभागः किञ्चित्सापेक्षो विभागं जनयेत् निरपेक्षस्य तत्त्वे कर्मत्वं स्यात्। तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागजविभावः स्यात् तदा दश क्षणाः। अथ द्रव्यनाशविशिष्टं कालमवयवं चापेक्ष्य विभागजविभागः स्यात् तदा एकादश क्षणाः। तथा हि वह्निसंयोगात् परमाणौ कर्म। ततः परमाण्वन्तरेण विभागः। तत आरम्भकसंयोगनाशः। ततो द्व्यणुकनाशः १। ततः परमाणौ श्यामादिनाशः २। ततो रक्ताद्युत्पत्तिः ३। ततो द्रव्यारम्भानुगुणक्रिया ४। ततो विभागा ५। ततः पूर्वसंयोगनाशः ६। तत आरम्भकसंयोगः ७। ततो द्व्यणुकोत्पत्तिः ८। ततो रक्ताद्युत्पत्तिः ९। ननु श्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगुणक्रियाऽस्त्विति चेत्। न। अग्निसंयुक्ते परमाणौ यत् कम तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरेण च तत्र परमाणौ क्रियान्तराभावात् कर्मवति कर्मानुत्पत्तेः निर्गणे द्रव्ये द्रव्यारम्भानुगुणक्रियानुपपत्तेश्च। तथापि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्ति स्वादिति चेत् न। पूर्वरूपादिध्वंसस्य रूपान्तरे हेतुत्वात। इति नव क्षणाः। अथः दश क्षणाः। सा च आरम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागेन विभागस्य जनने पति स्यात्। तथा हि वह्निस योगाद् द्व्यनुकारम्भके परमाणौ क्रिया। ततो विभागः। ततः आरम्भकसंयोगनाशः। ततो द्व्यणुकनाशविभागजविभागौ १। ततः श्यामनाशपूर्वसंओगनाशौ २। ततो रक्तोत्पत्त्यत्तरसंयोगौ ३। ततो वह्निनोदनजन्यपरमाणुकर्मणो गाशः ४। ततोऽदृष्टपदात्मसंयोगाद् द्रव्यारम्भानुगुणक्रिया ५। ततो विभागः ६। ततः पूर्वसंयोगनाशः ७। तत आरम्भकसंयोगः ८। ततो द्व्यणुकोत्पत्तिः ९। ततो रक्ताद्युत्पत्तिः १०। अथैकादश क्षणाः। वह्रिसंयोगात् परजाणौ कर्ग। ततो विभागः। ततो द्रव्यारम्भकसंयोगनाशः। ततो द्व्यणुकनाश १ विशिष्टं माननपेक्ष्म विभागजविभागः २। ततः पूर्वसंयोगमाशः ३। तत उत्तरसंयोगः ४। ततः परमाणुकर्मनाशः ५। ततोऽदृष्टवदात्मसंयोगादु द्रय्यारम्भानुगुणक्रिया ६। ततो विभागः ७। ततः पूर्वसंयोगनाशः ८। ततो द्रव्यारम्भकसंयोगः ९। ततो द्व्यणुकम् १०। ततो रक्तादि ११। मध्यमशब्दवदेकस्मादग्नसंयोगान्न रूपनाशरक्तोत्पादौ। तावत्कालमेकस्य ग्नेरस्थिरत्वात्। किञ्च यद्युत्पादको नाशकस्तदा नष्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुः स्यात्। नाशकश्चेदुत्पादकस्तदा रक्तोत्पत्तौ तदग्निना रक्तता न स्यात्। एवं परमाण्वन्तरे कर्मचित्वानात् पञ्चमादिक्षणेऽपि गुणोत्पत्तिः। तथा हि एकतृ परमाणौ कर्म। ततो विभागः। तत आरम्भकसंयोगनाशपरमाण्वन्तरकर्मणी। ततस्तु द्व्यणुकनाशः। परमाण्वन्तरकर्मजश्च विभाग इत्येकः कालः १। ततः श्यामादिनाशः विभागश्च पूर्वसंयोगनाश इत्येकः कालः २। ततो रक्तोत्पत्तिर्द्रव्यारम्भकसंयोगश्चेत्येकः कालः ३। अथ द्व्यणुकोत्पत्तिः ४। अथ रक्तोत्पत्तिरिति ५ पञ्च क्षणाः। द्रव्यनाशसंमकालं परमाण्वन्तरे कर्मचिन्तनात् पष्ठे गुणोत्पत्तिः। तथा हि परमाणुकसमा परमास्त्वन्तरविभागः। तत आरम्भकसंयननाशः। अथ द्व्यणुकनाशप्ररमाण्वन्तरकर्मणी १ अथ श्यामनाशः परम ण्वन्तरकर्मजश्च विभागः २। ततो रक्तोत्पत्तिः परमाण्वन्तरे पूर्वसंयोगनाशश्च ३। ततः परमाण्यन्तरसयागः ४। ततो द्व्यणुकोत्पत्तिः ५। अथ रक्षत्पत्तिरिति ६। एवं श्य मनाशक्षणे परमाण्वन्तरे कर्मचिन्तमात् सप्त क्षखाः। रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्त नात् अष्ट क्षणाः” इति। नैयायिकानामिगि। नैयायिकानां मते द्व्यणुकादौ अवयविन्यपि पाको भवति तेषामयमाशयः। अवयविनां साच्छद्रत्वाद्वह्नेः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेब्धपि पाको न विरुध्यते। वैशेषिकमतेऽनन्तावयवतन्नाशकल्पने शौरवान्। इत्थञ्च सीऽयं थट इत्यादिप्रत्यभिज्ञाऽपि सङ्गच्छते। थत्र तु न पत्वभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियते” सुक्त० स्पर्शस्य बहुप्रकारता भा० शा० १८१ अ० उक्ता यथा “वायव्यश्च गुणःस्पर्श स्पर्शस बहुधा स्मृताः। उष्णः १ शीतः २ सुखो ३ दुखः ४ स्निग्धो ५ विशद ६ एव च। तथा खरो ७ मृदू ८ रूक्षो ९ लघु १० र्गुरुतरो ११ऽपि च”। कठिनस्याप्युपलक्षणमिदं यथोक्तं भा० आश्व० ५० अ०। “वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः। रूक्षः १ शीत २ स्तथैवोष्णः ३ स्निग्धो ४ विशद ५ खर ६ एव च। कढिन ७ श्चिक्कणः ८ श्लक्ष्णः ९ पिच्छलो १० दारुणो ११ मृदुः १२। एवं द्वादशविस्तारो वायव्या गुण एव च”। १३ कादिमावसानवर्णानासुत्पादके आभ्यन्तरप्रयत्ने सि० कौ०।
स्पर्शतन्मात्र = न० सांख्यमतसिद्धे वायूपदानकारणे स्पर्शमात्रगुणके सूक्ष्मभूतभेदे तन्मात्रशब्दे दृश्यम्।
स्पर्शन = न० स्पर्श–स्पृश–वा ल्युट्। १ ग्रहणे २ स्पर्शे च। पृ० दृश्यम्। णिच् ल्युट्। ३ दाने च मेदि०। स्पृश–कर्त्तरि ल्य। ४ वायो पु० अमरः।
स्पर्शलज्जा = स्त्री स्पर्शमात्रेण लज्जते सङ्कोचात् लज्ज–अच्। लज्जालुवृक्षे शब्दर०।
स्पर्शशुद्धा = स्त्री स्पशं शुद्धा। शतमूल्याम् शब्दच०।
स्पर्शा = स्त्री स्पर्श सहणे–कर्मणि घञ्। कुलटायां धरणिः तस्याः सर्वैर्गृह्यमाणत्वातत्थात्वम्।
स्पर्शाज्ञता = स्त्री त्वक्शून्यत्वाख्ये वातरोगभेदे “स्पृश्यमाना अमु। स्प्रष्टाप्यत्र। त्वचा या तु शीतोष्णं मृदु कर्कशम्। न जानाति बुधैः सा तु त्वक्शून्यत्वेति परिकीर्त्तिता” भा० प्र०।
स्पर्ष्टृ = त्रि० स्पृश–तृच्। १ उपतापयितरि स्त्रियां ङीष्। २ रोये पु० भरतः। ऋतोरम् स्प्रष्टृ तत्रार्थे त्रि०।
स्पश = ग्रन्थे वाधने च भ्वा० उभ० सक० सेट्। स्पशात–ते अस्पर्शीत्–अ स्पाशीत्। अस्पशिष्ट।
स्पश = पु० स्पश–अच् १ चरमात्रे २ अभिसरे (युद्धे) ३ गूढचर च अमरः “राजनीतिरपस्पशा” माघः।
स्पष्ट = त्रि० स्पश–क्त नि० इडभावः। १ व्यक्ते २ स्फुटे अमरः
स्पृ = प्रीतौ अक० प्रीणने रक्षणे पालने च सक० स्वा० पर० अनिट्। स्पृणोति अस्पार्क्षीत्।
स्पृक्का = स्त्री स्पृश–कक् पृषो० शस्य कः। पृक्व याम् भरतः।
स्पृश = स्पर्श तु० पर० सक० अनिद्। स्पृशति अस्प्राक्षीत् अस्पार्क्षीत् अस्पृक्षत्। पस्पर्श।
स्पृशा = स्त्री स्पृश–क। १ सर्पसातिनीवृक्षे (कङ्कालिका) शब्दर२ कण्टकार्य्यां स्त्री अमरः गौरा० ङीष्।
स्पृष्ट = त्रि० स्पृश–क्त। १ कृतस्पर्शे। भावे क्त। २ स्पर्शे न०। ३ कादिमावसानवर्णोत्पादके आभ्यन्तरपयत्रे न०।
स्पृष्टास्पृष्ट = न० स्पृष्टेन आ सम्यक् स्पृष्टम्। परस्मरस्पर्शने
स्पृष्टास्पृष्टि = न० स्पृश–भावे–क्त कार्मव्यतिहारे इच्समा० पूर्वपददीर्घ। परस्परस्पर्शने “तीथ विवाहे यात्रायां संग्रामे देशविप्लवे। नगरग्र मदाहे च स्पृष्टास्पृष्टि न दुष्यति। आपद्यपि च कष्टायां रुग्भये पीडिते तथा। मातापित्रोर्गुरोश्चैव निदेशवर्त्तने तथा” वृहस्पतिः।
स्पृष्टि = स्त्री स्पृश–क्तिन्। स्पर्श अमरः।
स्पृह = इच्छायां अद० चुरा० उभ० सक० सेट्। स्पृहयति–ते अपस्पृहत्।
स्पृहणीय = त्रि० स्पृह–अनीयर्। १ वाञ्छनीये २ श्लाघ्ये च “अहो वतासि स्पृहणीयवीर्य्यः” कुमारः।
स्पृहयालु = त्रि० स्पृहि–आलुच्। स्पृहाशीले।
स्पृहा = स्त्री स्पृह–अङ्। इच्छायाम् उमरः। “मिथुने स्पृहावती” कुमारः। वर्णभेदे विषयभेदे स्पृहौचित्यं यथा “तपोधनं ब्राह्मणानां तपः कल्पतरुस्तथा। तपस्या कामधेनुश्च सन्ततं तपसि ष्पृहा। ऐश्वर्य्य” क्षत्रियाव्याञ्च बाणिज्ये च तथा विशाम्। शूद्राष्णां विप्रसेवायां स्पृहा वेदेष्वनिन्दिता। क्षत्रियाणाञ्च तपसि स्पृहातीव प्रशंसिता। व्राह्मणानां विवादेधु स्पृहातीव विनिन्दिता। क्षत्रियाणां रणो धर्मो रणे मृत्युर्न गर्हितः। रणे स्पृष्ठ ब्र ह्मणानां लोके वेदे विडम्यना। ब्रह्मवै० ग० ख० ३५ अ०।
स्पृह्य = पु० स्पृह–कर्मणि यत् १ मातृलङ्गकवृक्षे उणा० २ वाञ्छगीयेत्रि०।
स्फट = विशोर्णतायाम् अक० भ्वा० पर सेट्। स्फटति अस्फटीत्–अस्फाटीत्। इदिदप्युक्तार्थे स्फण्टति रुस्फण्टीत्।
स्फट = पुंस्त्री० स्फट–अच्। सर्पफणायाम् अमरटीका।
स्फटि(टी) = स्त्री स्फट–इन् वा ङीप्। (फट्किरी) वणिग् द्रव्यभेदे भावप्र०। स्वार्थे क। तत्रार्थे “स्फटिका तु कषायोष्णा वातपित्तकफव्रणान्। निहन्ति श्वित्रवीसर्पान् योनिसङ्कोचकारिणी” भावप्र०।
स्फटि(टी)क = पु० स्फटि(टीव)रेव कायति कै–क। १ स्वनामख्याते मणौ हला० प्यार्थे क वा ह्रस्वः। २ स्फट्यां भावप्र०। स्वार्थेऽण्। स्फाटिकमप्यत्र न० शब्दर०। “स्फटकिः समवीर्य्यश्च पित्तदाहार्त्तिदोषणुत्। तस्माक्ष मालां जपतां दत्ते कोटिगुणं फलम्”। तत्परीक्षा यथा “यद्गङ्गातोयविन्दुच्छविनिमलतमं निस्मुर्षं नेत्र हृद्य स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्व हारि। पापाणे यन्निवृष्टं स्फुटितमपि निजां स्वच्छतां नैव जह्यात् तज्जात्यं जातु लभ्यं शुभमुपचिनौते शैव रत्नञ्च रत्नम्” राजनि०। “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम्। मणिरत्न सरं शीतं कषायं स्वादु लेखनम्। चक्षुष्यं धारणात्तच्च वापालक्ष्मीविनाशनम्” राजवल्लभः। तस्य उत्पत्तकथादिक यथा “कावेरीविन्ध्ययवनचीननेपालभूमिषु। लाङ्गली व्यकिरन्मेदा दानवस्य प्रयत्नतः। आकाशशुद्धं तैलाख्य मुत्पन्न स्फटिकं ततः। मृप्प लशङ्कधवलं किञ्चिद्वर्णान्तरान्वितम्। न तत्तुल्यं हि रत्नानामथ वा पापनाशनम्। संस्कतं शिल्पिना नद्यो मूल्यं किञ्चिल्लभेत्ततः” गारुडे ७९ अ०। तथा “हिमालये सिंहले च विन्ध्याटवितटे तथा। स्फटिकं जायते चैव नानारूपं समप्रभम्। हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधा भवेत्। सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथाऽपरम्। सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात्। सूर्य्यकान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः। पूर्णेन्दुकरसंस्पर्शादमृत स्रवति क्षणात्। चन्द्रलान्तं तदास्त्रातं दुर्लभं तत् कलौ युगे। अशोकपल्लवच्छायं दाडिमीवीजसन्निभम्। विन्ध्याटवीतटे देशे जायते पन्दकान्तिकम्। सिंहले जायते लुष्णमाकरे गन्धनीलके। पद्मरागभवस्थाने विविध स्फटिकं भवेत्। अत्यन्तनिर्मलं स्वच्छं सृवतीव जलं शुचि। ज्यातिर्ज्यलनमाश्लिष्टं मुक्ताज्योतीरसं द्विज!। तदेय लोहिताकारं राजावार्त्तसमद्भवम। आनीलंतत्तु पाषाणं प्रोक्तं राजमयं शुअभम्। ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज! “युक्तिकल्प०
स्फटिकाचल = पु० स्फटिक इव शुभ्रत्वात् अचलः। १ कैलासपर्वते २ स्फाटिकमयपर्वते च। स्फटिकाद्रिप्रभृतयोऽप्यत्र
स्फटिकाद्रिभिद्(द) = पु० स्फटिकाद्रिं स्फटिकपर्वत भिनत्ति सादृग्यात् भिद–क्विप् क वा। कपूरे राजनि०।
स्फटिकाभ्र = पु० स्फटिकवर्णः अभ्व इव। कर्पूरे रातनि०।
स्फटिकारि = पु० ६ त०। (फट्किरि) बणिग्द्रव्यभेदे तस्य स्फटिकतुल्यदीप्तिमत्त्वात्तथात्वम रत्नमा०।
स्फड = परिहामे चु० उभ० सक० सेट् इदित्। स्फण्डयतिते अपस्फण्डत्–त।
स्फर = चले स्फूर्त्तौ च तुदा० प० अक० सेट्। स्फरति अस्फारोत्।
स्फरण = न० स्फर–भावे ल्युष्ट्। स्फुरणे।
स्फल = चले स्मूर्नौ च तुदा० पर० अक० सेट। स्फलति अस्फालीत्।
स्फाटिकोपल = पु० स्फाटकमेस उपखः। स्फाटिके। त्रका०।
स्फाति = स्त्री स्फाय–भावे क्तिन् यलोप। वृद्धौ अमरः।
स्फाय = वृद्धौ भ्वा० आ० अक० सेट्। स्फायति अस्फायिअस्फायिष्ट। निष्ठायामनिट् यलोपे ईत् स्फीतः।
स्फार = पु० स्फाय–रक्। १ स्वर्णबुदुवुदे २ विपुले ३ विकटे मेदि० ४ प्रचुरे च त्रि० संक्षिप्त०।
स्फारण = न० स्फुर–णिच्–स्फारादेशः ल्युट्। विकाशने।
स्फाल = पु० स्फल–घञ। स्फूर्त्तौ।
स्फिग्घातन = पु० स्फिचं घातयति हन–स्वार्थे णिच्–ल्यु। कट्फले शब्दच०।
स्फिच् = स्त्री स्फाय–डिच्। १ कटिपोथे अमरः उपचारात् तत्स्थे वातजे २ रोगभेदे च।
स्फिट = वृतौ हिंसे अनादर च चु० उभ० सक० सेट्। स्फेटयति ते अविस्फिटत् त।
स्फिर = त्रि० स्फय किरच्। १ प्रचुरे अमरः २ वृद्धे च।
स्फीत = त्रि० स्फाय–क्त स्फीभावः। १ वृद्धे २ समृद्धे च।
स्फुट = भेदे चु० उभ० सक० सेट। स्फोटयति ते अपुस्फुटत् त।
स्फुट = विकाशे भ्वा० प० अक० सेट्। स्फोटति इरित् अस्फुटत् अस्फोटीत्।
स्फुट = विकाशे तु० कुटा० प० अक० सेट्। स्फुटति अस्फुटीत् पुस्फोट।
स्फुट = विदलने भ्वा० आत्म० अक० सेट्। स्फोटते अस्फो टिष्ट।
स्फुट = परीहासे चुरा० उभ० अक० सेट् इदित्। स्फुण्टयति ते अपुस्फुण्टत् त।
स्फुट = हिंसे चु० उभ० सक० सेट् प्रायेणाङ्पूर्वः। आस्फोटयति ते आपुस्फुटत् त।
स्फुट = विकाशे अद० चु० उभ० सक० सेट्। स्फुटयति ते अपुस्फुटत् त।
स्फुट = त्रि० स्फुट–क। १ विकशिते २ व्यक्ते मेदि०। ३ भिन्ने ४ शुक्ले च अजयः। ५ ज्योतिषोक्तेषु मेषादिराशिषु अंशविशेषस्थि तेषु सूर्य्यादिग्रहेषु पु० तेषां ६ तत्तर्दशकसादिषु गतौ स्त्री। ७ उत्प्रेक्षाया द्योतने न०। ८ सर्पफणायां स्त्री रामाश्रयाः ग्रहाणां स्फुटताकरणप्रयोजनं सि० शि० उक्तं यथा “यात्राविवाहोत्सवजातकादौ खेटैः स्फुटैरेव फल स्फुटत्वम्। स्यात् प्रोच्यते तेन नभश्चराणां स्फुटक्रिया दृग्गणितैक्यकृद् वा” इत्युपक्रमे स्पष्टाधिकारे प्रपञ्चितं ग्रहाणां मृदूच्चादिकमुक्त्वोक्तम् “मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रं चलोच्चं ग्रहोनं भवेच्छीघ्रकेन्द्रम्। तुलाजादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च शीघ्रम्। त्रिभिर्मैः पदं तानि चत्रारि चक्रे क्रमात् स्यादयुक् युग्मसंज्ञा च तेषाम्। अयुम्मे पदे यातमेव्यं तु युग्मे मुजो बाहुहीगं त्रिभं कोटिरुक्ता” इत्युक्त्वा भुजकोटिफलादिकमुक्त्वा। “स्यात् संस्कृतो मध्यफलेन मध्यो मन्दस्फुटः स्याच्चलवेन्द्रमुक्तम्। विधाय शैघ्रेण फलेन चैव खेटः स्फुटः स्यादसकृत्फलाभ्याम्। दलीकृताभ्यां प्रथमं फलाभ्यां तताऽखिल भ्य मसकृत् कुजस्तु। स्फुटौ रवीन्दू मृदुनैव वैद्यौ शीघ्राख्यतुङ्गस्य तयोरभावात्” सि० शि०। आदौ ग्रहस्य मन्दफलमानीय तेन संस्कतोऽसौ मन्दसफुटः स्यात्। तं शीघ्रोच्चाद्विशोध्य शीघ्रवन्द्रं कृत्वा ततः शीघ्रफलम्। तेन संस्कृतो मन्दस्फटो ग्रहः स्यात्। तस्मात् स्फुटा० न्मध्योच्चं विशोध्य मन्दमानीय तेन गणितागतो मध्यसंस्कृता मन्दस्फुटः स्यात्। तेन पुनश्चलवेन्द्रं ततश्चलफलं तेन मन्दस्फुटसंस्कृतः स्फुटः स्यात् एवमसकृत् यावदविशेषः। तत्तु दलीकृताभ्यां प्रथमं फलाभ्यामित्यादिना कुजस्य विशेष उक्तस्तत्रोपपत्तिरेव वासना” प्रमिता०। ग्रहाणां तत्रोक्तः स्पष्टगत्यानयनप्रकारस्तु खगोलशब्दे २४३२ पृ० दृश्यः।
स्फुटन = न० स्फुट–ल्युट्। १ विकशने अमरः २ विदलीभावे च।
स्फुटबन्धनी = स्त्री स्फुटं बन्धनं यस्याः गौरा० ङीष्। कपोतपद्याम् रत्नमा०।
स्फुटित = त्रि० स्फुट–क्त। १ विकशिते हेमच० १ भिन्ने “दग्धे वा स्फुटितेऽथ वा” पुराणम्। ३ व्यक्तीकृते ४ परिहासिते च
स्फुटि(टी) = स्त्री स्फुट इन् वा ङीप्। १ पादस्फोटरोगे (फोडा) २ कर्कटीफले च (फुटि) शब्दर०।
स्फुट्ट = अनादरे चु० उ० सक० सेट्। स्फुट्टयति ते अपुस्फुट्टत् त।
स्फुड = वरणे तु० कु० पर० सक० सेट्। स्फुडति अस्फुडीत् पुस्फोड।
स्फुड = विकाशे भ्वा० आत्म० अक० सेट् इदित्। स्फुण्डते अस्फुण्डिष्ट।
स्फुड = परिहासे चु० उ० सक० सेट् इदित्। स्फुण्डयति ते अपुस्फुण्डत् त।
स्फुत्कर = पु० स्फुदित्यव्यक्तं शब्दं करोति कृ–अच्। अग्नौ शब्दच०।
स्फुर = स्फूर्त्तौ तु० कुटा० प० अक० सेट्। स्फुरति अस्फुरीत् पुस्फोर। “चारु पुस्फोर व हुः” भट्टिः। णिचिस्फारयति।
स्फुर = पु० स्फुर–क। फलके हेमच०। १ भावे घञ्। २ स्फुरणे अमरः।
स्फुरण = न० स्फुर–ल्युट्। ईषत्स्पन्दने अमरः। युच्। तत्रैव स्त्री। अङ्गभेदस्फुरफलमुक्तं यथा “व्रूमोऽधुनाङ्गस्फुरतस्य सम्यक् प्रत्येकमव्यक्तफलप्रभा वम्। सर्वत्र यत्रावगते स्वदेहाद्युत्पद्यते कर्मविपाकसंवित्। मूर्ध्निस्फुरत्याशु पृथिव्यवाप्तिः स्थानप्रवृद्धिश्च ललाटदेशे। भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात नामाक्षिमध्ये च सहायलाभः। दृगन्तमध्यस्फुरणेऽर्थलाभोत्कण्ठे क्रमाद्विस्फुरिते दृगादौ। जयो दृशाध स्फुरणे रणः स्यात् पियश्रुतिः स्यात् स्फुरिते च कर्णे। योषितसमृद्धिः स्फरिते च गण्डे घ्राणे तु सौमुख्यमदौ भवेताम्। भोज्येष्टसङ्गावधरोर्द्धयोश्च स्कन्धे गले भोगविवृद्धिलाभौ। स्पन्दो भुजम्येष्टसमागमाय स्पन्दः करम्य द्रविणाप्तिहेतुः। स्पन्दश्च पृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवा नाम्। पार्श्वप्रकम्पे विषयस्य लाभः कटिप्रकम्बे तु बलप्रमोदौ। नाभिप्रकम्पे निजदेशनाशः धनर्द्धि बन्धश्च भ्रुवि प्रकम्पे। दुखं धनान्तं हृदयस्य कम्पे स्फिक्पायुकम्पेऽपि च वाहनाप्तिः। वरङ्गकम्पे वरयोषिदाप्तिर्मुष्के सकम्पे तनयस्य जन्म। वस्तौ स कम्पे युवतिप्रवृत्तिः दोषश्च कम्पे पुनरूरुष्टष्ठे। उरःप्रकम्पे सुमहायलाभः स्याज्जानुकम्पे त्वचिरेण सिद्धिः। जङ्घाप्रकम्पे निजदेशनाशः स्थानाप्तिरुच्चा चरणस्य कम्पे। यात्रा सलाभाऽङ्घ्रितलप्रकम्पे पुंसां सदा दक्षिणदेहभागे। स्त्रीणाञ्च वामावयवे प्रजातः। स्पन्दः फलानि प्रदिशत्यवश्यम्” वसन्तराजशाकुने ४ र्थप्र०।
स्फुर्च्छ = विस्मरणे भ्वा० प० सक० सेट्। स्फूच्छति अस्फूर्च्छीत् आदित् स्फूर्च्छितं स्फूणम्।
स्फुर्ज = वज्रशब्दे भ्वा० प० अक० सेट्। स्फूर्जति अस्फूर्जीत् द्वित् स्फूर्जथुः। आदित् स्फूर्जितं स्फूर्णम्।
स्फुर्जथु = पु० स्फुर्ज अथु नि० न दीर्घः। वजंनिर्घोषे अमरटीका।
स्फुल = स्फूर्त्तौ चले च अक० सञ्चये सक० तुदा० कृटा० प० सेट् स्फुलति अस् फुलीत्। पुस् फोल।
स्फुल = न० स्फुल–क। १ वस्त्रागारे (ता~वु) शब्दर०। २ स्फूर्त्तियुते त्रि०।
स्फुलन = न० स्फुल–भावे ल्युट्। सफुरणे नीलकण्ठः।
स्फुलिङ्ग = पुंस्त्री० स्फुल–इङ्गच् स्फुत इतव्यक्तः शब्दो लिङ्गति गच्छति यन्मात् लिगि–घञ् पृषो० वा। अग्निकणे अमरः।
स्फुलिङ्गिनी = स्त्री स्फुलिङ्ग–अस्त्यर्थे इनि। १ अग्निज्वालायाम् जटा० २ स्फुलिङ्गयुक्ते त्रि०।
स्फूर्जक = पु० स्फुर्ज–ण्वुल्। तिन्दुवृक्षे अमरः।
स्फूर्जथु = पु० स्फुर्ज–अथु। वज्रपातशब्दे अमरः।
स्फूर्त्ति = स्त्री स्फुर्च्छ–स्फुर–वा क्तिन्। १ स्फुरणे २ विकशने ३ प्रतिभायाञ्च रमानाथः।
स्फूर्त्तिमत् = पु० स्फूर्त्तिरस्त्यस्य मतुप। १ पाशुपताख्ये शैवभेदे त्रिका०। २ प्रतिभायुक्ते ३ विकाशयुक्ते च त्रि० स्त्रियां ङीप्।
स्फेयस् = त्रि० अतिशयेन स्फिरः, प्रचुरः इयसुन स फादेशः। अतिप्रचुरे स्त्रियां ङीप्। इष्ठन्। सफष्ठोऽप्यत्र त्रि०।
स्फोट = पु० स्फटत्यर्थोऽनेन स्फुट–करणे घञ। व्याकरणोक्ते वर्णातिरिक्ते पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्ग्ये अर्थप्रत्यायके अखण्डे शब्दभेदे स्वार्थे क तत्रार्थे व्याकरणमते वर्णसमुदयानां नार्थबोधकत्वं किन्तु सफोटस्यैवेति प्रपञ्चितमस्माभिः शब्दार्थरत्ने यथा “तत्र वर्णानां प्रत्युच्चारणमन्यथाप्रतीयमानतया अनित्यत्वेन आशुविनाशिनाञ्च तेषां मेलनासम्बवेन तत्समुदायस्यापि सम्बन्धित्वाभावेन प्रत्येकं यर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्ववर्णानुभवाहितसंस्कारवीजवति अन्त्यवर्णजनितपरिपाकशालिनि हृदये झटिति समुदीयमानस्य स्फोटरूपस्यैव शब्दस्य नित्यतया तत्रैव नित्यसम्बन्धस्य योग्यतया वृत्तिमत्त्वमुचितसित्याकरे स्पष्टम्। तथाहि। वर्णा यदि वाचकाः स्युः स्यादेव तेभ्यो व्यस्तेभ्योऽर्थावगतिः। न च तथा। प्रत्येकं वृत्तिमत्त्वाभांवेन तत्समुदायस्य वृत्तिमत्त्वं सुदूरपराहतम्। आशुविनाशिनां वर्णानां मेलनासम्भवेन तत्समुदायत्वासिद्धेः पूर्वपूर्ववर्णानुभवाहितसंस्कारसहितस्य चरमवर्णस्य वाचकत्वन्तु सम्भावितमपि दिनान्तरीयतादृशसंस्कारानादाय वर्त्तमानचरमवर्णमात्रानुभवेन अर्थावगत्यापत्त्या निरासितम्। अन्त्यवर्णपर्थ्यन्तानामनुभवानन्तरं समुदायानां सस्कारोदयकल्पनया पुनः समुदितवर्णानां स्मरणात्मकज्ञानतोऽर्थावगतिरित्यपि न सङ्गतं जाराराजेत्यादावविशेषेण तत्तद्वर्णसंस्कारसद्भावादुभयवैलक्षण्यानुपपत्तेः। अतोऽवश्यं वर्णातिरिक्तोऽन्त्यवर्णानुभवव्यङ्ग्यः स्फोटनामा शब्दः स्वीकार्य्यः स्फुटत प्रकाशतेर्योऽनेनेति व्युत्पत्त्या च तस्य सार्थकनामता बोध्या समर्थितश्चैष एव पक्षः पातञ्जलभाष्ये व्यासचरणैः “तदेतेषामर्थसङ्केतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागप्रक्रमवर्णं बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते” इत्यन्तेन। अत्र चानेकवर्णानां शक्ततावच्छेदकतापेक्षयैकस्यैव जातिरूपस्फाटत्वस्य शक्ततावच्छेदकत्वकल्पने लाघवम प द्रष्टव्यम्। उक्तञ्च शब्दकौस्तुभे वोपदेवचरणैः “शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्मताम्। औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवदिति”। तथा “शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक्। येन वाक् व्यज्यते यस्य व्यक्तिराकाश आत्मनः” इति मञ्जूषाधृतभागवतवचने स्फोटात्मकशब्दश्रवणस्यात्मलिङ्गतोक्त्या स्फोटरूपशब्दोऽर्थायात इत्यवगम्यम्। हरिवंशेऽपि “अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः” इति स्फोटस्य व्यञ्जकवर्णाश्रयत्वमभिहितम्। एतन्मताभिप्रायेणैव “स्फोट इत्याहेति” शारीरकभाव्ये स्फटव्युत्पादनम् “वर्णाएव तु शब्द इति भगवानुपवर्ष इति” निराकरणन्तूसवर्ष ग्रहणात् तन्मताभिप्रायेण। “न स्फटः प्रतीत्यप्र तीतिभ्यामिति” सांख्यसूत्रेऽपि स्फोटखण्डनमुपवर्षमताभिप्रायेणेति सर्वं सुस्थम्। स च स्फाटोवर्णपदादिभेदेन अनेकविधो बाहुल्यभयात् न प्रपञ्चितः। तस्य स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वं चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरिति विवेफः। तथा च वाक्यपदीये “स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते” इति। “स्थितिभेदे निमित्तत्वं वैकृतः प्रतिवद्यते” इति च स्थितिभेदे चिरचिरतरकालस्थितौ ध्व निस्तु पूर्वलक्षितः। तस्य च स्फोटस्य नित्यतया ध्वनि गतह्रस्वदीर्घादिकालस्य तत्रोपचारः। प्रतिपादितञ्च तथैव वाक्यपदीये “स्फाटस्याभिन्नकालस्य ध्वनिकालानुपातिनः। स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घप्लुतादिषु। प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते”। शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्वदीर्घादिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपचर्य्यते इति तदर्थः। एवञ्च विलम्बितोच्चारणस्थले तत्तद्वर्णानां तद्वोधजनितसंस्काराणां वा बहुक्षणपर्य्यन्त स्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्याभिव्यक्त्यनन्तरं जायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने लाघवमित्यपि द्रष्टव्यम्। भेरीशब्दादौ च ध्वन्यभिव्यक्त्यनन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन अत्रापि तथाकल्पनौचित्यात्। अतएव च महाभाष्ये “एवं तर्हि स्फाटः शब्दो ध्वनिः शब्दगुणः” इत्यादिनाऽभिव्यक्त्युपकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभि हितमभिहितञ्च ध्वनेर्ह्रस्वदीर्घत्वेनापि भानम् यथा “ध्वनिः स्फोटस्य शब्दानां ध्वनिस्तु खलु लक्ष्यते। ह्रस्वो महांश्च केषाञ्चित् स्वयं नैव स्वभावतः” इति न स्वभावतस्तद्रूपेण स्फोटोलक्ष्यत इत्यर्थः। ध्वनिविकारे च वायुसंयोगविशेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वमल्पकालस्थायित्वे द्रुतत्वमिति विवेकः। एवं वहुविधेषु स्फटेषु वक्यस्फोटस्यैव सिद्धान्ते निष्कृष्टतया तस्यैव बोधकत्वं तद्घटकपदानान्तु पदमध्यवर्त्तिवर्णवत् निरर्थंकत्वं विशिष्टार्थद्योतनायैव तेषां प्रयोगात्। तथा च “ब्राह्मणार्थो यथा नास्ति कश्चित् ब्राह्मणकम्बले। देवदत्तादयोवाक्ये तथैव स्युर्निरर्थकाः” इति। “पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च। वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चनेति” च वाक्यपदीये पदाद्यसद्भावं दर्शयति। तथा “वाक्यस्फाटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिरिति” हरिकारिकायां सिद्धान्ते वाक्यस्फोटस्यैव सिद्धिरिति प्रतिपादितम्”। २ व्रणभेदे च (फोडा) राजनि०।
स्फोटक = पु० स्फुट–ण्वुल्। (फोडा) १ व्रणभेदे हेमच० २ विदारके च।
स्फोटन = न० स्फुट–ल्युट्। १ विदारणे २ विकाशन च भरतः
स्फोटनी = स्त्री स्फुट्यतेऽनया स्फुट–ल्युट् ङीप्। मणिवेधनकरणे यन्त्रभेदे (भोमरी) द्विरूपको०।
स्फोटवीजक = पु० स्फोटस्य व्रणभेदस्य वीजम् ततः स्वार्थे क। भल्लातके राजनि०। तत्फलनिर्यादसांयागात् व्रणोत्पत्तिर्लोकसिद्धा।
स्फोटायन = पु० स्फोट एवायनं अर्थबोधकतयाश्रयणं यस्य। अर्थवाधकत्वेन स्फोटाभ्युपगन्तरि वैयाकरणे मुनिभेदे “अवङ्स्फोटायनस्य” पाणिनिः।
स्फोटिका = स्त्री स्फुट–ण्वुल् टपि अत इत्त्वम्। हापुत्रिकायां त्रिका०।
स्फ्य = न० स्फाय–यत् नि०। खङ्गाकारे यज्ञार्थे काष्ठभेदे ति० त०
स्फ्याश्लिष्टेज्याधिकरण = न० अधिकरणभेदे ति० त० “स्फ्याश्लिष्टेज्याधिकरणञ्च स्फ्यस्य खडूगाकारकाष्ठस्य भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन प्रकृतिवद्विकृतिरित्यतिदेशेन दर्शात्मकप्रकृविधर्माणां प्राप्तौ पूर्वदिनप्रातःकालीनं हवनीयदेवतावाहनमपि प्राप्तं तच्च तदानीं न विधीयते नैमित्तिके निमित्तनिश्चयवतोऽधिकारितया प्रकृते श्वाभाविभक्त श्लेषरूपनिमित्तसंशयेन प्रधानानधिकारिणाऽङ्गानधिकारात्तदुत्तरदिने च निमित्तनिश्चये तदधिकारसिद्धावपि नावाहनानुष्ठानम् आवाहनस्य पूर्वदिनपातःकालनैयत्यादितीज्याया आवाहनं विनैवानुष्ठानम्”
स्म = अव्य० स्मि–ड। १ अतीते २ पादपूरणे च अमरः।
स्मय = पु० स्मि–अच्। १ गर्वे २ अद्भुतरसस्थायिभाने च मेदि०।
स्मर = पु० स्मरति प्रियमनेन स्मृ–करणे अप्। १ कामदेवे अमरः। भावे अप्। २ स्मरणे।
स्मरकूपक = पु० स्मरस्य कूप इव कायति कै–क। कामगृहे त्रिका०।
स्मरगृह = न० स्मरस्य गृहमिव। १ स्त्रीचिह्नभेदे भगे जटा० स्मरमन्दिरादयोऽप्यत्र।
स्मरचक्र = पु० “धृत्वा वामकरेणोरुं स्वपादस्योपरिस्थितम्। दृढञ्च रमते कामी स्मरचक्रः प्रकीर्त्तितः” स्मरदोपकोक्ते रतिवन्धभेदे।
स्मरण = न० स्मृ–ल्युट्। ज्ञातवस्तुनोऽनुभवाधीनसंस्कारजन्ये उद्बाधकसहकारेण जांयमाने १ ज्ञानभेदे स्मृतिशब्दे दृश्यम्। आध्याने हेमच०। २ चिन्तने जटा०। ३ अर्थालङ्कारभेदे सा० द०। अलङ्कारशब्दे ४०७ पृ० दृश्यम।
स्मरदशा = स्त्री स्मरकृता दशा। कामिनां स्मरकृतासु अङ्गासोष्ठवादिषु दशसु दशासु। “अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशताऽरुश्चिः। अधृतिः स्यादनालम्बस्तन्मयोन्मादमूर्च्छनाः। मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह। असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः। अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताऽधृतिः। अनालम्बनता चापि शून्यता मनसः स्मृता। तन्मय तत्प्रकाशो हि बाह्याभ्यान्तरतस्तथा। रसविच्छेदहेतुत्वात् मरणं नैव वर्ण्यते। वर्ण्यतेऽपि यदि प्रत्युज्जीवनं स्याददूरतः” इति सा० द०।
स्मरध्वज = न० ६ त०। स्त्रीचिह्ने शब्दर०। २ वाद्ये पु० हेमच०।
स्मरप्रिया = स्त्री ६ त०। स्मरभार्य्यायां रतौ जटा०।
स्मरलेखनी = स्त्री स्मरस्य लेखनीव। स्वरेण कामोद्दीपके शारिकाखगे शब्दर०।
स्मरवीथिका = स्त्री स्मरस्य वीथिकेव प्राप्तिहेतुत्वात्। वेश्यायाम् राजनि०।
स्मरवृद्धि = पु० स्मरस्य वृद्धिर्यस्मात्। १ कामवृद्धिक्षुपे राजनि०। ६ त०। २ कामवृद्धौ स्त्री।
स्मरस्तम्भ = पु० स्मरस्य तद्व्यापारस्य स्तम्भ इव। उपस्थे शब्दर०।
स्मरस्मर्य्य = पु० स्मरः सर्य्यो यस्य। गर्दभे त्रिका०।
स्मरहर = पु० स्मर हरति नांशयति हृ–अच्। १ महादेवे अमरः। स्मरमर्दनादयाऽप्यत्र।
स्मराङ्कुश = पु० स्मर तत्कार्य्येऽङ्कुश इव उत्तेजकत्वात्। नखे शब्दर० नखाघातेन हि स्त्रीणां स्मरोद्दीपनं प्रसिद्धम्।
स्मराम्र = पु० स्मरप्रिय आम्रः। राजाम्रे राजनि०।
स्मरासव = पु० स्मराद्दोपक आसव इव। लालायाम त्रिका० कामिनां तत्पाने हि स्मराद्दीपनात्तस्यास्तथात्वम्।
स्मार्त्त = त्रि० स्मृतौ विहितः, स्मृतिं वेत्त्यधीते वा अण्। १ स्मृतिविहिते दानादो “अन्योऽपि स्मार्त्तमाचरेत्” इति “स्मार्त्तं वैदिकवत् चरेत्” च स्मृतिः। २ स्मृतिशास्त्राभिज्ञे च
स्मि(ष्मि) = अनादरे सक० विस्मये अक० चु० आ० सेट्। स्मापयते असिष्मपत। अयं षोपदेश एव। अन्यतो विस्मये स्माययतीत्येव। अयं भ्वादिरपि अनिट्। स्मयते अस्मेष्ट सिष्मिये षोपदेशत्वात् षत्वम्।
स्मिट = अनादरे सक० स्नेहे अक० चु० उभ० सेट्। स्मेटयति। ते असिस्मिटत् त
स्मित = न० स्मि–भावे क्त। १ ईषद्धास्ये अमरः “मुह्हं विकशितस्मतम्” मालतीमाधवम्। कर्त्तरि क्त। २ विकशिते ३ ईषद्धास्यान्विते च त्रि०।
स्मील = निमेषणे भ्वा० पर० सक० सेट्। स्मीलति अस्मीलीत्।
स्मृ = स्मरणे भ्वा० प० अनिट्। स्मरति अस्मार्षीत् सस्मार सुस्मूर्षति। अषोपदेशत्वात् न षत्वम्। एतद्योगे कर्मणि षष्ठी। अयमौत्सुक्ये सक० घटा० स्मरयति।
स्मृत = त्रि० स्मृ–क्त। १ कृतस्मरण २ स्मतिविषये च।
स्मृति = स्त्री स्मृ–क्तिन्। अनुभूतवस्तुन उद्बोधकसहकारेण संस्काराधीने १ ज्ञानभेदे। स्मर्यते वेदवर्मोऽनेन करणे क्तिन्। २ धर्मशासनशास्त्रे वेदार्थानुभवजन्ये वेदार्थानुवादके मुनिप्रणीते वाक्यरूपे शास्त्रे। “वेदाऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्” मनुः। ज्ञानभेदस्मृतिरूपलक्षणादिकं पात० सू० भा० विवरणेषूक्तम् उक्तं यथा “अनुभूतविषयाऽसंप्रमोषः स्मृतिः” सू०। “किं प्रत्ययस्य चित्तं स्मरति। आहोस्वित् विषयस्येति। ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तथाजातीयकं संस्कारमारमते स संस्कारः स्वव्यञ्जकाञ्जनं तदाकारमेव ग्राह्यग्रहणोभयात्मिकां स्मृतिञ्जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी, भावितस्मर्त्तव्या चाभावितस्मर्त्तव्या च खप्ने भावितस्मर्त्तव्या जाग्रत्समये त्वभावितस्मर्त्तव्येति। सर्वाः स्मृतयः प्रमाणविपर्य्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति” भा०। “अनुभूतविमयाऽसम्प्रमोपः स्मृतिः प्रमाणादिभिरनुभूते विमयेऽसम्प्रमोषः अस्तेयः सा स्मृतिः संस्कारमात्रजन्यस्य हि ज्ञानस्थ संस्कारकारणानुभावभासिती विषय आत्मीयस्तदधिकविषयपरिग्रहस्तु सम्प्रमोषः स्तेयः कस्मात् साद्वश्यात्। मुषस्तेय इत्यस्मात् सम्प्रमोषपदव्युत्पत्तेः। एतदुक्तं भवति। सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतो वाधिगमयन्ति, स्मृतिः पुनर्न पूर्वानुभवमर्य्यादामतिक्रामति तद्विषया तदूनविषया वा न तु तदधिकविषपा सोऽयं कृत्त्यन्तराद्विशेषः स्मृतेरिति। विमृषति किंप्रत्ययस्येति ग्राह्यप्रवणत्वात् अनुभवस्य स्वानुभवात्तज्जः संस्कःरो ग्राह्यमेव स्मारयतीति। प्रतिभासयति अनुभ वमात्रजनितत्वाच्चानुभवमेवेति। विमृश्यपपत्तित उभयस्मरणमवधारयति ग्राह्यप्रवणतया ग्राह्योपरक्तः परमार्थतस्तु ग्राह्यग्रहणे एव उभयं तयोराकारं स्वरूपं निर्भासयति प्रकाशयति। स्वव्यञ्जकं कारणमञ्जनमाकारो यस्य स तथोक्तः। स्वकारणाकार इत्यर्थः। व्यञ्जकमुद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्यर्थः। ननु यदि कारणविचारेण बुद्धिस्मरणयाः सारूप्यं कस्तर्हि भेद इत्यत आह त्तत्र ग्रहणेति। ग्रहणमुपादानं न च गृहीतस्योपदानं सम्भवति तदनेनानधिगतबाधनं वुद्धेरित्यक्तं ग्रहणाकारो ग्रहणरूपं पूर्वं प्रधानं यस्याः सा तथोक्ता विकल्पितश्चायम् अभेदेऽपि गुणप्रधानभाव इति ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता, इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्बत्वं यदृत्त्यन्तरविषयीकृतत्वमर्थस्य तदनेन वृत्त्यन्तरविषयिकृतगोचरा स्मृतिरित्युक्तं भवति सोऽयसम्प्रमोष इति। ननु अस्ति स्मृतेरपि सम्प्रमोषः दर्शयति हि पित्र्यादेरतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसम्बन्धं स्वप्ने इत्यत आह सा च द्वयीति भावितः कल्पितः स्मर्त्तव्योयया सा तथोक्ता। अभावितोऽकल्पितः पारमार्थिक इति यावत्। नेयं स्मृतिरपि तु विपर्य्ययस्तल्लक्षणोपपन्नत्वात् स्मृत्याभासतया तु स्मृतिरुक्ता प्रमाणाभासमिवेति भावः। कस्मात् पुनरन्ते स्मृतरुपन्यास इत्यत आह। सर्वाः स्मृतय इति अनुभवप्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामन्ते निवेश इत्यर्थः”। धर्मशस्त्रशब्दे स्मृतिभेदादिकं ३८६३ पृ० दृश्यम्।
स्मृतिहेतु = पु० ६ त०। १ सस्कारे वासनारूपे गुणभेदे जटा०।
स्मेर = त्रि० स्मि–रन्। १ विकशिते हेमच० २ ईषद्धास्यान्विते च संक्षिप्त० “महाजनः स्मेरमुखो भविष्यति” कुमारः।
स्यद = पु० स्यन्द–घञर्थे क। वेगे अमरः।
स्यन्द = स्रवणे भ्वा० आ० लुङि, ऌटि, ऌङि च उभ० अक० ऊदित् वेट्। स्यन्दते ऌदित् अस्यद्त अस्यन्दिष्ट अस्यन्त। तषोपदेशत्वेऽपि विधिबलान्निष्यन्दते इत्यादौ षत्वम्।
स्यन्द = पु० स्यन्द–भावे घञ्। द्रवद्रव्यक्षरणे प्रस्रवे।
स्यन्दन = न० स्यन्द–भावे ल्युट्। १ क्षरणे। “स्यन्दनञ्च सन्निकृष्टदेशस्य द्रवद्रव्यस्य च संयागानुकूला व्यापारः गमनत्वव्याप्यजातिभेदो वा “भ्रमणं ऐचनं स्यन्दनोर्द्ध्वज्वनमेव च। तिर्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भापा०। कर्त्तरि ल्यु। २ जले न०। ३ रथे मेदि०। ४ तिनिसवृक्षे च पु० अमरः।
स्यन्दनद्रुम = पु० कर्म०। तिनिशवृक्षे शब्दर०।
स्यन्दनारोह = पु० स्यन्दनमारोहति युद्धार्थम्, आ + रुह अण्। रथाराहेण योद्धरि अमरः।
स्यन्दनि = पु० स्यन्द्र–अनि। तिनिशवृक्षे रत्नमा० ङीप्। लालायां स्त्री अमरः।
स्यन्दिन् = त्रि० स्यन्द + णनि। १ प्रस्रविणि। २ लालायां स्त्री अमरः ङीप्।
स्यन्न = त्रि० स्यन्द–क्त। स्रुते जलादौ अमरः।
स्यन्नवीण = त्रि० स्यन्ना वीणा यत्र। स्तुते हेमच०।
स्यम = ध्वनने भ्वा० पर० अक० सेट् क्ता वेट् फणादि०। स्य मति अस्यमीत् स्योमतु सस्यमतुः।
स्यम = वितर्के चु० उ० सक० सेट्। स्यामयति ते असिस्यमत् त।
स्यम = ध्वाने अद० चु० उभ० सक० सेट्। स्यमयति असिस्य० मत् त।
स्यमन्तक = पु० स्यम–झच् संज्ञायां कन्। १ श्रीकृष्णस्य हस्तस्थे मणिभेदे हेमच०। २ वृक्षभेदे पु० मेदि०। ३ सूर्य्यदत्ते सत्राजितो मणिभेदे तत्कथा भाग० १०५६ अ०। “आसीत् सत्राजितः सूर्य्योभक्तस्य परमः सखा। प्रीतस्तस्मै मणिं पादात् स च तुष्टः स्यमन्तकम्” इति। “दिने दिने स्वर्णभारानष्टौ स सृजति प्रभो!। दुर्भिक्षमार्य्यरिंष्टानि सर्पाधिव्याधयोऽशुभाः। न सन्ति मायिनस्तत्रयत्रास्तेऽभ्यर्चितो मणिः” एतदुपाख्यानं स्यमन्तकोपाख्यान तच्च सौरभाद्रचतुर्थीचन्द्रदर्शने श्राव्यम्” ति० त० रघु०।
स्यमीका = स्त्री स्यम–ईकक्। १ वल्मीके २ काले ३ मेषे च पु० ४ नीलोषधौ स्त्री मेदि०।
स्यूत = त्रि० सिव–कर्मणि क्त। १ सूच्यादिना ग्रथिते वस्त्रादौ अमरः। सूत्ररचितपात्रे (धोकडी) पु० अमरः। पृषो० ओत्। स्योतोऽप्यत्र भरतः।
स्यूति = स्त्री सिव–भावे क्तिन्। सूच्यादिना वस्त्रादिसीवने।
स्यून = पृ० सिव–नक्। १ सूर्य्ये २ किरणे मेदि० ३ सृच्यादिस्यूतखण्डवस्त्रनिर्मिते पदार्थे (धुकडी) च शब्दर०।
स्यूम = न० सिव–मक्। १ जले २ किरणे संक्षिप्त० किरणे पु० उणा-
स्योन = पु० स्यून + पृषो०। १ धौतकटे (धुकडी) अमरटी० भरतः २ सूर्य्ये ३ किरणे मेदि०। ४ सुखे निघण्टुः। ५ मुखकरे त्रि० “स्योना पृथिवी नोमवानृक्षरा” यजु० ३५ अ० २१।
स्रंसन = न० स्रन्स–णिच्–ल्युट्। ऊर्द्ध्वगतस्याधोनयने पतने थुच्। स्रंसनाप्यत्र स्त्री।
स्रंसिन् = त्रि० स्रन्स–णिनि। १ अधःपतनशीले स्त्रियां ङीप् २ पीलुवृक्षे पु० अमरः।
स्रंसिफल = पु० स्रंसि फलमस्य। शिरीषवृक्षे शब्दमा०।
स्रक = गतौ भ्वा० आत्म० सक० सेट् इदित्। स्रङ्कते अस्रङ्किष्ट
स्रग्वत् = त्रि० स्रक् माल्यमस्त्यस्य मतुप् मस्य वः कुत्वम्। माल्यवति। विनि। स्रग्वीत्यप्यत्र। उभयत्र स्त्रियां ङीप्।
स्रज् = स्त्री सृज्यते सृज–क्विन् नि०। माल्ये अमरः।
स्रज्वा = स्त्री सृज–वा नेत्त्वम् नि०। १ प्रजापतौ २ तन्तुसंघाते ३ रज्ज्वाञ्च संक्षिप्तसारः।
स्रन्स = पतने भ्वा० आत्म० लुङि उ० अक० सेट् उदित् क्त्वा वेट्। स्रंसते इरित् अस्रसत् अस्रंसिष्ट। “नास्रसत् करिणां ग्रैवम्” रघुः।
स्रन्स = प्रसादे भ्वा० आ० अक० सेट् उदित् क्त्वा वेट्। स्रंसते अस्रंसिष्ट।
स्रम्भ = विश्वासे भ्वा० आत्म० ऌदित् लुङि उ० सक० सेट् उदित् क्ता वेट्। स्रम्भते अस्रभत् अस्रम्भिष्ट।
स्र(स्रा)व = पु० स्रु–अप् घञ् वा। १ क्षरणे अमरः। कर्त्तरि अच्। २ निर्झरे हेमच०।
स्रवण = न० स्रु–ल्यु। १ मूत्रजले राजनि० २ घर्मे च शब्दर० भावे ल्युट्। ३ क्षरणे।
स्रवद्गर्भा = स्त्री स्रवन् गर्भो यस्याः। १ दैववशात् पतितगर्भायां गवि अमरः। २ तथाभूत स्त्रियाञ्च।
स्रवद्रङ्ग = पु० स्रवन् रङ्गो यत्र। पणग्रन्थौ (हट्टे) हारा०।
स्रवन्ती = स्त्री स्रु–झिच् ङीप्। १ नद्याम् अमरः। २ ओषधिभेदे ३ गुल्मस्थाने च मेदि०। शतृ। स्रवविशिष्टे त्रि०। स्त्रियां ङीप्।
स्रवा = स्त्री स्रु–अच्। १ मूर्वायाम् रायमुकु० २ क्षरणयुते त्रि०
स्रष्टृ = पु० सृज–तृच् नियमम्। १ जगत्कर्त्तरि चतुर्मुखे अमरः २ शिवे हला०। ३ सर्जनकर्त्तरि त्रि० स्त्रियां ङीप्।
स्रस्त = त्रि० स्रन्स–क्त। च्युते पतिते अमरः।
स्रस्तर = पु० स्रन्स–तरच् किच्च। आसने शु० त० रधु०।
स्राक् = अव्य० स्रु–डाकु। त्वरिते द्रागित्यर्थे अमरः।
स्रावक = न० स्रावयति स्रु–णिच्–ण्वुल्। १ मरिचे शब्दच० २ निःस्रावके त्रि०।
स्रिम्भ = हिंमे भ्वा० व० सक० सेट् उदित् क्त्वा वेट्। स्रिम्भति अस्रिम्भीत्।
स्रिभ = हिंसे भ्वा० प० सक० सेट् उदित् क्त्वा वेट्। स्रेभति अस्रेभीत्।
स्रिव = शोषे अक० दिवा० प० गतौ सक० सेट् उदित् क्त्वावेट्। स्रीव्यते अस्रेवीत्।
स्रु = गतौ सक० क्षरणे अक० भ्वा० प० अनिट्। स्रवति असुस्रुवत्।
स्रुग्दारु = स्रुचे यज्ञपात्राय दारु यस्य। विकङ्कतवृक्षे जटा०।
स्रुघ्न = पु० १ देशभेदे। स उत्पत्तिस्थानत्वेनास्त्यस्याः अच् गौरा० ङीष्। २ सर्जिकाक्षारे स्त्री हमच०।
स्रुच्(चा) = स्त्री स्रु–क्विप् चिट् च वा टाप्। वटपत्राकृतौ विक ङ्कतकाष्ठजे बाहुमात्रे यज्ञपात्रभेदे शब्दच०।
स्रुत = त्रि० स्रु–क्त। १ क्षरिते जलादौ २ गते च। ३ हिङ्गुपत्र्यां स्त्री शब्दच०
स्रुव = पुंस्त्री० स्रु–क। १ खदिरकाष्ठभवे हस्तमिते यत्त्रषात्रभेदे यज्ञपत्रशब्दे दृश्यम्। १ सल्लक्याम् २ मूर्वायाञ्च स्त्री मेदि०
स्रुवावृक्ष = पु० स्रवायाः साधनं वृक्षः। विकङ्कतवृक्षे (व~इचि) अमरः।
स्रू = स्त्री स्रु–क्विप् नि०। १ यज्ञपात्रभेदे २ निर्झते च हेम्च०।
स्रै = विकॢत्तौ–भ्वा० पर० अक० अनिट्। स्रायति अस्रासीत्।
स्रोत = न० स्रु–तन्। स्रोतसि वेगेन स्वतोजलनिःसरणे भरतः
स्रोतस् = न० स्रु–तसि। १ वेगेन स्वतो जलनिःसरणे अमरः। २ रेतसि च ऊर्द्ध्वस्रोताः। ३ देहस्थच्छिद्रे च।
स्रोतईश = पु० ६ त०। समुद्रे हेमच०।
स्रोतस्वत् = त्रि० स्रोतोऽस्त्यस्य मतुप् मस्य वः। १ स्रोतोयुक्ते २ नद्यां स्त्री अमरः ङीप्।
स्रोतस्विनी = स्रोतस् + अस्त्यर्थे विनि ङीप्। १ नद्याम् २ स्रोतोयुक्ते त्रि०।
स्रोतोऽञ्जन = न० स्रोतसि यमुंनास्रोतो जलसन्निकृष्टसौवीरदेशे भवम् अञ्जनम्। सौवीरदेशजेऽञ्जने अमरः। “वल्मीकशिखराकारं भिन्नं नीलाञ्जनप्रभम्। घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोऽञ्चनञ्च तत्” राजनि०। “स्रोतोऽञ्जनं तत्र श्रेष्ठं विशुद्धं सिन्धुसम्भवम्। दृष्टेः कण्डूमलहरं दाहक्लेदरुजापहम्। अक्ष्णो रूपावहञ्चैव सहते मारुतातपौ। नेत्ररोगा न जायन्ते तस्मादञ्जनमाचरेत्”। “अञ्जनं यामुनञ्चापि कापोताञ्जनमित्यपि। तत्र स्रोतोऽञ्जनं कृष्णं सौवीरं श्वेतमीरितम्। स्रोतोऽञ्जनसमं ज्ञेयं सौवीरं तत्तु पाण्डरम्। स्रोतोऽञ्जनं भवेत् स्वादु चक्षुष्यं कफपित्तनुत्। कषायं लेखनं स्निग्धं ग्राहि च्छर्दिविषापहम्। सिध्मक्षयास्रहृत्शीतं सेवनीयं सदा बुधैः। सौतोऽञ्जनगुणाः सर्वे सौवीरेऽपि मता बुधैः। किन्तु द्वयोरञ्जनयोः श्रेष्ठं स्रोतोऽञ्जनं स्मृतम्” भावप्र०।
स्रोतोवहा = स्त्री स्रतसा वहति सरति वह–अच्। नद्याम् जटा०
***