स्थ = त्रि० स्था–कृ। १ स्थितिशीले प्रायेण उत्तरपदस्थित एवाथ प्रयुज्यते यथा पदस्थः मार्गस्थः। २ स्थले पु० शब्दर०।

स्थग = संवरणे भ्वा० पर० सक० सेट् घटा० सिचि न व्र्द्धिः। स्थगति अस्थगीत्। अषोपदेशत्वमस्य चिन्त्यमूलम्।

स्थग = त्रि० स्थग–अच्। धूर्त्ते शब्दर०।

स्थगन = न० स्थग-ल्युट्। आच्छादने हेमच०।

स्थगित = त्रि० स्थग-क्त। १ आवृते २ तिरोहिते हेमच।

स्थगी = स्त्वी स्थग्यतेऽनया घञर्थे क गौरा० ङीष्। ताम्बूलपात्रे करङ्गे हेमच०।

स्थगु = न० स्थग–उन्। गडौ (कुज) “तदेव स्थगु यद्दीर्घं रथघोणमिवायतम्। लब्धार्था च प्रतीता च लेपयिष्यामिते स्थगु” रामा० बा० ९ अ०।

स्थण्डिल = न० स्थल–इलच् नुक् लस्य डः। १ चत्वरे उन्नत्यवनतिशून्ये समीकृते प्रदेशे अमरः। “निषेदुषी स्थण्डिल एव केवले” कुमारः। २ यज्ञार्थं परिष्कृतस्थाने शब्दर० ३ होमार्थे कुण्डप्रतिनिधित्वेन वालुकादिभिः कर्त्तव्ये मण्डलभेदे च “नित्यं नेमित्तिकं कर्म स्थण्डिले वा समाचरेत्। हस्तमात्रं तु तत् कुर्य्यात् बालुकाभिः समन्ततः” शा० ति०। “अथ वापि मृदा सुवर्णभासा करमात्रं चतुरङ्गुलोच्चमल्पे। हवने विदधीत वाङ्गुलोच्चं विबुधः स्थण्डिलमेववेदकोणम् कुण्डोद्द्यातः। अथ वाकुण्ड करणाशक्तौ। तन्त्रान्तरे च “मृदा सुवर्णभासा वासूक्ष्म बालुकयाऽपि वा। अङ्गुलोन्नतया वेदाङ्गुलोच्चं स्थण्डिलं विदुः। चतुःकोणमुदक्प्राचोप्लवमल्पाहुतौ शुभम्। पञ्चाङ्गुलोच्चमथ वा रम्यं त्र्यङ्गुलमुन्नतम्। तस्मात् सम्यक् परीक्ष्यैव कर्त्तव्यं शुभवेदिकम्। हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्मणि”। वसिष्ठः “कुण्डमेवंविघं न स्यात् स्थण्डिलं वा समाश्रयेत्” क्रियासारे। तत्करणप्रकारादि सं० त० दृश्यम्।

स्थण्डिलशायिन् = पु० स्थण्डिले चत्वरे शेते व्रतवशात् शीणिनि। व्रतार्थं चत्वरे शयितरि अमरः। “स्थण्डिलशायिनश्च” भट्टिः।

स्थण्डिलेशय = पु० स्थण्डिले शेते अच अलुक्समा०। व्रतार्थं चत्वरे शयितरि शब्दर०।

स्थपति = पु० स्था–क तस्य पतिः। १ कञ्चुकिनि मेदि० २ शिल्पिभेदे (छुतार) अमरः ३ कुवेरे अजयः ४ अधीशे ५ वृहस्पातिसवनामकयागकर्त्तरि च अमरः। ६ सत्तमे त्रि० मेदि० तत्र अधीशपरत्वे “निषादस्थपतिर्गावेधुकेऽधिकृतः” कात्या० श्रौ० १। १। १२ “निषादर्स्थपतिर्गावेधुके चरावधिकृतः अधिकारी भवति”। एवं हि श्रूयते “यस्य रुद्रः प्रजाः शमयेत्स वास्तुमध्ये रौद्रं गावेधुकम् चरुं निर्वपेत्” इत्येतामिष्टिं प्रक्रम्य श्रुतम् “एतया निषादस्थपतिं याजयेदिति” निषादस्थपतिर्यजतेत्यर्थः। तत्रायं सन्देहः किमत्र षष्ठीसमासः निषादस्य स्थपतिर्निषादस्थपतिरिति निषादश्चासौ स्थपतिश्च निषादस्थपतिरिति कर्मधारयो वा। तत्र यदि षष्ठीसमासः तदा यो द्विजातिरेव विद्वान्निषादानामाधिपत्यं करोति तस्यात्राधिकारः यदि च कमधारयः तदा निषाद एव यः स्थपतिस्तस्यात्राधिकार इति। तत्र त्रैवर्णिकस्यैव समर्थत्वाद्विद्वात्त्वादग्निमत्त्वाच्चात्राधिकारो युज्यते अन्तजातीयस्य निषादस्याविद्वत्त्वेनानग्निमत्त्वेन चासमर्थत्वात्, तस्मात् षष्ठीसमास एवायमिति पूर्वपक्षः। सिद्धान्तस्तु कर्मधारयोऽयम् निषादसायं स्थपतिश्चेति कुतः? षष्ठीसमासपक्षे निषादपद लक्षणाप्रसक्तेः न ह्यत्र षष्ठी श्रूयते यतः सम्बन्धः प्रतोयेत। अतो निषादपदेनैव षष्ठ्यर्थो लक्षणीयः इतरस्मिंस्तु पक्षे द्वयोरपि पदयोर्मुख्यार्थतैव न लक्षणा तस्मान्निषाद एव स्थपतिरत्राधिकारी श्रुतिबलात् अविद्वाननग्निमानपीति सिद्धम्। अपि चात्र निषादद्रव्यं दक्षिणा श्रूयेत कूटं दक्षिणा काणो वा गर्दभ इति कूटं हि निषादानामेवोपकारकम् नार्याणामिति” कक०। वृहस्पतिसवकर्त्तरि तु “स्थपतिरित्येनं ब्रूयुः” कात्या० श्रौ० २२। ५। २८ सू०। “सराजानो ब्राह्मणा यं पुरस्कुर्वीरन् एतेन यजेत” “वृहस्पतिसवेन” सू०। राज्ञा सहित ब्राह्मणायं ब्राह्मणं धर्मस्थापकत्वेन चाङ्गीकुर्वीरन् “एतेन स एतेन यजेत वृहस्पतिसवेन्” स० व्या०। वृहस्पतिसवकर्तृ वत् ६ गोसवकर्त्तर्य्यपि यथोक्तं “स्थपतिरित्येनं व्रूयुः” कात्या० श्रो० २२। ११। ११ सू०। “गोसवयाजिनं जनाः”। राज्ञा सहिता विशः प्रजाः सर्बे पुरुषा यं पुरस्कर्वीरन् (मुख्यत्वेनाङ्गीकुर्वीरन्” स गोसवेन यजेत २२। ११। ८ कर्क० “कारुभेदस्य लक्षणं यथा “वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रम। दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः”।

स्थपुट = त्रि० तिष्ठति स्था–क स्थं पुटं यत्र। १ विषमोन्नतप्रदेशे हेमच०। “स्थपुटगतमपि क्रव्यमव्यग्रमत्तीति” मालतीमा०। २ विषमस्थाने–सञ्चारिणि–जीवे पु० त्रिका०।

स्थल = स्थाने भ्वा० पर० अक० सेट् ज्वला०। स्थलति अस्थालीत्। ष्ठलधातुनैवायं गतार्थ इत्यन्ये।

स्थल = न० स्त्री० स्थल–अच्। जलशून्ये अकृत्रिमे मूभागे अमरः स्त्रीत्वपक्षे ङीप्। “वनस्थलीर्मर्मरपत्त्रमोक्षः” कुमारः। २ कृत्रिमाकृत्रिमप्रदेशमात्रे ३ कृत्रिमभूभागे तु न०।

स्थलकन्द = पु० स्थलजः कन्दः। (वनओल) अग्राम्यकन्दे रत्नमा०

स्थलकमल = न० स्थलजातं कमलम्। स्थलपद्मे भावप्र०।

स्थलकुमुद = पु० स्थले कुमुदमस्त्यस्य सादृश्येन अच्। करवीरे राजनि०।

स्थलपद्म = न० स्थलजात पद्म शाक०। स्वनामख्याते पुष्पप्रधानवृक्षे त्रि० स्थलजं पद्ममिव। २ सानके पु० रत्नमा०

स्थलपद्मिनी = स्त्री स्थलपद्मानां समूहः तेषां सन्निकृष्टदेशो वा इनि ङीप्। १ स्थलपद्मसमूहे २ तद्युक्तवृक्षे च। “ददर्श दूनः स्थलपद्मिनीं नलः” नैष०।

स्थलमञ्जरी = स्त्री स्थलस्य मञ्जरीव। अपामार्गे रत्नमा०।

स्थलशृङ्गाट = पु० स्थलजातः शृङ्गाटः शाक०। १ गोक्षुरे रत्नमा० तस्य कण्टकावृतत्वात तथात्वम्।

स्थलेरुहा = स्त्री स्थले रोहति रुह–क अलुक्स०। १ घृतकुमार्य्याम् २ दग्धावृक्षे च राजनि०।

स्थलेशय = पु० स्थले शेते शी–अच् अलुक्स०। वराहरुरुप्रभृतौ पशौ राजनि०। २ स्थलशायिनि त्रि०।

स्थवि = पु० स्था क्वि येर्नेत्त्व। १ तन्तुवाये उज्ज्वलद०। २ स्वर्गे ३ जङ्गमे च संक्षिप्त०।

स्थविर = न० स्था–किरच् स्थवादेशः। १ शैलेये गन्धद्रव्ये राजनि० २ चतुर्मुख ब्रह्माण पु० हेमच०। ३ अचले ४ स्थिरे त्रि० उणा० ५ वृद्धे च त्रि० अमरः। ५ महाश्रावगयां स्त्री राजनि०।

स्थविष्ठ = त्रि० अतिशयेन स्थूलः इष्ठन् ललोपे गुणः। अतिवृद्धे अमरः। इयसुन् स्थवीयानपि अर्विवृद्धे त्रि० स्त्रियां ङीप्।

स्थाणु = पु० स्था नु पषो० णत्वम्। १ शिवे २ शाखाशून्यवृक्षे च अमरः ३ आयुधभेदे पु० नीलक०। ४ वृद्धे त्रि० धरणिः शिवस्य स्थाणुशब्दवाच्यत्वे कारणमुक्तं वामनपु० ४६ अ०। यथा “समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम्। ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा। क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम्। उत्क्षिप्तं सरसो मध्ये ऊर्द्ध्वमेव यदा स्थितम्। तदाप्रभृति लोकेषु स्थाणुरित्येव विश्रुतम्”।

स्थाणुतीर्थ = न० शैवे तीर्थभेदे वामनपु० १३ अ०।

स्थाण्डिल = पु० स्थण्डिले शयिताऽण्। व्रतार्थं स्थण्डिले शयितरि अमरः।

स्थाण्वाश्रम = पुंन० ६ त०। हिमाचलस्थिते शिवस्य तपश्चरणाश्रमभेदे “स्थाण्वाश्रमं हैमवतं जगाम” कुमारः।

स्थाण्वीश्वर = पु० शिवलिङ्गभेदे “स्थाणुर्नाम्ना हि लोकेषु पूजनीयो दिवौकसाम्। स्थाणावीशः स्थितो यस्मात् स्थाण्वीश्वरस्ततः स्मृतः” वामने ४२ अ० तन्माहात्म्यादिकम्। तत्र दृश्यम्।

स्थान = न० स्था–ल्युट्। १ स्थितौ २ सादृश्ये ३ अवकाशे मेदि० ४ सन्निबेशे ५ वसतौ हेअम्च० ६ ग्रन्थसन्धौ त्रिका० ७ भाजने हला० ८ निकटे ९ व्याकरणोक्ते प्रसङ्ग आदिश्यमानस्य यणादेः कारणभूते इगादौ। १० नीतिवेदिनामुपचयापचयहीने साम्यावस्थाने च अमरः। उपचयापचयौ च अष्टवर्गशब्दोक्तस्य कृष्यादेरेव भरतः। बसभिश्च लोकभेदः। सम्यग्वात्त नां स्वस्वधर्मानुष्ठायिनां जनानां लोकविशेषात्मकं स्थानञ्च अग्निपु उक्तं यथा “प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्। क्षत्रिवाणां तथा चैन्द्रं संग्रामेष्वनुवर्त्तिनाम्। गान्धर्वं शूद्रजातीनां परिचर्य्यानुकारिणाम्। अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम्। स्मृत तेषान्तु यत् स्थानं तदेव गुरुवासिनाम्। सप्तर्षीणान्तु यत् स्थानं स्मृतं तद्वत् वनौकसाम्। प्राजापत्यं गृहस्थानां गृहधर्मानुवर्त्तिनाम्। न्यासिनान्तु परं ब्रह्म योगिनाममृतं स्मृतम्। एकान्तवादिनां ब्रह्मध्यायिनां परमं पदम्। तामस्रमन्धतामिस्रमहारौरव रौरवम्। असिपत्रवनं घोरं कालपत्रमरीचिमत्। वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम्। स्थानमेतत् समाख्यातं स्वधर्मविनिवर्त्तिनाम्” श्रुतिलिङ्गाधिकरणोक्ते ११ क्रमे मीमां०। “स्थानं क्रमो योगबलं समाख्या पार्थसारथिः। १२ ज्ञापके निग्रहस्थानमित्यादि।

स्थानक = न० स्वार्थ क। १ स्थानशब्दार्थे। स्थाने कं जलमत्र। २ आलवाले हेमच०।

स्थानचञ्चला = स्त्री स्थाने स्थितावपि चञ्चला। १ वर्वरीवृक्षे शब्देच०। अल्पवातेन चञ्चलत्वात्तस्यास्तथात्वम्।

स्थानच्युत = त्रि० स्थानात् स्वस्थानात् च्युतः। पदच्युते “स्थानस्थितस्य पद्मस्य सित्रे वरुणभास्करौ। स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ” गरुडपु० ११५ अ०। स्थानभ्रष्टादयोऽप्यत्र। “स्थानस्थिताश्च पूज्यन्ते पूज्यन्ते च पदस्थिताः। स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः” गरुडपु० ११५ अ०।

स्थानाध्यक्ष = त्रि० स्थाने अध्यक्षः। स्थानरक्षके हेमच०।

स्थानिक = त्रि० स्थानेऽधिकृतः ठक्। स्थानाध्यक्षे हेमच०।

स्थानिन् = त्रि० स्थानमस्यास्ति रक्ष्यत्वेन इनि। १ स्थानरक्षके स्थानं प्रसङ्गः अस्त्यर्थे इनि। व्याकरणाक्ते आदिश्यमानस्य यणादेः कारणे इगादो “स्थानिवदादेशोऽनल्विधाविति” पाणिनिः।

स्थानीय = न० स्थीयतेऽस्मिन् स्था–आधारे अनीयर्। १ नगरे अमरः। स्थानं सादृश्यं वासं वाऽर्हति स्थानस्येदम् वा छ। २ वासयोग्ये देशे ३ सदृशे ४ स्थानसम्बन्धिनि च त्रि०।

स्थाने = अव्य० स्था–ने। १ योग्यत्वे २ औचित्ये च “स्थाने भवानेकनराधिपः सन्निति” रघुः। ३ सत्ये ४ सादृश्ये ५ करणार्थे च शब्दर०।

स्थापत्य = पु० स्थपतिरेव स्वार्थे ष्यञ्। १ चन्तःपुररक्षक कञ्चुकिप्रभृतौ अमरः। तस्य भावः ष्यञ्। २ स्थपतिधर्म न०

स्थापक = त्रि० स्थापयति स्था–णिच्–पुक् ण्वुल्। यथावस्थानमुचितं तथा निवेशके। स्थितिस्थापकः।

स्थापनं = न० स्था–णिच्–पुक् ल्युट्। १ आरोपणे २ पुंसवनाख्ये गर्भसंस्कारे च मेदि०। ३ समाधौ। युच। स्थापनाप्यत्र स्त्री सा च निवेशने वादे भावपक्षस्य प्रमाणादिना व्यवस्थापने च।

स्थापनी = स्त्री स्थाप्यतेऽनया स्था–णिच्–पुक् करणे ल्युट् ङीप्। पाठायाम् अमरः।

स्थापित = त्रि० स्था–णिच्–पुक् क्त। १ निश्चिते २ निवेशिते ३ न्यस्ते च मेदि०।

स्थामन् = न० स्थ–मनिन्। १ सामर्थ्ये अमरः २ बले च।

स्थायिन् = त्रि० स्था–णिनि। १ स्थितिशीले अलङ्कारोक्ते रसानुकूले रत्यादिभावे पु०। “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा। रसतामेति रत्यादिः स्थायी भावः सचेतसाम्” “अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति सम्मतः”। “रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽषि च” सा० द०। एते च क्रमेण शृङ्गारादीनां स्थायिभावाः।

स्थायुक = त्रि० स्था–उकञ्। १ स्थितिशीले २ एकग्रामाधिकृते पु० अमरः।

स्थाल = न० स्थलति तिष्ठत्यन्नाद्यत्र आधारे घञ्। (थाल) १ अन्नपात्रभेदे। २ पाकपात्रे (हा~डि) स्त्री अमरः गौरा० ङीष्।

स्थालीपाक = पु० स्थाल्यां पाकः। गव्यदुग्धेन स्थाल्यां कृते १ पाकभेदे। स्थाल्यां पच्यतेऽसौ पच–कर्मणि घञ् २ चरौ तत्पाकप्रकारः चरुशब्दे दिङमात्रमुक्तः गोभिलोक्तप्रकारः सं० त० दर्शितो यथा तत्र गोभिलः “अथोदूखलमुषले प्रक्षाल्य सूर्पञ्च पश्चादग्नेः प्रागग्रान् कुशानास्तीर्य्य उपसादयुति अथ हविर्निर्वपेदिति। ब्रीहीन् यवान् वा कांस्येन चरुस्थाल्या वा अमुष्मै त्वा युष्टं निर्वपामीति देवतानामोद्देशः सकृद्यजुषा द्विस्तूष्णीम् अथ पश्चादवहन्तुमुपक्रमते दक्षिणोत्तराभ्यां पाणिभ्यां त्रिःफलीकृतांस्तण्डुलां स्त्रिर्देवताभ्यः प्रक्षालयेत् द्विर्मनुष्येभ्यः सकृत पितृभ्य इति। “पवित्रान्तर्हितांस्तण्डुलानावपेत् कुशलशृतमिव स्थालीपाकं स्थापयेत् प्रदक्षिणमुदायुवन् शृतमभिघार्य्य उष्टगुद्वास्य प्रत्यभिघारयेदिति” सू०। अस्यार्थः उपसादयति स्थापयति देवतानामोद्देशं देवतानामोच्चारणं यथा स्यात्तथा अमुष्मै त्वा जुष्ट निर्वपामीत्यनेन उदूखलोपरि व्रीह्यादीन् कांस्यादिना सकृन्निर्वपेत्। अत्रामुष्मा इत्यत्र चतुर्थ्यन्तनामोच्चारणम्। अतएव कात्यायनः “असा- विति नाम गृह्नाति”। नारायणीयेऽपि “अदः पदं हि यद्रूपं यत्र मन्त्रे हि दृश्यते। साध्याभिधान तद्रूपं तत्र स्थाने नियोजयेत्”। अतोऽदः पद एव नामोहो नतु विरूपाक्षजपादाविदमित्यादौ। एवञ्चाग्नये त्वा जुष्टं निर्वपामीति सामगानाम् यजुःप्रयोगो गोभिले निर्वापमात्रश्रुतेः यजुर्वेदिकसमन्त्रकग्रहणप्रोक्षणे सामगेन न कार्य्ये। यजुःपरिभाषामाह जैलिनिः “शेषे यजुःशब्दः इति। शेषे मन्त्रभिन्ने मन्त्रजाते। ततश्च यन्मन्त्रजातं प्रश्लिष्टपठितं गानपादभेदरहित तद्यजुरिति। बहुदैवत्ये च बहुदेवतानामभिः प्रत्येकं निर्वापः। अन्ननिर्वापो मन्त्रेणैव होमोऽपि पृथक्। निर्वापपरिमाणन्तु होमसंख्याविशेषस्थित्यनुसारेणेत्याह छन्दोगपरिशिष्टम् “देवतासंख्ययागृह्य निर्वापांश्च पृथक् कृथक्। तूष्णीं द्विरेव गृह्णीयाद्धोमश्चापि पृथक् पृथक्। यावता होमनिर्वृत्तिर्भवेद् वा यत्र कीर्त्तिता। शेषञ्चैव भवेत् किञ्चित्तावन्तं निर्वपेच्चरुम्”। यद्यपि देवतासंख्ययेति वचनं चरुसमशनीययोः इत्युपक्रम्य पठितं तथाप्याङ्क्षायालाघवेन चरुसामान्यपरमिति। चरुविधौ तु विद्याकरवाजपेयी “यत्र प्रयोजनामावनिश्चयस्तत्रैव तदुपादानादिलोपः। यत्रानुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनाभावो ज्ञायते तदा प्राक् तन्निश्चयात् शास्त्रप्रापितः पदार्थो नियमापूर्वमात्रार्थमनुष्ठेय” इति। अतएव यदा त्वालस्यादिना व्रीह्यादिस्थाने तण्डुला गृहीताः तदापि अवघातादि समाचारन्ति याज्ञिकाः पठन्ति च। “घाते न्यूने तथा छिन्ने सान्नाय्ये मान्त्रिके तथा। यज्ञे मन्त्राः प्रयोक्तव्यामन्त्रायज्ञार्थसाधकाः”। मान्त्रिके मन्त्रसाध्ये अवघातादौ। न्यूने तत्काले मन्त्रपाठाभावेऽपि यज्ञकाले मन्त्राः पाठ्याः। अस्मिंस्तु मन्त्रार्थज्ञानस्य् नास्त्युपयोगः। चरुस्थालीयपरिमाणमाह छन्दोगपरिशिष्टम्। “तिर्य्यगूर्द्ध्वसमिन्मात्रा दृढा नातिवृहन्मुखी। मृण्मय्यौडुम्बरी वापि चरुस्थाली प्रशस्यते”। गर्भप्रस्तार दीर्घाभ्यां प्रादेशप्रमाणा चरुस्थाली औडुम्बरी ताम्रमती एषा पायसचरावपि न निषिद्धा “पयोनुद्धृतसारञ्च ताम्रपात्रे न दुष्यति” स्मृतिसागरधृतवचनाच्च। अतएव शारदातिलके “ततश्च संस्कृते वह्नौ गोक्षीरेण चरुं पचेत्। मन्त्रेण क्षालिते पात्रे नवे ताम्रमयादिके”। दक्षिणोत्तराभ्यामिति दक्षिण उत्तर उपरि ययोः पाण्योस्ताभ्यां मुपलं गृहीत्वा इति शेष। त्रि। फलीकृतान् त्रिधा वितुषीकृतान् कण्डनप्रस्फोटनाभ्यामिति शेषः। पवित्रान्तर्हितान् पवित्रम् अन्तार्हतं व्यवहितं येषां तान्। तेन चरुस्थाल्यामुत्तराग्रं पवित्रं निःक्षिप्य तण्डुलान् निक्षिपेत्। कुशलशृतमिवेति कुशलेन पाकनिपुणेन शृतं यथा न दग्धं नातिक्लिन्नं न मन्दपक्वं यथा स्यात्तथा स्थालीपाकं श्रपयेत्। अतएव छन्दोगपरिशिष्टम्। “स्वंशाखोक्त्या चरुः स्विन्नोह्यदग्धोऽकठिनः शुभः। न चातिशिथिलः पाको न च वीतरसो भवेत्”। वीतरसोगालितमण्डः। प्रदक्षिणमुदायुवान्नति प्रदक्षिणावर्त्तं यथा स्यात्तथा मेक्षणेन ऊर्द्ध्वमीषन्मिश्रयन्। यु मिश्रणे इत्यस्य रूपमेतत्। शृतमित्यभिघार्य्येति स्फुटितम्। चरुमाज्यस्रवेणाप्लाव्य उदगग्नेरुत्तरस्याम् उत्तार्य्य प्रत्यभिघारयेत् पुनर्घृतेन तथा सेचयेत्। वृषोत्सर्गे तु अभिघारणद्वयात् पूर्वं ज्वलदङ्गारेण विद्योतनद्वयमाह छन्दोगपरिशिष्टम् “अधिशृतमवद्योत्य सुशृतञ्चाभिघारयेत्। घृतेन सेचयेत् पश्चात् पुनरेवाभिथारयेत्”। मेक्षणादीन्याह छन्दोगपरिशिष्टम् “इध्म जातीयमिध्मार्द्धपमाणं मेक्षणं भवेत्। वृत्तं वार्क्षञ्च पृथ्वग्रमवदानक्रियाक्षमम्”। इध्मार्द्धप्रमाणं प्रादेशद्वयमिध्मस्य प्रमाणं परिकल्पितमिति तदर्द्धम् एषैव दर्वी विशेषस्तु महास्रुवे। “दर्वीद्व्यङ्गुलपृथ्वग्रा तुरीयेण तु मेक्षणम्। मुषलोदूखले वार्क्षे स्वायते सुदृढे तथा। इच्छाप्रमाणे भवतः सूर्पं वैणवमेव च”। अत्र तिर्य्यगूर्द्ध्वेत्यादि वैणवमेब चेत्यन्तेन चर्वङ्गमभिधाय भूमिजपपरिममूहनहस्तविन्यासं कुर्य्यादित्युक्तम्”। स्थाल्यां पाकपात्रे पाकः पच्यमानः। ३ पाकभाजने पच्यमाने। चातुर्षाव्यादौ तत्त्यागे फलं ति० त० दर्शितं “लभते सन्तति दीर्घां स्थालीपाकमभक्षयन्”।

स्थालीपुलाक = पु० स्थालीस्थाः पुलाकास्तण्डुलाः सन्त्यत्र एकधर्मतोन्नायकत्वेन अच्। मीमांसकोक्ते “स्थलीस्थास्तण्ड ला एते सर्वे विकॢत्तिभागेनः। समकालाग्निसंयोगभागित्वात् प्रतिपन्नवत्” इत्यनुमानकल्थके न्यायभेदे यथा एकस्य पाकदर्शनेन अन्येषां पाकज्ञानम् एवं एकरूपाणां सर्वेषामेकधर्माक्रान्तत्वमित्येवंरूपोद्भावनम्।

स्थालीबिल = न० ६ त०। स्थालीस्थे शून्यभागे तदर्हति छ यत् वा। स्थालीबिलीय (ल्य) तण्डुलादौ त्रि० सि० कौ०

स्थालीवृक्ष = पु० स्थाल्यै–वृक्षः। १ अश्वत्थाकारे स्थालीनर्माण साधने २ वृक्षभेदे। “स्थालीवृक्षो लघुः स्वादुस्तुवरस्तिक्त उष्णकः। कटुपाकरसः ग्राही विषपित्तकफापहृत्” भावप्र०

स्थावर = त्रि० स्था–वरच। १ अचञ्चले २ स्थिर वृक्षादौ व्यादौ च अमरः। “स्थावरं जङ्गमञ्चैव यद्यपि स्वयमाजतम्” स्मृतिः। ३ पर्वते पु० ४ धनुर्गुणे न० त्रिका। स्थाकरसर्गश्च षड्विधः सर्गशब्दे ५२५० पृ० दृश्यः। ख्यावरभमं च सन्निकृष्टे क्रेतरि सति असन्निकृष्टाय न विक्रेयं यथोक्तं महानिर्वा० १२ प० “स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्त्तिनि। योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः। सान्निध्यवर्त्तिनां जातिः सवर्णो वा विद्वेष्यते। तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी। निर्णीतमूल्ये पण्येन स्थावरस्य क्रयोद्यमे। तन्मूल्यञ्चेत् सनीपस्थो राति क्रेता न चापरः। मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा। सन्निधिस्थस्तदान्यस्मै गृही शक्नोति विक्रये। क्रीतञ्चेत् स्थावरं देवि! परोक्षे प्रतिवासिनः। श्रवणादेव तनूल्यं दत्त्वाऽसौ प्राप्तुमर्हति। क्रेता तत्र गृहारामान् विनिर्माति भुनक्ति वा। मूल्यं दत्त्वाऽपि नाप्नोति स्थावरं सन्निधिस्थितः। “स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया” स्मृतिः। स्थावरस्य केवलविक्रयनिषेधात् विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण विक्रयः कर्त्तव्य इति” मिता०। “एकोऽपि स्थावरे कुर्य्यात् दानाधमनविपयम् नापतकाले कुदुम्बार्थ धर्मार्थे च विशेषतः” स्मृतिः। “संविभागक्रयप्राप्तं पिच्यं लब्धञ्च वान्यतः। स्वावरं सिद्धिमाप्नोति भुक्त्या, हानिरुपेक्षया”। “सोदायिके सदा स्त्राणां स्यातन्त्र्यं परिकीर्त्तितम्। विक्रये चैव दाने च यषेष्टं स्थावरेष्वपि” कात्या०। “भर्त्त्रा पीतेन व्यद्वर्त्त स्त्रियै तस्मिन् मृतेऽपि च। सा यथाकाममश्नीयात् दद्याद्वा स्थावरादृते” नारदः। “अविभक्तं स्थावर यत् सर्वेषामेव तद्भवेत्। विभक्तं स्थावरं ग्राह्यं नान्योदर्य्यैः कथञ्चन” यमः। “सर्वेषां तुल्यरूपाणां सोदरासोदरा णामिति” श्रीकृष्णः।

स्थावरादि = पुंन० स्थावरमादिर्हेतुर्वा यस्य। १ वतसनाभविषे राजनि० २ स्थावरप्रमूतौ त्रि०।

स्थाविर = न० स्थविरस्य भावः अण्। वृद्धत्वे अमरः। तच्च सप्ततिवर्षापगमे भवति “आषोडशात् भवेद्बाल स्तरुणस्तत उच्यते। वृद्धः स्यात् सप्ततेरूर्ध्वं वर्षीयान् नवतेः परम्” स्मृतिः।

स्थासक = पु० स्था–स–स्वार्थादौ क। १ अमङ्कारे २ चार्चिक्ये अमरः ३ जलवुदुपुर च मेदि।

स्थास्नु = त्रि० स्था–स्नु। १ स्वितिशीमे अमीरः “च्युसादिवः स्था- स्नुरिवाचिरप्रभा” भट्टिः। २ शाश्वते भरतः। ३ वृक्षे श्रीधरः

स्थित = त्रि० स्था–क्त। १ ऊर्द्ध्वस्थतया दण्डायमाने “स्थितायां स्थानमाचरेः” रघुः। २ निश्चले ३ प्रतिज्ञायुक्ते मेदि०। ४ स्थितिशालिनि च।

स्थिति = स्त्री स्था–क्तिन्। १ मर्य्यादायां मेदि० २ न्याय्यपथावस्थाने अमरः। ३ स्थाने च। स्थानभेदे स्थितिनिषेधो यथा “नास्थिभस्मकपालानि न केशान् वा कथञ्चन। तुषाङ्गारकविष्ठाद्यं नाधितिष्ठेत् कदाचन” कौर्मपु० १५ अ०।

स्थितिस्थापक = स्थितिं स्थापयति स्था–णिच्–पुक् ण्वुल्। न्यायाक्ते संस्कारविशेषे “संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने” “स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्ष्वपि। अतीन्द्रियोऽसौ विज्ञेयः क्वचित् स्पन्देऽपि कारणम्” भाषाप०। तल्लक्षणं पृथिवीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वम्। संस्कारत्वस्याजातित्वे तु तद्व्याप्यधमवत्त्वम्। तथा च पूर्वसंयागजनितसंयोगनाशकत्वे सति पूर्वसंयोगजातीयसंयोगजनकत्वं तत्त्वम्। स च क्रियाविशेषजन्यः क्रियाविशेषजनकः स्वजन्यक्रियानाश्यो गुणविशेषः। अन्यथाकृतस्य पुनस्तदस्यतया स्थापकः गुणविशेष इत्यन्ये। यथाऽऽकृष्टज्ञास्वादीनां त्यागे पुनस्तथावस्थिततया अव स्थापकः। स च अतीन्द्रियः।

स्थिर = पु० स्था–किरच्। १ पर्वते २ देवे ३ वृक्षे ४ कार्त्तिकेये शब्दर०। ५ शनौ ६ मोक्षेमेदि०। ७ वृषे राजनि०। ८ धववृक्षे भावप्र०। ज्योतिषोक्तेषु ९ वृपसिंहवृश्चिककुम्भराशिषु च। १० कठिने ११ निश्चले च त्रि०। १२ शाल्मलौ स्त्री शब्दच० एवं १३ काकोल्यां जटा० १४ पृथिव्यां १५ शालपर्ण्याञ्च स्त्री अमरः। पृथिव्याः स्थिरत्वं मतभेदेन अचलशब्दे ८२ पृ० दर्शितम्। स्थिरतया वर्ण्याः पदार्थाः कविकल्प० उक्ता यथा युद्धे प्रधागभटः साध्वोयनः सज्जनमनः। धर्माधर्मो मनः भोगा सम्पादनभावे तयोर्बहुकालस्थितत्वात् स्थिरत्वम्।

स्थिरगन्ध = पु० स्थिरा गन्धा यस्य १ चम्पकवृक्षे २ पाटलायां ३ केतक्याञ्च स्त्री राजनि०। ४ स्थिरगन्धयुक्ते द्रव्यमात्रे त्रि०

स्थिरच्छद = पु० स्थिरश्छदा यस्य। भूर्जपत्त्रवृक्ष रत्नमा०।

स्थिरच्छाय = पु० स्थिरानियताच्छया यस्य। १ वृक्षमात्रे शब्दमा० २ छायाप्रधाने वटादौ त्रिका०।

स्थिरजिह्व = पु० स्थिरा अचञ्चला जिह्वा यस्य। मत्स्ये हेमच०।

स्थिरजीविता = स्त्री स्थिरं जीवितमायुव्यं यस्याः। १ शाल् मलीदृक्षे शब्दर०। २ चिरजीवले त्रि०।

स्थिरतर = त्रि० अतिशयेन स्थिरः तरप्। १ अत्थन्तखिरे अमर २ ईश्वरे पु०।

स्थिरदंष्ट्र = पुंस्त्री० स्थिरा दंष्ट्रा यस्य। १ सर्पे स्थ्रियां ङीप् २ वराहाकृतिविष्णौ पु० मेदि० ३ ध्वनौ अजयः।

स्थिरपत्त्र = पु० स्थिराणि पत्त्राण्यस्य। हिन्ताले राजनि०।

स्थिरपुष्प = पु० स्थिरं पुष्पमस्य। १ चम्पकवृक्षे २ बकुलवृक्षे च राजनि०।

स्थिरपुष्पिन् = पु० स्थिरं पुष्पमस्त्यस्य बाहुल्यन इनि। तिलकवृक्षे राजनि०।

स्थिरमति = स्त्री स्थिरा–मतिः। १ स्थिरबुद्धौ स्थिरा मतिर्यस्य। २ स्थिरबुद्धियुक्ते त्रि०। “अनिकेतः स्थिरमतिः” गीता।

स्थिरयीवन = न० पु० स्थिरं यौवनमस्य। १ विद्याधरादौ देवयानिभेदे त्रिका० २ चिरस्थायियौवनयुक्ते त्रि०।

स्थिररङ्गा = स्त्री स्थिरो रङ्गो रागो यस्याः। नील्याम् राजनि०।

स्थिररागा = स्त्री स्थिरो रागो रञ्जनं यस्याः। १ दारुहरिद्रायाम् राजनि०। २ निश्चलरागयुते त्रि०।

स्थिरसाधनक = पु० स्थिरं साधयति ल्यु ततः स्यार्शं क। सिन्दुवारवृक्षे राजनि०।

स्थिरसार = पु० स्थिरः सारो यस्य। (सेगुण) शाकवृक्षे राजनि०

स्थिराङ्घ्रिप = पु० कर्म०। हिन्तालवृक्षे राजनि०।

स्थिरायुस् = पु० स्थिरमायुर्यस्य। १ शाल्मलिवृक्षे असरः दीर्घकालस्थायित्वात्तस्य तथात्वम्। २ चिरजीविनि त्रि०।

स्थुड = वरणे तुदा० कुदा० पर० सक० सेट्। स्युडति अल्युङीत् तुस्थोड। षोपदेश एव न्याय्यः।

स्थूणा = स्त्री स्था–नक् ऊदन्तादेशः पृषो०। (खु~दी) १ मृहस्तम्भे “स्थूणावशेषं गृहम्” साहि० २ लौहप्रतिमायाञ्च अमरः

स्थूलानिखननन्याय = पु० न्यायशब्दोब्दे ४१७ पृ० न्यायभेदे।

स्थूर = पु० स्था–ऊरन् किच्च। १ वृषे संक्षिप्तसा०। २ मनुष्ये सि० कौ०।

स्थूरिन् = पु० स्था–ऊरन् किच्च स्थूरो वृषादिर्भारवाहकः स्थूरोऽस्त्यस्य सादृश्येन इति। वृषादिवत्पृष्ठेन भारवाहकेऽश्वे खरे च स्थूरस्य भावः अण् स्थौरं तदस्यास्ति इनि स्थौरीत्यप्यत्र अमरः।

स्थूल = वृंहणे अद० चु० उभ० अक० सेट्। स्यूलयति–ते अतुस्थूलत्–त। वह्वच्कत्वान्न सोपदेशः।

स्थूल = त्रि० स्थ्ल–अच्। १ पीवरे (मोटा) अमरः २ कूटे ३ समहे च न० मेदि०। ४ पनसे पु० राजनि०। ५ गजपिप्पल्याम् स्त्री शब्दच०। एवं ६ एवांरौ राजनि०। ७ वृहदेलायाञ्च रत्नमा० स्वार्थे क। पीवरे त्रि०। संज्ञायां कन् (उलुड) तृणभेदे पु० रत्नमालाकोषः।

स्थूलकङ्गु = पु० कर्म०। वरकधान्ये (वोरधान) राजनि०।

स्थूलकणा = स्त्री कर्म०। १ स्थूलजीरके राजनि० ६ ब०। २ पीनकणयुते त्रि०।

स्थूलकण्टक = पु० स्थूलः कण्टकोऽस्य। जालवर्वुरे राजनि० कप् अत इत्त्वम्। स्थूलकण्टकिका शाल्मलीवृक्षे स्त्री।

स्थूलकण्टा = स्त्री स्थूलः कण्टः कण्टकोऽस्याः। वृहत्याम् राजनि०।

स्थूलकन्द = पु० स्थूलः कन्दोऽस्य। १ रक्तलशुने २ शूरणे ३ हस्तिकन्दे ४ मानके च राजनि०।

स्थूलक्ष्वेड = पु० स्थूलः क्ष्वेडो यत्र। वाणे त्रिका०।

स्थूलचञ्चु = पु० स्थूला चञ्चुरिव शिस्वाऽस्य। १ महाचञ्चुशाके राजनि० २ वृहच्चञ्चुयुते त्रि०।

स्थूलजीरक = पु० कर्म०। जीरकभेदे (कालजिरा) भावप्र०।

स्थूलताल = पु० कर्म०। हिन्ताले राजनि०।

स्थूलत्वचा = स्त्री स्थूला त्वचा यस्य। काश्मर्थ्याम् राजनि०।

स्थूलदण्ड = पु० स्थूलो दण्डोऽस्य। देवनले राजनि०। स्थूलनालोऽप्यत्र।

स्थूलदर्भ = पु० स्थूलं दृढं दृभ्यतेऽनेन दृभ–थञ्। मुञे (मुज) राजनि०।

स्थूलदला = स्त्री स्थूलानि दलानि यस्याः। घृतकुमार्व्याम् राजनि०।

स्थूलनास = पुंस्त्री० स्थूला नासाऽस्य। १ शूकरे हेमच० स्त्रियां ङीष्। २ वृहन्नासायुते त्रि० स्त्रियां ङीप्। स्त्रियां टाप् स्थूलनासिकोऽप्यत्र।

स्थूलपट्ट = पु० स्थूलं पट्टं यस्मात्। कार्पासे शब्दर० तत्सूत्रजपट्टस्य स्थूलत्वात्तथामम्। पृषो० स्थूलपट्टाक तत्रार्थे पु० शब्दर०।

स्थूलपाद = पुंस्त्री० स्थूलाः पीनाः पादा अस्य नान्त्यलोपः समा०। १ गजे शब्दमा० स्त्रियां ङीष्। ७ त०। २ श्लीपदरोगे च।

स्थूलपुष्प = पु० स्थूलं पुष्पं यस्य। १ वकवृक्षे २ पर्वतजातापराजितायां स्त्री रत्नमा०। ३ यवतिक्तायां स्त्री राजनि० ङीप्।

स्थूलफल = पु० स्थूलं फलमस्य। १ शालमलीवृक्षे राजनि०। २ वृहत्फलान्विते त्रि०। ३ शणपुष्यां स्त्री राजनि०।

स्थूलभूत = न० कर्म०। येदान्तोक्ते प्रत्येकं पञ्चात्मकतामापन्ने पृथिव्यादौ भूते।

स्थूलमरिच = न० नित्यकर्म०। कल्लोले राजनि०।

स्थूलमूल = न०। ६ व०। चाणक्यमूले राजनि०।

स्थूललक्ष(क्ष्य) = त्रि० स्थूलं लक्षयति दानाय संकल्पते लक्षअण् स्थूलंलक्ष्यं वाऽस्य। बहुदातरि अमरः।

स्थूलवर्त्मकृत् = पु० स्थूलं वर्त्म कंरोति कृ–क्विप्। ब्राह्मणयष्टिकायाम् शब्दर०।

स्थूलवल्कल = पु० स्थूलं वल्कलमस्य। १ रक्तलोध्रे जटा०। २ स्थूलत्वचान्विते त्रि०।

स्थूलवृक्षफल = पु० स्थलस्य वृक्षस्येव फलमस्य। ऐग्धपिण्डीतकवृक्षभेदे (मयना) राजनि०।

स्थूलवैदेही = स्त्री विदेहे भवा अण् कर्म०। गजपिप्पल्याम् राजनि०।

स्थूलशाटक = पु० कर्म०। स्थूलवस्त्रे अमरः स्थूलशाटिकादयाऽप्यत्र स्त्री जटा०।

स्थूलशालि = पु० कर्म०। महाशालौ राजनि०।

स्थूलशीर्षिका = स्त्री स्थूलं शीर्षं यस्याः कप् अत इत्त्वम्। क्षुद्रपिपीलिकायाम् हेमच०। २ वृहन्मस्तकयुते त्रि०।

स्थूलषट्पद = पु० षट्पद इव स्थूलः राज०। वरेलायाम्

स्थूलस्कन्ध = पु० स्थूलः स्कन्धोऽस्य। लकुचे (मान्दार) राजनि०।

स्थूलहस्त = न० स्थूलः हस्त इवाकारेऽस्य। गजशुण्डे त्रिका०

स्थूलांशा = स्त्री स्थूलः अंशोऽवयवोऽस्याः। १ गन्धपत्रायाम् राजनि० २ स्थूलावयवे त्रि०।

स्थूलाम्र = पु० कर्म०। आम्रभेदे राजाम्रे राजनि०।

स्थूलास्य = पुंस्त्री० स्थूलमास्यं यस्य। १ सर्षे शब्दच० स्त्रियां जातित्वेऽपि योपधत्वात् टाप्। २ वृहस्मुखयुते त्रि०।

स्थूलैरण्ड = पु० कर्म०। वृहदेरण्डवृक्षे राजनि०।

स्थूलैला = स्त्री कर्म०। वृहदेलायाम् (वड एलाइच) राजनि०।

स्थूलोच्चय = पु० स्थूलानासुपलानासुच्चयो यत्र। १ गण्डशैले स्थूलस्य गजस्य उच्चयः। २ गजमध्यगतौ ३ वरण्डे ४ असा कल्ये मेदि० ५ गजदन्तच्छिद्रे च शब्दमा०।

स्थेय = पु० स्थीयते विवादनिर्णायकतयासौ स्था–कर्मणि यत्। विवादे १ संशयनिर्णायके (जुरी) २ पुरोहिते च मेदि० ३ स्थिरे त्रि० हेमच०।

स्थेयस् = त्रि० अतिशयेन स्थिरः ईयसुन् स्थादेशः। १ स्थिरतरे २ शाश्वते त्रि० भरतः। स्त्रियां ङीप्। इष्ठन् स्थेष्ठोऽप्यत्र त्रि०

स्थैर्य्य = न० स्थिरस्य भावः ष्यञ्। स्थिरतायाम्।

स्थौणेय(क) = पु० स्थूणायां तत्समोपे मवः ढक् दसञ् वा। ग्रन्थिपर्णनामगन्धद्रव्ये (गा~ठिमाला) अमरः। “स्थौणेगकं वहिंवर्हं शुकवर्हञ्च कुक्कुरम्। शीर्णं रोमशूकं चापि शुकपुष्पं शुकच्छदम्। स्थौणेयकं कदु स्वादु तिक्तं सिग्धं त्रिदोषनुत्। मेधाशुक्रकरं त्वच्यं रक्षोऽश्रीज्वरजन्तुजित्। हन्ति कुष्ठास्नतृड्दाहदौर्गन्ध्यतिलकासकान् ग्रन्थिपर्णस्यैव भेदो, भण्डि उर इति नेपालदेशे भवति। निशाचरो धनहरः कितवो गणहासकः। रोचको मधुरस्तिक्तः कर्टुः पाके कटुर्लघुः। तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफानिलान्। रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान्” भावप्र०।

स्थौल्य = न० स्थूलस्य भावः ष्यञ्। पीवरत्वे।

स्नपन = पु० स्ना–णिच्–पुक् ल्युट्। जलादिनाऽभिषेककरणे

स्नव = पु० स्नु–भावे अप्। १ सवर्णे २ क्षरणे च अमरः।

स्नसा = स्त्री स्नस–निरासे अच्। स्रायौ हेमच०।

स्नातक = पु० स्ना–भावे क्त स्नानं वेदाध्ययनानन्तरं समावर्त्तनाङ्गस्नानं तदस्यास्ति कन्, कर्त्तरि क्त स्वार्थे क वा। वेदाध्ययनानन्तरं गार्हस्थ्याय कृतसमावर्त्तनांङ्गस्नाने गृहस्थभेदे तच्च व्रतं मिता० आचराध्याये दर्शितं यथा “स्नानादारभ्य ब्राह्मणस्यावश्यं कर्त्तव्यानि विधिप्रतिनिषेधकात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्याह “न स्वाध्यायविरोध्यर्थमीह्नेत न यतस्ततः। न विरुद्धप्रसङ्गेन सन्तोषी च भवेत् सदा” याज्ञ०। ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः। अत्र विशेष उच्यते। स्वाध्यायविरुद्धमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत्। न यतस्ततो न यतः कुतश्चिदविदिताचारात्, न विरुद्धप्रसङ्गेन विरुद्धोऽयाज्ययाजनादिप्रसङ्गो नृत्यगीतादि विरुद्धं वा तत्र प्रसङ्गश्च विरुद्धप्रसङ्गः तेन नार्थमीहेत इति सम्ब ध्यते। तत्र आवृत्तिः प्रत्येकं पर्युदासार्था। सर्वत्राप्यस्मिन् स्नातकप्रकरणे नञ्शब्दः पर्युदासार्था एव। किञ्च। “अर्थालाभेपि सन्तोषी परितृप्तो भवेत्। चकारात् संयतश्च “सन्तोषं परमास्थाय सुखार्थी संयतो भवेत्” इति मनुस्नरणात्। कुतस्तर्हि धनमन्विच्छेदित्यत आह” मिता०। “राजान्तेवासियाज्येभ्यः सीदन्नच्छेद्धनं क्षुघा। दम्भि हैतुकपाषण्डिवकवृत्तींश्च वर्जयेत्” याज्ञ०। “क्षुधा सीदन् पीह्यमानः स्नातको राज्ञो विदितवृत्तान्तादन्तेवासिनो वक्ष्यमाणलक्षणाद्याज्याद्याजनार्हाच्च धनमाददीत। क्षुधा सीदन्नत्यमेन विभागादिप्राप्तकुटुम्बपोषणपर्य्याप्तधनो न काणवेमान्वच्छेदिति गम्यते। किञ्च। दम्मिहेतुकादीन् सकलकार्य्येषु लौकिकशास्त्रीयेषु वर्जयेत्। लोकरञ्जनार्थमेव कर्मानुष्ठायी दम्भी युक्षिबलेन सर्वत्र संशयकारी हैतुकः त्रैविद्यवृद्धापरिगृहीताम्रमिणः पाषण्डिनः। पकटदस्य वर्त्तनमिति वकवृत्तिः। यथाह मढः “अधो दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनी- तश्च वकवृत्तिरुदाहृतः” इति। प्रतिषिद्धसेविनो विकर्मस्याः विडालमार्जारस्तस्व स्वभावो व्रतं यस्यासौ वैडालव्रतिकः “धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः। वैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः” इति मनुस्मरणात्। चकाराद्विकर्मस्थवैडालब्रतिकशठान् यथाह मनुः “पाषण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान्। हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्” इति। शठः सर्वत्र वक्रः। एतैः संसर्गनिषेधादेव स्वयं एवंविधो न भवेदिति गम्यते” मिता०। किञ्च “शुक्लाम्बर धरोनीचकेशस्मश्रुनखः शुचिः। न भार्य्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः” याज्ञ० “शुक्ले धौते अम्बरे वाससी धारयतीति शुक्लाम्बरधरः। केशाश्च श्मश्रुणि च नखाश्च केशश्मश्रुनखन्नीचं कृत्त कशश्मश्रुनखं यस्यासौ तथाक्तः शुचिरन्तर्बहिश्च स्नानानुलेपधूपस्रगादिभिः सुगान्धिश्च भवेत्। यथाह गौतमः “म्नातको नित्य शुचिः सुगन्धिः स्नानशीलः” इति। सुगन्धवत्त्वविधानादेव निर्गन्धमाल्यस्य निषेधः। तथा च गोभिलः “नागन्धां स्रजन्धारयेदन्यत्र हिरण्यरत्नस्रजः” इति। “सदा स्नातक एवम्भूतो भवेत्” एतच्च सति सम्भवे “न जीर्णमलवद्वासा भवेच्च विभवे सतीति” मनुस्मरणात्। न च भार्याया दर्शने तस्यां पुरतोऽवस्थितायां नाश्नीयादवीर्यवदपत्योत्पात्तमयात् तथा च श्रुतिः “जायाया अन्ते नाश्नीयादवीर्य्यवदपत्यं भवति” इत्यतस्तया सह भोजनं दूरादेव निरस्तम्। न चैकवासाः। नापि संस्थितः उत्थितः अश्नोयादिति संवध्यते मिता०। “न संशयं प्रपद्येत नाकस्मादप्रियं वदेत्। नाहितं नानृतञ्चैव न स्तेनः स्यान्न बार्द्धुषी” याज्ञ०। “कदाचिदपि संशयं प्राणविपत्तिसशयावह कर्म न प्रपद्येत न कुर्य्यात्। यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि। अकस्मान्निःकारणं किञ्चिदपि परुषमप्रियम् उद्वेगकारि वाक्यं न वदेत्। न चाहितमनृत वा प्रियमपि। चकारादसभ्यं बीभत्सकरञ्चाकस्मन्न वदेदिति संबध्यते। एतच्च परिहासादिव्यतिरेवेण “गुरुणापि समं हास्यं कर्त्तव्यं कुटिलं विना” इति स्मरणात्। न च स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता स्यात् न बार्द्धुषी स्यात् प्रतिषिद्धवृद्धूपजीवी वाद्धुंषी न स्यात्” मिता०। “दाक्षायणी ब्रह्मसूत्री बेणुमान् स्रकरण्डलुः। कुर्य्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन्” याज्ञ०। दाक्षायणं सुवर्णं तदस्यस्तीति दाक्षायणी। ब्रह्मसृत्रे यज्ञोप्रवीतं यस्या- स्तीति ब्रह्मसूत्री वैणवयष्टिमान् कमण्डलुमान् स्यादिति सर्वत्र सम्बन्धनीयम्। अत्र ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्षचनं द्वितीयप्राप्त्यर्थमृ। यथाह वसिष्ठः “स्नातकानां द्वितीयं स्यादन्तर्वासस्तथोत्तरम्। यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः” इति। उत्र च दाक्षायणीति सामान्यामिधानेऽपि कुण्डलधारणमेव कार्य्यम् “वैणवीं धारयेद् यष्टिं सोदकञ्च कमण्डलुम्। यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले” इति मनुस्मरणात्। देवं देवप्रतिमां मृदमुद्धृताम्। गां ब्राह्मणं वनस्पतिं चाश्वत्थादिकं प्रदक्षिणं कुर्य्यात् एतान् दक्षिणतः कृत्वा व्रजेत्। एवञ्चतुष्पथादीनपि “मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्। प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन्” इति मनुस्मरणात् मिता०। “न तु मेहेन्नदीच्छायावर्त्मगोष्ठाम्बुभस्मसु। न प्रत्यग्न्यर्कगोसोमसन्ध्याम्बुस्त्रीद्विजन्मनः” याज्ञ०। “नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्य्यात्। एवं श्मशानादावपि यथाह शङ्खः “न गोमयकृष्टोप्वशाद्बलचिति श्मशानवर्त्मखलपर्वतपुलिनेषु मेहेत् भूताधारत्वादिति”। तथाग्न्यदीन् प्रति अग्न्यादीनामभिमुखं न मेहेत्। नाप्येतान् पश्यन् यथाह गौतमः “न वाय्वग्निविप्रादित्यापोदेवतागाश्च प्रति पशृन् वा मूत्र पुरीषामेध्यानि कुर्य्यान्न देवताः प्रति पादौ प्रसारयेत्”। एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्द्धाय मूत्रपुरीषे कुर्य्यादिति यथाह वशिष्ठः “परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्द्धाय मूत्रेपुरीषे कुर्यादिति” मिता०। “नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम्। न च मूत्रं पुरीषञ्च नाशुचीराहुतारकाः” याज्ञ०। “नैवार्कमोक्षेतेति यद्यपिसामान्येनोक्तं तथापि उदयास्तमयराहुग्रह्स्तोदकप्रतिबिम्बमध्याह्ववर्त्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा। यथोक्तं मनुना “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन। नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्” इति। उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत “न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात्” इत्याश्वलायनः। संसृष्ट मैथुनां कृतोपभोगाम्। उपभोगान्ते अनग्नामपि नेक्षेत। चकाराद्भोजनादिकर्माचरन्तीम्। तथा च मनुः “नाश्नीयाद् भार्य्यया सार्द्धं नैनामीक्षेत चाश्नतीम्। क्षुवन्तीं जृम्भमाणाञ्च न चासीनां यथासुखम्। नाञ्जयन्तीं खके नेत्रे न चाभ्यक्तामनावृताम्। न पश्येत् प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः” इति। मूत्रपुरीषे च न पश्येत्। तथा अशुचिः सन् राहुतारकाश्च न पश्येत्। चकारादुदके स्वप्रतिबिम्बम्। “न चोदके निरीक्षेत स्वरूपमिति धारणा” इति वचनात्” मिता०। “अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयन्। वर्षत्यप्रावृतो गच्छेत् स्वपेत् प्रत्यकशिरा न च” याज्ञ०। वर्षति सति अयं मे वज्रः पाप्मानमपहन्त्विति मन्त्रमुच्चारयन् अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत “न प्रधार्वच्च वर्षतीति” प्रति षेधात्। न च प्रत्यक्शिराः स्वप्यात्। चकारान्नग्नो न शयीत। एकश्च शून्यगृहे। “न च नग्नः शयीतेति” “नैकः स्वप्यात् शून्यगृहे” इति मनुस्मारणात्” मिता० “ष्ठीवनासृक् शवृन्मूत्ररेतांस्यप्सु न निक्षिपेत। पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत्” याज्ञ०। ष्ठीवनमुद्गिरणम्। असृग्रक्तम्। शकृत् पुरीषं शेषं प्रसिद्धम्। एतान्यासु न निक्षेपेत्। नापः पादेन ताडयेत्। एवन्तुषादीनपि। यथाह शङ्खः “तुषकेशकरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षेपेत्। न पादेन पाणिना वा जलमभिहन्यादिति”। अग्नौ च पादौ न प्रतापयेत्। नाप्यग्निं लङ्घयेत्। चकारात् ष्ठीयनानृग्नौ न क्षिपेत्। मुखोपधमनादि चाग्नेर्न कुर्य्यात् तथा च मनुः “नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम्। नामेध्यं प्रक्षपेदग्नौ न च पादौ प्रतापयेत्। न चैनं पादतः कुर्य्यान्न प्राणबाधमाचरेत्” इति मिता०। “जलं पिबेन्नाञ्जलिना न शयानं प्रवोधयेत्। नाक्षैः क्रीडेन्न धर्मघ्नर्व्याधितैर्वा न संविशेत्” याज्ञ०। “जलमञ्जलिना संहताभ्यां पाणिभ्यां न पिवेत्। जलग्रहणं पेयमात्रोपलक्षणम्। विद्यादिभिरात्मनोऽधिकं शयानं न प्रवोधयेत् नोत्थापयेत् “श्रेयांसन्न प्रवोधयेदिति” विशेषात्। अक्षादिभिर्न्न क्रीडेत। धर्मघ्नैः पशुलङ्घनादिभिः कर्मभिर्न्न क्रीडेत्। व्याधितैर्ज्वराद्यभिभूतैरेकत्र न संविशेत् न शयीत” मिता०। “विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम्। केशमस्मतुपाङ्गारकपालेषु च संस्थितिम्” याज्ञ०। “जनपदकुलाचारग्रामविरुद्धञ्च कर्म वर्जयेत्। प्रेतधूमं वाहुभ्यां नदीतरणञ्च वर्जयेदिति संबध्यते। वेशादिषु संस्थितिं वर्जयेत्। चकारादस्थिकार्पासामेध्येषु च” मिता०। “नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित्। न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्त्तिनः” याज्ञ०। “परस्य क्षीरादि पिबन्तीं गां परस्मै माचक्षोत न च निवर्चयेत्। अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत्। न कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः सकाशात् प्रतिगृह्णीयात्” मिता०। “प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः। दुष्टा दशगुणं पूर्वात् पूर्वादेते यथाक्रमम्” याज्ञ०। प्रतिग्रहेषु साध्येषु सूत्यादयः पञ्च पूर्वस्मात् पूर्वस्मात् परःपरो दशगुणं दुष्टाः। सूनाप्राणिहिंसा सा अस्याऽस्तीति सूनी प्राणिहिंसापरः चक्री तैलिकः। ध्वजी सुराविक्रयी। वेश्या पण्यस्त्री। नराधिपः अनन्तरोक्तः” मिता०।

“देवत्विक्स्नातकाचार्य्यराज्ञां छायां परस्त्रियाः। माक्रमेद्रक्तविण्मुत्रष्ठीवनोद्वर्त्तनादि च” याज्ञ०। “देवाना मृत्विक् स्नातकाचार्य्यराज्ञां परस्त्रियाश्च छायां नाक्रामेत् नाधितिष्ठेन्न लङ्घयेद् बुद्धिपूर्वम् यथाह मनुः “देवतानां गुरो राज्ञः म्नातकाचार्य्ययोरपि। नाक्रामेत् कामतश्छायां वभ्रुणो दीक्षितस्य च” इति। वभ्रुणो नकुलवर्णस्य यस्य कस्य चिद्गारन्यस्य वा सोमादेर्वभ्रुण इति नपुंसकलिङ्गनिर्देशात्। रक्तादीनि च नाधितिष्ठेत्। आदिग्रहणात् स्नानोदकादेर्ग्रहणम् “उद्वर्त्तनमपःस्नानं विण्म्त्रं रक्तमेव च। श्लेष्मनिष्ट्यूतवान्तानि नाधितिष्ठेत कामतः” इति मिता०। “विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन। आमृत्योः श्रियमाकाङ्क्षेन्न कञ्चिन्मर्मणि स्पृशेत्” याज्ञ०। “विप्रो बहुश्रुतोऽहिः सर्पः क्षत्रिया नृपतिः। एते कदाचिदपि नावमन्तव्या आत्मा च स्वयं नावमन्तव्यः। आमृत्योर्यावज्जीवं श्रियमिच्छेन्न कञ्चिन्मर्मणि स्पृशेन्न कस्यचिदपि मर्म दुश्चरितं प्रकाशवेत्” मिता०। “दूरादुच्छिष्टविणमुत्रपादाम्भांसि ससुत्सृजेत्। श्रुतिस्मत्युदितं सम्यक् नित्यमाचारमाचरेत्” याज्ञ०। “भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनजलञ्च गृहाद् दूरात् समुत्सृजत्। श्रौतं स्मार्त्तं चाचारं नित्यं सम्यगनुतिष्ठेत्” मिता०। “गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत्। न निन्दाताडने कुर्य्यात् पुत्रं शिष्यं च ताडयेत्” याज्ञ०। गां ब्राह्मणमग्निमन्नमदनीयं विशेषतः पक्वमशुचिर्न स्मृशेत्। पादेन त्वनुच्छिष्टोऽपि “यदा पुनः प्रमादात् स्पृशति तदाचमनोत्तरकालं मनूक्तं कार्य्यम् “स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत्। गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु” इति एवं प्राणादीनुपस्पृशेत्। कस्यचिदपि निन्दाताडने न कुर्य्यात्। एतच्चानपकारिणः “अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगन्ततः। दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः” इति। पुत्रशिष्यौ शिक्षार्थमेव ताडयेत्। चकाराद् दासादीनपि। ताडनञ्च रज्वादिनोत्तमाङ्ग व्यतिरेकेण कार्य्यम् “शिष्यशिष्टिरबधेनाशक्तौ रज्जु येणुदलाभ्यां तनुभ्यामन्येन घ्नत् राज्ञा शास्यः” इति गोतमवचनात्। “पृष्टतस्तु शरीरस्य नोक्तमाङ्गे कथञ्चन” इति मनुवचनात्” मिता०। “कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत्। अस्वर्ग्यं लोकविद्विष्टं धर्ममप्याचरेन्न तु” याज्ञ०। कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत्। तमेव मनसा ध्यायेत्। वाचा वदेत्। धर्मं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजनकं मधुपर्के योबवादिकं नाचरेत्। यस्मादस्वर्ग्यमग्नोषोमीयवत् स्वर्गसाधनं न भवति” मिता०। “मातृपित्रतिथिभ्रातृजामिसम्बन्धिमातुलैः। वृद्धबालातुराचार्य्य वैद्यसंश्रितबान्धवैः। ऋत्विक्पुरोहितापत्यभार्य्यादाससनाभिभिः। विवादं वर्जयित्वा तु सर्वा~ल्लोकाञ्जयेद् गृही” याज्ञ०। माता जननी। पिता जनकः। अतिथिरध्वनीनः। भ्रातरो भिन्नोदरा अपि। जामयो विद्यमानभर्त्तृकाः स्त्रियः। सम्बन्धिनो वैब ह्याः। मातुलो मातुर्भ्राता। वृद्धः सप्तत्युत्तरवयस्कः। बालः आषोडशाद्वर्षात्। आतुरो रोगी। आचार्य्य उपनेता। वैद्यो विद्वान् भिषग्वा। संश्रित उपजीवी। बान्धवाः पितृपक्षा मातृपक्षाश्च। मातुलस्य पृथगुपादानम् आदरार्थम्। ऋत्विग्याजकः। पुरोहितः शान्त्यादेः कर्त्ता। अपत्यं पुत्रादि। भार्य्या सहधर्मचारिणी। दासः कर्मकरः। सनाभयः सोदराः भ्रातृभ्यः पृथगुपादनं अजामिभगिनीप्राप्त्यर्थम्। एतैर्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजापत्यादीन् लोकान् प्राप्नोति”। “पञ्चपिण्डाननुद्धृत्य न स्नायात् परवारिणि। स्नायान्नदीदेवखातह्रदप्रस्रवणेषु च” याज्ञ०। परवारिषु परसम्बन्धिषु सर्वस्वत्वोद्देशेन त्यक्तेषु तडागादिषु पञ्चपिण्डिनिनुद्धृत्य न स्नायात्। अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धरमन्तरेणापि स्नानमभ्यनुज्ञातम्। नद्यादिषु कथं तर्हीत्याह स्नायान्नदीति। साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः। देवखातं देवनिर्मितं पुष्करादि। उदकप्रवाहाभिघातकृतजलो महानिम्नप्रदेशो ह्रुदः। पर्वताद्युच्चप्रदेशात् प्रस्रुतम् उदकं प्रस्नवणं एतेषु पञ्चपिण्डानुद्धरणेनैव स्नायात्। एतच्च नित्यस्नानविषयम् सति सम्भवे “?न}दीषु देवखातेषु तडागेषु सरःसु च। स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु च” इति नारदस्मरणात्। शौचा। द्यर्थन्तु यथासम्भवं परवारिषु पिण्डानुद्धरणेऽपि सर्वस्य न निषेधः” मिता०। “परशय्यासनोद्यानगृहयानानि वर्जयेत्। अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि” याज्ञ०। शय्या कशिपुः। आसनं पीठादि। उद्यानमाम्रवणादि। गृहं प्रसिद्धन्। यानं रथादि परसम्बन्धोन्ये तान्यदत्तान्यननुज्ञातानि वर्जयेन्नापभुञ्जीतः अभोज्यान्नान्याह। अग्निहीनस्येति। श्रौतस्मार्त्ताग्न्यधि काररहितस्य शूद्रस्य प्रतिलोमजस्य बाधिकारवतोऽप्यग्निरहितस्यान्नमनापदि न भुञ्जीत न प्रतिगृह्णायाच्च। “तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत गृह्णीयांच्चेति” गौतमवचनात्” मिता०। “कदर्य्य वद्धचौराणां क्लोवरङ्गावतारिणाम्। वैणाभिशस्तबार्द्धुष्य गणिकागणदोक्षिणाम्” याज्ञ०। कदर्य्यो लुब्धः “आत्मानं धर्मकृत्यञ्च पुवदारांश्च पीडयेत्। लोभाद् यः पितरौ भृत्यान् स कदव्ये इति स्मृतः” इत्युक्तः। बद्व्हो निगडा दिना वाचा सन्निरुद्धश्च। चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी। क्लीवो नपुंसकः। रङ्गावतारो नटचारणमल्लादिः। वेणुच्छेदजीवो वैणः। अभिशस्तः पतनीयैः कर्ममिरभियुक्तः। वाद्र्वुष्यो निषिद्धवृद्ध्युपजीवी। गणिका पण्यस्त्री गणदीक्षी बहुयाजकः। एतेषामन्नं नाश्रीयादित्यनुवर्त्तते” मिता०। “चिकित्सकातुरक्रुद्ध पुश्चलीमत्तविद्विषाम्। क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम्” याज्ञ०। “चिकित्सकोभिषग्वृत्त्युपजीवी। आतुरा महारोगोपसृष्टः। “वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः। अर्शांसि ग्रहणोत्यष्टौ महारोगाः पसीर्त्तिताः” इति। क्रुद्धः कुपितः! पुंश्चली व्यभिचारिणी। मत्तो विद्यादिना गर्वितः। विद्विट् शत्रुः। क्रूरो दृढाभ्यन्तरकोपः। वाक्कायव्यापारेणोद्वेजकः उग्रः। पतितो ब्रह्महादिः। व्रात्यः पतितसावित्रीकः। दाम्भिको वञ्चकः। उच्छिष्टभोजी परभुक्तोज्झिताशो। एतेषाञ्चिकित्सकादीनामन्नं नाश्नीयात्” मिता०। “अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम्। शस्त्र विक्रयकर्मारतन्तुवायश्ववृत्तिनाम्” याज्ञ०। “अवीरास्त्रो स्वतन्त्रा व्यभिचारमन्तरेणापि। पतिपुत्ररहितेत्यन्ये। स्वर्णकारः सुवर्णस्य विकारान्तरकृत्। स्त्रीजितः सर्वत्र स्त्रीवशवर्द्धी। ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता वहूना- मुपनेता च। शस्त्रविक्रयी शस्त्रविक्रयोपजीवी। कर्मारो लोहकारः तक्षादिश्च। तन्तुवायः सूचीशिल्पोपजीवी। श्वभिर्वृत्तं जीवनमस्यास्तीति श्ववृत्ती। एतेषामन्नं नाश्नीयात्” मिता०। “नृशंसराजरजककृतघ्नवधजोविनाम्। चैलधावसुराजोवसहापपतिवेश्मताम्। पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम्। एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा” याज्ञ०। “नृशंसो निर्दयः। राजा भूपतिः। तत्साहचर्य्यात्पुरोहितश्च। यथाह शङ्खः “भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुराहितान्नानि वर्जयेत्”। रजको वस्त्रादीनां नीलादिरागकारकः। कृतध्न उपकृतस्य हन्ता। बधजीवी प्राणिनां बधेन वर्त्तकः। सुराजीवी मद्यविक्रयजीवी। उपपतिर्जारः सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्मा। पिशुनः परदोषस्य ख्यापकः। अनृती मिथ्यावादी। चाक्रिकस्तैलिकः। शाकटिकश्चेत्येके “अभिशस्तपतितचाक्रिकतैलिकः” इति भेदेनाभिधानात्। वन्दिनः स्तावकाः सामविक्रयी सोमलताया विक्रेता। एतेषामन्नं न भोक्तव्यम्। सर्वे चैते कदर्व्यादयो द्विजा एव कदर्य्यत्वादिदोषदुष्टा अभोज्यान्ना इतरेषां प्राप्त्यभावात् प्राप्तिपूर्वकत्वाच्च प्रतिषेधस्य। अग्निहीनस्य नान्नमद्यादनापदींत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तम्। तत्र प्रतिप्रसवमाह” मिता०। “शूद्रेषु दासगोपालकुलमित्राद्धेसीरिणः। भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्” याज्ञ०। “दासागर्भदासादयः गोपालो गवां पालकः गवां पालनेन यो जीवति। कुलमित्रं पितृपितामहादिक्रमागतः। अर्द्धसीरी हलपर्य्याय सीरापलक्षितकृषिफलभागग्राही। नापितः गृहव्यापारकारयिता नापितश्च। यश्च वाङ्मनःकायकर्ममिरात्मानं निवेदयति तवाहमिति। एते दासादयः शूद्राणां मध्ये भोज्यान्नाः। चकारात् कुम्भकारश्च। “गोपनापितकुम्भकारकुलमित्रार्द्धिकनिवेदितात्मानो भोज्यान्ना” इति वचनात्। स्नातकश्च त्रिविधः व्रतस्नानतकः विद्यास्नातकः उभयस्नातकश्चेतिभेदात्। तत्र विहितकालपर्य्यन्तं व्रह्मचर्य्यं कृत्वा वेदमसमाप्यैव व्रतकालोत्तरं कृतसमावर्त्तन आद्यः। विहितकालमध्येऽपि वेदविद्यां लब्ध्वा स्नातो द्वितीयः। विहितकालपर्थ्यन्तं ब्रह्मचर्य्यं कृत्वा वेदमक्षब्ध्वा तं लब्ध्वैव तत्कालोत्तरं कृतस्नानस्तृतीयः।

स्नातकव्रत = न० ६ त०। स्नातककर्त्तव्ये स्मृत्युक्ते व्रतभेदे “अलाभे चैव कन्यायाः स्नातकव्रतमाचरेत्” स्मृतिः।

स्नान = न० स्ना–भावे ल्युट्। १ शोधने २ अवगाहने ३ मज्जने च तच्च मन्त्रादिकारणभेदादष्टविधं आ० त० तत्प्रकारभेदादिकं च दर्शितं यथा “दक्षः “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत्। तिलपुष्पकुशादीनि स्नानार्थञ्चाकृत्रिमे जले”। कुर्य्यादिति शेषः। तथा च “अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्त्वा च यो नरः। देवादीनामृणी भूत्वा नरकं प्रतिपद्यते”। “अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन। लालास्वेदसमाकीर्णः शयनादुत्थितः पुमान्। अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः। स्रवत्येव दिवारात्रौ प्रातःस्नानं विशोधनम्। प्रातःस्नानं प्रशसन्ति दृष्टादृष्टफ हि तत्। सरमर्हति पूतात्मा प्रातःस्नायी जपादिनाम् अज्ञानाद् यदि वा मोहात् रात्रौ दुश्चरितं कृतम्। प्रातः स्नानेन तत् सर्वं शोधयन्ति द्विजातयः”! दृष्टं मलापकर्षादि अदृष्टं प्रत्यवायपरीहारादि। प्रातः सूर्य्योदयात् प्राक्कालः “प्रातः स्नाय्यरुणकिरणग्रस्तां प्राचीमवलोक्य” इति विष्णूक्तेः। प्रातःस्नाने मध्याह्नस्नानधर्मातिदेशमाह कात्यायनः “यथाहनि तथाप्रातर्नित्यं स्नायादनातुरः। दन्तान् प्रक्षाल्य नद्यादौ गेहे चेत्तदमन्त्रवत्”। यथा तथेतिकर्त्तव्यतया। सा च “आचरेदुषसि स्नानं तर्पयेद्देवमानुषान्” इति जावाल्युक्ता। वैदिके कर्मणि वामहस्ते वहुतरकुशान् दक्षिणेन पवित्रं धारयेत्। तथा च छन्दोगपरिशिष्टम् “ह्रस्वाः प्रचरणीयाः स्युः कुशा दीर्घाश्च वर्हिषः। दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकर्मसु। सव्यः सोपग्रहः कार्य्यो दक्षिणिः सपवित्रकः”। प्रचरणीयाः पार्वणपञ्चयज्ञादिकर्मानुष्ठानार्हाः। बर्हिषः यज्ञाद्यास्तरणार्थाः। यत स्तत्तत्कमंसु कुशविशेषा उक्ताः। अतः सन्ध्यादिकर्मसु अवस्थाविशेषशून्याः कुशाः पवित्रम्। सोपग्रहः बहुतरकुशयुक्तः सपवित्रको विशिष्टद्विदलयुक्तः। विशेषमाह स एव “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च। प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्”। अनन्तर्गर्भिणं अन्तर्गर्भशून्यम्। तथा च शौनकः “अनन्तस्तरुणौ यौ तु कुशौ प्रादेशसम्मितौ। अनखच्छेदिनौ साग्रौ तौ पवित्राभिधायकौ”। “एतदभावे कुशपत्रचतुष्टयं त्रय वा समुद्रकरधृतवचनात। तद् यथा “चतुर्भिर्दर्भपत्रैश्च त्रिभिर्द्वाभ्यामथापि वा। पवित्रं कारयेन्नित्यं प्रशस्तं सर्वकर्मसु”। विद्याकरवाजपेयिधृतम् “पावत्रन्तु द्विजः कुर्य्यात् कुशपत्रद्वयेन वा। पत्रत्रयेण वा कार्य्यं नैकपत्रण कुत्रचित्”। एतद्दर्शनात् दर्भापवित्रमित्यत्रैवमपि व्याख्येयस् मार्कण्डेयः “सर्वकालं तिलैः स्नानं पुण्यं व्यासोऽव्रवीन्मुनिः। श्रीकामः सर्वदा स्नानं कुर्वीतामलकैर्नरः। सप्तनीं नवमीञ्चैव पर्वकालञ्च वर्जयेत्”। विष्णुधर्मोत्तरे “त्वराक्रोधौ तथा वर्ज्यौ देवकर्मणि पण्डितैः। इक्षुरापः पयश्चैव ताम्बूलं फलमौषधम्। भक्षयित्वा तु कर्त्तव्याः स्नानदानादिकाः क्रियाः”। भविष्योत्तरे “स्नातुस्तु वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्। भुञ्जानस्य यमस्त्वायुस्तस्मान्न व्याहरेत् त्रिषु”। स्नातुः स्नानं कुर्वतः। अशुचेरवगाहनानन्तरं स्नानमाह योगियाज्ञवल्क्यः “तूष्णीमेवावगाहेत यदा चेदशुचिर्नरः। आचम्य तु ततः पश्चात् स्नानं विधिवदाचरेत्”। वामनपुराणम् “नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा द्विजः। निरुध्य कर्णौ नासाञ्च त्रिःकृत्वो मज्जनं ततः”। तत्रैव वृद्धयाज्ञवल्क्यः “स्रीतसां संमुखो मज्जेत् यत्रापः प्रवहन्ति वै। स्थावरेषु गृहे चैव सूर्य्यसम्मुख आप्लवेत्”। हारीतः “नातुरो न भुक्त्वा न जीर्णवासा न बहुवासा न नग्नी नाश्नन् नावसक्थिको नालङ्कृतो नाजस्रं नाज्ञाते जले नाकुले नाशुचौ न प्रभूतजले न नाभ्रल्पजले न चत्वरे नोपद्वारे न सन्ध्यायां न निशायां स्नायादिति”। चत्वरे काकादिवलिस्थले इति श्रीदत्तः। उपद्वारे द्वारसमीपे। अत्रैकेन मुनिना नग्नबहुवाससोर्निषेघस्याभिधानात् स्नाने द्विवासस एवाधिकारः प्रतीयते। एकवस्त्रस्नाने दोषमाह समुद्रकरधृतभविष्ये गोतमः “एकवस्त्रेण यतस्नानं मूच्या विद्धेन चैव हि। स्नातस्तु न भवेत् शुद्धः श्रिया च परिहीयते”। अतएव “स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा” इति यदि समूलं तदा प्रेततर्पणपरमिति “तत्रैकवस्त्रा ज्ञातयः” इत्यादिना एकवस्त्रत्वावधानात् “एकेन एकजातीयेन” इति वाचस्पतिमिश्राः। “येन वाससा स्नानं कृतं जलस्थस्य तेनव तर्पणम्” इति कृत्यतत्त्वार्णवः। न च “स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशुद्धये। जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञानदुर्वलः। निष्पीडयति यद्वस्त्रं स्नानं तस्य वृथा भवेत्” इति वशिष्ठवचने स्नानशाट्यामिति तद्वस्त्रमिति एकवचननिर्देपेन च सानेऽप्येकवस्त्रत्वमिति वाच्यम् अ व विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्र येण प्रक्षालणं नतूत्तरीयस्य एतदर्थमेकवचनम्। अतएव “मृत्त्रयेणाधरीयवस्त्र” प्रक्षाल्यं वशिष्ठवचनैकवाक्यतया। इत्याह्निकचिन्तामणिः। “म्नातो नाङ्गानि निर्मृज्यात् स्नानशाट्या न पाणिना” इति विष्णुपुराणीयेनाधरीयवस्त्रेणैव गात्रमार्जनं निषिध्यते। “एतेन निष्पीद्ध्य स्नानवस्त्रमिति” कात्यायनवचने एकत्वमविक्षितमिति निरस्तम्। अतएव सर्वत्रैकत्वं निर्दिष्टम्। शिष्टानाम् आचारोऽपि तथा इति। “नाजस्रमिति पुनः पुनः स्नाननिषेधः रागप्राप्तस्नानविषयो दृष्टार्थकत्वात्। एवञ्चैकस्मिन् दिने नानातीर्थादिनिमित्तप्राप्तस्नानावृत्तिर्भवत्येव वैधत्वात्। अत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकृदेविते। अहः स्नानप्रधानकालमाह दक्षः “चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत्। तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले”। विष्णुः “कुशाभावे कुशस्थाने काशं दूर्वा वा दद्यादिति विद्याकरधृतम् “तर्जनी रूप्यसंयुक्ता हेमयुक्ता त्वनामिका। सैव युक्ता तु दर्मेण कार्य्या विप्रेण सर्वदा”। मतस्य सूक्ते “शस्ताः समूला दर्भाश्च गुच्छेन चाधिकं फलम्। सव्यः गोपग्रहः कार्य्यो दक्षिणः सपवित्रकः” इति रोगिणश्चाण्डालादिस्पर्शोऽपि न दोषायेत्थाह रत्नाकरे वृहस्पतिः “तीर्थे विवाहे यात्रायां संग्रामे देशविल्पवे। नगरग्रामदाहे च स्पृष्टास्पृष्टि न दुष्यति। आपद्यपि च कष्टायां रुग्भये र्पडने सदा। मातापित्रोर्गुरोश्चैव निदेशे वर्त्तने तथा”। स्पृष्टास्पृष्टीत्यव्ययम क्रियाव्यतिहारे। तथेति न दुष्यतीत्यर्थः। गारुडे “सर्वतीर्थाभिषेकाद्धि पवित्रं विदुषां वचः। धर्मश्रवणवेलायां विप्रो व्याससमः स्थितः”। तथाविधातुरं प्रति जावालः “अशिरस्कं भवेत् म्नानं स्नानाशक्तौ तु कर्मिणाम्। आर्द्रेण वाससा वापि दैहकं मार्जनं स्मृतम्” कर्मिणाम् “शिरः स्नातस्तु कुर्वीत देवं पैत्र्यमथापि वा” इति मार्कण्डेयपुराणोक्तकर्म चिकीर्षूणां मार्जनमिहप्रोञ्छनं, योगियाज्ञवल्क्यः “असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया। मान्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः। मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसञ्चैव सप्त स्नानं प्रकीर्त्तितम्। “आपी हिष्ठेति” वै मान्त्रं मृदालम्भस्तु पार्थिवम्। आग्नेयं भस्मना सानं वायव्यं गोरजः स्मृतम्। यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते। वारुणञ्चावगाद्यङ्घ मानसं विष्णु- चिन्तनम्। समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेद्य तु। कालदोषादसामर्थ्यात् सर्वं तस्य फलं स्मृतम्”। आपो हिष्ठेति अपो हिष्ठादि ऋक्त्रयमत्र विवक्षितम्। एवञ्च “कालदोषादसामर्थ्यात् न शक्नोति यदाम्भसि। तदा ज्ञात्वा तु ऋषिभिर्मन्त्रैर्दृष्टन्तु मार्जनम्। शन्न आपस्तु १ द्रुपदा २ आपो हिष्ठा ३ऽथमर्षणम् ४। एभिश्चतुर्भि रृग्मन्त्रैर्मन्त्रस्नानमुदाहृतम्। इति योमिश्राज्ञवल्कीयंयन्मन्त्र स्नानान्तरं तत् प्राधान्यख्यापनाय। अतएव पितृदयितायां सन्ध्यातः पूर्वं तल्लिखितम्। मृदालम्भस्तु गङ्गामृत्तिकातिलकरूपः। भस्मना संस्कृतभस्मना इति छन्दोगाह्निकः। अवगाह्यं मन्त्राड्यङ्गशून्यावगाहनमात्रं विवक्षितम् अतो मुख्यावगाहनरूपस्नानानुकल्पत्वमप्युक्तम्। कालदोषोऽतिवृष्ट्यादिः असामर्थ्यं शरीरापाटवहेतुः अल्पत्वेन सम्पूर्णवारुणस्नानविधिकालायोग्यत्वं वेतिं। एतन्मूलकं “गेहे चेत्तदमन्त्रवदिति” छन्दोगपरीशिष्टीयं प्रागुक्तम् अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः सामर्थ्ये तूद्धृतजलेनापि समन्त्रकस्म्नमाह पराशरभाष्ये व्यासः “शीतास्त्वपो निषेव्योष्णा मन्त्रस म्भारसंस्कृताः। गेहेऽपि शस्यते सानं तद्धीनमफल स्मृतम्”। पद्मपुराणम् “नैर्मल्यं भावशुद्धिश्च विना म्नानं० न जायते। तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते। अनुद्धृतै रुद्धृतैर्वा जलैः स्नानं सदाचरेत्। तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित्। नमो नारायणायेति मूलमन्त्र उदाहृतः। दर्मपाणिस्तु विधिजा आचान्तः प्रयतः शुचिः। चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः। प्रकल्प्यावाहयेद्गङ्गां गभिर्मन्त्रैविचक्षणः”। काशीख० अन्यप्रकारो दर्शितो यथा “प्रातःस्नानं चरित्वाथ शुद्ध्यै तीर्थे विशेषतः। प्रातःस्नानाद् यतः शुद्ध्येत् कायोऽयं गलिनः सदा। छिद्रितो नवभिश्छिद्रैः स्नवत्येव दिवानिशम्। उत्साहमेधासौभान्यरूपसम्पत्प्रवर्त्तकम्। मनाप्रसन्नताहेतुः प्रातःस्नानं विशिष्यते। प्रस्वेदलालाद्याक्लिन्नो निद्राधीनो यतो नरः। प्रातःस्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु। प्रातः प्रातस्तु यः स्नानं संजाते वारुणोदये। प्राजापत्यसमं प्राहुस्तन्महाघविधातकृत्। प्रातःस्नानं हरेत् पापमलक्ष्मीं ग्लानिमेव च। अशुचित्वञ्च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति। नोपसर्पन्ति वै दुष्टाः प्रातःस्नायिजनं क्वचित्। दृष्टादृष्टफलं तस्मात् प्रातः- स्नानं समाचरेत्। प्रसङ्गतः स्नानविधिं वक्ष्यामि कलसो द्भव!। विधिस्नानं यतः प्राहुः स्नानाच्छतगुणोत्तरम्। विशुद्धां मृदमादाय वर्हींषि तिलगोमयम्। शुचौ देशे परिस्थाप्य चाचम्य स्नानमाचरेत्। उपग्रही वद्धशिस्वो जलमध्ये समाविशेत्। उरूस्पाहीति मन्त्रेण तोयमावर्त्त्य सृष्टितः। ये ते शतं ततो जप्यात् तोयस्या मन्त्रणाय च। सुमित्रायानो मन्त्रेण पूर्वं कृत्वा जलाञ्जलिम्। क्षिपेद् द्वेष्यं समुद्दिश्य जपन् दुर्मत्रिया इति। इदं विष्णुरिदं जप्त्वा लिम्पेदङ्गानि मृत्स्नया। मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि। नाभेरधस्तु तिसृभिः पादौ षड्भिर्विशोधयेत्। मज्जेत् प्रवाहाभिमुख आपो अस्मानिम जपन्। उदित्राभ्यः शुचि रिति मन्त्र उन्मज्जने मतः। मानस्तोकमिमं जप्त्वा लिम्पेद्गात्राणि गोमयैः। इमं मे वरुणेत्यादिमन्त्रैः स्वात्माभिषेचनम्। तत्त्वा यामि तथा त्वन्नः स त्वन्नश्चाप्युदुत्तमम्। धाम्नाधाम्नस्तथामापो मौषधीरिति संजपेत्। यदा दुरघ्न्या मुञ्चन्तु सेतिमावमृतेति च। अष्टावेता इमे मन्त्राः प्रोक्ताः स्वात्माभिषेचने। प्रणवेन ततो विप्रो महाव्याहृतिभिस्ततः। आत्मानं पावयेद्विद्वान् गायत्र्या च ततः कृती। आपो हिष्ठेति तिसृमिः प्रत्यृचं पावनं स्मृतम्। एते वै पावना मन्त्रा इदमाप्नोह्वविष्मती। देवीराप आपो देवा द्रुपदादिवसंज्ञकः। शन्नो देवी रपो देवीरपाञ्च वरमित्यपि। पुनर्नमेति च नव पावमान्यः प्रकीर्त्तिताः। ततोऽघमर्षणं जप्त्वा द्रुपदां च ततो जपेत्। प्राणायामं च विधिवदथ वान्तर्जलं जपेत्। प्रणवं त्रिर्जपेद्वापि विष्णुं वा संस्मरेत् सुधीः। स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी”।

स्नानतृण = न० स्नानार्थें तृणम्। कुशे शब्दर०।

स्नानीय = त्रि० स्नानाय हितम् छ। स्नानसाधने तैलोद्वर्त्तनादौ

स्नायु = स्त्री स्नाति–शुध्यति दोषोऽनया स्ना उण्। शरीरादिबन्धननाडीमेदे तत्स्वरूपसंख्यादि भावप्र० उक्तं यथा “तत्र स्नायोः स्वरूपमाह। मेदसः स्नेहमादाय सिरा स्नायुत्वमाप्नुयात्। सिराणां हि गृदुः पाकः स्नायूनान्तु ततः खरः। स्नायवो बन्धनानि स्युर्देहमांसास्थि मेदसाम्। सन्धीनामपि यत्तास्तु सिराम्यः सुदृढाः स्मृताः। नीर्यथा फलकास्तीर्णा बन्धने बहुमिर्युता। मिर्मुक्ताऽगाधसलिले भवेद्भारसहा भृशम्। एवमेव शरीरऽस्मित् यावन्तः सन्धया स्मृताः। स्नायुभिर्बहुमिर्बेद्धा स्तेन भारसहा नराः”। फलकै काष्ठपट्टैः सस्तीर्णा व्याप्ताः “शतानि नव जायन्ते शरीरे स्नायवो नृणाम्। तासां विवरणं ब्रूमः शिष्याः शृणुत यत्नतः। शाखासु षटशतानि स्त्रुः कोष्ठे त्रिंशत् शतद्वयम्। ग्रीवायां मूर्द्धदेशे तु स्नायूनां सप्ततिः स्मृताः”। तत्र शाखागताः प्राह। एकैकस्यां प दाङ्गल्यां षट् षट् तास्त्रिंशत्। तावन्त्य एव तलकूर्चगुल्फेषु। तावन्त्य एव जङ्घायां दश जानुनि। चत्वारिंशदूरौ। दश वङ्क्षणे। एवं सार्द्धशतमेकस्मित् सक्थिनि भवन्ति। एतेनेतरसक्थि वाहू च व्याख्यातौ। अथ कोष्ठगताः प्राह षष्टिः कट्यां तावन्त्य एव पार्श्वयोः। अशीतिः षट्त्रिंशदुरसि। अथ ग्रीवोर्द्धगताः प्राह षट् त्रिंशद् ग्रीवायाम्। चतुस्त्रिशन् मूर्घ्नि एवं स्नायूनां नवशतानि भवन्ति”।

स्नायुरोग = पु० ६ त०। स्नायुस्थे रोगभेदे तन्निदानादि भावप्र० उक्तं यथा “तत्र स्नायुरोगस्य विप्रकृष्टं सामान्यलक्षणमाह “शाखासु कुपितो दाषः शोथं कृत्वा विसर्पवत्। भित्त्वैव तं क्षते तत्र सोष्ममांसं विशोष्य च। कुर्य्यात्तन्तुनिभं सूत्रं तत्पिण्डैस्तक्रसक्तुजैः। शनैः शनैः क्षताद् याति छेदात्तत्कोपमावहेत्। तत्पाताच्छोथशान्तिः स्यात् पुनः स्थानान्तरे भवेत्। स्नायुरोग इतिख्यातः क्रियोक्तात्र विसर्पवत्। वाह्वोर्यदि प्रमादेन त्रुद्यते जङ्घयोरपि। सङ्कोचं खञ्जताञ्चापि छिन्नो नूनं करोत्यसौ”।

स्नाय्वर्म्मन् = न० नेत्ररोगभेदे “स्थिरं प्रस्तारिमांसाढ्यं शुष्कं स्नाष्वर्म पञ्चमम्” माधवनिदानम्।

***