स्कद = उत्प्लुत्य गतौ अक० उद्धृतौ आप्लावे च सक० भ्वा० आ० सेट् इदित्। स्कन्दते अस्कन्दिष्ट।
स्कन्द = समाहारे अद० च० उभ० सक० सेट्। स्कन्दयति ते अचस्कन्दत त।
स्कन्द = गतौ शोषणे च भ्वा० पर० नक० अनिट्। स्कन्दति इरित् अस्कदत अस्कान्त्सीत् चस्कन्द। आ + आक्रमणे
स्कन्द = पु० स्कन्दते उत्प्लुत्य गच्छति अच्। कार्त्तिकेये अमरः अग्निकुमारशब्दे ५४ पृ० तस्योत्पत्तिरुक्ता। स्कन्दग्रहस्कन्दापस्मारौ ग्रहशब्दे २७४५ पृ० सुश्रुतोक्तौ दर्शितौ। २ नृपतौ जटा० ३ देहे त्रिका० ४ पारेदे रजनि० ५ बालग्रहभेदे सुश्रुतः।
स्कन्दन = न० स्कन्द–ल्युट्। १ रेचने त्रिका० २ क्षरणे ३ गतौ ४ शोषणे च।
स्कन्दांशक = पु० स्कन्दस्यांश एवांशो यस्य कप्। पारदे। तयाः शिववीर्य्यजत्वादेकांशत्वम्।
स्कन्ध = पु० स्कन्द्यते आरुह्यतेऽसौ मुखेन शाखया वा कर्मणि घञ् पृषो०। १ असे (कांध) २ वृक्षस्य काण्डे (गु~डि) अमरः। ३ नृपे ४ युद्धे ५ समूहे ६ काये ७ भद्रादौ ८ छन्दोभेदे मेदि० सौगतमतसिद्धेषु ९ विज्ञानादिषु पञ्चस्वङ्गेषु “सुक्त्वाङ्गस्कन्धपञ्चकम्” माघः। १० पर्थि शब्दर० ११ ग्रन्थपरिच्छेदे च। “स्कन्धैर्द्वादशभिर्युक्तम्” इति भागवतविशेषणम्। १२ व्यूहे हेमच०।
स्कन्धचाप = पु० स्कन्धे चाप इव। वंशादिनिर्मितसिक्याधाने विहङ्गिकायां हारा०।
स्कन्धज = पु० स्कन्धात् जायते जन–ड। स्कन्धारूढे सल्लक्यादौ “पर्वयोनय इक्ष्वाद्याः स्कन्धजाः सल्लकीमुखाः” हेमच०।
स्कन्धतरु = पु० स्कन्धप्रधानः तरुः। नारिकेलवृक्षे राजनि०।
स्कन्धफल = पु० स्कन्धे फलमस्य। १ नारिकेलवृक्षे राजनि०। २ उडुम्बरवृक्षे च शब्दच०।
स्कन्धबन्धना = स्त्री स्कन्धे बन्धनमिवास्याः। मधुरिकायाम् शब्दच०।
स्कन्धरुह = पु० स्कन्धात् रोहति रुह–क। वटवृक्षे राजनि०।
स्कन्धवाह = पु० स्कन्धेन वाहयति वह–णिच्–अच्। स्कन्धेन शकटादिवाहके वृषादौ हारा० ण्वुल्। स्कन्धवाहक तत्रैव हेमच०।
स्कन्धशाखा = स्त्री स्कन्धात् पभृति शाखा। वृक्षस्य प्रधानशाखायाम् अमरः।
स्कन्धशृङ्ग = पुंस्त्री० स्कन्धपर्य्यन्तं शृङ्गमस्य। महिपे स्त्रियां ङीष्।
स्कन्धाग्नि = पु० स्कन्धजातोऽग्निः। वृहत्काष्ठजाते वह्नौ जटा०।
स्कन्धावार = पु० स्कन्धार्थमावारः आ + वृ–घञ्। युद्धार्थसुद्युक्तर्सन्यानां १ स्थापने २ तदाधारे कटक च ३ राजधान्यां शब्दच०।
स्कन्धिक = पु० स्कन्धस्तेन वहनमस्त्यस्य ठन्। स्कन्धवाहके वृषादो हेमच०
स्कन्धिन् = पु० स्कन्धस्तेन वहनसस्त्यस्य इनि। स्कन्धेन वाहके वृषादौ रत्नमा०।
स्कन्न = त्रि० स्कन्द–क्त। १ च्युते अमरः २ गलिते ३ क्षरिते ४ शुष्के ५ गते च। भावे क्त। ६ क्षरणे न०।
स्कन्भ = प्रतिघाते क्र्या० स्वा० उ० सक० सेट्। स्कभ्राति स्कभ्रीते स्कभ्रोति स्कभ्रुते। अस्कम्भीत् अस्कम्भिष्ट। चस्कम्भ चसक(म)म्भे।
स्कभ = स्तम्भे म्बा० आ० सक० सेटि इदित्। सकम्भते अस्कम्भिष्ट।
स्कु = ठद्धृतौ आप्लावने च क्र्या० स्वा० उ० सक० अनिट्। स्कुनाति स्कुनोते स्कुनोति स्कुनुते। अस्कौषीत् अस्कोष्ट। चुसुकाव चुस्कवे।
स्कुद = आप्लावने उद्धृतौ च भ्वा० आ० सक० सेट् इदित्। स्कुन्दते अस्कुन्दिष्ट।
स्कुन्भ = रोधने सौ० क्र्या० स्वादि० कार्य्यभागौ प० सक० सेट् स्कुभ्नाति स्कुभ्नोति। अस्कुम्मीत्। उदित् क्त्वा वेट्।
स्खद = विदारे दि० आ० सक० सेट्। स्खद्यते अस्खदिष्ट घटादि० स्खदयति।
स्खल = चले भ्वा० प० अक० सेट्। स्त्वलति अस्खालीत् वा घटा० स्खलयति स्खालयति।
स्खलन = न० स्खल–भावे ल्युट्। १ चलने २ पतने अमरः।
स्खलित = न० स्खल–भावे क्त। १ कूटयुद्धादौ प्रवृत्त्या वीरमर्य्यादातः १ पतने २ स्खलनमात्रे च अमरः। कर्त्तरि क्त। ३ चलिते त्रि०।
स्तन = मेघशब्दे अद० चु० उभ० सक० सेट्। स्तनयति ते अतस्तनत् त। बह्वच्कत्वान्न षोपदेशः।
स्तन = पु० स्तन–अच्। (माइ) स्त्रोणामङ्ग्रभेदे पयोधरे अमरः। “अरोमशौ स्तनौ पोनौ घनावविषमौ शुभौ” स्तनयोः शुभलक्षणं गारुडे ३६ अ०।
स्तनन = न० स्तन–ल्युट्। १ ध्वनिमात्रे २ मेघशब्दे ३ कुन्थन शब्देच मेदि०।
स्तनन्धय = पुं स्त्री० स्तनं धयति धे–खश मुम् च। अतिशिशो वेटष्टित्त्वात् स्त्रियां ङीप्।
स्तनप = पुं स्त्री० स्तनं पिबति पा–क। अतिशिशौ बालके अमरः। स्त्रियां टाप्।
स्तनभर = पु० ६ त०। १ स्थूलस्तनभारे २ तदाभोगे च त्रिका०।
स्तनयित्रु = पु० स्तन–रत्नु। १ मेघे २ मुस्तके अमरः ३ मेघशब्दे मेदि० ४ विद्युति शब्दर०। ५ मृत्यौ ६ रोगे च हेमव०।
स्तनवृन्त = पु० स्तनस्य वृन्त इवाग्रम्। १ स्तनाग्रे चूचुके हेमच० स्ततमुखशिखादयोऽप्यत्र हेमच०।
स्तनान्तर = न० स्तनयोरन्तरम्। १ हृदये हेमच० २ स्तनमध्ये च।
स्तनाभोग = पु० ६ त०। स्तंनस्य परिपूर्णतायाम् त्रिका०।
स्तनित = न० स्तन–भावे क्त। १ मेघशब्दे अमरः। २ सुरतादिशब्दे च। कर्त्तरि–क्त। ३ शब्दिते त्रि०।
स्तनितफल = पु० स्तनिते मेघशब्दे फलति फल–अच्। विकङ्कतवृक्षे राजनि०।
स्तन्भ = रोधने क्र्या० स्वा० प० सक० सेट् उदित् क्त्वा वेट्। स्तभ्राति स्तभ्रोति इरित् अस्तभत् अस्तम्भीत्। इदित्यन्ये षोपदेश एव न्याय्यः सौत्रोऽयमित्यन्ये तेन न षोपदेशः।
स्तन्य = न० स्तने भवम् यत्। स्तनजाते दग्धे हेमच०।
स्तब्ध = त्रि० स्तम्भ–कर्मणि कर्त्तरि वा क्त। १ जडीकृते २ जडी भेते च
स्तब्धरोमन् = पु० स्तब्धं रोमास्य। १ शूकरे अमरः जडीकृतरोमणि त्रि० स्त्रियां वा डाप् ङीप् च।
स्तम्ब = पु० स्था–अम्बच् किच्च पृषो०। काण्डरहिते झिण्टिकादौ वृक्षे २ वृक्षगुल्मे ३ तृणादेः गुच्छे च अमरः।
स्तम्बकरि = पु० स्तम्बं गुच्छं करोति कृ–इन्। ब्रीहिधान्ये अमरः।
स्तम्बघन = पु० स्तम्बो हन्यतेऽनेन हन–क नि०। स्तम्बोन्मूलके खनित्रादौ अमरः।
स्तम्बघ्न = त्रि० स्तम्बो हन्यतेऽनेन हन–घञर्थे क। स्तम्बोन्मूलके खनित्रादौ अमरः। स्तम्बहननमप्यत्र।
स्तम्बपुर् = स्त्री स्तम्बप्रधाना पूः न समासान्तः। ताम्रलिप्ते पुरभेदे हेमच०।
स्तम्बेरम = पुंस्त्री० स्तम्बं वृक्षादोनां काण्डे गुच्छे गुल्मे वा रमते रम–अच अलुक्स०। गजे अमरः स्त्रियां ङीष्।
स्तम्भ = पु० स्तम्भ–अच्। (थाम) १ स्थूणायाम् अमरः। भावे घञ्। २ जडीभावे पु०।
स्तम्भन = पु० स्तम्भयति स्तम्भ–णिच् ल्यु। कन्दर्पस्य पञ्चसु वाणेषु मध्ये १ वाणभेदे जटा०। भवे ल्युट्। २ जडीकरणे न०। करणे ल्युट्। षट्कर्मान्तगते तन्त्रोक्ते ३ अभिचारकमेभेदे
स्तम्भित = त्रि० स्तम्भ जाड्ये णिच्–कर्मणि क्त। जडोकृते
स्तरिमन् = पु० स्तॄ–कर्मणि इमनिच। तलो उणा०।
स्तरी = स्त्री स्तृ–कर्मणि ई। धूमे हेमच०।
स्तव = पु० स्तु–अप्। १ प्रशंसायाम् २ स्तुतौ च।
स्तवक = पु० स्तु-वुन् स्था–अवक प्तपो० वा। गुच्छे अमरः। २ ग्रन्थपरिच्छेदे ३ समूहे च मेदि०।
स्तवेय्य = पु० स्तु–एय्य। इन्द्रे उणा०।
स्तावक = त्रि० स्तु–ण्वुल्। स्तुतिकारके प्रर्शंसाकारके।
स्तिमित = न० स्तिम–भावे क्त। १ आर्द्रतायाम् अमरः। २ अचाञ्चल्ये च मेदि० कर्त्तरि क्त। ३ अचञ्चले ४ आर्द्रे च त्रि०।
स्तिम्भि = पु० स्तिम–इन् भुक् च। १ समुद्रे २ वायौ च उणा०।
स्तीर्वि = पु० स्तॄ–क्विन् न वेरित्त्वम्। १ आकाशे २ रुधिरे ३ तृणजातौ ४ अध्वर्य्यौ ५ पयसि ६ शत्रौ सांक्षप्तसा०।
स्तुत = पु० स्तु–कर्मणि क्त। स्तुतिकर्मणि अमरः।
स्तुति = स्त्री स्तु–क्तिन्। स्तवे अमरः।
स्तुतिपाठक = पु० स्तुतिं पठति पठ–ण्वुल्। राजादेर्वन्दिनि अमरः
स्तुन्भ = रोधनै सौ० क्र्या० स्वा० कार्य्यभागी पर० सक० सेट् उदित् क्त्वावेट्। स्तुभ्नोति स्तुभ्राति। अस्तुम्भीत्। सौत्र। त्वादषोपदेश इत्यन्ये।
स्तुतिव्रत = पु० स्तुतौ व्रतमस्य। स्तुतिपाठके जटा०। ३६९ पृ० दृश्यम्
स्तुत्यर्थवाद = पु० ३ त०। प्रशंसया अर्थवादभेदे अर्थवादशब्दे
स्तुनक = पुं स्त्री० स्व–नकक्। छागे शब्द च० स्त्रियां ङीष्।
स्तुभ = पुं स्त्री० स्तुन्भ–मूल० क। छ गे भरतः स्त्रियां ङीष्।
स्तूप = उच्छ्राये अद० चु० अक० उभ० सेट्। स्तूपयति ते अतुस्तूपत् त। बह्वच्कत्वात् अषोपदेश एव। ५१७२ पृष्ठे ष्टूप इति धातुः षोपदेशतया प्रमादात् लिखितः।
स्तूप = पु० स्तु–पक् पृषो० स्तूप–अच् वा। १ राशोकृते मृत्ति कादो २ संघाते ३ बले ४ निष्प्रयोजने च संक्षिप्त०।
स्तृ = विस्तार स्वा० उ० सक० अनिट्। स्तृणोति स्तृणुते अस्तार्षीत् अस्तृत अस्तरिष्ट। पर्युदासान्न षोपदेशः।
स्तृ = प्रीतौ अक० रक्षणे सक० स्वा० प० अनिट्। स्तृणोति अस्तार्षीत्। पर्युदासेन अषोपदेश एव।
स्तॄ = आच्छादने क्र्या० प्वा० उ० सक० सेट्। स्तृणाति स्तृणीते अस्तारीत् अस्तरिष्ट अस्तरीष्ट अस्तीत्त। अयं षोपदेश एव न्याय्यः।
स्तेन = चोर्य्ये अद० चु० उभ० सक० सेट्। स्तेनयति–ते अतिस्तेनत्–त। बह्वच्कत्वात् अषोपदेशः।
स्तेन = न० स्तेन–भावे अच्। १ चौर्य्ये। कर्त्तरि अच्। २ चौरे त्रि० अमरः।
स्ते(ष्टे)प = क्षेपे चु० उभ० सक० सेट्। स्तेपयति–ते अतिस्तिपन–त अषोपदेशत्वे मूलं चिन्त्यम्।
स्तेम = पु० स्तिम–घञ् १ आद्रींभावे २ स्नेहे च अमरः।
स्तेय = न० स्तनस्य भावः यप्त नेलोपः। १ चौर्य्ये अमरः। “प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा। यत् परद्रव्यहरणं स्तेयं तत्परिकीर्त्तितम्” इत्युक्तेः परद्रव्यापहारः स्तेयं तच्च अष्टादशविवादान्तर्गतविवादपदभेदः तत्स्वरूपादिकं वीरमि० उक्तं चोरशब्दे २९६९ पृष्ठादौ दृश्यम्।
स्तेयिन् = त्रि० स्तेयमस्त्यस्य इनि। परद्रव्यापहारके स्त्रियां ङीप्।
स्तैन(न्य) = न० स्तेनस्य भावः अण्, ष्यञ् व। १ चौर्य्ये परद्रव्यापहरणे। स्तेन एव स्वार्थे ण्य। २ चोरे त्रि० भरतः।
स्तैमित्य = न० स्त्रिमितस्य भावः ष्यवः ष्यञ्। १ जाद्ये २ स्नेहे ३ आर्द्रीभावे च।
स्तोक = पुंस्त्री० स्तुच–घञ्। १ चातके मेदि० स्त्रियां ङीष्। २ जलविन्दौ ३ अल्पे त्रि० अमरः।
स्तोकक = पुंस्त्री० स्तोकाय जलविन्दवे कायति शब्दायते कैक। चातके अमरः स्त्रियां ङीष्।
स्तोत्र = न० स्तु–ष्ट्रन्। १ स्तर्व–गुणकर्मादिभिः प्रशंसने अमरः। द्रव्यस्तोत्र कर्मस्तोत्रं विधिस्तोत्रं तथैव च। तथैवाभिजनस्तोत्रं स्तोत्रमेतच्चर्विधम्” मत्स्यपु० १२३ अ० द्रव्याद्युपाधिकतया स्तवस्य चातुर्विध्यमुक्तम्। २ स्तुतिसाधने वाक्ये स्तुविश्च मुणिनमुपसर्जनीकृत्य तन्निष्ठानां गुणानां प्राधान्ये न कथनरूपा ऋग्वेदभाष्ये लक्षिता। यथा यो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्व जना स्तुतिमवगच्छन्ति यद्यपि ष्टुञ्स्तुतौ शनसु स्तुतावित्ये करशौ तथापि प्रतिगीतमन्त्रसाध्यं स्तोत्रम अप्रतिगीतमन्त्रसाध्यं शस्त्रमिति तयोर्विवेक इति च तत्रोक्ते प्रतिगीतमन्त्रसाध्ये ३ स्तवने गुणकथने च। शस्त्रशब्दे प्रतिगीतमन्त्रे इति यदुक्तं तत्र अप्रगीतमन्त्रे इत्येव वोध्यम्। प्रगीतमृग्जातं शस्त्रमिति वृ० उ० भष्यटीकायासानन्दगिरिणीक्ते ४ प्रगीते ऋग्जाते च।
स्तोत्रिय = त्रि० स्तोत्राय हिते य। स्तोत्रसाधने ऋगादौ “कत्ययमुद्गताऽस्मिन् यज्ञे स्तोत्रियाः स्तोष्यन्तीति तिस्र इति कतमास्तास्तिस्रः इति पुरोऽनुवाक्या च याज्या शस्यैव च तृतीया इति” वृ० उ०। “स्तोत्रिया नाम ऋक्सामसमुदायः” शा० भा०। “स्तोत्रिया नाम गीतिविशिष्टा ऋग्जातयः” शत० ब्रा० १४६। १। १२ वाक्यव्याख्यायां सायगबाष्यम्। “यथोक्तस्य स्तोत्रं स्तोत्रियां वर्चं साम वा यजुर्वाऽथर्वान्यत् कृत्वा यजेत” कात्या० श्रौ० २४, ७ २० “एकां स्तोत्रियामेका ऋचामन्यां कुर्य्यात्” कर्कः।
स्तोभ = पु० स्तुभ–घञ्। १ अथंशून्ये गानादिस्वरपरिपूरणार्थ शब्दभेदे यथा सामवेदे इडा हीआइ प्रभृवयः। २ हेलने ३ स्तम्भने च हेमच०। स्तोभलक्षणादिकं गानशब्दे २५७३ पृ० दृश्यम्। तच्च लक्षणं वर्णमात्रस्तोभस्य। वाक्यस्तोभस्य तु नव विधाः भवन्ति तदुक्तं “आशास्तिः स्तुतिसंख्यामे प्रणवः परिदेवनम्। प्रैषमन्वेषणञ्चैव सृष्टिरास्थानमेव च” एते तु वाक्यस्तोभाः पदस्तोभाश्च पञ्चदश गानग्रन्थेषु दर्शितास्तत एवावगन्तव्याः।
स्तोम = आत्मगुणाविष्करणे अद० चु० उभ० अक० सेट्। स्तोमयति–ते अतुस्तोमत्–त। बह्वच्कत्वात् न षोपदेशः।
स्तोम = पु० स्तोम–अच् स्तु–मन् वा। १ समूहे अमरः। २ यज्ञे हेमच०। ३ स्तवे ४ स्तुतिभेदे ५ मस्तक ६ धने ७ शस्ये ८ लौहाग्रदण्डे च न० ९ वक्रे त्रि०। “नारावशंसेन स्तोमेन” यजु० ३। ५३ “अयं स्तोमान् पप्रच्छ ऋ० १। १४। ९
स्त्यान = न० स्त्यै–भावे क्त तस्य नः। १ स्रेहे २ घनत्वे ३ सं। हतौ ४ आलस्ये ५ प्रतिशब्दे च विश्वः। कर्त्तरि क्त। ६ संहतिकारके ७ ध्वनिकारके च त्रि०।
स्त्येन = पु० स्त्यै–इनच्। १ चौरे अनृते च उणा०।
स्त्यै = सहतौ ध्वनौ भ्वा० अक० अनिट्। स्त्यायति अस्त्यासीत् पर्य्युदासान्न षोपदेशः।
स्त्री = स्त्री स्तु–ड्रट्। योषिति नार्य्याम् अमरः। तद्भेदादिकं रतिम० उक्तं यथा “पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा। शशो भृगीवृषोऽश्वश्च स्त्रीपुंसोर्जातिलक्षणम्। भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा अविरलकुचयुग्या चारुकेशी कृशाङ्गी। मृदुवचनसुशीला गीतवाद्यानुरक्ता सकलतनुसुवेशा पद्मनी १ पद्मगन्धा। भवति रतिरसज्ञा नातिखुर्वा न दीर्घा तिलकुसुमसुनासा स्निग्धनीलोत्पलाक्षी। घनकठिनकुचाद्या सुन्दरो बद्धलीला सकलगुणसमेता चित्रिणी २ चित्रवक्त्रा। दीर्घातिदीर्घनयना वरसुन्दरी या कामोपभोगरसिका गुणशीलयुक्ता। रेखात्रयेण च विभूषितकण्ठदेशा सम्भोगकेलरसिका किल शङ्खिनी ३ सा। स्थूलाधरा स्थूलनितम्बभागा स्थलाङ्गुली स्थूलकुचा सुशीला। कामोत्सुका गाढरतिप्रिया या नितम्बखर्वा करिणी ४ मता सा। शशके पद्मिनी तुष्टा चित्रिणी रमते मृगे। वृषभे शङ्खिनी तुष्टा हस्तिनी रमते हये। पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी। शङ्खिनी क्षारगन्धा च मदगन्धा च हास्तनी। बाला च तरुणी प्रौढा वृद्धा भवति नायिणा। गुणयोगेन रन्तव्या नारो वश्या भवेत् तदा। आ षोडशाद् भवेद् बाला तरुणी त्रिंशका मता। पञ्चपञ्चाशका प्रौढा भवेद्वृद्धा ततः परम्। फलमूलादिभिर्बाला तरुणी रतियोगतः। प्रेमदानादिभिः प्रौढा वृद्धा च दृढताडनात्। बाला तु प्राणदा प्रोक्ता तरुणी प्राणहारिणी। प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत्। अङ्गष्ठे चरणे च गुल्फनिलये जातुद्वये वस्तिके नाभौ वक्षसि जङ्घयोर्निगदिता कण्ठे कपोलेऽधरे। नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवामूर्द्धाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः। सीमन्ते नयनेऽघरे च गलके वक्षस्तटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटे गण्डके। गुलफे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला पक्षद्वयोर्योषिताम्। शुक्लपक्षे वसेद्वामे पादाङ्गुलिकनिष्ठके। शुक्लप्रतिपदादौ च कृष्णे चाधः प्रलम्बते। पुंसूः सव्ये स्त्रियोऽवामे शुक्ले, कृष्णे विपर्य्ययः। एतानि कामस्थानानि ज्ञेयानि नागरैः सदा। वलयुक्ता यदा नारी विपरीतरतिर्भवेत्। सञ्चाल्य तु कलास्थानं रन्तव्या कामिनी तदा। नेत्रे कक्षे कपोले च हृदि पार्श्वद्वयेऽपि च। ग्रीवायां नाभिदेशे च कामी चुम्बति कामिनीम्। मुखे जङ्घे नितम्बे च जघने मदनालये। स्तनयुग्मे सदा प्रीतः कानी चुम्बति कामिनीम्। प्रेम्णा स्त्रियं समालिङ्ग्य शीत्कारं सुखचुम्बनम्। कण्ठासक्तं पुनः कृत्वा गाढालिङ्गनमाचरेत्। विधृत्य हस्तौ जघनोपविष्टः शीत्कृत्य वक्त्रे च मुदा प्रचुम्ब्य। भगे च लिङ्गं स्तनमर्दनञ्च दत्त्वापि कृत्वा प्ररमेच्च कामी। केतक्यग्रनखं कृत्वा नखांस्त्रीन् पञ्च चैव वा। पृष्ठे च जघने योनौ दत्त्वा कामी रमेत् स्त्रियम्। नखरोमाञ्चितं कृत्वा दन्तेनाधरपीडनम्। ग्रीवामाकृव्य यत्नेन योनौ लिङ्गेन ताडनम्। लिङ्गप्रवेशन कृत्वा धृत्वा गाढप्रयोगतः। पार्श्वद्वयेन सम्पीद्ध्य निस्पृहं ताडयेद्भगम्। समालिङ्ग्य स्त्रियं गाढं स्तनयुग्मे च मर्दनम्। योनौ नाभौ च संमर्द्य निष्ठुरं लिङ्गताडनम्। केशं करेण संगृह्य दृढं सन्ताडयेद्भगम्। वदने चुम्बनं कृत्वा भगं हस्तेन मर्दयेत्। कुचं करेण संमर्द्य पीडयेदधरं दृढंम्। रसेन पद्मवन्धेन पद्मनीरतिमादिशेत्। शीत्कारं चुम्बनं पीडा गले हस्ते च चुम्बनम्। क्षणे क्षणे स्तने हस्तं चित्रणीरति- मादिशेत्। स्त्रीपुंसयोस्तथान्योन्यं भगे लिङ्गे च चुम्बनम्। रमणन्तु तथा गाढं शङ्खिणी रतिमादि शेत्। केशं करेण संनृह्य सदृढं गजवन्धनम्। भगं करेण सन्ताड्य हस्तिनीरतिमादिशेत्। कूर्मपृष्ठं गजस्कन्धं पद्मगन्धं सुगन्धि यत्। अलामकं सुविस्तोर्णं पञ्चैतद् भगनुत्तमम्। शीतलं निम्नमत्युच्चं गोजिह्वासदृशं परम्। इत्युक्तं कामशास्त्रज्ञैभगदोषचतुष्टयम्”। स्त्रीशुभाशुभलक्षणन्तु उपयमशब्दे १२७८ पृष्ठादौ दृश्यम्
स्त्रीगवी = स्त्री० स्त्री चासौ गौश्च षच्समा०। (गाभि) रोहिण्याम।
स्त्रीचित्तहारिन् = पु० स्त्रियाश्चितं हरति हृ–णिनि। १ शोभाञ्जने त्रिका०। २ स्त्रीमनोहारके त्रि०।
स्त्रीचिह्न = न० स्त्रिया असाधारणं चिह्नम्। १ योनौ जटा०। २ स्त्रिया असाधारणे चिह्ने स्तनादौ ३ स्त्रीलक्षणे च।
स्त्रीचोर = पु० स्त्रिया चोर इव। कामुके त्रिका०।
स्त्रीजित = पु० स्त्रिया जितः जि–क्त। स्त्रीवश्ये। “स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति। न भूमौ पातकी पापात् पापिनां स्त्रीजितात् परः” ब्रह्मवै० ज० ४ अ० तस्य निन्दोक्ता।
स्त्रीधन = न० ६ त०। स्त्रीस्वत्वाश्रये द्रव्यमात्रे इति मिताक्षरादयः। “अध्यग्न्यव्याषाहनिकं भर्तृदायस्तथैव च। भ्रात्रादतं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम्” नारदपरिगणिते स्त्रीस्वत्वाश्रये धने इति दायभागादयः। स्त्रीधनस्वरूपादिकं मिताक्षरामतानुसारेण वीरमि० मिरूपितं यथा “अथ स्त्रीधनविभागं वक्तुन्तत्स्वरूपं तावन्निरूप्यते तत्र मनुः “अध्यग्न्यध्यावहनिकन्दत्तञ्च प्रीतिकमेणि। भ्रातृ मातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतमिमि” षड्विधमितिन्यूनसंख्याव्यवच्छेदपरन्नाधिक्यनिरासाय। अत एव योगाश्वरण “पितृमावृपतिभ्रातृदत्तमध्यग्न्युपागतम्। आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितम्, इत्याद्यशब्द उपात्तः। विष्णुनापि षडधिकानि स्त्रीधनाभ्युक्तानि। स यथाह “पितृमातसुतभ्रावृदत्तमध्यग्न्यपागतम्। आधिवेदनिकं बन्धुर्दत्तं शुल्समन्व धेयमिति स्त्रीधनम” इति। मारद “अध्यग्न्यध्यावाहनिकम्भर्त्तृदायस्तथैव च। भ्रातृदत्तं पितृभ्याञ्च षाड्वध स्त्रीधनं स्मृतमिति। षाड्रधत्वं मानववदेव व्याख्येयम्। स्त्रीधनशब्दश्चायं यौगिकः स्त्रीखामिकन्धनमिति न तु पारिभाषिकः योगसम्भवे परिभाषाया अन्याय्यात्वात्। अत एव योगोश्वरेण रिक्थक्रयादिसाधारणस्वत्वोपायसंग्रहायाद्यपदं प्रयुक्तम्। ननु च क्वचित् स्त्रीधनत्वनिषेधौऽनुपपन्न एवं सति स्यात्। न हि स्त्रीस्वामिकत्वं तत्र निषेद्धुं शक्यते बाधात्। यथाह कात्यायनः “तत्र सोपधि यद्दत्तं यच्च योगवशेन वा। वित्रा भ्रात्राऽथ वा पत्या न तत् स्त्रीधनसुच्यते इति। उपधिरुत्सवादाविवेदं मया दत्तं त्वया धार्य्यमलङ्कारादिनान्यदेति नियमस्ततपूर्वकं दत्तं सोपधि योगवशेन दायादानां कन्यायै दत्तमिदन्तद्धनङ्कथं विभाज्यमिति। शिल्पप्राप्तं सख्यादिभ्यः प्रोत्या प्राप्रन्तदपि न स्त्रीधन मित्यप्याह स एव “प्राप्तं शिल्पैस्तु यत्किञ्चित्प्रीत्या चैव यदन्यतः। भर्त्तुः स्वाम्यन्तदा तत्र शेषन्तु स्त्रीधनं स्मृतम्” इति। पारिभाषिकत्वे भ्रात्रादिदत्तत्वेन प्राप्तं स्त्रीधनं प्रतिषिध्यते। तेनैतस्माद्भिन्नमेव पित्रादिदत्तं शिल्पादिपाप्तभिन्नं वा स्त्रीषनमिति परिभाष्यते इति चेत्। उच्यते। नात्र स्त्रीधनत्वनिषेधः। किन्तु तत्कार्य्य विभागादि निषेधः। अत एवोत्तरश्लोके तत्रभर्त्तुः स्वाम्यमित्युक्तम्। भर्त्तुस्तद्विनियोगे स्वातन्त्र्यण स्त्रिया इत्यर्थः। प्रथमश्लोके तु स्त्रीस्वत्वनिषेधोऽपि सम्भवति उपवियागपदयोरुपादानात्। तादृशदाने च स्वत्वाभावस्य प्रसिद्धत्वात्। “योगाधमनविक्रोतं योगदान प्रतिग्रहम्। यत्र चाप्युपधिम्पश्येत्तत्सर्वं विनिवर्त्तयेदिति” मनुवचनात् “भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनमित्यपि वचनम्भार्य्याविषये शिल्पादिप्राप्तपरमेव एकमूलकल्पनालाघवात्। अध्यग्न्यादिस्वरूपन्निरूपितं कात्यायनेन “विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्नि सन्निधौ। तदध्यग्निकृत सङ्गिः स्त्राधनं परिकीत्तितम्। यत्पुनर्ल्लभते नारी नीयमाना पितुर्गृष्ठात्। अध्यावाहभिकन्नाम स्त्रीधनन्तदुदाहृतम्। प्रीत्या दत्तं तु यत्किञ्चिच्छश्ना वा श्वशुरेण वा। पादवन्दनकञ्चैव प्रीतिटत्तन्तदुच्यत। विवाहात्परतो यत्तु लब्ध भर्त्तृकुलात् स्त्रिया। अन्थाएहेयन्तु तत्प्रोक्तं यल्लब्धं स्वकुलत्तथा। गृहोपस्कारवाह्यानां दाह्याभरणषमंणाम्। मूल्यं लब्धन्तु यत्किञ्चित्तच्छुल्कं परिकोत्तितम्। ऊदया कन्यया वापि पत्युः पितृगृष्टेऽपि या। भ्रातुः सकाशात् पित्रोर्वा लब्धं सौदायिकं स्मृतम्”। भर्त्तुः मोक्षस्त्यगोदानमिति यावत्। अननुज्ञातत्यागभोगविषयमेतत्। तदनुज्ञया त्वनापद्यपि न दोषः “स्वयमेवेत्येवकारः स्वापत्यानां व्युदासार्थः। भर्तृव्युदासस्य पतिर्नाहतीत्यनेनाभिधानात्। भर्तृव्युदासे ततो वहिरङ्गानां ब्रात्रादीनां व्युदासस्यापि दण्डापूपिकया सिद्धत्वात्। अनापदीत्यमिधानदापदि न दोषः। अतएव “पुत्रार्त्तिहरणे चापि स्त्रीधनं भोक्तुमर्हतीति” तस्यैव वाक्यशेषः। पतिरित्यनुषङ्गः। पुत्रग्रहणं कुटुम्बोपलक्षकं तस्यार्त्तिर्भक्ष्याद्यभावनिमित्ता पीडा तस्या हरणे। चशब्दादन्यस्मिन्नपि धनाभाव निमित्ते सङ्कटे स्त्रीधनमननुज्ञातमपि पतिस्त्यक्तुं भोञ्चार्हतीत्यर्थः। ननु परधने त्यागभोगयोः स्वाम्यनुज्ञया विना कथमर्हता वाधिताऽनेन वोध्यते। अनुज्ञायान्त्वनापद्यपि न विरोधः। उच्यते। वचनवलात्ताद्वशविषये व्यये स्वत्वमेव तस्य तत्रेत्यदोषः। अतएव योगीश्वरोऽपि “दुर्भिक्षे धर्मकार्य्ये च व्याधौ सम्प्रतिरोधके। गृहीतं स्त्रीधनं भर्त्ता नाकामो दातु, मर्हति”। धर्मकार्य्ये आवश्यके नित्ये नैमित्तिके च सम्प्रतिरोधके दण्डाद्यर्थं राज्ञावरोधे कृते। वाचस्पतिस्तु सम्प्रतिरोधक इति व्याधिविशेषणं कार्य्यानुष्ठानबाधके इति च तदर्थ इत्याह। नाकामो दातुमर्हतीत्यपि दारिद्र्यादिकृतदानासामर्थ्ये दुर्भिक्षादिगृहीतमप्यवश्यं देयमेतावतैव वचनोपपत्तौ सामर्थ्येऽसत्यदानमिच्छयेत्यस्य कल्पयितुमनर्हत्वात्। पतिग्रहणादापद्यपि पत्युरेव पत्नीधनग्रहणाधिकारः प्रतिदानञ्चेच्छया नान्यस्येति ज्ञेयम्। भर्त्रा दातुं प्रतिश्रुतं भार्य्यायै तस्मिन् मृते पुत्रादिमिस्तस्यै देयमित्यप्याह स एव “भर्त्रा प्रतिश्रुतं देयमृणवत् स्त्रीधनं सुतैरिति”। सुतग्रहणं पौत्त्रप्रपौत्त्रयोरुपलक्षणमृणवदित्यभिघानात्। अनेन स्त्रीधने जीवन्त्यान्तस्यां सुतानां जन्मना स्वत्वेऽपि नास्ति विभाग इति गम्यते। एवं स्त्रीधनमुक्तम्”। दायभागमतं पारिभाषिकपरत्वपक्ष एव। अनयोर्युक्तायुक्तत्वं सुधीभिर्भाव्यम्। उत्तराधिकारिशब्दे ११०१ पृ० च तद्विभागो दृश्यः।
स्त्रीधव = पु० स्त्रियं धुनाति घु–अच्। पुरुषे जटा०।
स्त्रीधर्म्म = पु० ६ त०। ऋतौ नारीकुसुमविकाशे रजसि हेमच०
स्त्रीधर्मिणी = स्त्री स्त्रीधर्मोऽस्त्यस्या इनि। ऋतुमत्यां स्त्रियाम् अमरः।
स्त्रीपण्योपजीविन् = पु० स्त्रीरूपेण पण्येन जीयति जीवणिनि। धनं गृहीत्वा सम्भोगार्थमन्यस्मै स्त्रियं दत्त्वा तल्लब्धधनोपजीविनि।
स्त्रीपुंधर्म्म = पु० स्त्रियाः पुंसश्च धर्मः तमधिकृत्य व्यवहारो वा। स्त्रीपुं सयोः यथाशास्त्राचाररूपे धर्मे तद्विषयके अष्टादशसु विवादपदेषु मध्ये विवादपदभेदे स्त्रीपुंसयोगोऽप्यत्र। वीर० तत् न्यरूपि यथा “तत्स्वरूपमाह नारदः “विवाहादिविधिः स्त्रीणां यत्र पुंसाञ्च कीर्त्त्यते। स्त्रीपुं सयोगसंज्ञं तद्विवादपदमुच्यते” इति। विवाहादिशब्देन स्त्रीपुंधर्मा गृह्यन्ते। अतएव मनुर्व्यवहारपदोद्देशकाले स्त्रीपुंधर्मोविभागश्चेत्युद्दिश्य प्रतिज्ञापूर्वंकं तेषां निरूपणं चकार “पुरुषस्य स्त्रियाश्चैव धर्म्ये वर्त्मनि तिष्ठतोः। संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् इत्यादिना संयोगे अन्योन्यसन्निधाने विप्रयोगे देशतः कालतो वा व्यवधाने। शाश्वतान्नित्यान् अवश्यानुष्ठेयानिति यावत्। के ते धर्मा इत्याकाङ्क्षायामाह स एव “अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम्। विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे” इत्यादि। पुरुषैः भर्तृपुरुषैः। विषथे दण्डहेतुभूतचाञ्चल्यादिविषये। नारदोऽपि “स्वातन्त्र्याद्विप्रणश्यन्ति कूले जाता अपि स्त्रियः। अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत्” इति। अतोऽन्यैरपि स्वस्त्रीणामस्वातन्त्र्यं यथा भवति तथा कल्पयितव्यमित्याशयः। पुरुषेण स्वस्त्री व्यभिचारादवश्यं रक्षणीया। तथा च हारीतः “एकव्रत्सकन्नभावात् परेन्द्रियोपहतत्वाच्च दुष्ठाः कुलसङ्करकारिण्यो भवन्ति जीवति जारजः कुण्डोमृते भर्त्तरि गोलकस्तस्माद्रेतोपाघाताज्जायां रक्षेज्जायानाशे कुलनाशः कुलनाशे तन्तु नाशस्तन्तुनाशे देवपिवृयज्ञनाशो देवपितृयज्ञनाशे आत्मनाशः आत्मनाशे सर्वस्वनाशः” इति। एकव्रतम्कन्नभावात् स्त्रीणां एकभर्त्तेति नियमनाशात्। परेन्द्रियोपहतत्वात् परस्मिन् पुंसि इन्द्रियम्य मनसोरागादिना उपहतत्वात्। कुलसङ्करकारिण्यस्तज्नातिस्वभावानुगत पजो त्पादनेन कुलसाङ्कर्य्यकारिण्यः। अतएव शङ्खलिखितौ “यस्मिन् भावोऽर्पितः स्त्रीणामर्त्तवे तादृशं तस्तुश्रन यन्तीति”। तन्तुः पुत्रादिसन्ततिः। मनुरपि “सूक्ष्म भ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः। द्वयोर्हि सकाशादिति कल्पतर्वादौ पाठः। अध्याग्न्यादिशब्दास्तु योगरूदास्तादृशस्त्रोधनादावेव प्रयोगात्। गृहोपस्करणादोनां यन्मूल्यं कन्यार्पणापाधित्वेन यरादिभ्यः कन्याभरणरूपेण सृह्यते तच्छुल्कमिति मदनरत्ने व्याक्यातम्। मिताक्षरायां तु यद्गृहीत्वा कन्या दीयते तच्छुल्कमित्युक्तम्। उभयत्रापि पित्रादीनां कन्याया इदमित्युद्ध्वेशो विवक्षितः अन्यथा तत्स्वत्वाभावेन स्त्रीधनत्वव्यपदेशत्वानुपपत्तेः। जीमूतवाहनेन तु कर्मिणामिति पठित्वा गृहादिकर्मिभः शिल्पिभिस्तत्कर्मकरेणे भर्त्रादिप्रेरणार्थं स्त्रियै यदुत्काचदानं तच्छुल्कं तदव सुल्यं प्रकृत्यर्थत्वादिति व्याख्यातम्। पुनश्चोक्तम् “यदानेतुं भर्तृरृहे शुल्कन्तत्परिकीर्त्तिंतमिति” व्यासोक्तं वा। भर्तृगृहगमनार्थमुत्काचादि यद्दत्तं तच्छुल्कमित्यर्थ इति। तदुभयमपि स्त्रा स्वामिकं भवत्येव तस्या एव दत्तत्वादिति तत्र स्त्रीधनत्वव्यपदेशोऽन्यस्त्रीधनवत् सुगम एव। आधिवेदनिकं स्त्र्यन्तरविवाहकाले पूर्वभार्य्यायै यद्दीयते। यदाह याज्ञवल्क्यः “अधिविन्नस्त्रयै दद्यादाघिवेदनिकं समम्। न दत्तं स्त्रीधनं वासां दत्ते त्वर्द्धं प्रकल्पयेत्” इति। पित्रादिभिर्ज्जीवनाद्यर्थं स्त्रीभ्यो धनदाने विशेषमाह कात्यायनः “पितृमातृपति भ्रातृज्ञातिभिः स्त्राधनं स्त्रियै। यथाशक्त्याद्विसाहस्राद्दातव्यं स्थावरादृते”। स्थावरेतरद्धनं यथाशक्ति आकार्षापणसहस्रद्वयपर्य्यन्तं देयमित्यर्थः। व्यासोऽपि “द्विसहस्रः परो दायः स्त्रियै देयो धनस्य तु”। आद्विसहस्रादिति कात्यायनेन, पर इति च व्यामेनोक्तेरितोऽधिकमिति धनिनापि न स्त्रीभ्यो देयमिति दर्शितम्। अयञ्च नियमः प्रतिवनसरमसकृटर्पणे ज्ञेयस्तेनानेकवत्सरेषु जीवनार्थं दीयमानमिगोऽधिकमपि भवति चेन्न दोषः। जीवनार्थत्वाद्दानस्य तावज्जीवञ्च द्विसाहस्रमात्रेण तन्निर्वाहासम्भषात्। स्त्रीधनेऽपि मर्वनुमतिमन्तरेण स्त्रीणान्न स्वातन्त्र्यमित्याह मनुः “न निर्हारं स्त्रियः कुर्युः कुदुम्बाद्बहुमध्यकात्। स्रमदपि च वित्ताद्धि स्वस्य भर्त्तुरनाज्ञया” इति निर्हारो व्ययः। कचित्तु स्त्रीधने तामां स्वातन्त्र्यमस्ति यदाह सौदायिकस्वरूपसक्त्वा कात्यनः “सादायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्येते। यस्मात्तदानृशस्यार्थं तैदत्तमुपजीवनम्। सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्। विक्रये दाने च यथेष्टं स्थावरेष्वपि”। भर्त्तृदत्ते तु स्थावरेतरत्रैव स्वातन्त्र्यमित्याह नारदः “भर्त्रा प्रातन यद्दत्तं स्त्रियै तास्मन् मृतऽपि तत्। सा यथा काममश्नीयाद्दद्याद्वा स्थावरादृते”। स्थावरे भत्तृदत्ते स्त्रिया निवासाद्युपभोगमात्रं न दानविक्रयादिकमित्यर्थः। अपुत्रा शयनं भतुरित्यादि कात्यायनवचोऽपि भर्तृदत्तस्थावरविषयमेव नारदेकवाक्यतयेति केचित्। अस्माभिस्तु पत्नी दुहितर इति व्याख्यानावसरेऽम्य विषयः प्रपञ्चितः। पुरुषाणामपि कस्मिन्नपि स्त्रीधने न स्वातन्त्र्यं स्वाम्याभावादित्याह कात्यायनः “न भर्त्ता नैव च सुती न पिता भ्रातरो न च। आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः। यदि त्वेकतरोऽप्येषां स्त्रीधनं भक्षयेद् बलात्। सवृद्धिकं म दाप्यः स्याद्दण्डञ्चैव समाप्नुयात्। तदेव यद्यनुज्ञाप्य भक्षयेत् प्रोतिपूर्वकम्। मूलमेव तदा दाप्यो यदा स धनवान् भवेत्। अथ चेत् स द्विभार्य्यः स्यान्न च तां भजते पुनः। प्रीत्या विसृष्ठमपि चेत् प्रतिदाप्यः स तद्वलात्। ग्रासाच्छादनवासानामुच्छेदो यत्र योषितः। तत्र स्वमाददीत स्त्री विभागं रिक्थिनान्तथा”। स्त्रिया धनं गृहीत्वा यद्यपरभार्य्यया सह वसत्येनाञ्चावमन्यते तदा गृहीतं तद्धनं राज्ञा बलाद्दाप्यः। भक्ताच्छादननिवासान् यदि भर्त्ता न ददाति तदा तेऽपि स्त्रिया बलाद्ग्राह्यःस्तत्पर्य्यप्तं घनं वा ग्राह्यमिति श्लोकद्वयन्यार्थः। इदमपि तस्या दोषराहित्ये बोध्यं दुष्टा पुनः किमपि स्त्रीधनं न लभते इत्याह स एव “अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका। व्यभिचाररता या च स्त्रीधनं न तु सार्हति”। नार्हतोत्यनेन तया लब्धमप्याच्छिद्य ग्राह्यमिति सूचितम्। अपकारक्रियायुक्ता सदा भर्तृप्रतिकूलाचरणपरा “निर्मर्य्यादार्थनाशिका” इत्यपि पाठः। देवलः “वृद्धिराभरणं शुल्कं लाभश्च स्त्रीधनं भवेत्। मुङ्क्ते तत् स्वयमेवेदं पतिर्नार्हत्यनापदि। वृथा मोक्षे च भोगे च स्त्रियै दद्यात् सवृद्धिकम्” इति। वृद्धिर्वर्द्धनार्थं पित्रादिना दर्त्तामति द्मृतचन्द्रिकायाम्। मदनरत्ने तु वृत्तिरिति पठितम्। वृत्तिर्ज्जीवतार्थं पित्रादिभिर्दत्तमिति व्याख्यातञ्च। लाभो गौर्य्यादिप्रीव्यर्थं यवभ्यते कुतश्चित्। वृथा आपदमन्तरेण। कुलयो शोकमावहेयुररक्षिताः। इमं हि सर्ववर्णानां पश्यतो धर्ममुत्तमम्। यतन्ते रक्षितुं भार्य्यां भर्त्तारो दुर्बला अपि। स्वां प्रसूतिं चरित्रञ्च कुलमात्मानमेव च। स्यधमं हि प्रयत्नेन जायां रक्षन् हि रक्षितः” इति। द्वयोः कुलयोः भर्त्तृपितृकुलयोः। अनेन कुलद्वयवृद्धैरपि रक्ष्या इति शोककथनसुखेन दर्शितम्। अतएव वृहस्पतिः “सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः। श्वश्वादिभिः पालनीया गुरुस्त्रीभिर्दिवानिशम्”। मनुरपि “कालेऽदाता पिता वाच्यो वाच्य श्चानुपयन् पतिः। मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता” इति। काले कन्यादानयोग्ये काले। वाच्योनिन्द्यः। अनुपयन् अननुगच्छन्। स एव “पिता रक्षति कौमारे भर्त्ता रक्षति यौवने। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति”। याज्ञवलक्योऽपि “रक्षेत्कन्यां पिता, विन्ना पतिः, पुत्रस्तु वार्द्धके। अभावे ज्ञातयस्तेषान्न स्वातन्त्र्यं क्वचित् स्त्रियाः” इति। विन्ना विवाहिता। पतिपुत्रविहीनायास्तु रक्षणं पतिपक्षान्तर्गतेन प्रत्यासन्नेन कार्य्यम्। तथा च नारदः “मृते भर्त्तर्य्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियः। विनियोगात्म रक्षासु भरणेषु च ईश्चरः। परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये। तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियः”। पितृपक्षस्याप्यभावे स एवाह “पक्षद्वयावसाने तु राजा भर्त्ता स्मृतः स्त्रियः। स तस्या भरणं कुर्य्यान्निगृह्णीयात्पथश्च्युताम्” इति। विनियोगः कर्मणि नियोजनम्। भर्त्ता षोषकः स्त्रीस्वभावं दर्शयति दक्षः “जलौकावत् स्त्रियः सर्वा भूषणाच्छादनाशनैः। सुहितापि कृता नित्यं पुरुषं ह्यपकर्षति। जलौका रक्तमादत्ते केवलं सा तपस्विनी। इतरा तु धनञ्चित्तं मांसं वीर्य्यं बलं सुखम्। साशङ्का बालभावे तु यौवनेऽभिमुखी भवेत्। तृणवन्मंन्यते नारी वृद्धभावे स्वकम्पातम्। स्वकांम्ये वर्त्तमाना सा स्नेहान्न च निवारिता। अपथ्या नु भवेत् पश्चाद् यथा व्याधिरुपेक्षितः” इति। सुहिता तृप्ता कृतापीत्यन्वयः। अपकर्षति सततमाज्ञामात्रं करोति स्वकाम्ये स्वेच्छायाम्। अपथ्या अर्त्यन्ताहितहेतुभूता। मनुरपि “नैता रूपं प्रतीक्षन्ते नासां वयसि संस्थितिः। सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते। पौंश्चल्याच्चलचित्त्वत्वात् नैःस्नेह्याच्च स्वभावतः। रक्षिता यत्रतोऽपीह भर्तृ- ष्वेता विकुर्वते। शय्यासनमलङ्कारं कामं क्रोधमनार्जवम्। द्रोहभावं कुचर्याञ्च स्त्रीभ्योमनुरकल्पयत्। नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मो व्यवस्थितः। निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः। तथा च श्रुतयो बह्व्या निगीता निगमेष्वपि। स्त्रीलक्षणपरीक्षार्थन्तासां शृणुत् निष्कृतीः। यन्मे मोता प्रलुलुभे विचरन्त्यऽपतिव्रता। तन्मे रेतः पिता वृङ्क्तामित्युक्तैतन्निदर्शनम्। ध्यायत्यनिष्टं यत्किञ्चित्पाणिग्राहस्य चेतसा। तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यत। एवं स्वभार्वं ज्ञात्वाऽऽसाम्प्रजापतिनिसर्गजम्। परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति” इति। निरिन्द्रिया निर्वीर्य्यां धैर्य्यप्रज्ञादिरहिता इति यार्वत्। स्त्रियोऽनृतमिति प्रायशोऽनृतवदनशोलत्वादुच्यन्ते। श्रुतयः श्रुतिवाक्यानि। निगमेषु वेदेषु स्त्रीलक्षणं स्वरूपं तासां श्रुतीनाम्मध्ये या निष्कृतिरूपा व्यभिचारप्रायश्चित्तरूपास्ताः श्रुतीः शृणुत स्त्रीस्वभावज्ञानार्थमित्यर्थः। महाभारतेऽपि “कुलीना रूपवत्यश्च नार्थवत्यश्च योषितः। मर्यादासु न तिष्ठन्ति स दोषः स्त्रीष नारद!। अनर्थित्बन्पनुष्यस्य भयात्परिजनस्य च। मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु। यौवने वर्त्तमानानां मृष्टाभरणवाससाम्। नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः। यदि पुंसाम्मतिर्व्रह्मन्! कथञ्चिन्नोपपद्यते। अन्योन्यञ्च प्रवर्त्तन्ते न च तिष्ठन्ति भर्तृषु। अलाभात् पुरुषाणाञ्च भयात्परिजनस्य च। बधबन्धभयाच्चैव स्वयं गुप्ता भवन्ति ताः। नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानान्न पुंसां वामलोचना। कामानामपि दातासं दादारं मानसान्नयोः। रक्षितारन्न मृष्यन्ति भर्त्तारं यत्नतः स्त्रियः” इति। श्रीरामायणेऽपि “नैवाङ्गनानान्दयितो नापि द्वेष्योऽस्ति कसन। सर्वमेवावलम्बन्ते लता गहनजा इवेति”। अथ रक्षणप्रकारः। तत्र मनुः “न कश्चिद्योयितः शक्तः प्रसह्य परिरक्षितुम्। एतैरुपाययौगैस्तु शक्यास्ताः परिरक्षितुम्”। इति। प्रसह्य आक्रम्य अवरुह्येति यावत्। यद्यप्यवरोधेन शरीरव्यभिचाराद्रक्षणं शक्यन्तथापि मानसव्यभिचाराद्रक्षणमशक्यमित्याशयेन मनुना न कश्चिद्योषितः शकः पसह्य परिरक्षितुमित्युक्तम्। न च मानसव्यभिचाराद्रक्षणमनर्थकमन्यजत्वाभावेन प्रजाविशुद्धिविघाताभावादिति वक्तव्यम्। यत आह स एव “यादृशं भजते स्त्री हि सुतं सूते तथाविधम्। तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियो रक्षेत् प्रयत्नतः” इति। यादृशं पुरुषमृतुकाले स्त्री मनसा भजते तत्समानशीलं पुत्रं जनयतीति पूर्वार्द्धार्थः। अतएवाहतुः शङ्खलिखितौ “यस्मन् भावेओऽर्पतः स्त्रीणामार्त्तव तच्छीलं जनयन्तीति”। मानसव्यभिचारादपि स्त्रियं रक्षेदिति शेषः। तथां च मनुना तस्मादत्यादिनोत्त रार्द्धेनायमेवार्थो दर्शितः। परिरक्षणोपायानाह मनुरेव “अर्थस्य संग्रहे चनां व्यये चैव नियोजयेत्। शौचे धर्मे च पक्त्याञ्च पारिणाह्यम्य चक्षण” इति। अर्थस्य संग्रहे स्वेन समानीतार्थसंविधाने। व्यये स्वेनोक्तव्यये। शौचे गृहादिशुद्धिकरसंमाजनापलेपनादौ। धर्मे अग्निहोत्राद्यनुकूललौकिकव्यापारे। पक्त्यां पाकव्यापरे। पारिणाह्यं पीटादि गृहोपकरणं तस्य ईक्षणे विचारणे। निरन्तरगृहव्यापारनियोजनात पुरुषान्तरचिन्ताराहित्यं यथा भवति भार्यायाः तथा कुर्यादिति तात्पर्यार्थः। वृहस्पतिरपि “आयव्ययेऽथ संम्कारे गृहोपसकररक्षणे। शौचाग्निकार्य्ये संयोज्याः स्त्रीणां शुद्धिरियं स्मृता” इति। एवविधव्यापारासक्तचित्ततया साध्व्य इति व्यपदिश्यन्त इत्याह मनुः “आत्मानमामना यास्तु रक्षेयुस्ताः सुरक्षिताः” इति। आत्मना गृहव्यापारासक्तेनान्तःकरणेन सुरक्षिताः साध्यः। आप्तपुरुषारक्षितस्तु स्त्रियो न सम्यग्रक्षिता इत्याह स एव “अरक्षता गृहे रुद्धाः पुरुषैराप्तकारिभिः” इति। आप्तकारिभिः पुरुषैः गृहे रुद्धा इत्यन्वयः। आप्ताश्च ते कारिणश्चाप्तकारिणः। अरक्षिताः सम्यग्रक्षाविहीना इत्यर्थः। भर्त्तुर्द्धर्मनिष्ठत्वमोपि स्वीणां रक्षणोपाय इति दर्शयितुं स एवाह “यादृग्गुणेन भर्त्ता स्त्री संयुज्य त यथाविधि। तादृग्गुणा सा भवति समुद्रेणेव निमग्ना। अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा। शारङ्गी मन्दपालेन जगामाभ्यर्हणीयंताम्” इति। मार्याया भरणमप्यावश्यकमित्याह स एव “देवदत्तां पतिर्भार्गां विन्दतेनेच्छयात्मनः। तां साध्वीं विभृयान्नित्यं देवानां प्रियमाचरन्”। देवैर्दत्ता देवदत्ता दैववशादायातेति यावत्। तां भार्यां स्वयंवरे पतिर्विन्दते। तत्र स्वव्यापाराभावाद्देवदत्तामित्यनेन विवाहलक्षणस्य स्त्रीपुंसयोः सम्बन्धस्य न स्वाधीनत्वं किन्तहि देवकृतत्वमिति दर्शितम्। देव- दत्तत्वञ्च स्त्रीणाम् “सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिश्च पुत्रांश्चाददग्निर्मह्यमथो इमाम्” इत्यादिभ्यः श्रुतिवाक्यभ्योऽवगम्यते। तेन देवैर्दत्ताया अभरणेन दातॄणां देवालां द्राह आपाद्यत इत्यर्थवाद इत्युक्तं मदनरत्न। न च साध्वोमित्यस्य पतिब्रतामित्यर्थपरत्वेन व्यभिचारिण्या भरणमनावश्यकमिति वक्तव्यम्। तस्या अपि कदन्नादिनाऽवश्यभरणायत्वात्। तथा च नारदः “व्यभिचारे स्त्रियामौण्ड्यमधःशयनमेव च। कदन्नञ्च कुवासश्च कर्म चावस्करोज्झनम” इति। स्त्रियारत्यर्थं व्यभिचारे जाते मुण्डनमधःशयनञ्च साधयेत। कदन्नं कवासश्च भरणार्थं दद्यात्। अमेध्यशोधनरूपं कर्म कारयेदिर्त्यर्थः। दोषरहिताया भार्यायाः परित्यागिभं प्रत्याह नारदः “अनुकूनाभवाग्दष्टां दक्षां साध्वों प्रजावतीम्। त्यजन् भार्यामवस्थाप्या राज्ञा दण्डेन भूयसा” इति। विष्णुरपि “निर्दीषां परित्यजन् पत्नीञ्चेति” चौरवच्छास्य इत्यनुषङ्गः। निर्दोषान्त्यागहेतुभूतदाषरहिताम्। दण्डेन स्थापयितुमशक्ये त्वाच योमीश्वरः “आज्ञामम्पादिनीं दक्षां वीरसू प्रियवादिनीम्। त्यजन् दाप्यस्तृतीयांशमद्रव्योभरणं स्त्रियः” इति। तृतीयांशन्तद्धनतृतीयांशम्। राज्ञा भार्याया दाप्यः। अल्पधनः भरणमात्रपर्य्याप्तं धनं दाप्य इत्यथः”।
स्त्रीपुंस = पु० द्विव० स्त्री च पुमांश्च अच्समा०। सिलितयोः स्त्रीपुरुषयोः।
स्त्रीपुंसलक्षणा = स्त्री स्त्रीपुंसयोर्लक्षणमस्याम्। स्तनश्मश्रुप्रमृतिस्त्रीपुरुषचिह्नधारिण्यां स्त्रियाम् पोटायाम् अमरः
स्त्रीप्रिय = पु० ६ त०। १ आम्रवृक्षे त्रिका०। २ नारीप्रियमात्रे त्रि०
स्त्रीमुखप = पु० स्त्रीसुखं पाति पा–क। दोहलशब्दार्थे राजनि०।
स्त्रीरोग = पु० ६ त०। स्त्रीणां रोगे योनिरोगादौ सुश्रुतः।
स्त्रीलिङ्ग = पु० स्त्रिया इव लिङ्गं तत्कार्य्यं यस्य। स्त्रीयिङ्गविहितव्याकरणोक्तसंस्कारयुक्ते १ शब्दभेदे। ६ त० स्त्री२ चिह्न स्तनादौ न०।
स्त्रीवश = पु० ६ त०। स्त्रीवशीमूते।
स्त्रीविधेय = पु० ६ त०। स्त्रीवशीभूते।
स्त्रीसग्रहण = न० स्त्रियाः सग्रहणं यत्र। परस्त्रीहरणरूपे विवादपदमेदे। तत्स्वरूपादिक वोरमि० दर्शितं यथा “अथ स्त्रीसंग्रहणाख्य व्यवहारपदम्। तस्य त्रैविव्यमाह वृहस्पतिः “पापमूलं संग्रहणं त्रिप्रकारं निथोघत। बलोपधिकृते द्वे तु तृतीयमनुरागजम्” इति। एतेषां स्वरूपं दर्शयति स एव “अनिच्छन्त्या यत् क्रियत मत्तोन्मत्तप्रमत्तेया। विलपन्त्या वा रहसि बलात्कारकृतन्तु तत्। छद्मना गृहमानीय दत्त्वा स्वं मदकारणम्। संयोगः क्रियते यत्र तचूपधिकृतं विदुः। अन्योन्यञ्चक्षूरागेण दूतीसंप्रेषणेन वा। कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम्” इति। अनुरागज संग्रहस्य त्रिविधत्वं दर्शयति स एव “तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम्” इति। व्यासोऽपि “संग्रहस्त्रिविधोज्ञेयः प्रथमोमध्यमस्तथा। उत्तमश्चेति शास्त्रेषु लक्षणं च पृथक् पृथक” इति। एतेषां स्वरूपमाहतुर्व्यासवृहस्पती “कटाक्षावेक्षणं हास्यं दूतीसंप्रेषणं तथा। स्पर्शोभषणवस्त्राणां प्रथमः संग्रहः स्मृतः। प्रेषणं गन्धमाल्यानां फलधूपान्नवाससाम्। सम्भाषणञ्च रहसि मध्यमं संग्रहं विदुः। एकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा। एतत् संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः” इति। स्त्रीसंग्रहणस्य ज्ञानोपायमाह याज्ञवल्क्यः “पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया। सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा” इति। परभार्यया सद केशाकेशि क्रीडनेन सद्यः अभिनवैः कामजैः कररुहदशनादिकृतव्रणादिलिङ्गैर्द्वयोः सम्प्रतिपत्तावयं स्त्रीसग्रहणवान् इति प्रतिपत्तव्य इत्यर्थः। उपायान्तरमाह स एव “नीवीस्तनप्रावरणसक्थिकेशावमर्शनम्। अदेशकाल सम्भाषः सहैकस्थानमेव च” इति। कुर्वाण इति शेषः सक्थि ऊरुः। मनुरपि “स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया। परस्परस्यानुमते सर्वं संग्रहणं स्मृतम्”। यस्तु दर्पादिना मयेयं भुक्तेति वदति सोऽपि तथाविघत्वेन ग्राह्य इत्याहतुर्मनुनारदौ “दर्पाद्वा यदि वा मोहात् श्लाघया वा स्वयं वदेत्। पूर्वं मयेयं भुक्तेति तच्च संग्रहणं स्मृतम्” इति। बलात्कारकृतस्य स्त्रीसंग्रहणस्य साहसान्तर्भूतत्वेन तत्रैव दर्शितत्वादुपधिकृत दण्डमाह वृहम्पतिः “दर्पान्ना कामयेद्यस्तु तस्य सर्वहरोदमः। अङ्कयित्वा भगाङ्केन पुरान्निर्वासयेत्ततः” इति। सर्वहरः सर्वस्वहरः एतत् सजातीय विषयम्। हीनोतकृष्टागमने तु क्रमेणार्द्धं धनं सर्वस्वहरणरूपो बधसहितसर्वस्वहरणरूपो व्य दण्डाऽवगन्तव्यः। “दमानेयः समायान्त्रिति” साहगवादनिरूपण- दर्शितवचनात्। तत्र वचने पुरुषस्यापकर्षाभावे युको दण्डा न स्त्रिया इति नोक्तस्तस्याः दण्डः तेन साधस स्त्रासंग्रहणवत् प्रकृतऽपि सजातीयापभुक्तायाः सव्यवहार्य्याव्याः प्रायश्चित्ताचरणानन्तरं पुनरपि तेनोपभुक्ताया इति ज्ञातव्यमित्युक्तं मदनरत्ने। अनुरागजत्रिविघ सग्रहणे दण्डमाहा स एव “त्रयाणामपि चैतेषां प्रथमो मध्यमोत्तमौ। विनयः कल्पनीयः स्यादाधकोद्रदिणाधिकः” इति। अधिकः प्रथमसाहसादिभ्याऽधिकः। सम्भोगे दण्डमाह याज्ञवल्क्यः “स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः। प्रातिलोम्ये बधः पुंमो नार्याः” कर्णादिकर्त्तनम्” इति। चतुर्णामपि वर्णानां बलात्कारेण सजातोयपरभार्यावमने साशीतिपणसहस्नो दण्डः। यदा त्वानुलोम्येन हीनजातीयागमनं तदा मध्यममाहसः। उतकृष्टजातीयागमने गन्तुर्बधः। तस्याः कर्णादिकर्त्तनमित्यर्थः। एतच्चानुरागजग्रहणविषयं स्त्रिया अपि दण्डाभिधानात्। वलात्कारोपधिकृतयोस्तु स्त्रिया अनपराधत्वेन दण्डाभावात्। अस्मादेव प्रातिलोम्येन गमने पुरुषस्य बघं विधाय स्त्रियास्तदर्द्धतुल्यकर्णनासादिकर्त्तनविधानात् सजातीयागमने पुरुषस्य यावुक्तावुत्तममध्यभसाहसौ दण्डौ तदर्द्धं स्त्रियादण्ड इति सूचितम्। अतएव कात्यायनः “सर्वेषु चापराधेषु पुंसोह्यर्थदमस्तथा। तदर्द्धं योषिता दद्युर्बधे पु सोऽङ्गकर्त्तनम्”। इति। स्त्रिया इति शेषः। यदा पुनः सवर्णामगुप्तां आनुलोम्येन गुप्तां वा व्रजति तदा विशेषमाह मनुः “सहस्रं व्राह्मणो दण्ड्योऽगुप्तां विप्रां बलाद् व्रजन्। शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या संह सङ्गतः। सहस्रं ब्रह्मणी दण्डं दाप्यो गुप्ते तु ते व्रजन्। शूद्रायां क्षत्रयविशोः सहस्रन्तु भवेद्दमः” इति। ते क्षत्रियवैश्ये। एतच्च गुरुसखिभार्य्यादिव्यातिरिक्तविषयम्। तत्र दण्डान्तरविधानात्। तदाह नारदः “माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा। पिवव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा। दुहिता चार्यभार्य्या च सगोत्रा शरणागता। राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या। शिश्नस्योत्कर्त्तनात्तत्र नान्योदण्डो विधीयते” इति। यत्तु प्रातिलोम्येन गमने क्षत्रियादेः पुरुषस्य वध इत्युक्तं योगोश्वरवचने। तद्गुप्ताविषयमन्यथाऽर्थदण्डः। तथा च मनुः “उभावपि हि तावेव ब्रा- ह्मण्या गुप्तया सह। विप्लुतौ शृद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना। ब्रह्मणीं यद्यगुप्तान्तु सेवेतां वैश्य पार्थिवौ। वैश्यम्पञ्चशत कुर्य्यात् क्षात्रयन्तु सहस्निणम्” इति। पञ्चशतम्पणशतपञ्चकदण्डभाजमित्यर्थः। एव सहस्रिणमित्यत्रापि। क्षत्रियस्य गुप्तवैश्यागमने वैश्यम्य च गुप्तक्षत्रियागमने क्रमेण पणसहस्रपणशतपञ्चकं तयोर्दण्ड इत्याह स एव “वैश्यश्चेत् क्षत्रियाङ्गुप्तां वैश्यां वा क्षत्रियो व्रजेत्। यो ब्राह्मण्यामगुप्तायान्ता वुभौ दण्डमहेतः” इति। शूद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गच्छेदनसर्वस्वापहरणे गुप्तागमने तु बधसर्वस्वाप हारौ। तथा च स एव “शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमाचरन्। अगुप्तैकाङ्गसर्वस्वो गुप्तौ सर्वेण हीयते” इति। अयञ्च बधाद्युपदेशः प्रजापालनाधिकाराद्राज्ञ एव न द्विजातिमात्रस्य। “व्राह्मणः परीक्षार्थमपि शस्त्रं नाददीतेति” शस्त्रग्रहणस्य निषिद्धत्वात्। यदा तु राज्ञो निवेदने कालविलम्बेन कार्य्यातिपातस्तदा द्विजातिमात्रस्यापि शस्त्रग्रहणेऽधिकारोऽस्त्येव “शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते। नाततायिबधे दोषो हन्तुर्भवति कश्चन। प्रच्छन्नं वा प्रकाशं वा मन्युस्त मन्युमृच्छति” इति शस्त्र ग्रहणाभ्यनुज्ञानात्। परस्त्रिया सह सम्भषण कर्तुर्दण्डमाह मनुः “परस्य पत्न्या पुरुषः संलापं योजयेत् सूह। पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम्” इति। आक्षारितः अभिशस्तः। दोर्षः नानास्त्युपमोगवाञ्छाभिः। पापबुद्ध्या यः सम्भाषणं करोति तद्विषयमेतत्। अतएव “यस्त्वनाक्षारितः पर्वमभिभाषेत कारणात्। न दोषं प्राप्नुयात् किञ्चिन्न हि तस्य व्यतिक्रमः” इति। मनुवृहस्पत्युक्तपूर्वसाहस मध्यमसाहसयोरुत्कृष्टसजातीयासम्भाषणादिविषयत्वेन व्यवस्था परिकल्पनीया। परपुरुषेण सह पित्रादिभिः र्निषिद्धं सम्भाषणं या करोति सा पणशतं दण्ड्या परस्त्रिया सह पित्रादिभिर्निषिद्धसम्भाषणं यः पुरुषः करोति पणशतद्वयं दण्डनीयः। द्वयोरपि निषिद्धपरस्परसम्भाषणादि कुर्वतोः सम्भोगे यो दण्डः स एव दण्ड इत्याह याज्ञवल्क्यः “स्त्री निषेधे शतं ष्टद्याद् द्विशतन्तु दमं पुमान्। प्रतिषेधे तयोर्दण्डो यथा सङ् ग्रहणे तथा” इति। निषिध्यत इति निषेधः कर्भणि हलश्चेति घञ्। चारणादिस्त्रीव्यतिरिक्तविपयमेतत् “नैष चारणदरेर्षु विधिर्नात्मोपजीविषु। सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च” इति मनुस्मरणात् नटाः आत्मोपजीविनः वेशोपजीविनः। एतेषा दारषु एष विधिन अभिभाषणादिनिमित्तकदण्डविधिर्न। परनरे नारीः स्वभार्य्याः सज्जयन्ति पुरुषान्तरे संयोजन्ति प्रच्छन्नीकृत्य चारयन्ति वेत्यर्थः। माधारणस्त्रीगमने दण्डमाह याज्ञवल्क्यः “अवरुद्वासु दासीषु भुजिष्यासु तथैव च। गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकन्दमम्” इति। स्वामिना या शुश्रूषार्थं गृहे एव स्थातव्यमित्येव पुरुषान्तरोपभागतो निरुद्धास्ताः अवरुद्धाः। पुरुषान्तरेणावरुध्य भुज्यमाना भुजजिष्याः या दास्यो भुजिष्या अवरुद्धा वा तासु सर्वपुरुषगम्यास्वपि गमने पञ्चाशत्पणं दण्ड्यः तामाम्परपरिगृहीतत्वेन परस्त्रीतुल्यत्वात्। चशब्दाद्वेश्यास्वरिणीनामपि ग्रहणम्। तास्वपि सर्वपुरुषसाधारणीसु परपरिगृहीतासु गमनेऽयमेव दण्ड इति मन्तव्यम् एतदवाभिप्रेत्याह नारदोऽपि “स्वैरिण्डब्राह्मणी वेश्या दासौ निष्कासिनी च या। गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः। आस्वेव तु भुजिष्यासु दोषः म्यात्पादारवत्। गम्यास्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः” इति। अब्राह्मणीति स्वैरिण्यापिशेषणम्। स्वैरिणी स्वतन्त्रा पुंश्चली। निष्कासिनी कुटुम्बान्निर्गतेति मदनरत्ने। स्वाम्यनवरुद्धा दासीति विज्ञानेश्वरमाधवाचार्य्यप्रभृतयः। भुजिष्या स्वा स्वेति सम्बन्धः। व्यासोऽपि “परोपरुद्धागमने पञ्चाशत्पणिको दमः। प्रस्ह्य वेश्यागमने दण्डो दशपणः स्मृतः” इति। प्रमह्य वेतनदानं विना अत्रानवरुद्धासु पेश्यादिपु गम्यत्वाभिधानन्न पापाभावप्रतिपादनार्थं किन्तु राजदण्डाभावप्रतिपादनार्थम्। “पशुवेथ्यादिसमने प्राजापत्यं विधीयते” इत्यादिवचनैः प्रायथित्तस्यरणात्। बलात्कारेण अनवरुद्धदास्यभिगमने दण्डमाह याज्ञवल्क्यः “प्रसह्य दास्यभिगमे दण्डो दशपसः स्मृतः। वहूनां यद्यकामासौ चतुर्विंशतिकः पुथक्” इति। पुरुषसम्भोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानमन्तरेण वलात्कारेणामिगच्छतो दशपणो दण्डः। यद्यनिच्छन्तीमेकाम्बलात्कारेण बहवो गवर्वान्त तर्हि प्रत्येकं चतुर्विशतिपणात्मको दण्ड इत्त्यर्थः। यदि पुनः सा स्वेच्छया भाटकं गृहीत्वा पश्चान्नेच्छति तदा बलाद्व्रजतामपि बहूनामदोषः यदि तस्या व्याध्याद्यभिभवो न भवेत्। अतएव नारदः “व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा। आमन्त्रिता चेन्नागच्छेददण्ड्या बडवा स्मृता” इति। पारदार्य प्रसङ्गात् कन्यायामपि दण्डमाह याज्ञवल्क्यः “अलङ्कृतां हरन् कन्यामुत्तमं त्वन्यथाऽधमम्। दण्डं दद्यात् सवर्णासु प्रतिलोम्ये बधः स्मृतः” इति। अलङ्कृतां विवाहाभिमुखीं तां सवर्णां कन्यामपहरन् उत्तम साहसं दण्डनीयः। तदनभिमुखीं हरन् प्रथमसाह सम्। उत्कृष्टवर्णजातां हरतः क्षत्रियादेबध इत्यर्थः। आनुलोम्येन–सकामाहरणे न दण्डस्तथा च स एव “सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः” इति। कन्यादूषणे दण्डमाह स एव “दूषणे तु करच्छेद उत्तमायां बधः स्मृतः। शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्याभिशंसने” इति। “पशून् गच्छन् शतं दाप्यो हीनां स्त्रीङ्गाञ्च मध्यमम्” इति। यद्यकामां कन्यान्नखक्षतादिना प्रसह्य दूषयति तदा करच्छेदः। यदा तु अङ्गुलि प्रक्षेपेण तामेव योनिक्षतां कुर्वन् दूषयति तदा विशेषमाह मनुः “अभिषह्य तु यः कन्यां कुर्य्याद्दर्पेण मानवः। तस्याशु कर्त्त्ये अङ्गुल्यौ दण्डञ्चार्हति षट् शतम” इति। सकामदूषणेऽप्याह स एव “सकामां दूषयन् कन्यां नाङ्गुलिच्छेदमर्हति। द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये” इति। यदा कन्या विदग्धा वा कन्यां दूषयति तदाप्याह स एव “कन्यैव कन्यां या कुर्य्यात्तस्यास्तु द्विशतो दमः। या तु कन्यां प्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्यभर्हति। अङ्गुल्योरेव वा छेदः खरेणोद्वहनन्तथा” इति कुर्य्यात् योनिक्षतवतीमिति शेषः। यदा पुनरुत्कृष्टजातीयां कन्यां सकामामकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर्बधः। यदा सकामां सवर्णामभिगच्छति तदा शुल्कं गोमिथुनं तत्पित्रे दद्यात्। अनिच्छति तस्मिन् दण्डरूपेण राज्ञे दद्यात्। सवर्णामकामाङ्गच्छतो बध एव। तदाह मनुः “उत्तमां सवमानस्तु जघन्योबर्धमर्हति। शुल्कं दद्यात् सवमानः समामिच्छेत् पिता यदि। योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति। सकामां दूषयं स्तुल्यो न बधं प्राप्नुयान्नरः” इति। चाण्डाल्यादिगमने दण्डमाह याज्ञवल्क्यः “अन्त्याभिगमने त्वङ्क्यं कुबर्णेन प्रवासयेत्। शूद्रस्तथान्त्य पव स्यादन्त्यस्यार्यागमे बधः” इति। अन्त्या चाण्डाली तद्गमने त्रबर्णिकान् प्रायश्चित्तानभिमुखान् “सहस्रं त्रन्त्यौ। १ यमिति” मनुवचनानुसारेण पणसहस्रं दण्डयित्वा कुत्सितवर्णेने भागाकारेणाङ्कयित्वा स्वराष्ट्रान्निर्वासयेत् शूद्रः पुनश्चाण्डालीङ्गच्छश्चण्डाल एव। अङ्क्य एवेति माधवीये पाठः। चाण्डालस्य तूत्कृष्टजातिस्त्र्याभिगमने बध एवेत्यर्थः। योनिव्यतिरिक्त स्थले गच्छतो दण्डमाह स एव “अयोनौ गच्छतो योषां पुरुषं वाऽभिमेहतः। चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे” इति। यस्तु योषां मुखादावभिगच्छति पुरुषं वभिमुखं मेहति तथा प्रव्रजतां वा गच्चहति असौ चतुर्विंशतिपणा दण्डनीय इत्यर्थः। स्त्रीकृते संग्रहणे दण्डमाह वृहस्पतिः “गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना। कामयेत् तत्र सा दण्ड्या नरस्यार्द्धदमः स्मृत” इति वचसा स्त्रियं प्रलोभ्य गच्छतः पुरुषस्य यो दण्डस्तदर्द्धं दण्ड्या”।
स्त्रीसभ = न० स्त्रीणां समा क्लीवत्वम्। स्त्रीसमाजे।
स्त्रीसेवा = स्त्री ६ त०। स्त्रीसम्भोगे व्यवायमधर्मेण नारोसेवने
स्त्रीस्वभाव = पु० स्त्रिया इव खभावो यस्य। १ अन्तःपुररक्षके महल्लके शब्दमा० ६ त०। २ स्त्रीणां शीले च। स्त्रीपुंधर्मशब्दे दृश्यम्।
स्त्रैण = न० स्त्रिया इदम् अण् नञ्। १ स्त्रीस्वभावे “स्त्रैणेन नीता विकृतिं लघिम्ना” भट्टिः। २ स्त्रीविधेये स्त्रिया अपत्यं स्त्रीणां समूहो वा अण्। २ स्त्र्यपत्ये स्त्रीसमूहे न०।
***