सृ = गतौ स्थितो चु० उभ० सक० सेट्। सारयति ते पर्युदासान्न षोपदेशः।
सृ = गतौ भ्वादि० परस्मै० सक० अनिट् सरति। असरत् असार्षीत् पर्युदासान्न षोपदेशः। “नालानं करिणां सस्रे” च रघुप्रयोगात् आत्म०।
सृ = गतौ जु० वैदिकः पर० सक० सेट्। ससर्त्ति असरत् पर्युदासान्न पापदेशः।
सृक = पु० सृ–कक्। १ कैरवे २ वाणे उणा०। ३ पद्मे ४ वायौच सि० को०।
सृकण्डु = पु० सृ–क्विप् पृषो० कर्म० कण्डुरोगे शब्दर०।
सृकाल = पु० सृ–कालन् कस्य नेत्वम्। शृगाले शब्दच०।
सृक्क(न्) = न० सृज–कन् कनिन् वा कस्य नेत्त्वम्। ओष्ठप्रान्त भागे “सृक्कणी परिलेढ च” स्मृतिः। “महासृक्काय। शोभितो नृसिंहवदिति” श्लेषात् कान्तताप्यस्य।
सृक्वन् = न० सृज–क्वनिप्। ओष्ठप्रान्तभागे अमरः। पृषो०। सृक्विन् अप्यत्र अरुणः। सृक्किणी तत्रार्थे स्त्री राजनि०
सृग = पु० सृ–गक् गस्य नेत्त्वम्। पिन्दिपालास्त्रे अमरः।
सृगाल = पुं स्त्री० सृ–गालन् गस्य नेत्त्वम्। १ जग्येके (शेयाल) शब्दर०। स्त्रियां ङीष्। २ दैव्यभेदे हरिबं०।
सृज = विसर्गे त्यागे दिवा० आत्म० अनिट् सक०। सृज्यते असृष्ट। पर्युस्यसान्न षोपदेशः।
सृज = विसर्गे तु० पर० सक० अनिट् सृजति अस्राक्षीत् ससर्जिष सस्रष्ठ स्रष्टा स्रक्ष्यति। पर्युदासन्न षोपदेशः।
सृजकाक्षार = पु० सृजति वर्चस्मित्वं सृब्ब–क ततः स्वार्थे क सृजका सर्जिला कर्म०। सर्जिकाक्षारे रमाना०।
सृणि = पु० सृ–निक्। १ शत्रौ शब्दसा०। २ अङ्कुशास्त्रे स्त्री अमरः। तत्र वा ङीष्। सृणीत्यपि।
सृणि(णी)का = स्त्री सृणि + कन् ईकन्वा। लालायाम् अमरः
सृति = स्त्री सृ–भावे क्तिन्। १ गमने। करणे क्तिन्। २ पषि च मेदि०।
सृत्वन् = पु० सृ–क्वनिप्। १ प्रजापतौ उज्ज्वल०। २ विसर्प ३ वृद्धोसंक्षिप्त०।
सृत्वर = त्रि० सृ–क्वरप्। १ गमनकर्त्तरि स्त्रिथां ङीप्। सा च २ मातरि संक्षिप्तसा०।
सृदर = पु० सृ–अरक् दुक् च। सर्पे सि० कौ०।
सृदाकु = पु० सृ–काकु दुक्च। १ वायौ २ वज्रे ३ अग्नो ४ प्रतिसूर्य्यके मेदि०। ५ मृगे संक्षिप्त०। नद्यां स्त्री उणा०।
सृप = गतौ भ्वा० पर० सक० अनिट्। सर्पति असृपत्। पर्युदासान्न षोपदेशः।
सृपाट = पुंस्त्री० सृप–काटन्। १ परिमाणभेदे २ रक्तधारायां गोवर्द्धनः। स्त्रियां ङीप्। स्वार्थे क अत इत्त्वम्। सृपाटिका। चञ्चौ हेमच०।
सृप्र = पु० सृप–क्रन्। चन्द्रे उणा०।
सृमर = पुंस्त्री० सृ–क्मरच्। १ मृगभेदे अमरः। स्त्रियां ङीष्। २ गमनशीले त्रि०।
सृष्ट = त्रि० सृज–क्त। १ निर्मिते २ युक्ते ३ निश्चिते ४ बहुले मेदि०। ५ भूषिते अजयः। ६ त्यक्ते च।
सृष्टि = स्त्री सृज–क्तिन्। १ निर्माणे २ स्वभावे च मेदि० कर्मणि क्तिन्। ३ सृज्यमाने “या सृष्टिः स्रष्टुराद्ये” ति शकुन्तला० ४ निर्गुणे शब्दर०। ब्रह्माण्डसृष्टिप्रकारः नानापुराणेषूक्तः तत्र षतवपु० उक्तः प्रकारा यथा “महाप्रलयकालान्त एतदासीत्तमोमयम्। प्रसुप्तमिव चातक्यम्। ज्ञातमलक्षणम्। अविज्ञेयमविज्ञातं जगत् त्रास्नु चारष्णुच। ततः स्वयम्भूरव्यक्तः प्रभवः पुण्यकर्मणाम्। व्यञ्जयन्नेतदखिलं प्राद्रासीत्तमानुदः। योऽतोन्द्रियः परो व्यक्तादणुर्ज्योयान् सनातनः। नारायण इति ख्यातः स एकः स्वयमुद्बभौ। यः शरीरादभिध्याय सिसृक्षुर्विविधं जनत्। अपएव ससर्जादौ तासु बोजमवासृजत्। तदेवाण्डं समभवद्धेमरूपमयं महत्। संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम्। प्रविश्यान्तर्महातेजाः स्वयमेवात्मसम्भवः। प्रभावादपि तत् व्याप्त्या विष्णुत्वमतमद् पुनः। तदन्तर्भगवानेष सूर्य्यः समभवत् पुरा। आदित्यपादिभूतत्वात् ब्रह्मा ब्रह्म पठन्नभूत्। दिवं भूमिं समकरोत्तदण्डशकलद्वयम्। स चाकरोद्दिशः मर्वा मध्ये व्योम च शाश्वतम्। जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा। यदुल्वन्तदभून्मेघ स्तडित्सङ्घातमण्डलम्। नद्योऽण्डनाम्नः सम्भूना पितरो मनवस्तथा। सप्त येऽमी समुद्राश्च तेऽपि चन्तिर्जलोद्भवाः। लवणेक्षुसुराद्याश्च नानारत्नसमत्विताः। स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम!। तत्तेजसश्च त त्रैव मार्तण्डः समजायत। मृतेऽण्डे जायते यस्मान्मार्त्तण्डस्तेन स स्मृतः। रक्षोगुणमयं यत्तद्रूप तस्य महात्मनः। चतुर्मुखः स भगवानभूल्लोकपितामहः। येन मृष्टं जगत्सर्वं स देवासुरमानुषम्। तमर्वेहि रजोरूपं महत्सत्त्वमुदाहृतम्”। मनुरुवाच “चतुमुंखत्वमगमत् कस्माल्लोकपितामहः। कथं नु लोकानसृजत् ब्रह्मा ब्रद्धविटांवरः”। मत्स्य उवाच “तपश्चचार प्रथममराणा पितामहः। आविर्भूतास्ततो वैदाः साङ्गोपाङ्गपदकमाः। पुराणं सर्वशास्त्राणां प्रथम ब्रह्मणा स्मृतम्। नित्यं शब्दमयं पुण्यं शतकोटिप्रवि- स्तरम्। अनन्तरञ्च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः। मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः। वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः। मनसा पूर्वसृष्टा वै जाता यत्तेन मानसाः। मरीचिरभवत् पूर्वं ततोऽत्रिर्मगवान् ऋषिः। आङ्गिराश्चाभवत्पश्चात् पुलस्त्यस्तदनन्तरम्। ततः पुलहनामा वै ततः क्रतुरजायत। प्रचेताश्च ततः पुत्रो वसिष्ठश्चाभवत् पुनः। पुत्रो भृगुरसूत्तद्वन्नारदोऽप्यचिरादभूत्। दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रानजीजनत्। शारीरानथ वक्ष्यामि मातृ हीनान् प्रजापतेः। अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत। धर्मः स्तनान्तादभवत् हृदयात् कुसुमायुधः। भ्रूमध्यादभवत् क्रोधो लोभश्चाधरसम्भवः। बुद्धेर्मोहः समभवदहङ्कारादभून्मदः। प्रमोदश्चाभवत् कण्ठान् मृत्युर्लोचनती नृप!। भरतः करमध्यात्तु ब्रह्मसूनुरमूत्ततः। एते नव! सूता राजन्! कन्या च दशमी पुनः। अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता। मनुरुवाच “बुद्धेर्भोहः समभवदिति यत्परिकीर्त्तितम्। अहङ्कारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते”। मत्स्य उवाच “सत्त्वं रजस्तमश्चैव गुणत्रयसुदाहृतम्। साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्त्तिता। केचित् प्रधान मित्याहुरव्यक्तमपरे जगुः। एतदेव प्रजासृष्टिं करोति विकरोति च। गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विउज्ञिरे। एका मूर्त्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः। सविकारात् प्रधानात्तु महत्तत्त्वं प्रजायते। महानिति यतः ख्यातिर्लोकानां जायते सदा। अहङ्कारश्च महतो जायते मानवर्धनः। इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु। प्रादुर्भवन्ति चान्यानि तथा कर्मवशानि तु। श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम्। पायूपस्थं हस्तपादं वाक् चेतीन्द्रियसग्रहः। शब्दः स्प र्शश्च रूपञ्च रसो गन्धश्च पञ्चमः। उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः। मन एकादशं तेषां कर्मबुद्धिगुणान्वितम्। इन्द्रियाबयवाः सूक्ष्मास्तस्य मूर्तिं मनीषिणः। श्रयन्ति यस्माचन्मात्राः शरीरं तेन संस्मृतम्। शरीरयोगाज्जीवोऽपि शरीरी गद्यते बुधैः। मनः सृष्टिं विकुरुते चोद्यमानं विसृक्षया। आकाशं शब्दतन्मात्रा दभूच्छब्दपुणात्मकम्। आकाशविकृतर्बायुः शब्दस्पर्श गुणोऽभवत्। वायोश्च स्पर्शमन्मात्राहेजश्चाविरभूत्ततः। लिपुणं तहिकारेण तच्छब्दस्पर्शरूपवत्। तेजो विका- रादभवद्वारि राजंश्चतुर्गुणम्। रसतन्मात्रसम्भूतं प्रायो रसगुणात्मकम्। भूमिस्तु गन्धतन्मात्रादभूत् पञ्चगुणान्विता। प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी। एभिः सम्पादितं भुङ्क्ते पुरुष पञ्चर्विशकः। ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः। एव षङ्विंशकं प्रोक्तं शरीर इह मानये। सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते। एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत्। सावित्रीं लोकसृष्ट्यर्थं हृदि कृत्वा समास्थितः। ततः संजपतस्तस्य भित्त्वा देहमकल्मषम्। स्त्रीरूपमर्द्धमकरोदर्द्धं पुरुषरूपवत्। शतरूपा च सा ख्याता सावित्री च निगद्यते। सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप!। ततः स्वदेहसम्भूतामात्मजामित्यकल्पयत्। दृष्ट्वा तां व्यथितस्तावत्कामवाणार्दितो विभुः। अहो रूपमहोरूपमिति चाह प्रजापतिः। ततो वशिष्ठप्रमुखाः भगिनीसिति चुक्रुशुः। ब्रह्मा न किञ्चिद्ददृशे तन्मुखालोकनाघन्ते। अहो रूपमहोरूपमिति प्राह पुनः पुनः। ततः प्रणामनम्रान्तां पुनरेवाभ्यलोकयत्। अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी। पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया। आविर्भूत ततो वक्त्रं दक्षिणं पाण्डुगण्डवत्। विस्मयस्फुरदोष्ठञ्च पाश्चात्यमुदगात्ततः। चतुर्थमभवत्पश्चाद्वामं कामशरातुरम्। ततोऽन्यदभवत्तस्व कामातुरतथा तथा। उत्पतग्व्यास्तदाकारव्यालोकनकुतूहलात्। सूष्ट्यर्थं यत् कृतं तेन तपः परमदारुणम्। तत्सर्वं नाशमगमत् स्वमृतोपगमेच्छया। तेनोध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः। आविर्भवज्जटाभिश्च तद्वक्त्रञ्चावृणोत् प्रभुः। ततस्तानब्रवीत् ब्रह्मा पुत्रानात्मसमुद्भवान्। प्रजाः सृजध्वममितः सदेवासुरमानुषीः। एवसुक्तास्ततः सर्व ससृजुर्विविधाः प्रजाः। गतेषु तेषु सृष्ट्यर्थे प्रणामावनतामिमाम्। उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्। सम्बभूव तया सार्द्धमतिकामातुरो विभुः। सलज्जाञ्चकमे देवः कमलोदरमन्दिरे। यावदव्दशतं दिव्यं यथान्यः प्राकृतो जनः। ततः कालेन महता तस्या पुत्रोऽभवन्मनुः। सायम्भुव इति ख्यातः स विराडिति नः श्रुतम्। स तु तद्रूपसामान्यादधिपूरुष उच्यते। वैराजा यत्र ते जाता बहवः शसितब्रताः। स्वायम्भु वा महाभागाः सप्त सप्त तथा परे। स्वारोचिषाद्याः सर्वे ते व्रह्मतुल्यस्वरूपिणः। औत्तमिप्रमुखा- स्तद्वद्येषान्त्वं सप्तमोऽधुना”। सर्गशब्दे ५२५० पृ० तस्यानवविधत्वं दृश्यम्।
सृष्टिप्रदा = स्त्री सृष्टिं तद्धेतुं गर्भं प्रददाति प्र + दा–क। गर्भदात्रीक्षुपे राजनि०।
सॄ(षॄ) = हसायां क्र्या० प्वा० प० सक० सेट्। सृणाति असारीत् सीर्ण्णः सीर्णिः। षोपर्देश एव न्याय्यः।
सेक = गतौ भ्वा० आ० सक० सेट्। सेकते असेकिष्ट पर्युदासान्न षोपदेशः। ऋदित् चङि न ह्रस्वः।
सेक = पु० सिच–घञ्। सेचने जलादिना आर्द्रीकरणे हेमच०।
सेकपात्र = न० सिच्यतेऽनेन सिच–करणे घञ् कर्म०। (सेअनी) सेचनपात्रभेदे अमरः।
सेकिम = न० सेकेन निर्वृत्तम् सेक–वा डिम। मूलके हेमच०
सेक्तृ = पु० सिञ्चति रेतः सिच–तृच्। १ पत्यौ हेमच०। २ सेचफे त्रि० स्त्रियां ङीप्।
सेक्त्र = न० सिच–करणे ष्ट्रन्। सेकपात्रे सि० कौ०।
सेचक = पु० सिञ्चति तोयेन पृथिवीम् सिच–ण्वुल्। १ मेघे २ सेककर्त्तरि त्रि० मेदि०।
सेचन = न० सिच–भावे ल्युट्। १ जलादिना आर्द्रीकरणे २ क्षरणे। करणे ल्युट्। ३ सेचन्यां क्षुद्रसेकपात्र्यां स्त्री ङीप् मेदि०।
सेटु = पु० सिट–उन्। (तरमुज) वृक्षे त्रिका०।
सेतु = पु० सि–तुन्। १ क्षेत्रादेर्जलधारणार्थे (आल) (जाङ्गाल) पदार्थे अमरः। २ वरुणवृक्षे मेदि०। मन्त्रजपाङ्गे ३ प्रणवात्मके मन्त्रे च स्वार्थे क। सेतुक वरुणवृक्षे शब्दर०। “सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः” मठादि० त०। सेतुभेदश्च। सीमाविवादशब्दे ५३०० पृ० उक्तः। “सेतूश्च द्विविधः प्रोक्तः खेयो बन्ध्यस्तथाऽपरः। तोयप्रवर्त्तनात् खेयो बन्ध्यस्तु तन्निवर्त्तनात्” नारदः। मन्त्रजपाङ्गसेतुश्च कालिका पु० ५५ अ० उक्तो यथा “मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः। स्रवत्यनो० ङ्खृतं पूर्वं परस्ताच्च विशीर्य्यति। नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः। द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि। अकारञ्चाप्युकीरञ्च मकारञ्च प्रजापतिः। वेदत्रयात् समुद्धृत्य प्रक्षवं निर्ममे पुरा०। स उदात्तो द्विजातीनां राज्ञां स्वादनुदात्तकः। स्वरितश्चोरुजातानां मनसापि तथा स्मरेत्। चतुर्दशस्वरो योऽसौ सेतुरोकारसंज्ञकः। स चानुस्नारचन्द्राभ्यां शूद्राक्षां सेतुरच्यते। निःसेतुकं यथा तोयं क्षणान्निम्न प्रसर्पाति। मन्त्रस्तथैव निःसेतुः क्षणात् क्षरेति यज्वनाम्। तस्मात् सर्वेषु मन्त्रेषु चतुर्वर्णा द्विजादयः। प्रार्श्वयोः सेतुमाधाय जपकर्म समारभेत्। शूद्राणामादिसेतुर्वा द्विसेतुर्वा यथेच्छतः। द्विसेतवः समाख्याता सर्वदैव द्विजातयः”।
सेतुबन्ध = पु० ६ त०। लङ्कागमनार्थं श्रीरामेण नलकपिद्वारा कारिते समुद्रोपरि १ आलीबन्धे २ क्षेत्रादेरालीबन्धे च। “ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः। नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्मणः। सुतो, धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो हरिः। कीर्त्तिं गायन्तु तै लोकाः सर्वलोकमलापहाम्। इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम्। ततो रामस्तु सुग्रीबलक्ष्मणाभ्यां समन्वितः। नलमाज्ञापयच्छ्रीघ्रं वानरैः सेतुबन्धनात्। ततोऽतिहृष्टः प्लवगेन्द्रयूथपैर्महानगेन्द्रप्रतिमैर्युतो नलः। वबन्ध सेतुं शतयोजनायतं सुविस्तरं पर्वतपादपैर्दृढम्” अध्यात्मरा० ३ अ०। “सेतुमारभमाणस्तु तत्र रामेश्वरं शिवम्। सङ्कल्पनियतो गत्वा पुरीं वारानसीं नरः। आनीय गङ्गासलिलं रामेशममिषिच्य च। क्षिप्ता समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः। कृतानिं प्रथमेनाह्ना योजनानां चतुर्दश। द्वितीयेन तथा चाह्ना योजनानाञ्च विंशतिः। तृतीयेन तथा चाह्वा योजनान्येकविंशतिः। चतुर्थेन तथा चाह्णा द्वाविंशतिः तथा कृतम्। पञ्चमेन त्रयोविंशद् योजनानां समन्ततः। बबन्ध सागरे सेतुं नलो वानरसत्तमः। तेनेव जग्मुः कपयो योजनानां शतं द्रुतम्। असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः” ४ अ०।
सेतुभेदिन् = पु० सेतुं भिनत्ति भिद–णिनि। दन्तीवृक्षे शब्दर०
सेतुवृक्ष = पु० सेतुनामको वृक्षः। वरुणवृक्षे शब्दर०। २ सेतूपरिस्थे द्धक्षे च।
सेत्र = न० सि–बन्धने ष्ट्रन्। (वेडि) निगडे सि० कौ०।
सेना = स्त्री सि–न, सह इनेन प्रभुणा वा। १ सैन्ये अमरः। २ जिनानां ३ मातृभेदे हेमच०।
सेनाङ्ग = न० ६ त०। १ हस्त्यश्वरथपदातिसंघाते अमरः। २ सेनाया उपकरणे च।
सेनाचर = पु० सेनायां चरति चर–ट। सेनानुगामिनि “सेनाचरीभवदिभाननेति” नैष०।
सेनानी = पु० सेनां देवसेनां वा नयति नी–क्विप्। १ कार्त्तिकेये २ सेनापतौ च अमरः
सेनापति = पु० ६ त०। १ कार्त्तिकेये २ मैन्याध्यक्षे च मेदि०। “कुलीनः शीलसम्पन्नो धनुर्वंदविशारदः। हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभषिता। निमित्ते शकुने ज्ञाता वेत्ता चैव चिकितसिते। कृतज्ञः कर्मणां शूरस्तथा क्लेशसह ऋजुः। व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित्। राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा” मत्स्यपु० १८९ अ०।
सेनामुख = न० ६ त०। १ सैन्याग्रे संख्याविशेषयुते हस्त्यश्वादौ हस्तिनः त्रयः रथाः त्रयः अश्वा नव पतादयः पञ्चदश एतत्समुदाये अमरः।
सेनारक्ष = पु० सेनां रक्षति रक्ष–अण। सेनारक्षाकारके यामिके सैन्ये अमरः।
सेफ = पु० सि–फ। शेफे पुंसोऽसाधारणचिह्ने जटा०।
सेमन्ती = स्त्री सिम–झि गौ० ङीष्। (सेआ~ती) पुष्पभेदे।
सेर = पु० “पादोनगद्यानकतुल्यटङ्कैद्वि सप्त ७२ तुल्यैः कथितोऽत्र सेरः। मणाभिधानं खयुगै ४०। श्च सेरैर्धान्यादितौल्येषु तुरुष्कसंज्ञः १। १ द्व्यङ्केन्दु १९२। सङ्ख्यैर्धटकैश्च सेरस्त्रैः पञ्चभिः स्याद्धटिका च ताभिः। मणीऽटमिस्त्वालमगीरशाहकृतात्र संज्ञा निजराजधान्याम्” लीला० उक्ते मानभेदे।
सेरराह = पुंस्त्री०। श्चेताश्वे हेमच० स्त्रियां ङीष्।
सेरु = त्रि० सि–वन्धने रु। बन्धनकर्त्तरिव्या०।
सेलु = पु० सि–लु। श्लेष्मातकवृक्षे द्विरूपको०।
सेव = न० सेव–कर्मणि घञर्थे क। सेविफले (सेओ) राजनि०
सेवक = पु० सीव्यति सिव–ण्वुल्। १ सीवनकर्त्तरि (दरजी) सेव–ण्वुल्। २ भृत्ये ३ दासे ४ अनुचरे च त्रि० मेदि०।
सेवकालु = पु० र्सवं सेविफलुमिव कायति कै–क कर्म०। निशाभङ्गावृक्षे (दुग्धपेया) शब्दच०।
सेवधि = पु० सेवं सेवनं दधाति धा–कि। शङ्खप्रभृतौ निधौ भरतः।
सेवन = न० सिव–सेन–वा ल्युट्। १ सूच्यादिना वस्त्रादेर्योजने अमरः। २ आश्रयणे ३ उपभोगे ४ बन्धने ५ पूजने ६ भजने च मेदि०। सीव्यतेऽनया ल्युट्। ७ सूच्यां स्त्री ङीप् हेमच०।
सेवा = स्त्री सेव–अ। १ मजने २ आराधने ३ उपभोगे ४ आश्रयणे च। सेवापराधाश्च अपराधशब्दे २३३ पृ० दशिताः वाराहेत्वन्यथोक्ता यथा “कर्मणा मनसा वाचा ये पापरुचयो जना। मक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम्। मैथुनं शवसंस्पशः पुरोषोत्सर्ग एव च। सूतक्युदक्याक्षपणं स्पर्शनं मोडनं तथा। अभाष्यभाषष्णं कोपं पिण्याकस्य च भक्षणम्। रक्तपारक्यमलिबनीलजाम्बरधारणम्। गुरोश्रालीकनिर्बन्धः पतिताश्चस्य मत्त्रअम्। अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम्। आदानं तु वरान्नस्य जालपादवराकयोः। भक्षणं देव- तागारे सोपानत्कोपसर्पणम्। तथैव देवपूजायां नि षिद्धकुसुमाचेनम्। अनुत्तार्य्य च निर्माल्य पूजा जीर्णान्धकारयोः। पानं सुराया देवस्य अन्धकारे प्रबोधनम्। वातकर्मार्चने विष्णोरनमस्करणं तथा। अपराधास्त्रयस्त्रिंशत् समाख्याता मया धरे।। एभियुं क्तस्तु पुरुषो विष्णुं नैव प्रपश्यति। दूरस्थो न नमस्कारं कुर्य्यात् पूजा तु राक्षसी”।
सेवि = न० सेव–कर्मणि इन्। फलभेदे (सेओ) राजनि०।
सेविका = स्त्री पक्वान्नभेदे कृतान्नशब्दे २१२१ पृ० दृश्यम्।
सेवित = त्रि० सेव–क्त। १ आराधिते शब्दर०। ३ आश्रिते ४ ठपयुक्ते च ५ सेविफले न० राजनि०।
सेव्य = न० सेव–ण्यत्। १ वीरणमूले अमरः। २ अश्वत्थे पु० राजनि०। ३ हिज्जलद्धक्षे पु० शब्दर०। ४ सेवार्हे त्रि०। ५ वन्दावृक्षे स्त्री हेमच०।
सैंहली = स्त्री सिंहले देशे भवा अण् ङीप्। सिंहपिप्पल्याम् राजनि०।
सैंहिक = पु० सिंहिकायां भवः ठक्। १ राहौ शब्दर०। तस्याः अपत्यम् ढक्। सैंहिकेयोऽप्यत्र अमरः।
सैकत = न० सिकताः सन्त्यत्र अण्। वालुकाप्रचुरे नद्यादितटे अमरः। २ सिकताप्रचरदेशे त्रि० राजनि०।
सैकतिक = पु० सह एकतया सैकतादस्यास्ति ष्ठन्। १ संन्यस्ते २ क्षपणके ३ सन्देहजीविनि त्रि० मेदि०। ४ मातृयात्रायां ५ मङ्गलसूत्रके न० मेदि०।
सैकतेष्ट = न० सैकतं स्थानमिष्टं यस्य। १ आर्द्रके राजनि०। २ सैकतप्रिये त्रि०।
सैतवाहिनी = स्त्री सितायाः शर्करायाः अयम् अण् सैतो मधु ररसस्तं वहति वह–णिनि। वाहुदायां नद्याम् अमरः।
सैद्धान्तिक = पु० सिद्धान्तं वेत्ति सिंद्धान्त + ठक्। सिद्धान्ताभिज्ञे हेमच०।
सैनापत्य = न० सेनापतेर्भावः कर्म वा ष्यञ्। १ सेनापतिधमं, २ तत्कर्मणि च “सैनापत्यमुपेत्य वः” कुमारः।
सैनिक = पु०। सेनायां समवैति ठक् १ मिलिते हस्त्यश्वादौ अमरः। प्राणिबधनियुक्ते भाग० ५-६६ अ० ति० त० रघु०। वस्तुतस्तु सौनिका इव श्वधितिनेत्येव तत्र पाठः साधुः ३ सेनासम्बन्धिनि त्रि०।
सैन्धव = न० सिन्धनदीसमीपे देशे भवम् अण्। १ सवणमदे अमरः “सैन्धवं लवणं स्वादु दीपनं पाचनं लघ स्निग्धं रुच्यं हिमं वृव्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत्" भावप्र०। सिन्धोरदूरभवः अण्। २ घोटकभेदे पुं स्त्री० अमरः तस्य समुद्रसमीपस्थसिन्धुदेशस्यारव्यदेशाद्भात्वास् तथात्वम्। स्त्रियां ङीष्।
सैन्धवखिल = न० सैन्धवमेव णिमम्। सैन्धवशिलाशकलसमे चिदानन्दस्वरूपे परमेश्वरे “स यथा सैन्थवखिलमनन्तरमवाह्यं रसघनम्” शत० ब्रा० १४। ७। ३। १३।
सैन्धी = स्त्री तालादिनिर्यासे राजनि०।
सैन्य = पु० सेनायां समवैति ञ्य। १ मिलिते हस्त्यश्वादौ अमरः। सेनानां सङ्घः ष्यञ्। २ सेनासमुदाये न०।
सैरन्ध्री = स्त्री सीरं हलं धरति धृ–मूल० क मुम् च सीरन्ध्रः कृषकस्तस्येदं शिल्पकर्म अण् तदस्यास्ति अच् गौरा० ङीष। परगृहस्थे स्ववशे शिल्पकारिणि स्त्राभेदे हेमच० पृषो० सैरिन्ध्रीत्यप्यत्र अमरः।
सैरिक = पु० सीरेण लाङ्गलेन खनति भूमिं सीरं वहति वा ठक्। १ कृषके हालिके अमरः। २ द्धाङ्गलवोढरि वृषे (हालेर गरु) अमरः।
सैरिभ = पुंस्त्री० सीरे हले तद्वहने इभ इव शूरत्वात् शाक० ततः स्वार्थेऽण्। १ महिषे अमरः स्त्रियां ङीष्। “सेवे सैरिभमर्दिनीमिह महालक्ष्मीम्” महालक्ष्मीध्यानम्। २ स्वर्गे त्रिका०।
सैरीय = पु० रीरस्येदम् अण् सैरं हलाकारमर्हति छ। झिण्ट्याम् शब्दर०। स्वार्थे क तत्रैव।
सैरेय = पु० सैरं सीराकारमर्हति ढक्। १ झिण्ट्याम् शब्दर० ढकञ्। सैरेयकोऽप्यत्र राजनि०।
सैवाल = न० सेवायै मीनादीनामुपगोनाय अलति पर्य्याप्नोति अच् सेवालं ततः स्वार्थे अण्। शैवाले स्यार्थे क। तत्रैव “या पांशुपाण्डुरवपुर्विरसा पुरासीत् सैवालकाङ्कुरलतामधुना विभर्त्ति उद्भटपद्ये श्लेषात् दन्त्यादि
सोढ = त्रि० सह–क्त इडभावः। १ क्षान्ते तितिक्षिते अमरः कर्त्तरि क्त। २ शोतादिसहनशीले त्रि०।
सोढृ = त्रि० सह–तृच् वा इर्द्धभावः। १ सहनकर्त्तरि २ क्षमाशीले मेदि०।
सोत्कण्ठ = त्रि० सह उत्कण्ठया सहस्य सः। औत्सुक्यान्विते अभिष्टलाभेच्छया विलम्बामहिष्णुत्वयुक्ते ञटा०।
सोत्प्रास = न० उद् + प्र–अस–घञ् सह उत्प्रासेन सहस्य सः सोल्लुण्ठने अन्यार्थकस्य वाक्यस्य अन्यार्थकत्वकल्पनया तदुत्तरार्थके १ वाक्ये २ प्रियवाक्ये च शब्दर०। ३ सशब्द० हास्येन सहिते त्रि०।
सोदय = त्रि० सह उदयेन प्रादुर्भावेण वृद्ध्या वा सहस्य सः १ पादुर्भूते २ वृद्धि(सुद)युक्ते ३ लाभयुक्ते च” व्ययं दद्याच्च सोदयम्” स्मृतिः।
सोदर = पु० समानमुदरं यस्य समानस्य सः। १ एकोदरभवे भ्रातरि २ तादृशभगिन्यां स्त्री शब्दर०
सोदर्य्य = पु० समाने उदरे शयिता यत् सादेशः। १ एको- दरजाते भ्रातरि। २ तादृशभगिन्यां स्त्री अमरः।
सोनह = न० सु–विच् सवे नह्यते नह घञर्थे क। लशुने शब्दर०
सोन्माद = पु० सह उन्मादेन सादेशः। उन्मत्ते उन्मदिष्णौ।
सोपप्लव = पु० सह उपप्लवेन सादेशः। समाक्रान्तभूच्छायेन राहुणा योगरूपोप्लवसहिते १ चन्द्रे तथाभूतचन्द्रच्छायायोगयुक्ते २ सूर्य्य च अमरः। ३ उपद्रवयुते त्रि०। चन्द्रार्कयोर्ग्रासकारणमुंपरागशब्दे प्रायेणाक्तं देवीपुराणोक्तमधिकमत्रोच्यते। “ब्रह्मोवाच “यदयं वदते लोको वासिशत्वान्महामते!। तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम्। यदि सत्यमयं ग्रस्तस्तेजाराशिर्दिवाकरः। तत्कथं नोदरस्थेन राहुणा भस्मसात् कृतः। अथ वा राहुणाक्रम्य निजवक्त्रं प्रवेशितः। तत्कथं दशनैस्तीक्ष्णः शतथा न विखण्डितः। विमुक्तश्च पुनर्दृष्टस्तथैवाखण्डमण्डलः। न चास्यापहृतं तेजो न स्थानादपसारितः। यदि वा ह्येष निष्पीतः कथं दीप्ततरोऽभवत्। तस्मान्न तेजसां राशी राहोर्वक्त्रं गमिष्यति। भक्ष्यार्थं सर्वदेवानां सोमः सृष्टः स्वयम्भुवा। तत्रस्थममृतञ्चापि सम्भूत सूर्य्यतेजसा। पिबन्त्यम्बुमयं देवाः पितरश्च स्वधाऽमृतम्। त्रयञ्च त्रिशतञ्चैव त्रयस्त्रिंशत्तथैव च। त्रयश्च त्रिसहस्राश्च देवाः सोमं पिवन्ति ये। राहोरप्यमृतं भागः पुरा सृष्टं स्नयम्भुवा। तस्मात्तद्राहुरागत्य पातुमिच्छति पर्वसु। उद्धृत्य पार्थिवीं छायामभ्राकारां तमोमयः। पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया। शुक्ले च चन्द्रमभ्येति कृष्णे एर्वणि भास्करम्। सूर्य्यमण्डलसस्थस्तु चन्द्रमेव जिघांसति। तस्मात् पिवति तं राहुस्तनुमस्या विनाशयन्। अविहिसन् यथा पद्मं पिबति भ्रमरो मधु। चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते। चन्द्रकान्तो मणि र्यद्वत्तुहिनं क्षरते क्षणात्। क्षरन्नपि न हीयेत तेजसा नैव सुच्यते। यथा सूर्य्यमणिः सूर्य्यादुत्पाद्य पावकं शुभम्। न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते। एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा। स्वतेजसा न मुच्येते नाङ्गहीनौ बभूवतुः। पर्वस्वथ च चन्द्रस्य माणिक्यकनकाकृतिः। सोमा दैवतसंयोगात् छाया योगाच्च पार्थिवात्। राहाश्च वरलब्ध्या वै प्रक्षरेदमृतं शशी। स्वदोहकाले सम्पाप्ते वत्सं दृष्ट्वा च गौर्यथा। स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम्। पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते। यथा मातुःस्तनं पीत्वा जीवन्ति सर्वजन्तवः। पीत्वाऽमृतं तथा सोमात् तृप्यन्ते सर्वदेवताः। सम्भृतं सर्वयागेषु तथायं क्षरते शशी। तं क्षरन्तं यथाभागमुपजीवन्ति देवताः। तस्मिन् काले समभ्येति राहुरप्यवकर्षति। सर्वमर्द्धं त्रिभागञ्च पादं पादार्द्धमेव च। आक्रम्य पार्थिवीं छायां यावन्त चन्द्रमण्डलम्। स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः। तृप्तिं विधाय देवानां राहोः प्रर्वनतस्य च। चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते। तिथिभानाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः। पर्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः। अतो राहुभुजः सोमः सोमवृद्धिर्दिवाकरात्। पर्वकाले स्थितिस्त्वेवं विपरीता पुनः पुमः। अतश्छादयते राहुरभ्रवच्छशिभा स्करौ। राहुरभ्रकसंस्थानः सोममाच्छाद्य निष्ठति। उद्धृत्य पाथिवीं छायां धूममेघ इवोत्थितः। चन्द्रस्य यदवष्टब्धं राहुणा भास्करस्य च। तन्नावखण्डित तस्य केवलं श्यामलीकृतम्। कर्दमेन यथा वस्त्रं शुक्लमप्युप हन्यते। एकदेशोऽथ सर्वं वा राहुणा चन्द्रमास्तथा। प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत्। राहुत्यक्तं भवेत्तद्वत् निर्मलं चन्द्रमण्डलम्। राहुणा च्छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ। विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम्। एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते। अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः। जगत्सम्मोहनञ्चैतत् ग्रहणं चन्द्रसूर्य्ययोः”।
सोपाधि(क) = सह उपाधिना वा कप् सादेशः। उपाधियुक्ते प्रतिलाभाशया कृतदानादौ।
सोपान = न० उप–अन–भावे घञ् सह विद्यमानः उपानः उपरि गतिरनेन। आरोहणसाधने काष्ठादिनिमि (पैठा) प्रमृतौ पदार्थे अमरः।
सोभाञ्जन = पु० शाभाञ्जन + पृषो०। (शजना) वृक्षे भरतः।
सोम = पु० सु–मन्। १ चन्द्रे २ कर्पूरे अमरः। ३ कुवेरे ४ यमे ५ वायौ ६ वसुभेदे ७ जले ८ सोमलतौषधौ ९ वानरे मेदि० १० सोमरसे हेमच० ११ अमृते १२ दीधितौ उणा०। सह उ(ऊ)मया। १३ वे १४ पानरेशे सुग्रीवे च। मोमश्च ग्रहभेदः तत्कक्षामानादिकं स्वगोलशब्दे ४२२५ पृ० दृश्यम। तत्प्रकृत्यादिकं यथा “चन्द्रः सिताङ्गसमगात्रयष्टिर्वाग्मो परिध्यङ्गविवेकयुक्तः। क्वचित् कृशः शीतलवाक्ययुकः सत्त्वास्रयो वातकफानिखात्मा” सर्वार्थचि०। स च वायव्या ईशः वैश्य- जातिः स्त्रीग्रहः लवणरसमृगशिरो नक्षत्राणाधीशः। ग्रहयज्ञशब्दे तन्मन्त्रादिकं दृश्यम्। तस्य ज्न्मकाले मेषादिराशिषु स्थितिभेदे फलभेदः वृहज्जातकोक्तः ३०८७ पृ० जातकशब्दे उक्तः। लग्नादिस्थस्य तस्य फलं जातकषद्धतावुक्त यथा “चन्द्रे स्वभाजवृषगे तनुगे गुणाग्र्यो दाक्षिण्य्रूपधनवाक्सकले विशेषात्। अन्येषु भेषु तनुगे विकलश्च शूरः प्रोन्मत्तनीचबाधरः क्षयभाग्यवश्यः। कुटुम्ब २ स्थिते कैरवाणामधीशे भवेत् पुत्रमित्रार्थसौख्यैः समृद्धः। नरः पूर्णदेहे तु हीने विलोमं स्खलद्वाक् च बोध्यं फलं तार तम्यात्। द्विजाधिराजे सहजे ३ तिलोभः कार्षप्यवान् संग्रहकृच्च नीचः। हसांन्वितो भ्रातृजनाश्रयश्च प्रकाङ्क्षितः स्यात् मनुजोऽतिहिंम्रः। पाताल ४ मंस्थे सति शीतलांशौ जलप्रयाणाभिरतिर्नरः स्यात्। दातासुहृद्वाहनसेवकाढ्यः सुखी सुखोतकर्षयुतः सुभूषः। सुते ५ समुद्रस्य सुते प्रमूतौ धीमित्रपुत्रैर्बहुभिः समेतः। शूरो नरः स्याद् बहुधान्यमित्रसग्राहकः क्षीणतरः सुखाढ्यः। शत्रौ ६ शत्रौ पद्मिनीनां स्थिते ना शत्रुव्रातैः संयुतो दारुणश्च। माराग्निभ्यामल्पकाभ्याञ्च युक्तोऽनल्पालस्यः स्याच्च नीरोदराढ्यः। शशिनि शशिमुखीनिकेतन ७ स्थे भवति सुखी मदनातुरः सुदेहः। अतिमतिरनसूयकोऽप्यधृष्यो गलिततनौ वहुरोगदैन्यतप्तः। मृत्यौ ८ मृगाङ्के सातिमान्नरः स्यादोजस्विताढ्योऽपि च बन्धनाद्यैः। सुक्षीणदेहः सति हीनदेहे तस्मिन् भवेदल्पक जीवितश्च। निशाधिनाथे नवमालय ९ स्थे धीपुत्रमित्रद्रविणोपपन्नः। सौभाग्यसौख्यैः सुकृतैयुतः स्यात् कान्ताजनेष्टोमनुजो दयावान्। दशम १० घाम्रि सुशीतलधामनि द्रविणधीसुकृतैः सहितः शुचिः। भवति कर्मपरोऽपि च सिद्धिभाङ्नरवरो न विषादकरो भवेत्। आयं ११ याते यामिनीनायके ना मित्रक्षेत्रद्रव्यपुत्राययुक्तः। ख्यातः शूरो दारुणश्चाभिमानी शिष्टैर्भृत्यैरन्वितो बुद्धिमान् स्यात्। शीतांशौ द्वादशे १२ द्वेष्यो हीनाङ्गे नेत्ररोगवान्। पतितः परमः क्षुद्रः परिभूतो नरो भवेत्”। सोमलता च ओषधिभेदः सोमवल्लीरूपा ओषधिशब्दे १५६४ पृ० सुश्रुतवाक्ये तल्लक्षणादि दृश्यम्। सोमेन यजेतेत्यादि श्रुत्युक्ते १५ यागभेदे पु०। सोमयागेतिकर्त्तव्यतादि कात्या० श्रौ० २५ अ०। १० कण्डिकादौ दृश्यम्। कात्यायनगब्दे १८७६ पृ० तत्प्रतिनिधिद्रव्यादि दर्शितम्।
सोमगर्भ = पु० सोमस्य तदात्यकामृतरूपमोक्षस्य गर्भः स्यानम्। विष्णो त्रिका०।
सोमज = न० सामात् तत्क्षरितौषधिस्थरसपानात् जायते जनड। १ दुग्धे हेमच०। २ चन्द्रजाते त्रि०। ३ बुधे पु०।
सोमतीर्थ = न० सोमेन तपस्तत्या कृतं तीर्थम् शाक०। प्रभासतीर्थ त्रिका०। “यत्र तप्तं तपस्तेन सोमेन सुमहात्मना। पञ्च वर्षसहस्राणि तथैवोर्द्ध्वमुखः स्थितः। एवम्भूतः पुनः पञ्च पञ्च मौनव्रतस्तथा। तथैवैकेन पादेन दश पञ्च च तिष्ठता। एवमुग्रं तपः कृत्व कान्तिमानभवच्च सः। ममापराधान् मुक्तश्च ब्राह्मणाना पातस्तथा” वराहपु०।
सोमधारा = स्त्री सामस्य धारव। आकाशे त्रिका०।
सोमप = पु० सोमं तद्रसं पिबति पा–क। १ यज्ञे सोमरसपानकर्त्तरि २ पितृगणभेदे व० ब०। पा–क्विप् सोमपाप्यत्र।
सोमपत्र = पु० सोमस्य ओषधिबिशेषस्येव पत्रमस्य। (उलुखड) तृणभेदे शब्दच०।
सोमपीति(थि)न् = पु० पीतमनेन इनि सोमं पीती पृषो० वा तस्य थः। यज्ञे सोमरसपायिनि अमरः। पा–क्वविप् सामपोवाप्यत्र।
सोमबन्धु = पु० सोमस्य बन्धुः, सोमो बन्धुरस्य वा। १ मूर्य्ये तद्वृद्धिवरत्वात् तस्य तथात्वम्। २ चन्द्रजे बुधे पु० ज्यो०२ कुमुद न०।
सोमभू = पु० साम एव भूरुत्पत्तिस्थान यस्य। १ वुधग्रहे २ चन्द्रवंश्ये क्षत्रये च ३ जिनराजभेदे हेम०।
सोमयाग = पु० सोमनामको यानः। त्रिवर्षसाध्ये सोमरसपानाङ्गके यागभेदे। “नारद उवाच “सोमयागविधानञ्च ब्रूह मां मुनिसत्तम!। कथं तं कारयामास गुरुश्च किं फलं परम्”। नारायण उवाच “ब्रह्महत्याप्रशमनं सोमयजफलं सुने!। वर्षं सोमलतापानं यतमानः करोति च। वर्षमेकं फलं भुङ्क्ते वर्षमेकं जलं सदा। त्रैवार्षिकमिदं यागं सर्वपापप्रणाशनम्। यस्य त्रैवार्षिकं धान्यं निहितं भूतिवृद्धये। अधिकं वापि विद्येत स सोमं पातु मर्हति। महाराजश्च देवो वा यागं कर्तुमलं मुने!। न सर्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः” ब्रह्मवै० श्रीकृष्णज० ६० अ०। सोमशब्दे दृश्यम्।
सोमयाजिन् = पु० सोमेन यजत यज–णिनि। सोमयागकर्त्तरि। तस्य सौत्रामण्यामधिकारः सौत्रामणीशब्दे दृश्यम
सोमयोनि = न० सोमा योनिरस्य। चन्दनभेदे शब्दच०।
सोमराजी = स्त्री सोमेन राजते राज–अच् गौरा० ङीष्। (सोमराज) १ ओषधिभेदे। २ वाकुच्यां भावप्र०। “अवल्गुजा वाकुची स्यात् सोमराजी सुपर्णिका” इत्युपक्रमे “वाकुची मधुरा तिक्ता कटुपाका रसायनी। विष्टम्भहृधिमा रुच्या सरा श्लेष्मास्रपित्तनुत्। रूक्ष्या हृद्या श्वासुकुष्ठमेहज्वरक्रमिप्रणुत्। तत्फलं पित्तलं कुष्ठकफानिलहरं कटु। केश्यं त्वच्यं कृमिश्वासकाससोथामपाण्डुहृत्” भावप्र०। स्वार्थे क। सोमराजिकाप्यत्र। राज–णिनि। सोमराजिन् अप्यत्र पु० अमरः।
सोमलता = स्त्री सू–मन् कर्म०। स्वनामख्यातायां लतायाम् राजनि०
सोमलतिका = स्त्री सोमलतेव इवार्थे कन् अत इत्त्वम्। १ गुडूच्याम् राजनि०। स्वार्थे क। २ सोमलतायाञ्च।
सोमवंश = पु० सोमस्य वंशः। १ चन्द्रवंशे २ चद्रावधिके गोत्रपरम्पराजाते क्षत्रिये भाग० ९ स्कन्धे दृश्यम्।
सोमवल्क = पु० सोमस्येव वल्कोस्य। १ करञ्जे जटा०। २ रीठाकरञ्जे राजनि० ३ श्वेतखदिरे ४ कट्फले च मेदि०।
सोमवल्लिका = स्त्री सोमवल्लीव कायति कै–क। सोमराज्याम् अमरः। स्वार्थे क। २ सोमलतायाम्। सोमवल्लरीत्यप्यत्र।
सोमवल्ली = स्त्री सोमायामृताय वल्ली। १ गुडूच्याम् अमरः। सोमरूपा वल्ली। २ सोमलतायाम् भरतः। ३ सोमरार्ज्यां शब्दर०। ४ ब्राह्यां ५ सुदर्शनायां ६ पातालगरुड्यां राजनि०। “सोमवल्लीं महागुल्मा यज्ञश्रेष्ठा धनुर्लता। सोमाहा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया। सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया। सोमवल्ली कटुः शीता मधुरा पित्तदाहहृत्। कृष्णा विशेषात् शमनी पावनी यज्ञसाधनीं राजनि०।
सोमवामिन् = पु० सोमं तद्रसं वमति वम–णिनि। सोमरसपानाधिक्ये मुखेन सोमवमनकर्त्तरि तस्य क्षौत्रामण्यामधिकारः सौत्रामणीशब्दे दृश्यम्।
सोमवार = पु० सोमस्वामको वारः। चन्द्रस्वामिके दिने।
सोमविक्रयिन् = पु० सोमं विक्रीणाति वि + क्री–णिनि। सोम लतायाः चिक्रेतरि “पापो हि सोमविक्रयी” आश्व०।
सोमवृक्ष = पु० सोम इव वृक्षः। १ कटुफलवृक्षे रत्नमा० २ श्वेतखदिरे च राजनि०।
सोमसार = पु० सोम इव शुभ्रः सारोऽस्य। श्वेतखदिरे राजनि०।
सोमसिद्धान्त = पु० सोमकृतः सिद्धान्तः। चन्द्रप्रोक्ते ज्योतिषसिद्धान्तग्रन्थभेदे जटा०।
सोमसिन्धु = पु० सोमस्यामृतस्य सिन्धुरिव आधारः। विष्णौ त्रिक्रा०।
सोमसुत् = पु० सोमं सुतवान् सु–भूते क्विप्। यज्ञार्थं कृतसोमलतानिष्पीडने सि० कौ०।
सोमसुता = स्त्री ६ त०। नर्मदानद्याम् राजनि०। २ बुधे पु० सामोद्भवादयोऽप्यत्र यथायथम् पुंस्त्री०।
सोमसुत्वन् = पु० सोमं सुतवान् सु–भूते क्वनिप्। कृतसोमरसाभिषवणे
सोमसूत्र = न० सोमस्य जलस्य सूत्रमिव प्रणाली। १ जलनिर्गम प्रणाल्याम् शिवलिङ्गस्थगौरीपट्टस्य २ जलनिर्गमस्थाने च “सोमसूत्र न लङ्गयेत्” तन्त्रम्।
सोमाख्य = न० सोमं लताभेदमाख्यातिवर्णेन आ + ख्यां–क। रक्तकैरवे रत्नमा०।
सोमातिपूत = पु० सोमोऽतिपूतो वात्तो मुखभिन्नछिद्रेण येन अति + पू–कमंणि क्त। कृते सोमरसपाने आधिक्यात् मुखभिन्ननासिकादिच्छिद्रैः सोमरस्नुवमनकर्त्तरि तस्य सौत्रामण्यामधिकार सौत्रामणीशब्दे दृश्यः।
सोल्लुण्ठ = त्रि० सह उल्लुण्ठेन सादेशः। भूमौ पार्श्वपरिवर्त्तादियुक्ते १ अश्वादौ हला० २ स्तुते निन्दापरतया निन्दाया वा स्तुतिपरतया युक्ते २ वाक्ये च।
सोल्लुण्ठन = न सह उल्लुण्ठनेन सादेशः। अन्यथास्थितस्य अन्यरूपेण परिवर्त्तनसहिते बाक्ये (स्तुतिपरस्य निन्दापरता निन्दापरस्य च स्तुतिपरता इत्येवं कल्पके वाक्ये)।
सोष्यन्तोहोम = पु० सोव्यन्तीं शूलापन्नामासन्नप्रसवां ज्ञात्वा काय्य + हीमः। सोष्यन्त्या आसन्नप्रसवाया हिताय कर्त्तव्ये होमभेदे तत्प्रकारः सै० त० दृश्यः।
सौकर्य्य = न० सुकरस्य भावः कर्म वा ष्यञ्। १ अनायाससाध्यत्वे जटा०। २ सुकरस्य कर्मणि च।
सौखसुप्तिक = त्रि० सुखसुप्तिं सुखेन शयनं पृच्छति ष्ठञ्। प्रातःकाले सुखशयनप्रच्छके वैतालिकादौ हेमच०।
सौखिक = त्रि० सुख प्रयोजनमस्य ठक्। सुखाभिलाषिणि (सौखिन)।
सौख्य = न० सुखमेव चातु० ष्यञ्। सुखे हेमच०।
सौगत = पु० सुगत–एव अण्। १ सुगते बूद्धभेदे हेमच० तस्येदमुण। २ सुगतसम्बन्धिनि त्रि०। सुगतमत्र मधीते अण्। ३ सुगतमताध्यायिनि त्रि०।
सौगन्ध = न० सुष्ठु गन्धोऽस्य स्वार्थे अण्। खत्तृणे रामकर्पूरे शब्दर०।
सौगन्धिक = न० सुष्ठु गन्धः सुगन्धः सोऽस्त्यस्य ठन् स्वार्थे अण्। १ कह्लारे अमरः। २ सुगन्धके पु० अमरः। सुगन्धन व्यवहरति ठक। (गन्धी) ३ सुगन्धव्यवहर्चरि त्रि० मेदि०। ४ पद्मभेदे भा० व० सौगन्धिकाहरणपवं।
सौगन्ध्य = न० सुगन्धस्य भावः ष्यञ्। १ सन्धे। स्वार्णे य्यञ्। १ सुगन्धौ।
सौचिक = पु० सूचीं तत्कर्मसीवनमुपजीवति ठन्। (दरजी) सीवनकारके अमरः। इन्। सौचि तथाथ शब्दर०।
सौजन्य = न० सुजनस्य भावः ष्यञ्। १ सुजनतायां २ सद्व्यवहारे च “सौजन्यजन्यं यशः” मल्लिनाथः।
सौण्डी = स्त्री शुण्डा तदाकारोऽस्त्यस्याः अण् ङीप् पृषो० शस्य सः। गजपिष्पल्याम् शब्दच०।
सौत्र = पु० पाणिन्यादिभिः सूत्रेण कर्मविशेषाय पठिन अण्। व्याद्यादिदशगणीयभिन्नेष सूत्रमात्रे कार्य्यभेदार्थं पठितष १ धातुषु। सूत्रं यज्ञसूत्रमर्हति अण्। २ विप्रे हेमच०।
सौत्रामणी = स्त्री सूत्रामा इन्द्रो देवताऽस्य अण् सपूवत्वात् न टिलोवः णत्वम्। इष्टिभेदे तत्र हि सुरापानं विथ्राणां विहितम्। “सौत्रामण्यां सुरां पिबेत्” श्रुतिः। स च यज्ञः ऋद्धिकामस्य ब्राह्मणस्यैव कर्त्तव्यः तत्रात्तिकाकित्रिशेपः कात्या० श्रौ० १९ १ क० ठक्तः। “ब्राह्मणयज्ञः सौत्रामण्यृद्धिकामस्य” सू०। “ब्राह्मणग्रहणं क्षत्रियवैश्ययोर्निवृत्त्यर्थम्” कर्कः। “अग्निचित्सोमयाजिसोमातिपूतसोमवामिनाम्” सू० “एभिश्च निमित्तैः सौत्रामणी भवति। तत्राग्निचित्सोमयाजीति ग्रहणम् अग्निमतः सोमस्याङ्ग यथा स्यादिति स हि फलवान् निष्फलीऽग्निरिति एवं च सत्यग्निमत्सोमयागान्वे सौत्रामणी भवति। ननु चानग्निमतोऽपि सोमस्याङ्गत्वेन सौत्रामणी श्रूयते “सोमेनेष्ट्वा सौत्रामण्या यजेतेति नैतदेवम् अग्निं चित्वा सौत्रामण्या यजेतेत्यस्य वाक्यस्याग्निपकरणे श्रुतत्वात् तदङ्गता युक्ता यस्य प्रकरणम तस्यान्यद्विधीयमानं तदङ्गमेव भवतीति न्याय्यम्। मामेनेष्ट्वा सौत्रामण्या यजेतेति सौत्रामणीप्रकरणे पाठः तेन प्रस्तुतविपरिवृत्त्या सोमस्यैव सौत्रामण्यङ्गता भवति न सौत्रामण्याः सोमाङ्गता यथा “वाजपेयेनेष्ट्वा वृहस्पतिसवेन यजेतेति” वाजपेयं प्रकृत्य विधानात् वाजपेयाङ्गता वृहस्पतिसवस्य, तस्माम्नानग्निमति सोमे सौत्रामणी “सोमेनेष्ट्वा सौत्रामण्या यजेतेति किमर्थस्तार्हि पाठः अग्निमत् सोमस्यातवादोऽयमित्यदोषः। यद्वाऽग्निं चित्वेत्यस्यैव शेषोऽयम् अग्निमता सोमेनेष्ट्वेत्येतदुक्तं भवति। सोमातिपूतसोतवामिनोश्च सौत्रामणी भवति शाखान्तारश्रवणात् सोमातिपूतः सोमवामी च ब्राह्मण एव न हि क्षत्रियवैश्ययोरेतद्विशेषणतिति ननु च सोमकार्य्ये तयोरमि न्यग्रोधविधानम् तेन तदातपवने यद्वमने च किमिति न भव त नेतदच वाद नाम कार्य्यापत्त्या धर्मप्राप्तिर्भवति तु चायं सोमधर्मः, किं तहिं तदतिपवने यागान्तरविधानमिति। अग्निचितस्तु वर्णत्रयस्यापि भवति अग्निसंयोगविधानाव। अग्निचितः तथा सोमयाजिनः तथा सोमातिपूतस्य तथा सोमवामिनः मुखव्यातिरिक्तेभ्यो नासिकाकर्णगुदादिछिद्रेभ्यः यस्य सोमः स्रवति स सोमातिपूत इत्युच्यते मुखेन यः सोमं वमति स सोमवाम” स० व्या०। “राज्ञोऽपरुद्धव्य च सौत्रामणी भवति” सू०। “दुष्टरीढर्हपौं आयनो रुद्ध आसेति “तद्विधानात्। स्वराज्यात् प्राच्या वितस्य राज्ञः स्वराज्यप्राप्त्यर्थम्” कर्कः। “अलम्पशोरपशोः” सू०। “सौत्रामणो भवति पशुयोग्य सन् यो नास पशून्न विन्दत सोऽलस्यशुरपशः” कर्कः। तत्र सुरापच्यबनप्रकारः तत्रैवोक्तः
दक्षिणेन हृत्वा। नग्नहुचूर्णनिकत्वा साश्च व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरम्” सू०। “दक्षिणेन द्वरण प्रवेश्वाग्न्यगारस् नग्नहुचूणाटि कृत्वा नग्नहुः किण्व उच्यते तांश्च शष्पादींश्चूर्णयित्वा वीहिश्बामाकोदनयोः पृथगाचामौ विमिश्र्य चूर्णैः संसृज्य निदधाति तन्मासरमुच्यते ब्रोहिस्यामाकाभ्यां च सुरा निष्पाद्यते सा च यागसाधनम्। तेन सा तद्धर्मैरभिसम्वध्यते अतस्तयोश्चतुर्मुष्टिकग्रहणपूर्वकम् पृथगादनौ निष्पाद्येते” कर्कः। “नग्नहुचूर्णानि कृत्वा नग्नहुशब्दार्थमाह “सर्ज्जत्वक् त्रिफला चैव शुण्ठो चैव पुनर्नवा। चतुर्जातकसंयुक्ता पिप्पली गजपिप्पनी। वंशोऽवका वृहच्छत्रा चित्रकं चेन्द्रवारुणी। अश्वगन्धां समुत्पाट्य मूलान्येतानि निर्दिशेत्। धान्यकं च यवानीं च जीरकं कृष्णजीरकम्। द्वे हरिद्रे वचा चैव विरूढा व्रीहयो यबाः” इति। क्रयणानन्तरं तानि शष्पादीन्यादाय दक्षिणेन हृत्वाऽग्न्यगारं प्रवेश्य पूर्वं नग्नहुचूर्णानि कृत्वा सर्ज्जत्व गाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्यतोक्मलाजान् चूर्णीकृत्य दर्शपूर्णमासघर्मेण पात्रासादनादि श्यामाकचतुर्मुष्टिकग्रहणपूर्वकं फलीकरणान्त समन्त्रकं कृत्वा बहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानन्तरं तोहिश्यामाकादनयोः पृथगाचामो निषिच्य पृथग्भिन्न योः पात्रयोश्चर्वोर्मध्यादतिरिक्तमुष्णोदकमतम्राव्य तद्दकं नग्नहुप्रभृतिभश्चतुर्भिश्चूर्णैः संसृज्य निदधाति स्थापयति तन्मासरमातस्य चर्णसंसृष्टस्याचामस्य मासरमिति संज्ञा” स० व्या० “ओदनौ चूणमासरैः संसृव्या स्वाद्वीं त्वाऽंशु- ना ते” इति त्रिरात्रं निदधाति सू०। “चूर्णमासरसंसृष्टावोदनौ “स्वाद्वीं त्वेति” अंशुना ते इति” मन्त्राभ्यां कुम्भ्यां प्रक्षिपति क्षित्वा च त्रिरात्रं निधेया सुरा” कर्कः। “एवमाचामयोश्चूर्णसंसर्मानन्तरमोदनौ चतुर्भिश्चूर्णः संसृज्य स्वाद्वीं त्वा स्वादु नेति यज० १९। १ “अशुना ते यजु०” २०। २७ द्वाभ्यां मन्त्राभ्यामेकस्मिन् महति पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां च संसृज्य त्रिरात्रं लिदधाति सुगुप्ते देशे स्थापयति शालाया नैऋतकोणे गत कृत्वा तत्र स्थापयतीति जीर्णः सम्प्रदायः” तिम्रो रात्रीत्यादिश्रुतेः “एकस्याः पयसापाकृतेनाश्विनेन परि षिञ्चकि परीतोषिञ्चतति” सू०। सुरां परिषिञ्चति “एकस्यै० परिषिश्चितीति” वचनात्। अश्विनाबुद्दिश्यापाल्करणं कत्तव्यम् तञ्चापूत्वादप्रधानत्वाच पयसः अश्विभ्यामप्राकरोमीति गोरं र्पनमात्रमेवेति सम्प्रादाया। अपर तु भर्मवदपाकरणामच्छन्ति कक “शष्यचूर्णानि चाविपति” सू० “चशब्दात् सुरायाम्” कर्कः। “सारस्वतेन द्वयोः प्रातः” सू०। “प्रातःशब्देन च द्वितीयमहरमभिर्धायते तत्रापि च रात्रायेबाभिषेकः प्रथमां रात्रिं परिषिञ्चतीति प्रकृत्य “द्वयोदुंग्धेन द्वितीयामित्याह द्वितीयाम् रातिमिति गम्यते” कर्कः। “प्रातःशब्देन श्वोऽभिधयत” सं० व्या० “तोक्मचूर्णानि च” सू०। “आवपति” ऐन्द्रेणोत्तमे ति तिसृणाम्” सू० “गवां दुग्धेनैन्द्रेण परिषिञ्चति” कर्कः उत्तमे तृतीयेऽहनि सेव्या। “लाजचूर्णानि च” सू० “आवपति अत्र चूर्णानां पथसश्च संस्कारकत्वम् साधनं तु व्राहिश्यामाकावेव अतस्तयोरेव देवतोद्देशेन ग्रहणम्” कर्कः। यजु० १९ अ० वेददोपे तु तदङ्गसुराच्यवनप्रकारः स्पष्टः दर्शितो यथा “अथ सौत्रामणीमन्त्रास्त्रिभिरध्यायैः। ऋद्धिकामस्याग्निचितो मुखेतरच्छिद्रसोमवामिनो मुखेन सोमवामिनो राज्यच्युतनृपस्य पशुकामस्य च सौत्रामणियागः। अजःपात्यस्थाने गोचमणि एतानिस् थापयेत् सोम सुराविक्रयिणः क्लीवाद्वा क्रीत्वा सीयेन शष्पं क्रोत्वा ऊर्णाभिस्तोक्यान् सूत्रेण लाजान् केनचिद् द्रव्येण नग्नहुम् विरूढा व्रोहयः शष्यमु तिरूढा यवा स्तोक्माः भृष्टव्रीहयो लाजाः सर्जत्वक्त्रिफलाशुण्ठी पुनर्नवाचतुर्जातकपिप्पलीनजवंशावकावृहच्छत्राचित्रकेन्द्र वारुण्यश्वगन्धा धान्यकयनानीजीरकद्वयहरिद्राद्वयविरूढयवव्रीहय एकीकृता नग्नहुः। शष्पतोक्यसाम्रनम्महूत् दक्षिणद्वारेणाग्निगृहं नीत्वा संशूत्ण्य दर्शपौर्णमासधर्मेण व्रीहिश्यामाकयोश्चरू बहुजले पक्त्वा शृतालम्भनानन्तरं तयोश्चर्वोर्नःस्रावमुष्णं पृथक्पात्रयोरादाय शष्पादिचतुर्णां चूर्णैः संसृज्य स्थापयेत् द्वयं चूर्णाचामरूपं मासराख्यम्”। “ओदनौ चूर्णमासरैः संसृज्य स्वाद्वीं त्वा अशुनात इति त्रिरात्रं निदधाति” का० एवमाचामयोश्चूर्णसंसर्गे मासरत्वनिष्पादनानन्तरमोदनौ व्रीहिश्यामाकचरू चतार्भश्चूर्णैः संसृज्य स्वाद्वीं त्वेति मन्त्रेण अंशुना ते इति विंशाध्यायसप्तविंशया ऋचा चैकस्मिन् पात्रे चूर्णसंसृष्टावोदनौ मासराभ्यां संसृज्य त्रिरात्रं शालानैरृतकोणे गर्त्तं कृत्वा तत्र स्थापयेत्। अयमर्थः चरू उद्वास्य द्वयोः पृथनाचामग्रहणम् ततः शष्पतोक्मलाजचूर्णानां पृथग् त्रिधा कृतानां तृतीयांशं द्वेधा कृत्वाचामयोः क्षिपेत् ततो नग्नहुचूर्णं द्वेधा कृत्वैकमर्धं द्विधा विभज्याचामयोः क्षिपेत्। एवं चूर्णसंसृष्टाचामयोर्मासरसंज्ञा। ततः शष्पतोक्मलाजचूर्णानां द्वितीयं तृतीयांशं द्विधा कृत्वैकैकं भागमोदनयोः क्षिपेत् नग्नहुचूर्णद्वितीयार्द्धं द्वेधा कृत्वौदनयोः क्षिपेत तत ओदनावेकपात्रे कृत्वा तत्राचामौ क्षिपेत् ततः “स्वाद्वीं त्वा” “अंशुना ते” इति मन्त्राभ्यां चूर्णमासरैः सहौदनयोराड्वालनेन संसर्गः कार्य्यः ततस्त्रिरात्रनिधानम शष्पतोक्मलाजचूर्ण तृतीयांशानां प्रतिदिनं सुरायां निवापार्थं रक्षणमिति। एकस्या पयस्यायाः कृतेनाश्विनेन परिषिञ्चति परीतो षिञ्चतेति शष्पचूर्णानि चावपति स्वारस्वतेन द्वयोः प्रातस्तोक्मचूर्णानि चैन्द्रोणोत्तमे तिसृणा लाजचूर्णानि च। सायं होमान्तेऽश्विभ्यामपाकरोमीति करेण गां स्पृष्ट्वा एकां तां दुग्ध्वा तत्पयसाध्वर्युः सुरां सिञ्चति परीत इति मन्त्रेण। रक्षितं शष्पचूर्णार्ना तृतीयांशं सुराभाण्डे क्षिपेत्। द्वितीयेऽह्नि निशान्ते सरस्वत्या अपाकरोमीति गावौ स्पृष्ट्वा दोहितेन तयोर्दुग्धेन तेमैव मन्त्रेण सुरां सिञ्चति तोक्मचूणीतृतायांशक्षेपश्च। तृतीयेऽह्नि रात्रौ इन्द्राय सुत्रामणेऽपाकरोमोत तिसो गाः स्पृष्ट्वा ता दुग्धैकीकृत ततपयसा सुरां सिञ्चति तेनैव मन्त्रेण तत्र लाजचूर्णतृतोयांशक्षेपश्चेति”। (आचामोभक्तमण्डः)
सौदामनी = स्त्री सुदामा पर्वतभेदस्तेनैका दिक् तत्प्रान्तमवत्वात् अण। १ विद्युति अमरः। सा हि स्फटिकमयस्य सदाम्रः पर्वतस्यैकदेशे जाता। २ अपसरोभेदे च हेमच०। सुदामा ऐरावतगजस्तस्य पत्नी ङीप्। ३ ऐरा- वतयोसिति शब्दर०। तत्र ङीपि अतोऽल्लोपे सौदाम्नोत्यपि शब्दर०।
सौदायिक = न० सुदायात् वन्धुकलात् आगतः ठञ। “ऊढया कन्थया वापि पत्युः पितमृहेऽथ वा। भर्तुः सकाशात् पित्रोर्वा लब्धं सौदायिक स्मृतम्” कात्या० स्मृत्युक्ते स्त्रीधनभेदे “सौदायिकं धनं प्राप्य स्वातन्त्र्यं परिकीर्त्तितम्” स्मृतिः। स्त्रीधनशब्दे दृश्यम्।
सौदास = पु० सूर्य्यवंश्ये कल्माषपादे नृपतौ।
सौध = पुं न० सुधया लेपनद्रव्येण रक्तम् अण्। १ राजसदनभेदे अमरः। सुधां तद्वर्णमर्हति अण्। २ रूप्ये न० ३ दुग्धपाषाणे पु० राजनि०। ४ सुधासम्बन्धिनि त्रि०।
सौनन्द = न० सुनन्द + स्वार्थे अण्। बलदेवमुसले हेमच०।
सौनिक = पु० सूना बध्यस्थानं तदुपलाक्षतमांसादि पण्यमस्य ठण्। मांसक्रयविक्रयोपजीविनि व्याघ (कसाइ)। हेमच० सैनिकशब्दे उदा० दृश्यम्।
सौन्दर्य्य = न० सुन्दरस्य भावः ष्यञ्। १ चारुतायां “अङ्गप्रत्यङ्गकानां यः सन्निवेशो यथोचितम्। सुश्लिष्टः सन्धिबन्धः स्यात् तत्सौन्दर्य्यमुदाहृतम्” उज्ज्वलमण्युक्ते २ अङ्गादीनां सन्निवेशभेदे।
सौपर्ण = न० सुपर्णं गरुडं तद्वर्णमर्हति अण। १ मरकतमणौ २ शुण्ठ्यां राजनि०। सुवर्णमधिकृत्य कृतो ग्रन्थः अण्। भा० आ० २० अध्यायाबधौ ३४ अध्यायपर्य्यन्ते ३ अवान्तरपर्वभेदे न० ४ पातालगरुडीलतायां स्त्री राजनि० ङीष्। तस्येदमण् ५ गरुडसम्बन्धिनि त्रि०।
सौपर्णेय = पु० सुपर्ण्या विनतायाः अपत्यम् ढक्। १ गरुडे हेमच० २ गायत्र्यादिछन्द सु “गायत्र्यादीनि छन्दांसि सौपर्णेयानि पाक्षिणः” वह्निपु०।
सौप्तिक = त्रि० सुप्तिकाले रात्रौ भवम् ठञ्। १ रात्रियुद्धे जटा०। सुप्तानधिकृत्य कृतो ग्रन्थः ठञ्। २ महाभारतान्तर्गते पर्वभेदे।
सौभ = न० सुष्ठु सर्वत्र लोके भाति भा–क खार्थे अण्। १ कामचारिणि पुरे २ हरिश्चन्द्रनृपपुरे जटा०। तस्य राजा अण्। ३ राजभेदे स च वासुदेवन निहतः तत्कथा भा० ब० १४ अ० अबधि २२ अ० पर्य्यन्ते दृश्या।
सौभद्र = पु० सुभद्रायां मवः अण्। १ सुभद्रापुत्रे अभिमन्थौ गीता। शुभद्राय हितः अण्। २ विभीतकवृक्षे शब्दच०।
सौभद्रेय = पु० सुभद्राया अपत्यम् ढक्। सुभर्द्रासुते अभिमन्यौ
सौभरि = पु० सुनिविशेपे भाग० १०। १७ अ० व्यो० त०।
सौभागिनेय = पु० सुभगाया अपत्यम् ढक् इनङ् च द्विपदवृद्धिः। १ सुभगापुत्रे। २ तत्कन्थायां स्त्री ङीप्।
सौभाग्य = न० सुभगाया भावः ष्यञ् द्विपदवृद्धिः। १ पतिप्रियत्वे तदर्थं व्रतं सौभाग्यव्रत व्रतशब्दे ५०६८ पृ० दृश्यम। सुभगायै सुभगाय वा हितं ष्यञ्। २ सिन्दूरे ३ टङ्कणे च राजनि०। विष्कम्भादिषु मध्ये ४ चतुर्थे योगे पु० ज्यो० त०।
सौभाग्यचिन्तामणि = पु० औषधभेदे। तल्लक्षणं सारकौ० उक्तं यथा “सौभाग्यामृतजीरपञ्चलवणव्योषाऽभयाक्षानलानिश्चन्द्राभ्रकशुद्धगन्धकरसानेकीकृतान् भावयेत्। निर्गुण्डी युगभृङ्गराजकवृषापाभागेपत्रोल्लसत् प्रत्येकं स्वरसेन सिद्धवटिका घ्नन्ति त्रिदोषोदयम्। येषां शीतुमतीव देहमखिले स्वेदद्रवाद्रीकृतं निद्रा घोरतरा समस्त करणव्यामोहमूढं मनः। शूलश्वासबलासकासमहितं सूच्छा रुचिं तृड्ज्वरं तेषां वै परिहृत्य। जीवितमसौ गृह्णाति मृत्योर्मुखात्”।
सौभिक = पु० सौभेकामचारिपुरं तन्निर्म्मार्णं शिल मस्य ठक्। ऐन्द्रजालिके हा रा०।
सौमनस्य = न० सुमनसो भावः ष्यञ्। प्रशस्तचित्तत्वे तत्र हितं अण्। २ श्वाद्धे दत्तस्य पुष्पस्य प्रसादयुक्तचित्तसाधनत्वे “सौमनस्यमस्तु” श्राद्धमन्त्रः।
सौमनस्यायनी = स्त्री सौमनस्यमयतेनर्या अय–ल्युट् ङीप् ६ त०। १ मालत्याम् २ तत्कलिकायाञ्च त्रिका०।
सौ मिकी = स्त्री सोमस्तद्दीक्षा प्रयोजनमस्य ठक् ङीप्। सोमयागार्थदीक्षणौयेष्टौ हेमच०।
सौमित्र(त्रि) = पु० सुमित्रायां भवः अण् बाह्वादि० इञ् वा लक्ष्मणे शब्दच०।
सौमेधिक = पु० सुमेधया निर्वृत्तः ठक्। १ सिद्धियुते हारा०। २ शाभनमेधायुते च त्रि०।
सौम्य = त्रि० सोमो देवताऽस्य तस्येदं वा ड्यण्। १ सोमदेवताके हविरादौः २ तत्सम्बन्धिनि। टित्त्वात् स्त्रियां ङीप्। सोम इव शाखादित्वात् य स्वार्थे अण्। ३ मनोहरे ४ प्रियदर्शने ५ अनुग्रे च त्रि० मेदि० ६ बुधे पु० अमरः। ततः स्वार्थिकाण्प्रणयाभावे सोम्योऽप्युभयत्र। “सदेव सोम्येदमग्र आसीत्” इति श्रुतिः। ह्योतिषोक्ते ७ शुभग्रहं ८ वृषादिसमराशौ च ९ उडुम्बरवृक्षे राजनि०। १० भास्वरे त्रि० धरणिः। ११ सोमपायिनि विप्रे पु० शब्दमा०। अष्टादशद्वीपमध्ये १२ द्वीपभेदे पु० “गन्धर्वो वरुणः सौम्यः बहलः कङ्क एव च। कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा। चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगंभस्तिमान्। ताम्र ङ्गश्च कुमारी च तत्र द्वीपा दशाष्टभिः” शब्दमा०। १३ सौम्यकृच्छ्रे व्रतभेदे। “अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रोऽतिकृच्छ्रकः” प्रा० त०। सौम्यकृच्छ्रशब्दे दृश्यम्।
सौम्यकृच्छ्र = पु० कर्म० सोमदेवताके कृच्छ्रसाध्ये व्रतभेदे। “पिण्यकाचा मतक्राम्बुसक्तूनां प्रतिवासरम्। एकैकमुपवासश्च कृच्छ्रः सौम्योऽयमुच्यते” याज्ञ०। पिण्याकः खलिः आचामः भक्तमण्डः। एष षडहसाध्यः प्रा० वि०।
सौम्यगन्धी = स्त्री सौम्यः अनुग्रः गन्धो यस्याः गौरा० ङीष्। शतपत्त्र्याम् राजनि०।
सौम्यग्रह = पु० कर्म०। ज्योतिषोक्ते पूर्णचन्द्रपापायुतबुधगुरुशुक्ररूपे शुभग्रहे “अर्द्धोनेन्द्वर्कसौराराः पापाः सौम्यास्तथाऽपरे। पापयुक्तो बुधः षापो राहुयेतू च पापकौ” ज्यो० त०।
सौम्यधातु = पु० कर्म०। कफे राजनि० तस्य सोमजातत्वात् तथात्वम्।
सौम्या = स्त्री सोमो देवताऽस्य ड्यण् सोम इव शाखा० य स्वार्थे अण् वा। १ दुर्गायां देवीमा०। २ महेन्द्रवारुण्यां ३ रुद्रजटायां ४ महाज्योतिष्मत्यां ५ महिषबल्ल्यां ६ गुञ्जायां ७ शालपर्ण्यां ८ व्राह्म्यां ९ शठ्यां १० मल्लिकायां च राजनि० मृगशिरोनक्षत्रशिरःस्थासु पञ्चतारकासु विश्वः।
सौर = पु० सूरस्य इदम् सूरो देवताऽस्य वा अण्। १ सूर्य्यपुत्रे शनैश्वरे २ यमे च। ३ सूर्य्यदेवताके त्रि० स्त्रियां ङीप्। सूरेण निर्वृत्तः अण्। एकैकराशौ तदंशेषु वा सूय्यगतिसाध्ये ४ दिनमासादौ त्रि०। “अध्वायनञ्च ग्रहचारकर्म सौरेण मानेन सदाऽध्यवस्येत्” ज्यो० त०। “विवाहादौ स्मृतः सौरः” इति स्मृतिः। ५ उडुम्बरवृक्षे पु० राजनि० ६ सूर्य्योपासके त्रि० ७ गुरुभेदे “गौडाः शाल्वो द्भवाः सौराः मागधाः कोङ्कणास्तथा। कोषलाश्च दाशार्ण्णाश्च गुरव! सप्त मध्यमाः” तन्त्रसा०।
सौरज = पु० सूरस्यायम् अण् सौर आलोकस्ततो जायते जन–ड। तुम्बुरुवृक्षे राजनि०।
सौरभ = न० सुरभेर्भावः अण्। १ सद्गन्धे सौरभमस्यास्ति अच् सुरभिरस्यास्ति अण् वा। कुङ्कुमे त्रिका० ३ वोले च राजनि०।
सौरभेय = पु० सुरभेरपत्यम ढक्। १ गवि स्त्रियां ङीप्। “सौरभेयीभ्य एव च” गादानमन्त्रः। तस्या इदम् ढक्। २ सुरभिसम्बन्धिनि त्रि०।
सौरसेय = पु० सुरसाया अपत्यम् ढक्। स्कन्दे शब्दमा०।
सौराष्ट्र = पु० सुष्ठु राष्ट्रमस्यास्ति प्रज्ञा० अण्। (सुरट) १ देशभेदे जटा०। सराष्ट्रे भवः अण्। २ सुराष्ट्नदेशभये त्रि० ३ कुन्दुरुके पु० राजनि० ४ लांस्ये न० ५ तुवर्य्यां स्त्री राजनि० टाप्। सुगन्धिमृत्तिकाभेदे स्त्री रत्नमा० ङीप् संज्ञायां कन्। सौराष्ट्रकं पञ्चलौहे न० हेमच०।
सौराष्ट्रिक = न० सुराष्ट्रदेश भवः ठक। विषभेदे शब्दर०।
सौरि = पु० सूरस्यापत्यम् इञ्। १ शनैश्चरे “सौरिवारेऽमृतानीति” ज्यो० त०। २ यमे ३ कर्ण ४ सुग्रीवे च पु०। ५ असनवृक्षे ६ आदित्यभक्तायां राजनि०।
सौरिक = पु० सुराणां देवानामधिवासाय हितः ठक्। १ स्वर्गे स्वार्थे क। २ सूर्य्यापत्ये ननैश्चरादौ।
सौरिरत्न = न० सौरिप्रियं रत्नम शाक०। नीलके मणौ राजनि०
सौरेय = पु० सुरायै हितम् ढक्। शुक्लझिण्ट्याम् स्वार्थे क तत्रैव। “सौरेयः कुष्ठवातास्रकफकण्डूविषापहः। तिक्तोष्णो मधुरो दन्त्यः सुसिद्धः केशरञ्जनः” भावप्र०।
सौल्विक = त्रि० सुल्वं ताम्रपात्रादिनिर्माणं शिल्पमस्य ठक्। ताम्रमयपात्रनिर्माणकर्त्तरि (कासारि)। वणिग्भेदे
सौव = त्रि० स्वस्येदम् स्वर्वा इदम् अण् अव्ययटिलोपो न वृद्धिः वावपूर्वमौत्। १ आत्मसम्बन्धिन २ स्वनसम्बन्धिनि।
सौवग्रामिक = त्रि० स्वग्रामे भवः ठक् न वृद्धिः वात्पूर्व मौत्। स्वग्रामभवे पदार्थे।
सौवर्चल = पु० सुवर्चलदेशे भवम् अण्। कृष्णलवणे अमरः।
सौवर्णभेदिनी = स्त्री सुवर्णस्य विकारः अण् सौवर्णमिव मिनत्ति प्रकाशते भिद–णिनि। प्रियङ्गौ शब्दमा०।
सौवस्तिक = पु० स्वस्तिकरने कुशलः ठक् न वृद्धिः वात्पूर्व मौत्। पुरोहिते हेमच०।
सौविद = पु० सुवेत्ति सु + विदं–क स्वार्थेऽण्। अन्तःपुररक्षके अमरः।
सौविदल्ल = पु० सुष्ठु विदात् नृपः तं लाति ला–क स्वार्थेऽण्। अन्तःपुररक्षके अमरः।
सौवीर = न० सुष्ठु वोरो यत्र सुवीरो देशभेदः तत्र भवम अण्। १ स्रोतोऽञ्जने २ बदुरफस्ते “सौवीरन्तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम। गोधूमैरपि सौवीरम्” इत्याद्युक्ते ३ काञ्जिके अमरः “सौवीरन्तु ग्रहण्यर्शः कफसं भेदि दीपनम्। उदावर्त्ताङ्गमर्द्दास्थिशूचानाहेषु शस्पन” भावप्र०। बदरवृक्षे पु० राजनि०।
सौवीरसार = पुंन० कर्म०। स्रोतोऽञ्जने राजनि०।
सौवीराञ्जन = न० सौवीराख्यमञ्जूनम्। अञ्जनभेदे अमरः स्वार्थे ज। काञ्जिकभेदे न०।
सौष्ठव = न० सुष्ठ भद्रं तभ्य भावः अण् न टिनापः। आतिशप्ये “स सौष्ठवौदार्य्यविशेषशालिनीम्” सिरा०।
सौहार्द = न० सुहृदो भावः अण् द्विपदवृद्धिः। १ स्नेहे २ मित्रत्वे हमच०।
सौहित्य = न० सुहितस्य तृप्तस्य भावः ष्यञ्। तृप्तौ नाति० सौहित्यमाचरेत्” स्मृतिः।
सौहृद = न० सुहृदो भावः अण्। मित्रत्वे वन्धुतायाम् हेम०
***