सुवक्त्र = पु० सुष्ठु वक्त्रं सेवनात् यस्मात्। १ वनवर्वर्य्याम् र ज नि०। ६ ब०। २ सुन्दराननयुक्ते त्रि०। प्रा० स०। ३ सुन्दरे सुखे न०
सुवचन = न० सु + वच–भावे ल्युट्। १ सुपलाले शोभनोक्तौ अमरः। सूच्यतेऽसौ सु + वच–कर्मणि ल्युट् ङीप्। २ शुभसूचन्याम् देवीभेदे स्त्री।
सुवचस् = त्रि० सुष्ठु वचोऽस्य। १ वाग्मनि जटा०। प्रा० स०। सुन्दरवचने न०।
सुवन = पु० सु–क्यु। १ सूर्य्ये २ वह्नौ च उणादिको० प्रा० स०। ३ रम्ये वने न०।
सुवर्चक = पु० सुष्ठु वर्चयति सु + वर्च–णिच्–ण्वुल्। सर्जिकाक्षारे राजनि०।
सुवर्चला = स्त्री सुष्ठु वर्चयति सु + बर्च–णिच्–कलच्। १ सूर्य्यभार्य्यायाम त्रिका०। २ अतस्याम् रत्नमा०। ३ आदित्य भक्तायां ४ ब्राह्म्याञ्च राजनि०। अच्। सुवर्च देशभेदे पु०
सुवर्चिक = पु० सुवर्चः देशभेदः अस्त्यस्याकरत्वेन ठन्। १ संर्जकाक्षारे २ जतुकायां स्त्रा राजनि०।
सुवर्चिन् = पु० सु + वर्च–णिच्–णिनि। सर्जिकाक्षारे राजनि०
सुवर्ण्ण = न० सुष्ठु वर्णोऽस्य। १ स्वनामख्यते धातुभेदे अमरः २ हरिचन्दने मेदि०। ३ स्वर्णगैरिके रत्नमा० ४ धने हेमच०। ५ नागकेसरे राजनि०। “कर्षं सुवर्णस्य सुवर्णसंज्ञम्” इत्युक्ते कर्षमिते ६ काञ्चने पु० लीला०। ७ यज्ञभेदे ८ धुस्तूरे ९ कणगुग्गुलौ च पु० राजनि०। सुष्ठु वर्णो रूपसक्षरं वास्य। १० सुरूपे ११ सुन्दराक्षरयुक्ते च त्रि०। “न सुवर्णमयी तनुः परं ननु वागपि तावकी तथा” नैष०। १२ कर्षपरिमाणे वैद्यक०। अग्निरेतस्शब्दे ५९ पृ० कनकशब्दे च १६४४ पृ० सुवर्णधातूवपत्तिगुणादिकं दृश्यंम्। तव्य शोधनसारणप्रकारादिकं भावप्र० उक्तं यथा “तत्र पारणाय योग्य सुवर्णमाह “दाहे रक्तं सितंछेदे निषके कुङ्कुमप्रभम्। तारशुल्वोत्थितं स्निग्धं कोमलं गुरु हेम सत्” (सत् उत्तमम्) “छेदे तु कठिनं रूक्षं विवर्णं समलं दलम्। दाहे छेदेऽसितं श्वेतं कषे त्याज्यं स्फुटं लघु। दलं (दोयत) इति लोके स्फुटं यद् घनाहतं स्फुटति। शोधनविधिः “पत्तलीकृतपत्राणि हेम्नो वह्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा। एवं हेम्नः परेषःञ्च धातनां शोधनं भवेत्”। अथाशुद्धस्य दोधः “वलं सवीर्यं हरते नराणां रोगव्रज पोषयतीह काये। असौख्यकार्येव सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात्। स्वर्णस्य मारणविधिः “स्वर्णम्य द्विगुणं सूतमम्लेन सह मर्दयेत्। तद्गोलकसमं गन्धं निदध्यादधरोत्तरम्”। स्वर्णस्य अतितनूकृतपत्रस्य। गन्धम् गन्धकचूर्णम्। “गोलकञ्च ततो रुद्ध्वा शरावदृढसपुटे। त्रिंशद्वनोपलैर्दद्यात् पुटान्येव चतुर्दंश। निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः”। रुद्ध्वा सवस्त्रकुट्टितचिक्वणमृत्तिकया वनोपलः (गोघठाः इति लोके) निरुत्थं यत् पुनर्न जीवति। अथान्यप्रकारः “काञ्चने गलिते गन्धं षोडशांशेन निःक्षिपेत्। चूर्णयित्वा तथाम्लेत घृष्ट्वाकृत्वा तु गोलकम्। गोलकेन समं गन्धं दत्त्वा चैवाधरोत्तरम्। शरावसंपुटे धृत्वा पुटेत्त्रिंशद् वनोपलैः। एवं सप्तपुटैर्हेम निरुत्थं भस्म जायते”। अत्रापि पूर्ववद्गन्धः। अन्यच्च “काञ्चनाररसैर्घृष्टा समसूतकगन्धयोः। कज्जलीं हेमपत्राणि लेपयेत् समया तया”। समया हेमपत्र समया “काञ्चनारत्वचः कल्कैर्मूषायुग्नं प्रकल्पयेत्। धृत्वा तत्सम्पुटे गोलं मृन्मूषासम्पुटे च तत्। निधाय सन्धिरोधञ्च कृत्वा संशोव्य गोलकम्। वह्निं खरतरं कुर्य्यादेवं दत्त्वा पुटत्रयम्। निरुत्थं जायते भस्मसर्वकर्मसु योजयेत्। काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम्”। लाङ्गली (करिहारी) “ज्वालामुखी तथा हन्यात् तथा हन्ति मनःशिला। शिलासिन्दूरयोश्चूर्णं समयोरर्कदुग्धकैः। सप्तघा भावनान् दद्याच्छोषयेच्च पुनः पुनः। ततस्तु गलिते हेम्नि कल्कोऽयं दीयते समः। पुनर्द्धमेदतितरां यथा कल्को विलीयते। एवं वेलात्रयं दद्यात् कलकं हेममृतिर्भवेत्”। एवं मारितस्य सुवर्णस्य गुणाः “सुवर्णं शीतलं वृष्यं वल्यं गुरु रसायनम्। स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम्। पवित्रं वृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम्। हृद्यमायुष्कर कान्तिवाग्विशुद्धिस्थिरत्वकृत्। विषद्वयक्षयोन्मादत्रिदोष- ज्वरशोषजित्”। वृष्यं वृषाय कामुकाय हितम्। “असम्यङ्मारितं स्वर्णं वलं वीर्यञ्च नाशवेत्। करोति रोगान्मृत्युञ्च तद्धन्याद् यत्नतस्ततः” तद्भेदादिकं राजनि० उक्तं यथा “दाहेऽतिरक्तमथ यच्च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे। स्निग्धञ्च गौरवमुपैति च यत्तुलायां जानीत देवकनकं मृदु रक्तपीतम्। तत्रैकं रसवेधजं तदपरं जातं स्वयंभूमिजं किञ्चान्यद्बहुलोहसङ्करभवं चेति त्रिधा काञ्चनम्। तत्राद्यं किल पीतरक्तमपर रक्तं ततोऽन्यत् यथा गौराभं तदिति क्रमेण गदितं स्यात् पूर्वपूर्वोत्तमम्”। तत्र रसवेधजस्य करणप्रकारः “आनीय पारदं देवि! स्थापयेत् प्रस्तरोपरि। तस्योपरि जपेन्मन्त्रं सर्वबन्धमयात्मकम्। साष्टसहस्रं देवेशि! प्रजपेत् साधकाग्रणीः। स्वयम्भूपुष्पसंयुक्ते वस्त्रे चारुणसन्निभे। संस्थाप्य पारदं देवि! मृत्पात्र युगले शिवे!। पुष्पयुक्तेन सूत्रेण बध्नीयात् बहुयत्नतः। मृत्तिकया रजेनैव धान्यस्य परमेश्वरि!। लेपयेद्बहुयत्नेन रौद्रे शुष्काणि कारयेत्। पुनश्च लेपयेद्धीमान् ततो वह्नौ विनिःक्षिपेत्। अष्टमीनवमीरात्रौ क्षिपेन्नैव सुरेश्वरि!। अथ वा परमेशानि! मृत्पात्रे स्थापयेद्रसम्। वल्लीरसेन तद्द्रव्यं शोधयेद् बहुयत्नतः। घृतनारीरसेनैव तथैव शोधनं चरेत्। एवं कृते तु गुटिका यदि स्यात् दृढबन्धना। धुस्तूरञ्च समानीय मध्ये शून्यञ्च कारयेत्। कृष्णाख्यतुलसीयोगे तथा घृतकुमारिका। एवं कृते वह्नियोगे भस्मसात् जायते ध्रुवम्। भस्मयागे भवेत् स्वर्णं धनदायाः प्रसादतः। विवर्णं जायते द्रव्यं यदि पूजां न चाचरेत्” मातृका भेदतत्त्रे ५ प०। बहुलोहसङ्करभवस्य करचविधिः गारुडे १८८ अ०। “सुवर्णकरणं शृणु” इत्युपक्रमे “पीतं धुस्तूरपुष्पञ्च सीसकञ्च पलोन्मितम्। पाठालाङ्गलशाखा च मूलमावर्त्तनाङ्भवेत्”। सुवर्णं चाम्बौ दह्यमानं न क्षोयते यथोक्तं याज्ञ० “अग्नौ सुवर्णमक्षीणम्”। कर्षमितब्राह्मणस्वामिककाञ्चनरूपसुवर्णहरणं महापात त्। महापातलनिरूपणे पायश्चित्तविवेकः।
सुवर्णक = न० सुवर्णमिव कायति कै–क। १ पिक्षे हेमच०। सुष्ठु वर्णोऽस्य कप्। २ सुन्दरवर्णयक्ते त्रि०।
सुवर्णकदली = स्त्री सुष्ठु वर्णो यथाः कर्म०। स्वर्णवर्णकदल्याम्। (चापाकला) रालनि०।
सुवर्णकार = पु० सुवर्णं सुवर्णमयमूषणादि करोति कृ–अण्। (सेकरा) स्वर्णरारे जातिभेदे हला०।
सुवर्णगणित = न० सुवर्णस्य वार्णादिज्ञानार्थे गष्णितभेदे तत्प्रकारो लीला० उक्तो यथा “अथ सुवर्णगणिते करणसूत्रं वृत्तम्। सुवर्णवर्णाहात योगराशौ स्वर्णैक्यभक्ते कनकैक्यवर्णः। वर्णो भवेच्छोधितहेमभक्ते वर्णोद्धृते शोधितहेमसङ्ख्या। उदाहरणानि। विश्वार्ज्करुद्रदशवर्णसुवर्णमाषाः दिग्वेदलोचनयुगप्रमिताः क्रमेण। आवर्त्तितेषु वद तेषु सुवर्णवर्णस्तूर्णं सुवर्णगणितज्ञ! बणिग्! भवेत् कः। ते शाधने यदि च विंशतिरुक्तमाषाः स्युः षोडश द्रविणवर्णमितिस्तदा का। तच्छोधितं भवति षोडषवर्णहेम ते विंशतिः कति भवन्ति तदा तु माषाः। न्यासः १३ १२ ११ २० १० ४ २ ४ जाता आवर्त्तिते सुवर्णमितिः १२। एत एव यदि शोधिताः सन्तः षोडशमाषाः भवन्ति तदा वर्णः १५। यदि तदेव शोधितं षोडशवर्णं स्वर्णं भबति तदा पञ्चदशमाषाः भवन्ति। अथ वर्णज्ञानाय करणसूत्रं वृत्तम्। स्वर्णैक्यनिघ्नाद्युतिजातवर्णात् सुवर्णतद्वर्णवधैक्यही नात्। अज्ञातवर्णाग्निजसङ्ख्ययाप्तमज्ञातवणस्य भवेत्प्रमाणम्। चदाहरष्णम्। दशेशवर्णा वसुनेत्रमाषा अज्ञातवर्णस्य षडेतदैक्ये। जातं सखे द्वादशकं सुवर्णमज्ञातवर्णस्य वद प्रमाणम् न्यासः १० ११ ० ८ २ ६ लब्धनज्ञातवर्णमानम् १५। सुवर्णज्ञानाय करणसूत्रं वृत्तम्। स्वर्णैक्यनिघ्नो युतिजातवर्णः स्वर्णघ्नयर्ण्णेक्यवियोजितश्च। अहेषवर्ण्णोऽग्नजयोगवर्ण्णविश्लेघभक्ता विदिताग्निजं स्यात्। उदाहरणम् “दशेब्द्रवर्णा गुणचन्द्रमाषाः किञ्चित्तथा षोडशकस्य तेपाम्। जातं यतौ द्वादशकं सुवर्णं कतीह ते षोडषवर्णमाषाः। न्यासः १० १४ १६ २ १ ० लब्धं माषमानम् १। सुवर्णज्ञानायान्यत्करणसूयं वतस्। साध्येनोनोऽनल्पवर्णो विधेयः साध्यो वस्त स्त्रल्पवर्णोनितश्च। इष्टक्षुणे शेषके स्वर्णमाने स्यातां स्वपानल्पयोर्वर्णयोस्त्री। उदाहरणम् “हाटकगुद्विके षोडशदशवर्णे तद्युतौ सखे! जातम्। द्वादषवर्ण सुवर्णं ब्रूहि तयोः स्वर्णमाने मे। न्यास० १६ १० ० साध्यो वर्णः १२ कल्पितमिष्टम् १। लब्धे मुवर्णमाने १६ १० २ ४ कथवा द्विकेनेष्टेन १६ १० ४ ८ अर्द्धनेष्टेन वा १६ १० १ २
सुवर्णगैरिक = सुवर्णमिव पीतं गैरिकम्। (वर्णकमाटि) गैरिकभदे राजनि०। “गैरिकं मधुरं पीतं कषायं व्रणरोपणम्। विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम्” राजनि० तद्गुणा उक्ताः।
सुवर्णजीविक = पुंस्त्री० सुवर्णं तत्क्रयविकयौ जीविका यस्य। सुवर्णबणिजि जातिभेदे स्त्रियां ङीष्। तज्जन्मकथा “गान्धिकः शाङ्किकश्चैव कांस्यको भणिकारकः। सुवर्णजीविकश्चैव पञ्चैते बणिजः स्मृताः”। “अम्यष्ठात् रजपुत्र्याञ्च जायते नान्धिको यणिक्। गन्धसन्दनक्षूपादिक्रयविक्रयकारकः। गान्धिक्यां रजपुत्र्याञ्च संजातः शाङ्गिको वणिक्। शङ्खं दत्त्वा मुनेः पत्न्यै शङ्खजीवी प्रकीर्त्तितः। शाङ्घिक्यां गान्धिकाज्जातस्ताम्रकांस्योपजीविकः। शाङ्खिकात् कांस्यकन्यायां मणिकारः प्रजायते। कांस्यकाराच्च माणिक्यां सुवर्णजीविकोऽभवत्” पराशरजातिमाला। तस्य पातित्यकारणं ब्रह्मवै० ब्रह्मख० १० अ० उक्तं यथा “कश्चिद् बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः। स्वर्णचौर्य्यादिदोषेण पतितो व्रह्मशापतः”।
सुवर्णनकुली = स्त्री सुवर्णमिव पीता नकुली। महाज्योतिष्मत्याम् राजनि०।
सुवर्णपुष्प = पु० सुवर्णमिव पुष्पपस्य। राजतरुणीवृक्षे राजनि०
सुवर्णप्रसर = न० सुवर्णस्य प्रसर इव यत्र। एकवालुके वैद्यक०।
सुवर्णबणिज् = पु० सुवर्णस्य बणिक् क्रयविक्रयादिकर्त्ता। जातिभेदे (सोनारवेणे)। स्वर्णबणिक्प्रभृतयोऽप्यत्र। सुवर्णजीविकशब्दे दृश्यम्।
सुवर्ण्णबिन्दु = पु० सुवर्णस्य विन्दुयत्र। विष्णौ हेमच०।
सुवर्णयूथी = स्त्री सुवर्णमिव पीता यूथी। पीतवर्णथूथिकायाम् राजनि०। “यूथिका गणिकाम्बषा सा पीता पेम- पुष्पिका। यूथीयुगं हिमं तिक्तं कटुपाकं सरं लघुमधुरं तुवरं हृद्यं पित्तघ्नं कफवातलम्। व्रणास्रसुखदन्ताक्षिशिरोरोगविषापहम्” भावप्र०।
सुवर्णवर्णा = स्त्री सुवर्णस्येव वर्णो यस्याः। १ हरिद्रायाम् शब्दच०। २ स्वर्णतुल्यवर्णयुक्ते त्रि०। ३ विष्णौ पु० विष्णुस०। “तस्याप्रणखात् सर्वमेव सुवर्णमिति” शुर्तेस्तथात्वम्। ६ त०। स्वर्णस्य मूल्यभेदकसूचके ४ वर्णे पु० सुवर्णगणितशब्दे दृश्यम्।
सुवर्णा = स्त्री सुष्ठु वर्णो यस्याः। १ कालागुरुणि मेदि०। २ वाट्यालके शब्दमा०। ३ स्वर्णक्षीर्य्यां ४ हरिद्रायाम् राजनि०। ५ आखुकर्ण्यां स्त्री राजनि० गौ० ङीष्।
सुवयस् = स्त्री सुष्ठु वयाऽस्याः। प्रोढायां स्त्रियाम् राजनि०।
सुवल्लि(ल्ली) = स्त्री प्रा० स०। सोमराजीलतायाम् अमरः।
सुवसन्त = पु० प्रा० स०। चेत्राबल्यां त्रिका०।
सुवसन्तक = पु० सुवसन्तेन कायति कै–क। माधवीलतायां २ मदनोत्सवे च मेदि०।
सुवहा = स्त्री सुखेन उह्यते वायुनासो सु + वह–खल्। १ शेफालिकायां २ रास्रायां ३ गाधापद्याम् ४ एलापर्ण्याम् अमरः ५ शल्लक्यां ६ वीणायां मेदि०। ७ त्रिवृतायाम् शब्दच०। ८ रुद्जटायां ९ हसपद्यां १० गन्धनाकुल्यां ११ मुसल्य्ं १२ नीलसिन्धुवारं च राजवि०। १३ सुखवाह्ये त्रि० मेदि० सम्यग् वहति सु + वह–अच्। १४ सम्यग्वाहके त्रि० हेम च०
सुवास = पु० सुष्ठु वासः। १ सद्गन्धे २ सुखनिवासे च। ६ ब०। ३ सद्गन्धयुक्ते ४ सन्निवासान्विते च त्रि०।
सुवासिनी = स्त्री सुखन पित्राद्यवियोगेन वसति सु + वस–णिनि ङाप्। चिरण्ट्यां चिरं पितृकुलवासिन्यां स्त्रियाम् अमरः
सुविद् = पु० सुष्ठु वेत्ति सु + विद–क्विप्। १ पण्डिते। सुष्ठु विद्यते लभ्यते सु + विद–लाभे क्विप्। २ गुणाद्यायां स्त्रियां स्त्री रामाश्रमः।
सुविद = पु० सु + विद–क। १ कञ्चुकिनि रायसु० २ सृपे भरतः।
सुविदत् = पु० सुविदं गुणाढ्यां स्त्रियमतति अत–क्विप्। नृपे रायमु०।
सुविदत्र = त्रि० सु + विट कत्रच्। कुटुम्बे उणादि०।
सुविदल्ल = पु० सुविदतं राजानं लाति ला–क। १ नृपास्तःपुरे कृताधिकारे कञ्चुकिनि अमरः। सुविदता राज्ञा लीयत ला–क। २ अन्तःपुरस्थनार्य्याम् स्त्री रायसुकुटः।
सुविनीता = स्त्री सु + वि + नी–क्त। १ सुशीलायां गवि शब्दर० २ सुविनययुक्ते त्रि०।
सुवीज = पु० सुष्ठु वीज्यतऽसौ वीज–क। (खम्खम) वृक्षभेदे राजनि० ६ व०। २ सुन्दरवीजयुते त्रि०। प्रा० स०। ३ सुन्दरे वीजे न०।
सुवीरक = न० सु + वीर–ण्वुल्। सौवीराञ्जने शब्दच०।
सुवीराम्ल = न० सुवीरयति सुवोर्य्यान्वतं करोति सु + वीरअच् तादृशोऽम्लोऽस्य। काञ्जिके जटा०।
सुवीर्य्य = न० सुष्ठु वीर्य्यं यस्मात् ५ व०। १ वदरीफले २ वनकार्पास्यां स्त्री शब्दर०। प्रा० स०। ३ उत्तमे वीर्थ्ये न०।
सुवृत्त = पु० सुष्ठु वृत्तः वर्तुलः। १ शूरणे (ओल) राजनि० २ सुन्दरवृत्तान्वते त्रि० ३ शतपत्त्र्यां ४ काकल्यां ५ द्राक्षायाञ्च स्त्री राजनि० ६ सुवर्तुले त्रि०।
सुवेगा = स्त्री सुष्ठु वेगो वायुनिःसारणवेगो यस्याः ५ त०। १ महाज्योतिष्मत्याम् राजनि०। २ उत्तमवेगान्विते त्रि०।
सुवेल = पु० सुगता वेला सुमुद्रकूलं येन प्रा० ब०। १ त्रिकूटपर्वते हेमच० सुष्ठु वेला मर्थ्यादा सथितिः यस्य। २ शान्ते ३ प्रणते च त्रि० मेदि०।
सुवेश = पु० सुखेन विश्यते उपभुज्यते सु + विश–कर्मणि घञ्। १ श्वेतेक्षौ राजभि० प्रा० ब०। २ सुन्दरवेशयुक्ते त्रि०।
सुव्रता = स्त्री सुष्ठु व्रतं नियमो यस्याः १ मुशीलायां गवि अमरः। २ सुन्दरव्रतयुक्ते त्रि०। ३ जिनभेदे पु० हेमच०।
सुशर्म्मन् = पु० शृ–मनिन् सुष्ठु शर्मे सुखं यस्य। १ नृपभेदे वृद्धक्षेमनृपपुत्रे भा० आ० १८ अ०। २ मुन्दरसुखयुते त्रि०। ३ तृतीयमनुपुत्रभेदे पु० हरिवं० ७ अ०। ४ कुत्सितब्राह्मनभेदे “सुशर्मा नाम दुर्मेधाः सीमा पापःत्मनामभूत। अनाम्नायविदां वंशे विप्राणां क्रूरकर्मणाम्” पाद्मो० ख० ८० अ०
सुशल्य = पु० सुष्ठु दृढं शल्यं यस्मात् ५ व०। खदिरे राजनि०।
सुशवी = स्त्री सु + शव–अच् गोरा० ङीष्। १ कारवेल्ली २ कृष्णजीरके च भरतः।
सुशाक = न० सुष्ठु शाको यस्मात् ५ ब०। १ आर्द्रके राजनि०। पाके तत्संयोगे हि शाकस्य सुस्वादुता। रुष्ठु शाको यस्य। २ चञ्चुशाके ३ तण्डुलीये (नटेशाक) ४ मिण्डायां पु० राजनि०
सुशिख = पु० सुन्दरी शिखा यस्य। १ वह्नौ जटा० २ चित्रवृक्षे च। ३ शोभनशिखायुक्ते त्रि० ४ मयूरशिखायां स्त्री राजनि०।
सुशीत = न० प्रा० स०। १ पीतचन्दने शब्दच० २ अतिशीतलस्पर्शे ३ तद्वति त्रि०। ४ ह्रस्वप्लक्षे पु० राजनि०।
सुशीतल = न० प्रा० स०। १ गन्धतृणे रत्नमा०। २ अतिशीतगुणयुक्ते त्रि०।
सुशीता = खो प्रा० स०। १ शतपत्त्र्याम् राजनि०। २ भातगुण वत्यां स्त्रियां च।
सुशीम = पु० सु + श्यै मक् सम्प्रसारणञ्च १ शीतस्पर्शे २ तद्वति त्रि० अमरः।
सुशील = पु० सुन्दर–शीलमस्य। विष्णुपार्श्वचरभेदे राजनि०। २ शोभनचरितान्विते त्रि० ३ कृशाश्वनृपमहिषीभेदे स्त्री पद्मपु० उत्तरख० ६८ अ०।
सुश्रीक = स्त्री सुन्दरी श्रीरस्य कप्। १ सल्लकीवृक्षे २ सुन्दरश्रीयुक्ते त्रि०।
सुश्रुत = पु० सुश्रूयत सु + श्रु–कर्मण क्त। १ विश्वामित्रमुनपुत्रे चिकित्साशास्त्रकर्त्तरि मुनिभेदे आयुवंदशब्दे ७८० पृ० दृश्यम्। २ ततकृतग्रन्थे च। ३ सुन्द्ररश्रुत त्रि०। “दवाकर्णय सुश्रुतन चरकस्योक्तेन जानेऽखिलम्” नैष०। च।
सुश्लिष्ट = त्रि० सु + श्लिष–क्त। १ सुसंयुक्ते २ दृढमिलिते। ३ सुमङ्गते
सुषम = पु० सुन्दरः समः प्रा० स० सुषामा० षत्वम्। १ शोभने समे २ परमायां शोभायां स्त्री अमरः।
सुषवी = स्त्री सु + सु–अच् गौरा० ङीष्। १ कारवेल्ले अमरः। २ क्षुद्रकारवेल्ले राजनि० ३ जीरके ४ कृष्णजीरके च मेदि०।
सुषामन् = त्रि० सुष्ठु साम यस्य सुषामादि० षत्वम्। सुसान्त्वने स्त्रियां वा डाप् ङीप् च।
सुषि = स्त्री शुष–इन् पृषो० शस्य सः। शुषौ छिद्रे भरतः।
सुषिर = न० शुष–किरच् पृषो० शस्य सः। छिद्रे भरतः।
सुषीम = पु० सुशीम + पृषो०। १ शीतलस्पर्शे २ तद्वति अमरः। ३ सनोज्ञे त्रि० मेदि०।
सुषुप्त = न० सु + स्वप–भावे क्त। “यत्र सुप्तो न कञ्चन काम कामयते न कञ्चन स्वप्नं पश्यति तत सुषुप्तमिति” श्रुत्युक्त १ ज्ञानशून्यावस्थाभेदे। कर्त्तरि क्त २ तदवस्थान्विते त्रि
सुषुप्ति = स्त्री सु + स्वप–क्तिन्। पुरीतति नाह्यां मनसः संयोगरूपे १ सर्वज्ञानशून्ये जीवावस्थाभेदे वेदान्तोक्ते २ संर्वपदार्थशून्ये लये च।
सुषुम्णा = स्त्री सुषु इत्यव्यक्तं शब्दं म्नायति यत्र म्ना–क। तन्त्राक्त मेरुदण्डबाह्यस्थे इडापिङ्गलानड्योर्मध्यम्थे सूक्ष्ये नाडीभेदे। “मेरोर्बाह्यप्रदेशे शशिमिहरासरे सव्यदक्षे निषण्णे मध्ये नाडी सुषुम्णा त्रितयगुणमयी चन्द्रसूर्य्याग्नरूपा” षट्चक्रभदतन्त्रम्। तस्याऽशुभवहनभेदो यथा “क्षणं वामे क्षणं दक्षे यदा वहति मारुतः। सुषुमणा सा च विज्ञेया सर्वकार्य्यहराऽशुभा। तस्या नाड्यां स्थितो वह्निज्वं लन्तकालरूपधृक्। विषमं तं विजानीयात् सर्वकार्य्यविनाशनम्। यदानु क्रमसुल्लङ्घ्य तस्यां नाड्यां द्वयं वहेत्। तदा तस्य विजानीयादशुभं सुमुपस्थितम्” इति ब्रह्मयामलम्”। मेरुबाह्ये इडा नाडी पिङ्गलया समन्विता। सुषुम्णा भानुमार्गेण ब्रह्मद्वारावधि स्थिता” योगस्वरोदयः।
सुषेण = पु० सुष्ठु सेनयति सेनां करोति अच् षत्वम्। १ करमर्दके (करमचा) अमरः २ वेतसे राजनि० ३ चिकित्सके वानरभेदे। ४ विष्णौ च मेदि० ५ त्रिवृति स्त्री राजनि० ङीप्। स्वार्थे क अत इत्त्वम्। कृष्णत्रिवृति स्त्री अमरः।
सुषोमा = स्त्री नदीभेदे भाग० ५। १९ अ०।
सुष्ठु = अव्य० सु + स्था–कु। १ प्रशंसायाम् २ अतिशये अमरः। ३ सत्ये च संक्षिप्तसा०।
सुष्म = न० सु–मक् सुक् च। रज्ज्वां क्षीरस्वामी।
सुसंस्कृत = त्रि० सु + सम् + कृ–क्त सुम् च। १ प्रयत्नेन घृतादिनानाद्रव्येण पक्वे व्यञ्जनादौ अमरः २ उत्तमसंस्कारयुते त्रि०।
सुसत्या = स्त्री जनकराजमार्य्यायाम् कालिकापु० ३७ अ०।
सुसम्पट् = स्त्री प्रा० स०। १ सौभाग्ये त्रिका० सुवु सस्पद् यस्य। २ सुसमृद्धे त्रि०।
सुसार = पु० सुष्ठु सारोऽस्य। १ रक्तखदिरे राजनि०। २ अतिसारयुते त्रि०।
सुसारवत् = न० सुष्ठु सारोऽस्त्यस्य मतुप् मस्य वः। स्फटिके त्रिका०।
सुसिकता = स्त्री प्रा० स०। शर्करायाम् राजनि०। २ उत्तमवालुकायाम् ब० व०।
सुस्थ = त्रि० सुखेन तिष्ठति सु + स्था–क। १ आरोग्येण युक्ते २ सुखिनि च।
सुस्ना = पु० सु + स्नै–क्विप्। (खे~सारी) शमीधान्यभेदे राजनि० “सुस्ना दूर्वादलो रूक्षः कषायो बिशदो गुरुः” राजनि०।
सुस्नात = त्रि० सुष्ठु स्नातः सु + स्नै–क्त। मङ्गलद्रव्येण कृतस्नाने।
सुस्मिता = स्त्री सुष्ठु स्मितमस्य। नारीभेदे हेमच०
सुहित = त्रि० सु + धा–क्त। १ तृप्ते २ विहिते च विश्वः। प्रा० स०। ३ सुन्दरहिते न०। ५ ब०। ४ अग्निजिह्वाभेदे स्त्री जटा०।
सुहृद = पु० सुष्ठु हृदयं यस्य मित्रार्थे हृदादेशः। १ मित्रे २ ज्योतिषोक्ते लग्नाच्चतुर्थस्थाने च।
सुहृदय = त्रि० सुष्ठु हृदयं यस्य। १ प्रशस्तमनस्के अमरः। प्रा० स०। २ सुचित्ते न०।
सुहृद्बल = न० सुहृदेव वलम्। मित्त्ररूपे सैन्ये।
सुहोत्र = पु०। चन्द्रवंशीयवृहदिषुराजपुत्रे। “वृहदिषोश्च दायादः सुहोत्रो नाम धार्मिकः। सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह” हरिवं० २० अ०।
सू = स्त्री सू–क्विप्। १ सूतौ २ प्रसवे ३ क्षेपे ४ प्रेरणे च।
सूक = न० सू–प्रेरणे क्विप संज्ञायां कन्। १ उत्पले २ वाणे ३ वाते च मेदि०।
सूकर = पुंस्त्री० सू–इत्यव्यक्तं शब्दं करोति कृ–अच्। १ वराहे २ कुम्भकारे ३ मृगभेदे च शब्दर० स्त्रियां ङीष्। ङीषन्तः ४ वराहक्रान्तायां शब्दसा०।
सूक्त = न० सु + वच–भावे क्त। १ सुन्दरकथने २ विशिष्टैकार्थप्रतिपादके एकदैवत्ये वेदमन्त्रसमुदाये च यथा श्रीसूक्तं पुरुषसूक्तमित्यादि। तानि च वेदे बहूनि सन्ति तत्र महादानोपयोगीनि कति चित् सूक्तानि तुलादानाटि पद्धतौ अस्माभिः उद्धृतानि तानि च तत्र दृश्यानि। “जप्यानि सूक्तानि तथैव चैषाम्” वह्निपुराणम्। ३ शारिकायां स्त्री त्रिका०। क्तिन्। सूक्ति सुष्ठूक्तौ स्त्री।
सूक्ष्म = न० सूच–मन् सुक्च नेट्। १ कैतवे २ अध्यात्मपदार्थे मेदि० ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०७ पृ० दृश्यम्। ४ कतकवृक्षे पु० शब्दर०। ५ अणुपरिमाणयुते ६ अल्पे च त्रि०।
सूक्ष्मकृष्णफला = स्त्री सूक्ष्मं कृष्णं फलं यस्याः। मध्यमजम्बूवृक्षे रत्नमा०।
सूक्ष्मतण्डुल = पु० सूक्ष्मस्तण्डुलोऽस्य। (खसखस) इति ख्याते १ वृक्षे २ पिप्पल्यां स्त्री राजनि०।
सूक्ष्मदर्शिन् = त्रि० सूक्ष्मं पश्यति दृश–णिनि। अत्यन्तसुबुगौ कुशाग्रीयबुद्धौ।
सूक्ष्मपत्त्र = पु० सूक्ष्मं पत्त्रमस्य। १ धान्यके २ वनजीरके ३ देवसर्षपे ४ लघुबदरे ५ सुरपर्णे ६ लोहितेक्षौ च राजनि०। ७ वनवर्वर्य्यां ८ वावलवृक्षे शब्दर०। कप् अत इत्त्वम्। सूक्ष्मपत्रिका शतपुष्पायां शतावर्य्यां लघव्राह्म्यां दुरालभायाम् आकाशमांस्याञ्च स्त्री राजनि०।
सूक्ष्मपिप्पली = स्त्री कर्म०। वनपिप्पल्याम् राजनि०।
सूक्ष्मपुष्पी = स्त्री सूक्ष्माणि पुष्पाण्यस्याः ङीप्। यवतिक्तायाम् राजनि०।
सूक्ष्मफला = स्त्री सूक्ष्मं फलमस्याः। १ भूभ्यामलक्याम् रत्नमा० २ भूकर्वुदारे राजनि०।
सूक्ष्मबदरी = स्त्री कर्म०। भूमिबदर्य्याम् राजनि०।
सूक्ष्मभूत = न० कर्म०। वेदान्तप्रसिके अपञ्चीकृते भूम्यादीनां पञ्चानां भूतानां सूक्ष्मांशभेदे।
सूक्ष्ममक्षिक = पु० सूक्ष्मा मक्षिका तदाकारोऽस्त्यस्य अच्। मशके राजनि०।
सूक्ष्ममूला = स्त्री सूक्ष्मं मूलमस्याः। जयन्त्याम् राजनि०।
सूक्ष्मवल्ली = स्त्री कर्म०। १ ताम्रवल्ल्यां २ जतुकायाञ्च राजनि०।
सूक्ष्मवीज = पु० सूक्ष्मं वीजमस्य। (खसखस) ख्याते वृक्षे राजनि०।
सूक्ष्मशर्करा = स्त्री कर्म०। वालुकायाम् राजनि।
सूक्ष्मशाख = पु० सूक्ष्मा शाखाऽस्य। जलवर्वुरे राजनि०।
सूक्ष्मशालि = पु० कर्म०। अणुधान्ये श्यामाकादौ राजनि०।
सूक्ष्मषट्चरण = पु० सूक्ष्मः षट्चरण इव। पक्ष्मयूके राजनि०
सूक्ष्मा = स्त्री सूच–मन् सुक्च नेट् टाप्। १ यूथिकायां शब्दच०। २ क्षुद्रैलायां ३ करुण्यां ४ वालुकायाञ्च राजनि०।
सूक्ष्माङ्ग = न० कर्म०। “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” येदान्तोक्ते भोगसाधने सोकद्वयगामिनि लिङ्गदेहे। सूक्ष्मशरीरादयाऽप्यत्र। सांख्यमते त्वस्यान्यविधसप्तदशावयवत्वं यथोक्तं सां० का० तत्त्वकौ०। “सूक्ष्मास्तेषां नियता मातापितृजा निवर्त्तन्ते” का० “सूक्ष्मादेहाः परिकल्पिता” तत्त्वकौ०। “परिकल्पिता अनुमिता परलोके कर्मफलभोगः सूक्ष्मदेहं विनाऽनुपन्नः भोगत्वात् स्थूलदेहारब्धकृव्यादिजनितस्य सस्यस्य खदेहेनैव भोगवत् स्वदेहारब्धकर्मादिफलं यत्तत् स्वदेहेनैव भोग्यम् नेतरेण अन्यथा कृतहानाकृताभ्यागमप्रसङ्ग इत्यादिस्तर्कस्तत्रानुसन्धेयः। “पूर्वोत्पन्नमश(स)क्तं नियतं महदादिसूक्ष्मपर्य्यन्तम्। संसरति निरुपभोगं भावैरघिवासितं लिङ्गम्” का०। “प्रधानेनादिसर्गे प्रतिपुरुषमेकैकमुत्पादितम्। अस(श)क्तमव्याहतं शिलामप्यनुविशति नियतम् आ चादिसर्गात् आ च महाप्रलयादवतिष्ठते महदादिसूक्ष्यपर्य्यन्तं महदङ्कारैकादशेन्द्रियपञ्चतन्मात्रपर्य्यन्तम् एषां ससुदायः सृक्ष्मशरीरं शान्तषोरमूदौरिन्द्रियैरन्ततत्वाद्विशेषः” कौ०।
सूक्ष्मैला = स्त्री कर्म०। क्षुद्रैसानाम् (गुजराटी एसाच्) रत्रमा०
सूच = पैशून्ये (अन्तर्द्रोहे) अद० चु० उभ० सक० सेट्। सूचयति ते असुसूचत् त। बह्वच्कत्वान्न षोपदेशः।
सूचक = त्रि० सूचयति अन्तर्द्रुह्यति सूच–ण्वुल्। १ पिशुने अमरः अन्तर्द्रोहवति २ बोधके च। ३ काके ४ कुक्कुरे ५ विडाले पुं स्त्री० मेदि० स्त्रियां ङीष्। ६ पिशाचे ७ सिद्धगणे ८ वुद्वे शब्दर०। ९ नाटकप्रसिद्धे सूत्रधाराख्ये प्रधाननटे १० कथके हेमच० ११ सूक्ष्मशालौ पु० राजनि० १२ सीवनसाधनद्रव्ये पु० मेदि०।
सूचन = न० सूच–भावे ल्युट्। १ हिंसने २ ज्ञापने च। युच्। तत्र, दृष्टौ पीडायाम् अभिनये च स्त्री विश्वः।
सूचि(ची) = स्त्री सूच–इन् वा ङीप्। १ सीवनसाधने स्वनामख्याते लौहमयपदार्थे अमरः २ शिखायां ३ नृत्यभेदे रत्नका०।
सूचिक = त्रि० सूचिः तया सीवनं शिल्पमस्त्यस्य ठन्। सूच्याजीविनि (दरजि) शब्दर०।
सूचिका = स्त्री सूचि + स्नार्थे क। १ सूच्याम्। ररचिरिव कायति कै–क। २ हस्तिशुण्डायाम्। सूचिकाधरः।
सूचिकाधर = पुंस्त्री० सूचिकां शुण्डां धरति धृ–अच्। गजे शब्दर० स्त्रियां ङीष्।
सूचिकाभरण = न० वैद्यकोक्ते औषधभेदे तत्पाकादि यथा “विषं पलमितं सूतः शाणकश्चूर्णयेद् द्वयम्। तच्चूर्णं संपुटे कृत्वा काचलिप्तशरावयोः। मुद्रां कृत्वाथ संशोष्य ततश्चूल्ल्यां निवेशयेत्। वह्निं शनैः शनैः कुर्य्यात् प्रहरद्वयसङ्ख्यया। तत उद्घाट्य तन्मुद्रामुपरिस्थशरावकात्। संलग्नो यो भवेद्धूमस्तं गृह्णीयाच्छनैः शनैः। वायुस्पर्शो यथा न स्यात्ततः कूयां निवेशयेत्। यावत् सूच्या मुखे लग्नं कूप्या निर्याति भेषजम्। तावन्मात्रो रसो देबो मूर्च्छिते सन्निपातिनि। क्षुरेण प्रक्षते मूर्ध्नि तत्राङ्गुल्या च घर्षयेत्। रक्तभेषजसम्पर्कात् मूर्च्छितोऽपि हि जीवति। तथैव सर्पदष्टोऽपि मृतावस्थोऽपि जीवति। यदा तापो भवेत्तस्य मधुरं तत्र दीयते” भैषज्यरत्ना०। “विषं पल रसं शाणं तच्चूर्णं काचलेपिते। मृत्संपुटे च संरुध्य चूद्ध्यां संस्थाप्य पाचयेत्। शनैर्यामद्वयं पक्ता तं ससुद्वास्य शीतलम्। ऊर्ध्वपात्रगतं धूमं गृहीत्वाऽस्मृष्ट मारुतम्। यावत् सूच्या मुखे लग्नं कूप्या आयानि भेषजम्। क्षुरेण प्रक्षते शीर्षे तत्राङ्गल्या च घर्षयेत्। त्रिदोषे मूर्च्छितो सीबो रक्तभेषजसङ्गमात्। सर्पदष्टो मृतावस्थः सोऽपि जीवति तत्क्षणात्। दद्याच्च मधुरं तोयं सूचिकाभरणे रसे” इति रसप्रदीपः।
सूचिकामुख = पु० सूचिकेव क्रमसूक्ष्मं सुखमस्म। १ शङ्खे हारा० ६ त०। ६ सूच्यामुखे न०।
सूचि(ची)क्षेच = न० सूच्याकारं क्षेत्रम्। लीलावतीप्रसिद्धे सूच्याकारके क्षेत्रभेदे क्षेत्रशब्दे २४०० पृ० दृश्यम्।
सूचित = त्रि० सूच–क्त। १ कथिते २ बोधिते ३ हिंसिते च।
सूचिपत्त्रक = पु० सूचिरिव पत्त्रमस्य कप्। सितावरशाके राजनि०। सूचीदलादयोऽप्यत्र।
सूचिपुष्प = पु० सूच्याकारं पुष्पं पुष्पाग्रं यस्य। केतकवृक्षे जटा०। सूचीपुष्पादयोऽप्यत्र।
सूचिरोमन् = पु० सूचिरिव रोमाऽस्य। वराहे हारो० सूचीरोमन् तत्रार्थे त्रिका०।
सूचिवत् = पु० मूचिरिव तदाकारचञ्चुरस्त्यस्य मतुप् यवा० मस्य वः। गरुडे शब्दर०।
सूचिवदन = पुं स्त्री० सूचिरिय वदनं यस्य। १ नकुले स्त्रियां जातित्वात् ङीष्। २ मशके पु० राजनि०।
सूचिशालि = पु० कर्म०। सूक्ष्मधान्ये श्यामाकादौ राजनि०।
सूचीकटाह = पु० न्यायभेदे न्यायशब्दे ४१७० पृ० दृश्यम्।
सूचीपत्त्रा = स्त्री सूचीव पत्त्रमस्याः। गण्डदूर्वायाम् राजनि०
सूचीमुख = सूचीव मुखमस्य। १ सितकुशे राजनि०। २ हीरके न० हेमच०। ६ त०। ३ सूच्यामुखे न०।
सूच्यग्रस्थूलक = पु० सूच्यग्रमिव स्थूलः स्वार्थे क। (उलुखड) त्णभेदे रत्नमा०।
सूच्यास्य = पुंस्त्री० सूचीव आस्यमस्य। १ मूषिके हेमच० स्त्रियां योपधत्वात् टाप्। ६ त०। २ सूच्या अग्रे न०।
सूच्याह्व = पु० सूच्या आह्वा आह्वा यस्य। सितावरके हेम्च०।
सूत = पु० सू–प्रसवे प्रेरणे ऐश्वर्य्ये वा क्त। १ सूर्य्ये अनेकार्थको०। २ अर्कवृक्षे ३ क्षत्रियजाते ब्राह्मणीगर्भजे वर्णसङ्करभेदे ४ त्वष्टरि ५ सारथौ ७ वन्दिनि मेदि० ७ मागधे ८ पारदे पुंन० अमरः। ९ प्रसूते १० प्रेरिते च त्रि०। ११ लोमहर्षणाख्ये पुराणवक्तरि च तदुत्पत्तिकथा “सवान्ते सूतमनघं नैमिषीया महर्षयः। पुराणसंहितां पुण्यां पपृच्छुर्लोमहर्षणम्। त्वया सूत! सहाबुद्धे भगवान् ब्रह्मवित्तमः। इतिहासं पुराणार्थं व्यासः सम्यगुपासितः। तस्य ते सर्वरोमाणि वचसा हृषि तानि यत्। द्वैपायनस्य मगवांस्ततो वै रोमहर्षणः। भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः। मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा। त्वं हि स्वायम्भुवे यज्ञे सूत्याहे वितते सति। संभूतः संहितां वक्तुं खांशेन पुरुषोत्तम्!” कोर्म १ अ०। “ब्रह्मणः पौष्करे यज्ञे सूत्याहे वितते सति। पृषदाज्यात् समुत्पन्नः सूतः पौराणिको द्विजः। वक्ता वेदादिशास्त्राणां त्रिकालामलतत्त्ववित्। तीर्थयात्राप्रसङ्गेन नैमिषारण्थमागमत्” वह्निपु० १ अ०। जातिभेदसूतोत्पत्तिकथा “हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितापमहः। विष्णोरशं पृथुं मत्वा परितोषं परं ययौ। तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे। सूतः सूत्या समुत्पन्नः सौत्येऽथ महामते!। तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः। प्रोक्तौ तदा मुनिवरैस्तावुभौ मूतमागधौ। स्तूयतामेष नृपतिः पृथुर्वैन्यः पतापवान्” विष्णुपु० १ अंशे १३ अ०। “एतस्मिन्नेव काले त यज्ञे पैतामहे शुभे। सूतः सूत्यां समुत्पन्नः सौत्येऽहनि पुराणवित्। तेषां यज्ञे पुनस्त्वे वमुत्पन्नौ मूतमागधौ। पृथोःस्तवार्थं तौ तत्र समाहूतो महर्षिभिः। ते ऊचुरृष्यः सर्वे स्तूयतामेष पार्थिवः। तैनियुक्तो-ऽस्य कर्माणि पृथोर्यानि महात्मवः। तुष्टुवांस्तानि सर्वाणिआशीर्वादांस्ततः परान्। तयोस्तवान्ते सुप्रीतः पृथुः प्रादात् जनेश्वरः” वह्निपु०। “क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः”। “सूतानामश्वसारथ्यमम्यष्ठानां चिकित्सितम्” मनुः।
सूततनय = पु० सूतस्य तनयः। भारतप्रसिद्धे राधेये कर्णे हेमच०। सूतपुत्रादयोऽप्यत्र। तस्य सूतपालितत्वात्तथात्वम्
सूति = स्त्री मू + क्तिन्। १ प्रसवे “प्रबलैः मूतिमारुतैः” स्मृतिः सूयते कण्ड्यते सीमोऽत्र सू–आधारे क्तिन्। २ सोमाभिषवभूमौ श्रीधरः।
सूतिका = स्त्री सू–क्त स्वार्थे क अत इत्त्वम्। नवप्रसूतायां स्त्रियाम् “उदक्यां सूतिकां विना” इति स्मृतिः।
सूतिकागार = न० सूतिकाया निवासयोग्यमगारम्। मूतिकागृहे अरिष्टे। सूतिकागृहादयोऽप्यत्र। तत्करणप्रवेशमुहूर्त्तादिकं पीयू० उक्तं यथा “उक्तञ्च श्रीपतिना “पुनर्वसौ च सूतिकागृहस्य निर्मितिः शुभा। विरञ्चिविष्णु भान्तरे प्रवेशनं हितं भवेत्” इति। विरञ्चिरभिजिन्नक्षत्रम् अन्तरे मध्ये विरञ्चिविष्णुतारयोरित्येव सप्तम्या अधिकरणत्वे वोधिते अन्तरपदोक्तिः स्पष्टार्था। तदेतत्ब्राह्मणव्यतिरिक्तवर्णत्रयविषयम्। यदाह लल्लः “पुनर्वसौ नृपादीनां कर्त्तव्यं सूतिकागृहम्। श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत्” इति। आवश्यकत्वे तु श्रवणाभिजितोर्मुहूर्त्तस्तदुदयो ग्राह्यः वा इत्यर्थः। ब्राह्मणस्य तु प्रागुक्तनक्षत्रेष्वेव सूतिकागृहनिर्माणप्रवेशौ तत्र सूतिकागृहं नैरृत्यां कार्य्यम्। यदाह वृद्धवसिष्ठः “ऐन्द्र्यां तु विक्रमस्थानमाग्नेय्यां पचनालयः। वारुण्यां भोजनगृहं नैरृत्यां सूतिकागृहम्। याम्यायां शयनस्थानं वायव्यां पशुमन्दिरम्। कौवेर्य्यां तु धनस्थानम् ऐशान्यां देवतालयः” इति। स्मृतिभास्करे गर्गः “वारेऽनुकूले राशौ तु दिने दोषविवर्जिते। सानुकूलदिशि प्रोक्तं सूतिकाभवनं वुधैः” इति। कालानियभ उक्तो रत्नकोशे “आसन्नप्रसवे मासि कुर्य्याच्चैव विशेषतः। तद्वत् प्रसवकाले स्यादिति शास्त्रेषु निश्चयः” इति। वराहेणात्रानेकनक्षत्राणामभिधानं कृतं यथा “हस्तादित्यशशाङ्कतिष्यपवनप्राज्येशमित्रोत्तराचित्राश्विश्रवणेषु वृश्चिकघटौ हित्वा विरिक्ते तिथौ। शुक्राचार्य्यशनै श्चरज्ञ शशिनां वारेऽनुकूले विधौ सद्रर्वेश्मनि सूतिका गृहविधिः क्षेमङ्करः कीर्त्यते” इति। वेश्मनि चतुर्थस्थाने सद्भिः शुभग्रहैः। सूतिकागृहप्रवेशे कालविशेषमाह ज्योतिर्वशिष्ठः “अथातः सम्प्रवक्ष्यामि सूतिकागारवेशनम्। मासे तु नवमे प्राप्ते पूर्वपक्षे शुभे दिने। प्रसूतिसम्भवे काले सद्य एव प्रवेशयेत्” इति। पूर्वपक्षे शुक्लपक्षे नक्षत्रादीन्याह गर्गः “रोहिण्यैन्दवपौष्णेषु स्वातीवारुणयोरपि। पुष्ये पुनर्वसौ हस्तधनिष्ठा त्र्युत्तरासु च” इति। “मैत्रत्वाष्ट्रे तथाश्विन्यां सूतिकागारवेशनम्। सर्वे शुभग्रहाः केन्द्रे पापाश्च त्रिषडायगाः। शुभाशे शुभसंदृष्टौ सूतिकागारवेशनमिति”। तदाकारमाह भावप्र० “अष्टहस्तायतं चारु चतुर्हस्तविशालकम्। प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम्”।
सूतिकारोग = पु० ६ त०। भावप्र० उक्ते रोगभेदे तन्निदानादि यथा “मिथ्योपचारात् संक्लेशात् विषमाजीर्णभोजनात्। मूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते”। मिथ्योपचारात् अनुचिताचरणात् प्रवातादिसेवनात्। संक्लेशात् संक्लिश्यन्ते दोषा अनेन इति संक्लेशः दोषजनकमन्नं तस्मात्। दारुणाः कष्टसाध्याः। के ते व्याधय इत्याकाङ्क्षायामाह “अङ्गमर्दो ज्वरः कासः पिपासा गुरुगात्रता। शोथः शूलातिसारौ च मूतिकारोगलक्षणम्। एतेऽङ्गमर्दादयः प्रायेण मूतिकाया भवन्तः मूतिकारोगत्वेन लक्ष्यन्ते। ज्वरादीनां रोगविशेषाणां निदानविशेषमाह “ज्वरातीसारशोथाश्च शू लानाहबलक्षयाः। तन्द्रारुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः। कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः। ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः” मूतिकाभवत्वेन मूतिकानाम्ना ते रोगाः आश्रयाश्रितयोरमेदोपचारात् ते चाप्युपद्रवा इति त एव ज्वरादयः उक्तानां रोगाणामन्यतमं प्रधानीकृत्योपद्रवाश्च”।
सूतिकाषष्ठी = स्त्री सूतिकागृहे पूज्या षष्ठी शाक०। सूतिकागारे प्रसवावधि षष्ठे दिवसे पूज्यायां षष्ठीदेव्याम्। यथाह “विष्णधर्मोत्तरे “सूतिकावासनिलया जन्मदा नाम देवताः। तासां यागनिमित्तार्थं शुद्धिर्जन्मनि कीर्त्तता। षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत्। रक्षणीया सदा षष्ठी निशां तत्र विशेषतः। राम! जागरणं कार्य्यं स्नन्मदानां तथा वलिः”। रामेति सम्भोधनम्। तत्राशाचान्तरदोषोऽपि नास्ति। “अशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत्। कर्त्तुस्तात्कालिकी शुद्धिः पूर्वाशौच द्विशुध्यति” इति प्रजापतिवचनात्। पुत्रजन्मेति श्रवणात् पितुरेवाशौचाभावः न तु मातुः कर्त्तुरिति पुंलिङ्गनिर्देशाच्च। कारयेदिति अन्यगोत्रजाभिप्रायेण। तत्रादौ विनायकादिसहितषोडशमातृकापूजनम्। तथा च कृत्यचिन्तामणौ “छागजागरणं कार्य्यं खड्गो धार्य्यः समीपतः। आवाह्य पूजयेद्देवीं गणेशं मातृका गिरिम्”। देवीं षष्ठीम्। गिरिं मन्थानदण्डम्। भोजराजः “गणेशश्चैव नन्दा च पूतना सुखमण्डिका। विवानिका शकुनिका शुष्कनन्दा च जम्भिका। आचार्य्यका रेवती च पिलिपिञ्जा ततः परम्। स्कन्दा च द्वादशैतेऽर्च्याः रक्षार्थं मातृका ग्रहाः” ज्यो० त०
सूत्थान = त्रि० सुष्ठु उत्थानम् उद्योगो यस्य। चतुरे कर्मकुशले अमरः।
सूत्पर = न० सु + उत् + पॄ–अप्। सुरासन्धाने शब्दच०।
सूत्या = स्त्री सू–क्यप् नि०। यज्ञाङ्गस्नानभेदे २ अभिषवे सोमरसनिष्पीडने च अमरः।
सूत्याशौच = न० सूतिनिमित्तकमाशौचम्। जननाशौचे “शावाशौचं न कर्त्तव्यं सूत्याशौचं विधीयते” स्मृतिः।
सूत्र = ग्रन्थने वेष्टने च अद० चु० उभ० सक० सेट्। सूत्रयति ते असुसूत्रत् त। बह्वच्कत्वात् न पोपदेशः।
सूत्र = न० सूत्र–अच्। १ वस्त्रसाधने तन्तौ २ व्यवस्थायां ३ नाटकोपकरणे प्रस्तावे “स्वल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः” इत्युक्ते शास्त्रवाक्यभेदे च।
सूत्रकण्ठ = पु० सूत्रं यज्ञसूत्रं तदिव वा कण्ठे यस्य। १ विप्रे २ कपोते ३ खञ्जरीटे च मेदि०।
सूत्रकोण = पु० सूत्रबद्धः कोणोऽस्य। डमरौ हारा० कप्। तत्रार्र्थे त्रिका०।
सूत्रगण्डिका = स्त्री सूत्रं गण्डयति गण्डि–ण्वुल्। तन्तुवायोपकरणभेदे एषण्यां शब्दमा०।
सूत्रतन्तु = पु० सूत्रमेव तन्तुः। सूत्राकारे तन्तौ हेमच०।
सूत्रतर्कुटी = स्त्री सूवसहिता तर्कुटी। (टेको) पदार्थे जटा०
सूत्रधार = पु० सूत्रं नाट्यसाधनं धारयति धृ–णिच्–अण्। नाट्याङ्गसाधनयुक्ते नाटकप्रस्तावके १ प्रधाननटे। “नाट्योपकरणादीनि सूत्रमित्यभिधीयते। सूत्रं धारयतीत्यर्थे सूत्रधारो मतो बुधैः” इति तल्लक्षणं “पूर्वरङ्गं विधायैव सूवघारो निवर्त्तते” सा० द०। “सूत्रधारेण सहिताः संलापं यत्र कुर्वते” दशरूपकम्। २ इन्द्रे ३ शिल्पिभेदे (छुतार) च। शिल्पभेदसूत्रधारश्च शूद्रागर्भे विश्वकर्मणा जातो जातिमेदः ब्रह्मवै० ब्रह्मख० १० अ०।
सूत्रपुष्प = पु० सूत्रगर्भं पुष्पं यस्य। कार्पासे त्रिका०।
सूत्रभिद् = पु० सूत्रं भिनत्ति सूच्या, भिद–क्विप्। सूच्याजीवे (दरजी) शब्दर०।
सूत्रमध्यभू = पु० सूत्रमध्यमिव भवति भू–क्विप्। यक्षधूपे शब्दच०।
सूत्रयन्त्र = न० सूत्रबापनं यन्त्रम् शाक०। (ता~त) सूत्रवापनयन्त्रे शब्दमा०।
सूत्रला = स्त्री सूत्रं लाति–ला–क। तर्कुट्याम् (टेको) हारा०।
सूत्रवीणा = स्त्री सूत्रबद्धा वीणा शाक०। वीणाभेदे हारा०।
सूत्रवेष्टन = न० सूत्रं वेष्ट्यतेऽनेन वेष्ट–करणे ल्युट्। तन्तुवायोपकरणभेदे त्रसरे (तासनी) अमरः।
सूत्रात्मन् = पु० मूत्रमिव सर्वानुष्यूत आत्मा स्वरूपं यस्य। समष्ट्युपहितचैतन्ये हिरण्यगर्भे वेदा० सा०।
सूत्रामन् = पु० इन्द्रे अमरे पाठान्तरम्। सुत्रामन् शब्दे व्युत्पत्तिः।
सूत्राली = स्त्री ६ त०। १ सूत्रश्रेणौ २ गलमेखलायां हारा०।
सूत्रिन् = त्रि० सूत्र + अस्त्यर्थे इनि। १ सूत्रविशिष्टे स्त्रियां ङीप्। २ काके पु० त्रिका०।
सूद = पु० सूदयति पशून् पाकार्थं सूद–अच्। १ सूपकारके २ व्यञ्जनभेदे सूपे अमरः। ३ सारथ्ये ४ अपराधे ५ लोध्रे ६ पापे च अजयः।
सूदन = न० सूद–भावे ल्युट्। १ हिंसने २ निःक्षेपे ३ अङ्गीकारे च।
सूदशाला = स्त्री सूदाधिष्ठिता शाला शाक०। पाकशालायाम् पाचकशब्दे ४२४६ पृ० विवरणम्।
सूदाध्यक्ष = पु० ६ त०। पाकशालाध्यक्षे तल्लक्षणं यथा अनाहार्व्यः शुचिर्दक्षश्चिकित्सितविदांवरः। सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते” पाचकशब्दे तल्लक्षणादि ४२८६ पृ० दृश्यम्।
सून = न० सू–क्त तस्य नः। १ पुष्पे २ प्रसवे च। कर्त्तरिक्त। ३ विकशिते त्रि० मेदि० ४ जाते च।
सूना = स्त्री सू–क्त तस्य नः। १ प्राणबध स्थाने “पञ्च सूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च” मनुः २ तनयायां ३ गजशुण्डायां मेदि० ४ मांसविक्रये च संक्षिप्तसा०।
सूनु = पु० सू–नुक्। १ पुत्रे २ अनुजे ३ सूर्य्ये मेदि० ४ र्कवृक्षे च। ५ कन्यायां स्त्री वा ऊङ् हेमच०।
सूनृत = न० सुन्र्थति अनेन म–नृत–घञर्थे क। १ सत्ये प्रिये वाक्ये अमरः। २ मङ्गले च ३ तद्वति त्रि० अमरः।
सूप = पु० सुखेन पीयते सू + पा–घञर्थे क पृषो०। (दालि) व्यञ्जनभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम्। सुवपति ल + षप–मूलवि० क। २ सूपकारे पाचके मेदि०। आधारे च। ३ भाण्डे। सूद–करणे क पृषो०। ४ सायके शब्दर०।
सूपकार = त्रि० पूपं करोति कृ–अण्। पाचके अमरः। पाचकशब्दे ४२८६ पृ० दृश्यम्।
सूपधूपन = न० सूपो धूप्यतेऽनेन धूप–करणे ल्युट्। १ हिङ्गै त्रिका० सूपपाके हि हिङ्गुधूपदानं पाकशास्त्रे प्रसिद्धम
सूपपर्णी = स्त्री सूपसाधनस्य मुद्गस्येव पर्णमस्याः ङीप्। मुद्गपर्ण्याम् रत्नमा०।
सूपश्रेष्ठ = पु० सूपेषु तत्साधनेषु श्रेष्ठः। मुद्गे राजनि०।
सूपाङ्ग = न० सूपस्य तत्सं स्कारकमङ्गमुपकरणम्। हिङ्गो राजनि०।
सूम = न० सू–मक् १ आकाशे २ क्षीरे मेदि०। ३ जले शब्दर०।
सूर = पु० सवति प्रेरयति कर्मणि लोकानुदयेन सू–क्रन्। १ सूर्य्ये २ अर्कवृक्षे च अमरः। सूर–क। ३ पण्डिते ४ जिनभेदे पु० हेमच०। “सूर्य्योदयं विना नैव स्यानदानादिका क्रिया” स्मृत्युक्तेस्तस्योदयेन लोकानां सर्वकर्मप्रवर्त्तकत्वात्तथात्वम्।
सूरण = पु० सूर–ल्युट्। शूरणे (ओल) शब्दरत्ना०। “मकरे मूलकञ्चैव सिंहे चालाबुकं तथा। कार्त्तिके (सू)शूरणञ्चैव सद्यो गोमांसभक्षणम्” कर्मलो०।
सूरत = त्रि० सु + रम–क्त पृषो०। दयालौ अमरः।
सूरसूत = पु० ६ त०। अरुणे गरुडाग्रजे सूर्य्यसारथौ अमरः। अनूरुशब्दे १९१ पृ० दृश्यम्।
सूरि = पु० सू–क्रिन्। १ सूर्य्ये २ अर्कवृक्षे ३ थादवभेदे ४ पण्डिते च अमरः “सदा पश्यन्ति सूरयः” इति श्रुतिः। ४ राजसर्षपे स्त्री ङीप् रत्नसा०।
सूरिन् = पु० सूर–णिनि। पण्डिते शब्दर०।
सू(षू)र्क्ष(र्क्ष्य) = अनादरे भ्वा० पर० सक० सेट्। सूर्क्ष(र्क्ष्य)ति असूर्क्षी(र्क्ष्यी)त् षोपदेश एव न्याय्यः।
सूर्क्ष = पु० सूर्क्ष–कर्मणि घञ्। माषे (कलाइ) शब्दर०।
सूर्क्ष(र्क्ष्य)ण = न० सूर्क्ष(र्क्ष्य) भावे ल्युट्। अनादरे।
सूर्प = पुंन०। शूर्प–पृषो० शस्य सः। १ शूर्पशब्दार्थे शब्दर०। २ कुम्भपरिमाणे ३ द्रीणपरिमाणे च वैद्यकम्।
सूर्पणखा = स्त्री शूर्प इव नखा अस्याः पृषो० शस्य षः णत्वम्। रावणभगिन्याम्।
सूर्म्मि = स्त्री शूर्मि + पृषो० शस्य सः। शूर्मिशब्दार्थे वा ङीप्।
सूर्य्य = पु० सृ–क्यप् नि०। १ दिवाकरे २ अर्कवृक्षे चअमरः। ३ दानवभेदे वह्निपु० ४ अर्कपर्णवृक्षे मेद०। सूर्य्यग्रहकक्षादिकं खगोलशब्दे २४२५ पृ० दृश्यम्। तस्य प्रकृतिस्वरूपादिकं सर्वार्थचि० उक्तं यथा “भानुर्युगान्ताङ्कितदेहरक्तः श्यामान्वितः पिङ्गलनेत्रकान्तिः। पित्तात्मकोऽयं समगात्रयष्टिः प्रतापयुक् सत्त्वगुणोऽल्परोमा। सञ्चारयुक् सङ्कुचितार्थवाक्यः स्वल्पप्रजो दैविकवुद्धियुक्तः”। स च प्राच्या दिशः खामी। पुंग्रहः क्षत्रियजातीयः अस्थिसारः देवस्थलेशश्च। वृहज्जातके तट्टीकायाञ्च सूलं दृश्यम्। ग्रहयज्ञशब्दे तन्मन्त्रभेदादिकं दृश्यम्। जन्मकाले लग्नादिकस्थस्य तस्य फलं जातकपद्धतावुक्तं यथा “लग्ने १ सूर्य्ये स्वल्पकेशः प्रचण्डो मानी क्रोधी नेत्ररुक् निघृणश्च। शूरोऽक्षान्तश्चालसः कर्कशाङ्को नीचे निःस्वा भूपजोऽप्यक्षिहीनः। धने २ दिनेशे बहुवित्तभृत्यचतुष्पदाढ्योऽपि नरो भवेत् सः। विनष्टसौभाम्यसुस्वो नृवालेश्चौरेर्हृतार्थो मुलरोगदुःखो। सहस्ररश्मौ सहज ३ बलाढ्यो धीविक्रमैर्लोकमनीभिरामः। विनष्टतुल्यादरजो नरः स्याद्दुष्टारिपक्षस्य विनाशकश्च। मित्रे मित्रे ४ बन्ध भर्वाहनैः स्याद्धीनः सौख्यैर्मानसोत्थैश्च हीनः। ताताम्बादेर्नाशकारी नरो वै सेबाकारो भूपतेः कुत्सितस्य। सूनौ ५ भानौ सूनुसौख्यस्वहीना दुर्गारण्यक्ष्माधरेषूपरक्तः। मेधायुक्तो मन्त्रसम्प्राप्तसम्पत्स्वल्पायुर्वै जायते नानवोऽयम्। कुमुदगहनशत्रौ शत्रुभावं ६ प्रपन्ने भवति नरपतिर्वा दण्डनेता धनाढ्यः। प्रबलजठरवह्निर्भूरिकामो गुणी वै बलरिपुसहितः स्वात् पूरुषः केचिदेवम्। भार्य्याभावे ७ भास्करे चाभिभूतो मार्य्यामिर्वे हीनकान्तीरुगाढ्यः। भूपाद्बन्धै पीडितोऽमोर्गगामी सुश्रीहीनो मानवः शीलहीनः। निधनगे ८ नलिनोदयिते नरा नयनयार्विकलत्वयुतो भवेत्। तनुधनात्मजजीवितसौख्यभागभिमतेन जनेन वियोजितः। धर्म ९ स्थिते घर्मकरे धनेन घनेन युक्तो बहुमित्रपुत्रः। मूदेववृन्दारकवृन्दभक्तिः पितृप्रियो वैरकरः समृद्धः। गगन १० गे गगनस्य मणौ नरो मतिधनात्मजवैभवशौर्य्ययुक्। रतिबलश्रुतकार्य्यसमृद्धिभाग् भवति वाहनवान् नृपसद्गुणः। प्राप्ति ११ स्थाने सप्तसप्तौ नरः स्यात् प्राप्त्या वित्तस्याथ वृद्ध्या समेतः। मन्त्री द्वेष्यः सद्बलः सिद्धकर्मा क्रूरो कान्तानिर्जितो वश्यभृत्यः। व्यये १२ सूर्थ्ये नरः काणः पितृद्वेषी बलोज्झितः। बन्ध्यापरिर्वह्व लङ्गः क्षुद्रस्तु पतितो भवत्”। मेषादिस्थ्गस्य तस्य फलं जातकशब्दे २०८८ पृ० दृश्यम्।
सूर्य्यकान्त = पु० सूर्य्यस्य कान्तः प्रियः। १ स्फटकमणौ हला० २ मूर्य्यसम्पर्कात् यत्राग्निसम्भवस्तस्मिन् (आतसो) मणौ च हेमच०।
सूर्य्यकान्ति = पु० सूर्य्येण कान्तिर्यस्य। अतस्यां पुष्प्यधानवृक्षविशेषे शब्दच०। ६ त०। २ सूर्य्यस्य दीप्तौ स्त्री।
सूर्य्यकाल = पु०। सूर्य्योपलक्षतः कालः शाक०। दिवसे शब्द च०।
सूर्य्यग्रहण = न० सूर्य्यस्य राहुणा तदाक्रान्तभूच्छायया ग्रहणमाक्रमणम्। ज्यातिषोक्ते राहुप्रविष्टभूमिच्छायया सूर्य्यमण्डलस्य आक्रमणरूपे ग्रासे सूर्य्यग्रहादयाऽप्यत्र। उपरागशब्दे १२८५ पृ० दृश्यम्।
सूर्य्यज = पु० सूर्य्यात् जायते जन–ड। १ शनिग्रहे २ यने ३ वैवस्वते मनौ ४ सुथीववानरे च जटा०। मूर्य्यपुत्रादयोऽप्यत्र। ५ यमुनायां स्त्री हेमच०। ६ कर्णे पु०।
सूर्य्यपत्र = पु० स्र्य्य इव रक्तं पत्रमस्य। आदित्यपत्रे राजनि०।
सूर्य्यभक्त = पु० मूर्य्यस्य भक्त इव प्रियः। १ बन्धूकवृक्षे। ६ त०। २ मूर्य्यभक्तियुते त्रि० मेदि०।
सूर्य्यमणी = पु० सूर्य्यप्रियः मणिः। १ सूर्य्यकान्तमणो हेमच०। २ पुष्पभेदे शब्दच०।
सूर्य्यलता = स्त्री सूर्य्यभक्ता लता। आदित्यभक्तायाम् राजनि०
सूर्य्यवल्ली = स्त्री सूर्य्यतुल्यपुष्पिका वल्ली। अर्कपुष्पिकावृक्षे रत्न०
सूर्य्यसारथि = पु० ६ त०। अरुणे गरुडाग्रजे शब्दच०। सूर्य्यसूतादयोऽप्यत्र।
सूर्य्या = स्त्री सूर्य्यस्य भार्य्या टाप्। १ अमानुष्यां संज्ञानाम्म्यं सूर्य्यभार्य्यायाम्। मानुष्यां कुत्न्यान्तु ङीपि। सीर्प्त्येव।
सूर्य्यालोक = पु० ६ त०। आतपे रौद्रे राजनि०।
सूर्य्यावर्च = पु० सूर्य्य इवावर्त्तते आ + वृत–अच्। (हुडहुडिया) २ क्षुपभेदे (सुलफिया) २ शाके च रत्नमा०। ३ आदित्यभक्तायां स्त्री राजनि०।
सूर्य्याश्मन् = पु० सूर्य्यप्रियः अश्मा। सूर्य्यकान्तमणौ हेमच०।
सूर्य्याह्व = पु० सूर्य्यमाह्वयते स्पर्द्धते वर्णेन आ + ह्वे–क। १ ताम्रे त्रिका०। सूर्य्यस्य आह्वाऽऽह्वायस्य। २ अर्कवृक्षे पु० राजनि०।
सूर्य्येन्दुसङ्गम = पु० सूर्य्यस्य इन्दोश्च सङ्गमः कालः। १ अमावस्यायाम् अमरः २ तयोर्मेलने च।
सूर्य्योढ = पु० सूर्य्य ऊढोऽस्तगतो यत्र। १ सूर्य्यास्तप्रत्यकाले हेमच०। “दिवातिथौ तु विमुखे गते यत् पातकं भवेत्। तदेवाष्टगुणं विद्यात् सूर्य्योढे विमुखे गते” आ० त०। सूर्य्येष्ण सूर्य्यास्तकालेन ऊढः प्रापितः वह–क्त। २ तत्कालागतातिथौ “सूर्य्योढस्तु स सं प्राप्तो यः सूर्य्योऽस्तं गतेऽतिथिः” हेमच०।
***