सु = अव्य० सु–डु। १ पूजायाम् २ अतिशये अमरः। ३ कृच्छे ४ अनुमतौ ५ ममृद्धौ मेदि० ६ अनायासे च अनेकार्थको०। पूजायामस्य नोपसर्गत्वम् तेन सुस्तुतमित्यादौ न षत्वम्। अतिशयादौ तु सुष्टुत इत्यादि। गणरत्नेऽर्थविशेषानुक्तक्रमेणोदाहृतम् यथा “सु प्रशंसानुमतिपूजाभृशकृच्छ्रशुभेषु। सुरूपः सुकृतं सुसाधुः सुतप्तः सुदुः करं सुगन्धः”।

सुकण्टका = स्त्री सुष्ठु कण्टकोऽस्याः। घृतकुमार्य्याम् राजनि

सुकण्डु = स्त्री सु + कण्डु + यक् डु। कण्डुरोगे (चुलकाना) शब्दर०।

सुकन्द = पु० शोभनः कन्दोऽस्य। १ कशेरौ राजनि० २ शोभनकन्दयुक्ते त्रि० संज्ञायां क। ३ पलाण्डौ अमरः। ४ वाराहीकन्दे ५ धरणीकन्दे राजनि०।

सुकन्दिन् = पु० शोभनः हितकरः कन्दोऽस्त्यस्य इनि। शूरणे (ओल) राजनि०।

सुकन्यका = स्त्री शर्य्यातिनृपकन्यायां च्यवनर्षिपत्न्याम् भाग० ९। ३ अ०।

सुकरा = स्त्री सुखेन क्रियते दुह्यते वा सु + कृ–खल्। १ सुशीलायां गवि अमरः २ सुखसाध्ये त्रि०।

सुकर्णक = पु० सुष्ठु कर्ण इव कन्दोऽस्य कप्। १ हस्तिकन्दे राजनि० २ शोभनकर्णयुक्ते त्रि०।

सुकर्णिका = स्त्री सुष्ठु–कर्णाविव पर्णान्यस्याः कप् अत इत्त्वम्। मूमिकपर्ण्याम् शब्दर०।

सुकर्णी = स्त्री सुष्ठु कर्णाविव पत्त्राण्यस्याः ङीप्। इन्द्रवारुण्याम् (राखालशशा) राजनि०।

सुकर्म्भन् = पु० सुष्ठु कर्म यस्मात् ५ ब०। १ विष्कम्भादिषु मध्ये सप्तमे योगे ज्यो० २ शोभनकृत्ययुते त्रि० ३ विश्वकर्मणि पु० मेदि०। प्रा० स०। ५ शोभने कृत्ये न०।

सुकल = पु० सुष्ठु कल्यते ख्यायतेऽसौ सु + कनि + अच्। दातृत्वभोजयित्वादिना १ विख्याते जने अमरः। प्रा० ब०। २ सुन्दरमधुराव्यक्तशब्दयुक्ते त्रि०। प्रा० स०। सुन्दरे कलशब्दे पु०।

सुकाण्ड = पु० सुष्ठु काण्डोऽस्य। १ कारवेल्ले राजनि० २ सुन्दरकाण्डयुक्ते वृक्षे च ३ काण्डीरलतायां स्त्री ङीप्। स्वार्थ क अत इत्त्वम्। तत्रैव।

सुकाण्डिन् = पु० सुकाण्ड + अस्त्यर्थे इनि। भ्रमरे राजनि०।

सुकामा = स्त्रा सुष्ठु काम्यतऽसौ सु + कम–कर्मणि थञ्। १ त्रायमाणालतायाम राजनि०। २ शोभनकामविषये त्रि०।

सुकालुका = स्त्री सु + कस–उण् स्नार्थे क। डोडीक्षुपे राजनि०

सुकाष्ठ = न० सुष्ठु काष्ठं यस्य प्रा० ब०। १ देवदारुकाष्ठे २ काष्ठकदल्याम् ३ कटुक्याञ्च स्त्री राजनि०। प्रा० स०। ४ शोभने काष्ठे च।

सुकुन्दक = पु० सु + कुदि–ण्वुल्। पलाण्डौ शब्दर०।

सुकुन्दन = स्त्री० सु + कुदि–ल्यु। वर्वरे राजनि०।

सुकुमारा = न० सु + कुमार–अच्। १ जातीवृक्षे २ नवमालिकायाम् ३ कदल्यां ४ पृक्कायां ५ मांडत्याञ्च राजनि०। ६ अतिकोमले त्रि०। प्रा० स०। ७ सुन्दरकुमारावस्थान्विते त्रि० स्त्रियां ङीष्। ८ नवमालिकायां ९ पुण्ड्रेक्षौ पु० मेदि० १० वनचम्पके ११ क्षवे १२ श्यामाके च पु० राजनि० संज्ञायां कन्। सुकुमारक तमालपत्रे न० शालौ पु० राजनि०।

सुकृत् = त्रि० सु + कृ–क्विप्। १ पुण्यकारके जटा० २ धर्मिके जने त्रिका०।

सुकृत = न० सु + कृ–क्त। १ पुण्ये धर्मे अमरः २ शुभे ३ सुविहिते त्रि० मेदि०। ४ सुकर्मणि न०।

सुकृति = स्त्री सु + कृ–क्तिन्। १ पुण्ये २ मङ्गले २ सत्कर्मणि र

सुकृतिन् = त्रि० सुकृतमनेन इष्टा० इनि। १ पुण्यशीले अगरः २ शुभयुक्ते मेदि०। ३ सत्कर्मयुत च स्त्रियां ङीप्।

सुकेसर = पु० सुष्ठुकेसरो यस्य। वीजपूरे राजनि०।

सुकोली = स्त्री प्रा० स०। क्षीरकाकोल्याम् रत्नमा०।

सुकोषक = पु० सुष्ठुकोषाऽस्य कप्। कोषाम्रे राजनि०।

सुख = सुखसम्पादने अद० चु० उभ० सक० सेट्। सुखयति–ते व्यतुसुखत–त। अनेकाच्कत्वेन न षोपदेशः।

सुख = न० सक्ष–अच्। १ पुण्यजन्ये आनन्दे गुणभेदे अमरः २ अनुकूलवेदनीये यदनुभवाय चित्तमनुकूलं भवति तस्मिन् अर्थे तच्च आत्मधर्म इति नैयायिकादयः। चित्तधर्म इति साङ्ख्य दयः। सुखयतीति अच् सुखमस्यास्ति यम् वा। ३ सुखांरके ४ सुखिनि च त्रि०! ५ वरुणपूर्य्यां स्त्री ६ खर्गे मेदि०। “यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं खःपदास्पदम्” श्रुत्या दुःखासम्भिन्नसुखस्यैव स्वर्गपदार्थत्वेनाभिधानात् तस्य सुखविशेषात्मकत्वात् तथात्वम्। ७ वृद्धिनामोषधौ राजनि०। सुखत्वं तु जातिभेदः तल्लक्षणन्तु काम्यभावत्वम् अन्येच्छानधीनच्छाविषयत्वे सति भावत्वमिति यावत् दुःखाभावस्य काम्यत्वेऽपि तस्य भावत्वाभावान्नातिव्याप्तिः। “सुखं तु जगतामेव काम्यं धर्मेण जन्यते” भाषा०। तथाच धर्मासमवायिकारणजन्यशुणत्वं तल्लक्षणमिति फतितोऽर्थः। सखदुःखयोः परस्परभिन्नत्वे कारणादिकं कणा० सू० वृत्त्योर्दर्शितं यथा “इष्टानिष्टकारणविशेषाद्विरोधांच्च मिथः सुखदुःयोरथान्तरभावः” कणा० सू०। “आत्मगुणानां कारणतोभेदव्युत्पादनं दशमाध्यायार्थः, तत्र “आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्” इति गौतमीये प्रमेयविभागसूत्रे सुखस्यानभिधानात् दुःखाभिन्नमेव सुखमिति भ्रमनिरासार्थं सुखदुःणयो रेब प्रथमं भेदमाह “सुखदुखयोर्मियः परस्परमर्थान्तरभावोभेदो वैजात्यमिति यावत् कुत इत्यत आह इष्टानिष्टकारणविशेषात् इष्टं इष्यमाणं स्रक्चन्दंनवनितादि, अनिष्टमनिष्यमाणमहिकण्टकादि, तद्रूपं यत्करणं तस्य विशेषाद्भेदात् कारणवैजात्याधीनं कार्य्यवैजात्यमावश्यकं यतः, भेदकान्तरमाह विरांधात् सहानस्थानलक्षणात् नह्येकस्मिन्नात्मन्येकदा सुखदुःखयोरनुभवः चकारादनयाः कार्य्यभेदं भेदकं समुच्चिनोति, तथा हि अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य, दैन्यमुखमालिन्यादि दुःखस्य कार्य्यमिति ततोऽप्यनयोर्भेदः। तदुक्तं प्रशस्ताचार्य्यैः “अनुग्रहलक्षणं सुखं स्रगाद्यभिप्रेतषिषयसान्निध्ये सति इष्टोत्पन्नधीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम्” इति। तदिदमतीतेषु स्रक्चन्दनादिषु स्मृतिजमनागतेषु सङ्कल्पजम्। गौतमीये सूत्रे सुखापरिगणनं वैराग्याय सुखमपि दुःखत्वेन भावयतो वैराग्यं स्यादेतदर्थमिति” उ० वृ०। “तच्च सुखं चतुर्विधं वैषयिकमाभिमानिकं मानोरथिकम् आभ्यासिकंर्ञ्चेति” उप० वृत्ति०। आद्यं विषयेन्द्रियसाक्षात्कारजन्यं, द्वितीयं राजाधिपत्यपाण्डित्यगर्वांदिजन्यं, तृतीयं विषयध्यानजन्यम् चतुर्थं सूर्य्यादिनमस्कारायामादिजन्यं लाघवरूपमिति”। पात० सू० वैषयिकसुखानां परिणामदुःस्वत्वादिभिः दुःखत्वं व्यवस्थापितं वैराग्यार्थं यथा “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” सू०। “सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनमखानुभव इति तत्रास्ति रागजः कर्माशयः तथा च द्वेष्टि दुःखसाधनानि मुख्यति चेति द्वेषमोहकृतोऽप्यस्ति। तथा चोक्तम् “नानुपहत्य भूतान्युपभोगः सम्भवतीति” हिंसाकृतोऽप्यस्ति शारीरः कर्मागय इति विषयसुखं चाविद्येत्युक्तम्। या भोगे- ष्विन्द्रियाणां तृप्तेरुपशान्तिः तत् सुखं या लौल्यादनुवशान्तिस्तद् दुखम्। न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्त्तुं शक्यं कस्माद् यतो भोगाभ्यासमनुविवर्द्धन्ते रागाः कौशलानि चेन्द्रियाणामिति तस्मादनुपायः सुखस्य भोगाभ्यास इति स खल्वयं वृश्चिकविषभीत इवाशीविषेण दष्टो यः सुखार्थी विषयाननुवासितो महति दुःस्वपङ्के मग्न इति। एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति। अथ का तापदुःखता सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनांधीनस्तापानुभव इति। तत्रास्ति द्वेषजः कर्माशयः सुखसाधनानि च प्रार्थ मानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृह्नात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मानुपचिनोति स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते। का पुनः संस्कारदुःखता। सुखानुभवात् सुखसंस्काराशयो दुःखानुभवादपि दुःखसंस्काराशय इति एवं कर्मभ्यो विपाकेऽनुभूयमाने सुखे दुःखे वा पुनः कर्माशयप्रचय इति एवमिदमनादिदुःखस्रोतोविप्रसृतं योगिनमेव प्रतिकूलात्मकत्वादुद्वेजयति कस्मात् अक्षिपत्रकल्पो हि विद्वानिति यथोर्णातन्तु रक्षिपत्रे न्यस्तः स्पर्शेन दुःखयति नान्येषु गात्रावयवेषु एवमेतानि दुःखानि अक्षिपत्रकल्पं योगिनमेव क्लिश्नन्ति नेतरम् इतरन्तु स्वकर्मोपहृतं दुःखमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानम् अनादिवासनाविचित्रया चित्तवृत्त्या समन्ततोऽनुविद्धमिवाविद्यया हातव्य एवाहङ्कारममकारानुपातितं जातं जातं वाह्याध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते तदेवमनादिदुःखस्रोतसा व्यूह्यमानमात्मानं भूतग्रामञ्च दृष्ट्वा योगी सर्वदुःखक्षयकारिणं सम्यग्दर्शनं शरणं प्रपद्यत इति गुणवृत्तिविरोधाच्च दुःस्वमेव सर्वं विवेकिनः। प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूताः शान्तं षोरं सूढं वा प्रत्ययं त्रिगुणमेव प्रारभन्ते चलञ्च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तरूपातिशयाद्वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि तु अतिशयैः सह प्रवर्त्तन्ते एवमेते गुणा इतरेतराश्रयेणोपार्जितसुखदुखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति गुणप्रधानभावकृतस्तेषु विशेष इति तस्मात् दु खमेव सर्व विवेकिन” वा०। “तच्च सुखं नित्यं जन्यञ्चेति बेदान्तिनः। तत्र विषयसंपर्कात् वैषयिकं सुखं जन्यम्, ब्रह्मस्वरूपं सुखं नित्यमिति तदेतन्मतं मुक्तिवादे मणिकता निराकृतम् यथा “न च नित्यसुखाभिव्यक्तिर्मुक्तिः। सा हि न नित्या मुक्तशरीरिणोरविशेषापातात् नोत्पाद्या तद्धेतुशंरी राद्यभावात् ज्ञानमात्रे सुखमात्रे वा तद्धेतुत्वावधा रणात् निःसंसारदशायां तद्धेतुसामान्ये वाधकाभावात्। अतएव सर्गादौ शरीरकल्पना। किं वा तज्जनकं न तावदात्ममनः सयोगः तस्यादृष्टादिनिरपेक्षस्यांजनकत्वात् विषयमात्रापेक्षणे तु संसारदशायामपि तदमिव्यक्तिप्रसङ्गः नापि योगजोधर्मः सहकारी तस्योत्पन्नभावत्वेन विनाशित्वेऽपरत्र निवृत्त्यापत्तेः न च तज्जन्याभिव्यक्तिरनन्ता तस्या अपि तत एव नाशात्। अथ तत्त्वज्ञानात् सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृत्त्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयाद्दुःखसाधनशरीरादिनाश एव तत्र हेतुः अतएव तस्यानन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति चेन्न शरीरं विना तदनुत्पत्तेः तस्य तद्धेतुत्वे मानाभावाच्च। न च मोक्षादिप्रवृत्तिरेवे मानं दुःखहानार्थितया तदुपपत्तेः। नच नित्ये सुखे मानमस्ति “नित्यं विज्ञानमानन्दम् ब्रह्म” “आनन्दं ब्रह्मणोरूपं तच्च मोक्षे प्रतिष्ठितमित्यादि” णुतिमांनमिति चेन्न उपजननापायवतोर्ज्ञानसुखयोरहं जानाम्यहं सुखीति अभिन्नत्वेनानुभूयमानयोर्ब्रह्माभेदवोधने प्रत्यक्षबाधात्। अथ सुखस्य ब्रह्माभेदबोधनादेवायाग्यतयाऽनित्यं सुख विहाय वाक्यार्थत्वेन नित्यसुखसिद्धिः स्वर्गवत् न तु नित्यसुखे सिंद्धे तदभेदवोधनं येनान्योन्याश्रयः, यद्वा नित्यं सुखं बोधयित्वा तदमिन्नं ब्रोध्यते न च वाक्यभेष्टः वाक्यैकवाक्यत्वादिति चेन्न आत्ममनोऽनुभूयमानत्वेन तदभिन्नस्य नित्यसुखस्याप्यनुभवप्रसङ्गात् सुखमात्रस्य स्रगोचरसाक्षात्कारजनकत्वनियमात् तदनुमवे वात्मनोऽप्यनुभवो न स्यात्। अथात्माभिन्नं नित्यसुखमनुभूयत एव सुखत्वं तु तत्र नानुभूयत इति चेन्न सुखानुभवसामग्र्या एव सुखत्वानुभावकत्वात् तस्मादानन्दं ब्रह्मेति मत्वर्थीयाच्प्रत्ययान्तत्वेनानन्दं वोध्यते नाभेदः, अन्यधा नपुं सकत्वानुपपत्तेः। एतेन ब्रह्माद्वैतत्त्वसाखात्कारादविद्यानिवृत्तौ विज्ञानंसुखात्मकः केवलं आत्मापवर्गे वर्त्तत इति वेदान्तिमतमपास्तम् स्वप्रकाशसुखात्मकब्र- ह्मलो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गात् पुरुषप्रयत्नं विना तस्य सत्त्वादपुरुषार्थत्वाच्च अविद्यानिवृत्तिः प्रयत्नसाध्येति चेत् अविद्या यदि मिथ्याज्ञाननमर्थान्तरं वा उभयथापि सुखदुःखाभावसाधनेतरत्वेन तन्निवृत्तेरपुरुषार्थत्वात्”। तत्र दुःखाभावस्यैव परमप्रयोजनत्वं न सुखस्येति व्यवस्थापितं यया “नंनु दुःखाभावो न पुरुषार्थः सुखस्यापि हानिस्तुल्यायव्ययत्वात् न च नहुतरदुःखानुविद्धतया सुखस्यारि प्रेक्षावद्धेयत्वम् आवश्यकत्वेन दुःखस्यैव हेयत्वात् सुखस्य निरुपधीच्छायिषयत्वात् अन्यथा दुःखाननुविद्धतया तथात्वेन पुरुषार्थत्वविरोधादिति चेन्न सुखमनुद्दिश्यापि दुःखभीरूणां दुःखाभावदशायां सुखमस्तीत्युद्दिश्य दुःखाभावार्थं प्रवृत्तेः वैपरीत्यस्यापि सम्भवे सुस्वस्याप्यपुरुषार्थतापत्तेः अतो दुःखाभावदशायां सुखं नास्तीति ज्ञानं न दुःखाभाव्रार्थिप्रवृत्तिप्रतिबन्धकं नस्मादवियेकिनः सुखमात्रलिप्सवो बहुतरदुःखानुविद्धमपि सुखमुद्दिश्य “शिरोमदीयं यदि यातु यात्विति, कृत्वा परदारेष्वपि प्रवर्त्तमानाः “वरं वृन्दावनेऽरण्ये” इत्यादि वदन्तोनात्राधिकारिणः। ये च विवेकिनोऽस्मिन् संसारापारकान्तारे कियन्ति दुःखदुर्दिनान्लि कियती सुखखद्योतिका कुपितफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सुखमपि हातुमिच्छन्ति तेऽत्राधिकारिणः। न च भोगार्थिनामप्रवृत्तौ पुरुषा र्थता हीयते कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरुषार्थत्वात्। अथवा “दुःखाभावोऽपि नावेद्यः पुरुषार्थ तयेष्यते। न हि मूर्च्छाद्यवस्थार्थं प्रवृत्तो दृश्यते सुधीः, पुरुषार्थत्वं सुखवज्ज्ञायमानं नियर्मात् न च मुक्तिज्ञानं सम्भवतीति न हि दुःखाभावं जानीयामित्यु द्दिश्य प्रवृत्तिः किन्तु दुःखं मे मा भूदित्युदिश्य स्वतो दुःखाभाव एव पुरुषार्थः तस्य ज्ञानन्तु स्वकारणाधीम न तु पुरुषार्थतोपयोगि सुखी स्यामित्युद्दिश्य प्रवर्त्तते न तु सुखं जानीयामिति सुखमेव तथास्तु न तदवगमः तस्यानावश्यकत्वेनान्यथासिद्धत्वात् गौरवाच्च। किञ्च बहुतरदुःखजर्जरकलेवरादुःखाभावमुद्दिश्य मरणेऽपि प्रवर्त्तमाना दृश्यन्ते न च मरणे तस्य ज्ञानमस्ति न ते विवेकिन इति चेन्न पुरुषार्थत्वे विवेकानुपयोगात्”। तच्च सुखं चित्तधर्मोऽपि अध्यस्ततया प्रतिविंम्बरूपेण वा आत्मनि वर्त्तते इति सांख्या वेदान्तिनश्च। आत्मगुण इति नैयायिकाः। ८ दुःखाभावे। भारवाहकस्य भारापगमे सुखी संवृत्तोऽहमिति प्रत्ययस्य दुःखाभावविषयतयोपगमात्।

सुखङ्करी = स्त्री सुखङ्करोति। कृ–खट् सुम् च ङीप्। १ जीवन्तीव्र्क्षे राजनि०। २ सुखकारके त्रि०।

सुखङ्घुण = पु० घुण क–मुम्। शिवखट्टाङ्गे त्रिका०।

सुखचार = पु० सुख सुखकारक चारा यस्य। उत्तभाश्वे शब्दमा०

सुखजात = त्रि० जात सुखमस्य परनिपातः। जातानन्दे “सुखजातः सुरापीत” भट्टिः।

सुखद = पु० सुख ददाति दा–क। १ विष्णौ विष्णुस०। “विंशत्यक्षरसंयुक्तो ध्रवः सुखदसंज्ञकः। शृङ्गारवीरयोर्ज्ञेयो गुरुणैकेनं मण्डित” सं० गी० उक्ते २ ध्रुवभेदे। ३ सुखदातरि त्रि० ४ स्वर्गवेश्यायां स्त्री शब्दरत्ना०। ५ शमीवृक्षे स्त्री राजनि०

सुखदोह्या = स्त्री सुखेन दोह्या दुह–ण्यत्। क्लेशं विना दोहनीयायां गवि हेमच० सुखसंदोह्याप्यत्र।

सुखभाज् = त्रि० सुखं भजते भज–ण्वि। सुखयुक्ते।

सुखमोदा = स्त्री सुखः सुखकरो मादो यस्याः। सल्लकीवृक्षे राजनि०

सुखरात्रि = स्त्री सुखा सुखकरी रात्रिर्यस्याम्। आश्विनामावास्यायाम् दीषान्वितामावास्यायाम्। उल्काशब्दे १३७१ पृ० दृश्यम्।

सुखरात्रिका = स्त्री सुखा रात्रियस्याः ५ ब० कप्। दीपान्वितामास्यायां पूज्यायां लक्ष्म्याम दोपान्वितामुपक्रम्य “पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका” ज्योतिर्वचनम्। कष्ठभाये सुखरात्रिरप्यत्र “आख्याता भूतले देवि! सुखरात्रि! नमोऽस्तुते” इति दीपान्वितामावस्यायां लक्ष्मीपूजनमन्त्रः।

सुखवर्चक = पु० सुखं वर्चयति उद्दीपयति वर्च–णिच्–ण्वुल्। सार्जकाक्षारे (साजिमाटी) अमरः।

सुखवर्चस् = पु० सुखं सुखकरं वर्चो यस्य। सर्जिकाक्षारे (साजिमाटि) राजनि०।

सुखवास = पु० सुखः सुखकरो वासो गन्धो यस्य। (तरसुज) फुलप्रधानवृक्षे रत्नमा०।

सुखवासन = पु० सुखं सुखकरं वासनं गन्धो यस्य। सुखवासनगन्धद्रव्ये शब्दर०।

सुखाधार = पु० सुखानामाधारः। स्वर्गे शब्दर०। कर्म०। सुखकरावांसे।

सुखायतं = पु० सुखेनायम्यते आ + यम–क्त। विनीताश्वे शब्दमा०

सुखायन = पु० सुखेनायतेऽनेन अय–ल्युट्। सुविनीताश्वे शब्दमा०

सुखावह = त्रि० सुखमावहति जनधति आ + वह–अच्। सुखजनके।

सुखाश = पु० सुखा सुखकरी आशा यस्य। १ वरुणे सुखेनाश्यते अश–घञ्। २ राजतिनिशे वृक्षे ३ सुणभोज्ये त्रि० मेदि० भावे घञ्। सुखभोजने खार्थे क। सुणाशने, (शशा) राजतिनिशवृक्षे च पु०।

सुखाशन = पु० सुखेनाश्यते अश–कर्मणि ल्युट्। (शशा) फलप्रधाने वृक्षे शब्दच०

सुखोत्सव = पु० सुखस्तत्कर उत्सवे यस्मात् ५ व०। १ पत्यौ त्रिका० कर्म०। २ आनन्दकारके उत्सवे पु०।

सुखोदक = न० कर्म०। सुखकरे उष्णोदके रत्रामा०।

सुखोर्जिक = पु० सुखस्य ऊर्जः वृद्धिरस्त्यस्य ठन्। सर्जिकाक्षारे (साजिमाटि) राजनि०।

सुग = न० सुष्ठु च्छति निर्याति गम–ड। १ विष्ठायाम् शब्दच० २ सुगमे त्रि०

सुगत = पु० सुष्ठु गच्छति जानाति गम–कर्त्तरि–क्त। १ बुद्धे अमरः। २ सुगतियुते त्रि०।

सुगन्ध = पु० सुष्ठु गन्धोऽस्य न इत्। १ गन्धतृणे २ क्षुद्रजीरके रत्नमा० ३ नीसोत्पले ४ चन्दमे राजनि० भावप्र०। ५ ग्रन्धिपर्णे ६ रक्तशिग्रौ ७ गन्घके ८ चणके ९ भूतृणे च पु० राजनि०। १० सद्गन्धद्रव्ययुक्ते आपणादौ त्रि०। “गन्धस्येत्त्वं तदेवान्तग्रहणात्” उक्तेःसमवायेनैव गन्धवत्त्वे इत् आपणस्य च गन्धयुक्तद्रव्याधारत्वात् तत्र न इत्” सि० कौ०।

सुगन्धक = न० सुष्ठु गन्धोऽस्य कप्। १ रक्तुलस्यां २ गन्घके रत्नमा० ३ नागरङ्गे त्रिका० ४ कर्कट्याञ्च राजनि०।

सुगन्धपत्रा = स्त्री सुगन्धं पत्त्रमस्याः। रुद्रजटायाम् राजनि०

सुगन्धभूतृण = न० कर्म०। गन्धतृणे राजनि०।

सुगन्धमूला = स्त्री सुगन्धं मूलं यस्माः। १ स्थलपद्मिन्याम् २ रास्नायाञ्च राजनि०।

सुगन्ध = स्त्री सुष्ठु गन्धोऽस्त्यस्याः अच्। १ रास्नायां अमरः २ शठ्यां शब्दर० ३ बन्ध्याकर्कोट्याम् ४ रुद्रजटायां ५ नाकुल्यां ६ शतपुष्पायां ७ नवमालिकायां ८ स्वर्णयूथिकायां ९ पृक्कायां १० सल्लक्यां गन्धपत्त्र्याम् १२ माधव्यां राजनि० १३ अनन्तायां १४ तुलस्यां १५ मातुलङ्गके च रत्नमा०।

सुगन्धामलक = न० सुगन्धैः सर्वौषधिगणैर्युक्तमामलकम्। “सर्वौषधिसमायुक्ताः शुष्कास्त्वामलकत्वचः। यदा नदायं योगः स्यात् सुगन्धामलकाभिधः” राजनि० उक्ते सर्वौषधियुक्ते शुष्के आमलकवलकले।

सुगन्धि = पु० सुष्ठु गन्धः अस्य वा इत्समा०। इष्टगन्धे सुरभौ अमरः। २ सुगन्धयुक्ते अमरः ३ एकवालुके ४ सुस्तायां ५ कशेरौ ६ गन्धतृणे ७ धान्यके ८ पिप्पलीमूले च राजनि०। स्वार्थे क। कह्लारे शब्दर० गौरस्वर्णे पुष्करमूले सुरपर्ण उशीरे राजनि०। महाशालौ हेमच०। गन्धके तुरस्के च पु० राजनि०।

सुगन्धिकुसुम = पु० मुगन्धि कुमुमं यस्य। १ पीतकरवीरे राजनि० २ सद्गन्धयुक्तपुष्पयुत त्रि० ३ पृक्कायां स्त्री जटा० कर्म०। ४ सुगन्धिनि पुष्पे न०।

सुगन्धित्रिफला = स्त्री त्र्यवयवं त्रिसिराकं वा फलं त्रिफलं सुगान्ध त्रिफलमस्त्यस्याः सादृश्येन अच्। जातीफले २ पूगफले ३ लवङ्गकलिकाफले च राजनि०।

सुगन्धिमूल = न० सुगन्धि मूलमस्य। उशीरे (वेना) राजनि०

सुगन्धिमूषिका = स्त्री सुगन्धिः विराधिसक्षणया दुर्गन्धिः मूषिका। छुछुन्दर्य्या (छुछ) राजनि०।

सुगहन = त्रि० पा० स०। १ अतिनिविडे कुम्बायां स्त्री रमानाथः।

सुगहनावृति = स्त्री कर्म०। यज्ञस्थाने श्वादिदर्शमवारणाय निविडे वेष्टने कुम्बायाम् अमरः।

सुगृह = पुंस्त्री सुष्ठु गृह यस्य। १ चञ्चुसूचिकखगे (वावुइ) हेमच० स्त्री ङीष् कर्म०। २ सुन्दरे गृहे न०।

सुगृहीतनामन् = पु० सुगृहीतं प्रातःकाले स्मरणीयं नाम यस्य। प्रातःस्मरणीयनामके पुण्यकीर्त्तौ जने त्रिका०।

सुग्रन्थि = पु० सुष्ठु ग्रन्थिर्यस्य। १ चोरकवृक्षे राजनि० २ सुन्दरग्रन्थियुते त्रि०।

सुग्रीव = पु० सुष्ठु ग्रीवाऽस्य। १ श्रीकृष्णस्याश्वे २ सूर्य्यपुत्रे वानरेश्वरे च मेदि०। ३ सुन्दरग्रीवायुते त्रि० स्त्रियां ङीष् २ कश्यपस्य पत्नीभेदे गरुडपु०।

सुग्रीवेश = पु० ६ त०। श्रीरामचन्द्रे शब्दरत्ना०।

सुचक्षुस् = पु० सुष्ठु चक्षुरिव फलमस्य। १ उडुम्बरे जटा० २ शोभनलोचनयुक्ते त्रि० प्रा० स०। ३ शोभने नेत्रे न०।

सुचञ्चुका = स्त्री सुष्ठु चञ्चुरिव शिखा यस्याः कप। नहाचञ्चुशाके राजनि०।

सुचरित्रा = स्त्री सुष्ठु चरित्रं यस्याः। पतिव्रतायां स्त्रियाम् अमरः २ मच्चरित्रयुते त्रि० प्रा० स०। ३ सच्चरित्रे न०।

सुचर्म्मन् = पु० सुष्ठु चर्मेव वलकलमस्य। १ भूजवृक्षे राजनि० २ सुन्दरचर्मयुते त्रि०। प्रा० स०। ३ सुन्दरे चर्मणि न०।

सुचित्रक = पुंस्त्री सुचित्रेण कायति कै–क। सुष्ठुचित्रवर्णो यस्य कप् वा। १ मत्स्यरङ्गखगे २ चित्रसर्पे च शब्दर० स्त्रियां ङीष्। ३ सुचित्रवर्णयुते त्रि० स्त्रियां टाप्।

सुचित्रवीजा = स्त्री सुचित्रं विचित्रं वीजं यस्याः। विडङ्गायां राजनि०।

सुचित्रा = स्त्री प्रा० स०। १ चिर्भटायां राजनि०। २ विचित्रे त्रि०

सुचिर = न० प्रा० स०। १ अत्यन्तचिरकाले २ बहुकाले च ३ बहुकालभवे त्रि०।

सुचिरायुस् = पु० सुचिर बहुकालिकमायुर्यस्य। १ देवे शब्दर० २ बहुकालक्षिविनि त्रि०।

सुचेलक = पु० प्रा० स०। १ सूक्ष्मवस्त्रे अमरः। सुष्ठु चेलोऽस्य कप्। २ सूक्ष्मवस्त्रधरे त्रि०।

सुजल = न० शोभनं जलं यस्मात् ५ ब०। १ कमले राजनि० प्रा० स०। २ सुन्दरे जले न०।

सुजल्प = पु० “यत्रार्जवात् सगाम्भीर्य्यं सदैन्थं सहचापलम्। सोत्कण्ठञ्च हरिः स्पृष्टः स सुजल्पो निगद्यते” उज्ज्वलमणिलक्षिते वाक्यभेदे

सुजाता = स्त्री सु + जन–क्त। १ तुवर्य्याम् राजनि० २ मनोज्ञे त्रि०

सुजीवन्ती = स्त्री प्रा० स०। स्वर्णजीवन्त्याम् राजनि०।

सु(षु)ट्ट = अनादरे चु० उ० सक० सेट्। सुट्टयति ते असुसुट्टत् त। षोपदेश एव न्याय्यः।

सुत = पुंस्त्री० सु–क्त। १ पुत्रे २ तनयायां स्त्री अमरः। सा च ३ दुरालभायां शब्दच० ४ उत्पन्ने ५ सम्बद्धे ६ निष्पीडिते च त्रि० ७ पार्थिवे पु० मदि०।

सु(सू)तक = न० सु–(सू)–भावे क्त सु(सू)तं जननं तस्मादागतम् कन्। १ जननाशौचे २ अशौचमात्रे च “सुतके मृतके तथा” “मातुश्च सूतकं तत् स्यात्” इति च स्मृतिः।

सुतजीवक = पु० सुतं जीवयति सेवनात् जीव–णिच्–ण्वुल्। पुत्रजोवकवृक्षे राजनि०।

सुतनु(नू) = पुंस्त्री० सुष्ठु तनुर्यस्याः वा ऊङ्। १ नार्य्याम् राजनि० “सुतनु! सत्यमलङ्करणाय ते” माघः प्रा० ब०। २ सुन्दरकाययुते त्रि०। प्रा० स०। ३ सुन्दरे काये स्त्री ह्रस्वान्तः। ४ अत्यन्तसूक्ष्मे त्रि० स्त्रियां वा ङीष्।

सुतपस् = पु० सुष्ठु तपति सु + तप–असि। १ सूर्य्ये सि० कौ० २ अर्कवृक्षे सुष्ठु तपोऽस्य। २ मुनौ पु०। ३ सुन्दरतपोयुक्ते त्रि०। प्रा० स०। ४ सुन्दरे तपसि न०।

सुतपादिका = सुताः संहताः पादाः मूलान्यस्याः कप् कापि अत इत्त्वम्। हंसपदीलतायां राजनि०।

सुतराम् = अव्य० सु + अतिशयेऽर्थे तरप्–आमु। अवधारितार्थस्य अतिशयौचित्ये “धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरा दयालुः” रघुः। अत्र कातराक्ष्या धेन्वा वृश्यमानत्वेन दयालुत्वस्य अतिशयौचित्यम्।

सुतर्कारी = स्त्री सुतर्कमृच्छति ऋ–अण् ङीप्। देवदालीलतायाम् राजनि०।

सुतर्द्दन = पुंस्त्री० सुष्ठु तर्दति रवेण विरहिणम् सु + तृद- ल्यु। कोकिले त्रिका० स्त्रियां जातित्वात् ङीष्।

सुतल = पु न० सुष्ठु तलं यत्र। १ पातालभेदे पातालशब्दे ४२९९ पृ० दृश्यम्। २ अट्टालिकाबन्धभेदे पु० मेदि०।

सुतवस्करा = स्त्री सुता वस्करा इव बहुत्वात् यस्याः। सप्तपुत्रप्रसवित्र्याम् स्त्रियां त्रिका०।

सुतश्रेणी = स्त्री सुता निष्पीडिता श्रेणीव। १ मूषकपर्ण्याम् अमरः ६ त०। २ पुत्रपङ्क्तौ च।

सुतहिवुकयोग = पु० “सुतहिवुकवियद्विलग्नधर्मेष्वमरगुरुर्यदि दानवार्चितो वा। यदशुभमुपयाति तच्छुभं स्यात्” ज्यो० उक्ते वैवाहिकलग्नात् सुत ५ हिवुका ४ दिस्थिते ग्रहभेदरूपे योगे।

सुतात्मजा = स्त्री ६ त०। १ पौत्र्यां २ दौहित्र्याञ्च अमरः ३ पौत्रे ४ दौ हत्रे च पु०।

सुतिक्त = पु० प्रा० स०। १ पर्पटे (क्षेतपापडा) राजनि०। २ अत्यन्ततिक्ते त्रि० ३ कोषातक्यां स्त्री राजनि० संज्ञायां कन्। पारिभद्रे जटा० निम्बे भूनिम्बे पु० शब्दमा०।

सुतीक्ष्ण = पु० प्रा० स०। १ शोभाञ्जनवृक्षे जटा०। २ श्वेतशोभाञ्जने राजनि०। ३ मुनिभेदे च “सुतीक्ष्णमुनिकेतनम्” भट्टिः। ४ अत्युग्रे त्रि०।

सुतुङ्ग = पु० प्रा० स०। १ नारिकेलवृक्षे हारा० ज्योतिषोक्ते ग्रहाणाम् उच्चराशिस्थेषु २ अशभेदेषु च उच्चशब्दे १०५८ पृ० दृश्यम्। २ अतिशयोच्चे त्रि०।

सुतेजन = पु० सु + तिज–ल्यु। १ धन्वनि वृक्षे भावप्र०।

सुतेजस् = पु० सुष्ठु तेजोऽस्य। १ आदित्थभक्तायाम् राजनिं०। २ शोभनतेजोयुक्ते त्रि०। ३ जैनभेदे पु० हेमच०।

सुतैला = स्त्री सुष्ठु तैलं यस्याम् ७ व०। महाज्योतिष्मती लतायाम् राजनि०।

सु(सू)त्रामन् = पु० सुष्ठु त्रायते सु + त्रै–मनिन् पृषो०। इन्द्रे अमरः। दीर्घादिः तत्रार्थे रुद्रः।

सुत्वन् = पु० सुनोति स्म सु–भूते क्वनिप्। १ कृताभिषेके कृतयज्ञार्थस्नाने अमरः २ कृतसोमनिष्पीडने च।

सुद = शोभायां सौ० प० सक० सेट् इदित्। सुन्दति असुन्दीत। सौत्रत्वेन न षोपदेशः।

सुदग्धिका = पु० सुष्ठु दग्ध दाहोऽस्त्यस्य ठन्। दग्धानामवृक्षे राजनि०।

सुदण्ड = पु० सुष्ठु दण्डो यस्मात् ५ ब०। वेत्रे राजनि०।

सुदण्डिका = स्त्री सुदण्डयति रोगान् सु + दण्डि + ण्वुल्। १ गोरक्ष्याम्। (गोरक्षचाकुले) राजनि० २ सुदण्डयुतायां स्त्रियाञ्च।

सुदत् = पु० सुष्ठु दन्तोऽस्य वयसि दत्रादेशः। १ शोभनदन्तयक्तवयस्के गजादौ २ युवत्यां स्त्री ङीप्। “सुदती- जनमज्जनार्पितैः” नैष०। वयोभिन्ने तु सुदन्त इत्येव सुन्दरदन्तयुते नटादौ सि० कौ०।

सुदर्भा = स्त्री सु + दृभ–कर्मणि घञ्। १ इक्षुदर्भावृक्षे राजनि०। सुष्ठु दर्भो यत्र। २ सुन्दरकुशयुक्ते त्रि०।

सुदर्शन = पु० सुष्ठु दृश्यते खलर्थे युच्। १ विष्णुचक्रे २ मेरौ ३ जम्बुवृक्षे मेदि०। (पद्मगुलुञ्च) ४ लताभेदे स्त्री रंत्नमा० ५ आज्ञायाम् ६ ओषधिभेदे च स्त्री ७ इन्द्रपुरे न० मेदि० ८ अमरावत्यां विश्वः स्त्री ङीप्। ९ जिनभेदे हेमच०। सुदर्शनचक्रं च सर्वदेवतेजोभिः शिवेन निर्माय विष्णवे दत्तं यथोक्तं पद्मपु० उत्तरख० १४५ अ०। “अथ विष्णुमुखा देवाः स्वतेजासि ददुस्तदा। तान्यैक्यं वै गतानीशो दृष्ट्वा स्वञ्चासुचन्महः। तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम्। चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम्”। “ततः प्रीतः प्रभुः प्रादात् विष्णवे प्रवरं वरम्। प्रत्यक्षं तैजसं श्रीमान् दिव्यं चक्रं सुदर्शनम्” वामनपु० ७९ अ०

सुदर्शनचूर्ण = न० चूर्णरूपौषधभेदे “त्रिफला रजनीयुग्मं कण्टकारीयुगं शटी। त्रिकटु ग्रन्थिकं मूर्वा गुडूची धन्वयासकः। कटुका पर्पटो मुस्तं त्रायमाणा च बालुकम्। निम्बं पुष्करमूलञ्च मधुयष्टी च वत्सकः। यवानीन्द्रयवो भार्गी शिग्रुवीजं सुराष्ट्रजा। वचा त्वक् पद्मकोशीरचन्दनातिविषा बला। शालिपर्णी पृश्निपर्णी विडङ्गं तगरं तथा। चित्रकं देवकाष्ठञ्चं चव्यं पत्त्रं पटोलजम्। जीवकर्षभकौ चैव लवङ्गं वंशलोचना। पुण्डरीकञ्च काकोली पत्रकं जाति पत्रकम्। तालीशपत्रमेतानि समभागानि चूर्णयेत्। अर्द्धांशं सर्वचूर्णस्य किरातं प्रक्षिपेत् सुधीः। एतत् सुदर्शनं नाम चूर्णं दोपत्रयापहम्। ज्वरांश्च निखिलान् हन्यान्नात्र कार्य्या विचारणा। पृथग्द्वन्द्वागन्तुजांश्च धातुस्थान् विषमज्वरान्। सन्निपातोद्भवांश्चापि मानसानपि नाशयेत्। शीतादीनपि दाहादीन् मोहं तन्द्रां भ्रमं तृषाम्। कासं श्वासञ्च पाण्डुञ्च हृद्रोगं कामलां तथा। त्रिकपृष्टकटीजानुपार्श्वशूलञ्च नाशयेत्। शीताम्बुना पिबदेतत्सर्वज्वरनिवृत्तये। सुदर्शनं यथा चक्रं दानबानां विनाशर्नम्। तद्वज्ज्वराणां मर्वेषां चूर्णमेतत् प्रणाशनम्”। पुष्करमूलाभावे कुष्ठमपि दद्यान्। भार्ग्यभावे कण्टकारीमूलम्। सौराष्ट्र्यभावे स्मटिकां दद्यात्। तगरालाभे कुष्ठं देयम्। जीवकर्षभयारभावे विदारीकन्दस्य भागद्वयं दद्यात्। पुण्ड- रीकं श्वेतकमलम्। काकोल्यभावे अश्वगन्धमूलं दद्यात्। तालीशपत्रकाभावे स्वर्णताली प्रदीयते” भावप्र०।

सुदल = पु० सुष्ठु दलान्यस्य। क्षीरमोरटावृक्षे रत्नमा० २ शालपर्ण्यां स्त्री राजनि०।

सुदामन् = पु० सुष्ठु ददाति दा–मनिन्। १ मेघे २ पर्वतभेदे (इरावत् पर्वत) मेदि०। सुदाम्नैकादिक् अण् ङीप् सौदामनी तडिति अमरः। २ गोपभेदे ४ समुद्रे शब्दर० ५ ऐरावते गजे त्रिका० पुराणप्रसिद्धे श्रीकृष्णमित्रे ६ विप्रभेदे च ७ शोभनदातरि त्रि०। राजगृहसमीपस्थे ८ नदीभेदे स्त्री रामा० अयो० ७० सर्सः। तत्र वा ङीप् डाप् च। सुदाम्नी सुदामा वा।

सुदाय = पु० सुष्ठु दीयते सु + दा–कर्मणि घञ्। १ यौतुकपसादादिना स्त्रियै देये धने। सोदायिरुशब्दे दृश्यम्। सुष्ठु दायो यस्य। २ पितृप्रभृतौ ज्ञातौ।

सुदारु = पु० सुष्ठु दारु यत्र। परिपात्रपर्वते त्रिका०।

सुदि = अव्य० स्वरा० सुष्ठु दीव्यति सु + दव–डि। शुक्लपक्षे मनोरमा

सुदिन = न० प्रा० स०। १ प्रशस्तदिवसे। २ प्रशस्ते त्रि०।

सुदिनाह = न० सुदिनं प्रशस्तमहः टच्समा०। प्रशस्तदिवसे सि० कौ०

सुदीर्घधर्मा = स्त्री सुदीर्घः अतिविस्तीर्णो धर्मो गुणविशेषो यस्याः केवलत्वाभावान्नानिच्समा० डाप्। असनपर्ण्या शब्दच० सुदीर्घो घर्मो यस्याः। सुदीर्धघर्सेति पाठान्तरे तत्रार्थे।

सुदीर्घफलिका = स्त्री सुदीर्घं फलं यस्याः कप् कापि अत इत्त्वम्। वार्त्ताकुभेदे रत्नमा०।

सुदीर्घा = स्त्री प्रा० स०। चीनाकर्कट्याम् राजनि०।

सुदूर = त्रि० प्रा० स०। अतिदूरे अमरः।

सुद्युम्न = पु० वैवस्वतमनुपुत्रे इडाशब्दे ९२१ पृ० दृश्यम्।

सुधन्वन् = त्रि० सुष्ठु धनुर्यस्य अनङ्समा०। १ सुन्द धनुर्द्धरे। २ मान्धातृवंश्ये नृपभेदे हरिवं० १२ अ०। ३ आङ्गिरसे मुनिभेदे भा० स० ६६ अ०। ३ अनन्ते नागे ५ विश्वकर्मणि च पु० मेदि०।

सुधन्वाचार्य्य = पु० “वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एव च। कारुषश्च विजन्मा च मैत्रः सात्त्वत एव च” मनूक्ते व्रात्यवैश्यात्सवर्णाजाते जातिभेदे।

सुधर्म्मन् = स्त्री सु + धृ–मनिन्। १ देवसभायाम् २ कुटुम्बिनि च पु० उणा०।

सुधर्म्मा = स्त्री सुष्ठु धर्मो यस्याः अनिच्समा० वा डाप्। देवसभायाम् अमरः। गौरा० ङीष् सुधर्मीत्यप्यत्र। अमरटीका

सुधा = स्त्री सुष्ठु धीयते पीयते अर्प्यते या धे धा–वा क। १ अमृते अमरः २ लेपनद्रव्ये (कणीचुन) ३ मूर्वायाम् ४ स्नु ह्यां ५ गङ्गायाम् ६ इष्टकायां मेदि० ७ विद्युति ८ रसे ९ जले १० धात्र्याम् नानार्थको० ११ हरीतक्याम् १२ मधुनि शब्दच० १३ शालपर्ण्याञ्च राजनि०।

सुधांशु = पु० सुधेवाह्लादकाः अशवोऽस्य। १ चन्द्रे २ कर्पूरे च अमरः। सुधाकरादयोऽप्यत्र।

सुधांशुतैल = न० सुधांशुना कर्पूरेण वासितं तैलम्! कर्पूरवासिते तैले राजनि०।

सुधांशुरत्न = न० ६ त०। मौक्तिके राजनि० तस्य चन्द्रप्रियत्वांत्तथात्वम्। ग्रहयज्ञशब्दे २७६३ प० दृश्यम्।

सुधाङ्ग = पु० सुधेवाप्यायनमङ्गमस्य। १ चन्द्रे त्रिका० २ कर्पूरे च

सुधाजीविन् = पु० सुधां लेपनद्रव्यमाजीवति आ + जीव–णिनि पलगण्डे लेपके (राज) त्रिका०।

सुधाधार = पु० ६ त०। १ चन्द्रे शब्दर० २ कर्पूरे ३ अमृताधारपात्रे च

सुधानिधि = पु० सुधा निधीयतेऽत्र नि + धा–आधारे कि ६ त०। १ चन्द्रे शब्दर० २ कर्पूरे च।

सुधापयस् = पु० सुधा लेपनद्रव्यमिव शुभ्रं पयो निर्यासोऽस्य। स्नुहीवृक्षे।

सुधाभुज् = पु० सुधां भुक्तवान् भूज–भूते क्विप्। देवे हेमच०।

सुधाभृ(सू)ति = पु० सुधा भ्रियते पुष्यते सूयते वाऽनेन भृसू–वा क्तिच्। १ यज्ञे २ चन्द्रे मेदि० ३ कर्पूरे च।

सुधामय = न० सुधात्मकं लेपनद्रव्यात्मकं वा प्राचुर्य्ये मयट्। २ राजभवने सौधे शब्दर०। अमृतवदाह्लादकवाक्यादौ त्रि० स्त्रियां ङीप्।

सुधामोदक = पु० सुधेव मोदयति मुद–णिच्–ण्वुल्। १ यवासशकरायाम् २ कर्पूरे च राजनि०।

सुधावर्षिन् = पु० सुवां वर्षति वृष–णिनि। १ चन्द्रे २ कर्पूरे ३ ब्रह्मणि च शब्दर० ४ बुद्धभेदे त्रिका०।

सुधावास = पु० ६ त०। १ चन्द्रे २ कर्पूरे च। सुधाया इव वासो गन्धो यस्याः। त्रपुष्याम् राजनि०।

सुधासिन्धु = पु० सुधामयः सिन्धुः। अमृतसमुद्रे राजनि०।

सुधास्रवा = स्त्री सुधां स्रवति स्रु–अच्। १ रुद्न्तीवृक्षे राजनि० २ उपजिह्वायाञ्च (आलजिभ) त्रिका०।

सुधाहर = पु० सुधां हरति हृ–अच्। गरुडे शब्दर० भा० आ० ३२ अ० दृश्यम्। सुधाहारकादयोऽप्यत्र।

सुधिति = पुंस्त्री० सु + धा–क्तिच् न ह्यादेशः। १ कुठारे स्वधितौरायमु०।

सुधी = पु० सुंष्ठु धीर्यस्य। १ पण्डिते। सुष्ठु धीः प्रा० स०। २ सुन्दरबुद्धौ स्त्री। सुष्ठु ध्यायति सु + ध्यै क्विप् नि०। ३ सुबुद्धियुक्ते त्रि०।

सुधूम = पु० सुष्ठु धूमः संतापो यस्य। स्वाद्नामगद्न्धद्रव्ये राजनि०।

सुधोद्भव = पु० सुधया सह सुधाया वा उद्भवति उद् + भू–अच्। १ धन्वन्तरौ वैद्यराजे समुद्रमन्थने हि तस्य सुधाकमण्डलुसहिततयोपत्तेस्तथात्वम्। २ हरितक्यां स्त्री त्रिका० “पपात विन्दुर्मेदिन्यामिन्द्रस्य पिवतोऽमृतम्। ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी” भावप्र० उक्तेस्तस्याः सुधाविन्दुजातत्वात् तथात्वम्।

सुनन्द = न० सुष्ठु नन्दयति सु + नन्द–अच्। १ बलराममुषले शब्दमा०। २ श्रीकृष्णपार्श्व चरभेदे भाग० १०। ८९ अ०। ३ राजगृहभेदे च। ४ अत्यानन्दयुक्ते त्रि० शब्दर० ५ गोरोचनायाम्, ६ उमायाम् स्त्री मेदि० एवम् ७ उमासखीभेदे शब्दमा० ८ मार्य्याम् विश्वः ९ अर्कपत्त्रीवृक्षे च (इषेरमूल) स्त्री रत्मभा०।

सुनयन = पुंस्त्री० सुष्ठु नयने अस्य। १ मृगे शब्दच० स्त्रियां जातित्वात् ङीष्। २ नार्य्यां स्त्री टाप्। ३ शोभननेत्रयुक्ते त्रि० स्त्रियां बह्वच्कत्वात् टाप्।

सुनाकृत = पु० सुष्ठु न अकृतः नञो नलोपाभावः। कर्परके शब्दच०।

सुनाभ = पु० सुष्ठ नाभिरस्य अच्समा०। मैनाकपर्वते त्रिका०।

सुनामद्वादशी = स्त्री व्रतभेदे व्रतशब्दे ५०६६ पृ० दृश्यम्।

सुनार = पु० सुष्ठु नालमस्य लस्य रः। १ सर्पाण्डे शुनीस्तन्ये ३ कलविङ्गे खगे पुंस्त्री० मेदि० स्त्रियां ङीष्।

सुनालक = पु० सुष्ठु नालेन कायति कै–क। १ वकवृक्षे शब्दच २ सुन्दरनालयुक्ते त्रि०।

सुनासिका = स्त्री सुष्ठु नासाऽस्त्यस्य ठन्। १ काकनासायाम् राजनि०। प्रा० स०। २ सुन्दरनासिकायाम् स्त्री।

सुनासी(शी)र = पु० सुष्ठु नासी(शी)रः अग्रगसैन्यं यस्य। इन्द्रे अमरः।

सुनासी(शी)र्य्य = पु० सुना(शी)सीरो देवताऽस्य यत्। यज्ञभेदे। छ। सुना(शी)सीरीयोऽप्यत्र। स च चातुर्मासुयागपर्वभेदः कात्या० श्रौ० ५। १६ कण्डिकायामुक्तः। कात्यायनशब्दे १८३० पृ० दृश्यम्। “न वैश्वदेवीये न सुनासीर्य्ये श्रुतिः।

सुनिषण्ण = न० सुष्ठु निषण्णं स्वप्नो यस्मात् ५ ब०। (सुसुनि) शाके त्रिका० कप् तत्रैव अमरः।

सुनिष्टप्त = त्रि० सु + निस् + तप–क्त षत्वम्। अत्यन्तोद्दीप्ते

सुनीति = स्त्री सुष्ठु नीतिः यस्याः। उत्तानपादस्य पत्नोभेदे १ ध्रुवमातरि। २ सुन्दरनीतियुक्ते त्रि०। प्रा० स०। ३ शोभनाथां नीतौ स्त्री।

सुनीथ = त्रि० सु + नी–थक्। १ धर्मशीले उणादिको० २ विप्रे संक्षिप्त०

सुनील = न० प्रा० स०। १ मणिमेदे (नीलम) २ दाडिमे राजनि० ३ सुन्दरनीलवर्णे पु०। ४ तद्वति त्रि०। ५ अ तस्याम् ६ अपराजितायां ७ जरतीतृणे च स्त्री राजनि०

सुनीलक = पु० सुनीक्व इव कायति कै–क। १ नीलभृङ्गराजे २ नीलासने ३ नीलरत्ने च राजनि०।

सुन्द = पु० १ दैत्यभेदे उपसुन्दशब्दे १३३७ पृ० दृश्यम्। २ वानरभेदे रामा० ल० ४७ स०। ३ राक्षसभेदे रामा० बा० २० स०।

सुन्दर = त्रि० सु + उन्द–अरन्–शक०। १ मनोहरे अमरः स्त्रियां ङीप् सा च २ उत्तमस्त्रियां ३ त्रिपुरसुन्दर्य्यां देव्याञ्च। ४ कामदेवे ५ वृक्षभेदे च (सुन्दार) पु० मेदि० ६ योगिनीभेदे स्त्री तन्त्रम् “अयुजीर्यदि सौ जगौ, युजोः। सभरा ल्गौ यदि सुन्दरी तदा” छन्दो० उक्रे ७ अर्द्धसमे वृत्तभेदे स्त्री। वृ० र० तु इयं वियोगिनीत्युक्ता।

सुपक्व = पु० सुन्दरं पच्यते सु + पच–क्त तस्य वः। १ शोभनाम्रे शब्दच०। २ सुन्दरपरिणते त्रि०।

सुपच = त्रि० भुक्तं सत् सुखेन पच्यते पच–कर्मणि खल्। लघुपाके द्रव्यमात्रे।

सुपत्त्र = न० सुष्ठु पत्त्रमस्य। १ तेजपत्रे शब्दच० २ आदित्यपत्त्रे पु०। ३ पल्लिवाहतृणे राजनि० ४ सुन्दरपत्त्रयुक्ते त्रि०। ५ रुद्रजटायां ६ शतावर्य्यां ७ पालङ्क्यां ८ शम्यां ९ शालपर्ण्याञ्च स्त्री राजनि०।

सुपत्त्रक = पु० सुष्ठु पत्त्रं पक्षोऽस्य कप्। १ शोमाञ्जनवृक्षे २ जतुकायां स्त्री राजनि० अत इत्त्वम्।

सुपथ = पु० सुष्ठु पन्थाः प्रा० स० वा अच्समा०। १ सद्वर्त्मनि २ सदाचारे च सुष्ठु पन्था यत्र अच्समा०। ३ सुन्दरपथयुक्ते त्रि०।

सुपथिन् = पु० प्रा० स० वा समासान्ताभावः। सत्पथे शब्दर० सुपन्थाः।

सुपथ्या = स्त्री प्रा० स०। १ श्वेतचिल्लीवृक्षे राजनि० २ शोभनपथ्ये त्रि०।

सुपद्मा = स्त्री सुष्ठु पद्यते पद–म। १ वचायाम् शब्दच०। प्रा० व०। २ पद्मिन्यां स्त्री।

सुपर्ण = पु० सुष्ठु पंर्णं पत्त्रं पक्षो वा यस्य। १ गरुडे अमरः २ सुन्दरपर्णयुक्ते त्रि० ३ स्वर्णचूडखगे पुंस्त्री० स्त्रियां ङीष्। ४ कृतमालवृक्षे पु० मेदि० ५ नागकेशरे पु० त्रिका०। कप् सुपर्णक। आरग्बधे वृक्षे सप्तच्छदवृक्षे जटा० गरुडे च हेमच०। शालपर्ण्यां रेणुकायां पलाश्यां स्वर्णजीवन्त्यां वाकुच्यां स्त्री कापि अत इत्त्वम्।

सुपर्णकेतु = पु० सुपर्णो गरुडः केतुर्यस्य। विष्णौ हला०।

सुपर्णी = स्त्री सुष्ठु पर्णान्यस्या गौरा० ङीष्। १ पद्मिन्यां सुपर्णो गरुडोऽस्त्यस्या अच् गौरा० ङीष्। २ गरुडमातरि च मेदि०

सुपर्णीतनय = पु० ६ त०। गरुडे हला०।

सुपर्वन् = पु० सुष्ठु पर्व यस्य। १ देवे अमरः २ वाणे ३ वंशे ४ धूमे च मेदि०। प्रा० स०। ५ सुन्दरे पर्वणि न०।

सुपर्वा = स्त्री सुष्ठु पर्व अस्त्यस्याः अच् टाप्। श्वतदूर्वायाम् राजनि०।

सुपाक्य = न० सुपाकाय हितम् यत्। १ विड्लवणे राजनि०।

सुपार्श्व = पु० सुष्ठु पार्श्वोऽस्य। १ प्लक्षवृक्षे (पाकुड) वृक्षभेदे २ सम्पातिपुत्त्रे विहगभेदे च राजनि० ३ सुन्दरपार्श्वान्विते त्रि०। ४ मेरोरुत्तरस्थविष्कम्भपर्वते पु० धान्यशैलशब्दे ३८८२ पृ० दृश्यम्। संज्ञायां कन्। १ गर्दभाण्डवृक्षे पु० अमरः।

सुपिङ्गला = स्त्री प्रा० स०। १ ज्योतिष्मत्यां २ जीवन्त्याञ्च राजनि

सुपीत = न० प्रा० स०। १ गर्जरे (गा~जर) राजनि०। २ सुन्दरपीतवर्णे पु० ३ तद्वति त्रि०।

सुपुट = पु० सुष्ठु पुटमस्य। १ कोलकन्दे २ विष्णुकन्दे च राजनि०।

सुपुत्रिका = स्त्री सुष्ठु पुत्र इव पक्षः यस्याः कप् अत इत्त्वम्। जतुकायाम् (तेलोपोका) राजनि०।

सुपुष्करा = स्त्री सुष्ठु पुष्करमस्याः अच्। स्थलपद्मिन्याम् रजनि०।

सुपुष्प = न० प्रा० स०। १ लवङ्गकुसुमे शब्दच० २ पपौण्डरीके २ आहूल्ये ४ तूले राजनि० ५ स्त्रीणां रजसि च “सुपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो” श्यामास्तवः। सुष्ठु पुष्पमस्य कप्। (पालतामान्दार) वृक्षे। पाटलायां स्त्री राजनि० अत इत्त्वम्।

सुपुष्पी = स्त्री सुष्ठु पुष्पमस्याः ङीष्। १ श्वेतापराजितायां २ शतपुष्पायाम् ३ मिश्रेयायां ४ द्रोणपुष्प्यां ५ जीर्णफञ्ज्यां राजनि०। ६ कदल्यां शब्दच०।

सुपूर = पु० सुष्ठु पूर्य्यते सु + पूर–क। वीजपूरे राजनि०।

सुपूरक = पु० सुष्ठु पूरयति पूर–ण्वुल्। वकवृक्षे रत्नमा०।

सुप् = स्त्री व्याकरणपरिभाषिते सुप्रभृतौ सुप्पर्य्यन्ते प्रत्ययभेदे।

सुप्त = न० खप–भावे क्त संप्रसारणम्। १ निद्रायां २ शयने च ३ सुसुप्तौ हेमच० कर्त्तरि क्त। ४ निद्रिते त्रि०। “क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः। भा० ण्डारी च प्रवासी च्सप्त सुप्तान् प्रबोधयेत्। मक्षिका म्रमरः सर्पो राजा वै वालकस्तथा। परश्वाऽपि च मूर्खश्च सप्त सुप्तान्न बाधयेत्” नीतिसारः।

सुप्तघातक = त्रि० ६ त०। हिंस्रे त्रिका०।

सुप्तजन = पु० सुप्तो जनो यत्र। १ अर्द्धरात्रे जटा०। कर्म०। २ निद्रिते लोके च।

सुप्ति = स्त्री स्वप–क्तिन्। १ शयने २ निद्रायाम् ३ खप्रे च “करोति मप्तिर्जनदर्शनातिथिम्” नैष०। ४ स्पर्शतायां ५ विश्रम्भे मेदि०।

सुप्रतिभा = स्त्री सुष्ठु प्रतिभा यस्याः ५ ब०। १ सुरायाम् प्रा० स०। २ उज्ज्वलायां बुद्धौ। ६ ब०। ३ तद्वति त्रि०।

सुप्रतिष्ठा = स्त्री प्रा० स०। १ प्रशंसायाम्। ६ ब० २ तद्वति त्रि०। ३ पञ्चाक्षरपादके छन्दोभेदे स्त्री। “प्रतिष्ठान्या सुपूर्विका” वृ० र०।

सुप्रतिष्ठित = पु० मु + प्रति + स्था–क्त षत्वटुत्वे। १ उडुम्बरवृक्षे राजनि०। २ प्रशंसिते त्रि०।

सुप्रतीक = पु० सुष्ठु प्रतीकं यस्य। ईशानकीणस्थिते दिग्गजे अमरः। २ शिवे ३ कामे च ४ सुन्दराङ्गे त्रि०। प्रा० स०। ४ सुन्दरे अङ्गे न०।

सुप्रभा = स्त्री सुष्ठु प्रभा यस्याः। १ अग्निजिह्वाभेदे तन्त्र० २ वाकुच्यां राजनि०। ३ सुन्दरदीप्तियुते त्रि०। प्रा० स०। ४ शोभनायां दीप्तौ स्त्री ५ शुक्लबले हेमच०। ६ सरस्वतीनदीभेदे स्त्री सरस्वतीशब्दे ५२४९ पृ० दृश्यम्।

सुप्रभात = न० प्रा० स०। १ शुभसूचकप्रातःकाले २ तत्र पाठ्यमाङ्गल्यवाक्ये च।

सुप्रयुक्तशर = पु० सुपयुक्तः शरो येन। शीघ्रहस्ते वाणमोचना भ्यासपाटवयुक्ते हेमच०।

सुप्रयोगविशिख = पु० सुष्ठु प्रयोगो निक्षेपो यस्य तादृशो विशिखो यस्य। शीघ्रहस्ते वाणमोक्षणशीघ्रतारूपपाटवयुक्ते भरतः।

सुप्रलाप = पु० सु + प्र + लप–घञ्। सुवचने अमरः।

सुप्रसन्न = पु० सु + प्र + सद–क्त। १ कुवेरे शब्दच०। २ अतिप्रसादयुक्ते त्रि०। सं ज्ञायां कन्। कृष्णार्जके पु० राजनि०।

सुप्रसरा = स्त्री सु + प्र + सृ–अच्। १ प्रसारिण्यां लतायाम् राजनि०। २ विस्तारयुक्ते त्रि०।

सुप्रसाद = पु० सुखेनानायासेन प्रसादो यस्य। १ शिवे त्रिका० प्रा० स०। २ सुन्दरप्रसन्नतायाम्।

सुफल = पु० सुष्ठु फलमस्य। १ दाडिमे २ बदरे ३ मुद्गे ४ कर्णि कारे राजनि०। ५ कपित्थे शब्दच० ६ सुन्दरफलयुते त्रि०। ७ इन्द्रवारुण्यां ८ कुष्माण्ड्यां ९ कदल्यां १० कपिलद्राक्षायां ११ काश्मर्य्याञ्च स्त्री राजनि०।

सुफेन = न० प्रा० स०। समुद्रपेने राजनि०।

सुबन्ध = पु० सुखेन बध्यतेऽसौ बन्ध–घञ्। तिलवृक्षे शब्दच०।

सुभग = पु० सुष्ठु भगः भाहात्म्यादिः यस्य। १ चम्पके २ त्यशोके ३ रक्ताम्लाने ४ टङ्कणे च राजनि० ५ सुदृश्ये ६ प्रिये मेदि०। ७ शोभनैश्वर्य्ययुक्ते च त्रि०। ८ कैवर्त्तीमुस्तायां ९ भालपर्ण्याम् १० हरिद्रायां ११ नीलदूर्वायां १२ तुलस्यां १३ प्र यङ्गौ १४ कस्तूर्य्यां १५ स्वर्णकदल्यां स्त्री राजनि०। १६ वन मल्लिकायां शब्दर० १७ पतिप्रियायां स्त्रियां च स्त्री। सुभगाया अपत्य दक् इनङ्च। सौभागिनेय तदपत्ये पुंस्त्री०

सुभगम्भावुक = त्रि० असुभगः सुभगो भवति भू–चूव्यर्थे खुकञ् मुम् च। प्रियम्भविष्णौ सि० कौ०।

सुभगासुत = पु० सुभगायाः पतिप्रियायाः सुतः। सौभागिनेये अर्मरः।

सुभङ्ग = पु० सुखेनानायासेन भज्यते निःसारत्वात् सु + भन्जकर्मणि घञ्। नारिकेलवृक्षे जटा०।

सुभट = पु० प्रा० स०। सुन्दरयोद्धरि।

सुभद्र = पु० सुष्ठु भद्रं यस्मात्। १ विष्णौ शब्दमा०। ६ ब०। २ राजभेदे हेमच० ३ शोभनमङ्गलयुते त्रि०। ४ श्यामालतायाम् स्त्री शब्दच०। ५ श्रीकृष्णस्य भगिन्थाञ्च स्त्री। कप्। सुभद्रक देवरथे शब्दर० विल्ववृक्षे च पु० शब्दच०।

सुभद्राणी = स्त्री सुभद्रं सुमङ्गलमानयति आ + नी–ड गौरा० ङीष् णत्वम्। त्रायन्तीलतायाम् रत्नमा०।

सुभद्रेश = पु० ६ त०। अर्जुने हेमच०। सुभद्रापत्यादयोऽप्यत्र।

सुभाञ्जन = पु० सुष्ठु भाति भा–क कर्म०। शोभाञ्जनवृक्षे द्विरूपकोषः।

सुभिक्ष = त्रि० सुखेन लभ्या भिक्षा यत्र पर्य्याप्तान्नत्वात्। प्रचुरान्नयुते देशकालादौ।

सुभिक्षा = स्त्री सुष्ठु भिक्ष्यते याच्यतेऽसौ सु + भिक्ष–अ। घातृपुष्पिकायाम्(धा~इफुल) अमरः।

सुभीरक = पु० सुष्ठु भीः सुभीः तासीरयति विरहिणम् ईरण्वुल्। पलाशवृक्षे हारा०।

सुभूति = पु० सुष्ठु भवति सु + भू–क्तिच्। १ पण्डितभेदे प्रा० स०। २ सुन्दरविभूतौ स्त्री। ६ व०। ३ तद्वति त्रि० कप्। ४ विल्ववृक्षे पु० राजनि०।

सुभूम = पु० सुष्ठु भूमिरस्य अच्समा० १ कर्त्तवीर्य्ये जिनानां चक्रवर्त्तिभेदे हेमच०।

सुभृश = न० सुष्ठु भृशम्। १ अतिशये दार्द्ये। २ तद्वति त्रि०।

सुभ्रुभ्रू = स्त्री सुष्ठु भ्रुर्यस्याः वा ऊङ्। १ नार्य्याम् २ सुन्दरभ्रुयुक्ते त्रि०।

सुम = न० सुष्ठु मीयतेऽदः सु–मा–घञर्थे क। १ पुष्पे भरतः। मु–मक्। २ चन्द्रे ३ कर्पूरे ४ नभसि च पु० उणा०।

सुमङ्गला = स्त्री सुवु मङ्गलं यस्याः ५ व०। (माकडहाता) वृक्षे रत्नमा०। २ सुमङ्गलयुक्ते त्रि० स्त्रियां ङीष्। “समङ्गलीरियं वधूः” इति श्रुतिः।

सुमति = त्रि० सुष्ठु मतिर्यस्य। १ शोभनवुद्धियुते २ कलकिमातरि विष्णुयशमः पत्न्यां स्त्री। ३ सर्हत्मातरि च स्त्री हेमच०। प्रा० स०। ३ सुन्दरायां बुद्धौ स्त्री।

सुमदन = पु० सुष्ठु मदयति कोकिलान् मट–णिच्–ल्यु। आम्रवृक्षे त्रिका०।

सुमदात्मजा = स्त्री सुमद आत्मज इवास्याः अप्सरःसु त्रिका०

सुमधुर = न० प्रा० स०। १ अत्यन्तप्रियवाक्ये अमरः २ सान्त्यन वाक्ये च। २ अतिमधुररसे ३ तद्युक्ते त्रि० ४ जीवशाके पु० राजनि०।

सुमन = पु० सुष्ठु मन्यते मन–अपु। १ गोधूमे अमरः। २ धुस्तूरे शब्दमा० ३ मनोहरे त्रि० शब्दर०।

सुमनःपत्रिका = स्त्री सुमनसः जात्या इव पत्त्रमस्याः कप् अत इत्त्वम्। जातीपत्त्रिकायाम् राजनि०।

सुमनःफल = पु० सुष्ठु मनो यस्मात् तादृक् फलमस्य। १ कपित्थे शब्दच०। ६ त०। २ जातीफले न०।

सुमनस् = न० सुष्ठु मनो यस्मात् यस्य वा। १ पुष्पे अमरः। ब० व० इत्यन्ये “किं सेव्यते सुमनसां मनसापि गन्धः” इति रसगङ्गाधारः। २ मालत्यां स्त्री अमरः ३ प्रशस्तचित्तयुक्ते त्रि०। प्रा० स०। ४ प्रशान्ते मनसि न०। ६ व०। ५ देवे पु० अमरः। ६ पण्डिते मेदि० ७ पूतिकरञ्जे शब्दमा० ८ निम्बे ९ महाकरञ्जे १० गोधूमे ११ शतपत्त्र्यां स्त्री राजनि०।

सुमना = स्त्री सुष्ठु मन्यते मन–अप्। मालतीवृक्षे शब्दर०।

सुमनीरजस् = न० ६ त०। पुष्पघूलौ परागे अमरः।

सुमन्तु = पु० सु + मन + तुन्। १ अथर्वयेदाध्यायिनि व्यासशिष्ये मुनिभेदे “अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः” भाग० १। ४ अ०। अतिशयितो मन्तुरपराधोऽस्य। २ अत्यन्तापराधयुते त्रि०। २ दशरथसारथो रामा०। ३ कल्किदेवस्य ज्येष्ठभ्रातरि कल्किपु०।

सुमित्रा = स्त्री १ लक्ष्मणमातरि दशरथपत्नीभेदे। २ सुन्दरमित्रयुक्ते त्रि०। ३ अर्हद्भेदे पु० हेमच०। ४ मुरथराजपुत्रे गृषभेदे विष्णुपु०। ४ अ० २३ अ०।

सुमुख = पु० सुष्ठु मुखमखात् अस्य वा। १ शाकभेदे २ नणेशे ३ नागभेदे ४ गरुडपुत्रभेदे च शब्दर०। ६ सिताजेके ७ वर्वरे वनवर्वरिकायाञ्च राजनि०। ९ सुप्रसन्नवदने १० मनोहरे च त्रि०। स्त्रियां ङीप्। ११ नखक्षतभेदे शब्दर०।

सुमुष्टि = पु० सु + गुष–कर्त्तरि क्तिच्। विषमुष्टिक्षुपे राजनि०।

सुमूल = पु० सुष्ठु मूलमस्य। १ श्वेतशोमाञ्जने राजनि०। २ शालपर्ण्यां ३ पृश्निपर्ण्यां च स्त्री राजनि० टाप्। ४ सुन्दरमूलयुक्ते त्रि०। संज्ञायां कन्। गर्जरे न० राजनि०।

सुमेखल = पु० सुष्ठु मेखला यस्मात् ५ ब०। १ मुञ्जतृणे राजनि० ६ ब०। २ सुन्दरमेखलान्विते त्रि०।

सुमेधस् = स्त्री सुष्ठु मेधा अस्याः ५ ब० असिच्समा०। १ ज्योतिष्मत्यां लतायाम्। ६ ब०। २ मन्दरमेधापुक्ते त्रि० मेदि०।

सुमेरु = पु० प्रा० स०। १ पर्वतभेदे स्तनरः। स्नम्पुद्वीपशब्दे ३०४५ पृ० दृश्यम्। २ जपमालासीमास्थगुटिकायाञ्च तन्त्रम्।

सुम्पलुण्ठ = पु० कर्पूरके शब्दच०।

सुम्भ(ह्म) = पु० शुम्भ–अच् पृषो०। १ देशभेदे शब्दर० २ तद्देशवासिनि पु० ब० व०।

सुयामुन = पु० यमुनाया इदम् सुष्ठु यामुनं प्रियत्वेतास्त्यस्य अच्। १ विष्णौ २ वत्सराजे ३ प्रासादविशेषे ४ पर्वतभेदे हेमच०। ४ मेथभेदे च मेदि०।

सुयोधन = पु० सुखेन युध्यतेऽसौ सु + युध–युच्। धृतराष्ट्रराजपुत्रभेदे दुर्योधने त्रिका०।

सुर = पु० सुष्ठु राति ददात्यभीष्टं सु + रा–क। १ देवे अमरः। २ सूर्य्ये ३ पण्डिते च।

सुरकृता = स्त्री ३ त०। १ गुडूच्याम् राजनि० २ देवनिर्मिते त्रि०

सुरक्तक = पु० सुरक्त इव कायति कै–क। १ काषाम्रे २ खर्णगैरिके च राजनि०।

सुरगुरु = पु० ६ त०। वृहस्पतौ त्रिका०।

सुरग्रामणी = पु० सुराणां ग्रामणीः नेता। इन्द्रे त्रिका०।

सुरङ्ग = न० सुष्ठु रङ्गो यस्मात् ५ ब०। १ हिङ्गुले २ पत्तङ्गे (वर्णकमाटि) प्रा० स०। ३ नागरङ्गे ४ नर्त्तभेदे (हि~ध) च पु० राजनि०।

सुरङ्गधातु = पु० सुष्ठु रङ्गो रञ्जनं यस्मात् ५ ब० कर्म०। गैरिके राजनि०।

सुरङ्गा = स्त्री सृ–अङ्गच् नि० (सि~ध) सन्धो हला०। २ कैवर्त्तिकायाम् राजनि०।

सुरङ्गिका = स्त्री सुष्ठु रङ्गो रञ्जनं यस्याः ५ व० कप् सत इत्त्वम्। १ मूर्वायाम् राजनि०।

सुरङ्गी = स्त्री सुष्ठु रङ्गो यस्याः ५ ब० गौरा० ङीष्। १ काकनासायाम् राजनि०। २ रक्तशोभाञ्जने रत्नमा०।

सुरज्येष्ठ = पु० ७ त०। चतुर्मुखे ब्रह्मणि अमरः।

सुरञ्जन = पु० सुरञ्जयति सु + रन्ज–णिच्–ल्यु। गुवाके त्रिका०

सुरत = न० सु + रम–भावे क्त। १ स्त्रीपुंसयोः सङ्गमरूपे रमसभेदे मेदि०। सु–रम–कर्त्तरि क्त। २ अत्यन्तरते त्रि० ३ दृयालौ सारसुन्दरी।

सुरतताली = स्त्री सुरतं तालयति तल–णिच्–अण् गौरा० ङीष्। १ दूत्यां २ शिरःस्रजि च मेदि०।

सुरता = स्त्री सुराणां समूहः भावो वा तल्। १ देवसमूहे २ देवत्वे च मेदि०। सु + रम–क्त। ३ अत्थन्तरतायां स्त्रियां स्त्री।

सुरताङ्ग = पु० सुरतस्याङ्गमत्र। सुररपुन्नागे राजनि०।

सुरतोषक = पु० ६ त०। १ कौस्तुभमणौ शब्दर०। २ देवतोषते त्रि०

सुरथ = पु० सुष्ठु रथोऽस्य। चन्द्रवंश्ये नृपभेदे “मरथो नाम राजाऽभूत्” देवीमा०। २ सुन्दररथयुक्ते त्रि०।

सुरदास = न० सुरप्रियं सुरलोकपर्य्यन्तमुचिहतं वा सल्लत्वात् दारु। देवदारुवृक्षे रलना०।

सुरदीर्घिका = स्त्री सुराणां दीर्घिकेव। गङ्गायाम् अमरः सुरवाप्यादयोऽप्यत्र।

सुरदुन्दुभी = स्त्री सुराणां दुन्दुभीबाह्लादकत्वात्। तुलस्याम् राजनि०।

सुरद्रुम = पु० सुरप्रियो द्रुमः। १ देवदारुणि २ देवनले च राजनि०।

सुरद्विष् = पु० सरान् द्वेष्टि द्विष–क्विप्। १ असुरे अमरः २ देवद्वेष्टरि त्रि०।

सुरधनुस् = न० ६ त०। इन्द्रधनुषि जटाधरः।

सुरधूप = पु० सुरप्रिया धूपः। राले (धुना) राजनि०।

सुरन(ण)दी = स्त्री ६ त० वा णत्वम्। गङ्गायां सुरधुन्यादयोऽप्यत्र

सुरनन्दा = स्त्री नदीभेदे शब्दर०।

सुरनाल = पु० सुरप्रियं नालमस्य। देवनलवृक्षे राजनि०।

सुरनिम्नगा = स्त्री ६ त०। गङ्गायाम अमरः।

सुरनिर्गन्ध = न० सुरेषु निर्गन्धम्। पत्रके राजनि०।

सुरपति = पु० ६ त०। इन्द्रे अमरः सुरेशादवोऽप्यत्र।

सुरपथ = पु० सुराणां पन्था इव गत्याधारत्वात् अच्समा०। आकाशे हेमच०।

सुरपर्ण = न० सुरप्रियं पर्णमस्य। सुगन्धिके ओषधिभेदे राजनि०।

सुरपर्ण्णिक = पु० सुरप्रियं पर्फ शाक० तदस्त्यस्य ठक्। १ सुरपुन्नागे राजनि० २ पुन्नागे स्त्री हेमच०।

सुरपर्ण्णी = स्त्री सुरप्रियं पर्णं यस्याः ङीष्। पलाशीवृक्षे राजनि०

सुरपादप = पु० ६ त०। कल्पवृक्षे सुरवृक्षादयोऽप्यत्र।

सुरपुन्नाग = पु० सुरप्रियः पुन्नागः। पुन्नागभेदे राजनि०।

सुरपुरी = स्त्री ६ त०। अमरावत्यां त्रिका०। सुरनगर्य्यादयोऽप्यत्र

सुरप्रिय = पु० ६ त०। १ अगस्त्यवृक्षे राजनि०। २ वृहस्पतौ ३ इन्द्रे च। ४ जात्यां ५ स्वर्णकदल्याञ्च स्त्री राजनि०।

सुरभि = न० सु + रभ–इन्। १ स्वर्णे २ गन्धाश्मनि च शब्दर० ३ मुन्दरे ४ साधुगन्धे पु० धरणिः ५ सुगन्धे अमरः ६ चम्पके ७ जातीफले ८ वसन्ते ऋतौ मेदि० “स सुरभिं सुरभिं सुमनोभरैरिति” माघः। ९ शमीवृक्षे १० कदम्बे ११ कणनुग्गुलौ १२ गन्धतृणे १३ बकुलवृक्षे १४ राले राजनि० १५ चैत्रे मासि १६ पण्डिते धरणिः १७ गन्धफले पु० शब्दर०। १८ शल्लक्यां १९ रुद्रजटायां २० मातृकाभेदे २१ गवि २२ सु(सु)रायां स्त्री मेदि० २३ वनमालिकायां २४ तुलस्यां २५ प्राच्यां स्त्री राजनि० २६ पृपिव्यां २७ गवां मातरि च खी वा ङीप्। २८ सङ्गन्धयुक्ते २९ मनोहरे त्रि० मेदि० ३० सिख्याते ३१ धीरे च त्रि० धरणिः। सुरमिश्च कश्यपपत्वीभेदः। “सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा हरिवं० ३अ० कश्यपपत्नीकथने। तस्याश्च द्वे कन्ये रोहिणी गन्धर्वी च “तथा दुहितरो राजन्! सुरभिर्वै व्यजायत। रोहिणी चैव भद्रां तु गन्धर्वीं च रजस्वलाम्। रोहिण्यां जज्ञिरे गावः गन्धर्व्यां वाजिनः सुराः” भा० आ० ६६ अ० तस्याश्च रोहिणीरूपगोमातृजननात् गोमातृत्वेन। ब्रह्मवै० प्र० ४४ अ०। “गवामधिष्ठातृदेवो गवासाद्या नवां प्रसूः। गवां प्रधाना सरभी गोलोके सा समुद्भवा” इति गवाद्यत्वमुक्तम्। सर्वतः स्त्रियां वा ङीप्।

सुरभिका = स्त्री सुरभि + स्वार्थे क। (चा~पाकला) स्वर्णकदल्यां वृक्षे राजनि०।

सुरभित्वच् = स्त्री सुरभिः त्वक् यस्याः। स्थूलैलायां राजनि०

सुरभिदारु = पु० सुरभि दारु यस्य। सरलवृक्षे राजनि०।

सुरभिपत्त्रा = स्त्री सुरभि पत्त्रसस्याः। १ जम्बूवृक्षे २ राजजम्बूवृक्षे च राजनि०।

सुरभिवल्कल = न० सुरभि वल्कलमव्य। १ गुडत्वचि (दारचिनि) शब्दर०।

सुरभिस्रवा = स्त्री सुरभिः स्रवो निष्यन्दो यस्याः। तल्लक्याम् राजनि० सुरभिरसाप्यत्र।

सुरभूरुह = पु० सुरप्रियः भूरुहः देवदारुवृक्षे भावप्र०।

सुरमृत्तिका = स्त्री सुरप्रिया मृत्तिका। तुवर्य्याम् (वर्णकमाटि) राजनि०।

सुरमेदा = स्त्री सुरप्रियो मेदोऽस्याः। महामेदायाम् राजनि०

सुरर्षि = पु० सुरप्रियः ऋषिः। नारदादिषु ऋषिषु अमरः। ऋषिशब्दे १४५२ पृ० दृश्यम्।

सुरलता = स्त्री सुरपिया लता। महाज्योतिष्मत्याम् राजनि०

सुरला = स्त्री सुरान् लाति सेवकत्वेन ला–क। १ गङ्गायां हारा०। २ सुरलाख्ये नदोमेदे शब्दर०।

सुरलोक = पु० सुराणां लोकः वासस्थानादिः। १ स्वर्ग अमरः। सुरभुवनादयोऽप्यत्र।

सुरवर्त्मन् = न० सुराणां वर्त्मेव गत्याधारत्वात्। आकाशे अमरः।

सुरवल्लभा = स्त्री ६ त०। श्वेतदूर्वायाम् राजनि०।

सुरवल्ली = स्त्री सुरप्रिया वल्ली। तुलस्याम् राजनि०।

सुरवैरिन् = स्त्री ६ त०। १ असुरे शब्दर०। २ सुरविरोधिनि त्रि० सुररिपुपमृगयोऽप्यत्र।

सुरशत्रु = पु० ६ त०। असुरे हला०।

सुरशाखिन् = पु० ६ त०। कल्पवृक्षे जटा०

सुरश्रेष्ठा = स्त्री सुरेषु श्रेष्ठा। ब्राह्यां राजनि०।

सुरस = न० सुस्वेन रस्यते सु + रम–पञर्थे कर्मणि क। १ बोते २ त्वरो ३ गन्धतृणे ४ गिन्धुरारे पु० शब्दर०। ५ मोसरष राजनि०। प्रा० स०। ६ स्वादौ रसे। ६ ब०। ७ सुखादुरसयुक्ते त्रि०। ८ तुलस्यां पुं स्त्री०। ९ रास्नायां १० नागमातरि स्त्री मेदि०। ११ मिश्रेयायां शब्द च० १२ ब्राह्यां रत्नमा० १३ महाशतावर्य्यां च स्त्री राजनि०। नागमाता च कश्यपपत्नीभेदः। “अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा” तत्पत्नीकथने हरिवं० ३ अ०। “सुरसायाः सहस्नन्तु सर्पाणाममितौजसाम्। अनेकसिरसां तस्यां खेचराणां महात्मनाम्”। तत्राध्याये तस्या नागमातृत्वमुक्तम्। “सुरसाऽजनयन्नागान् कद्रुः पुत्रांश्च पन्नगान्” भा० आ० ६६ अ०। तेनानेकशिरः नागप्रसूत्वं सुरसायाः कद्र्वास्तु सर्पमातृत्वमिति भेदः।

सुरसाष्ट = पु० सुरसाभिरष्टः व्याप्तः अश–व्याप्तौ कर्मणि क्त। “निर्गुण्डी तुलसी व्राह्मी वृहती कण्टकारिका। पुनर्नवेति मुनिभिः सुरसाष्टः प्रकीर्त्तितः” शब्दचन्द्रिकोक्ते वृक्षभेदव्याप्ते औषधभेदे

सुरसुन्दरी = स्त्री मुरप्रिया सुन्दरी। १ मेनकाद्यप्सरःसु २ योगिनीमेदे तन्त्रसा०।

सुरा = स्त्री सुर–क सु–रक् वा। १ मद्ये २ चषके च मेदि०। सुरा च मद्यभेदः मद्यशब्दे ४७२९ पृ० दृश्यम्। सोत्रामणीशब्दे वैदिकमार्गेण तदभिषवप्रकारादिर्दृश्यः।

सुराकर = पु० सुराया आकरः। मद्योत्पत्तिस्थाने।

सुराचार्य्य = पु० ६ त०। वृहस्पतौ अमरः।

सुराजक = सुष्ठु राजते राज–ण्वुल्। १ भृङ्गराजे शब्दच०। ६ ब० कप्। सुन्दरराजान्विते त्रि०।

सुराजन् = पु० सुष्ठु पूजतो राजा न ष्टच्समा०। १ सृन्दरे राजनि० ६ ब०। २ सुन्दरराजस्वामिके देशे त्रि०।

सुराजीविन् = पु० सुरां सुरासम्पादनमाजीवति आ + जीव णिनि। शौण्डिके हेमच०।

सुराप = त्रि० सुरां पिबति पा–क। ३ मद्यपानकारके “सुरापः श्यावदन्तकः” इति शाता०।

सुरापगा = स्त्री ६ त०। गङ्गायाम् ऊटा०। सुरतरङ्गिण्यादयोऽप्यत्र

सुरापान(ण) = न० सुरा पीयतेऽनेन पा–करणे ल्युट वा णत्वम्। १ अवदंशे (चाष्ठनी) सुरायाः पानं येषां णत्वम्। २ पाच्यदेशस्थे जने पु० शब्दच०। भावे ल्युट्। ३ तत् पाने न० वा णत्वम्।

सुराभाग = पु० सुराया भागः अग्रभागः। सुरामण्डे शब्दच० सुराग्रभागोऽप्यत्र

सुरामण्ड = पु० ६ त०। सुराया अग्रभागे अमरः।

सुरारि = पु० ६ त०। असुरे शब्दर०।

सुरारिहन्तृ = पु० सुराणामरिं हन्ति हन–तृच्। विष्णौ।

सुरार्ह = न० सुरान् देवानर्हति अर्ह–अण्। हरिचन्दनेः राजनि०।

सुरालय = पु० ६ त०। १ सुमेरुपर्वते अमरः। २ स्वर्गस्थाने च।

सुराष्ट्र = पु० ६ ब०। देशभेदे (सुरट)। सोऽभिजनोऽस्य तस्य राजा वा अण्। सौराष्ट्र पित्रादिक्रमेण तद्देशवासिनि जने तन्नृपे च बहुषु अणो लुक्। तत्र भवः अण्। तद्देशभवे त्रि० स्त्रियां ङीप्।

सुराष्ट्रज = न० स्त्री० सुराष्ट्रदेशे जायते जन–ड। १ तुवरिकायाममरः २ कृष्णमुद्गे राजनि०। ३ विषभेदे च पु० शब्दच०। ४ तद्देशजातमात्रे त्रि०।

सुराह्व = पु० सुरपूर्विका आह्वा यस्य सुरान् आह्वयति गन्धेन वा आ + ह्वे–क वा। १ देवदारुवृक्षे शब्दर०। २ मरुवके ३ हरिद्रावृक्षे च राजनि०।

सुरुङ्ग = पु० सु + रुज–अङ्गच् पृषो०। १ शोभाञ्जनवृक्षे शब्दर०। २ सुरङ्गायां (सि~ध) स्त्री जटा०।

सुरुङ्गाहि = पु० सुरुङ्गायामहिरिव। सन्धिचौरे शब्दर०।

सुरूप = न० सुन्दरं रूपमस्य। १ तूले राजनि०। २ सुन्दररूपयुते त्रि० सुरूपाश्च प्रसिद्धतया कतिचित् कविक० उक्ता यथा “सुरूपाश्चैव विख्याता नकुलश्च पुरूरवाः। कमदेवक्ष शाम्बश्च विख्याता वाश्विनी तथा। नलकूवरः सुरूपेषु लोकेषु तु मता इमे” ३ पण्डिते पु० जटा०। ४ शालपर्ण्यां ५ भार्ग्याम् च स्त्री राजनि० प्रा० स०। ६ सुन्दरे रूपे न०।

सुरूहक = पु० सु + रुह–क्वुन् पृषो०। गर्दभाण्डे हेमच०।

सुरेज्य = पु० इज्यते पूज्यते यज–क्यप् ६ त०। १ वृहस्पतौ २ तुलस्यां स्त्री राजनि०।

सुरेन्द्र = पु० सुरेषु इन्द्र ऐश्वर्य्ययुतः। सुरराजे इन्द्रे।

सुरेन्द्रजित् = पु० सुरेन्द्रं जितवान् जि–भूते क्विप्। गरडे हला० तत्कथा भा० आ० ३२ अ० दृश्या।

सुरेभ = न० सु + रेभ–अच्। रङ्गे धातौ (रांग) त्रिका०।

सुरेवट = पु० सुष्ठु रेवटः सु + रेव–अटन् वा। रामपूगे त्रिका०।

सुरेश्वर = पु० सुराणामीश्वरः। १ रुद्रे जटा० २ इन्द्रे च। ३ स्वर्गगङ्गायां स्त्री शब्दर० ४ दुगायाञ्च ङीप्।

सुरेष्ट = पु० ६ त०। १ शाले वृक्षे २ सुरपुन्नागे ३ शिवमल्ल्याम् ४ ब्र ह्म्यां स्त्री राजनि०।

सुरोत्तम = पु० सुरेषूचमः। १ सूर्य्ये २ देवश्रेष्ठे त्रि०।

सुरोत्तर = पु० सुरेषु तत्पूजनेपूत्तरः श्वेष्ठः। चन्दने शब्दच०।

सुरोद = पु० सुरेव उदकमस्य उदादेशः। सुरासमुद्रे जटा०।

सुलभ = त्रि० सुखेन् लभ्यते सु + लभ–कर्मणि णल्। १ अना- यासलभ्ये २ माषपर्ण्यां ३ धूमपत्त्रायाञ्च स्त्री राजनि०।

सुलोचन = पुंस्त्री० सुष्ठु लोचनमस्य। १ हरिणे राजनि० स्त्रियां ङीष्। २ सुन्दरनेत्रयुक्ते त्रि० स्त्रियां वह्वच्कत्वात् टाप्।

सुलोमशा = स्त्री सुलोमानि सन्त्यस्याः श। काकजङ्घावृक्षे राजनि०। २ सुलोमयुक्ते त्रि०।

सुलोमा = स्त्री सुष्ठु लोमान्यस्याः डाप्। १ ताम्रबल्ल्याम् २ मांसच्छदायाञ्च राजनि०।

सुलोहक = न० प्रा० स०। पित्तले हेमच०।

सुलोहिता = स्त्री प्रा० स०। १ अग्निजिह्वावृक्षे शब्दमा० २ सुरक्तवर्णे पु० ३ तद्वति त्रि० स्त्रियां ङीप् तस्य नश्च।

***