सिंह = पुंस्त्री० हिन्स–अच् पृषो० “सिंहो वर्णविपय्ययात्” इत्युक्तेः वर्णविप्र्य्ययः। स्वनामख्याते १ पशुभेदे अमरः स्त्रियां ङीष्। गुहाशयशब्दे सिंहमांसगुणा दृश्याः। २ रक्तशोभाञ्जने राजनि० ३ मेषादितः पञ्चमे राशौ ज्यो० सिंहराशिश्च २१६०० कलःत्मकराशिचक्रस्य ७२०० कलोपरि १८०० शतकलात्मकः मघापूर्वफल्गुन्युत्तरफल्गुन्याद्यपादात्मकः। “पुमान् स्थिरोऽग्निदिनपित्तरूक्षपीतोष्णपूर्वेण दृढश्चतुष्पाद्। समोदयो दीर्घरवोऽल्पसङ्गप्रजो हरिः शैलनृपोऽथ धूम्रः” मील० ता० तत्स्वभावादि उक्तम्। तस्य स्वामी सूर्य्यः। ४ जिनध्वजे हेमच०। ५ उत्तरपदस्थः ५ श्रेष्ठार्थे अमरः। नरःसिंह इवेति विग्रहे “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” पा० उपमितसमासे नरसिंहादिशब्दात् सिंहतुल्यशौर्य्यादियुक्तो नर इति बोधात् नरस्य श्रेष्ठत्वं द्योत्यते इति बोध्यम्। ६ नाड्यां स्त्री राजनि०। ७ प्रासादभेदे देवगृहशब्दे ३६८१ पृ० दृश्यम् ८ सिंहासनभेदे तच्छब्दे दृम्यम्
सिंहकेलि = पु० सिंहस्येव केलिरस्य। मञ्जुघोषे त्रिका०।
सिंहकेशर = पु० सिंहस्येव केशरोऽस्य। बकुले त्रिका०।
सिंहतल = पु० संहतल + पृषो०। करद्वयमेलनरूपे अञ्जलौ। रामाश्रमः।
सिंहतुण्ड = पु० सिंहस्येव तुण्डः पुष्पमस्य। सेहुण्डवृक्षे राजनि०।
सिंहद्वार = न० सिंहचिह्नितं द्वरम् शाक०। पुरप्रवेशनयोग्ये द्वारे हेमच०।
सिंहध्वनि = पु० सिंहम्येव ध्वनिः। १ सिंहतुल्यनादे सिंहनादादयोऽप्यत्र अमरः। ६ त०। २ सिंहस्य शब्दे।
सिंहनर्दिका = पु० सिंह इव नर्दति नर्दशवुल्। (सिङ्गा) वाद्यभेदे हारा०।
सिंहनादिका = स्त्री सिंहमपि नादयति नद–णिच्–ण्वुल् १ दुराब्दयाम् शलभाच०। २ सिंहनर्दिकायां हारा०।
सिंहपर्णी = स्त्री सिहस्य पुच्छ इव पर्णमस्या ङीप्। वासकवृक्षे जटा०।
सिंहपुच्छिका = स्त्री सिंहस्य पुच्छ इव पुत्त्राण्यस्याः–कप्, अव इत्त्वम्। चित्रपर्णिकायां (क्षुद्रचाकुले) वृक्षे रत्नमा०
सिंहपुच्छी = स्त्री सिंहस्य पुच्छ इव पुष्पाणि पर्णानि वास्याः ङीप्। १ चित्रपर्ण्यां २ पृश्निपर्ण्याम् अमरः ३ माषपर्ण्याञ्च रत्नमा०।
सिंहपुष्पी = स्त्री सिंहस्य पुच्छ इव पुष्पाण्यस्याः ङीष् पृश्निपर्ण्याम् राजनि०।
सिंहमुखी = स्त्री सिंहस्य मुख मुखस्थदन्त इव पुष्पमस्याः ङीप्। वासके राजनि०।
सिंहयाना = स्त्री सिंहो यानं बाहनं यस्याः। दुर्गायाम् हेमच० सिंहवाहनादयोऽप्यत्र।
सिंहल = पु० सिंहोऽस्त्यत्र लच्। देशभेदे। तद्देशप्रभवत्वात् २ रङ्गे धातौ हेमच०। ३ रीतौ ४ त्वचे च न० राजनि०। सिहलदेशश्च कूर्मविभागशब्दे २१६८ पृ० दक्षिणस्यामुक्तः।
सिंहलस्था = स्त्री सिंहले तिष्ठति स्था–क। सिंहल्यां ल तायां राजनि०।
सिंहलास्थान = पु० सिंहल आस्थानं यस्य। तालसदृशे वृक्षभेदे शब्दर०।
सिंहलील = पु० रतिबन्धभेदे “लिङ्गोपरि स्थिता नारी भूमौ दत्त्वा पदद्वयम्। हृदये दत्तहस्ता चेत् सिंहलीलः प्रकीर्चितः”। लिङ्गोपरि स्थिता नारी कान्तोरुस्थपदद्वया। हृदये दत्तहस्ता चेत् सिंहलीलोऽप्यसावपि” रतिम०।
सिंहवाहिनी = स्त्री सिंहरूपो वाहो विद्यतेऽस्या इनि। दुर्गायाम् “सिंहमारुह्य कल्पान्ते निहतो महिषी यतः। महिषघ्नी ततो देवी तथा वै सिंहवाहिनी” देवीपु० ४५ अ०।
सिंहविक्रान्त = पुंस्त्री० सिंह इव विक्रान्तः। १ अश्वे हारा० स्त्रियां ङीष् २ सिंहतुल्यविक्रमे त्रि०।
सिंहविन्ना = स्त्री सिंह इव विन्ना विद–क्त। माषपर्ण्याम् राजनि०।
सिंहसंहनन = त्रि० सिंहस्येव संहननमङ्गमस्य। १ वराङ्गयुक्ते अमरः २ सिंहतुल्यदृढाङ्गे च। “सिंहसंहननो युवा” रघुः।
सिंहा(शिङ्घा)न = न० शिघि–आनच् पृषो०। १ लौहमले अमरः। २ नासिकामले (सिकनी) शब्दर०।
सिंहावलोक = पु० न्यायभेदे न्यायशब्दे ४१६९ पृ० दृश्यम्।
सिंहासन = न० सिंहचिह्नितमासनम्। १ राजासनभेदे तल्लक्षणं युक्तिकल्पतरौ दर्शितं यथा “राज्ञो वरासनं नाम श्रीसिंहासनमुच्यते। शुभे मुहूर्त्ते शुभमासवर्षे सुवारवेलातिथिचन्द्रयोगे। काले निरुत्पात निरोतिभावे सिंहासनावस्थविधिं वदन्ति। स्थिरराशि स्थिते भानौ चन्द्रे च स्थिरभोदिते। आसनारम्भमिच्छन्ति गृहारम्भोऽपि येषु च”। एतेन गृहारम्भसिंहासनयोरारम्भ एक एव कालः। तत्र क्रमः “वाणवेदाग्निपक्षाणि सोपानानि युगैः क्रमात्। चत्वारिंशत्तथा त्रिंशत् विंशतिः षोडशैव च। सिंहान्वितानि ज्ञेयानि चरणानि युगैः क्रमात्। पद्मः शङ्खो गजो हंसः सिंहो भृङ्गो मृगो हयः। अष्टौ सिंहासनानीति नीतिशास्त्रविदो विदुः। आदित्यादि दशाजागां भूपतीनां यथाक्रमम्। राज्ञः स्वहस्तेरष्टाभिरायामपरिणाहयोः। राजपात्रमिदं नाम सोपानं पुरुषोन्नतम्। तदर्द्धमानं तन्मध्ये राजासनमुदाहृतम्। अर्द्धोन्नतमिदं रम्यं प्रोक्तं कलिमहीभुजाम्। दिगष्टर्द्ध्यब्धिकोणः स्यात् ब्रह्मादीनां यथायथम्”। अथाष्टानां लक्षणानि “गम्भारीकाष्ठघटितः पद्ममालोपचित्रितः। पद्मरागविचित्राङ्गः शुद्धः काञ्चन संवृतः। चरणाग्रे पद्मकोषात् पद्मरागविचित्रिताः। दिक्ष्वष्टौ पुत्रिका राजद्वादशाङ्गलिसम्मिताः। राजासनं चतस्रश्च एवं द्वादशपुत्रिकाः। रत्नैश्च नवभिः कार्य्यं निर्माणं चान्तरान्तरा। रक्तवस्त्रावृतं ह्येतत् पद्मसिंहासनं१ मतम्। अत्रोषित्वा नरपतिः प्रतापमति विन्दति। भद्रेन्द्रकाष्ठघटितः शङ्खमालोपशोभितः। शुद्धस्फटिकचित्राङ्गः शुद्धरूप्योपशोभितः। चरणाग्रे शङ्खनाभ्यः पुत्रिकाः सप्नविंशतिः। स्थाने स्थाने विधातव्याः शुद्धस्फटिकसंस्कृताः। शुक्लपट्टावृतं ह्येतत् शङ्खसिंहासनं२ मतम्। पनसेनोपघटितो गजमालोपशोभितः। विद्रुमैरपि वैदूर्य्यैः काञ्चनेनापि शोभितः। चरणाग्रे गजशिरःपुच्छादेकैकपुत्रिका। माणिक्यरचितारक्तवस्त्रादिकविभूषणम्। गजसिंहासनं ३ नाम साम्राज्यफलदायकम्। शालकाष्ठेन घटितो हंसमालोपशोभितः। पुष्परागैः काञ्चनेन कुरुविन्दैश्च चित्रितः। चरणाग्रे हंसरूपाः पुत्रिकास्त्वेकविंशतिः। गोमेदकोपथटिताः पीतवस्त्रविभूषणम्। हंससिंहासनं ४ नाम सर्वानिष्टविनाशनम्। चन्दनेनोपघटितः सिंहमालोपभूषितः। शुद्धहीरकचित्राङ्गः शुद्धकाञ्चननिर्मितः। चरणानां सिंहलेखाः पुत्रिकाश्चैकविंशतिः। मुक्ताशुक्तिभिरन्यैश्च निर्मलैरेव भूषणम्। शुद्धशुण्डावृतं ह्येतत् सिंहसिंहासनं ५ मतम्। अत्रोषित्वा नरपतिः कृत्स्नां साधयति क्षितिम्। भृङ्गमालोपसहितं शुद्धचम्पककल्पितम्। शुद्धैर्मरकतैर्युक्तं पादाग्रे पद्मकोषिकाः। द्वामिंशतिः पुत्रिकास्तु नीलवस्त्रादिभूषणम्। भृङ्गसिंहासनं६ नाम शत्रुक्षयजयप्रदम। निम्बकाष्ठेन घटितं मृगमालोपशोभितम्। शुद्धनीलैर्महानीलैः काञ्चनेनापि चित्रितम्। चरणाग्रे मृगशिराश्चत्वारिंशच्च पुत्रिकाः। नीस्नवस्त्रादियुक्तन्तु मृगसिंहासनं ७ मतम्। लक्ष्मीयिजयसम्पत्तिर्नैरुज्यपदमुत्तमम्। केशरेणोपठटितं हयमालोपशोभितम्। र्समस्तवस्त्रैर्भूष द्याः पुत्रिकाः पञ्चसप्ततिः। चरणाग्रे हयशिरश्चित्रवस्त्रादिमूषणम्। हयसिंहासनं ८ मात लक्ष्मी विजयवर्द्धनम्। इत्येतत् कथितं सारं महासिंहासनाष्टकम्। यथा भोजेन कथितं यथा चान्यैश्च पण्डितैः। एतस्यातिक्रमं दम्भाद् यः कुर्य्यात् पृथिवी पतिः। अचिरादेव कुरुते तस्य मृत्युरतिक्रमम्। परासनस्थो यो राजा यो राजा च निरासनः। स परैर्हन्यते सिंहैरिव मत्तगजाधिपः”। चतुरङ्गक्रीडायां २ जयभेदे चतुरङ्गशब्दे २८६३ पृ० दृश्यम्। ३ योगासनभेदे च तल्लक्षणं यथा “गुल्फो च वृषणस्याधः सीवन्याः शार्श्वयोः क्षिपेत्। दक्षिणे सव्यगुल्फन्तु दक्षगुल्फन्तु सव्यके। हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीः सप्रसार्य्य च। व्यात्तवक्त्रो निरीक्षेत नासाग्र सुसमाहितः। सिंहासनं भवेदेतत् पूजितं योगिभिः सदा। बन्धत्रयस्य सन्धानं कुरुते चासनोत्तमम्” इति हठप्रदीपः। ४ रतिबन्धभेदे पु० “स्वजङ्घाद्वयबाहू च कृत्वा योषापदद्वये। स्तनौ धृत्वा रमेत् कामी बन्धः सिंहासनो मतः”। इति रतिमञ्जरी ५ चक्रभेदे चक्रशब्दे २८१९० पृ० दृश्यम्।
सिंहास्य = पु० सिंहस्यास्यमास्यस्थदन्त इव पुष्पं यस्य। वामके अमरः।
सिंहिका = स्त्री। काश्यपपत्न्यां राहुमातरि। “कश्यपस्य गृहिणी तु सिंहिकां राहुवास्तुतनयावजीजनत्। पूर्बजो हरिनिकृतकन्धरो दैवतैरवरजो निपातितः” वास्तुयागत०।
सिंहिकासुत = पु० ६ त०। १ राहौ सिंहिकापुत्रादयोऽप्यत्र। २ वास्तुपुरुषे च।
सिंही = स्त्री हिनस्ति रोगान् हिन्स–अच् पृषो०। वार्त्ताक्याम् अमरः २ कण्टकारिकायाम् ३ वासके मेदि० ४ वृहत्यां राजनि० ५ राहुमातरि विश्वः ६ मुद्गपर्ण्याम् सिंह + जातौ ङीष्। ७ सिंहयोषिति।
सिंहीलता = स्त्री कर्म०। वृहत्यां भावप्र०।
सिक = सेचने सौत्र० पर० सक० सेट्। सेकति असेकीत्। पर्मुदासात् न षापदेशः।
सिकता = स्त्री ब० व०। सिक–अतच् किच्च। बालुकायाम् मेदि०। सिकताः सन्त्यत्र अण् तस्य लुप्। २ सिकतायुक्तदेजे स्त्री अमरः।
सिकतामय = त्रि० सिकता + मयट्। बालुकामये तटादौ अमरः।
सिकतावत् = त्रि० सिकताः सन्त्यत्र मतुप् मस्य वः। बालुकायुक्तदेशे अमरः।
सिकतिल = त्रि० सिकताः मन्त्यत्र इलच्। बालुकायुक्तदेशे भरतः।
सिक्थ = न० सिच–थक्। १ मधूच्छिष्टे (मोम) २ नील्याञ्च हेमच०। स्वार्थे क। तत्रार्थे भक्तपुलाके ग्रासे च पु० मेदि० मधूच्छिष्टे न० अमरः।
सिक्य = न० सिक–यत्। (सिके) रज्जुनिर्मिते पदार्थे।
सिच् = त्रि० सिच–क्विप्। १ सेचनकर्त्तरि कर्मणि क्विप्। २ वस्त्रे हेमच०।
सिचय = पु० सिच–अयच् किच्च। १ वस्त्रे हेमच० २ जीर्णवस्त्रे त्रिका०।
सिञ्चिता = स्त्री सिच–इतच् पृषो०। पिष्पल्याम् शब्दच०।
सित = न० सो–क्त। १ रौप्ये २ मूलके राजनि०। ३ चन्दने रत्नमा० ४ शरे ५ शुक्रग्रहे ६ शुक्लवर्णे च पु० अमरः। ७ तद्वति ८ समाप्ते ९ बद्धे १० ज्ञात च त्रि० विश्वः।
सितकण्ठ = पुंस्त्री० सितः कण्ठाऽस्य। दात्यूहे खगे स्त्रियां ङीष्।
सितकर = पु० सित ४ करः किरणो यस्य। १ चन्द्रे २ कर्पूरे चंराजनि० सितमयूखादयोऽप्यत्र।
सितकर्णी = स्त्री सितः कर्ण इव पुष्पमस्याः ङीप्। वासके राजनि०।
सितकुञ्जर = पु० सितः कुञ्जरोऽस्य १ इन्द्रे कर्म०। २ ऐरावतगजे
सितगुञ्जा = स्त्री कर्म०। श्वेतगुञ्जायाम् राजनि०।
सितच्छत्रा = स्त्री सित छत्रमिव पुष्पमस्याः। शतपुष्पायाम् अमरः
सितच्छद = पुंस्त्री० सितश्छदः पक्षो यस्य। १ हंमे हेसच० स्त्रियां ङीष्। २ श्वेतदूर्वायाम् स्त्री राजनि० टाप्।
सितदर्भ = पु० कर्म०। श्वेतकुशे राजनि०।
सितदीप्य = पु० दीपयत्यग्निम् दीप–णिच्–कर्त्तरि यत् कर्म०। श्वेतजीरके राजनि०।
सितदूर्वा = स्त्री कर्म०। श्वेतदूर्वायाम् रत्नमा०।
सितद्रु = पु० कर्म०। १ मोरटभेदे रत्नमा० २ शुक्लवंर्णवृक्षे च।
सितधातु = पु० कर्म०। १ कतिन्याम् (खडो) राजनि० २ श्वेतधातौ रौप्यादौ च।
सितपक्ष = पुंस्त्री० सितः पक्षोऽस्य। १ हंसे शब्दर० स्त्रियां ङीष्। कर्म०। चन्द्रस्य वृद्धिकारके पञ्चदशतिथ्यात्मके २ शुक्ले पक्षे।
सितपर्णी = स्त्री सितानि पर्णान्यस्याः ङीप्। अर्कपुष्पिकावृक्षे रत्नमा०।
सितपाटलिका = स्त्री कर्म०। (श्वेत्रपारुल) वृक्षे राजनि०।
सितपुङ्खा = स्त्री सितः पुङ्खोऽस्याः। श्व तशरपुङ्खावृक्षे राजनि०
सितपुष्प = न० सितानि पुष्पाण्यस्य। १ कैवर्त्तीमुस्तके जटा०। २ तगरवृक्षे पु० शब्दर० ३ काशे ४ श्वेतरोहितकवृक्षे च पु० राजनि०। ५ श्वेतापराजितायां स्त्री ङीप्। ६ मल्लिकायां स्त्री टाप्। कर्म०। ७ श्वेते पुष्पे न०।
सितमरिच = न० कर्म०। शुभ्रमरिचे राजनि०।
सितमाष = पु० नित्यक०। राजमाषे (वरवटी) हारा०।
सितरञ्जन = पु० सितमपि रञ्जयति रन्ज–णिच्–ल्युट्। १ पीतवर्णे हेमच० २ तद्वति त्रि०।
सितवर्षाभू = स्त्री वर्षासु भवति भू–क्विप् कर्म०। श्वेतपुनर्नवायाम् राजनि०।
सि(शि)तसायका = स्त्री सितः सायको यस्याः ५ ब०। शुभ्रशरपुङ्खावृक्षे राजनि०।
सितशिम्बिक = पु० सिता शिम्बिर्यस्य कप्। गोधूमे हेमच०
सितशूक = पु० सितः शुभ्रः शूको यस्य। यवे भरतः।
सितशूरण = पु० कर्म०। वनशूरणे (वनओल) राजनि०।
सितसर्षप = पु० कर्म०। गौरसर्षपे राजनि०।
सितसार(क) = पु० सितः सारो निर्यासो यस्य वा कप्। शालिञ्चशाके राजनि०।
सितसिन्धु = स्त्री नित्यक०। गङ्गायां शब्दर०।
सिता = स्त्री सों–क्त। १ शर्करायाम्। “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता। सिता सुमधुरा रुच्या बातपित्तास्रदाहहृत्। मूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी” राजव०। २ मल्लिकायां शब्दर० ३ श्वेतकण्टकारिकायां ४ वाकुच्यां ५ विदार्य्यां ६ श्वेतदूर्वायां ७ चन्द्रिकायां ८ कुटुम्बिन्यां ९ सुरायां १० पिङ्गायां ११ त्रायमाणलतायां १२ तेजन्यां राजनि० १३ पर्वतजातापराजितायां रत्नमा०।
सिताखण्ड = पु० सिताया इव खण्डः। मधुजातशर्करायाम् “मधुजा शर्करा रूक्षा कफपित्तहरी गुरुः। छर्द्यतीसारतृड्दाहरक्तहृत् तुवरा हिमा। यथा यथाऽस्या नैर्मल्यं मधुरत्वं तथा तथा। स्नेहलाघवशैत्यादि सरसत्वं तथा तथा” भावप्र०।
सि(शि)ताग्र = पु० सि(शि)तमग्रं यस्य। कण्टके हारा०।
सिताङ्क = पुंस्त्री० सिता सिकता अङ्को यस्य। वालुकागडे (वेलिया) मत्स्ये हारा० स्त्रियां ङीप्।
सिताङ्ग = पु० सितमङ्गं यस्य। श्वेतरोहिषे राजनि०।
सितादि = पु० सिताया आंदिः कारणम्। गुडे राजनि०।
सितापाङ्ग = पुंस्त्री० सितमपाङ्गं यस्य। मयूरे त्रिका० स्त्रियां ङीष्।
सिताब्ज = न० कर्म०। श्वेतकमले राजनि० सिताम्भोजादयोऽप्यत्र।
सिताभ = पु० सिता आभा यस्य। १ कर्पूरे रायमुकुटः २ चन्द्रे च ३ तक्रे स्त्री राजनि०।
सिताभ्र = पु० अभ्र इव सितः शुभ्रः राज०। कर्पूरे अमरः।
सिताभ्रक = न० अभ्रकमिव सितम् राज०। कर्पूर राजनि०।
सिताम्बर = पु० सितमम्बरं यस्य। १ श्वेतवस्त्रधारिणि व्रतिनि हला० २ श्वेतवस्त्रधारिमात्रे त्रि०।
सितार्जक = पु० नित्यकर्म०। श्वेततुलस्याम् राजनि०।
सितालक = पु० आलयति भूषयति अल–णिच्–ण्वुल् नित्य कर्म०। श्वेतमन्दारे राजनि०।
सितालता = स्त्री सिता सती आलतते आ + लत–अच्। श्वेतदूर्वायाम् रत्नमा०
सितालिकटभी = स्त्री सितेन शुभ्रवर्णेन अलति अल–इन् कर्म०। श्वेतकिणिहीवृक्षे राजनि०।
सितावर = पु० सितं श्वेततामावृणोति आ + वृ–अच् (सुसुनि) १ शाकभेदे २ वाकुच्यां स्त्री राजनि० ङीष्। “चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः। शाको जलान्विते देशे चतुष्पत्रीति चोच्यते” भावप्र०।
सितासित = पु० वर्णेन सितः वस्त्रेणासितः। १ बलदेवे राजनि० २ गङ्गायमुनयोः स्त्री द्वि० व०
सिताह्वय = पु० सितमाह्वयते आ + ह्वे–श। १ श्वेतशिग्रौ २ श्वेतरोहिते च राजनि०।
सिति = पु० सी–क्तिच्। १ शुक्लवर्णे २ कृष्णवर्णे च। २ तद्वति त्रि० रायमु०
सितिमन् = पु० सितस्य भावः इमनिच्। शुभ्रतायाम्। “सित सितिम्ना सुतरां मुनेर्वपुः” माघः।
सितिवार = पु० सितिं श्वेततां वृणोति वृ–अण्। सुनिषण्णके (सुसुनि) शाके भावप्र०।
सितिवासस् = पु० सिति कृष्ण वासोऽस्य। वलदेवे।
सितेतर = पु० सितादितरः। १ श्यामशालौ २ कुलत्थे च ३ शुभेतरवर्णे ४ तद्वति त्रि०।
सितेतरगति = पु० सितेतरा कृष्णा गतिरस्य। कृष्णवर्त्मनि वह्नौ हला०।
सितोदर = पु० सितमुदरमस्य। कुवेरे हेमच०।
सितोपल = पु० कर्म०। १ स्फटिके राजनि० कठिन्यां न० त्रिका०। ३ शर्करायां स्त्री हेमच०।
सिद्ध = न० सिध–क्त। १ सैन्धबलबणे राजनि० अकृत्रिमत्वातयात्वम् २ निष्पन्ने ३ पक्वे ४ नित्ये च त्रि० शब्दर०। सिद्धिरस्त्यस्य अच्। ५ व्यासादौ मुनौ ६ देवयोनिभदे च पु० अमरः तल्लोकश्च चन्द्रलोकादधःस्थो व्यामस्थितः यथोक्तं सू० सि० “मन्दामारज्यभूपुत्रसूर्य्यशुक्रेन्दुजेन्दवः। परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः” ७ निश्चिते त्रि० ८ विष्कम्भादिषु मध्ये द्वाविंशयोगे ज्यो० ८ गुडे १० कृष्णधुस्तूरे पु० राजनि०। ११ सूक्ते त्रि० हेमच० १२ व्यापारे पु० शब्दर० ज्यातिषाक्ते १३ योगिनीदशामध्ये सप्तम्यां दशायां स्त्री। दशाशब्द ३५०५ पृ० दृश्यम्। तन्त्रोक्ते अकथहचक्रस्थे साधक- नामाद्याक्षरयुक्तकोष्ठस्थाद्याक्षरयुक्ते १४ मन्त्रभेदे पु० अकथहशब्दे ३८ पृ० दृश्यम्। १५ घञादिवाच्ये क्रियाभेदे स्त्री १६ सिद्धियुते मन्त्रे पु० “मन्त्रसिद्धेरुपायश्च गौतमीये “पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते। उपायास्तत्र कर्त्तव्याः सप्त शङ्करभाषिताः। भ्रामणं रोघनं वश्यं पीडनं पोषशोषणम्। दहनान्तं क्रमात् कुर्य्यात् ततः सिद्धो भवेन्मनुः। भ्रामणं वायुवीजेन यथानुक्रमयोगतः। तन्मन्त्रं यन्त्र आ लिख्य सिह्लकर्पूरकुङ्कुमैः। उशीरचन्दनाभ्यान्तु मन्त्र संग्रथितं लिखेत्। क्षीराज्यमधुतोयानां मध्ये तल्लिखितं भवेत्। पूजनाज्जपनाद्धोमात् भ्रामितः सिद्धिदो भवेत्। भ्रामितो यदि नो सिद्धो रोधनं तस्य कारयेत्। सारस्वतेन वीजेन संपुटीकृत्य संजपेत्। एवं रुद्धे भवेत् सिद्धो न चेदेतद्वशीकुरु। अलक्तचन्दनं कुष्ठं हरिद्रामादनं शिला। एतैस्तु मन्त्रमालिख्य भूर्जपत्रे सुशोभने। धार्य्यं कण्ठे भवेत् सिद्धः पीडनं वास्य कारयेत्। अधरोत्तरयोगेन पदानि परिजप्य वै। ध्यायेच्च देवतां तद्वत् अधरोत्तररूपिणीम्। विद्यामादित्य दुग्धेन लिखित्वाक्रम्य चाङ्घ्रिणा। तथाभूतेन मन्त्रेण होमः कार्य्यो दिने दिने। पीडितो लज्जयाविष्टः सिद्धः स्यादथ पोषयेत्। बालायास्त्रितयं वीजमाद्यन्ते तस्य योजयेत्। गोक्षीरमधुनालिख्य विद्यां पाणौ विभावयेत्। पोषितोऽयं भवेत् सिद्धो न चेत् कुर्वीतशोषणम्। द्वाभ्यान्तु वायुवीजाभ्यां मन्त्रं कुर्य्याद्विदर्भिणम्। एषा विद्या गले धार्य्या लिखित्वा वर भस्मना। शोषितोऽपि न सिद्धः स्यात् दहनीयोऽग्निवीजतः। आग्नेयेन तु वीजेन मन्त्रस्यैकैकमक्षरम्। आद्यन्तमध ऊर्द्ध्वञ्च योजयेद्दाहकर्मणि। ब्रह्मवृक्षस्य तैलेन मन्त्रमालिख्य धारयेत्। कण्ठदेशे ततो मन्त्रः सिद्धः स्याच्छङ्करोदितम्। इत्येतत्कथितं सम्यक् केवलं तव भक्तितः। एकेनैव कृतार्थः स्याद् बहुभिः कुमु मुव्रते!” तन्त्रसारः।
सिद्धक = पु० सिद्ध इव इवार्थे कन्। १ सिन्धुवारे २ शालवृक्षे च राजनि०।
सिद्धगङ्गा = स्त्री सिद्धालोकस्था गङ्गा शाक०। मन्दाकिन्याम् जटा०।
सिद्धजल = न० सिद्धं पक्वं जलमत्र। १ काञ्जिके कम०। २ पक्वे जले सिद्धतोयादयोऽप्यत्र।
सिद्धदेव = पु० सिद्धानां पूज्यः देवः। महादेवे शब्दर०।
सिद्धधातु = पु० सिद्धः प्रसिद्धो धातुः। पारदे त्रिका०।
सिद्धपीठ = पुंन० कर्म०। “जातो लक्षबलिर्यत्र होमो वा कोटिसङ्ख्यकः। महाविद्याजपाः कोट्यः सिद्धपीठः प्रकीर्त्तितः” इति तन्त्रोक्ते १ स्थानभेदे पीठशब्दे ४३४२ पृ० दर्शिते २ स्थानभेदे च।
सिद्धपुर = न० कर्म०। “लङ्का कुमध्ये यमकोटिरस्याः प्राक, पश्चिमे रोमकपत्तनञ्च। अधोगतं सिद्धपुरञ्च” सि० शि० उक्ते भूगोलस्थेषु भूवृत्तपादान्तरितदेशस्थेषु चतुर्षु देवनिर्मितेषु पुरेषु मध्ये लङ्काधोभागस्थे पुरभेदे।
सिद्धपुष्प = पु० सिद्धप्रियं पुष्पं यस्य। करवीरवृक्षे राजनि०।
सिद्धप्रयोजन = पु० सिद्धं प्रयोजनं यस्मात् ५ ब०। गौरसर्षपे राजनि०। २ सिद्धाभीष्टे न०।
सिद्धमोदक = पु० तवराजोद्भवखण्डे राजनि०।
सिद्धरस = पु० सिद्धः प्रसिद्धो रसः। १ पारदे अमरः सिद्धो रसोऽत्र। २ धातुमात्रे त्रि० मेदि०।
सिद्धविद्या = स्त्री सिद्धा स्वतःसिद्धा विद्या मन्त्रो यस्याः। “काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” इति तन्त्रोक्तासु दशसु काल्यादिषु देवीषु।
सिद्धसाधन = न० सिद्धस्य निश्चितस्य साधनमनुमानम्। १ न्यायोक्ते सिषाधयिषाविरहकाले साध्यवत्त्वेन निश्चितस्य पुनरनुसानरूपे दोषे। सिद्धं साधयति ल्यु। २ श्वेतसर्षसे पु० राजनि०। सिषाधयिषासत्त्वे तु सिद्धस्यापि अनुमानं भवत्येव “प्रत्यक्षपरिकलितमप्यर्थमनुमानेन “बुभुत्सन्ते तर्करसिका” इति वाचस्पत्युक्तेः। तदसत्त्वे तु नानुमितिः “न हि करिणि दृष्टे चित्कारेण तमनुमिमतेऽनुमातारः” इति तस्यैव वचनान्तरात्। सिद्धेश्च यथाऽनुमितिविरोधित्वम् तथा सिद्धिशब्दे वक्ष्यते। संशयपक्षतावादिमते निश्चयेन संशयस्य प्रतिरोधात् पक्षताऽसम्भवेन नानुमितिरिति बाध्यम्। सिद्धसाधनञ्च पक्षताविघटकत्वेनाश्रयासिद्धावन्तर्भवतीति निग्रहस्थानान्तरमित्यन्ये।
सिद्धसाध्य = पु० अकथहशब्दोक्ते साधकनामाद्याक्षरयुक्तकोष्ठावधिद्वितीयकोष्ठस्थाद्याक्षरयुक्ते तन्त्रोक्ते मन्त्रभेदे अकथहशब्दे दृश्यम्।
सिद्धसिद्ध = पु० तन्त्रोक्ते अकथहशब्दोक्ते साधकनामाद्यक्षरयुक्तकोष्ठास्थिताद्याक्षरयुक्ते मन्त्रभेदे अकथहशब्दे दृश्यम्
सिद्धसिन्धु = स्त्री ६ त०। गङ्गायाम् त्रिका० सिद्धनद्यादयोऽप्यत्र
सिद्धसुसिद्ध = पु० तन्त्रोक्ते मन्त्रभेदे अकथहशब्दे दृश्यम्।
सिद्धान्त = पु० सिद्धः निश्चितोऽन्तो यस्मात्। प्रमाणाद्युपन्यासेन पूर्वपक्षनिरासके सिद्धपक्षस्य स्थापनरूपे १ वाक्यस्तोमे २ ज्योतिःशास्त्रभेदे च स च सूर्य्यसिद्धान्तः सोमसिद्धान्तादिः “त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाच्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः। भूधिष्ण्यग्रहसंस्थितेश्च कथनं यन्त्रादि यत्रोच्यते सिद्धान्तः स उदाहृतोऽत्र गणितस्कन्धप्रबन्धे बुधैः” सि० शि०। गौ० सूत्रोक्तसिद्धान्तलक्षणभेदो यथा “तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः” सू०। “सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्” सू०। “सर्वतन्त्राविरुद्धस्तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः” सू०। “समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः” सू०। “यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः” सू०। “अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः” सू०।
“तन्त्रं शास्त्रं तदेवाधिकरणं ज्ञापकतथा यस्य, तादृशस्य योऽभ्युपगमस्तस्य समीचोनतयाऽसंशयरूपतया स्थितिस्तथाच शास्त्रितार्थनिश्चयः सिद्धान्तः अत्र चाभ्युपगम्यमानोऽर्थः सिद्धान्त इति भाष्यम् “अभ्युपगमः सिद्धान्त इति वार्त्तिकटीका” न चात्र विरोधः शङ्कनीयः आचार्य्यैः परिहृतत्वाम् तथाच त्रिसूत्री निबन्धः अर्थाभ्युपगमयोर्गुणप्रधानभावस्व विवक्षातन्त्रत्वादर्थाभ्युपगमोऽभ्युपगम्यमानी वार्थः सिद्धान्तस्तेन सूत्रभाष्यवार्त्तिकटीकासु न विरोधः। अत्र च भाष्यानुसारात् सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तान्यतमः सिद्धान्त इति सूत्रार्थ इति तु न युक्तं अग्रिमसूत्रानुत्थानापत्तेः तन्त्रसिद्धान्तत्वेन द्वयमनुगमव्य तन्त्राधिकरणाभ्युपगमान्यतमः सिद्धान्त इति कश्चित्। विभजते। स चतुर्विध इति शेषः सर्वतन्त्रादिसंस्थितीनामर्थान्तरभावात् भेदादित्यर्थः। सर्वतन्त्रसिद्धान्तं लक्षयति। सर्वतन्त्राविरुद्धः सर्वशास्त्राभ्युपगत इति वहवः। वस्तुतो यथाश्रुत एवार्थः अन्यथा तन्त्रेऽधिकृत इत्यस्य वैयर्थ्यापत्तेरतएव च जात्यादेरसदुत्तरत्वमपि सर्वतन्त्रसिद्धान्तः न च तन्त्रेऽधिकृत इति स्पष्टार्थं लक्षणे तु न देयमेवेति वाच्यं मनस इन्द्रियत्वस्यापि सर्वतन्त्रसिद्धान्ततापत्तेः नव्यास्तु सूत्रस्योपलक्षणमात्रत्वाद्वाद्रिप्रतिवाद्युभप्याभ्युपगतः कथानुकूलोऽर्थः स इति वदन्ति। प्रतितन्त्रसिद्धान्तं लक्षयति। समानशब्द एकार्थस्तेनैकतन्त्र- सिद्ध इत्यर्थः स्वतन्त्र सिद्ध इति पर्य्यवसितोऽर्थः तथाच वादिप्रतिवाद्येकतरमाव्राभ्युपगतस्तदेकतरस्य प्रतितन्त्रसिद्धान्त इति फलितार्थः, यथा मीमांसकानां शब्दनित्यत्वम्। अधिकरणसिद्धान्तं लक्षयति “यस्यार्थस्य सिद्धौ जायमानायामेवान्यस्य प्रकरणस्य प्रस्तुतस्य सिद्धिर्भवति सोऽधिकरणसिद्धान्त इत्यर्थः यथा तद् द्व्यणुकादिकं पक्षीकृत्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वे साध्यमाने सर्वज्ञत्वमीशस्य, एवं हेतुवलादपि यथा दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिन्द्रियादिव्यतिरिक्त आत्मनि साधिते इन्द्रियनानात्वं तथा च यदर्थसिद्धिं विना योऽर्थः शब्दादनुमानाद्वा न सिध्यति सोऽधिकरणसिद्धान्त इति। वस्तुतस्तु शाब्दत्वमनुमानत्वं चाविवक्षितं प्रमाणमात्रमपेक्षितम् अतएव प्रत्यक्षेण स्थूलत्वसाधनानन्तरमुक्तमात्मतत्त्वविवेके “सोऽयमधिकरणसिद्धान्तन्यायेन स्थूलत्वसिद्धौ क्षणभङ्गभङ्ग इति” तत्र च वाक्यार्थसिद्धौ तदनुषङ्गी यो यः सोऽधिकरणसिद्धान्त इति वार्त्तिकफक्किकां लिखित्वा येन केनापि प्रमाणेन वाक्यार्थसिद्धौ जन्यमानायां योऽन्यार्थः सिध्यति स तथेत्यर्थः इति व्याख्यातं दीधितिकृता। एवं हेतुरीदृशः पक्षश्च वाक्यार्थ इति टीकावचने च उपलक्षणमेतदित्युक्तं तत्र तत्र विशिष्यैव लक्षणं कार्य्यम्। यत्तु जनकीभूतव्यापकताज्ञाने व्यापककोटावेव विषयः प्रकृतानुमित्या व्यापककोटौ विषयीकृतः शब्दजनकपदार्थज्ञानविषयत्वे सति शाब्दविषयश्चेति द्वयमधिकरणसिद्धान्त इति तन्न इन्द्रियनानात्वादौ भाष्याद्युदाहृतेऽव्याप्तेरिति। अभ्युपगमसिद्धान्तं लक्षयति। अपरीक्षितस्य साक्षादसूत्रितस्य विशेषपरीक्षणं विशेषधर्मकथनम्। अभ्युपगमादिति ज्ञापकत्वे पञ्चमी अभ्युपगमज्ञापकमित्यर्थः विशेषपरीक्षणाज्ज्ञायते सूत्रकृतोऽभ्युपगतमिदमिति तथाच साक्षादसूत्रिताभ्युपगमोऽभ्युपगमसिद्धान्तः यथा मनल इन्द्रियत्वमिति” वृत्तिः। तथाच सिद्धस्यान्तः संस्थितिः सिद्धान्तः संस्थितिश्च इत्थम्भावव्यवस्था। तत्र तन्त्रसंस्थितिस्तन्त्रार्थसंस्थितिः। अधिकरणसंस्थितिरधिकरणानुषक्तार्थसंस्थितिः। अभ्युपगमसंस्थितिरनवधारितार्थपरिग्रहे तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः वात्स्या० भाष्ये दृश्यम्। प्रामाणकित्वेनाभ्युपतोऽर्थः सिद्धान्त इत्यन्ये। मीमांसकोक्ते पञ्चावयवयुक्ताधिकरणाङ्गे ३ चरमेऽङ्गे अधिकरणशब्दे १२६ पृ० दृश्यम्।
सिद्धान्ताचार = पु० “आत्मानं देवतां मत्वा यजेद्देवञ्च मानसैः। सदा शुद्धः सदा शान्तः सिद्धान्ताचार उच्यते” तन्त्रोक्ते आचारभेदे।
सिद्धारि = पु० तन्त्रोक्ते साधकनामाद्याक्षरयुक्तकोष्ठावधिचतुर्थकोष्ठस्थाद्याक्षरयुक्ते मन्त्रभेदे अकथहशब्दे ३८ पृ० दृश्यम्।
सिद्धार्थ(क) = पु० सिद्धः अर्थो यस्मात् ५ ब० वा कप्। १ श्वेतसर्षपे अमरः। २ वटीवृक्षे च राजनि०। ६ ब०। ३ प्रसिद्धार्थे त्रि०। “सिद्धार्थं सिद्धसम्बन्धम्” इति प्राञ्चः। ४ शाक्यसिंहे पु० मेदि० ५ जिनभेदमातरि स्त्री हेमच०।
सिद्धि = स्त्री सिध–क्तिन्। १ऋद्धिनामौषधे अमरः। २ योगभेदे ३ अन्तर्द्धाने ४ निष्पत्तौ ५ पाके ६ पादुकायाम् ७ वृद्धौ मेदि० ८मोक्षे हेमच० ९ सम्पत्तौ धरणिः १० अणिमाद्यष्टविधैश्वर्य्ये ११ बुद्धौ शब्दच० १२ साध्यवत्तया निश्चये च। १३ सांख्योक्ते ऊहादिके सिद्धिहेतुभेदे “ऊहादिभिः सिद्धिः” सां० सू०। “ऊहादिभैदैः सिद्धिरष्टधाभवतीत्यर्थः। इदमपि सूत्रं कारिकया व्याख्यातम्। “ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः। दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः” इति। “अस्वा अयमर्थः। अत्राध्यात्मिकादिदुःखत्रयप्रतियोमिकत्वात् त्रयो दुःखविघातामुख्यसिद्धयः। इतरास्तु तत्साधनत्वाद्गौण्यः सिद्धयः। तत्रोही यथा उपदेशादिकं विनैव प्राग्भवीयाभ्यासभ्यासवशात् तत्त्वस्य स्वयमूहनमिति। शब्दस्तु यथा अन्यदीयपाठमाकर्ण्य स्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तदिति। अध्ययनं यथा शिष्याचार्य्यभावेन शास्त्राध्ययनाज्ज्ञानमिति। सुहृत्प्राप्तिर्यथा। स्वयमुपदेशार्थं गृहागतात् परमकारुणिकाज्ज्ञानलाभ इति। दानं यथा धनादिदानेन परितोषिताज्ज्ञानलाभ इति। एषु च पूर्वस्त्रिविध ऊहशब्दाध्ययनरूपो मुख्यसिद्धेरङ्कुश आकर्षकः। सुहृतप्राप्तिदानयोरूहादित्रयापेक्षया मन्दसाधनत्वप्रतिपादनायेदमुक्तम्। कश्चित्त्वेतासामष्टसिद्धीनामङ्कुशो निवारकः पूर्वस्त्रिविधो विपर्य्ययाशक्तितृष्टिरूपो भवति बन्धकत्वादिति व्याचष्टे तन्न। तुष्ट्यभावस्याशक्तितया बाधिर्य्यादिवत् सिद्धिविरोधितालाभेन तुष्ट्यतुष्ट्योः सिद्धिविरोधित्वासम्भवात्। ननूहादिभिरेव कथं सिद्धिरुच्यते मन्त्रतपःसमाध्यादिभिरप्यणिमाद्यष्टसिद्धेः सर्वशास्त्रसिद्धत्वादिति तत्राह” भा०। “नेतरा- दितरहानेन विना” सू०। “इतरादूहनादिपञ्चकभिन्नात्। तप आदेस्तात्त्विकी न सिद्धिः कुत इतरहानेन वि ना यतः सा सिद्धिरितरस्य विपर्ययस्य हानं विनैव भवत्यतः संसारापरिपन्थित्वात् सा सिद्व्याभास एव न तु तात्त्विकी सिद्धिरित्यर्थः। तथा चोक्तं योगसूत्रेण। “ते समाघावुपसर्गाव्युत्थाने सिद्धयः” इति प्र० भाष्यम्। पात० सू० भाष्ययोश्च एकत्र विषयविशेषे धारणाध्यानसमाधित्रयरूपसंयमविशेषात् कतिचित् सिद्धयो दर्शिताः यथा “परिणामत्रयसयमादतीतानागतज्ञानम्” सू०। “धर्मलक्षणावस्थापरिणामेषु सयमात् योगिनां भवत्यतोतानागतज्ञानं धारणाध्यानसनाधित्रयमेकत्र संयम उक्तस्तेन परिणामत्रयं साक्षात्क्रियमाणमतीतानागतज्ञानं सम्पादयति” भा०। “शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्करस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्” सू०। “सस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्” सू०। “प्रत्ययस्य परचित्तज्ञानम्” सू०। “कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगेऽन्तर्द्धानम्” सू०। “सोपक्रमं निरुपक्रमञ्च कर्म ततसंयमादपरान्तज्ञानमरिष्टेभ्यो वा” सू०। “मैत्र्यादिषु बलानि” सू०। “बलेषु हस्तिबलादीनि” सू०। “प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्” सू०। “भुवनज्ञानं सूर्य्ये संयमात्” सू०। “चन्द्रे ताराव्यूहज्ञानम्” सू०। “ध्रुवे तद्गतिज्ञानम्” सू०। “नाभिचक्रे कायव्यूहज्ञानम्” सू०। “कण्ठकूपे क्षुत्पिपासानिवृत्तिः” सू०। “कूर्मनाड्यां स्थैर्य्यम्” सू०। “मूर्द्धज्योतिषि सिद्धदर्शनम्” सू०। “प्रातिभाद्वा सर्वम्” सू०। “हृदये चित्तसंवित्” सू०। “सत्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात् स्वार्थसंयमात् पुरुषज्ञानम्” सू०। “ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” सू०। “ते समाधावुपसर्गाव्युत्थाने सिद्धयः” सू०। “बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः” सू०। “उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च” सू०। “समानजयाज्ज्वलनम्” सू०। “श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम्” सू०। “कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्” सू०। “वहिरकल्पिता वृत्तिर्महाबिदेहा ततः प्रकाशावरणक्षयः” सू०। “स्थूलस्वरूपसूक्ष्मान्वयाथवत्त्वसंयमाद्भूतजयः” सू०। “ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्च” सू०। “रूपलावण्य बलवजमहननत्वानि कायसम्पत्” सू०। “ग्रहणस्वरूपाऽस्थितान्व- यार्थवत्त्वसंयमादिन्द्रियजयः” सू०। “ततो मनोजयित्वं विकरणंभावः प्रधानजयश्च” सू०। “परिणामत्रयसयमादतीतानागतज्ञानम्” इत्यादिकैः “ततः प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्यन्तसूत्रैरुक्तानां सिद्धीनां समाधावुपसर्गत्वं व्युत्त्थाने सिद्धित्वमाह “ते समाधावुपसर्गावत्थाने सिद्धयः” सू०। ते प्रातिभादयः समाहितचित्तस्योत्पद्यमानाः उपसर्गास्तत्त्वदर्शनप्रत्यनीकत्वात्। व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः” भा०। एवमग्रे वक्ष्यमाणाः ततोऽणिमादिप्रादुर्भाव इत्यादयोऽपि सिद्धयो व्युत्थानदशायामेव समाधौ तूपसर्गा एव हेतोरविशेषात्। एवमन्या अपि सिद्धयः कैवल्यपादे दर्शिता यथा “जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः” सू०। “देहान्तरिता जन्मना सिद्धिः ओषधिभिरसुरभवने रसायनेनेत्येवमादि। मन्त्रैराकाशगमनाणिमादिलाभः तपसा सङ्कल्पसिद्धिः कामरूपी यत्र तत्र कामग इत्येवमादि समाधिजाः सिद्धयोः व्याख्याताः” भा० तासाञ्च यथाऽन्यथापरिणामहेतुत्वं तथा परसूत्रैस्तत्र समर्थितम्”। तन्त्रोक्तमन्त्रसिद्धिलक्षणं च तन्त्रसा० उक्तं यथा “मनोरथानामक्लेशः सिद्धिरुत्तमलक्षणा। मृत्योश्च हरणं तद्वत् देवतादर्शनं तथा। प्रयोगेऽक्लेशतः सिद्धिः सितेस्तु लक्षणं परम्। परकायप्रवेशश्च पुरप्रवेशनं तथा। ऊर्द्ध्वोत्क्रमण एवं हि चराचरपुरे गतिः। खेचरीमेलन चैव तत्कथाश्रवणादिकम्। भूच्छिद्राणि प्रप श्येत्तु तद्वदुत्तमलक्षणम्। ख्यातिर्वाहनभूषादिलाभः सुचिरजीवनम्। भूपानां तद्गणानाञ्च वशीकरणमुत्तमम्। सर्वत्र सर्वलोकेषु चमत्कारकरी सुधीः। रोगोपहरणं दृष्ट्या विषापहरणं तथा। पाण्डित्यं लभते यन्त्री चतुर्विधमयत्नतः। बैराग्यञ्च मुमुक्षुत्वं त्यागितां सर्ववश्यताम्। अष्टाङ्गयोगाभ्यसनं भोगेच्छापरिवर्जनम्। सर्वभूतेष्वनुकम्पा सार्वज्ञ्यादिगुणोदयः। इत्यादि गुणसम्पत्तिर्मध्यसिद्धेस्तु लक्षणम्। महैश्वर्य्यं धनित्वं च पुत्रदारादिसम्पदः। अधमाः सिद्धयः प्रोक्ता मन्त्रिणामाद्यभूमिका। सिद्धमन्त्रस्तु यः साक्षात् स शिवो नात्र संशयः।
आध्यवत्तानिश्चयरूपसिद्धिस्तु असत्यामनुनितीच्छायां कामिनीजिज्ञामाटिवत् अनुमितेः पृथक् प्रतिबन्धिका अनुमित्सा तु तत्रोत्तेजिका। “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते। स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” भाषा०। सिद्धिश्च पक्षतावच्छेदकसामान्यावगाहिनी पक्षतावच्छेदकावच्छिन्नयत्किञ्चिद्धर्मावगाहिनी च तत्रावच्छेदाच्छेदेनानुमितिं प्रति अववच्छेदावच्छेदेन सिद्धिर्विरोधिनी न सामानाधिकरण्येन सिद्धिः। समानाधिकरण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधीति विवेकः। संशयपक्षतावादिमते पक्षताविघटकत्वेन सिद्धेर्विरोधितेति विशेषः। १४ दक्षकन्याभेदे वह्निपु०।
सिद्धिद = पु० सिद्धि ददाति दा–क। वटुकभैरवे। २ सिद्धिदातरि त्रि०।
सिद्धियोग = पु० “शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता, कुजे जया। गुरौ पूर्णा च सयुक्ता सिद्धियोगः प्रकीर्त्तितः” ज्योतिषोक्ते शुक्रादिवारयुक्तनन्दादितिथौ।
सिद्धिस्थान = न० तीर्थभेदे। “अतःपरं प्रवक्ष्यामि सिद्धिस्थानानि यानि तु। यस्मिन्नाराधिता देवी क्षिप्रं भवनि सिद्धिदा। तुङ्गारं शतशृङ्गञ्च त्रिकूटं पर्वतं तथा विन्ध्या गङ्गा सरिद् यत्र रेवातीरमथापि वा। पयाष्णी असुराख्या तु अथ वा मण्डलेश्वरे। शङ्करेश्वररामेशे अथवा अमरेश्वरे। वेत्रवत्यास्तटे रम्ये हरिश्चन्द्रे तथा पुरे। सरस्वतीतटे पुण्ये सुगन्धायतनेऽपि वा। स्थानेव्वेषु जर्प कर्य्यात् नन्दाहे कृतमानसः। भैरवं शूलभेदञ्च चण्डीश स्त्रिपुरान्तकम्। अष्टचक्रं चक्रोच्छासं कपालाक्षाग्रनामकम्। अजाविकं खरोष्ट्राख्यं स्थानान्थेतानि वर्जयेत्” देवीपु०।
सिद्धेश्वरी = स्त्री देवीविशेषे। “सिद्धां सिद्धेश्वरीं सिद्ध विद्याधरगणैर्युताम्। मन्त्रसिद्धिप्रदां योनिसिद्धिटां लिङ्गशोनिताम्” मुण्डमालात० ११ पटले। “कृष्णेन बलभद्रेण गोपैः कसजिघांसुभिः। सङ्केतकं कृतं तत्र मन्त्रनि कारकम्। तदा सङ्केतकैः सा च सिद्धा देवी प्रतिष्ठित। सिद्धिप्रदा भोगदा च तेन सिद्धेद्वरोस्मृता। सङ्केतकेश्वरीञ्चैव दृष्ट्वा सिद्धिमवाप्नुयात्” इति वाराहपु०।
सिद्धौघ = पु० ६ त०। तारादेव्याः पूजान्ते पूज्ये गुरुभेदे “दिव्यौघाः सिद्धिदा वत्स! सिद्धौघान् शृणु यत्नतः। वसिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः। हरिनाथो, मानवौघान् शृणु वक्ष्यामि तद्गुरून” तन्त्रमा०।
सिध्म = न० सिध–मन् किच्च। किलासरोगे हेमच०।
सिध्मन् = न० सिध–मनिन् किच्च। १ किलासरोगे अमरः २०५५ पृ० किलासलक्षणादि दृश्यम्।
सिध्मल = त्रि० सिध्मन् + अस्त्यर्थे लच्। १ किलासरोगवति अमरः। २ मीनविकारे स्त्री हेमच०।
सिध्य = पु० कार्य्यं साधयति सिध–णिच्–कर्त्तरि यत् नि०। पुष्यनक्षत्रे अमरः
सिध्र = पु० सिध–रक्। १ साधौ २ वृक्षे च उणा०।
सिध्रक = पु० सेधति रोगान् सिध–रक् स्वार्थे क। वृक्षभेदे “वनगिर्य्योः” पा० इत्यादिसूत्रेण सिध्रकशब्दस्य पाणिनिना दीर्घस्य विधानात् पुंस्त्वमेवास्य युक्तम् अमरोक्तं स्त्रीत्वन्त्वपाणिनीयम्।
सिध्रकावण = न० सिध्रकप्रधानं वनं णत्वम् दीर्घश्च। देवोद्याने त्रिका०।
सिन = पु० सीयते वध्यते सि–क्त ग्रासे तस्य नः। १ ग्रामे तस्य बद्धत्वात्तथात्वम्।
सिनी = स्त्री सित + ङीप् तस्य नश्च। शुक्लवर्णयुतस्त्रियाम् व्याडिः
सिनीवाली = स्त्री सिनीं श्वेतां चन्द्रकलां वलति धारयति बल–अण् ङीप्। १ चतुर्दशीयुक्तायाममावास्यायाम् अमरः। कुहूशब्दे २१६२ पृ० दृश्यम्। २ दुर्गायां मेदि०।
सिन्दु(न्धु)क = पु० स्यन्दते स्यन्द–उ संप्रसारणञ्च पृषो० दस्य वा धः स्वार्थे वा क। सिन्दुवारवृक्षे अमरः (न्धु)मध्यस्तत्रार्थे शब्दर०।
सिन्दु(न्धु)वार = पु० सिन्धुं गजमदं वारयति तिक्तत्वात् वृअण्। १(निसिन्दा) वृक्षे अमरः “मुक्ताकलापीकृतसिन्धुवारम्” कुमारः। तस्य च श्वेतपुष्पत्वात् मुक्तातुल्यत्वम्। पृषो० न्धुमध्यस्तत्रार्थे रत्नको० २ हयोत्तमे त्रिका०।
सिन्दूर = न० स्यन्द–ऊरन् संप्रसारणम्। स्वनामख्याते रक्तवर्णे १ चूर्णभेदे अमरः २ वृक्षभेदे पु० मेदि०। “सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम्। संयोगजपभावेन तस्याप्यन्ये गुणाः स्मृताः। सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम्। भग्नसन्धानजननं व्रणशोधनरोपणम्” “दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदितो बुधैः” भावप्र०। भर्तुरायुर्वृद्धये सधषया तद्धारणस्यावश्यकता यषोक्तं काशीख० ४ अ० “हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा। कुर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम्। कशसस्कारकवरीकरकर्णविभूषणम्। भर्तुरायुष्यमिच्छन्ती दीरयेच्च पतिव्रता”।
सिन्दूरकारण = न० कृत०। सोसके हेमच०।
सिन्दूरातलक = पुंस्त्री० सिन्दूरवर्णास्तबकश्चिह्नगेदो यस्य। १ हस्तिनि मेदि० स्त्रियां ङीष्। २ सधवायाम् स्त्री।
सिन्दूरी = स्त्री सिन्दूरं नद्वर्णोऽस्त्वस्याः अच गौरा०। ङीष्। १ रोचन्यां २ धातक्याश्च मेदि०।
सिन्धु = पु० स्यन्द–उ सम्प्रसारणं दस्य धश्च। १ समुद्रे अमरः २ रक्तचेलिलतायां ३ नदभेदे मेदि० ४ गजमदे हेमच०। ५ सिन्धुवारवृक्षे शब्दच०। ६ श्वेतटङ्कणे राजनि०। ७ रागभेदे सङ्गीत०। ८ नद्यां स्त्री मेदि० ९ नदीभेदे राजनि०। “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नम्। जलं निर्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि० तज्जलगुणाः। १० नैरृतीस्थे देशभेदे पु० कूर्मविभागशब्दे २१६ ८ पृ० दृश्यम्। सोऽभिजनोऽस्य तस्य राजा वा अण्। सैन्धव पित्रादिक्रमेण तद्देशवासिनि तन्नृपे च। बहुषु अणो लुक्।
सिन्धुकफ = पु० सिन्धोः कफ इव। समुद्रफेने शब्दर०।
सिन्धुकर = न० सिन्धुदेशे कीर्य्यते क्रियते वा कृ–कॄ–वा अप्। श्वेतष्टङ्कणे राजनि०।
सिन्धुखेल = पु० सिन्धुसमीपे खेलति खेल–अच्। सिन्धुदेशे शब्दर०।
सिन्धुज = न० सिन्धुदेशे समुद्रे वा जायते जन–ड। १ सैन्धवलवणे अमरः २ चन्द्रे ३ कर्पूरे पु०। ४ लक्ष्म्यां स्त्री जटा० सिन्धुजातादयोऽप्यत्र।
सिन्धुनन्दन = पु० ६ त०। १ चन्द्रे २ कर्पूरे त्रिका०। सिन्धुसुतादयोऽप्यत्र। ३ लक्ष्म्यां स्त्री।
सिन्धुपुष्प = पु० सिन्धौ पुष्प्यति विकाशते पुष्प–अच् शङ्खेशब्दच०।
सिन्धुमन्थज = न० सिन्धुमन्थात् जायते जन–ड। १ सैन्धवलवणे रत्नमा० २ अमृते च।
सिन्धुर = पुंस्त्री० सिन्धुर्मदजलमस्यास्ति र। हस्तिनि हेमच० स्त्रियां ङीष् “मदान्धसिन्धुरघटा” गङ्गास्तवः।
सिन्धुलवण = न० सिन्धुदेशजातं लवणम्। सैन्धवलवणे रत्नमा०
सिन्धुवारित = पु० सिन्धुः मदजलं वारितस्तिरस्कृतो येन अतितिक्तत्वात्। सिन्ध्रुवारवृक्षे। (निसिन्दा) शब्दर०।
सिन्धुवेषण = पु० विष–ल्यु ६ त०। गाम्भारीवृक्षे शब्दच०।
सिन्धुसङ्गम = पु० सिन्ध्वोः नद्योः नदीसमुद्रयोर्वा सङ्गमः। १ नद्याः नदीसमुद्रयोर्वा मेलने अमरः। स यत्र। २ तदाधारदेशे त्रि०।
सिन्धूद्भव = न० सिन्धोः उद्भवति उद् + भू–अच् ५ त०। सैन्धवलवणे रत्नमा० २ समुद्रजातमात्रे त्रि०।
सिन्धूपल = पु० सिन्धोरुपल इव। १ सैन्धवलवणे हारा०। क्लीवमित्यन्ये।
सिप्र = पु० सप–रक् पृषो०। १ सरोवरभेदे २ चन्द्रे त्रिका० ३निदाघजले ४ घर्म च पु० मेदि०। ५ उज्जयिनीसमीपस्थे नदीभेदे स्त्री मेदि० “सिप्रातरङ्गानिलकम्पितासु” रघुः। वसिष्ठारुन्धत्योर्विवाहप्रसृतजलस्य सिप्रसरसि मेलनात् सिप्राप्रादुर्भावो यथा “तत्तोयं सप्तधा भूत्वा पतितं मानसाचलात्। हेमाद्रेः कन्दरे सानौ सरस्याञ्च पृथक् पृथक्। तत्तोयं पतितं सिप्रे देवभोग्ये सरोवरे। तेन सिप्रा नदी जाता विष्णुना प्रेरिता क्षितिम्” कालिपु० २३ अ०।
सिम = पु० सि–मन् किच्च। सर्वस्मिन् इत्यर्थे। तदर्घेऽस्य सर्वनामता।
सिम्बा(म्बि) = स्त्री शाम्यति वृद्धिरनया शम–अच् इन् वा पृषो०। (छुटि) १ शिम्बायाम् द्विरूपको० इनन्तः। २ नखीनामगन्धद्रव्ये राजनि० वा ङीप्। ङीबन्तः। ३ निष्पाव्यां भावप्र०।
सि(शि)म्बिजा = स्त्री सि(शि)म्बेर्जायते जन–ड। शमीधान्ये कलायादौ भावप्र०।
सिर = पु० सि–रक्। १ पिप्पलीमूले हेमच०। २ नाड्याम् ३ अम्बुवाहिन्याञ्च स्त्री हेमच०।
सिल्लकी = स्त्री सि–क्विप् लक–अच् गौरा० ङीष् कर्म०। सल्लकीवृक्षे भरतः।
सिवर = पुंस्त्री० सि–क्वरप्। गजे जटा० स्त्रियां ङीष्।
सिहुण्ड = पु० सो–कि सिः छेदस्तं हुण्डते कण्टकावृतत्वात् हुडि–अण्। स्नुहीवृक्षे शब्दर०।
सिह्ल = पु० स्निह–लक् पृषो०। वृकधूपाख्ये गन्धद्रव्ये अमरः स्वार्थे क तत्रैव।
सिह्लकी = स्त्री स्निह–लकक् पृषो० गौरा० ङीष्। सल्लकीवृक्षे शब्दर०।
सिह्लभूमि = स्त्री सिह्लस्य गन्धद्रव्यस्य भूमिः। सल्लकीवृक्षे शब्दर०।
सीक = सेचने भ्वा० आ० सक० सेट्। सीकते असेकिष्ट। ऋदित् चङि न ह्रस्वः। पर्युदासेन न गोपदेशः।
सीक = स्पर्शे वा चु० उभ० पक्षे भ्वा० प० सक० सेट्। सीकयति ते सीकति असीसिकत् त असीकीत्। पर्य्युदासान्न षोपदेशः।
सीकर = पु० सीक्यते सिच्यतेऽनेन सीक–अरन्। जलकणे भरतः।
सीता = स्त्री सि–त पृषो० दीर्घः। १ लाङ्गलपद्धतौ अमरः २ जनकराजदुहितरि ३ भद्राश्ववर्षस्थितगङ्गायाञ्च। “अथ मे कर्षतः क्षेत्रं लाङ्गलादुत्थिता ततः। क्षेत्रं शोधयता लब्धा नाम्ना सीतति विश्रुता। भूतलादुत्थिता सा तु व्यवर्द्धत ममात्मजा” रामा० बाल० “अथ लोकेश्वरो लक्ष्मीर्जनकस्य पुरे खतः। शुभक्षेत्रे हलोत्खाते तारे चोत्तरफाल्गुने। अयोनिजा पद्मकरा वालार्कशतसन्निभा। सीतामुखे समुत्पन्ना बालभावेन सुन्दरी। सीतामुखोद्भवात् सीता इत्यख्या नाम चाकरोत्” पद्मपु०। भद्राश्ववर्षनदीभेदश्च स्वर्गगङ्गाया धारामेदः जम्बुद्वीपशब्दे ३०४६ पृ० दृश्यः। ४ सक्ष्म्याम् ५ उमायां ६ सस्याधिदेवतायां नानार्थमञ्जरी। ७ गदिरायां राजनि०।
सीतापति = पु० ६ त०। श्रीरामे शब्दर०।
सीतायाःपति = पु० ६ त० अलुक्समा०। श्रीरामे शब्दर०। “सीतायाः पतये नमः” इति पुराणम् असमस्तत्वे पत्ये इत्येव स्यात्।
सीत्कार = पु० सीदित्यव्यक्तस्य कारः सीत् + कृ–घञ्। अनुरागजे शब्दे।
सीत्कृत = न० सीत् + कृ–भावे क्त। १ सीत्कारे २ अनुरागजशब्दे हेमच०।
सीत्य = न० सीतया लाङ्गलपद्धत्या निर्वृत्तं यत्। १ धान्ये हेमच०। सीतामर्हति यत्। २ हलकर्षणयोग्ये क्षेत्रादौ त्रि०
सीधु = पु० सिध–उ पृषो०। १ मद्ये २ मद्यभेदे च “इक्षोः पक्वै रसैः स्निग्धः सीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुः (सेरका) स च शीतरसः स्मृतः। सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत्। वातपित्तकरो हृद्यः स्नेहनो रोचनो हरेत्। विबन्धमेदशोफार्शःशाफोदरकफामयान्। तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः” राजनि०।
सीधुगन्ध = पु० सीधोरिव गन्धाऽस्य वा न इत्समा०। बकुले शब्दर०।
सीधुपुष्प = पु० सीधुगन्धयुक्तं पुष्पमस्य। १ कदम्बे २ बकुले च ३ धातक्यां स्त्री राजनि० ङीष्।
सीधुरस = पु० सीधोरिव रस आस्वादोऽस्य। आम्रवृक्षे राजनि०
सीमन्त = पु० सीम्नोऽन्तः शक०। १ केशान्तर्गतवर्त्माकारे पदार्थे (सि~ति) हेमच० २ केशरचनाभेदे। “षष्ठेऽष्टमे वा सीमन्त” इत्युक्ते गर्भावधिके षष्ठे अष्टमे वा मासि कर्त्तव्ये ३ गर्भसंस्कारभेदे च सीमन्तोन्नयनशब्दे दृश्यम्।
सीमन्तक = न० सीमन्ते कायति कै–क। १ सिन्दूरे राजनि०
सीमन्तिनी = स्त्री सीमन्त + अस्त्यर्थे इनि। नार्य्याम् अमरः।
सीमन्तोन्नयन = न० सीमन्तस्य केशरचनाभेदस्य उन्नयनम् उत्तोलननत्र। स्मनामख्याते गर्भसंस्कारभेदे। तत्कालादि संस्कारत० दर्शितं यथा “यदि पुंसवनं न कृतं तदा तस्मिन्नेव दिने प्रायश्चित्तात्मकमहाव्यहृतिहोमं कृत्वा पुंसवनं कृत्वा सीमन्तोन्नयनं कार्य्यम्। तथा च नारदः “येषान्तु न कृताः पूर्वं संस्कारविधयः क्रमात्। कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात्। अविद्यमाने पित्र्यर्थे स्मांशादुहृत्य वा पुनः। अवश्यकार्य्याः संस्काराभ्रातृभिः पूर्वसंस्कृतः”। क्रमात् भ्रातॄणां संस्काराणाञ्च पौर्वापौर्य्यक्रमात् भ्रातृ- क्रमस्तु सोदरविषयः विवाहे तथा दर्शनात्। छन्दोगपरिशिष्टम् “देवतानां विपर्य्यासे जुहोतिषु कथं भवेत्। सर्वं प्रायश्चित्तं कृत्वा क्रमेण जुहुयात् पुनः। संस्कारा अतिपत्येरन् स्वकालाच्च कथञ्चन। हुत्वैतदेव कुर्वीत ये तूपनयनादधः”। एतदित्यनेन सर्वं प्रायश्चित्तमनुकृष्टं तच्च प्रागेव विवृतम्। उभयकरणे तन्त्रेणैव मातृकापूजादि “गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत्। सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु” इति छन्दोगपरिशिष्टात् गोभिलः “अथ सीमन्तकरणं प्रथमे गर्भे चतुर्थे मासि षष्ठेऽष्टमे वा”। अथ पुंसवनातन्तरं सीमन्तः केशरचनाविशेषः। वाशब्दैक्यान्नचतुर्थादिमासानां तुल्यवद्विकल्पः किन्तु पूर्वः पूर्वः कालः प्रशस्तः “समर्थस्य क्षेपायोगादिति” न्यायात्। ततो नवममासादौ प्रायश्चित्तं कृत्वैव कर्त्तव्यम् प्रथमगर्भ इत्युपादानात् यदि कथञ्चिदकृत एतस्मिन् संस्कारे गर्भनाशे पुनर्गर्भोत्पत्तौ अयं कालनियमो न किन्तु “गर्भस्पन्दने सीमन्तोन्नवनं यावन्न बालप्रसवः” इति शङ्खलिखितोक्तकालो ग्राह्यः। वृहद्राजमार्त्तण्डे “या नार्य्यकृतसीमन्ता प्रसूते च कथञ्चन। अङ्के निधाय तं बालं पुनः संस्कारमहंति”। “षष्ठे मासेऽष्टमेऽह्नीज्यकुजदिनकृतां नन्दभद्रे तिथो च मैत्रे १७ मूले मृगाङ्के ५ कर १३ पितृ १० पवने १५ पौष्ण २७ विष्णु २२ त्रियुग्मे ११। १२। २०। २१। २५। २६। पुव्याश्वादित्य ७ रौद्रे ६ युवतिहरिझषे वृश्चिके वापि लग्ने चन्द्रे तारानुकूले शुभमपि नियतं स्याच्च सीमन्तकर्म। मृगाजरहिते लग्ने नवांशे पुंग्रहस्य च। केचिद्वदन्ति सीमन्तं तथारिक्तेतरे तिथौ”। अथ सीमन्तमूर्द्ध्वं नयत्यत्रेति गोभिलोक्तेरस्यात्वर्थता।
सीमन् = स्त्री सि–इमनि पृषो० न गुणो दीर्घश्च। १ मर्य्यादायाम् अवधौ जटा० २ स्थितौ ३ क्षेत्रे ४ अण्डकोषे मेदि०। “मीम्नि पुष्यलकोहतः” सि० कौ० ५ बेलायाञ्च विश्वः।
सीमा = स्त्री + सीमन् + वा ढाप्। १ मर्य्यादायां २ ग्रामादेरन्त मागे ३ सीमन्शब्दार्ये च।
सीमाविवाद = पु० सीमायां विवादः। अष्टादशसु विवादेषु सध्ये स्वनामख्याते विवादभेदे तत्स्वरूपादिकं वीरमि० दर्शितं यथा
“अथ सीमाविवादाख्यव्यवहारपदम् तत्स्वरूपमाह नारदः “सेतुकेदारमर्य्यादाविकृष्टाकृष्टनिश्चयः। क्षेत्राघिकारो यत्र स्वादु विवादः क्षेत्रजस्तु सः”। अस्यार्थः सेतुर्जलप्रवाहबन्धः। केदारः क्षेत्रम्। मर्य्यादा सीमा। विकृष्टो लाङ्गलप्रहतो देशः अकृष्टस्तद्रहितः एतेषां निश्चयो यत्र विवादे स्यात् स क्षेत्राधिकारः क्षेत्रविषयको विवादः क्षेत्रज उच्यत इति। अयं विवादः षड्विधः तथा च कात्यायनः “आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च। अभोगभुक्तिः शीमा च षड् भूवादस्य हेतवः”। ममैषाधिका भूरस्तीत्युक्तेनेति विवाद आधिक्यविवादः। एतावती भूस्तव नेत्युक्ते ममैतावतीति यो विवादिः स न्यूनताविवादः अत्र ममांशोऽस्तीत्युक्ते यो विवादः सोऽस्तित्वविवादः अत्र तवांशो नास्तीत्युक्ते मम विद्यते इत्येवविधो विवादो नास्तित्वविवादः। सीमाविवाद इति षड्विधो विवाद इत्यर्थः। तत्र सीमा चतुर्विधा। देशसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति। तस्याश्चतुर्बिधाया अपि यथासम्भवं पञ्चविधत्वमाह नारदः “ध्वजिनी मत्सिनी चैव नैधानी भयवर्जिता। राजशासननीता च सीमा पञ्चविधा स्मृता”। ध्वजिनी वृक्षादिचिह्निता वृक्षाश्च न्यग्रोधादयः। तदाह मनुः “सीमावृक्षांस्तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान्। शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान्” इति। मत्सिनी जलचिह्निता। नैधानी निखाततुषाङ्गारादिलक्षिता। भयवर्जिता अर्थिप्रत्यर्थिपरस्परसम्प्रतिपत्तिनिर्मिता। तथा च व्यासः “ग्रामयोरुभयोः सीम्रि वृक्षा यत्र समुन्नताः। समुच्छ्रिता ध्वजाकारा ध्वजिनी सा प्रकीर्त्तिता। स्वच्छन्दगा बहुजला झषकूर्मसमन्विता। नित्यप्रवाहिणी यत्र सीमा सा मत्सिनी मता। तुषाङ्गारकपालैस्तु कुम्भैरायतनैस्तथा। सीमा प्रचिह्निता कार्य्या नैधानी सा निगद्यते” इति। नित्यप्रवाहिणीत्यनेन कूपवाप्यादीनि प्रकाशचिह्नान्युपलक्ष्यन्ते। तानि च वृहस्पतिना दर्शितानि “वापीकूपतडागानि चैत्यारामसुरालयाः। स्थलं निम्नं नदीस्रोतः शरगुल्मनगादयः। प्रकाशचिह्नान्येतानि सीमायां कारयेत् सदा। निहितानि तथान्यानि यानि भूमिर्न भक्षयेत्। अश्मनोऽस्थीनि गोबालांस्तुषान् भस्मकपालिकाः। करीषमिष्टकाङ्गारशर्करावालुकास्तथा। तानि सन्धिपु सीमाया अपकाशानि कारयेत्”। चैत्यं इष्टकादिभिः रचितञ्चत्वरादिकम्। स्थलम् उन्नतः भूप्रदेशः। निम्रं परिखा। नगा अश्वत्थादयो वृक्षाः। आदिशब्देन मार्गादीनां कार्पासवीजानाञ्च ग्रहणम्। अस्थीनि पशुमनुष्याद्यस्थीनि। तुषाङ्गारकपालैरिति करीषादानामन्येषां लिङ्गानामप्युपलक्षणम् तानि निधापयेत् “तत्र योगन्तु वालानां प्रयत्नेन प्रदर्शयेत्। वार्द्धके च शिशूनान्ते दर्शयेयुस्तथैव च। एवं परम्पराज्ञाने सीमाभ्रान्तिर्न व्यायते” इति। प्रदर्शयेदिदन्तु छान्दसं बहूत्वे गवकवचनम्। एतेषां लिङ्गानां कथञ्चिदभावे निश्चयोपायमाह नारदः “निम्रगापहृतोत्सृष्टनष्टचिह्रासु भूमिषु। तत्प्रदेशानुमानैश्च प्रमाणैर्भोगदर्शनैः”। निम्नगाया नद्या अपगृतेन अपहरणेन उत्सृष्टानिस्वस्थानान्नष्टानि चिह्रानि यासान्तास्तथीक्ताः। प्रमाणैः साक्षिसामन्तादिभिः एवं निरूपितैर्लिंङ्गैर्निर्णयं कुर्य्यादित्याह मनुः “एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः। यदि संशय एव स्याल्लिङ्गानामपि दर्शने। साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः”। साक्षिप्रत्ययः साक्षिहेतुकः। लिङ्गाभावपक्षपरिग्रहार्थोऽपिशब्दः ते च साक्षिणः सीमाविषयाः सीमालिङ्गविमया वा। साक्षिषु विशेषमाह वृहस्पतिः “आगमं च प्रमाणं च भोगकालञ्च नाम च। भूभागलक्षणञ्चैव ये विदुस्तेऽत्र साक्षिणः” प्रमाणमियत्ता। उभयेषामपि साक्षिणामभावे सामन्तवशान्निर्णयं कुर्य्यादित्याह मनुः “साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः। सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौः”। यदा पुनंलिंङ्गानि न सन्ति वर्त्तमानानि वा सन्दिग्धानि तदा निसयोपायमाह याज्ञवल्क्यः “सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा। रक्तस्रग्वसनाः सीमान्नयेयुः क्षितिधारिणः”। सामन्ताः सन्निहितग्रामक्षेत्राद्युपभोक्तारः। समग्रामाश्चत्वारोऽष्टौ इत्यादि प्रकारेण समसङ्ख्याकाः। तथा च कात्यायनः “ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्त्तितम्। गृंहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि”। ग्रामस्य समन्ताच्चतसृषु दिक्षुपरिरभ्य सम्बध्य स्थितो ग्रामः सामन्तः क्षेत्रादप्येवं ज्ञेयम्। सामन्तानां यदा रागद्वेषादिना प्रकटदोपसद्भावस्तदा सामन्तसामन्तवशान्निर्णयः कार्य्यः तदाह कात्यायनः “स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात्। तत्सं सक्तैस्तु कर्त्तव्य उद्धारो नात्र संशयः”। तत्संसक्तैः सामन्तसंसक्तैः। सोमाया लद्धारः सीमायानिर्णय इत्यर्थः। तथा चैतदुक्त भवनि। चतसृषुं दिस्रु स्थित- सामन्तग्रामादिभ्योऽनन्तरत्वेन तद्दिशिस्थितग्रामादिभोक्तारस्तत्संसक्तास्तत्प्रदर्शितसीमालिङ्गैर्ग्रांमादेः सीमान्निर्णयेयुरिति। यदा तु सामन्तसामन्तानामपि प्रकटदोषस्तदा तत्सामन्तैर्निर्णयस्तदाह कात्यायनः “संर्सक्त सक्तदोषे तु तत्संसक्ताः प्रकीर्त्तिता” इति। तत् संसक्ताः संसक्तसक्तसं सक्ता इत्यर्थः। एवं चैतदुक्तं भवति चतसृषु दिक्ष स्थितसंसक्तग्रामादिभ्योऽनन्तरत्वेन तद्दिशिस्थितग्रामादिनाक्तारः संसक्तास्तैः प्रदर्शितसीमालिङ्गैर्ग्रामादेः सीमान्निर्णयेयुरिति। यदा पुनरेतेषामपि प्रकटदोषत्वन्तदा मौलादवशान्निणयः कार्य्य इत्यप्याह स एव “कर्त्तव्या न प्रदुष्टास्तु राज्ञा धर्मं विजानता। त्यक्त्वा दुष्टांस्तु सामन्तानन्यां मौलादिभिः सह। सम्मिश्र्य कारगेत् सीमामेवं धर्मविदो विदुः”। अन्यान् सामन्तव्यतिरिक्तान् सीमालिङ्गाभिज्ञान् नगरादोनित्यर्थः। नगरादयश्च दर्शिता नारदेन “नगरग्रामगणतोये च वृद्धतमा नराः”। सीमालिङ्गज्ञातार इति शेषः। मौलादिभिः मौलवृद्धोद्ध्वृतैः। सम्मिश्र्य मेलयित्वा। मौलादीनाञ्च लक्षणं दर्शितं कात्यायनेन “ये तत्र पूर्वं सामन्ताः पश्चाद्देशान्तरङ्गताः। तन्मूलत्वात् तु ते मौली ऋषिभिः षरिकीर्त्तिताः। निष्पाद्यमानं यैर्दृष्टं तत् कार्य्यं नृगुणान्वितैः। वृद्धा वा यदि वाऽवृद्धास्ते च वृद्धाः प्रकीर्त्तिताः”। नृगुणान्वितैः पुरुषगुणान्वितैः। वाकारोऽनास्थायां वयोवृद्धत्वस्याप्रयोजकत्वात्। ये परम्परया कार्य्यज्ञातारस्ते उद्धर्त्तार इत्याशयः। तथा च संसक्तसक्तेषु स्फुटदोषदुष्टेषु पूबसामन्ताद्युपेतनागरिकग्राम्यजनश्रेणिवयोवृद्धदर्शितैः सम्यक् लिङ्गैः सीमानिर्णयः कार्य्यः। यदा तु प्रतिवादिना सामन्तेषु कश्चिद्दोष उद्भावितः ते च न प्रकटदोषयुक्तास्तदोक्तो विशेषो मनुना “सामन्ताः साधनं पूर्वमनिष्टोक्तौ गुणात्विताः। द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः”। अनिष्टोक्तौ प्रतिवादिना गुप्तदोषाभिधाने तत्सामन्तास्ततो द्विगुणग्राह्याः। तत्रापि तथात्वे मौलवृद्धादयः सामन्तत्रिगुणाग्राह्या इत्यर्थः। सास्थादीनामेतेषां यदा अभावस्तदा त्वाह मनः “सामत्तानामभावे तु मौलानां सीम्नि साक्षिणाम्। इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान। व्याधान् शाकुनिकान् गोपान् कैवर्त्तान् मलखानकान्। व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान्”। वनगोचराणां ग्रहणं सीमासन्निहितदेशकर्षकाणामसत्त्वे विज्ञेयम्। अतएवोक्तं नारदेन “सीमासु च बहिर्य्ये स्युर्य्येऽपि तत् कृषिजीविनः। गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः” इति। अत्र च सर्वत्र स्थावरविवादे सेत्वादिविवादे च सामन्तादयो निर्णायकाः तथा च कात्यायनः “तेषामभावे सामन्ता मौलवृद्धोद्धृतादयः। स्थावरे षट्प्रकारेऽपि कार्य्या नात्र विचारणा। क्षेत्र वास्तुतडागेषु आरामवनसेतुषु। समेतभावात् सामन्तैः कुर्य्यादत्र विनिर्णयम्। ग्रामसीमासु च तथा तद्वन्नगरसेशयोः”। तेषां साक्षिणाम्। याज्ञवल्क्योऽपि “आरामायतनग्रामनिपानीद्यानवेश्मसु। एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु”। आयतनन्निवेशनन्निपानं पानीयस्थानं वर्षाम्बुप्रवहो वृष्ट्युद्भूत जलप्रवाहः। पुनः कात्यायनोऽषि “क्षेत्रकूपतडागनां केदारारामयोरपि। गृहप्रसदावसथनृपदेवगृह्णेषु च”। केदारः क्षुद्रसेतुयुक्तः क्षेत्रविशेषः। गोवलीवर्दन्यायेन भिन्नोक्तिः प्रसदः प्रासादः। वृहस्पतिरपि “सर्वत्र स्थावरे वादे विधिरेष प्रकीर्त्तितुः”। राज्ञा ग्रामीणानां वादिप्रतिवादिनोश्च समक्षं सामन्तादयः प्रष्टव्याः तैर्यदुक्तं तत्पत्रे लेखनीयमित्याह मनुः “ग्रामीयककुलानान्तु समक्षं सीम्नि साक्षिणः। प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः। ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम्। निवघ्नीयात्तथा सीमां सर्वास्तांश्चैव नामतः”। साक्ष्यभिप्रायेण सीमलिङ्गानीत्युक्तम्। सीमासाक्षिणस्तु सीमां ब्रूयुः। तथा च वृहस्पतिः “शपथैः शापिताः स्वैः स्वैर्ब्रूयुः सीमाविनिर्णयम्। दर्शयेयुश्च लिङ्गानि तत्प्रमाणमिति स्थितिः”। स्वैः स्वैः। सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः” इत्यादिनोक्तव्यवस्थानतिक्रमेणेत्यर्थः। यदा तु सीमालिङ्गसाक्षिणः सीमाचिह्नानि दर्शयितुन्न शक्नुवन्ति केवलं सीमामात्रं जानन्ति तदा ते कथं ब्रूयुरित्याकाङ्क्षायामाह मनुः “शिरोभिस्ते गृहीत्वोर्वी स्रग्विणो रक्तवाससः। सुकृतैः शापिताः स्वैः स्रैर्नयेयुस्ते समञ्जसम्” इति। उर्वीं मृदम्। सीमाक्रममाणा इति शेषः। नयेयुरिदं द्वयोर्निरासार्थं बहुवचनन्नत्वेकस्य, नारदेन “एकश्चेदुन्नयेत् सीमां सोपवासः समुन्नयेत्। रक्तमाल्याम्बरधरो भूमिमादाय मूर्द्धनि” इति एकस्याभ्यनुज्ञानात्। वृहस्यतिरपि “ज्ञातृचिह्नै- र्विना साधुरेकोऽप्युभयसम्मतः। रक्तमाल्याम्बरधरो मृदमादाय मूर्द्ध्वनि। सत्यव्रतः सोपवासः सीमां तां दर्शयेन्नरः”। ज्ञातृचिह्नैर्विना सीमायाः ज्ञातॄणां लिङ्गानाञ्चासत्त्वे। ननु कथमेकस्य सीमानिर्णायकत्वम् “नैकः समुन्नयेत् सीमान्नरः प्रत्ययवानपि। गुरुत्वादस्य कार्य्यस्य क्रियैषा बहुषु स्थिता” इत्येकस्य नारदेन निषेधादिति चेन्मैवम् स उभयानुमतधमेविद्व्यतिरिक्तविषय इति न काप्यनुपपत्तिः। अयञ्च निर्णयः सीमाक्रमणदिनादारभ्य पक्षत्रयपर्य्यन्तं साक्षिसामन्तादीनान्दैचिकराजिकोपद्रवाभावे अवसेयः न तु सीमाक्रमणाव्यवाहतोत्तरमेव। तथा च कात्यायनः “सीमाचङ्क्रमणे क्रोशे पादस्पर्शे तथैव च। त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते”। यथासङ्ख्यमिति शेषः। यदा तु साक्ष्यादीनां पक्षत्रयाभ्यन्तरे दैविकराजिकोपद्रवः अन्यथा वा मिथ्यावादित्वनिश्चयस्तदा ते पणशतद्वयं दण्डं प्रत्येकं दाप्याः। तथा च मनुः “यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः। विपरीतन्नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्”। यथोक्तेन शिरोमिस्ते गृहीत्वोर्वीमित्यादिनोक्तप्रकारेण नयन्तो निर्णयं कुर्वन्तः यथाभूतेनार्थेनेति शेषः। द्विशतं पणशतद्वयम् प्रत्येकम् दाप्या इत्यर्थः। सामन्तानां मिथ्यावादित्वे राज्ञा ते मध्यमसाहसाख्येन दण्डेन दण्डनीयाः। तथा चाह याज्ञवल्क्यः “अनृते तु पृथक् दण्ड्याराज्ञा मध्यमसाहसम्”। सामन्ता यद्यनृतं मिथ्याभूतं सीमानिर्णयं कुर्य्यु तदा मध्यमसाहसं कार्षापणानां चत्वारिंशदधिकानि पञ्च शतानि दण्डनीयाः। नारदोऽपि “अथ चेदनृतं ब्रूयुः सामन्ताः सीम्रे निर्णये। सर्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम्”। सामन्तव्यतिरिक्तानां तत्संसक्तादीनां मिथ्यावादित्वे पूर्वसाहसाख्येन दण्डेन प्रत्येकं ते दण्डनीयाः। तथा च नारदः “शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि। प्रत्येकन्तु जघन्यास्ते विनेयाः पूर्वसाहसम्” इति। मौलादीनामनृतवादित्वे तमेव दण्डं स एवाह “मौलवृद्धादयश्चान्ये दण्डनीयाः पृथक् पृथक्। विनेयाः प्रथमेनैव साहसेनानृते स्थिताः” इति। आदिग्रहणेन गोपशाकुनकादिवनगोचराणां ग्रहणम्। दण्डनीयाः मिथ्यावादित्वेन दण्डयितुमर्हाः मैलवृद्धादयः पृथक् पृथक् प्रथमेन साहसेन विनेया दण्ड्या इत्यर्थः। यद्यपि सामन्तादीनां साक्ष्यपेक्षया दण्डाल्पत्वमुक्तं मथापि तेषां वाचनिकं दण्डाधिक्यमिति न कोऽपि दोषः। यद्यपि शाकुनिकादयो बहुधा पापरतत्वात् लिङ्ग प्रदर्शनोपयोगेनान्यथा सिद्धा न साक्षात् सीमानिर्णये उपयुज्यन्ते तथापि वृक्षादिलिङ्गप्रदर्शन एव मिथ्याभाषित्वसम्भवात्तदभिप्रायेणैव दण्डविधानम्। लोभादिना भेदेनोक्तौ अनुक्तौ च साक्ष्यादीनां दण्डमाह कात्यायनः “बहूनान्तु गृहीतानां न सर्वे निर्णयं यदि। कुर्युर्भयाद् वा लोभाद् वा दाप्यास्तूत्तमसाहसम्”। एवमज्ञानादिना अनृतवचने साक्षादीन् दण्डयित्वा पुनः सीमाविचारः प्रवर्त्तयितव्यः तथा च स एवाह “अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत्। कीर्त्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्”। साक्ष्यादीनां सर्वेषाम् अज्ञानोक्तौ भेदेनोक्तौ च पुनर्विचारणं लेख्यप्रमाणेन कर्त्तव्यम्। अतएव शङ्खलिखितावपि “सामन्तविरोधे लेख्यप्रत्ययः” इति। यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न सन्ति तदा राजा स्वेच्छया निर्णयं कुर्य्यात् तथा च याज्ञवल्क्यः “अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्त्तिता”। ज्ञातॄणां सामन्तादीनां लिङ्गादीनाञ्च वृक्षादीनामभावे राजैव स्वातन्त्र्येण सीमानं प्रवर्त्तयेत्। नारदोऽपि “यदा च न स्युर्ज्ञातारः सीमाया न च लक्षणम्। तदा राजा द्वयोः सीमामुन्नयेदिष्टतः स्वयम्”। इष्टतः इच्छया सार्वविभक्तिकस्तसिः। ग्रामद्वयमध्यवर्त्तिनीं विवादास्पदीभूताम्भुवं समं प्रविभज्यास्येयम्भूरित्युभयोः समर्प्य तन्मध्ये सीमालिङ्गानि कुर्य्यात्। यदा तस्यां भूमावुपकारातिशयो यत्र दृश्यते तदा तत्रैव सा सकला भूर्योजनीया न तूभयत्र। तथा च मनुः “सीमायामविषह्याया स्वयं राजैव धर्मवित्। प्रदिशेद्धूमिमेतेषामुपकारादिति स्थितिः” इति। अविषह्यायां ज्ञातृचिह्नरहितायाम्। प्रदिशेत् प्रवेशयेदित्यर्थः। अयञ्च निर्णयो राज्ञा निर्णयान्तरवदव्यवहितोत्तरमेव न कर्त्तव्यः किन्तु सीमालिङ्गानि यदा आवरकाद्यभावात् स्थूटं दृश्यन्ते तदा कर्त्तव्यः। तथा च मनुः “सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः। ज्यैष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु। द्वयोर्ग्रामाधिपयोर्विवादे सीमां प्रतिसमुत्पन्ने ज्यैष्ठे मासीत्युपलक्षणं मासान्तरेऽपि सेतु वृतिषु सीमालिङ्गेषु व्यक्तेषु विवादाध्यासितां सीमा- न्निर्णयेदित्यर्थः। ग्रामग्रहणं नगरादेरुपलक्षणार्थम्। अतएव कात्यायनः “सामन्ताश्चेत्तु सामन्तैः कुर्य्यात् क्षेत्रादिनिर्णयम्। ग्रमसीमादिषु तथा तद्वन्नगरदेशयोः” इति। यदा पुनः ग्रामादीनां सीमात्वेन परिकल्पिता नदी कदाचित् ग्रामान्तरं भित्त्वा प्रवहन्ती दक्षिणभागे स्थितां पूर्वं काञ्चिद् भूमिं वामभागनिविष्टां करोति तथा तत्रैकग्रामसम्बन्धिनी भूरन्यत्र राज्ञा योज्यते तत्र निर्णयोपायमाह वृहस्पतिः “अन्यग्रामात् समाहृत्य दत्ताऽन्यस्य यदा मही। महानद्यथ राज्ञा च कथन्तत्र विचारणा। नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही। अन्यथा न भवेल्लाभो नराणां राजदैविकः। क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम्। तस्मात् सर्वेषु कार्य्येषु तत्कृतन्न विचालयेत्”। न च नदीकृतस्य दैवकृतत्वाभावः शङ्कनीयः दैवशब्दस्य भाग्यवाचित्वान्नदीकृतमपि दैवकृतं भवत्येव। तथा चाह स एव “ग्रामयो रुभयोर्यत्र मर्य्यादा कल्पिता नदी। कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम्। एकत्र कूलपातन्तु भूमेरन्यत्र संस्थितिम्। नदी तीरे प्रकुरुते तस्य तान्न विचालयेत्”। तस्य नदीवशात् प्राप्तभूमिकस्य तां प्राप्तां भूमिन्न विचालयेत् नान्यया कुर्य्यात् पूर्वस्वामी नापच्छिन्द्यादित्यर्थः। एतदनुप्तशस्यतीरविषयम्। उप्तशस्यविपये पुनः स एवाह “क्षेत्रं सशस्यमुल्लङ्घ्य भूमिश्छिन्ना यदा भवेत्। नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम्”। तां सशस्यां भूमिं पूर्वस्वामी यावदुत्पन्नस्य शस्यफलप्राप्तिस्तावल्लभेतेत्यर्थः। फलप्राप्तेरूर्द्ध्वं पुनः पूर्वचनविषय समानता। राजदत्तविषये क्वचित् प्रतिप्रसवमाह स एव “या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता। वदत्ताऽन्यस्य दुष्टेन न सा सिद्धिमवाप्नुयात्”। स्वत्वहेतुप्रतिग्रहादिलब्धक्षेत्रविषयथेतत्। स्वत्वहेतुप्रतिग्रहादिप्रमाणाभावे पुनः स एवाह “प्रमाणरहितां भूमिं भुञ्जानो यस्य या हृता। गुणाधिकाय वै दत्ता तस्य तान्न विचालयेत्। प्रमाणरहितां स्वत्वहेतुप्रतिग्रहादिप्रमाणरहिताम्। गृहादिविषयकं निर्णयमाह स एव “निवेशकालादारभ्य गृहचर्य्यापणादिकम्। येन यावद्यथा भुक्तं तस्य तन्न विचालयेत”। येन स्वामिना यावत् प्रचारभूम्यादियुक्तं तथा येन पूर्वादिदिगभिमुखद्वारादियुक्तत्वादिरूपेणोपभुक्तं तत्तस्य स्वामिनः सकाशान्न बिचालयेत् नान्यथा कुर्य्यादित्यर्थः अत्र नियेशकालादारभ्येत्यभिघानान्मध्ये कृताया व्यवस्थाया निवर्त्त्यत्वं दर्शितम्। निवेशकालादारभ्य स्थितानि गवाक्षादिकानि प्रातिवेशिकाद्यनिष्टकारीण्यपि न निवर्त्त्यन्ते इत्युक्तं तेनैव “वातायनं प्रणालीं च तथा निर्व्यूहवेदिकाम्। चतुःशालस्यन्दनिकां प्राङ्निविष्टां न चालयेत्”। वातायनं गवाक्षः। प्रणाली पाषाणादिनिर्मित जलनिर्गमोपायः। निर्य्यूहो द्वारनिर्गतकाष्ठविशेष इति कृत्यकल्पतरौ। निर्य्यूहो गृहकोण इति स्मृतिचन्द्रिकायाम्। वेदिका रथ्यादिप्रदेश संस्कृतोत्तरा भूमिः। चतसृणां शालानां समाहारः चतुशालम्। तस्मात् स्यन्दनिका वृष्टिजलनिपातः। कात्यायनोऽपि “मेखलाभ्रमनिष्काशगवाक्षान्नोपरोधयेत्। प्रणालीं गृहवास्तुञ्च पीडयन् दण्डभाग्भवेत्”। मेखला कुडवमूलबन्धः। भ्रमोजलनिर्गमः। निष्काशः हर्म्यादिभित्तिषु निर्गतं काष्ठादिनिर्मितमस्पृष्टभूमिकमुपवेशनस्थानम्। नोपरोधयेत् न निरुन्ध्यात्। गृहवास्तुः वासभूमिः। पूर्वमविद्यमानाः परानिष्टकारिण एते न कर्त्तव्या इत्यप्याह स एव “निवेशनभयादूर्द्ध्वन्नैते योज्याः कदाचन। दृष्टिपातं प्रणालीञ्च न कुर्य्यात् परवेश्मसु”। दृष्टिपातो गवाक्षः। परवेश्मसु परवेश्मामिमुख्येन। परकुड्यनिकटे पुरीषोत्सर्गादिकमपि त कर्त्तव्यम् तथा च वृहस्पतिः “वर्चःस्थानं वह्नि चयङ्गर्त्तोच्छष्टाम्बुसेचनम्। अत्यारात् परकुड्यस्य न कर्त्तव्यं कथञ्चन”। वर्चःस्थानम् पुरीषोत्सर्गस्यानम्। अत्यारादतिसर्गीपे अरत्निद्वयसम्मितप्रदेश इत्यर्थः। तथा च कात्यायनः “विण्मूत्रोदकसेकञ्च वह्निश्वभ्रनिवेशनम्। अरत्निद्वयमुतसृज्य परकुड्यान्नियेशयेत्”। संसरणशब्दार्थनिर्वचनपुरःसरन्तस्यानिरोद्धव्यत्वमाह वृहस्पतिः “यान्त्यायान्ति जना येन पशवश्चानिवारिताः। तदुच्यतं संसरणन्नरोद्धव्यन्तु केनचित्”। तथा च सम्यगनिवारितं सरन्त्यस्मिन्निति संसरणनिर्वचनमित्यर्थः। चतुष्पथादयोऽपि न निरोद्धव्याः तथा च नारदः “अवस्करस्थलश्वभ्रभ्रभ्रमस्यन्दनिकादिभिः। चतुष्पथसुरस्थानराजमार्गान्न रोधयेत्”। अवस्करः पुरीषम्। गृहादिशोघनार्थं पांशुसमूह इति हरिहरादयः। स्थलं येदिका श्वभ्रङ्गर्त्तः। भ्रमो जलनिर्ग ममार्गः। स्यन्दनिका पदलप्रान्तः। अन्यदपि आदिशब्देन ताद्दशं ग्राह्यम्। रथ्यामार्गो राजमार्गो न तु चतुष्पथ इति कल्पतरुः। न च चतुष्पथराजमार्गयोरभेद इति शङ्कनीयं तयोर्भेदात्। तथा च कात्यायनः “सर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः। अनिषिद्धा, यथाकालं राजमार्गः स उच्यते”। अनिषिद्धा इत्यस्य पूर्वेणान्वयः। यत्र राजकीयैरकाले गमनं प्रतिषिध्यते स राजमाघं इत्यर्थः। क्षेत्रस्य ससीपे मध्ये वा यस्य सर्वदा मार्गोऽस्ति तत्र निरोधो न कर्त्तव्यः। तथा च शङ्खलिखितौ “मार्गक्षेत्रे पथि विसर्गो राजमार्गे रथस्य परिवर्त्तनमिति” पथिविसर्गः पथोविसर्गः। राजमार्गे यावता प्रदेशेन रथैः परिवर्त्तते तावान् प्रदेशस्त्यक्तव्य इत्यर्थः। संसरणानामवरोधकारिणान्तु दण्डो माषैको दाप्यः यथाह वृहस्पतिः “यस्तत्र सङ्करं श्वभ्रं वृक्षारोपणमेव च। कामात् पुरीषं कुर्य्याच्च तस्य दण्डस्तु माषकः”। सङ्करोऽत्र शकटादिसङ्कीर्णता वृक्षापादानं लतादीनामप्युपलक्षकम्। माषोऽत्र ताम्रिकः, दण्डस्य अपराधानुसारेण कल्पयितुमुचितत्वात्। ये तु राजमार्गे पुरीषोत्सर्गादिकं कुर्वते तेषामधिको दण्डः तथा च मनुः “समुत्सृजेद्राजमर्गे यस्त्वमेध्यमनापदि। स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत्”। आपद्गतादिषु तु दण्डस्तेनैवोक्तः “आपद्गतस्तथा वृद्धो गर्भिणी बाल एव च। परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः”। परिभाषणं क्रूरभाषणम्। तडागादौ ततोऽप्यधिको दण्डः। तथा च कात्यायनः “तडागोद्यानतीर्थानि योऽमेध्येन विनाशयेत्। अमेध्यं शोधयित्वा तु दण्डयेत् पूर्वसाहसम्”। ये पुनर्मलिनवस्त्रप्रक्षालनादिनातीर्थानि दूषयन्ति तस्याप्ययमेव दण्ड इत्याह स एव “दूषयेत् सिद्धतीर्थानि स्थापितानि महात्मभिः। पु० ण्यानि पावनीयानि प्राप्नुयात् पूर्वसाहसम्”। मर्य्यादा प्रभेदनादौ दण्डमाह याज्ञवल्क्यः “मर्य्यादायाः प्रभेदे तु सीमातिक्रमणे तथा। क्षेत्रस्य हरणे दण्डाः अध मोत्तममध्यमाः”। अनेकक्षेत्रव्यवच्छेदिका साधारणी भूर्मर्य्यादा सीमा तस्याः प्रकर्षेण भेदन सामातिक्रमणे सीमामतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेणाधमोत्तममध्यमसाहसटण्डा वेदितव्याः। यत् तु विष्णुवचनम् “सीमामेत्तारसुत्तमसाहसं टण्डयित्वा पुनः सीमां कारयेदिति”। तत्र हि सीमामतिलङ्घ्य कर्षतः पुनः सीमाकरणं पुनस्तत्र कर्षणस्याकरणमि त्येवं व्याख्येयम्। तेन न पूर्ववचनविरोधः क्षेत्रग्रहणं गृहाद्युपलक्षणार्थम्। अज्ञानात् क्षेत्रादिहरणेऽधम एव यथाह मनुः “गृहं तडागमारामं क्षेत्रं वा भीषया हरन्। शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः”। वृद्धमनुः “स्थापितां चैव मर्य्यादामुभयो र्ग्रामयोस्तथा। अतिक्रामन्ति ये पापास्ते दण्ड्या द्विशतं दसम्”। अपह्रियमाणक्षेत्रादिभूयस्त्वे उत्तमोऽपि दण्डः प्रयोक्तव्यः “बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने। तदङच्छेद इत्युक्तो दण्ड उत्तमसाहसम्” इति स्मरणात्। यत् तु शङ्खलिखिताभ्याम् सीमातिक्रमणे दण्डाधिक्यमुक्तम् “सीमाव्यतिक्रमे त्वष्टसहस्रमिति” तत् सम्पूर्णसीमातिक्रमविषयम्। सीमासन्धिषूतपन्नवृक्षादिफलं नैवैकेन ग्राह्यं यथाह कात्यायनः “सीमाभध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः। फलं पुष्पञ्च सामान्यं क्षेत्रस्वामिषु निदिशेत्। सामान्यं साधारणं क्षेत्रयोः स्वामिषु क्षेत्रस्वामिषु। तथा चान्यतरेणैव तद्वृक्षीयफलादिग्रहणे तदनुरूपेण दण्ड इति ध्वनितम्। यदा पुनरन्यक्षेत्रे वृक्षादिरुत्पन्नोऽन्यक्षेत्रे शाखाः प्रसृताः तत्र कः स्वामीत्याकाङ्क्षायां स एवाह “अन्य क्षेत्रे तु जातातां शाखा यत्रान्यसंस्थिताः। स्वामिनं तं विजानीयाद् यस्य क्षेत्रे तु संश्रिताः। संश्रिताः प्ररूढाः। परक्षेत्रे प्रार्थनया क्रियमाणं सेतुकूपादिकं क्षेत्रस्वामिना न निषेद्धव्यं तथाह याज्ञवल्क्यः “न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः। परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः”। अल्पबाधः अल्पपीडाकरः कल्याणकारको वहूपकारकः। स्वल्प क्षेत्रः स्वल्पक्षेत्रवर्त्तो आभ्यां विशेषणाभ्यां यः सेतुः क्षेत्रमध्यवर्त्तितया वहुपीडाकरस्तदा दिक्षु सन्निहितक्षैत्रवर्त्तितया अल्पोपकारको वा तदा निषेद्धव्य इति दर्शतम्। तत्र नारदोऽपि “परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते। महागुणोऽल्पदोधश्चेद् वृद्धि रिष्टा क्षये सति” क्षये अल्पक्षेत्रक्षये सत्यपि वृद्धिर्यत इष्टा अतो महागुणः स्वक्षेत्रेऽपि उपकारकरोऽल्पदाषश्चेत्तदा न प्रतिषेद्धव्य इत्यथं। अन्यक्षेत्रे सेतुकूपादिपवर्त्तनं तत्स्वाम्याद्य ज्ञां लब्धा कर्त्तव्यमित्याह याज्ञवल्क्यः स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्त्तवेत्। उत्पन्ने स्वामिनो भोगस्तदभावे मसीपदः”। यस्तु क्षत्रस्वामिनं तद्वंश्यं तदभावे राजानं वा प्रार्थ्य अर्थादानेन वा तत्क्षेत्रे सेत्वादिकं करोति स सेत्वाद्युत्पन्नफलोपभोगं दृष्टमदृष्टेवा न लभते किन्तु तत्स्वाम्येव तल्लभते तदभावे राजा। अतस्तदाज्ञां गृहीत्वा सेत्वादिकं कर्त्तव्यमित्यर्थः। जीर्णानाम् अन्यदीयसेत्वादीनाम् उद्धारोऽपि तत्स्वाम्याद्यनुज्ञां गृहीत्वा कार्य्य इत्याह नारदः “पूर्वप्रवृत्तनुत्पन्नमपृष्ट्वा स्वामिनन्तु यः। सेतुं प्रवर्त्तयेद् यस्तु न स तत्फलभाग्भवेत्। मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे। राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम्। अतोऽन्यथा क्लेशमायान्मृगव्याधनिदर्शनात्”। मृगव्याधदृष्टान्तः स्फुटीकृतस्तैनैव, “इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति”। तस्य मृगव्याधस्य। कात्यायनोऽपि “अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः। गृहोद्यानतडागानां संस्कर्त्ता लभते न तु। देयं स्वामिनि चायाते तन्निवेद्य नृपे यदि। अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम्”। नृपे अनावेद्य कृतं यत्तडागादिसंस्कारार्थं व्ययन्तत् स्यामिनि ग्रामान्तरादागते तेन देयमपि न प्राप्नोति। नृपे निवेद्यसंस्करणे तदर्थं व्ययं प्राप्नोति। फलन्तु स्वाम्यनुमत्यलाभे न प्राप्नोतीत्यर्थः। यः परक्षेत्रमहमिदं कृषामीत्यूरीकृत्य पश्चाद् न कृषति नाप्यन्येन कर्षयति तं प्रत्याह याज्ञवल्क्यः “फालाहतमपि क्षेत्रं यो न कुर्य्यान्न कारयेत्। स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत्”। यद्यपि फालाहतं किञ्चिद् हलेन विदारितं सम्यग्वोजावापयोग्यं न भवति तथाप्यकृष्टक्षेत्रस्य फलं यावत् तत्रोत्पत्तियोग्यं स मन्तादिकल्पितं तावदसौ स्वामिने दापनीयः तच्च पूर्वकर्षकादाच्छिद्याऽपरेण कारयेत्। व्यासोऽपि “क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्य्यान्न च कारयेत्। स्वामिने स शदं दाप्यो राज्ञे दण्डञ्च तत्समम्”। शदं क्षेत्रफलम्। तत्समं तदनुरूपमित्यर्थः। स्वामिग्राह्यं क्षेत्रफलमपि कियदित्याकाङ्क्षायां स एवाह “चिरावसन्ने दशमं कृष्यमाणे तथाष्टकम्। सुसंस्कृतेऽपि षष्ठं स्यात् परिकल्प्यं यथास्थिति” इति। चिरावसन्ने चिरकालमकृष्टे क्षेत्रैऽहमिदं कृषामीत्यूरीकृत्योपेक्षिते सामन्तैर्य्यथास्थिति क्षेत्रस्थित्यनुसारेणैतावदत्रोत्पत्तु योग्यमिति परि कल्प्य क्षेत्रस्वामिने तस्य दशमभागं, कृष्यमाणे अचिरावन्ने स्वीकृत्यानुपेक्षिते तु अष्टमं भ गं सुमंस्कते तूपेक्षित षष्ठं भागं दाप्य इत्यर्थः। यस्तु क्षेत्रस्वामिनः सामर्थ्यवैकल्यादिनाऽर्द्धखिलावस्थां प्राप्ते क्षेत्रे स्वाम्यनिवारतः सन् स्वयमेव तत्कर्षणादिकं करोति तदा स क्षेत्रस्वामिने फलं न दापनीयः। किन्तु तस्य फलं स्वयमेव गृह्णीयादित्याह नारदः “अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः। क्षेत्रं चेद्विकृषेत् कश्चिदश्नुवीत स तत्फलम्”। प्रेता मृताः नष्टाः कुत्रचिद्गता इति चिरमपरिचिताः। क्षेत्रिकेषु क्षेत्रस्वामिषु तेन क्षत्रस्वामिना तत्पुत्रादिना वा समागतेनैव विधाय कर्षादिखिलभञ्जनार्थं व्ययं दत्त्वैव स्वीयं क्षेत्रं ग्राह्यमिति स एवाह “विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनराव्रजेत् खिलोपचारं तत् सर्वं दत्त्वा क्षेत्रमवाप्नुयात्”। अर्द्ध खिलाद्यवस्था कदा क्षेत्रस्य भवतीत्याकङ्क्षायां स एवाह “संवत्सरेणार्द्धखिलमीहितं वत्सरैस्त्रिभिः। पञ्चवर्षा वसन्नान्तु क्षेत्रं स्यादटवीसमम्”। कर्षणरहितं संवरेणाऽर्द्धखिलं भवति यत्नसाध्यं भवति वर्षत्रये तु ईहितं खिलं महायत्नसाध्यं भवति। वर्षपञ्चके न ईहितं क्षेत्रम् अटवीतुल्यं स्यात् अतिदुष्कर्षं भवदित्यर्थः। खिलभञ्चनार्थं ष्ययदानासामर्थ्ये क्षेत्रस्वामिनः क्षेत्रफलस्याष्टमो भागः कर्षकेण वर्षाष्टकं स्वामिने देयः अवशिष्टं सर्वं स्वयमेव ग्राह्यम्। क्षेत्रं च वर्षाष्टकानन्तरन्तत्स्वामिने देयम्। तथा च कात्यायनः “अशक्तितो न दद्याच्च खिलाथें यः कृतो व्ययः। तदष्टभागहीनन्तु कर्षकः फलमाप्नुयात्” इति। “वर्षाण्यष्टौ स भोक्ता स्यात्परतः स्वामिने तु तत् इति”।
सीर = पु० सि–रक् पृषो०। १ सूर्य्ये मेदि० २ अर्कवृक्षे ३ हले च अमरः संज्ञायां कन्। ३ शिशुमारे शब्दमा०।
सीरध्वज = पु० सीरोगलः तच्चिह्नितो ध्वजो यस्य। चन्द्रवंश्ये २ जनकनृपे।
सीरपाणि = पु० सीरः हलः पाणौ यस्य। बलदेवे अमरः।
सीरिन् = पु० सीरोहलोऽस्त्यस्यायुधत्वेन इनि। बलरामे हला०
सीलन्द = पु० मत्स्यभेदे (सीलिन्दा) “सीलन्धः श्लेष्मलो वृष्यो विपाके मधुरो गुरुः। वातपित्तहरो हृद्य आमवातकरश्च सः” भावप्र०।
सी(से)वन = न० सिव–ल्युट् नि० वा दीर्धः। सीवने तन्तुसन्ताने (सेओयान) अमरः २ लिङ्गमण्यधस्थसूत्रे स्त्री हेमच० ङीप्।
सीस = न० सि–क्विप् पृषो० सो–क कर्म०। (सीमे) धातुभेदे हेमच० नागशब्दे ४००९ पृ० तद्गुणादि दृश्यम्। स्वार्थ क। तत्रार्थे अमरः।
सीहुण्ड = पु० सिहुण्ड + पृषो० दीर्घः। स्नुहीवृक्षे राजनि०।
***