सापत्न्य = पु० सपत्न एव स्वार्थे ष्यञ्। १ शत्रौ अमरः। सपत्न्यां भवः तस्या अपत्यं वा यञ्। १ सपत्नीपुत्रे। अण्। सापत्नोऽप्युभयत्र।

सापिण्ड्य = न० सपिण्डस्य भावः ष्यञ्। दायाशौचग्रहणाद्युपयोगिनि ज्ञातिधर्मभेदे “सापिण्ड्यं साप्तपौरुषमि” ति स्मृतिः। सपिण्डशब्दे ५ २२० पृ० दृश्यम्।

साप्तपदीन = न० सप्तभिः पदैः उच्चारितैर्निर्वृत्तम् खञ्। सख्ये सौहार्द्दे अमरः “साप्तपदीनं सख्यम्” पा०।

साप्तपौरुष = त्रि० सप्त पुरुषान् व्याप्नोति अण् उभयपदवृद्धिः सप्तपुरुषव्यापके।

साफल्य = न० सफलस्य भावः ष्यञ्। सामर्थ्ये सम्पूर्णतायाञ्च

साम = सान्त्वने अद० चु० उ० स० सेट्। सामयति ते अससामत् त अनेकाच्कत्वात् न षोपदेशः।

सा(षा)म = सान्त्वे चु० उभ० सक० सेट्। सामयति अयं षोपदेश एव न्याय्यः दुर्गादासेन दन्त्यादित्वमस्योक्तमप्रमाणम्।

सामक = पु० साम–ण्वुल्। {??}णे त्रिका०। समकमेव अण्। २ वृद्धिरहिते मूलमात्रे ऋणे मिता०।

सामग = पु० साम तद्वेदं गायति। सामवेदाध्यायिनि जटा०।

सामगर्भ = पु० साम गर्भे यस्य। विष्णौ शब्दर०।

सामग्री = स्त्री समग्रस्य भावः ष्यञ् स्त्रीत्वपक्षे ङीष् ङीषि यलोपः। १ समस्ततायाम्। स्त्रोत्वाभावपक्षे सामग्र्य तत्रार्थे न०। “प्रायेण सामग्य्रविधौ गुणानाम्” कुमारः। स्वार्थे ष्यञ्। २ करणसमूहे ३ द्रव्ये च स्त्री।

सामज = पुंस्त्री० साम्नो वेदभेदात् जायते जन–ड। १ गजे। स्त्रियां ङीष्। तस्य तज्जन्मकथा पालकाव्ये उक्तं तच्च सामयोनिशब्दे दृश्यम्। २ सामपाठजे स्वरादौ त्रि० मेदि०

सामञ्जस्य = न० समञ्जसस्य भावः ष्यञ्। औचित्ये।

सामन् = न० सो–मनिन्। “अग्ने आया हि” इत्यादिके १ वेदभेदे तत्रोक्तामृचमधिकृत्य गेये २ गानभेदे “ऋच्यध्यूढं साम गीयते” छान्दोग्योप०। साम्नो गोनरूपत्वं गानशब्दे २५७२ पृ० दृश्यम् तद्भेदादिकं वेदगाने ऊहगानादौ मूलग्रन्थे च दृश्यं सामवेदस्य विभागादि चरणव्यूहे दृश्यम्। तच्छाखाभेदाः बेदशब्दे ४९३४ पृ० दृश्याः। राज्ञां “सामभेदस्तथा दानो दण्डश्चेत्युक्ते ३ उपायभेदे तस्य विषयादिकं मत्स्यपु० २२१ अ० उक्तं यथा मत्स्य उवाच “सामभेदस्तथा दानो दण्डश्च मनुजेश्वर!। उपेक्षा च तथा माया इन्द्रजालञ्च पार्थिव।! प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु। द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च। तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते। तत्र साधुः प्रयत्नेन सामसाध्यो नरोत्तम!। महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः। सामसाध्या न चातथ्यन्तेषु साम प्रयोजयेत्। तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम्। तथा तदुपचाराणां कृतानाञ्चैव वर्णनम्। अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम्। एवं साम्ना च कर्त्तव्या वशगाः धर्मतत्पराः। साम्ना यद्यपि रक्षांसि गृह्णन्तीति पराश्रुतिः। तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम्। अतिशङ्कितमित्येवं पुरुषं सामवादिनम्। असाधवो विजानन्ति तस्मात्तत्तेषु वर्जयेत्। ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः। ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन्”। तत्र मित्रादिसामप्रकारः शुक्रनीतिपरिशिष्टे तत्र विशेषश्चोक्तो यथा “त्वत्समस्तु मम नास्ति मित्रे साम इदं स्मृतम्। परस्परमनिष्टं न चिन्तनीयं त्वया मया। सुसाहाय्यं च कर्त्तव्यं शत्रौ साम प्रकीर्त्तितम्”। विषयभेदेनोपायभेदालम्बनं तत्रोक्तं यथा “सर्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः। यथा स्वाभ्यधिका न स्युर्मित्रोदासीनशत्रवः। सामैव प्रथमं श्रेष्ठं दानस्तु तदनन्तरम्। सर्वदा भेदनं शत्रोर्दण्डनं प्राणसंशये। प्रबलेऽरौ सामदानौ साम भेदोऽधिके स्मृतौ। भेददण्डौ समे कार्य्यौ दण्डः पूज्यः प्रहीणके। मित्रे च सामदानौ स्तो न क्वचित् भेददण्डने। रिषोः प्रजानां सम्भेदः पीडनं स्वजयाय वै। रिपुप्रपीडिताद्यं च साम्ना दानेन संग्रहः। स्वप्रजानां न भेदेन नैव दण्डेन पालनम्। कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः”। ४ शत्रुवशीकरणोपायभेदे ५ प्रियवाक्यादिना सान्त्वने च। ५ पशुबन्धनरज्ज्वां स्त्री ङीप्।

सामन्त = पु० संश्लिष्टोऽन्तः एकदेशो यस्य समन्तस्तस्येश्वरः अण्। स्वविषयानन्तरवर्त्तिदेशाधिपे १ नृपे अमरः। समन्ताद्भवः अण् टिलोपः। २ श्रेष्ठप्रजायाम् (मण्डल) “यं परम्परया मौलाः सामन्तावा समागतम्” स्मृतिः।

सामयिक = त्रि० समये काले नियमे वा भवः उचितो वा ठञ्। १ समयभवे २ समयोचिते ३ नियमबद्धे च “निजधमाविरोधेन यस्तु सामयिको भवेत्” स्मृतिः।

सामयिकाभाव = पु० अत्यन्ताभावे त० दी०। केचित्तु, उत्पादविनाशशीलोऽत्यन्ताभावादतिरिक्त्वोऽयमभाव इत्याहुः।

सामयोनि = पु० साम सामगानं योनिरुत्पत्तिस्थानं यस्य। हस्तिनि, तेषाञ्च सामयोनित्वमुक्तं पालकाव्ये “सूर्य्यस्याण्डकपाले द्वे समानीय प्रजापतिः। हस्ताभ्यां परिगृह्याथ सप्त सामान्यगायत। गायतो व्रह्मणस्तस्मात् समुत्पेतुर्मतङ्गजाः” इति। ६ त०। १ चतुर्मुखेब्रह्मणि स्त्री।

सामर्थ्य = न० समर्थस्य भावः ष्यञ्। १ देहजे बले २ शक्तौ ३ योग्यतायां मेदि०। ४ सङ्गतार्थतायाञ्च। समासशब्दे ५२३२ पृ० दृश्यम्। योग्यता च कार्य्यजनयोग्थत्वं यथा परामर्शस्यानुमितियोग्यत्वम्। ५ आकाङ्क्षायोग्यत्वादिमत्त्वे गौ० वृ० यथा आप्तोक्तस्य वचनस्य। सङ्गतार्थतारूपं च सामर्थ्यं द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति” वैयाक०। तत्राद्यं राज्ञः पुरुष इत्यादिवाक्ये ह्युपयुज्यते। द्वितीजं राजपुरुष इत्यादि वृत्तावुपयुज्यते”।

सामवायिक = पु० समवाये प्रसृतः ठञ्। १ मन्त्रिणि हेमच० तस्येदम् ठञ्। २ समवायसम्बन्धिनि त्रि०।

सामाजिक = पु० समाजः सभावेशनं प्रयोजनमस्य। १ सभ्ये अमरः। २ समाजसम्बन्धिनि त्रि०।

सामानाधिकरण्य = न० समानाधिकरणस्य भावः ष्यञ्। १ तदधिकरणवृत्तित्व २ तद्वदनुयोगिकप्रतियोगिकत्वे सिद्धान्तलक्षणे गदा० यथा वह्निधूमयोः सामानाधिकरण्यम्। स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना या स्वविशिष्टनिरूपिता यत्किञ्चिद्व्यक्तिनिष्ठाऽऽधेयता सा। यथा यदा सिषाधयिषा नासीत् परं तु सिद्धिरासीत्तदा सिद्धिसिषाधयिषाविरहयोः सामानाधिकरण्यम्। ३ अभेदान्वयबोधकत्वे। यथा नीलोघट इत्यादौ नीलपदघटपदयोः सामानाधिकरण्यम् ४ धर्मितावच्छेदकयत्किञ्चिद्व्यक्तिविषयकत्वे यथा पर्वतो वह्निमान् इत्यादौ यत्किञ्चित्पर्वतव्यक्तिविषयिकानुमितिः सामानाधिकरण्येनानुमितिः।

सामान्य = न० समानस्य भावः ष्यञ्। १ सादृश्यप्रयोजकधर्मे यथा मुखं पद्ममिव सुन्दरमित्यादौ सौन्दर्य्यादि। समानमेव स्वार्थे ष्यञ्। द्रव्यगुणकर्मसु तुल्यतया स्थितायां २ जातौ भाषा०। जातिशब्दे ३०९२ दृश्यम्। सामान्यञ्च द्विविधं सखण्डमखण्डञ्च सामान्यलक्षणाशब्दे दीधित्युक्तिः। “सामान्यं विशेष इति बुद्ध्यपेक्षम्” कणा०। अनुगतधर्मत्वम् सामान्यमिति तल्लक्षणं तेन ३ अनुगतधर्मस्वरूपं यथा प्रतियोगितासामान्ये यद्धर्मावच्छिन्नत्वादीति दीधितिः। ४ अधिकविषयकत्वे यथा ब्राह्मणाय दधि दीयतां कौण्डिन्याय तक्रम् इत्यादौ दधिदानस्याधिकब्राह्मणविषयकता। सामान्यविषयकशास्त्रञ्च विशेषशास्त्रेण बाध्यते यथा “मा हिंस्यात् सर्वाभूतानीति” हिंसानिषेधः सर्वविषयः “वायव्यं श्वेतमालभेत” इत्यादि विशेषः हिंसाशास्त्रं तेन सामन्यथास्त्रं वैधेतरविषयएव प्रसरति। ५ अर्थालङ्कारभेदे ४०७ पृ० दृश्यम्।

सामान्यच्छल = न० छलभेदे “सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना” गौ० सू० “अहो खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इत्युक्ते कश्चिदाह। सम्भवति हि ब्राह्मणे विद्याचरणसम्पदित्यस्य वचनस्य विद्यातोऽर्थ- विकल्पोपपत्त्या सम्भूतार्थकल्पनया क्रियते। यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति। व्रात्येऽपि सम्भवेत्। ब्रात्योऽपि ब्राह्मणः। सोऽप्यस्तु विद्याचरणसम्पन्न इति। सामान्यनिमित्तं छलं सामान्यच्छलमिति” वात्स्या० “सामान्यविशिष्टसम्भवदर्थाभिप्रायेणोक्तस्यातिसामान्ययोगादसम्भवदर्थकत्वकल्पनया दूषणाभिधानम्। यथा ब्राह्मणोऽय विद्याचरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरणसम्पदं साधयति इति कल्पयित्वा परो वदति। कुतो व्रह्मणत्वेन विद्याचरणसम्पत्? बाल्येव्यभिचारात्” वृत्तिः।

सामान्यतोदृष्ट = न० सामान्यतः सामान्यस्य सामान्यात् वा दृष्टं दर्शनम्। १ अनुमानभेदे “अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च” गौ० सू० “पूर्ववदिति यत्र कारणेन कार्य्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति शेषवत्तत् यत्र कार्य्येण कारणमनुमीयते पूर्वोदकविपरीतकमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति। सामान्यतो दृष्टम् व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति। तथा चादित्यस्य। तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य व्रज्येति” अथ वा यत्राप्रत्यक्षे लिङ्गलिङ्गिनो सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते। यथेच्छादिभिरात्मा। इच्छादयो गुणाः, गुणाश्च द्रव्यसंस्थानाः, तद् यदेषां स्थान स आत्मेति” वात्स्या०। २ कार्य्यकारणभिन्नलिङ्गके अनुमानभेदे यथा पृथिवीत्वेन द्रव्यत्वानुमानम्। ३ अन्वयव्यतिरेक्यनुमाने च। यथा वह्निमान् धूमादित्यादि उभयव्याप्तिसम्भवेन अत्रोभयानुमानसम्भवात् गौ० सू० वृ०।

सामान्यप्रत्यासत्ति = सामान्यं तज्ज्ञानं वा प्रत्यासत्तिः। अलौकिकप्रत्यक्षसन्निकर्षभेदे सामान्यलक्षणाशब्दे दृश्यम्।

सामान्यलक्षणा = स्त्री सामान्यं साधारणधर्मः लक्षणं यस्याः। न्यायोक्ते अलौकिकप्रत्यक्षसाधने उपायभेदे सन्निकर्षशब्दे दृश्यम्। यथा एकघटज्ञाने घटत्वरूपसामान्यधर्मज्ञानात् सकलस्य घटत्ववतो ज्ञानम्। तस्याः प्रत्यासत्तित्व मणिकृता व्यवस्थापितं यथा “व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधूमादिविषयकः कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनुमितिः सा चेन्द्रियसम्बद्धविशेषणतातिरिक्तैव वा तद्विशेष्यकप्रत्यक्षे तदिन्द्रियसन्निकर्षस्य हेतुत्वेनानागतादौ संयोगादेरभावादिति वदन्ति”। तस्याः अप्रत्यासत्तित्वमाशङ्क्य सिद्धान्तितं तत्रैव चिन्तमणिकृता “उच्यते यदि सामान्यलक्षणा नास्ति तदानुकूलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् प्रसिद्धधूमे वह्निसम्बन्धावगमात् कालान्तरीयदेशान्तरीयधूमस्य मानाभावेनाज्ञानात् सामान्येन तु सकलधूमोपास्थितौ धूमान्तरे विशेषादर्शनेन संशयो युज्यते”। अत्र दोधितिः “अत्र च सामान्यं लक्षणं स्वरूपं यस्या इत्यर्थे सामान्यमेव प्रत्यासत्तिः सामान्यं लक्षणं निरूपकं यस्या इत्यर्थे तु तज्ज्ञानम्। तत्राद्यमाह सा चेन्द्रियेति इन्द्रियेण सम्बद्धं धूमादि तस्य विशेषणं तद्विशेष्यकज्ञानप्रकारो धूमत्वादिरित्यर्थः। विशेषणतेत्यत्र भावार्थो न बिवक्षितः तत्र विशेषणत्वं यस्या इति बहुव्रीहिवां सम्बद्धपदस्यैव वा परम्परासम्बन्धस्तत्सम्बन्धविशेष्यकज्ञानप्रकारोऽर्थः तथाच सैव विशेषणतेत्यर्थः। अत्र च बहिरिन्द्रियस्य लौकिकः सम्बन्धो ज्ञानस्य तदिन्द्रियजन्यत्वञ्च नियामकम् एवञ्चाणुत्वेन यत्किञ्चिदणूपस्थितावपि सकलाणुगोचरो मानलो बोध इति वदन्ति एतेन धूलीपटले धूमभ्रमे तत्र च वह्निव्याप्तिग्रहे तत्रासता धूमत्वेन धूमेषु व्याप्त्यग्रहाद्धूमदर्शनाद्वह्न्यनुमितिर्न स्यात् हेत्वभावेन परामर्शानुत्पादात् किञ्च धर्मिशि दोषवशान्नयनेनागृह्यमाणेन स्मरणप्रकारीभवता सामान्येन गृह्यमाणेन वा लौकिकसन्निकर्षविगमेऽपि चाक्षुषज्ञानापत्तिरिति परास्तम्। सामान्यञ्च सखण्डाखण्डभेदेन द्वेधा सखण्डे चाखण्डमेव परम्परया सम्बद्धं प्रत्यासत्तिः येन सम्बन्धेन चेन्द्रियसम्बद्धे सामान्यं ज्ञायते तेन सम्बन्धेनाधिकरणानां ग्रत्यासत्तिरिति”। दीधीतिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं निराकृतं तत्र दृश्यम्। तच्च विस्तरभयादिह नोक्तम्।

सामान्या = स्त्री समानैव स्वार्थे ष्यञ् अजा० टाप्। साधारणस्त्रियां वेश्यायाम् “धनमात्रलाभार्थं सकलपुरुषाभिलाषा। सा त्रिधा। अन्यसम्भोगदुःखिता भानवती वक्रोक्तिगर्विता च सापि द्विविधा। प्रेमगर्विता सौन्दर्य्य गर्विता च” रसमञ्जरी।

सामि = अव्य० साम–इन्। १ अर्द्धे “सामिघटिता” नैषधम्। २ निन्दायाञ्च अमरः।

सामिधेनी = स्त्री सम्–इन्ध–करणे ल्युट् नि०। अग्निसमिन्धनसाधने १ऋग्भेदे अमरः। २ समित्काष्ठे मेदि०। सामिधेनौशब्दनिरुक्तिश्च शत० ब्रा० १३५१ “समिन्धे सामधेनीभिर्होता तस्मात् सामिधेन्योनाम्”। “इध्मेनाग्वि- समिन्धनहेतुभूताः सामिधेनीर्विधास्यन् तासां नाम निर्वक्ति सामधेनीभिः प्रवो वाजा इत्यादिभिरृग्भिः” भा० ताश्चर्चः आश्व० श्रौ० १। २। ७। “अथ सामिधेन्यः प्रवो वाजा अभिद्यवो१ऽग्न आयाहि वीतये गृणानः २ ईडेन्यो नमस्यवस्तिरो३ऽग्नि दूतं वृणीमहे४ समिध्यमानो अध्वरे ५ समिद्धो अग्न आहुतेंति ६। ७ द्वे।

सामीप्य = न० समापस्य भावः स्वार्थे वा ष्यञ्। १ नैकट्ये २निकष्टे च सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः” सग्ध० व्याकरणम्।

सामुद्र = न० समुद्रे भवः अण्। (करकच) १ लवणे हेमच०। २ समुद्रभवे त्रि०।

सामुद्रक = न० समुद्रेणर्षिणा प्रोक्तम् वुण्। हस्तादिरेखादिना स्त्रीपुरुषशुभाशुभलक्षणज्ञापके समुद्रर्षिकृते १ ग्रन्थभेदे “वामभागे तु नारीणां दक्षिणे पुरुषस्य च। तिर्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम् इति सामुद्रकसारमुद्रणा” नैष०। सामुद्र स्वार्थे क। २ समुद्रलवणे राजनि०

सामुद्रिक = त्रि० समुद्रेण प्रोक्तं वेत्त्यधीते वा ठञ्। १ स्त्रीपुरुषशुभाशुभलक्षणज्ञापकग्रन्धाध्येतरि २ तद्वेत्तरि च।

साम्परायिक = न० सम्परायाय आपदे परलोकाय वा हितम् ठक्। १ युद्धे अमरः २ परलोकसाधने त्रि०।

साम्प्रतम् = अव्य० सम् + प्र + तन–डसु। युक्ते। १ उचिते २ इदानीमित्यर्थे अमरः।

सा(षा)म्ब = सम्बन्धे चु० उभ० सक० सेट्। साम्बयति ते अससाम्बत् त। अयं षोपदेशएव न्याय्यः।

साम्बर = न० सम्बरदेशे भवम् अण्। सम्बरदेशोद्भवे लवणे राजनि०।

साम्भवी = स्त्री सम्भवः अस्त्यंस्व प्रज्ञाद्यण् गौरा० ङीष्। रक्तलोध्रे शब्दच०।

साम्य = न समस्य भावः ग्यञ्। तुल्यत्वप्रयोजके साधारणधर्मे।

साम्राज्य = न सम्राजा भावः ष्यञ्। १ सार्वभौमत्वे “भेजे साम्राज्यदोक्षितम् रघुः “लक्षाधिपत्यं राज्यं स्यात् साम्रःज्यं दशलक्षके” इत्युक्ते २ दशलक्षग्रामाधिपत्ये च

साय = पु० सो–घञ्। १ दिनान्ते अमरः। २ वाणे मेदि०।

सायंसन्ध्या = स्त्री सायम् दिनान्ते सन्ध्या, तत्र सन्ध्यायते सम् + ध्यै–घञर्थे क वा। १ दिनान्तसन्ध्यायाम् अमरः। २ दिनान्ते उपास्यदेवताभेदे च। भावे अङ्। ३ तत्रोपासनायाम्।

सायक = पु० सो–ण्वुल्। १ वाणे २ खङ्गे च अमरः।

सायकपुङ्खा = स्त्री सायकस्य पुङ्खो यस्याः ५ व०। शरपु वृक्षे राजनि०।

सायन्तन = त्रि० सायम्भवः सायम् + ट्युल् तुट् च। तिनान्तभवे। स्त्रियां ङीप्। “सायन्तनीं तिथिप्रण्यः” इति भट्टिः। “सन्ध्यां सायन्तनीं कुर्य्यात् द्वादश्यादिष्वपि प्रिये!। अकुर्वन्निरयं याति यतो नित्यागमक्रिया” वृहन्नोलतन्त्रे १ पटले

सायिका = स्त्री सो–ण्वुल् टाप्। क्रमस्थितौ शब्दरम्।

सायम् = अव्य० सो–ञमु। दिनान्ते “सायं सम्प्रति वर्त्तते इत्यद्भटः।

सायाह्न = पु० सायोऽह्नः एक० त० टच् समा० अ ह्रादेशः। १ दिनान्ते “सम्याह्न स्त्रमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेदु दक्षोक्ते पञ्चधाविभक्तदिनस्य त्रिमुहूर्तात्मके पञ्चमे २ शेषेऽंशे च।

सायुज्य = न० सह युनक्ति–युज–क्विप् सादेशः सयुङ् तस्य भावः ष्यञ्। १ सहयोगे पञ्चविधमुक्तिमध्ये २ एकत्वरूपे मुक्तिभेदे च “सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवन जनाः” भाग० ३ स्क० २९ अ०।

सार = दौर्बल्ये अद० चु० उभ० सक० सेट्। सारयति ते अससारत् त अनेकाच्कत्वान्न षोपदेशः

सार = न० सृ–घञ्, सार–अच् वा। १ जले २ धने ३ न्याय्ये त्रि० मेदि०। ४ नवनीते न० राजनि०। ५ लौहे भावप्र०। ६ वने शब्दर०। ७ बले ८ स्थिरांशे ९ मज्जनि पु० अमरः १० सर्जक्षारे ११ वायौ जटा०। १२ रोगे धरणिः १३ अतिदृदे १४ पाशके पु० शब्दर० १५ दध्यग्रे पु० हेमच० १६ श्रेष्ठे १७ वरे च त्रि० अमरः। १षपरमेश्वरे “एकं शिवं शान्तमनन्तमच्युतं परात्परं ज्ञानमयं विशेषम्। अद्वैत मव्यग्रमचिन्त्यरूप सारन्त्वेकं नास्ति सारं ततोन्यत्। यस्मादेतज्जायते विश्वमग्र्यं यस्मिन् लीनं स्याच्च पश्चात्स्थितञ्च। आकाशवन्मेघजालञ्च धृत्या यद्विश्वं वै ध्रियते तच्च सारम्। अष्टाङ्गयोगैर्यदवाप्तुमिच्छन् योगी युनक्त्यात्मरूपं सदैव। निवर्त्तते प्राप्य यन्नेह लोके तद्वै सारं सारमन्यन्न चास्ति” कालिकापु० २७ अ०।

सारक = पु० सारयति रेचयति सृ–णिच् ण्वुल्। १ जयपाले राजनि०। २ रेचकद्रव्यमात्रे त्रि०।

सारखदिर = पु० कर्म०। विटखदिरे राजेनि०।

सारगन्ध = पु० सारःश्रेष्ठोगन्धो यस्य। चन्दने शब्दच०।

सारघ = न० सरघाभिर्निर्वृत्तम् अण्। मधुनि क्षोद्रे जटा०।

सारङ्ग = पुंस्त्री० सृ–अङ्गच्। १ चातकस्वगे अमरः। २ हरिणं ३ गजे मेदि०। ४ भृङ्गे ५ ?ख}गभेदे विश्वः। ६ छत्रे ७ राजहंसे ८ चित्रमृगे ९ वाद्यभेदे १० वस्त्रे शब्दर० ११ नानावर्णे १२ मयूरे १३ कामदेबे १४ चापे १५ केशे १६ स्वर्ण १७ आभरणे १८ पद्मे १९शङ्खे २०चन्दने २१ कर्पूरे २२ पुष्पे २३ कोकिले २४ मेघे २५ सिंहे २६ रात्रौ २७ भूमौ २८ दीप्तौ च नानार्थकोषः। शारमङ्गमस्य शक०। शारङ्गोऽपि चित्रमृगादौ। चित्रवर्ण त्रि० अमरः। सवत्र जातौ स्त्रियां ङीष्

सारङ्गिक = पु० सारङ्गं मृगं हन्ति ठक्। व्याधे सि० कौ०।

सारजं = न० सारात् दध्यग्रात् जायते जन–ड। नवनीते शब्दच०।

सारण = न० सृ–णिच–ल्यु। १ गन्धद्रव्ये धरणिः। २ अतीसाररोगे ३ रावणसचिवभेदे च हेमच०। ४ भद्रबलायां धरणिः ५ आम्रातके शब्दच०।

सारणि(णी) = स्त्री सृ–णिच्–अनि वा ङीप्। १ क्षुद्रनद्यां २ प्रसारिनयाम् उणादि० सङ्क्षेपेणाङ्कभेद सूचितग्रहगत्यादिबोधके ज्योतिषग्रन्थभेदे च।

सारण्ड = पु० सृ–णिच् वा० अण्ड। सर्पाण्डे जटा०।

सारतरु = पु० सारप्रधानः जलप्रधानस्तरुः। कदलीवृक्षे धनञ्जयः।

सारथि = पु० सृ–अथिण, सह रथेन सरथः घोटकः तत्र नियुक्तः इञ् वा। रथादिवाहनप्रेरके नियन्तरि अमरः। तल्लक्षणं मात्स्ये १८९ अ० यथा “निमित्तशकुनप्रज्ञो हयशिक्षाविशारदः। हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित्। स्वामिभक्तो महोत्साही सर्वषां च प्रियवदः। शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः”।

सारदा = स्त्री सारं ददाति दा–क। १ सरस्वत्याम् शब्दर्०। “लिखति यदि गृहीत्वा सारदा सर्वकालम्” शिवस्तवः। २ सारदातरि त्रि०।

सारद्रुम = पु० सारप्रधानो द्रुमः। खदिरवृक्षे राजनि०।

सारपादप = पु० सारयति सारः नित्यक०। धामनिवृक्षे रत्नमा०

सारभाण्ड = न० कर्म०। १ अकृत्रिमपात्रे २ श्रेष्ठपात्रे च।

सारमिति = पु० सारं यथार्थं मिनोत्यनेन मा–करणे क्तिच्। १ वेदे हेमच० भावे क्तिच्। २ सारज्ञाने स्त्री।

सारमूषिका = स्त्री सारे मूषिकेवापहारकत्वात्। देवदालीवृक्षे राजनि०।

सारमेय = पुंस्त्री सरमायाः कश्यपपत्न्याः अपत्यम् ढक्। १ कुक्कुरे० २ तदयोषिति स्त्री ङीष्।

सारलौह = न० लौहेषु सारः राज०। लोहसारे (इश्पात)

सारव = त्रि० सरय्वां भवः अण् नि०। सरयूनदीभवे अमरः

सारस = न० सरो नियतवसतिरस्य अण्। १ पद्मे अमरः २ कट्यामरणे च। सहं रसेन स्वार्थे अण्। ३ चन्द्रे ४ स्वनामख्याते पक्षिणि पुंस्त्री० स्त्रियां ङीष् सरस इदम् अण्। ५ सरोवरसम्बन्धिनि त्रि०। “नद्यशैलवराच्चाम्भा यत्र संस्रुत्य तिष्ठति। तत्सरोज जलं छन्नं सारसं परिकीर्त्तितम्” भावप्र० उक्ते ६ जलभेदे “सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लधु। रोचनं तुवरं रूक्षं वद्धमूत्रमलं हितम्” तत्रोक्तास्तद्गुणाः।

सारसन = न० सारं सनोति सन–अच्। १ स्त्रोकट्याभरणे काञ्च्यां कञ्चुकदाद्यार्थं मध्यकाये निबद्धे २ पट्टिकादौ च अमरः।

सारस्वत = पु० सरस्वती देवताऽस्य, सरस्वत्या इदं वा अण्। १ बल्वदण्डे २ देशभेदे हेमच०। पञ्चगौडमध्ये ३ व्रह्मणभेदे ४ सरस्वतीप्रतिपालितमुनिभेदे ५ ब्राह्मदिनरूपे कल्पभेदे च “सारस्वतस्य कल्पस्येति” मत्स्यपुराणम् ६ सरस्वतीसम्बन्धिनि त्रि० “तस्यां पूर्वाह्णसमये कुर्य्यात् सारस्वतोत्सवम्” ति० त०। ७ सरस्वतीदेवताके च त्रि०। “तत्पावनाय निर्वाप्यश्चरुः सारस्वतोद्विजैरिति” स्मृतिः। मुनिभेदजन्मकथा च भा० श० ५२ अ० “ब्रह्मषं! (दधीच!) तेव पुत्रोऽयं त्वद्भक्त्या धारितो मया। दृष्ट्वा तेऽप्सरसं रेतो यत् स्कन्नं प्रागलम्बुषाम्। तत् कुक्षिणा वै व्रह्मर्षे! त्वद्भक्त्या धृतवत्यहम्” इत्युपक्रमे “तस्मात् सारस्वतः पुत्रो महांस्ते वरवर्णिनि!। तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः। सारस्वत इति ख्यातो भविष्यति यथातपाः। एष द्वादश वार्षिक्यामनावृष्ट्यां द्विजर्षभान्। सारस्वतो महाभागो वेदानध्यापयिष्यति” इति सरस्वतीं प्रति दधीचोक्तिः तस्य वेदाध्यापनकथा च तत्रैव अध्यायशेषे “अनावृष्टिरनुप्राप्ता राजन् द्वादशवार्षिकी। तस्यां द्वादशवार्षिक्यामनावृष्टौ महर्षयः। वृत्त्यर्थ प्राद्रवन्राजन्! क्षुधार्त्ताः सर्वतो दिशम्। दिग्भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिः मारस्वतस्तदा। गमनाय मतिञ्चक्रे तमुवाच सरस्वती। न गन्तव्यमितः पुत्र! तवाहारनहं सदा। दास्यामि मत्स्यप्रवरानुष्यतामिह भारत!” ततः तद्दत्तमत्स्याहारेण प्राणानधारयत् वेदांश्चाधारयत् अतीतायामनावृष्टौ अन्नाभावेन नष्टवेदा अन्ये मुनयस्ततो वेदान् लेभिरे तत्कथा “तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे। षष्टिर्मुनिसहस्राणि शिष्य त्वं प्रतिपेदिरे। सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात्”। देशभेदश्च “मध्ये सारस्वता मत्स्याः सूरसेनाः समाथुराः। पाञ्चालशाल्वमाण्डव्य कुरुक्षेत्रगजाह्वयम्” इत्युक्तेर्मध्यदेशभेदः सोऽभिजनोऽस्य अण्। ८ तद्देशवासिस्तने। तत्रत्यब्राह्मणभेदश्च “सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः। पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः” पुराणान्तरम्।

सारस्वतकल्प = पु० कर्म०। १ तन्त्रोक्ते सरस्वत्या उपासनाथके विधानभेदे २ तन्नामके ब्रह्मदिने च। कल्पशब्दे १८१६ पृ० दृश्यम्।

सारा = स्त्री सारयति सृ–णिच्–अच्। १ कृष्णत्रिवृतायाम् शब्दर० २ दूर्वायाञ्च शब्दच०।

साराल = पु० सारमालाति आ + ला–क। तिलवृक्षे शब्दर०।

सारि(री) = पुंस्त्री० सृ–इण् स्त्रीत्वपक्षे वा ङीप्। १ पाशके“सारीं चरन्तीं सखि! मारयेति” नैषधम्। २ पक्षि भेदे च (शालिक) शब्दच०। ङोषन्तः ३ सप्तलायां राजनि०

सारिका = स्त्री सरति गच्छति सृ–ण्वुल्। पक्षिभेदे (शालिक) अमरः।

सारिणी = स्त्री सृ–णिनि। १ सहदेवीलतायां २ कार्पास्यां ३ दुरालभायां ४ कपिलशिंशपायां ५ प्रसारिण्यां ६ रक्तपुनर्णवायाञ्च राजनि०।

सारिवा = स्त्री सारिरिव वाति वा–क। (अनन्तमूल) लताभेदे सा च दुग्धगर्भा जम्बुवत्पत्रां सुगन्धा च। सा च कृष्णशुक्लभेदात् द्विपिधा “सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु। अग्निमान्द्यारुचिश्वासकासामविप्रनाशनम्। दोषत्रयास्रप्रदरज्वरातीसारनाशनम्” भावप्र०।

सारोष्ट्रिक = पु० सारः श्रेष्ठ उष्ट्रो यत्र सारोष्ट्रः देशभेदस्तत्र भवः ठक्। विषभेदे अमरः।

सार्थ = पु० सृ–थन् स्वार्थे अण्। १ समूहे २ जन्तुसमूहे अमरः “स जयत्यरिसार्थसार्थकीकृतनामा” नैषधम्। सह अर्थेन वाच्येन वा। ३ बणिक्समूहे मेदि०। ४ धनिनि त्रि०। कप्। सार्थक। ५ अर्थसहिते त्रि० ६ शब्दे पु० “सार्थकः स्वार्थबोधकृदिति” शब्दशक्तिप्रकाशिका।

सार्थवाह = पु० सार्थं वहति वह–अण्। बणिग्जने अमरः

सार्द्र = त्रि० सह आर्द्रेण। आर्द्रतायुक्ते अमरः।

सार्द्धम् = अव्य० सह + ऋध–अमु। १ साहित्ये अमरः। सह अर्द्धेन। सार्द्ध २ अर्द्धयुक्ते त्रि०।

सार्प = न० सर्पोदेवतास्य श्रण्। अश्लेषानक्षत्रे।

सार्पिष्क = त्रि० सर्पिषा संस्कतम् ठक्। घृतसंस्कृते व्यञ्ज नादौ हेमच०।

सार्वजनीन = त्रि० सर्वेषु जनषु विदितः खञ्। सर्वलोकविदिते।

सार्वत्रिक = त्रि० सर्वत्र भव ठक्। सर्वस्मिन् कालादौ भवे।

सार्वधातुक = न० सर्वधातून् व्याप्नोति ठक्। व्याकरणोक्त सर्वधातुप्रकृतिके लट् लोट लड् विधिलिङ् इत्याख्यके। चतुलकारे

सार्वभौतिक = त्रि० सर्वाणि भूतानि व्याप्नोति ठञ् द्विपदवृद्धिः। सर्वभूतव्यापके।

सार्वभौम = पु० सर्वस्या भूमेरीश्वरः सर्वासु भूमिषु विदितो वा अण् द्विपदवृद्धिः। १ चक्रवर्त्तिनि नृपे २ उत्तरदिक्स्थे गजे च अमरः। ३ विदूरथनृपपुत्रे पु० भाग० ९। २८ अ०। ४ सकलभूमिसम्बद्धे त्रि०।

सार्वलौकिक = त्रि० सर्वेषु लोकेषु विदितः ठञ् द्विपदवृद्धिः। सर्वत्रलोकेषु विदिते “स रामः सार्वलौकिकः” मट्टिः।

सार्वविभक्तिक = त्रि० सिर्वासु विभक्तिषु तदर्थे भवः–ठञ्। सर्वविभक्त्यर्थे विहिते तसिलादो प्रत्यये पा०।

सार्षप = त्रि० सर्षपस्य विकारः अण्। सर्षपविकारतैलादौ “अदुष्टं सार्षप तैलम्” स्मृतिः।

साल = पु० सल–घञ्। १ वृक्षमात्रे “रसालसालः समदृश्यतामुना” नैषधम्। २ स्वनामख्याते वृक्षभेदे “सालस्तु सर्जकार्य्यश्वकर्णकः सस्यसंवरः। अश्वकर्णः कषायः स्याद् व्रणस्वेदकफक्रमीन्। ब्रध्नविद्रधिबाधिर्य्ययोनिकर्ण गदान् हरेत्। सर्जकोऽन्योऽजकर्णः स्यात् सालो मरिच पत्त्रकः। अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति। कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” भावप्र०। एतत्परत्वे तालव्यादिताऽवि। ३ प्राकारे मेदि० ४ सालमत्स्ये भरतः० ५ राले राजनि०।

सालन = पु० सालः कारणत्वेनाऽस्त्यस्य पामादितत्वात् न। सालनिर्य्यासे (धुना) रत्नमा०।

सालनिर्यास = पु० ६ त०। सर्जरसे (धुना) रत्नमा०।

सालपर्णी = स्त्री सालस्येव पर्णान्यस्याः ङीप्। (सालपानि) वृक्षे शब्दर०।

सालपुष्प = न० सालस्येव पुष्पं यस्य। स्थलपद्मे शब्दर०।

सालभञ्जिका = स्त्री सालं भनक्ति भन्ज–ण्वुल्। १ काष्ठाटिनिर्मिते कृत्रिमक्रीडासाधने पुत्तलिकाभेदे २ वेश्यायाञ्च जटा०।

सालरस = पु० ६ त०। (धुना) राले राजनि०।

सालवेष्ट = पु० सालं वेष्टयति वेष्ट–अण्। राले (धुना) राजनि०

सा(शा)ला = स्त्री सालः प्राकारोऽस्त्यस्याः अच्। गृहे भरतः

सा(शा)लावृक = पुंस्त्री० सालाया वृक इव। कुक्कुरे। स्त्रियां ङीष्।

सा(शा)लूर = पुंस्त्री० स(श)ल–ऊरच् णिच्च। भेके मण्डूके शब्दर० स्त्रियां ङीष्।

सा(शा)लेय = पु० सा(शा)लायां भवःढक्। मधुरिकायाम् अमरः

सालोक्य = न० समानोलोकोऽस्य तस्य भावः ष्यञ्। सायुज्यशब्दोक्ते पञ्चविधमुक्तिमध्ये एकलोकसहवासरूपेमुक्तिभेदे।

सा(शा)ल्व = पु० ब० व० सौमदेशे। तेषां राजा अण्। तद्देशाधिपे नृपभेदे स च श्रीकृष्णेन हतः भा० व० १४ अ० दृश्यम्।

सा(शा)ल्वहन् = पु० साल्वं नृपं हतवान् हन–क्विप्। विष्णौ हेमच०।

सावधान = त्रि० सह अवधानेन। १ स चेतने सतर्के २ मनोभिनिवेशयुक्ते च।

सावन = न० सवनं यागाङ्गं स्नानं सोमनिष्पीडनं वा तस्येदमण्। “अहोरात्रेण चैकेन सावनो दिवसः स्मृतः” ब्रह्मसिद्धान्तोक्ते १ अहोरात्रात्मके दिवसे, सवनत्रयस्य अहोरात्रसाध्यत्वादह्नस्तत्सम्बन्धित्वम्। तत्त्रिंशद्दिबसात्मके २ मासभेदे च पु० “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः” विष्णुध० “सावने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः” म० त०। “सूतकादिपरिच्छेदो दिनमासाव्दपस्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः” इति सूर्य्यसिद्धान्तः। सावनमासकृत्यानि च विशेषतः कानिचित् म० त० पितामहेनोक्तानि “विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः” “आदिपदेन सत्रभृतिवृद्धिप्रायश्चित्तायुर्दायाशौचगर्भाधानपुंसवनसीमन्तोन्नयननामकरणान्नप्राशननिष्क्रमणचूडादिग्रहणम्” म० त० रघु०। एषु सावनेन मानेनैव सर्वत्र गणना “सत्राण्युपास्यान्यथ सावनेन लोक्यञ्च यत् स्याद्व्यवहारकर्म विष्णुध० ३ वर्षभेदे “सौरेणाव्दस्तु मानेन यदा भवति भार्गव!। सावनेन च मानेन दिनषट्कं प्रपूर्य्यते”। “सौरवर्षे दिनषट्काधिकसावनवर्षो भवतीति रघु०। दिनषट्कमिति प्रायिकम् सौरवर्षे सावनस्य ५ १५। ३१। ३०। २४ दिनाद्याधिक्यस्यैव सिद्धान्तोक्तेः। ४ यज्ञान्ते ५ यजमाने ६ वरुणे च पु० मेदि०।

सा(शा)वर = पु० स(श)वरेण निर्वृत्तः अण्। १ पापे २ अपवादे च विश्वः। ३ लोध्रे शब्दच०।

सावर्ण = पु० सवर्णायां सूर्य्यपत्न्यां संज्ञायां भवः अण्। सवर्णागर्भजे सूर्य्यजे अष्टमे मनौ इञ्। सावर्णिरप्यत्र “सावर्णिः सूर्यतनथो यो मनुः कथ्यतेऽष्टमः” “सूर्य्याज्जन्म समासाद्य सावर्णिर्भविता मनुः” देवीमा०। “छायासंज्ञा सुतो योऽसौ द्वितीयः कथितो मनुः। पूर्बजस्य सवर्णोऽसौ सावर्णस्तेन कय्यते” देवीभाग० तन्नामनिरुक्त्यन्तरमुक्तम् “विवस्वतश्च द्वे भार्य्ये विश्वकर्मसुते उभे। संज्ञा छाया च राजेन्द्र! ये प्रागहिते तव। तृतीयां बडवामेके तासां संज्ञासुतास्त्रयः। यमोयमी श्राद्धदेवश्छायायाश्च सुतान् शृणु। सावर्णिस्तपती कन्या भार्य्या संवरणस्य या। शनैश्चरस्तृतीयोऽभूत् अश्विनौ बडवात्मजौ। अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः” भाग० ८। १३ अ०। कल्पभेदादविरोधः।

सावित्र = पु० सविता देवताऽस्य अण्। १ विप्रे हेमच०। २ ऋग्विशेषे स्त्री ङीप्। “सावित्रीमात्रसारोऽपीति” मनुः। सा च ३ सत्यवतोभार्य्यायाम् स्त्री ४ सवितृदेवताके चर्वादौ त्रि०। ५ यज्ञोपवीते न० शब्दच०। स्वार्थे अण्। ६ सूर्य पु० शब्दच०। तस्येदम् अण्। ७ महादेवे ८ वासौ च पु० मेदि०। ८ गर्भे शब्द० १० व्रह्मपत्न्यां स्त्री ११ दुर्गायां च स्त्री मेदि०। तन्नामनिरुक्तिः देवीपु० ४४ अ० “त्रिदशैरर्चिता देवी वेदभागेषु पूजिता। भावशुद्धस्वरूपा तु सावित्री तेन सा स्मृता” वह्निपु०। अन्या निरुक्तिः “सर्वलोकप्रसवनात् सविता स तु कीर्त्त्यते। यतस्तद्देवता देवी सावित्रीत्युच्यते ततः। वेदप्रसवना च्चापि सावित्री प्रोच्यते बुधैः”। ब्रह्मपत्नी च शतरूपा “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम्। स्त्रीरूपा मर्द्धमकरोदर्द्धं पुरुषरूपवत्। शतरूपा च सा ख्याता सावित्री च निगद्यते। सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप!” मत्स्यपु० ३ अ०। गायत्रीशब्दे दृश्यम्।

सावित्रीव्रत = न० सावित्रीपूजनमुद्दिश्य कर्त्तव्यं व्रतम्। ज्यैष्ठकृष्णचतुर्दश्यां सावित्रोपूजनार्थे व्रते तद्विधियेथा “शिवाऽघोरा तथा प्रेता सावित्री च चतुर्दशी। कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्” ति० त० धृतवचनम् यमः “दत्त्वा जलाञ्जलीन् सप्त कृष्णपक्षे चतुर्दशीम्। धर्मराजं समुद्दिश्य सर्वपापैः प्रमुच्यते”। लिङ्गपुराणे उपवासश्चतुर्दश्यां महापातकनाशकः”। पराशरः “मेषे वा वृषभे वापि सापित्रीं तां विनिर्दिशेत्”। तां चतुर्दशीम् “ज्यैष्ठे कृष्णचतुर्दश्यां सावित्रीमर्चयन्ति याः। वटमूले सोपवासा न ता वैधव्यमाप्नुयुः”। राजमार्त्तण्डकृत्यचिन्तामण्योः “ज्यैष्ठे मासि चतुर्दश्यां सावित्रीव्रतमुत्तमम्। अवैधध्याय कुर्वन्ति स्त्रियः श्रद्धासमन्विताः”। व्रतमात्रे तु अनन्ततृतीयाव्रतोक्तमाचरन्ति दृष्टपरिकल्पनान्यायात् तदुक्तं मत्स्यपुराणे “गर्भिणीसूतिका नक्तं कुमारी च रजस्वला। यदाऽशुद्धा तदा- न्येन कारयेत् क्रियते सदा”। उपवासाशक्ता नक्तं भोजनं कुर्य्यात् “उपवासे त्वशक्तानां नक्तं भोजनमिष्यत” इति तद्धृतवचतान्तरात्। अशुद्धा चेत् पूर्जा कारयेत्। कायिकञ्चोपवासादिकं सदा शुद्धया अशुद्धया च स्वयं क्रियते। एवं स्मृतिपरिभाषिकायां वर्द्धमानोपाध्यायाः। नारदः “दिवाभागे त्रयोदश्यां यदा चतुर्दशी भवेत्। तत्र पूज्या सहासाध्वी देवीसत्यवता सह। दिवाभागे दण्डद्वयमात्रसत्त्वेऽपि अतएव प्रदोषे व्रतमाचरन्ति। पूर्वाह्णे तद्विधत्वेऽपि। पराह्णे त्रिसन्ध्यव्यापित्वे पराह एव त्रिसन्ध्यव्यापि नोति वचनात्। यदा तु पूर्वपरयोर्न तथाविधा तदापि पराह एव यथा ज्योतिषे “चतुर्दश्याममावास्या यदा भवति नारद!। उपोष्या पूजनीया सा चतुर्दश्यां विधानतः”। सा सावित्री। ततश्चामावास्यायां सावित्रीव्रतविधानं शिवाघोरेति वचनञ्चैतत्परम्। पराशरः “सावित्रीमर्चयित्वा तु फलाहारा परेऽहनि। ततश्चाविपवा नारी वित्तभोगान् लभेत सा”।

सावित्रीसूत्र = न० सावित्रीदीक्षाकालिकं सूत्रम् शाक०। यज्ञापवीते पब्दच०।

साश्रुधी = स्त्री साश्रु ध्यायति ध्यै–क्विप् सम्प्र०। श्वश्र्वाम् त्रिका

सास्ना = स्त्री० सस–न णिच्च। गोगलस्थिते लोमसंघातात्मके कम्बले अमरः।

सास्र = त्रि० सह अस्रेण। चक्षुर्जलान्विते।

सास्थिताम्रार्द्ध = न० सास्थि अस्थिसहितं ताम्रार्द्धं यत्र। कांस्ये त्रिका० तस्य रङ्गसहितताम्रार्द्धजातत्वात् तथःत्वम् साहिताम्रार्द्ध इत्येव पाठः सम्यक् अहिर्नागो रङ्गः

साहचर्य्य = न० सहचरस्य भावः व्यञ्। १ समभिव्याहारे, २ साहित्ये ३ साननाधिकरण्ये च।

साहस = न० सहसा बलेन निर्वृत्तम् अण्। १ मलेन कृते चौर्य्य स्त्रासंग्रहादौ दुष्टकर्मणि, “सहसा क्रियते यत्तु तत् साहसमिति स्मृतमिति” स्मृतिः। तद्विवृतिः वीरमि० “तस्य स्वरूपमाह नारदः “सहसा क्रियते कम यत्किञ्चिद्बलदर्पितैः। तत्साहसमिति प्रोक्तं सहोबनमिहोच्यते” इति। तस्य चातुर्विध्यमाह वृहस्पतिः “मनुष्यमारणञ्चौर्यं परदाराभिमशनम्। पारुष्यमुभयञ्चेति साहसं स्याच्चतुर्विधम्” इति। उभय पारुष्यं वाग्दण्डपारुष्ये। तत्र त्रैविध्यमाह नारदः “तत्पुनस्त्रिविधं ज्ञेयं प्रथमं मध्यमन्तथा। उत्तमञ्चेति शस्त्रेषु तस्योक्तं लक्षणं पृथग्” इति। एतेषां स्वरूपमाह स एव “फलमूल दकादीनां क्षेत्रोपकरणस्य च। भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम्। वासःपश्वन्नपानानां गृहोपकरणस्य च। एतेनैव प्रकारेण मध्यम साहसं स्मृतम्। व्यापादो विषशस्त्राद्यैः परदाराभिमर्शनम्। प्राणोपरोधि यच्चान्यदुक्तमुत्तमसाहसम्” इति। भङ्गः फलादि स्वरूपनाशनम्। आक्षेप आक्रोशः वाक्तिरस्करणमिति यावत्। उपमर्दः स्वरूपावशेषेण पीडनम्। एतेनैवंप्रकारेणेत्यर्थः। त्रिविधेऽपि साहसे दण्डमाह नारदः “तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः। मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः। उत्तमे साहसे दण्डः सहस्रावर इष्यते। बधः सर्वस्वहरण पुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसे” इति। ब्राह्मणस्य तु महत्यप्यपराधे शारीरदण्डाभावमाह स एव “अविशेषेण सर्वेषामेष दण्डविधिः स्म्रतः। बधादृते ब्राह्मणस्य न बधम् व्राह्मणोऽर्हतीति”। यमोऽपि “न शारीरा ब्राह्मणस्य दण्डाभवति कस्यचिद् इति। महत्यपराध ब्राह्मणस्य दण्डमाह स एव “क्षित्या तु बन्धने बद्ध्वा राजा भक्षं प्रदापयेत्” इति। नारदाऽपि “शिरसोमुण्डनं दण्डस्तस्य निर्वासनं पुरात्। ललाटे चाभिशस्ताङ्कः प्रयाण ङ्गर्द्धभेन च इति। परद्रष्यापहरणरूपसाहसस्वरूपं तत्र च दण्डमाह याज्ञवल्क्यः “सामान्यद्रव्यप्रसभहरण साहसं स्मृतम्। तन्मूल्याद् द्विगुणो दण्डो निह्नव तु चतुर्गुणः” इति। बहुभिर्जनैः प्रहरादिकालक्रमेण रक्ष्यमाणस्य द्रव्यस्य बलात्कारेण हरणं साहसरूपं स्तेयमिति पूर्वार्द्धार्थः। तन्मूल्यादपहृतद्रव्यमूल्यात्। निह्नवे अपलापे। यः साहसं तरोति तद्द्विगुणन्दमम्। यस्तु साहसं कृत्वा निह्नुते स चतुर्गुणन्दाप्य इत्युत्तरार्द्गार्थः। साहसिकस्य पयोजयितारं प्रत्याह मएव “यः साहसं कारयति स दाप्यो द्विगुणन्दमम्। यश्चैवमुक्त्वाहन्दाता कारयेत्स चतुर्गुणम्” इति। द्विगुणन्दमं साहसिकदण्डाद्द्विगुणं दण्डम्। साहसिकविशेषं प्रत्याह स एव “अध्यांक्रोशातिक्रमकृद्भातृभार्य्यांप्रहारदः। गंदिथस्याप्रदाता च समुद्रगृहभेदकृत्। सामन्तकुलिकादीनामपकारस्य कारकः। पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः। स्वच्छन्दं- विधवागामी विक्रुष्टेनाभिधावकः। अकारणेन विक्रोष्टा चाण्डालश्चोत्तमान् स्पृशन्। शूद्रपवजितानाञ्च दैवे पित्र्ये च भोजकः। अयुक्तं शपथं कुर्वन् अयोग्यो योग्यकर्मकृत्। वृषक्षद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत्। साधारणस्यापलापी दासीगर्भविनाशकृत्। पितृपुत्रस्वसृभ्रातृदम्पत्याचार्यशिष्यकाः। एषामपतितान्योन्यत्यागी च शतदण्डभाग्” इति। “अज्ञानकर्त्तृके साहसिके पित्रादिबान्धवाः। प्रष्टव्या राजपुरुषैः सामादिभिरुपक्रमैः। विज्ञेयोऽसाधुसंसर्गाच्चिह्नेर्होढेन वा नरैः। एषोदिता घातकानान्तस्कराणाञ्च भावना। गृहीतः शङ्कया यस्त न तत्कार्यं प्रपद्यते। शपथेनावबोद्धव्यः सर्ववादेष्वयं विधिः” इति। चिह्नं रक्तलेपादि हाढीमृतस्य धनादिकम्। ज्ञानानन्तरकर्त्तव्यमाह व्यासः “ज्ञात्वा तु घातकं सम्यक् ससहाय सबान्धवम्। हन्याच्चित्रबधोपायैरुद्बेजनकरैर्नृपः” इति। वृहस्पतिः “प्रकाशघातका ये तु तथा चोपांशुघातकाः। ज्ञात्वा सम्यग्धनं हृत्वा हन्तव्या विविधैर्बधैः” इति। व्रह्मघ्न क्षत्रियादिविषयमेतत्। यत आह बौधायनः “क्षत्रियादीनां ब्राह्मणस्य बधे बधः सर्वस्वहरणञ्च तेषामेव तुल्यापकृष्टबधे यथाबलमनुरूपं दण्डञ्च कल्पयोदिति” तेषां क्षत्रियादीनान्तुल्यापकृष्टबधे सजातीयहीनजातीयबधे दण्डं शारीरदण्डम्। एकघातार्थप्रवृत्तानां बहूनान्दोषानुरूपं दण्डमाह कात्यायनः “एकञ्चेद्बहवो हन्युः संरुद्धाः पुरुषन्नराः। मर्मघाती तु यस्तेषां स घातक इति स्मृतः”। यो मर्मघातकः स एव बधापनाधटण्डभागित्यर्थः। स एव “आरम्भकृत्सहाय दाषवक्ताऽनुदेशकः। आश्रयः शास्त्रदाता च भक्तदायो विकर्मिणाम्। युद्धोपदेशकश्चैव तद्विनाशप्रवर्त्तकः। उपेक्षाकार्य्ययुक्तश्च दोषवक्तानुमोदकः। अनिषेद्धा क्षमो यः स्यात् सर्वे ते कार्य्यकारिणः। यथाशक्त्यनुरूपन्तुदण्डमेषां प्रकल्पयेत्” इति। वृहस्पतिरपि “एकञ्च बहवो यत्र प्रहरन्ति रुषान्विताः। मर्मप्रहारको यस्तु घातकः स उदाहृतः। मर्मघाती तु यस्तेषां यथोक्तं प्रापयेद्दमम्। आरम्भकृत्सहायश्च दोषभागी तदर्द्धतः। क्षतस्याल्पमहत्त्वञ्च मर्मस्थानञ्च यत्नतः। सामर्थ्यञ्चानुवन्धञ्च ज्ञात्वा चिह्नैः प्रसाधयेत्” इति। विषयविशेषे मनुष्यबधकत्तुर्दण्डाभावं दोषाभावप्रदर्शनपरानाह मनुः “शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते। द्विजातीनाञ्च वर्णानां विप्लवे कालकारिते। आत्मनश्च परित्राणे दक्षिणानाञ्च सङ्गरे। स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति” इति। यत्र देशे काले च धर्मस्तटाकादिरूपोभेदतच्छेदनदिनाऽपरुध्यते तथा शूद्रेतरवर्णसङ्गरे परदाराक्रमणादिरूपे राजाभावकालकारिते। तथात्मनः परतः प्राणसशये। तथा दक्षिणानां सङ्गरे गोग्रहणनिमित्तके युद्धे। तथा स्त्रीविप्राभ्युपपत्तौ दुर्बलहिंसानिवारणे। धर्माद्धेतोर्घ्रन् न दुष्यति यतः। अतस्तत्र द्विजार्तिभिः क्षत्रधर्माश्रयणरहितैरपि समर्थैः शस्त्रं ग्राह्यमित्यन्वयः। अत्र द्विजातिग्रहणं ब्राह्मणवैश्यविषयम्। प्रजापालनार्थं क्षत्रियस्य वचनान्तरेणैव शस्त्र ग्रहणस्य प्राप्तत्वादित्यभिसन्धायैव बौधायन आह “ब्राह्मणार्थे गवार्थे च वर्णानां वापि सङ्गरे। गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे” इति। यत्तु “परीक्षार्थमपि ब्राह्मण आयुधन्नाददीत” इत्यापस्तम्बवचनम्। यच्च बोधायनवचनम् “हास्यार्थमपि ब्राह्मण आयुधं नाददीतेति तद्द्वयमपि धर्मोपरोधादिभिन्नविषयम्। साहसस्तेयस्य क्रोधलोभकृतत्वमाह वृहस्पति “साम्प्रतं साहसस्तेयं श्रूयतां क्रोधलोभजम्” इति। स्त्रीसंग्रहणाख्यसाहसस्वरूपमाह स एव “अनिच्छन्त्या यत् क्रियते सुप्तोन्मत्तप्रमत्तया। प्रलपन्त्या वा रहसि बलात्कारकृतन्तु तत्” इति। अनिच्छन्त्या परपुरुषेण सहेति शेषः। अनिच्छन्त्या यानि चिह्नानि तस्याः कर्त्तव्यं राजकतव्यं चाह संवर्त्तः “नेच्छन्त्या यानि चिह्नानि बलात्कारकृतानि च। परपुंसः प्रसङ्गेषु नारीणान्तानि शृण्वतः। नखदन्तक्षतक्षामासकचग्रसवीक्षिता। सद्यो निश्वासिता नारी बलात्कारेण दूषिता। उच्चैर्विक्रोशयन्ती च रुदन्ती लोकसन्निधौ। तस्य नामवदन्ती च यथाहन्तेन दूषिता। शोचेदेवंविधैर्लिङ्गैर्व्रणोकृतपयोधरा। चिह्नालङ्कारकेशैश्च व्याकुलीकृतलोचना। राज्ञा सभ्यैः सभां नीत्वा स्वयमन्विष्य तत्क्षणात्। यद् ब्रूयात् सहजं तत्र तत् कर्त्तव्यं प्रयत्नतः। विवादे साक्षिणामत्र प्रकुर्वीत परिग्रहम्। प्रार्थनादभिशस्तस्य न दिव्यं दातुमर्हति” इति। अत्र दण्डमाह मनुः “सहस्रं ब्राह्मणो दण्ड्यो विप्रां गुप्तां वलाद्व्रजन् इति। गुप्तां स्वनियमेन रक्षिताम्। क्षत्रिवादिषवर्णविषये दण्डमाह वृहस्पतिः “सहसा कामयेद् यस्तु धनन्तस्याखिलं हरेत्। उत्कृत्य लिङ्गवृषणौ भ्रामयेद् गर्द्धभेन तु” इति। कामयेत् परस्त्रियङ्गच्छेत्। अयमेव दण्डोऽनुलोमप्रतिलोमजात्योः सजातीयपरभार्य्यागमने वेदितव्य इति मदनरत्ने। हीनजातीयपरस्त्रीगमने ब्राह्मणादिष्वेतदर्द्धपरिमितो दण्डः। उत्कृष्टजातीयपरदारगमने अयमेव दण्डो बधसहितः कार्य्य इत्याह स एव “दमोनेयः समायान्तु हीनायामधिकस्ततः। पुंसः कार्योऽधिकायान्तु गमने सप्रमापणम्” इति। दमः सहसा कामयेदिति वाक्योक्तः। नेयः प्रापणीयः। यत्तु बधमात्राभिधायकं कात्यायनवचनम् “स्त्रीषु कृतोपभोगः स्यात् प्रसह्य पुरुषो यदा। बधे तत्र प्रवर्त्तेत कार्य्यातिक्रमणं हि तद्” इति। तन्निर्गुणस्य भार्य्यागमने वेदितव्यम्”। सहसा अविवेकेन कृतं कर्म। २ अविमृष्यकृतकर्मणि, त्रि०। “तेन साहसमनुष्ठितं पुनः” काव्यप्र० ३ साहसमनुसरति अण्। स्मृत्युक्ते ३ दण्डविशेषे पु० “साशीतिपणमाहस्रोदण्ड उत्तमसाहसः। तदर्द्धं मध्यमः प्रोक्तस्तदर्द्धमधमः स्मृतः” स्मृतिः। “पाकयज्ञे तु साहस” इत्युक्ते ४ अग्निभेदे च पु०।

साहसिक = त्रि० साहसे प्रसृतः ठक्। १ मनुष्यमारणाद्यभिरते २ चोरे ३ पारदारिके ४ पारुष्यकारिणि च।

साहस्र = न० सहस्राणां समूहः अण्। १ सहस्रसमूहे। स्वार्थे अण्। २ सहस्रसङ्ख्यायाम् न०। सहस्रं परिमाणमस्य अण्। ३ सहस्रसंख्यान्विते त्रि०। ४ सहस्रसंख्यकगजसमूहे पु० अमरः।

साहायक = न० सहायस्य भावः वुण्। साहाय्ये।

साहाय्य = न० सहायस्य भावः ष्यञ्। सहायतायाम्।

साहित्य = न० सहितस्य भावः ष्यञ्। १ मेलने २ परस्परसापेक्षाणां तुल्यरूपाणामेकक्रियान्वयित्वे श्राद्धवि३ तुल्यवदेकक्रियान्वयित्वे ४ एकक्रियान्वयित्वमात्रे ५ बुद्धिविशेषविषयत्वे शब्द० प्र० ६ पद्यात्मके काव्ये च।

साह्य = न० सह्यस्य भावः अण् सह–ण्यत् वा। १ सह्यत्वे २ मेलने धरणिः ३ सहनीये त्रि०।

साह्वय = पु० आह्वयेनाभिधानेन। १ अभिधानसहिते “जगाम गजसाह्वयम्” भारतम्। मेषादिप्राणिकरणद्यूनरूपे समाह्वये च शब्दर०।

***