सा = स्त्री सो–ड। १ गौर्य्यां २ लक्ष्म्याञ्च शब्दर०।

सांक्रमिक = त्रि० संक्रमे साधुः गुडा० ठञ्। संक्रमसाधने कुष्ठादिरोगे। वा परसवर्णः। सांक्रमिकरोगाश्चं भावप्र० दर्शिता यथा “प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् महभोजनात्। एकशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्। कण्डूकुष्टोपदंशाश्च भूतोन्मादव्रणज्वराः (वसन्त) औपसगिकरोगाश्च संक्रामन्ति नरान्नरम्। सूयते यदि कुष्ठेन पुनर्जातस्य तद्भवत्। अतो निन्दितरोगोऽयं कुष्ठं कष्टं प्रकीर्त्तितम्”। प्रसङ्गोऽत्र मैथुनम् भावप्र०।

सांख्य = न० संख्यायतेऽत्र संख्या सम्यग्ज्ञानं साऽस्त्यत्र अण्। १ सम्यगदर्शने “एषा तेऽभिहिता सांख्ये” इति गीता सङ्ख्या मूलप्रकृत्यादिपदार्थानां गणनात्र प्रज्ञाद्यण्। २ कपिलप्रणीते दर्शनशास्त्रभेदे परसवर्णे स ङ्ख्यमप्युभयत्र ३ सांख्योक्तयागे पु० “पञ्चमः कपिलो नाम सिद्धेशः काल विप्लुतम्। प्रोवाचासुरये सांख्य तत्त्वग्रामविनिर्णियम्” भाग० १ स्क० ३ अ०। “सांख्यं संख्य त्मकत्वाच्च कपिलादिभिरुच्यते” मात्स्ये ३ अ०।

सांख्यप्रवचन = न० सांख्योक्तमर्थं प्रवक्ति विस्तरेण कथय त्यनेन प्र + वच–करणे ल्युट्। तत्त्वसमासाख्यसूत्रार्थस्य विस्तरेण ज्ञापके १ कपिलप्रणीते। २ पातञ्जलप्रणीते ग्रन्थभेदे यथोक्तं सांख्यप० भा० यथा “नन्वेवमपि तत्त्वसमासाख्यसूत्रैः सहास्याः षडध्याय्याः पौनरुक्त्यमिति चेत्। मैवम्। सङ्क्षेपविस्तररूपेणोभयोरप्यपौनरुक्त्यत्। अत पवास्याः षडध्याया योगदर्शनस्येव सांख्यप्रवचनसंज्ञा युक्ता। तत्त्वसमासाख्यं हि यत् सङ्क्षिप्तं सांख्यदर्शनं तस्यैव प्रकर्षेणास्यां निर्वचनमिति। विशेषस्त्वयं यत् षडध्याय्यां तत्त्वसमासाख्योक्तार्थविस्तरमात्रं योगदर्शने त्वाभ्यामभ्युपगमवादप्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यूनतापरिहारोऽपीति” “संख्यां प्रकुर्वते चैव प्रकृति च प्रचक्षते। चतुर्विंशति तत्त्वानि तेन सांख्याः प्रकीर्त्तिताः” भा०

सांग्रामिक = त्रि० संग्रामः प्रयोजनमस्य ठञ्। युद्धसाधने रथादौ। परमवर्णे साङ्ग्रामिक तत्रार्थे।

सांघातिक = त्रि० सङ्घाताय हितम् ठङ्। १ सङ्घातकारके मड्नाडीचक्रस्थे २ जन्मनक्षत्रावधिषोडशनक्षत्रे च “देहद्रविणबन्धूनां नाशः सांघातिके तथा” इति ज्योतिषम्। परसवर्णे साङ्घातिकमपि उभयत्र।

सांदृष्टिक = न० संदृष्टं प्रत्यक्षदृष्टमनुसरति ठक्। १ दृष्टानुसारिन्यायभेदे संदृष्टं दृष्टमात्रं फलमस्य ठण्। २ सद्यफले त्रि० अमरः। परसवर्णे सान्दष्टिकमप्युभयत्र।

सांयात्रिक = पु० सम्यक् यात्रायै द्वीपान्तरगमनाय अलग् ठञ्। पोतेन बाणिज्यकारके अमरः।

सांयुगीन = त्रि० संयुगे युद्धे साधुः प्रतिजना० खञ्। रणकुशले अमरः।

सांराविण = न० सम् + रु–भावे णिनि ततः स्वार्थेऽण्। व्याप्तेहट्टादिकोलाहले।

सांवत्सर = पु० संवत्सरं तज्ज्ञानोपयोगिशास्त्रं वेत्ति अष्टीते वा अण्। ज्योतिर्वेत्तरि १ गणके अमरः। २ वर्षसम्बन्धिनि त्रि०

सांवत्सरिक = त्रि० संवत्सरे भवः ठञ्। प्रतिवर्षं मृताहकर्तव्ये श्राद्धभेदे गोभिलः “अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेता- यान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादिवि। अत ऊर्द्ध्वं सपिण्डीकरणान्वश्राद्धनिभित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्सर सवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि मृताय दद्यात्। व्याघ्रः “प्रतिसंवत्सरञ्चैवमेकोद्दिष्टं मृताहनि”। एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरं कर्त्तव्यमिति मैथिलोक्तं हेयम्। व्यक्तमाह हेमाद्रिधृतवचनम्” “पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम्। तेनैव च सपिण्डत्वं तेनैवाव्दिकमिष्यते” अत्र पर्णसंवत्सरक्रियमाणश्राद्धाद् यथोभयनिर्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनि र्वाहो न पूर्णसंवत्सरे आव्दिकान्तरम्। एव पञ्चदश श्राद्धेऽप्युन्नेयम्। मत्स्यपु० “ततः प्रभृतिसक्रान्तावुपरागादिपवेसु। त्रि पिण्डमाचरेत् श्राद्धमेको दष्टं मृताहनि”। ततः प्रेतत्वपरिहारात्, त्रिपिण्डं त्रैपुरुषम्। निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेषपरः। उपपदात्तु क्वचित्तिथिविशेषमात्रपरः। यथा मृताहे प्रतिमासं कुर्य्यादित्यादौ। शङ्खः “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते। तत्र तत्र त्रयं कुर्य्यात् वर्जयित्वा मृताहनि। अमावास्या क्षयो यस्य प्रेतपक्षेऽथ वा पुनः। सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वर्णो विधिः” श्रा० त०। अधिकम् एकोद्दिष्टशब्दे १५२१ पृ० पार्षणशब्दे ४३१८ पृ० च दृश्यम्।

सांवादिक = पु० सम्यग्वादायालं ठञ्। १ नैयायिके जटा०। सवाददातरि च।

सांशयिक = त्रि० संशयमापन्नः ठञ्। १ सन्दिहाने संशययुक्ते अमरः। २ संशयविषये च।

सांसारिक = त्रि० ससाराय हितम तत्र भवो वा ठक्। १ मसारभवे २ संसारोपयोगिनि वा पदार्थे।

सांसिद्धिक = त्रि० संसिद्धिः स्वभावसिद्दिः तया निर्वृत्तं ठञ्। स्वभावसिधे “सांसिद्धिकमुदाहृतम्” भाषाप०।

साकम् = अव्य० सह अकति अक–अमु सादेशः। १ साहित्ये २ सहार्थे अमरः। तद्योगे गौणक्रियान्वयिनि तृतीया।

साकल्य = न० सकलस्य नावः ष्यञ्। १ समुदाये। स्वार्थें ष्यञ्। २ सकले होमार्थं मिश्रितेषु ३ तिलादिद्रव्येषु च।

साकाङ्क्ष = त्रि० सहाकाङ्क्षया सहस्य सः। १ साभिलाषे शाब्दवोधोपयोम्याकाङ्क्षायुक्ते २ पदभेदे च।

साकार = त्रि० सह आकारेण मूर्त्त्या। १ मूर्त्तविशिष्टे देवादौ २ सावयवे च।

साकरुण्ड = पु० सकुरुण्ड एव स्वार्थे अण्। सकुरुण्डवृक्षे (पन्थिफले वृक्षे) राजनि०।

साकेत = न० आकित्यते आकेतः सहाकेतेन। अयोध्यापुरे शब्दर० “जनस्य साकेतनिवासिनस्तौ” इति रघुः।

साक्तुक = पु० सक्तवे हितः गुडा० ठञ्। १ यवे सि० कौ०। सक्तूनां समाहारः तस्येदम् वा ठञ्। २ सक्तुसमूहे न० ३ तत्सम्बन्धिनि च त्रि०।

साक्षात् = अव्य० सह अक्षति अक्ष–आति सादशः, सह अक्ष मतति अत–क्विप् वा। १ लौकिकप्रत्यक्षे २ तुल्ये च अमरः साक्षादा० कृञि वा उप० समासः। साक्षात्कृत्य कृत्वा वा। ३ तद्रूपे चैतन्ये च “यत्साक्षात दपरोक्षाद्ब्रह्म” श्रुतिः।

साक्षात्कार = पु० साक्षात् + कृ–घञ् साक्षादि० उप०। लोकिकसन्निकर्षजन्ये प्रत्यक्षे।

साक्षिन् = त्रि० सह–अक्षि अस्य इनि “साक्षाद् द्रष्टरि” पा० इनि वा नि०। १ साक्षाद्द्रष्टरि। स्त्रि अं ङीप्। २ परमेश्वरे पु० “साक्षी चेताः केवलोनिर्गुणश्च” श्रुतिः। अयमेव साक्षिचैतन्यत्वेन वेदान्तपरिभाषादौ स्वीकृतोऽनुपदं वक्ष्यते। व्यवहारे साक्षिलक्षणादिकं वीर० मि० निरूपितं यथा “तत्र प्रमाणभेदप्रमाणविषयव्यवस्थे क्रियापादप्रस्तावे विविक्ते। अधुना साक्ष्यिप्रमाणस्यावान्तरभेदः प्रस्तूयते। तत्र साक्षिस्वरूपमाह मनुः “समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिद्ध्यति”। समक्षदर्शनस्य सांक्ष्यहेतुत्वं पाणिनिरपि स्मरति। “साक्षाद् द्रष्टरि संज्ञायामिति”। तत्तु व्युत्पत्तिमात्रमव्यापकत्वात्। श्रुतसाक्ष्यादीनामपि साक्षित्वव्यवहारविषयत्वात्। अतएव श्रवणादित्युपलक्षणं प्रमाणमात्रस्य० विवादविषयप्रमाता साक्षीति विवक्षितम्। साक्षिप्रयोजनमाह नारदः “सन्दिग्धेषु तु कार्य्येषु द्वयोर्विवदमानयोः। दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम्” इति। दृष्टश्रुताभ्यामनुभूतत्वादित्यर्थः। यद्वा दृष्टत्वात् श्रुतत्वादनुभूतत्वाच्चेत्यर्थः। अनुभूतत्वादित्यनेन च गोवृषभन्यायेन प्रमाणान्तरजन्योऽनुभवा गृह्यते। व्यक्तिदर्शनं विवेकज्ञानम्। कात्यायनः “अर्थिप्रत्यर्थिसान्निध्यादनुभूतन्तु यद्भवेत्। तद्ग्राह्यं साक्षिणो वाक्यमन्यथा न वृहस्पतिः” अर्थिप्रत्यर्थिसान्निध्यादनुभूतमिति मुख्यः कल्पः। तदसान्निध्येऽपि श्रवणादिना साक्ष्यस्य वचनान्तरैरनुमतत्वात्। तच्च साक्षिभेदनिरूपणे व्यक्तीमविष्यति। गौतमः “विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्था”। स च साक्षी प्रथमं द्विविधः कृतोऽकृतश्च। साक्षित्वेनार्थिप्रत्यर्थिभ्यान्निरूपतः कृतः। अनिरूपितोऽकृतः। पुनश्च कृतस्थ पञ्चविधत्वातकृतस्य षड्विधत्वादेकादशविधः। यथाह नारदः “एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः। कृतः पञ्चविधस्तेषां षड्विधोऽकृत उच्यते। लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च। गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः कृतः” इति। पञ्चानामपि कात्यायनेन स्वरूपमभिहितम “अर्थिना स्वयमानीतो यो लेख्ये सन्निवेश्यते। स साक्षी लिखितो नाम स्मारितः पत्रकादृत” इति। स्मारितः पत्रकादृते इत्यपि विवृतं तेनैव “यस्तु कार्य्यप्रसिद्ध्यर्थं दृष्ट्वा कार्य्यं पुनः पुनः। स्मार्य्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते” दृष्ट्वेति दर्शयित्वेत्यन्तर्मावितण्यर्थम्। कार्य्यं व्यवहारपदं दर्शयित्वा प्रमापथ्य कार्य्यप्रसिद्ध्यर्थं कालान्तरे व्यवहारनिर्णयसिद्ध्यर्थं पुनः पुनः स्मार्य्यते कार्य्यते च विस्मरणनिरासाय यः स स्मारितो नाम साक्षीत्यर्थः। यस्तु यदृच्छया प्रसङ्गादाशतस्त्वमत्र साक्षी भवेति साक्षित्वेन निरूपितः स यदृच्छाभिज्ञः स्मारितस्यास्य च पत्रानारूढत्वेन साम्येऽपि स्वरूपभेदः स्पष्टोऽपि तेनैव विवृतः “प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः। द्वौ साक्षिणौ त्वलिस्रितौ पूर्वपक्षस्य साधकौ”। गूढमाह “अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम्। यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यत” इति। उस्तरसाक्षिस्वरूपमाह “साक्षिणामाप यः साक्ष्यमुपर्युपरि भाषते। श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः” इति। षड्विधस्याप्यकृतस्य भेदो नारदेनैव दर्शितः “ग्रामद्य प्राड्विवाकश्च राजा च व्यवहारिणाम्। कार्य्ये। ष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः। कुल्याः कुलविवादेषु विज्ञ यास्तेऽपि साक्षिणः। प्राडविवाकग्रहणं लेखकसभ्योपलक्षणम् “लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः। नृपे पश्यति तत्कार्य्यं साक्षिणः समुदाहृताः” इति वचनात्। वृहस्पतिस्त लेखितम धिकमादायैतानेव द्वादश साक्षिण आह “लिखितो लेखितो गूढः स्मारितः कुल्यदूतकौ। यादृच्छश्चोत्तरश्चैव कार्यमध्यगतोऽपरः। नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशघा स्मृतः” इति। तल्लक्षणान्यपि कानिचिद्विस्वक्षणानि कानिचित्पूर्वसंवादीन्याह स एव “प्रभेदमेषां वक्ष्यामि यथावदनुपूर्वशः। जातिनामाभिलिखितं येन स्वं पित्र्यमेव च। निवासश्च स विज्ञेयः साक्षी लिखितसंज्ञकः। अर्थिना च क्रियाभेदैस्तस्य कृत्वा ऋणादिकम्। प्रत्यक्षं लिख्यते यस्तु लेखितः स उदाहृतः। कुड्यव्यवहितो यस्तु श्राव्यते ऋणिभाषितम्। विनिह्नुते यथामूतं गूढसाक्षी स कीर्त्तितः। आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके। स्मार्य्यते यो मुहुश्चैव स्मारितः सोऽभिधीयते। विभागदाने विपणे ज्ञातिर्यत्रोपदिश्यते। द्वयोः समानो धर्मज्ञः स कुल्यः परिकीर्त्तितः। अर्थिप्रत्यर्थिवचनं शृणुयात् प्रेषितस्तु यः। उभयोः सम्मतः साधुर्दूतकः स उदाहृतः। क्रियमाणे च कर्त्तव्ये यः कश्चित् स्वयमागतः। अत्र साक्षी त्वमस्माकमुक्तो(१) यादृच्छिकस्तु सः। यस्तु साक्षी दिशं गच्छन् मुमूर्षुवीं यथाश्रुतम्। अन्यं संश्रावये त्तन्तु विद्यादुत्तरसाक्षिणम्। साक्षिणामपि यः साक्ष्यसुपर्युपरि भाषताम। श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः। उभाभ्यां यस्य विश्वस्तं कार्य्यं वापि निवेदितम्। गूढचारी स विज्ञेयः कार्यमध्यगतस्तधा। अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतम्भूभृता स्वयम्। स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि। निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत्। अध्यक्षः सभ्यसहितः साक्षी स्यात् तत्र नान्यथा। दूषितं घातितं यच्च सीमायास्तु समन्ततः। अकृतोऽपि भवेत्साक्षी ग्रामस्तत्र न सशयः” इति। लिखितलखितयोः स्वपरलिखनमात्रभेदादेकादशद्वादशसंख्ययोरविरोधः। सर्व च यथासम्भवं दृष्टश्रुतरूपद्विविधसाक्षिभेदा ज्ञेयाः। क्रियाभेदैर्व्यवहारप्रकारभेदैः, तस्य प्रत्यर्थिनः। ऋणादिकमित्यादिशब्दात् यथासम्भवं सर्वविवादपदनिदर्शनम्। कुड्यग्रहणं व्यवधायकोपलक्षणम्। विनिह्नुते इति भावे क्तः निह्नवे सम्भावित इति शेषः। उक्त(१) इत्युक्त इतीतिशब्दाध्याहारः। दिशं देशान्तरमन्यामित्यर्थः। उभाम्यामर्थिपत्यर्थिभ्यां यस्य विश्वस्तं यदीयो विश्वासः कृत इति सम्बन्धसामान्यविवक्षया षष्ठी, भावेक्तं चाभ्युपेत्य व्याख्येयम्। गढचारी कार्य्यमध्यगतश्चेत्येकस्यैव संज्ञाद्वयमिति द्वादशत्वाविरोधः। दूतग्रहणं लेखकस्यापि प्रदर्शनार्यं “दूतकः खटिकाग्रहादिति” वृहस्पतिवचनाद्ग्रामग्रहणमप्यकृतसाक्ष्युपलक्षणम्। येन योऽर्थः प्रमितस्तत्र साक्षित्वेन प्रागनिरूपितोऽपि पश्चात साक्षित्येन विज्ञायोपन्यन्तः पृष्टश्च सभायां साक्ष्य दातुमर्हतीति फलितोऽर्थः। इतरथा वेतनादानादिषु गिखिताद्यसम्भव माक्ष्यभावप्रसङ्गः। इदमेवाभिसन्धायाह मनुः “यत्रानिबद्धो-ऽपीक्षेत शृणुयाद्वापि किञ्चन। पृष्टस्ततापि तद्ब्रूयात् यथादृष्टं यथाश्रुतम्”। अनिबद्धोऽकृतः। कल्पतरुमदनरत्नयोरर्थिक्रियां क्रियाभेदैरिति पठितं तत्रार्थिक्रियामर्थिव्यवहारक्रियाभेदैः प्रमाणविशेषैराप्तवाक्यादिभिस्तस्य कृत्वा तत्सम्बन्धितयावधार्य्य ऋणादिके विवादविषये यः पत्यक्षं प्रत्यर्थिसमक्षं लेख्यतेऽर्थिनेत्यर्थात् स तत्र लेखितः साक्षीति व्याख्येयम्। कालावधिरपि साक्ष्ये स्मर्य्यते “सुदीर्घेणापि कालेन लिखितः सिद्धिमाप्नुयात्। सञ्जानन्नात्मनो लेख्यम्” कुर्य्यादिति शेषः। अजानन्तं लिप्यनभिज्ञमात्मानमन्यद्वारा साक्ष्यहमत्रेति लेखयेत्। स द्विविधोऽपि लिखितः साक्षी चिरकालेनापि सिद्धिन्निर्णायकतामाप्नुयादित्यर्थः। कात्यायनः “अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु। न चेत् प्रत्यभिजानीयात् तत्स्वहस्तैः प्रसाधयेत्”। नारदः “अष्टमात् वत्सरात् सिद्धिः स्मारितस्येह साक्षिणः। आपञ्चमात् तथा सिद्धिर्यदृच्छोपगतस्य तु। आ तृतीयात् तथा वर्षात् सिद्धिर्गूढस्य साक्षिणः” इति। इदञ्च प्रायोवादेन, यतः स एवाह “अथ वा कालनियमो न दृष्टः साक्षिणः प्रति। स्मृत्यपेक्षं हि साक्षित्वमाहुः शास्त्रवेदो जनाः। यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रञ्च नित्यशः। सुदीर्घेणापि कालेन स वै साक्षित्वमर्हति”। ते च “साक्षिणः कीदृशाः कार्य्या व्यवहारेष्वसाक्षिणः। तादृशान् संप्रवक्ष्यामि यथा वाच्यमृतञ्च तैः। गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनयः। अर्य्युक्ताः साक्ष्यमर्हन्ति न ये केचिदनापदि। आप्ताः सर्वेषु वर्णेषु कार्य्याः कार्य्येषु साक्षिणः। सर्वधर्मविदो लुब्धा विपरोतांस्तु वर्जयेत्”। मौलाः प्रख्यातकुलोद्भवा इति कल्पतरुः। मूलं पूर्ववृत्तान्तस्तद्विदन्तीति मौलाः। तदधीते तद्वेदेत्यणिति मदनरत्ने। वक्ष्यमाणयाज्ञवल्क्यवचनसंवादात् साक्षित्वेनैव पूर्ववृत्तान्तवेदित्व क्षेपात्तदर्थकमौलपदानथेक्यप्रसङ्गाच्च कल्पतरुव्याख्यानमेव सम्यक्। रत्नाकराऽपि “मौलाः कुलीना” इत्येव व्याख्यातम्। मूलं प्रतिष्ठा मा येषामस्ति ते मौलाः अर्थकथनमेतत्। तद्धितस्तु भवार्थ एव कर्त्तप्यः यो हि यत्र भवः माऽपि तस्यास्तीत्यविरुद्धमिति वदन् मेधातिथिरपीदृशमर्थमनुमन्यते प्रतिष्ठान्तरस्य साक्षिलक्षणानुपयोगात। पुत्रादिप्रतिष्ठायाः पदान्नरैरवोपादानात्। अत्र क्षत्रियादिग्रहण नात्ययन्तिकब्राह्मणव्युदासपरं, किन्तु सति सम्भवेऽनेकाध्यापनाग्निहोत्रादिकार्यव्यग्रस्य तस्य न साक्षित्व, साक्ष्यन्तरासम्भवे तु तस्यापि साक्षित्वं सम्भवत्येव। अतएव “ब्रूहीति ब्राह्मणं पृच्छेदिति” तस्यापि साक्षित्वेन प्रश्नप्रकारविधिरुपपद्यत इति ध्येयम्। अर्थ्युक्ता अर्थिना ममैते साक्षिणः सन्तीति निर्दिष्टा न तु स्वयमेवागत्य वयमत्र साक्षिणः स्म इति वदन्तः। याज्ञवल्क्यः “तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः। धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः। त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रियापराः। यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः”। त्र्यवरास्त्रिभ्या न्यूना न भवन्ति परतस्तु यथेच्छं भवन्तीत्यर्थः। जातयो मूर्द्धावसिक्तादयः। वर्णा ब्राह्मणादयः। तथा च मूर्द्धावसिक्तादीनां मूर्द्धावसिक्तादयो ब्राह्मणादयो ब्राह्मणादीनां साक्षित्वेनोपादेयाः। असम्भवे सर्वे सर्वजातीयाः सर्वेषु जातीयेषु वादिप्रतिवादिषु साक्षिणो ग्राह्या इत्यर्थः। व्यासः “धर्मज्ञाः पुत्रिणो मौलाः कुलीनाः सत्यवादिनः। श्रौतस्मार्त्तिक्रियायुक्ता विगतद्वेपमत्सराः। श्रोत्रिया नपराधीनाः सूरयश्चाप्रवासिनः। युवानः साक्षिणः कार्य्या ऋणादिषु विजानता” इति। कात्यायनः “प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः। आप्ताः शिष्टा बिबुद्धा ये तेषां वाक्यमसंशयम्। विभाव्यो वादिना यादृक् सदृशैरेव भावयेत्। नोत्कृष्टश्चाव कृष्टस्तु साक्षिभिर्भावयेत् सदा” इति। आप्ताः यथार्थंवादिनः। विबुद्धा विवादविषयीभूतार्थज्ञानवन्तः शास्त्रार्थज्ञानवन्तश्च “मतिबुद्धिपूजार्थेभ्यश्चेति” पा० कर्त्तरि क्तः। आदिकर्मणीति मदनरत्ने। तेषां वाक्यमसंशयं यथा भवति तथा वादिनो विभाव्योऽङ्गीकारयितव्योऽर्थात् प्रतिवादी। तत्र विशेषमाह यादृक् प्रतिवादी तत्सदृशैस्त्वज्जातीयैरेव भावयेत्। वादिनेत्युपलक्षणम्। वाद्यपि प्रतिवादिना तज्जातीयैरेव विभाव्यः तथा च नारदः “श्रेणीषु श्रेणिपुरुषाः स्वेषु वर्गेषु वर्गिणः। बहिर्वामिषु बाह्याः स्युः स्त्रियः स्त्रीषु च साक्षिणः” इति। पुनरपि “स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशाः द्विजाः। शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः” श्रेणिपुरुषाणां सत्यपि बर्गित्वे पृथङ्निर्देशो गोवृषभन्यायेनं। प्रयोजनं चात्राप्यभ्यर्हितत्वबोधनम्। वर्गिणश्च दर्शिताः कात्यायनेन “लिङ्गिनः श्रेणिपूगाश्च बणिग्व्रातास्तथाऽपरे। समूहस्थ श्च ये चान्ये वगा~ंस्तानब्रवीद् भृगुः। दासचारणमल्लानां हस्त्यश्वायुधजीविनाम्। प्रत्येकैकसमूहानां नायका वर्गिणः स्मृताः। तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः”। अत्र सर्वत्र न्यूनाधिकविशेषणोपादानन्न दोषाय अनृतभाषणभीरुत्वसत्य वदनशीलत्वस्य च साक्षित्वप्रयोजकस्योपलक्षणार्थत्वात् तेषाम्। ते च साक्षिणः कियत्सङ्ख्यकाः कुत्र ग्राह्या इत्यपेक्षायामाह वृहस्पतिः “नव सप्त पञ्च वा स्युश्चत्वार स्त्रय एव वा। उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत् कदाचन”। लिखितादिषु स एवाह “लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः। यदृच्छाः स्मारिताः कार्य्यास्तथा चोत्तरसाक्षिणः। दूतकः खटिकाग्राही कार्य्यमध्यगतस्तथा। एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च”। खटिकाग्राही लेखकः एक एवेत्ये वकारो वाद्यपेक्षया “नैकं पृच्छेत् कदाचन” इत्युक्तेः अनावश्यकत्वार्थो न नियमार्थोऽदृष्टार्थत्वप्रसङ्गात्। त्र्यवराः साक्षिणो ज्ञेया इति योगीश्वरीयमप्येतदभिप्रायकमेव। लिखितादीनामुभयानुमतत्वे ग्राह्यत्वमेकस्यापीत्याह योगी श्वरः “चभयानुमतेः साक्षी भवत्येकोऽपि धर्मवित्”। यद्यपि “श्रीतस्मार्त्तक्रियापरा धर्मप्रधाना” इत्यादिविशेष्णोपादानात त्र्यवराणामपि धर्मवित्त्वं समानन्तथापि तेषामुभूयाननुमतौ न भवत्येव साक्षित्वं, द्वयोरेकस्य चोभयानुमत्यैचेति भेद इति मिताक्षरा। नारदोऽपि “उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः। स साक्ष्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात्तु ससदि”। आप्तत्वेन राजादिभिरवधारितोऽप्येकः साक्षीत्याह व्यासः “शुचिक्रियश्च धमज्ञः साक्षी यस्त्वनुभूतवाक्। प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः” इति। अनुभूता यथार्थत्वेन प्रमितचरा वाग्यस्येत्यनुभूतवाक्। कात्यायनः “अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि वाच्यते। अर्थिना प्रहितः साक्षी भवेदेकोऽपि याचिते”। याचित इति निःक्षेपविशेषणम्। न्यायतौल्यादत्यत्रापीति वाचस्पतिः। मदनरत्नकारस्तु याचितं विवाहाद्यर्थं याचितं गृहीतमाभरणादिकं याचितकमिति यावदित्याह। निःक्षेपविशेषणवैयर्य्यादयाचिते तस्मिन्नभ्यन्तरस्यैकस्यासाक्षित्वप्रस ङ्गाद्व्याहितान्वयप्रसक्तेश्चोत्तरैव व्याख्या प्रशस्ता। कुण्ड लादिपण्यविवादे तन्निर्मातैकोऽपि साक्षीत्याह स एव “संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत्। एक पव प्रमाणं स विवादे तत्र कीर्त्तितः”। इदञ्च बहूनाम- सम्भवे सत्यवादिनोर्द्वयोरेकस्य वानुमतिपदर्शनार्थं न नियमार्थम् अदृष्टार्थत्वप्रसङ्गादिति ध्येयम्। उक्त लक्षणसाक्ष्यसम्भवे प्रतिषेधरहितानां साक्ष्यनुकल्पानां सूचनाथमसाक्षिणोऽपि स्मृतिषूक्ताः”। ते च असाक्षिन्शब्दे ५४९ पृ०। दर्शिताः। साक्षिणो मिथ्याकथने अकथने च दोषो यथा “पृष्टो हि साक्षी यः साक्ष्यं जानन्नप्यन्यथा वदेत्। य पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्। यश्च कार्य्यार्थ तत्त्वज्ञो जानन्नपि न भाषते। सोऽपि तेनैव पापेन लिप्यते नात्र सशयः” भा० आ० “ब्रह्मस्वस्थाप्यहारी च मिथ्यास क्ष्यप्रदायकः। मित्रद्रोही कृतघ्नश्च वृषवाहकसूपकृत्। एत महापातकिनस्त्रिषु लोकेषु निन्दिताः। कालसूत्रे च नरके पतन्ति ब्रह्मणः शतस्” ब्रह्म० वै० गण० ख० ४४ अ०। “मिथ्यासाक्ष्य यो ददाति कामात क्रोधात्तथा भयात्। सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः। मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप!। यावदिन्द्र सहम्रञ्च सर्पकुण्डे वसेद्ध्रुवम्। सन्तत वेष्टितैः सर्पैर्भीतश्च भक्षितस्तथा। भुङ्क्ते च सर्पविण्मूत्रं यमदूतेन ताडितः। कृकलासो भवेत्तत्र भारते सप्तजन्मसु। सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह। ततो भवेच्च वृक्षश्च महारण्ये च शाल्मलिः। ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ०।

साक्षिणो यथा विवादे कर्त्तृत्वाद्यभाव एवं जीवेसाक्षिणो कर्तृत्वाभावः ईश्वरसाक्षिन्शब्दे १०४८ पृ० दृश्यम् तयोर्वृत्त्यादिप्रकाशकत्वात् तथात्वम् अन्तःकरणमाययोर्जडत्वेन विषयाबभासकत्वाभावेन चैतन्योपाधित्वमेव न तु विशेषणत्वं विषयावभासकत्वे तदन्वयायोगात्। अतएव स्वस्वोपाधिवृत्तिचित्तवृत्तिमुखादेरेवावभासकत्वान्नातिप्रसङ्गः इति वेदान्तपरिभाषाप्रत्यक्षपरि० दृश्यम्। साख्यसू० भाष्ययोश्चेतनस्य साक्षित्व समर्थित यथा “ननु साक्षित्वस्यानित्यत्वात् पुरुषाणां कथं सदैकरूपत्वं तत्राह “साक्षात्सम्बन्धात् साक्षित्वम्” सू० पुरुषस्य यत् साक्षित्वमुक्तं तत् साक्षात्सम्बन्धमात्रात् न तु परिणामत इत्यर्थः। साक्षात्सम्बन्धन बुद्धिमात्रसाक्षितावगम्यते “साक्षाद्द्रष्टरि संज्ञायामिति” पा० साक्षिशब्दव्युत्पादनात्। साक्षाद्द्रष्टृत्वं चाव्यवधागेन द्रष्टृत्वम्। पुरुषे च साक्षात्मम्बन्धः स्वबुद्धिवृत्तेरेव भवति। अतो बुद्धरेव साक्षी पुरुषोऽज्येषां तु द्रष्टृम त्रमिति शास्त्रीयो विभागः। ज्ञाननियामकश्चार्थाकारतास्थानीयः प्रतिविम्बरूप एव सम्बन्धो न तु संयोगमात्रमतिप्रसङादित्यसकृदावेदितम्। विष्ण्वादेः सर्वसाक्षित्व त्विन्द्रियादिव्यवधानाभावमात्रेण गीणम्। अक्षसम्बन्धात् साक्षित्वमिति पाठे त्वक्षमत्रबद्धिः करणत्वसामान्यात्। तस्या यथोक्तात् प्रतिविम्बरूपात् सम्बन्धादित्यर्थः भा०। तत्रैव अन्यत्र “सुषुप्त्याद्यसाक्षित्वम् सुषुप्त्याद्यस्यावस्थात्रयस्य बुद्धिनिष्ठस्य साक्षित्वमेव पुंसीत्यर्थः। तदुक्तम् “जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः। तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः”। इति तासां बुद्धिवृत्तीनां साक्षित्वेन तद्विलक्षणो जाग्रदाद्यवस्थारहितो निर्णीत इत्यर्थः। तत्र जाग्रन्नामावास्थेन्द्रियद्वारा बुद्धेर्विषयाकारः परिणामः। स्वप्नावस्था च संस्कारमात्रजन्यस्तादृशः परिणामः। सुषुप्त्यवस्था च द्विविधाऽर्द्धसमग्रलयभेदेन। तत्रार्द्धलये विषयाकारा वृत्तिर्न भवति। किन्तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति अन्ययोत्थितस्य सुखमहमस्वाप्समित्यादिरूपसुषुप्तिकालीनसुखादिस्मरणानुपत्तेः। तदुक्तं व्याससूत्रेण “मुग्धेऽर्द्धसम्पत्तिः परिशेषादिति”। समग्रलये तु बुद्धेर्वृत्तिसामान्याभावो मरणादाविव भवति। अन्यथा समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपतेत्यागामिसूत्रानुपपत्तेरिति। सा च समग्रसुषुप्तिर्वृत्त्यभावरूपेति पुरुषस्तत्साक्षी न भवति पुरुषस्य वृत्तिमात्रसाक्षित्वात्। अन्यथा संस्कारादेरपि धर्मस्य साक्षिभास्यतापत्तेः। सुषुप्त्यादिमाक्षित्वं तु तादृशबुद्धिवृत्तीनां प्रकाशनमिति वक्ष्यामः”।

साक्षिभास्य = त्रि० ३ त०। साक्षिमात्रप्रकाश्ये बुद्धिवृत्त्यादौ वेदान्तप०।

साक्ष्य = न० साक्षिणो भावः कर्म वा ष्यञ्। १ व्यवहारविषयवृत्तवृत्तान्तकथनरूपे साक्षिकर्मणि २ तद्भावे च “समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति” मनुः।

सागर = पु० सगरेण निर्वृत्तः अण्। १ समुद्रे अमरः। २ मृगभेदे पुंस्त्री० शब्दच०। ३ संख्याभेदे संख्याशब्दे दृश्यम्।

सागरगामिनी = स्त्री सागरं गच्छति गम + णिनि न णत्वम्। १ नद्यां २ सूक्ष्मैलायाञ्च राजनि०।

सागरनेमि = स्त्री सागरः नेमिरिव वेष्टनाकारो यस्याः। पृथिव्यां हेमच०।

सागरमेखला = स्त्री सागरो मेखलेव यस्याः। पृथिव्यां हेमच०।

सागरालय = पु० सागर आलयो यस्य। वरुणे शब्दच०।

सागरोत्थ = न० सागराद् उत्तिष्ठति उद् + स्था क। सामुद्रलवणे राजनि०।

साग्नि(क) = पु० सहाग्निना अग्निहोत्रेण वा कप्। १ श्रौतस्मार्त्ताग्नियुक्ते २ अग्निहोत्रिणि द्विजे!।

साङ्कर्य्य = न० सङ्करस्य भावः ष्यञ्। १ परस्पराभावसामानाधिकरण्ये सत्येकाधिकरणवृत्तित्वरूपे न्यायोक्ते जातिवाषके दोषभेदे सङ्करशब्दे ५१९१ पृ० दृश्यम् २ सङ्करस्य धर्मे च।

साङ्कल = त्रि० सङ्कलेन निर्वृत्तः सङ्कला अण्। सङ्कलनजाते सि० कौ०।

साङ्कृति = पु० वैयाघ्रपद्यगोत्रस्य प्रवरे मुनिभेदे “वैयाघपद्यगोत्राय साङ्कृति प्रवराय च” भोष्मतर्पणमन्त्रः।

साङ्ग = त्रि० सहाङ्गेन। अङ्गयुक्ते “तस्मात् साङ्गसधीत्यैव” “साङ्गं तत् क्रियते पुनः” इति च स्मृतिः।

साङ्गतिक = त्रि० सङ्गत्या निवृत्तः ठक्। सङ्गतिसिद्धे युक्ते।

साचि = अव्य० सच–इण्। १ वक्रे २ तिर्य्यगर्थे च अमरः।

साचिवाटिका = स्त्री० साचि यथा तथा वटति वट–ण्वुल्। १ श्वेतपुनर्णवायां रत्नमा०।

साचीकृत = त्रि० असाचि साचि क्रियते स्मचि–कृ–क्त दीर्घः। वक्रीकृते सि० कौ० “साचीकृता चारुतरेण तस्थौ” कुमा०

साट = प्रकाशने अद० चु० उ० स० सेट्। साटयति ते अससाटत् त

साटोप = त्रि० सहाटोपेन सहस्य सः। १ सगर्वे २ विकटे च।

सात = सुखे उपादाने अद० चु० उभ० अक० सेट्। सातयति ते अससातत् त। अयं सौत्र इत्येके।

सात = न० सात–अच्। १ सुखे भरतः। सन–क्त। २ दत्ते २ नष्टे च।

सातला = स्त्री सातं सुखं लाति ला क। १ चर्मकषायाम् अमरः। २ सेहुण्डभेदे राजान०।

सातवाहन = पु० शालिवाननृपे हमच०।

साति = स्त्री सन–क्तिन्। १ अवसाने २ दान ३ तीव्रपीडायाञ्च अमरः।

सातीन(ल)क = पु० सतीन(ल)एव स्वार्थे अण्। सतीन(ल) कवृक्षे (क्षुद्रमटर) रायमुकुटः।

सात्यकि = पु० सत्यकस्य वृष्णिवंक्ष्यभेदस्यापत्यम् अण्। शिने० र्नप्तरि स्वनाभख्याते वृष्णिवंश्ये क्षत्त्रियभेदे त्रिका०।

सात्यवत = पु० सत्यवत्यां मत्स्यगन्धायां भवः अण्। १ वेदव्यासे त्रिका०। २ सत्यवतः सम्बन्धिनि च।

सात्यवतेय = पु० सत्यवत्या अपत्यम् ढक्। सत्यवतीयुते व्यासे हला०।

सात्वत् = पु० सातयति सुखयति सात–क्विप् सात् परमेश्वरः स उपास्यत्वेनास्त्यस्य मतुप् मस्य वः। विष्णूपामके “भगवान् सात्वतां पतिः” भागवतम्। श्रीघरेण सन्नेव अण् सातः विष्णुरुपास्यत्केनास्त्यस्य मतुपि अलोपश्छोन्दमः इत्युक्तम्।

सात्त्वत = त्रि० सत्त्वमेव सात्त्वं तत्तनोति तन–ड। १ विष्णौ त्रिका० यदुवंश्ये अंशुपुत्रे २ नृपभेदे “अथांशोः सात्त्वतो नाम विष्णुभक्तः प्रतापवान्” कूर्मपु० २२ अ०। तद्वंश्ये ३ बलरामे हेमच०। “सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम्। योऽनन्यत्वेन मनसा सात्त्वतः स उदाहृतः” इत्युक्ते ४ विष्णुभक्तभेदे। ५ सात्त्वतनृपाधिष्ठितदेशे सोऽभिजनोऽस्य अण्। पित्रादिक्रमेण ६ तद्देशवासिनि च त्रिका०। यदुर्वश्योत्पन्नत्वेन ७ शिशुपालमातरि स्त्री ङीप्। “न दूये सात्त्वतीमूनुः” माघः। सा च नाटकस्य ८ वृत्तिभेदे च। तस्या लक्षणादि सा० द० उक्तं यथा “सात्त्वती बहुला सत्त्वशौर्य्यत्यागदयार्जवैः। सहर्षा क्षुद्रशृङ्गारा विशोका सा स्मृता तथा। उत्थापकोऽथ सोघात्यः संलाप परिवर्त्तकः। विशेष इति चत्वारः सात्त्वत्याः परिकीर्त्तिताः। उत्तेजनकरी शत्रोर्वागुत्थापक उच्यते। मन्त्रार्थदैवशक्त्यादेः सांघात्यः सङ्घभेदनम्। संलापः स्याद् गभीरोक्तिर्नानाभावसमाश्रयः। प्रारब्ध दन्यकार्य्याणां करणं परिवर्त्तकः”। तलोपे एकतकारोऽपि। ९ जातिभेदे पुंस्त्री० सुधन्वाचार्य्यशब्दे दृश्यम्।

सात्त्विक = पु० सत्त्वात् सत्त्वगुणप्रधानात् विष्णोर्भवति ठञ्। १ चतुर्मुखे ब्रह्मणि हेमच०। तस्य विष्णुनाभिकमलजत्वात् तथात्वम्। सत्त्वमेव सात्त्वमस्त्यस्य ठन्। २ विष्णौ। सत्त्वगुणेन तत्कार्य्येण मनसा वा निर्वृत्तः ठञ्। ३ सत्त्वगुणजाते ४ सत्त्वप्रधानमनोविशेषजाते च। ५ शृङ्गारादिरसानुगुणे भावभेदे सा० द० “उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः। तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि। विकाराः सत्त्वसम्भूताः सात्त्विकाः परिकीर्त्तिताः। सत्त्वमात्रोद्भवत्वात्ते भिन्ना अप्यनुभावतः। स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका स्मृताः”। एतेषां लक्षणानि तत्तच्छब्दे दृश्यानि। स्त्रीणां यौवने सत्त्वजाते ६ अलङ्कारभेदे सा० द० “यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः”। अलङ्कारशब्दे ४०८ पृ० दृश्यम्। ७ सत्त्वप्रधाने त्रि०। ८ देवीपूजाभेदे स्त्री “शारदी चण्डिकापूजा त्र्विधा परिकीर्त्तिता। सात्त्विको राजसी चैव तामसी चति तां शृणु। सात्त्विको जपयज्ञैश्च नैवेद्यैश्च निरामिषैः” ति० त०। ९ भावभेदे पु० “सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका इति विदुर्मुनिपुङ्गवास्तु” सर्वान०। १० सत्त्वप्रधाने पुराणभेदे “वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने!। सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै। सात्विकेषु पुराणेषु विष्णुमाहात्म्यवर्णनम्” उपपुराणशब्दे दृश्यम्। ११ स्मृतिभेदे स्त्री “वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा। भारद्वाजं काश्यपञ्च सात्त्विक्यो मुक्तिदाः शुभाः” पद्मपु० उत्त० ४३ अ०। १२ दुर्गायां स्त्री ङीप्। १३ गीतोक्तेषु श्रद्धादिभेदेषु यथायथं त्रि० यथा “सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत!। श्रद्धाम योऽयं पुरुषो यो यच्छ्रद्धः स एव सः। यजन्ते सात्त्विका देवान्” (श्रद्धा) “आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्युपक्रमे “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विक प्रियाः” (आहारः) “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः” (यज्ञः) “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते” (कायिकादि त्रिविधं तपः) “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं मतम्” (दानम्) “सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्” (ज्ञानम्) “नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत्तत् सात्त्विकमुच्यते” (कर्म) “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सा त्त्विक उच्यते” (कर्त्ता) “प्रवृत्तिं च निवृत्तिं च कार्य्याकार्य्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ! सात्त्विकी” (बुद्धिः) “धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ! सात्त्विकी” (धृतिः) “यत्तदग्रे विषमिव परिणाभेऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्” (सुखम्) “कार्य्यमित्येव यत् कर्म नियत कुरुतेऽर्जुन!। सङ्गं त्यक्त्वाफलं चैव स त्यागः सात्त्विको मतः” (त्यागः)। तत्र सात्त्विकाहारस्य चित्तशुद्धौ हेतुत्वं छान्दो० उक्तं यथा “आहारशुद्धौ सतवशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः”। सत्त्वं मनः। “अन्नमयं हि सौम्य! मनः इत्यादिना” तस्य अन्नमयत्वस्य तत्रोक्तेस्तथात्वम्। साख्यमतासद्धे सत्त्वप्रधाने १४ महत्तत्तवे १५ अहङ्कारतत्तवे च “सात्तिवकी राजसश्चैव तामसश्च त्रिधा महान्” सां० प्र० धृतवाक्यम्। “सात्त्विकमेकादशकं प्रवर्त्तते वैकृतादहङ्कारात्” सां० सू० एकादशानां पूरणमेकादशकं मनः षोडशात्मगणमध्ये सात्तिवकम्। अतस्तद्वैकृतात् सात्तिवकाहङ्काराज्जायत इत्यर्थः। “वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा। अहन्तत्तवाद्विकुर्वाणान्मनो वेकारिकादभूत्। वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः” सा० प्र० ध० वाक्यम्। १६ अध्यवसायादौ च “अध्यवसायो बुद्धिर्धमो ज्ञानं विराग ऐश्वर्य्यम्। सात्तिवकमेतद्रूपं तामसमस्माद्विपर्य्यस्तम्” सां० का०। “सात्त्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” सां० का० “प्रकाशलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको वैकृतात् सात्तिवकादहङ्कारात् प्रवर्त्तते” तत्तवकौ०।

सादनी = स्त्री साद्यन्ते रोगा अनया सद–णिच्–करणे ल्युट्ङीप्। कटुक्यां राजनि०।

सादि = पु० सद–इण्। १ सारथौ हेमच० २ योद्धरि उणादि० ३ अवसन्ने त्रि० ४ वायौ पु० संक्षिप्तसारः।

सादिन् = पु० सद–णिनि। १ अश्वारोहणकर्त्तरि अमरः। २ गजारोहिणि ३ रथारोहिणि च मेदि०। ४ अवसन्ने त्रि० स्त्रियां ङीप्।

सादृश्य = न० सदृशस्य भावः ष्यञ्। तद्भिन्नत्वे सति तद्गतभूयोधर्मरूपे उपमानधर्मे। तच्च सादृश्यं सप्तपदार्थातिरिक्तः पदार्थ इति मीमांसकाः। तन्मतमुक्तं मुक्तावल्यां “सादृश्यमतिरिक्तः पदार्थ इति मीमांसकाः”। तन्मतञ्च उपमानचिन्तामणौ निराकृतम् उपमानशब्दे १२३५ दृश्यम्। सादृश्यवाचका इवादिनिपाताः पदृशादि शब्दाश्च तत्र इवादिभिः निपातैः सादृश्यस्याभिधाने प्रतियोग्यनुयोगिनोः समानविभक्तिकत्वं, गौरिव गवय चन्द्रमिव मुखं वश्यतीत्यादि। अन्ये तु गवादिशब्दा एव गोसदृशे लाक्षणिकाः इवादिशब्दास्तथालक्षणायां तत्पर्य्यग्राहका इत्याहुः तुलोपमाभिन्ननाम्ना तस्याभिधाने प्रतियीगिनि तृतीया षष्ठी च। तुलोपमाभ्यां योगे तु षष्ठ्येव। सादृश्ये च एकस्य प्रतियोगिताऽन्यस्तानुयोगिता तत्र प्रतियोगिन उपमानत्वमनुयोगिन उपमेयत्वमिति। उपमानोपमेयभावस्य द्वयोः सम्भवेऽपि प्रसिद्धस्येवोप्रमानता। तत्र काव्ये केषाद्विस्तूनां कुत्रचिदुपमानतया वर्णनं युक्तं तन्निर्णीतं कविकल्पलतार्या यथा “वेण्याः सर्पादिभृङ्गाल्यः केशषाशस्य चामरः। नीलण्ठकलापोऽपि, धम्मिल्लस्य विधुन्तुदः। सीमन्तस्य चाध्वदण्डौ ललाटस्वाष्टमी विधुः। मकरश्च, कपोलस्य चन्द्रः स्यात् मुकुरः स्थली। भ्रुवोः खड्गधनुर्यष्टी रेस्वापल्लवल्लयः। दृशश्चकोरहरिणमदिराखञ्जनाञ्जनम्। कुमुदं नीलमग्भाजं, श्रुतेर्दीपः सपाशकः। नासायाः स्युस्तु वंशाधोमुखतूणीरचञ्चवः। तिलप्रसूनदण्डौ चाधरस्य नवपल्लवः। विम्बीफलं प्रवालं च, दन्तानां मौक्तिक्वावलिः। कुन्ददाडिमवीजानि हीरकाश्च, स्मितस्य च। ज्योत्स्ना पुष्पाणि पीयूषं, श्वासस्याम्भोजसौरभम्। जिह्वायाश्चौड्रलोले च वाण्या भृङ्गापकध्वनी। वीणावाद्यं मधु सुधा, मुखस्य चन्द्रमास्तथा। अम्भोजदर्पणौ चापि चिवुके दर्पणाग्रकम्। कण्ठस्य कम्बूरसस्य कुम्भो वाह्वोस्तु वल्लरी। मृणाललहरीशाखापाशाः, पाणितलस्य तु। पल्लवश्चाङ्गुलीनां तु पल्लवीऽम्भोजपत्रकम्। दीपो नवदलं चैव चम्बकं, नखसन्ततेः। रत्नतारेन्दुपुष्पाणि, स्तनयोः कुद्मलौ घटौ। कुम्भिकुम्भौ गिरी चक्रौ बिल्वे, मध्यस्य वेदिका। सिंहमध्यं वज्रमध्यं क्षीणद्रव्यञ्च कथ्यते। उपमानानि रोमाल्याः रेखाशेवालवल्लयः। नीलकान्तमणीधूमलताद्विरदशुण्डकाः। नाभेरम्भोजमावर्त्तो ह्रदो विवरकूपकौ। त्रिबल्या वीचिसोपाननिःश्रेण्यो, जघनस्य तु। पुलिनं पीठफलके, नितम्बस्य स्थलं पुनः। पर्वतः पृथिवी स्थूलोपलं वस्तु च यन्महत्। ऊर्वोः कदलिकास्तम्भेभकरो करभस्तथा। जङ्घाद्वयस्य स्तम्भश्च पादस्य नवपल्लवः। अम्भोजं च गतेर्हंसखञ्जनद्विदतां गतिः। इमान्यन्यान्यपि स्त्रीणां पुंसामपि समानि तु। पु सो रूपोपमानानां विशेषः कोऽपि कथ्यते। स्कन्धस्य वाजिवृषभस्कन्धौ बाह्वोर हीश्वरः। हस्तिहस्तस्तथा स्तम्भार्गलदण्डाश्च, वक्षसः। शिलापट्टकपाटे च प्रमत्ताक्षगतिर्गतेः। यशसः कुन्दचन्द्राद्याः शुभ्रवर्णास्तथा मताः। प्रतापस्याग्निसूर्य्यौ च वाडवाग्नी रषेः करः। जवापुष्पादयश्चैव रक्तवर्णपदार्थकाः। पुण्यस्य गौर्वृक्षवीजं सस्कारोऽङ्कुर एव च। शुक्लवर्णाः पदाथां वे तेऽप्यत्र परिकीर्त्तिताः। सामर्थ्यस्य महद्वस्तु पञ्चास्यविक्रमादिकम्। नीतेर्लतादिः साध्वीस्त्री ज्वाला दीपस्य कीर्त्तिता। आदेशस्योत्कटेच्छादिर्वेदवाक्यं गुरोर्वचः। शासनस्य स्थिरार्थाश्च प्रारन्धकर्म कीर्त्तितम्। पापस्य कर्दमोऽकीर्त्तिः कलङ्कः कृष्णवर्णकः। अन्धकारः केशमसोप्रगृतिश्चोपमानकम्। अकीत्तेः कृष्णवस्तूनि मालिन्यं तमसां ततिः। कस्तूरिकाया भ्रमरो नीलकान्त मणिर्घनः। सुगन्धिद्रव्यदाहोत्थधूमः कज्जलकं तथा। कृष्णपुष्पप्रभृतयः कामाकीर्त्तिः स्थलान्तरे। कामिनोरयशस्तद्वत् कज्जलस्यापि तानि च। कर्पूरस्य तथा चन्द्रः शशाङ्काकरणस्तथा। यूथिकाकुन्दकुसुमं विरहिगण्डकस्तथा। हिण्डीरपिण्डः प्रथित उपमानतया भवि। मनोरथस्य विज्ञेयः फलपुष्पादियुक्तरुः। कविबुद्धिकल्पना स्यादानन्दस्य सुधार्णवः। ब्रह्मसाक्ष त्कृतिस्तद्वत्, कमिनीदर्शनस्य तु। अतिप्रियतमप्राप्तिर्ब्रह्मसाक्षात्कृतिस्तथा। सुधारसो नित्यसुखसाक्षात्कारस्तथा मतः। पूर्णचन्द्रादिकस्यापि साक्षात्कारः प्रकीर्त्तितः। अमृतस्य तु सत्काव्यं कामिन्यधरपानकम्। व्रह्मसाक्षात्कृतिस्तद्वत्, विषस्याघ प्रकीर्त्यते। साध्वीस्त्री विरहः पापं मलिनं दुःखदं च यत्। ग्रीष्माग्निः शीतकालीनशीतोदं परिकीर्त्तितम्। व्यभिचारिणी च या नारी सापि तद्वत् प्रकीर्त्तिता। विरहस्याग्निराधिश्च यातना च प्रयोनिधिः। दु खदानि च वस्तूनि तप्तानि कथितानि च। पुष्पाणां कामिनी चन्द्रः कर्पूरञ्च यशस्तशा। चन्द्रस्य प्रमदावक्त्रमतिशुभ्रञ्च यद्भवेत्। यशः पुण्यादिकं वस्तु चोपमानतयेष्यते। सूर्य्यस्य शिवनेत्राग्निः काञ्चनक्ष्मारुहस्तथा। बाडबाग्निर्जवापुष्पं वसन्तोत्थपलाशकः। पद्मस्य कामिनीवक्त्वं पाटल रक्तवस्तु च। इन्दीवरस्य कस्तूरी नीलकान्तमणिस्तथा। कामिनीनयनं तद्वत् कैरवस्य तु चन्द्रमाः। कुन्दादिपुष्पमन्यच्च शुभ्रवर्णञ्च यद्भवेत्। राज्ञ इन्द्रः कुवेरश्च चन्द्रमा भास्करस्तथा। नलप्रभृतयो ये तु प्रसिद्धाश्चक्रवर्त्तिनः। मेघंस्य काली कृष्णश्च नीलपाथोजसंहतिः। इन्दीवरं वनं दाता कृष्णार्थो भ्रमरावली। शरन्मेधस्य चन्द्रादिशुक्लवर्णपदार्थकाः। कन्दर्पस्य नलश्चन्द्र आश्विनौ च पुरूरवाः। दीपस्यर्षिश्चम्पकञ्च प्रतापः शास्त्रकं तथा। वायोः शीघ्रगवस्तूनि कीर्त्तितानि पुरातनैः। अश्वस्य वायुर्हरिणो मनश्च, हस्तिनो गिरिः। मेधस्तमालवृक्षश्च तमसाञ्च समुचयः। सौधस्योच्चैःश्रवाश्चन्द्रः कैलासैरावतौ मतौ। शिवस्य सौधवत् सर्वं कृष्णस्य सजली घनः तमालवृक्षो भ्रमरश्रेणीन्दीवरकं नभः। नीलकान्तमणिर्नीलपद्मं रामस्य पूर्ववत्। नवदूर्वादलं वृक्षपल्लवं चाधिकम् पुनः। लक्ष्म्यास्तु पार्वती चन्द्रकान्तिः सीता रतिस्तथा। द्रौपदी पद्मकान्तिश्च पुराणैः परिकीर्त्तिता। सरस्वत्याश्चन्द्रकला कैलासाचलकान्तयः। शुक्लवर्णपदार्थाश्च, विपणेस्तु समुद्रकः। ब्रह्माण्डं पण्डितमनस्तथा नारायणोदरम्। समुद्रस्य च मेघादि वस्तु कृष्णं च यद्भवेत्। विदूरक्ष्मा भारतञ्च तथापस्मारिरोगवान्। पुरस्य स्वर्गः कैलासो यत् वृहत् स्यात् मनोरमम्। रथस्य पृथ्वी वैकुण्ठपुरी पोतश्च पुष्पकम्। कामिन्यास्तु तडित्तारा स्वर्णवर्णा च केतकी। उपमानतया स्वर्णलतापि परिकीर्त्तिता। नायकस्य तु कन्दर्प ऐलश्चन्द्रीऽश्विनौ तथा। सभायास्तु सुधर्मा स्यात् गङ्गा सूर्य्यस्य मण्डलम्। गण्डकी पर्वती मेरुरुपमानतया मतः। पण्डितस्य सुराचार्य्य ऋषिः शुक्रः सरस्वती। श्रीरामस्तु विरहिणः शिवोऽजो दुःखितो जनः। उन्मत्तश्चन्दनतरुः शिवशेखरचन्द्रमाः। बाडवाग्नियुताब्धिश्च वल्मीकोऽद्रीन्दुशेखरः। दातुः कर्णः कल्पवृक्षः कामधेनुरुशीनरः। रोहणोऽब्धिरव्दवली जैमिनिश्च युधिष्ठिरः। वसन्तर्त्तोर्मतं मद्यमुन्मादो मलयानिलः। यमोऽग्निर्विषसर्पौ च स स्यात् विरहिणं प्रति। ग्रीष्मर्त्तोरग्निर्विरहोऽहिनिश्वासस्तथा पुनः। विरहिण्याश्च निश्वास उपमानतया मतः। वर्षर्त्तोरजनी व्योम नारायणसमुद्रकाः। शरदः काशपुष्पादिरूपशीतांशुचामाराः। सैरावतगजा ज्ञेया उपमानतया बुधैः। शीतर्त्तोरुप मानं स्यात् राज्यशून्यस्तु भूपतिः। तथापस्माररोगाद्या विद्वद्भिः परिकीर्त्तितः। शिशिरर्त्तोस्तु गुणिनः समुद्रोऽद्रिर्धराश्विनौ। राजागभनकालश्च मदनोऽपि मतो विदाम्। सचिवस्योपमानं तु सुराचार्य्यः प्रकीर्त्तितः”।

साधक = त्रि० साध–ण्वुल्, सिध्–णिच्–ण्वुल् साधादेशः वा। १ साधनकर्त्तरि २ कारके तन्त्रोक्ते ३ मन्त्रादिसिद्धिकारके शिष्ये च “साधकः सिद्धिमाप्नुयात्” इति तन्त्रम्। स्त्रियां टाप् अत इत्त्वम्। साधिका सा च ४ दुर्गायां “साधनात् सिद्धिरित्युक्ता साधिका वाऽथ ईश्वरी” देवीपु० ४५ अ०। ५ जन्मतारावधिकेषु षष्ठपञ्चदशचतुर्विंशनक्षत्रेषु पु० “जन्मसम्पद्विपत् क्षेम प्रत्यरिः साधकी बधः। मित्रं परममित्रञ्च जन्मर्क्षात् गणयेत् त्रिधा” ज्यो० त०। ६ अनुमापके त्रि०।

साधकतम = न० अतिशयेन साधक तमप् “साधकतमं करणम्” पा० परिभाषिते करणे कासकभेदे।

साधन = न० सिध–णिच्–साधादेशे यथायथं करणे भावे ल्युट् कर्त्तरि ल्यु वा। १ करणरूपे कारकभेदे २ मारणे ३ मृतसंस्कारे अग्निदाने ४ गतौ ५ द्रव्ये ६ धने ७ अर्थदापने ८निष्पादने ९ उपकरणे १० हस्त्यश्वादियुद्धसामग्र्याम् ११ अनुगमने अमरः। १२ सैन्ये १३ उपाये १४ सिद्धौषधे १५मेढ्रे मेदि० १६मैत्रे १७ ऊधसि १८ मिद्धौ धरणिः। १९कारके २० प्रमाणे हेमच०। २१ व्याप्ये त्रिका०। २२ मोहने २३ जवे अजयः २४ ब्रह्मविद्याहेतौ नित्यानित्य वस्तुविवेकवैराग्यशमादिषट्कमोक्षेच्छाचतुष्टयें च। युच्। साधनाऽपि उपासनायां निष्पादनायाञ्च स्त्री।

साधनाप्रसिद्धि = स्त्री हेतुदोषभेदे सा च साधने साधनता वच्छेदकधर्माभावरूपा यथा “पर्वतो वह्निमान् काञ्चनधूमादित्यादौ धूमनिष्ठः काञ्चनत्वाभावः साधनाप्रसिद्धिः।

साधर्म्य = न० सधर्मस्य समानधर्मस्य भावः ष्यञ्। १ स्वकीयसाधारणधर्मरूपे लक्षणे २ अनुगतधर्मे “यदुक्तं यस्य साधर्म्यम्” भाषा०। समानो धर्मो यस्य तस्य भावः ष्यञ्। ३ समानधर्मे यथा प्रद्ममिव सुन्दरं सुखमित्यादौ मौन्दर्य्यमुभयोः समानधर्मः।

साधर्म्यसम = पु० साधर्म्येण समः। स्थापनाहेतुदूषके जात्युत्तरभेदे “साधर्म्येणोपसंहारे तद्धर्मविपर्य्ययोपपत्तेः साधर्म्यसमः” गौ० “वादिनाऽन्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिना साधर्म्यमात्रप्रवृत्तहेतुना तदभावस्या पादनम् यथा शब्दोऽनित्यः कृतकत्वाद् घटवत् व्यतिरेकेण वा व्योग्रवदित्युपसंहृते नैतदेवं यद्यनित्यघटसाधर्म्यात् नित्याकाशवैधर्म्याद्वाऽनित्यः स्यात् नित्याकाशसाधर्म्यादमूर्त्तत्वात् नित्यः स्यात् विशेषो वा वक्तव्यः” वृत्तिः भाष्ये तु निदर्शनान्तरमुक्त्वा व्याख्यातं यथा “क्रिथावानात्मा द्रव्यस्य क्रियाहेतुगुणयोगात् द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः क्रियावान् तथा चात्मा तस्मात् क्रियावानिति एवमुपसंहृते परः साधर्म्येणैव प्रत्यवतिष्ठते। निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् विभु चाकाशं निष्क्रियं च तथा चात्मा तस्मान्निष्क्रिय इति न चास्ति विशेषहेतुः क्रियावत्साघर्म्यात् क्रियावता भवितव्यं न पुनरक्रियसाधर्म्यात् निष्क्रियेणेति विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो भवति”।

साधारण = त्रि० सह धारणया स्वार्थेऽण्। १ सदृशे अमरः। २ अनेकस्वत्ववत्येकस्मिन् ३ धने “साधारणं समाश्रित्य यत्किञ्चिद्वाहनादिकम्” स्मृतिः। स्त्रियां गौरा० ङीष्। सा च ३ कुञ्चिकायां ४ वेश्यादिनायिकायाञ्च “यः सपक्षे विपक्षे च भवेत् साधारणस्तु सः” भाषा० उक्ते ५ हेत्वाभासभेदे पु०। यथा वह्निमान् द्रव्यत्वादित्यादौ द्रव्यत्वहेतुः सपक्षे पर्वते विपक्षे ह्रदादौ च वर्त्तते इति साधारणः। स चानैकान्तिकभेदः “आद्यःसाधारणस्तुः स्यादन्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधाऽनैकान्तिको मतः” भाषा०।

साधारणधर्म्म = पु० कर्म०। “अहिम्सा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः। दमः क्षमार्ज्जवं दानं धर्मं साधारणं विदुः” इत्युक्ते अहिंसादौ सर्ववर्णाश्रमतल्ये १ धर्मे। न्यायाद्युक्ते २ संशयहेतौ समानधर्मे च तथाहि रङ्गं रजतं नवेति संशये रङ्गरजतयोः सामिन्यधर्मश्चाकचिक्यशुभ्रत्वादिर्हतुः। ३ प्रजासर्जनरूपे जन्तुमात्रधर्मे च “प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः। तस्मात् साधारणोधर्मः श्रुतौ पत्न्या सहोदितः” मनुः। स च धर्मः सर्वेषां जन्त नां साधारण इति मानवा इत्युपलक्षणम्।

साधारणस्त्री = स्त्री कर्म०। वेश्यायां हेमच०। सा च नायिकाभेदः। “अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति” सा० द० नायिकाशब्दे ४०४२ पृ० तल्लक्षणं दृश्यम्। सामान्यस्त्रीप्रभृतयोऽप्यत्र।

साधारणी = स्त्री साधयति साधा अरणीव। १ कुञ्जिकायां हेमच० साधारणस्वत्वास्पदे स्त्रीप्रभृती स्त्री ङीष् स्वार्थे ष्यञ्। साधारण्य कुञ्जिकार्या न०। भावे ष्यञ्। साधर्मन्यधर्मे च।

साधिका = स्त्री साधयति गमयति सर्वोपशमम् गम–णिच्साधादेशः ण्वुल्। १ सुपुप्तो हेमच०। सिध–णिच् ण्वुल्। २ कार्य्यसाधिकायां स्त्रियाञ्च।

साधित = त्रि० सिध–णिच्–क्त। १ दापिते अमरः २ प्रमाणादिना उद्भाविते च “साधितात् दशकं शतमि” तिः स्मृतिः ३निष्पादिते ४ शोधिते च।

साधिदैव = त्रि० सह अधिदेवेन स्वार्थे अण् द्विपदवृद्धिः। अधिदेवतासहिते। साधिभूतसाधियज्ञावपि परमेश्वरे।

साधिष्ठ = त्रि० अतिशयेन साधुः वाढो वा इष्ठन् साधादेशः टिलोपो वा। १ अत्यन्तदृढे अमरः २ अतिसाधो ३ अतिशोभने च। ४ अत्यार्य्ये मेदि० ५ न्याय्ये हेमच०।

साधिष्ठान = त्रि० सह अधिष्ठानेन। १ सन्निहिते तन्त्रोक्ते षट्चक्रमध्ये सुषुम्णामध्यस्थे चक्रभेदे न० चक्रशब्दे २८०८ पृ० दृश्यम्।

साधीयस् = त्रि० अतिशयेन साधुः वाढो वा टिलोपः साधादेशा वा। १ साधुतरे च २ अत्यन्तदृढे अमरः। ३ न्याय्ये हेमच० स्त्रियां ङीप्।

साधु = त्रि० साध–उन्। १ उत्तमकुलजाते अमरः। २ सुन्दरे ३ उचिते च। स्त्रियां वा ङीप्। ४ मुनौ ५ जिने च पु० हेमच० “न प्रहृष्यति सम्माने नापमाने च कुप्यति। न क्रुद्धः पुरुष ब्रूयादेतद्धि साधुलक्षणम्” गरुडपु० उक्तधर्मयुते ६ जने ७ बार्द्धुषिके ८ मनोहरे मेदि०। साधु लक्षणान्तरं यथा “यथालब्धेऽपि सन्तुष्टः समचित्तो जितेन्द्रियः। हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः। निर्वैरः सदयः शान्तो दम्भाहङ्कारवर्जितः। निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते। लोभमोहमदक्रोधकामादिरहितः सुखी। कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः” पद्मात्त० ख० ९९ अ० “त्यक्तात्मसुखभोगेच्छः सर्वसत्वसुखैषिणः। भवन्ति परदुःखेन साधवो नित्यदुःखिताः। परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि। नापेक्षन्ते महात्मनः सर्वभूतहिते रताः। परार्थमुद्यताः सन्तः सन्तः किं किं न कुर्वते। तादृगप्यम्बुधेर्वारि जलदैस्तत् प्रदीयते। एक एव सतां मार्गो यदङ्गीकृतपालनम्। दहन्तमकरोत् क्राडे पावकं यदपांपतिः। षात्मानं षीडयित्वापि साधुः सुखयते परम्। ह्लादयन्नाश्रितान् वृक्षो दुःखञ्च सहते स्त्रयम्” वह्निपु०। ९ व्याकरणव्यङ्ग्यसाधुताजात्याश्रये शब्दे “अनपभ्रंशताऽनादिर्यद्वाऽभ्युदययोग्यता। व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता” हरिः। तथा च अपभ्रंशभिन्नत्वमनादित्वम् अभ्युदयसाधनप्रयोगबिषत्वं व्याकरणव्यङ्ग्यजातिर्वा साधुता इति तदर्थः। स च ईश्वरसङ्केताश्रयः शब्द इति नैयायिकाः। तथा च यः शब्दो यस्मिन्नर्थे ईश्वरेण सङ्केतितः स शब्दस्तदर्थे साधुः। वैयाकरणमते यः शब्दः यस्मिन्नर्थे व्याकरणे व्युत्पादितः स शब्दस्तत्र साधुः यथा “कर्मणि द्वितीया” पा० द्वितीया कर्मार्थे साधुः।

साधुज = त्रि० साधौ सत्कुले जायते जन–ड। उत्तमकुलोद्भवे शब्दर०।

साधुधी = स्त्री ६ ब०। १ श्वश्रां हारा०। २ सुन्दरबुद्धियुते त्रि०। कर्म०। ३ साधुबुद्धौ स्त्री।

साधुपुष्प = न० साधु पुष्पं यस्य। १ स्थलपद्मे शब्दमा०। कर्म०। २ उत्तमकुसुमे।

साधुवाह = पु० कर्म०। विनीते सुशिक्षिते घोटके हेमच०।

साधुवाहिन् = पु० साधु यथा तथा वहति णिनि। १ विनीतेऽश्वे अमरः २ सुन्दरवहनकर्त्तरि त्रि०।

साधुवृक्ष = पु० नित्यकर्म०। १ कदम्बवृक्षे शब्दमा०। २ बरुणवृक्षे राजनि०। ३ शोभनवृक्षमात्रे च।

साधृत = न० सहाधृतेन सहस्य सः। १ आशुपत्त्रे २ मयूरसमूहे ३ पर्णबीथ्याञ्च अजयः।

साध्य = पु० सिध–णिच्–यत्। “मनोमन्ता तथा प्राणो भरोऽपानश्च वीर्य्यवान्। निर्मयो नरकश्चैव दंशो नारायणो वृषः। प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः” इत्युक्ते द्वादशसंख्यके १ गणदेवताभेदे ज्यो० उक्ते विष्कम्भादिषु योगेषु २ एकविशे योगे च। ३ साधनीये त्रि० मेदि०। ३ अष्टादशविवादेषु प्रमाणादिना उद्भाव्ये पदार्थे “प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम्। निश्चितं लोकसिद्धञ्च पक्षं पक्षविदोविदुः” इत्युक्ते व्यवहारे साधनार्हे प्रतिज्ञेये ४ पक्षे पु० “ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम्। उने वाप्यधिके चार्थे प्रोक्ते साध्यं न सिध्यति” कात्या०। ५ अनुमित्या साधनीये वह्न्यादौ च यथा वह्निमान् धूमादित्यादौ सिषाधयिषितो वह्निः साध्यः। साध्यमस्यास्ति अर्श आद्यच्। ६ साध्यवति पक्षे पु० “साध्यनिर्देशः प्रतिज्ञे” ति गौ० सूत्रम्। साध्यवत्तया पक्षनिर्देश इति दीधितिकारः तन्त्रोक्ते ७ मन्त्रमात्रे ग्राह्यमन्त्रस्य स्वानुकूलताग्राहके ३८ पृ० उक्ते अकथहचक्रस्थे द्वितीयपञ्चमादिकोष्ठस्थाद्यक्षरके “सिद्धः साध्यः सुसिद्धोऽरिः क्रमात् ज्ञेया मनीषिभिः” इत्युक्ते ८ मन्त्रभेदे। १० देवमात्रे मेदि०। व्याकरणोक्ते लिङ्गसंख्यानन्वयिक्रियाभेदे क्रियाशब्दे २३१७ पृ० दृश्यम्। “साध्यरूपा क्रिया तत्र धातुरूपनिबन्धना” हरिः। “साध्यस्य साधनाकाङ्क्षा” हरिः।

साध्यता = स्त्री साध्यस्यानुमितिविधेयस्य भावः तल्। अनुमितिविधेयतारूपे न्यायोक्ते १ विषताभेदे। २ इच्छाविषयताभेदे च। यथा घटोजायतामित्यत्र घटीया साध्यताख्या विषयता।

साध्यताघटकसम्बन्ध = पु० ६ त०। कर्म०। येन सन्धेन–साध्यस्य अनुमेयता तादृशे सम्बन्धे यथा पर्बतः संयोगेन वह्निमाम धूमात् इत्यादौ संयोगः।

साध्यतावच्छेदक = पु० साध्यतामवच्छिनत्ति विशेषयति अव + छिद–ण्वुल्। येन रूपेण सम्बन्धेन वा यस्य साध्यतारूपा विषयता। तस्मिन् १ सम्बन्धे २ धर्मे। यथा वह्निवान् धूमादित्यत्र वह्निः साध्यः तस्य साध्यतां वह्नित्वमवच्छिनत्तीति वह्नित्वं साध्यतावच्छेदकम्। एवं संयोगसम्बन्धोऽपि।

साध्यसम = पु० १ हेत्वाभासभेदे “साध्याविशिष्टः साध्यत्वात् साध्यसमः” गौ० सू० “द्रव्यं छायेति साध्यम्। गतिमत्त्वादिति हेतुः। साध्येनाविशिष्टः साधनीयत्वात् साध्यसमः। अयमप्यसिद्धत्वात् साध्यवत् प्रतिज्ञापयितव्यः। साध्यं तावदेतत् किं पुरुषवच्छायापि गच्छति? आहो स्विदावरकद्रव्ये संसर्पत्यावरणसंतानादसंनिघिसंतानोऽयं तेजसो गृह्यत इति? सर्पता खलु द्रव्येण यो यस्तेजोभाग आव्रियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति। आवरणं तु प्राप्तिप्रतिषेधः” वात्स्या० २ जात्युत्तरभेदे “उभयसाध्यत्वात् साध्यसमः” गौ० सू० “हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः। तं दृष्टान्ते प्रसजतः साध्यसमः। यदि यथा लोष्टस्तथात्मा प्राप्तस्तर्हि यथात्मा तथा लोष्ट इति। साध्यश्चायमात्मा क्रियावानिति कामं लोष्टोऽपि साध्यः। अथ नैवम्। न तर्हि यथा लोष्टस्तथात्मा” वात्स्या०। तच्च “पक्षदृष्टा न्वादेः प्रकृतसाध्यतुल्यतापादनम्” गौ० पृ० दृष्टान्तस्यपक्षतुल्यताकथनम्। यथा, आत्मा सक्रियः क्रियाहेतुगुणवत्त्वादित्यादौ यदि यथा लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम्। तथा च यद्यात्मनि क्रियावत्त्वं साव्यते। तर्हि लोष्टेऽपि तत्साधनीयम्। नेति चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम। लोष्टसदृश आत्मात्ममदृशो लोष्ट इत्यत्र नियामकाभावादिति” नीलकण्ठः।

साध्यसिद्धि = स्त्री साध्यस्य सिद्धिः विनिर्णयः। साध्यस्य वह्न्यादेः अनुमित्यादिना साधनाधीने १ निर्णये २ तन्निष्पत्तौ। साध्यस्य प्रतिज्ञेयार्थस्य सिद्धिर्निर्णयो यत्र। व्यवहारे प्रतिज्ञातार्थस्य प्राड्विवाकादिभिः विनिर्णयरूपे ३ व्यवहारपादनेदे च।

साध्याप्रसिद्धि = स्त्री ६ त० साध्ये साध्यतावच्छेदकस्याभावरूपे हेत्वाभामभेदे। यथा पर्वतः काञ्चनमयवह्निमान् धूमादित्यादौ वह्निनिष्ठः काञ्चनमयत्वाभावः माध्याप्रसिद्धिः।

साध्वस = न० साधु + अस्तति अम–अच्। भये अमरः।

साध्वी = स्त्री साधु–ङीप्। १ मेदायां राजनि० “आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा। मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता” उक्तलक्षणायां २ स्त्रियां तत्रार्थे संज्ञात्वात् न पुंवद्भावः। साधुतायुक्ते ३ स्त्रीमात्रे च। तत्रार्थे पुंवद्भाव इति भेदः।

सानन्द = त्रि० सह आनन्देन। १ आनन्दसहिते “सानन्दं नन्दिहस्ताहतमुरजरवाहूत्तकौमारबर्हि” मालतीमा०। २ ध्रुवकभेदे “अष्टादशाक्षरैर्युक्तो थशोहर्षप्रदो ध्रुवः। कहस्कसंज्ञके ताले सानन्दो वीरके रसे” सङ्गीतदा०। ३ गुच्छकरञ्जे पु० राजनि०।

सानन्दूर = पु० तीर्थविशेषे “सानन्दूरेति विख्यातं भूमे! गुह्यं परं मम। उत्तरे तु समुद्रस्य मलयस्य च दक्षिणे। तत्र तिष्ठाभि वसुधे! उदीचीं दिशमाश्रितः। प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका। आयसीं तां वदन्त्येके अन्ये ताम्रमयीं तथा। कास्यां रोतिमयीमन्ये केचित् सीसकनिर्मिताम्। शिलामयीमित्यपरे महाश्चर्य्यस्वरूपिणीम्” वराहपु०।

सानसि = पु० सन इण् असुक्च। सुवर्णे उणादिकोषः।

सानिका = स्त्री सन–ण्वुल् टापि अत इत्त्वम्। वंश्यां शब्दच०

सानु = पुंन० सन–ञुन्। १ पर्वतस्थे समभूमिदेशे प्रस्थे अमरः २ वने ३ वातसमूहे ४ पथि ५ अग्रे ६ कोविदे ७ अर्के मेदि०। ८ पल्लवे च जटा०।

सानुज = न० सानौ जायते जन–ड। १ प्रपौण्डरीके राजनि० २ तुम्बुरुवृक्षे पु० राजनि०। सहानुजेन। ३ अनुजसहिते त्रि०

सानुमत् = पु० सानुरस्त्यस्य मतुप्। पर्वते हेमच०।

सानेयी = स्त्री सह आनेयेन स्वरेणंसहस्य सः गौरा० ङीष्। वंश्यां शब्दर०। स्वार्थे क ह्रस्वः। सानेयिकाऽप्यत्र।

सान्तपन = न० सन्तापयति सम् + तप० णिच् ल्युट्–स्वार्थेऽण् सन्तपनाय साधु अण्–वा। “गोमूत्रं गोमय क्षीरं दधि सर्पिः कुशोदकम्। एकरात्रोपवासश्च कृच्छ्रं सान्तपनं विदुः” मनूक्ते द्व्यहसाध्ये व्रतभेदे एकदिने गोमूत्रादिषट्कमात्रपानं परदिने उपवास इति द्व्यहसाध्यताऽस्य।

सान्तर = न० सह अन्तरेण सहस्य सादेशः। १ विरले जटा० २ व्यवघानसहिते त्रि०।

सान्त्रानिक = त्रि० सन्तानः प्रयोजनमस्य सन्तना० ठक्। सन्तानसाघने विधानभेदे।

सान्त्व = आनुकूल्यकरणे अद० चु० उभ० सक० सेट्। सान्त्वयति ते अससान्त्वत् त सान्त्वापयतीत्यन्ये अनेकच्कत्वात् न षोपदेशः।

सान्त्व = न० सान्त्व–अच्। १ अत्यर्थमधुरे २ आनुकूल्ये मेदि०। ३ श्रोत्रमनःप्रीतिदवाक्ये प्रियवाक्यादिना क्रोधोपशमनरूपे सामनि च अमरः।

सान्त्वन = न० सान्त्व–ल्युट्। १ आनुकूल्यकरणे प्रियवादादिना क्रोधाद्युपशमने च। युच्। अत्रैव स्त्री।

सान्दीपनि = पु० सन्दीपनस्यापत्यम्। इञ्। रामकृष्णयोराचार्य्ये अवन्तिपुरवासिनि मुनिभेदे। “विदिताखिलविज्ञानौ तत्त्वज्ञानमयावपि। शिष्याचार्य्य क्रमं बीरौ ख्यापयन्तौ यदूत्तमौ। ततः सान्दीपनिं काश्यमवन्तिपुरवासिनम्। अस्त्रार्थं जग्मतुवींरौ बलदेव जनार्दनौ” विष्णुपु० ५ अशे २१ अ०।

सान्द्र = त्रि० अदि–रक् सह अन्द्रेण। १ निविडे अमरः २ मृदौ मेदि०। ३ स्निग्धे ४ मनीज्ञे शब्दर०। ५ वने न० मेदि०।

सान्द्रपुष्प = पु० सान्द्रं पुष्पमस्य। विभीतकवृक्षे शब्दर०।

सान्द्रस्निग्ध = त्रि० सान्द्रं स्निग्धः। १ अतिहृद्ये शब्दर०। २ अतिमनोहरे च।

सान्धिक = पु० सन्धा सुराच्यावनम् शिल्पं वेत्ति ठक्। १ शौण्डिके शब्दमा०। सन्धिः प्रयोजनमस्य ठञ्। २ सन्धिकर्त्तरि त्रि०।

सान्ध्य = त्रि० सन्ध्यायां भवः सन्धिवेला० अण् न ठञ्। सन्ध्याकालिके।

सान्ध्यकुसुमा = स्त्री ६ ब०। त्रिसन्धिपुष्पवृक्षे राजनि०।

सान्नाय्य = न० सन्नीयते सम् + नी–ण्यत् नि०। मन्त्रादिना संस्कार्य्ये घृतादौ अमरः।

सान्निध्य = न० सान्निधिरेव ष्यञ्। नैकट्ये “सान्निध्यमिह कल्पय” आवाहनमन्त्रः।

सान्निपातिक = त्रि० सन्निपातात् त्रिदोषविकारात् आगतः तेन निर्वृत्तो वा ठञ्। सान्निपाताज्जाते रोगे सन्निपातशब्दे ५२१६ पृ० दृश्यम् “विकारे सन्निपातके” कुमारः।

सान्न्यासिक = पु० सन्न्यासः प्रयोजनमस्य ठक्। सन्न्यासिनि हेमच०

***