सपक्ष = पु० समानः पक्षेण। १ तुल्यरूपे २ निश्चितसाध्यके पक्षे च
सपत्त्राकरण = न० सह पत्त्रेण पक्षेण सपत्त्रः तथा क्रियते सपत्त्र + डाच् + कृ–ल्युट्। पक्षेण्ण सह शरवेधनरूपे अत्यन्तव्यथने। कर्मणि क्त। सपत्त्राकृतः। तथा पीडिते त्रि०।
सपत्न = पु० सह एकार्थे पतति पतते पत–न सहस्य सः। शत्रौ अमरः।
सपत्नारि = पु० सपत्नस्य अरिरिव। (वेडवा~श) वंशभेदे शब्दच०।
सपत्नी = स्त्री समानः पतिर्यस्याः ङीप् न च। १ एकभर्तृकायां स्त्रियाम् २ समस्वामिकायां भूम्यादौ च। तत्र सपतिरित्यपि।
सपदि = अव्य० सह पद्यते पद–इन् सहस्य सः। तत्क्षणे इत्यर्थे “सपाद मुकुलिताक्षीमिति” कुमारः।
सपर = पूजायां कण्ड्वादि० पर० सक० सेट्। सपर्य्यति असपर्य्यीत।
सपर्य्या = स्त्री सपर–यक् अ टाप्। पजायाम् “सोऽहं सर्य्याविशिभाजनेनेति” रघुः।
सपाद = स्त्री सह पादेन चरणेन चतुर्थांशेन वा। १ पादसहिते २ चतुर्थांशसहिते च।
सपिण्ड = त्रि० समानः पिण्डः स्वदेहारम्भकांशभेदः श्राद्धे देयपिण्डो वा यस्य समानस्य सः। एकदेहारभ्यदेहे ज्ञातिभेदे “असपिण्डा च या मातुरिति” स्मृतिः। ज्ञातीनाञ्च साक्षात् परम्परया अतिपरम्परया वा एकदेहारभ्यत्वात्तघात्वम् मिता०। २ दातत्वभोक्त त्वेनैकपिण्डयुते टायभा०। एतच्च दायग्रहणोपयोगिसापिण्ड्यामिति। सपिण्डता हि विषयभेदेन त्रिविधा अशौचोपयोगिनी विवाहोपयोगिनी दायोपयोगिनी चेति। तत्र समानदेहसम्बन्धे या सपिण्डता साऽशौचग्रहणार्था विवाहार्था च। श्राद्धे देयपिण्डसम्बन्धात् सपिण्डता तु दायग्रहणोपयोगिनीति विवेकः। यथोक्तं शु० त० रघुनन्दनेन “मत्स्यपुराणे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्”। नन्वेवं भ्रात्रादिभिः सह पिण्डतल्लेपभोक्तृत्वासम्भवात् कथं सपिण्डत्वमिति चेदुच्यते तेषामपि पिण्डलेपयोः सम्बन्धोऽस्ति तथाच बौधायनः “प्रपितामहः पितामहः पिता स्वयं, सोदर्य्यभ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौत्रो वा एतानविभक्तदायादान् सपिण्डानासक्षते। विभक्तदायादान् सकुल्यानाधक्षते सद स्वङ्गजषु तद्गामी ह्यर्थो भवति” इति अस्यार्थः पित्रादिपिण्डत्रयेषु सपिण्डनेन भोक्तृत्वात् पुत्रादिभिस्त्रिभिस्तत्पिण्डदानात्। यश्च जीवन् यस्य पिण्डदाता स मृतः सन् सपिण्डनेन तत् पिण्डभोक्ता एवं सति मध्यस्थितः पुरुषः पूर्वेषा जीवन् पिण्डदाता मृतः सन् तत्पिण्डभोक्ताऽपरेषां जीवतां पिण्डसम्प्रदाता आसीत्। मृतश्च तैः सह दौहित्रादिदेयपिण्डभोक्ता अतो येषा० मयं पिण्डदाता ये चास्य पिण्डभोक्तारस्तेऽविभक्तं पिण्डरूपं दायमश्नन्तीति अविभक्तदायादाः सपिण्डा इति। इदञ्च सपिण्डत्वं सकुल्यत्वञ्च दायग्रहणार्थम् अशौचाद्यर्थन्तु पिण्डलेपभुजामपि “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः” इति प्रागुक्तमत्स्यपुराणात्। वक्ष्यमाणकूर्मपुराणशङ्खलिखितवचनाच्च। पिण्डे यथापरस्परं भाक्तृत्वं तथा लेपे तुल्यन्यायात्। हारलतायां कूर्मंपुराणम् “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु जन्मनाम्नोरवेदने। पिता पितामहश्चैव तथैव प्रपितामहः। लेपभाजश्चतुर्थाद्याः सापिण्ड्यं साप्तपौरुषम्”। लेपभागिभ्यस्तूर्द्ध्वं यावज्जन्मनाम्नोरवेदनं यावदमुकनाम्नोऽस्मात् पूर्वपुरुषादयं जात इति विशेषः अयमस्मत् कुले जात इति सामान्यतो वा स्मर्य्यते तावत् समानोदकत्वमिति हारलता। अत्र परवचनेनैव सापिण्ड्यसिद्धौ पूर्ववचनपूर्वार्द्धं जीवत्पितृकत्वादिना अधिकपुरुषेषु पिण्डलेपसम्बन्धेऽपि सपिण्डतानिवृत्तिज्ञापनाय। सर्वदेशीयाचारोऽपि तथा”। “अथ यः खलापण्डान् दत्त्वैव मृतः परतश्चाप्राप्तपितृभावः स कथं सपिण्डः। एकपिण्डदातृत्वभाक्तृत्व- लक्षणसम्बन्धाभावादिति चेत् तद्योग्यतयेति ब्रूमः। योग्यताप्रयोजकञ्च सामान्यशास्त्रविषयत्वम्। ततश्चात्यतिवृद्धप्रपितामहावधिकाधस्तनानां षण्णां पुंसां प्रत्येकापेक्षया सप्तानामेकगोत्राणां स्वावधिपरतनानां सप्तानाञ्च सापिण्ड्यं पिण्डलेपयोर्दातृत्वभोक्तृत्वसम्बन्धादिति। स्त्रीणान्तु भर्तृसापिण्ड्येन सापिण्ड्यम् “प्रत्तानां भर्तृसापिण्ड्यमिति” वचनात्। नन्वेवं कन्यायाः कथं सपिण्डतेति चेत् आदिपुराणवचनात् त्रैपुरुषं सापिण्ड्यम्। यथा “सपिण्डता तु कन्यानां सवर्णानां त्रिपौरुषी”। अत्र कन्यानामूढानाम् “अपत्तानां त्रिपौरुषमिति” वशिष्ठवचनात्। तेन आत्मपञ्चमे वृद्धप्रपितामहे सापिण्ड्यं निवर्त्तते इति प्रतिपादितम्। अत एव कन्यायाः प्रपितामहभ्रात्रा तत्सन्ततिमिः सह सापिण्ड्याभावात् कन्यामरणजननयोस्तेषां सपिण्डाशौचं नास्ति किन्तु समानोदकनिमित्तमेवाशौचमिति एवं तेषामपि जननमरणयोः कन्यानामिति शूलपाणिमहामहोपाध्यायः। यत्तु कूर्सपुराणम् “अप्रत्ताना तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम्। प्रत्तानां भर्तृसापिण्ड्यं प्राह देवः पितामहः” इति रत्नाकरधृतम्। तद्विवाहे पितृपक्षविषयम्। यथा विष्णुपुराणम् “सप्तमीं पितृपक्षाच्च मातृपक्षाच्च पञ्चमीम्। उद्वहेत द्विजो भार्य्यां न्यायेन विधिना नृप!” सप्तमीं पञ्चमीं हित्वेति शेषः। भर्तृसापिण्ड्यमित्यत्र साप्तपौरुषमित्यनुषज्यते। तेन भर्तृसमानसापिण्ड्यमित्यर्थः। शङ्खलिखितौ “सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी। पिण्डञ्चोदकदानञ्च शौचाशौचं तदानुगम्”। गोत्रतः गोत्रैक्ये तेन मातामहकुले कदाचित् षट्पुरुषपर्य्यन्तं पिण्डसम्बन्धेऽपि न सपिण्डता। तान् सप्तपुरुषान् आ समन्तात् पिण्डादिकमनुगच्छतीति तदानुशम्। एतेन “सपिण्डता एकशरीरावयवान्वयेन भवति तथाहि पितुः शरीरावयवान्वयेन पित्रा सह एवं पितामहादिभिरपि पितृद्वारेण तच्छरीरावयवान्वयात्। एवं मातृशरीरावयवान्वयेन भ्रात्रादिभिरिति। एवं पत्या सह पत्न्या एकशरीरारम्भकतया सापिण्ड्यम्। तथाच गर्मोपनिषदि “एतत् षाट्कौषिकं शरीरं त्रीणि पितृतः त्रीणि मातृतः अस्थिस्नायुमज्जानः पितृतः, त्वङ्मांसरुधिराणि मातृतश्चेति” तत्र तत्रावयवान्वयप्रतिपादनात्। निर्वाप्यपिण्डान्वये तु सापिण्ड्ये भ्रातृपितृव्यादिसापिण्ड्यं न स्यात्। अतिप्रसङ्गस्तु सप्तान्यतमत्वेन प्रयोगोपाधिना निरसनीयः। यद्येवं मातामहादीनामपि मरणे सपिण्डत्वेन दशाहाशौचं प्राप्नोति, स्यादेतत् यदि मातामहादीनां मरणे “त्रिरात्रं स्यादशौचकम्” इत्यादिविशेषवचनं न स्यात्। यत्र तु विशेषवचनं नास्ति तत्र दशाहमिति मिताक्षरारत्नाकरादिमतमपास्तं लेपभाजैत्यादि वाचनिकेऽर्थे सापण्ड्ये एकशरीरावयवान्वयरूपस्वकपोलरचितार्थानवकाशात् निर्वाप्यपिण्डसम्बन्धेन भ्रात्रादीनां सापिण्ड्यस्य मत्स्यपुराणबौधायनाभ्यां पूर्वमुक्तत्वात् कामधेनुहारलताकल्पतरुपारिजातकारादिभिस्तथैव व्याख्यातत्वाच्च। रेतःशोणितपरिणामरूपत्वादपत्यशरीरस्य भवतु वा तथा पत्या सह पत्न्या एकशरीरारम्भकतायाः प्रत्यक्षबाधितत्वात् कथं सापिण्ड्यं प्रमातामहादीनां विशेषवचनाभावात् सपिण्डत्वेन दशाहाद्यशौचप्रसङ्गाच्च मातामहादौ सापिण्ड्यस्य लोकविरुद्धत्वाच्च। भवतु वा तथा शरीरद्वारा सापिण्ड्यं तथापि वचनात् यथासप्तान्तर्गत्रत्वं तन्त्रं तथा “गोत्रतः साप्तपौरुषीति” वचनात् गोत्रैक्यमपि प्रागुक्तवचनात् कन्यायास्त्रीपौरुषम् उढायाश्च भर्त्तृसपिण्डनेन सापिण्ड्यमिति चेत् तदेतन्मतेऽपि व्यवस्थायां न क्षतिरिति अतएव सुमन्तुवचनाभिहितं यद्दशमपुरुषपर्य्यन्तमशौचं तत् सप्तमपुरुषाभ्यन्तराशौचान्न्यूनं त्रिरात्रं यथा “ब्राह्मणानामेकपिण्डस्वधानामादशमाद्धर्मविच्छित्तिर्भवति आसप्तमात् ऋक्थविच्छित्तिर्भवति आतृतीयात् स्वधाविच्छित्तिर्भवति” अन्यथा पिण्डशौचक्रियाद्युच्छेदात् ब्रह्महत्यातुल्यो भवति” अस्यार्थः। एका समाना पिण्डस्वधायेषां ते तथा यथैकोद्दिष्टस्य पिण्डे तु अनुशब्दो न युज्यते इत्यत्रानुशब्देनानुशब्दयुक्तमन्त्रो लक्ष्यते अनुयुक्तमन्त्रस्तु “वे चात्र त्वामनु यांश्च त्वमनु तस्मै ते स्वधा” इति तथा पिण्डस्वधाशब्देन पिण्डसम्बन्धिस्वधाशब्दयुक्तमन्त्रकरणकदेयजलं लक्षितम्। तथा च ऊर्ज्जं वहन्तीरमृतं घृतं पयःकीलालं परिस्रुतं स्वधास्थ तर्पयत मे पितॄन्” इत्यनेन पिण्डान् सिञ्चेदित्युक्तम्। ततश्च एकपिण्डस्वधानां समानोदकानामित्यर्थः। अतएव मनुः। “जन्मन्येकोदकानान्तु त्रिरात्रात् शुद्धिरिष्यते”। विष्णुपुराणं “मातृपक्षस्य पिण्डेन सम्बद्धाः ये जलेन वा” मातृषक्षस्य मातामहपक्षस्य ये जलेन मम्बद्धाः समानोदका इति श्राद्धविवेकेऽपि व्याख्यातम्। “असम्बन्धा भवेद् या तु पिण्डेनैवोदकेन वा” इति विवाहेऽप्युक्तम्। अत्र पुत्रिकायाः पार्वणे पिण्डोदकयोः सम्बन्धात् कन्यामात्रेऽपि तद्योग्य तायाः सत्त्वात्। कन्या पिण्डोदकसम्बन्धोच्यते एतदनुसारादपि तस्याः सपिण्डता बोद्धव्या तस्मादेकपिण्डखधानामित्यनेन समानोदकभावः समाख्यातः न तु दशम पर्य्यन्तं, पित्रादिजीवनादिना सापिण्ड्यसम्बन्धेऽपि सापिण्ड्यं विहितं प्रागुक्तयुक्तेः स्वधेत्यस्य तदनुप्रयुक्तत्वेन वैयर्थ्यापत्तेः। अपुत्रधवाधिकारस्तु सन्निहिततराभावे सप्तमपुरुषपर्य्यन्तं भूतपितृकस्य स्यधोपलक्षितश्राद्धाधिकारः पुरुषत्रयपर्य्यन्तमिति अत्र स्वधाशब्दो मन्त्रपरः पितृभक्षपरोऽपि। तधा च गुणविष्णुधृता श्रुतिः “स्वधा वै पितॄणामन्नमिति।” दशमपुरुषपर्य्यन्तं समानोदकत्वेऽपि न त्रिरात्रं किन्तु पक्षिण्यादि तथाहि उदकक्रियामधिकृत्य पारस्करः “सर्वे ज्ञातयो भावयन्ति आसप्तवाद्दशमाद्वा समानग्रामवासेन यावत् सम्बन्धमनुस्मरेयुर्वा” इति भावयन्ति निष्पादयन्ति अत्र यावत्सम्बन्धमनुस्मरेयुरेककुलजातावयमिति स्मरणं भवतीत्यनेनैव सर्वेषामुदकदाने प्राप्ते यद् आसप्तमाद्दशमादित्युक्तं तत्सन्निकर्षतारतम्येनाशौचभेदेऽप्युदककर्मसमानार्थमिति। अशौचभेदस्तु सप्तमपर्य्यन्तं सपिण्डत्वाद्दशाहः। ततश्च दशमपुरुषपर्य्यन्तं त्र्यहः। तथाच विष्णुवृहस्पती। “दशाहेन सपिण्डास्तु शुध्यन्ति मृतसृतके। त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः।” ततश्चतुर्दशपुरुषपर्य्यन्तं पक्षिणी ततश्च जन्मनामस्मृतिपर्य्यन्तमेकाहः। तथाच मिताक्षराविवादचिन्तामण्योर्वृहन्ममुः। “सपिण्डता तु पुरुषे सप्तमे विनिवर्त्तते। समानोदकभावस्तु निवर्त्तेताचतुर्द्दशात्। जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते।” अत्र समानोदकत्वे द्विविधे पूर्वत्र गोतमः “पक्षिणीमसपिण्डे” परत्र हारीतः। “मातामहे त्रिरात्रं स्वादेकाहस्त्वसपिण्डके” इति। अत्रैव गोत्रजानामहः स्मृतमिति जावालवचनं ततः परं सर्वथा समानोदकतानिवृत्तेः। स्नानमात्रमिति “स्नात्वा शुद्ध्यन्ति गोत्रजाः” इति वृहस्पत्युक्तत्वादिति”। तथा च गोत्रैक्ये सति पिण्डलेपयोर्दातृत्वभोक्तृत्वान्यतरवत्त्वम् अशौचसापिण्ड्यम्। साक्षात्परम्परया सप्तमपर्य्यन्तदेहसम्बन्धवत्त्वं विवाहसापिण्ड्यं त्रिपुरुय पर्य्यन्तं देयपिण्डदातृत्वभोक्तृत्वान्यत्वरवत्त्वं दायग्रहणे सापिण्ड्यमिति विवेकः मिता० मातृसपत्न्या अपि सापिण्ड्यं स्वीकृत्य धनाधिकारोऽभिहितः तन्मते समानदेहसम्बन्धयोग्यतयैव सापिण्ड्यात्। दायमागमते तु श्राद्धे देयपिण्डदातृत्वभोक्तृत्वाभावात् न तस्याः सापिण्ड्यं तद्योग्यत्वेऽपि स्त्रीमात्रस्य विशेषवचनाभावे धनाधिकारपर्युदासात् इति विवेकः एवं स्नुषाया अपि।
सपिण्डीकरण = न० सह पिण्डेन सपिण्डः ततः अभूततद्भाके च्वि + कृ–ल्युट्। प्रेतत्वविमोचनाय प्रेतोद्देशेन अर्त्तव्ये पित्रादिपिण्डसमन्वयकरणरूपे श्राद्धभेदे सपिण्डीकरणप्रकारस्तत्कालादिकं श्रा० त० निरूपितं यथा “अथ सपिण्डीकरणम्। तत्र मोभिलः “पूर्णे संवत्सरे षण्मासे त्रिपक्षे यदहर्वा वृद्धिरापद्येत तदहश्चत्वार्युदकपात्राणि सतिलगन्धपुष्पोदकानि पूरयित्वा त्रीणि पितॄणामेन्नं प्रेतस्य प्रेतपात्रं पितृपात्रेष्वासिञ्चति। ये समानाः समनसः पितरो यमराज्ये तेषां लोकाः स्वधा नमो यज्ञो देवेषु कल्पताम्। ये समानाः समनसो जीवाजीवेषु मापकाः। तेषां श्रीमयि कल्पतामस्विन् लोके शतं समाः” इति एतेनैव पिण्डो व्याख्यातः” इति। पूर्णे संवत्सरे इति मुख्यः कल्पः। तदशक्तौ नबमो मासः “संवत्सरान्ते विजर्जनं नवममास्यमित्येके” इति पैठीनसिवचनात्। तदक्तौ षष्ठो मासः। तत्राप्यशक्तौ त्रिपक्षः तत्राप्यशक्तौ अशौचापगमे प्रथममासस्य द्वादशभिर्दिभैर्द्वादशमासिकानि श्राद्धानि निर्वर्त्त्य त्रयोदशाहः सपिण्डोकरणकालः शूद्रस्युद्वादशाहो न तु त्रयोदशाह एव “मासिकार्थवत् द्वादशाहश्राद्धं कृत्वा त्रयोदशेऽह्नि वा तत्कुर्य्यान्मन्त्रवर्जं हि शूद्राणां द्वादशेऽह्नीति” विष्णुवचनात्। मासिकार्थवदिति मासिकार्थो मासि मासि क्रियमाणश्राद्धप्रयोजनं प्रेताप्ययनादि तद्युक्तं द्वादशाहक्रियमाणश्राद्ध सित्यर्थः। यत्र त्वेजादशमासाभ्यन्तरेऽधिमासपातस्तत्र त्रयोदशसु दिनेषु त्रयोदश मासिकानि कृत्वा चतुर्दशेऽह्नि सपिण्डनं कार्य्यमिति “संबत्सराभ्यन्तरे यद्यधिमासो भवति तदा मासिकार्थं दिनमेकं वर्द्धयेत्” इति विष्णुवाक्यात् शूद्रस्य त्रयोदश दिनेषु त्रयोदशं मासिकानि त्रयोदशेऽह्नि सपिण्डनं दृष्टपरिकल्पनान्यायात्। एवञ्च वृद्धिमात्रे न दिनवृद्धिरिति मिश्रोक्तं हेवम्। तद्धृतविष्णुंसूत्रे दिनमेकं वर्द्धयेदिति श्रुतेः। श्वाद्धाधिक्यमाह सत्यव्रतः “संवत्सरस्य मध्ये तु यदि स्यादधिमासूकः तदा त्रयोदशे श्राद्धं कार्य्यन्तदधिकं भवेत्”। तत्राप्यशक्तौ प्रथममासस्यैकाह एव द्वादशमासिकसहितसपिण्डीकरणकालः। “मुख्यं श्राद्धं मासिमासि अपर्य्याप्रावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” इति मरीचिवचनात्। अपर्य्याप्तौ अशक्तौ ऋतुर्मासद्वयम्। अत्र कल्पे षष्ठमासिकदिने पञ्चममासिकं कृत्वा प्रथमषाण्मासिकं कार्य्यं तदाद्युत्कर्षन्यायात्। न तु तत् पूर्वं षाण्मासिकं व्युत्क्रमापत्तेर्न च पञ्चपमासि कमपि पूर्वदिने मृततिथ्यभावात् एवमेव वाचस्पति मिश्रः। अपककर्षविषित्तमाहं व्याघ्रः “आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते”। एतच्च द्वादशाहपदं शावाशौचान्ततृतीयदिनमात्रपरमिति प्राचीनमैथिलाः अजहतस्वार्थलक्षया स्वजात्युक्ताशौलान्ततृतीयदिनमात्रीपलक्षकमिति श्राद्धप्रदीपश्राद्धचिन्तामणी। तद्द्वयमप्ययुक्तं “द्वादशाहेन वा कुर्य्यात्” इति मरीचिवचन “द्वादशाहे श्राद्धं कृत्वा त्रयोदशेऽह्नि वा कुर्य्यात्” इति विष्णुवचनाभ्यामेडवाक्यतया द्वादशदिनपरत्वात्। कुलधर्माणामिति कुलधर्मज्योतिरागमादिसिद्धानन्तरषाविनाशपरचक्रभयोत्पन्नम्लेच्छदेशगमनादिभिर्निमित्तैरशौचापगमे द्वादश दिनानि षोडशश्राद्धापकर्षकाल इति शूलपाण्युपाध्यायव्याख्यानात् मरीचिनेव “एकाहे द्वादशाथ वेति” सामान्यत एव एकाहविधानाच्च। अतएव एकाहापेक्षया प्राशस्त्यामिधानमपि सङ्गच्छते अतएव प्रथममासस्य एकाह एव द्वादशमासिकसहितसपिण्डीकरणकाल इति श्राद्धविवेकः। अत्र यानि एकाहकर्त्तव्यतया द्वादशमासिकश्राद्धान्युक्तानि तानि शूद्रे णापि आद्यमासिकदिन एव कार्य्याणि नत्वाद्यमासिकं कृत्वा तत्परदिने एकादश मासिकानीति ज्ञेयम्। एवञ्च तेवामपकर्षे तन्मध्ये तदन्तकाले च कर्त्तव्यतया षण्माषिकद्वयसपिण्डीकरणापकर्षः सिद्ध्यतीति सुधीभिर्भाव्यम्। यदहर्वा वृद्धिरिति वृद्धिराशास्यमानं पुंसवनादि। आपद्येत आसन्ना भवति तद्दितेऽपि सपिण्डीश्चरणम्। तथाहि “प्रागावर्त्तनादह्नः कालं विद्यात्” इति गोभिलगृह्यसूत्रेण पुंसवनादिकरूपवृद्धेर्यामद्वयाभ्यन्तरे विधानात् सपिण्डीकरणस्य चापराह्णे विधानात्तयोः कालयोरबाधाय वृद्धिपूर्वदिने अपकर्षः। ननु सपिण्डीकरणस्यापराह्णिककत्वे किं प्रमाणमिति चेत् “अपराह्णे तु पैतृकम्” इत्युत्सर्गवचनम्। किञ्च “यद्यप्यदन्तकः पूषा पैष्टमत्ति सदा चरुम्। अग्नीन्द्रेश्वरसाधर्म्यात्तण्डुलोऽत्र विधीयते” इति छन्दोगपरिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुर्नैकानुरोधात् पैष्टचरुः “विरुद्धधर्मसववाये भूयसां स्यात् सधर्मकत्वम्” इति जैमिनिसूत्रात्। तद्वदत्रापि बहुदेवताक प्रार्वणानुरोधात् “एकोद्दिष्टविधानेन कार्यन्तदपि पार्थिव!” इति विष्णुपुराणीयमेकोद्दिष्टांशे तदितिकर्त्तव्यतापरं न तु तत्कालपरम्। तथा च परिशिष्टप्रकाशघृतम् “श्राद्धद्वयमुपक्रम्य कुर्वीत सहपिण्डताम्। तवोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्” इति। एवञ्च शुद्धितत्त्व लखितस्यमन्तकोपाख्यानवत् वृद्धिं निश्चित्य कृतं सपिण्डीकरणं तदानीं विघ्नेन वृद्ध्यभावेऽपि वृद्ध्यारम्भकालान्तरं पूर्णसंवत्सरं वा प्राप्य पितृत्वप्रापकमिति न सपिण्डनान्तरम्। अत्र “श्वःकर्त्तास्मीति निश्चित्य दाता विपास्निमन्त्रयेत्।” इतिवन्निश्चित्येति उत्कटंकोटिकसम्भावनोपलक्षणं भविंष्यन्निमित्तस्य कर्मणः प्रत्यूहार्हत्वात् एवञ्च वृद्धिश्राद्धं यदर्थं कृतं तत् कर्म चेत् विघ्नात्तद्दिने न क्रियते तदा दिनान्तरे तत् कर्मणि क्रियमाणे तदङ्गत्वात् पुनर्वृद्धिश्राद्धं कर्त्तव्यमेव। “प्रधानस्याक्रिया यत्र साङ्ग्रं तत्क्रियते पुनः। तदड्गस्याक्रियायान्तु नावृत्तिर्न च तत्क्रिया”। इति छन्दोगपरिशिष्टेन साङ्गकरणाभिधानात्। हेमाद्रिधृतं “पूर्णेसंवत्सरे श्राद्धं षोडशं परिकीर्त्तितम्। तेनैव च सपिण्डत्वं तेनैवाव्दिकमिष्यते।” अत्र पूर्णसंवत्सरक्रियमाणश्राद्धाद् यथोभयनिर्वाहः तथापकृष्टसपिण्डनादप्युभयनिर्वाहान्न पूर्णसंवत्सरे आव्दिकान्तरं कार्य्यम्”। तत्रायं विशेषः तत्रोक्तो यथा “एवञ्च पार्वणे प्रागुक्तवचनेन शेषद्रव्येण पिण्डविधानात् तद्विकृतावपि सपिण्डीकरणे तन्नियमात् यद्यपि शेषाभावेऽपि पिण्डनिवृत्तिरायाति तथापि “यथोक्तवस्त्वसंप्राप्तौ ग्राह्यं तदनुकारि यत्। यवानामिव गोधूमा व्रीहीणामिव शालयः” इति छन्दोगपरिशिष्टवचनात् “मुख्याभावेऽपि प्रतिनिधिः शास्त्रार्थः” इति न्यायाच्च मध्वाद्यमावे गुडादिग्रहणवत् द्रव्यान्तरेणापि पिण्डदानं शेषद्रव्यनियमस्तु तत्सम्भवे द्रव्यान्तरत्यागाय। अन्यथा तदङ्गाभावे कर्मवैगुण्यं स्यात् “सहपिण्डक्रियायाम्” इति मनूक्तेः पिण्डस्य पेतपिण्डेन सह मिश्रीकरणं यत्रेति सपिण्डीकरणसमाख्यासिद्धर्थं सुतां तत्र तथाचरणं प्रतिपत्तिरूपकर्माङ्ग एव प्रतिपाद्याभावे तन्निवृत्तिः पशुयागे “लाहित निरस्यति सकृन्निरस्यति” इत्यादावुक्ता। अतएव यज्ञवास्तुरूपप्रतिपत्तियागेऽपि यज्ञो यत्र वसति इति यज्ञवास्तुसमाख्यानुरोधेनास्तृतकुशविनाशेऽपि कुशान्तरप्रतिनिधिर्भट्टनारायणैर्गोभिलभाष्ये उक्तः “प्राक् स्विष्टिकृत आवापः” इति गोभिलसूत्रस्य व्याख्यानेऽपि आउप्यते इत्यावापः प्रधानहोमः स तु स्विष्टिकृद्धोमात् प्राक् न पश्चादित्यर्थः। एवञ्च मुख्यहोमे त्वकृते यदि चरुर्नष्टो दुष्टो वा भवति तदान्यः पाच्यः मुख्ये कृते चेन्नाशदुष्टी तदाज्यैनैव स्विष्टिकृद्धोम इति सरला। एतेन शेषनाशे पिण्डनिवृत्तिरिति वाचस्पतिमिश्रोक्तं हेयम्। एतेनार्घ्यदानविधानेन पिण्डमिश्रणप्रकारो व्याख्यात उक्तः”। “पितरि पूर्वं मृते तद्वषाभ्यन्तरे पितामहे प्रपिरामहं मृते यथा कर्त्तव्यं तथाह छन्दोगपरिशिष्टे कात्यायनः “पितुः सपिण्डतां कृत्वा कुर्य्यान्मासानुमासिकम्। असंस्कृतेन संस्कार्य्यौ पूर्व्वौ पात्रप्रपौत्रकैः। पितरं तत्र संस्कुर्य्यादिति कात्यायनीऽव्रवीत्। पापिष्ठमपि पुद्धेन शुद्धं पापकृतापि वा। पितामहेन पितरं कुर्य्यादिति विनिश्चयः”। पितुः सपिण्डतां कृत्वा प्रेतीभूतयोरपि पितामहप्रपितामहयोः सत्त्वे प्रतिमासविहितं पार्बणं पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानां कर्त्तव्यं न तु तयोः सपिण्डीकरणापेक्षा कार्य्या मनु सपिण्डनेनासंस्कृताभ्यां सह पिण्डैः कथं सपिण्डनाख्यसंस्कारस्तस्मात्तदर्थं तयोः सपिण्डीकरणमपकर्षणीयं पितुरेव वा सपिण्डन मुत्कर्मणीयमित्यत आह असंस्कृतेनेति। उत्कषीपकर्षौ न कार्य्यावित्यनेन वचनेनोक्तं कथमसंस्कृतेन सह संस्कार इत्यत्राह पापिष्ठमपीति पापिष्ठमकृतसपिण्डीकरण शुद्धेन कृतसपिण्डीकरणेन पितामहेन पापकृता अकृतसपिण्डीकरणेनापि शुद्धं कुर्य्यादिति शास्त्रनिश्चयः। अतो वचनबधाददोष इति तात्पर्य्यम्। अत्र तु प्रेतीभूत पितामहेन पितुः सपिण्डने पितामहैकोद्दिष्ठमेव। “असपिणडकृतं प्रेतमेकोद्दिष्टेन तर्पयेत्” इति प्रागुक्तजाबाल वचनात्। एवमन्यत्रापि बोध्यं वृद्धप्रपितामहस्य प्रेतत्वे तेन मह न कार्य्यमिति तात्पर्य्यम्। अत्र मातुः सपिण्डने श्वशुरार्य्यश्वशुरयोः पिण्डो कुशैराच्छाद्यौ। तथा च गार्ग्यः “प्रतिनैकेन कर्त्तव्यं सपिण्डोकरणं स्त्रियाः। सा गता हि मृतैकत्वं कुशैरन्तयन् पितृन्। श्वशुर- स्याग्रतो यस्माच्छिरःपच्छादनक्रिया। पुत्रैर्दर्भेण सा कार्य्या मातुरभ्युदयार्थिभिः”। अन्तरयन्तीत्यर्थे अन्तरयन्निति लिङ्गव्यत्ययेन पुंस्त्वमिति हलायुधः। पराचनं गोभिलश्राद्धसूत्रभाष्यकृतापि लिखितम्। अतएव प्रव्रजिते पतिते वा पितरि मृतेऽपि न पितामहादिभिर्मातुः सपिण्डीकरणं किन्तु पितामह्यादिभिरेव। “स्वेन भर्त्रा सहैवास्याः सपिण्डोकरणं स्त्रियाः। एकत्वं सा गता यस्माच्चरुमन्त्राहुतिव्रतैः। तस्मिन् सति सुताः कुर्य्युः पिताभह्या सहैव तु”। इत्यत्र तस्मिन् सतीति श्राद्धानर्हभर्त्रुपलक्षणम्। अतएव “तस्याञ्चैव तु जीवन्त्यां तस्याः श्वश्रेति निश्चयः” इति लघुहारीतन श्वश्रूजीवने तस्याः श्वश्र्वोक्तं न तु श्वशुरेणेति क्वचिदप्युक्तम्। एवं पितामह्यादिभिर्मातुः सपिण्डीकरणेऽपि सामगेन “ये चात्र त्वामनुयांश्च त्वमनु तस्मै ते स्वधा” इति मन्त्रो क पाठ्यः मन्त्रलिङ्गविरोधात् अतएव आभ्य दयिके मातृपक्षे श्रीदत्तादिभिमन्त्रान्तरं लिखितं न तु ये चात्रत्वामिति वस्तुतस्तु आभ्युदयिके छन्दोगानां मातृपक्ष एव नास्तीति वक्ष्यते”। लघुहारीतः “सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश। पृथङ्नैव सुताः कुर्य्युः” पृथभ्द्रव्या अपि क्वचित्। प्रेतसंस्कारकर्माणि यानि श्राद्धानि षोडश। यथाकालन्तु कार्य्याणि नान्यथा मुच्यते ततः”। पृथग्द्रव्या अपि विभक्तधना अपि पृथक् न कुर्य्युः सुतरामपृथग्धनाः पृथक् न कुर्य्यु किन्त्वपृथक् कुर्युः अत्र विशेषयति मरीचिः। “मृते पितरि पुत्रेण क्रिया कार्य्या विधानतः बहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः। सर्वेषान्तु प्रतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्”। पुत्रेणत्यविशेषात् सर्वेषामधिकारे प्राप्ते ज्येष्ठस्य सालात् कर्त्तव्यतामाह वहव इति। ज्येष्ठेनापि सर्वेषां भ्रातॄणां मत्करणेनैव करणं भवतु इति मतं ज्ञानं कृत्वा विभक्तत्वे द्रव्यसंश्लेषेण च कृतं कर्म सर्वेरेव कृतमेव भवेत्। तदानीं द्रव्यासंश्लेषेण च तस्मात् द्रव्यं प्राप्तव्यमिति कृत्वा कर्त्तव्यम्। यदि तेन तन्न परिशुध्यते तदा स ऋणी भवति प्रत्यवायी च भवतीति। न तु तेन श्राद्धान्तरं कर्त्तव्यमिति श्राद्धविवेकोक्तं युक्तम्। “पृथङ्नैव सुताः कर्यरित्यनेन पृथक्करणस्य पर्य्युदस्त नधिकारात्। यथाकालमिति अशौचान्तद्वितीयदिनद्वादसमासमृतति- थ्येकाहन्यूनषण्मासद्वितीयसंवत्सरेषु। न च विधानसामर्थ्यादेव तत्तत्कालप्राप्तेरनर्थकमिदमिति वाच्यम् तत्तत्कालानां द्वादशाहाद्यपेक्षया प्राधान्यबोधनार्थत्वात् अत्र “आनन्त्यात् कुलधर्माणां पुंसाञ्चैवायुषः क्षयात्। अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते” इति व्याघ्रवचनोक्तप्रशस्यत इत्यनेन कुलाचारज्योतिःशास्त्रादिज्ञातझटितिमरणराष्ट्रोपप्लवादिम्लेच्छदेशादिगममानुसारादेव शपिण्डीकरणापकर्षे द्वादशाहापेक्षया प्रागुक्तनवममासादिनौणकालपरिग्रहः। अथ वा यथाकालमित्यादेर्यदहर्वा वृद्धिरापद्येतेत्यनेभावश्यकनापकरणादिवृद्ध्यर्थमेवापकर्षो न त्वनावश्यकेष्टपूर्त्ताद्यर्थापकर्षः कार्य्य इति तात्पर्य्यम्। अतएव लघुहारीतेन “तथैव काम्यं यत् कर्म वत्सरात् प्रथमावृते” इत्यनेन कास्यस्यापकर्षनिमित्तता नास्तीत्युक्तम् पदि त्वाधश्यकवृद्धिनिमित्तेनापकर्षः कृतस्तदा इष्टापूर्त्तादि काम्यं वत्सराभ्यन्तरेऽपि कर्त्तव्यमिति श्राद्धविवेकोऽप्येवं यद्यपि गोमिलसूत्रादौ सपिण्डीकरणस्यैवापकर्षः प्रागुक्तस्तथापि सपिण्डीकरणापकर्षे तत्पूर्वकर्त्तव्यश्राद्धानामपि तदादितदन्तन्यायादपकर्षः। “सपिण्डीकरणान्ता तु ज्ञेया प्रेतक्रिया बुधैः” इति शातातपवचने प्रेतक्रियायाः सपिण्डीकरणान्तत्वं प्रतीयते। अत्र वृद्धिनिमित्तं विना सपिण्डनापकर्षे कृते पूर्णसंवत्सरकालं प्राप्य प्रेतत्वपरीहारमाह विष्णुधर्मोत्तरम् “कृते सपिण्डोकरणे नरः संवत्सरात् परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते” वृद्धिनिमित्तकसपिण्डीकरणापकर्षे कृते तत्क्षणादेव प्रेतत्वपरीहारः तदर्थएवापकर्षात् एवञ्चान्यनिमित्तापकर्षे वृद्धिकालं प्राप्य प्रेतत्वपरीहारः तत्कालस्य पूर्णसंवत्सरकालतुल्यत्वात्। “अर्वाक् संवत्सरात् वृद्धौ पूर्णे संवत्सरेऽपि वा। ये सपिण्डीकृताः प्रेता न तेषान्तु पृथकक्रिया” इति शातातपवचनाति”।
सपिण्डीकृत = त्रि० सह पिण्डैः पित्रादिपिण्डैः सपिण्डः ततः च्विकृ–कर्मणि क्त। यदुद्देशेन सपिण्डीकरणं श्राद्धं कृतं तस्मिन् मृते जने “ये सपिण्डीकृताः प्रेताः” इति शाता० स्मृतिः।
सपीतक = पु० सह समानः पीतकेन सहस्य सः। राजधीषातकीवृक्षे राजति०।
सपीति = स्त्री पा–क्तिन् पीतिः पानम् सह एकत्र पीतिः। ज्ञात्यादीनां सह भोजने शब्दर०।
सपीतिका = स्त्री सह पीतेन कप् अत्र इत्त्वम्। हस्तिघोषातकीवृक्षे राजनि०।
सप्तक = न० सप्तानामवयवम् कन्। १ सप्तसङ्ख्यायाम्। सप्त प्र- माणमस्य कन्। २ सप्तसङ्ख्यान्विते त्रि०। पूरणे कन्। ३ सप्तानां पूरणे च।
सप्तकी = स्त्री सप्तभिः स्वरैरिव कायति शब्दायते कै–क। मेखलायाम् अमरः।
सप्तचत्वारिंशत् = स्त्री सप्ताधिका चत्वारिंशत् शाक०। (सातचल्लिश) १ सङ्ख्यां २ तत्संख्यान्विते च। एवं सप्तदशादयः सप्ताधिकतत्तत्संख्यायां तत्संख्यान्विते च। पूरणे डट्। सप्तचत्वारिश तत्तत्संख्यापूरणे त्रि० ख्यियां ङीष् एवं सप्तदशादयोऽपि तत्पूरणे एवं तमप् सप्तचत्वारिंशत्तम तत्पूरणे त्रि० स्त्रियां टाप्।
सप्तच्छद = पु० सप्त सप्त छदाः प्रतिपत्त्रम् यस्य वृत्तौ संख्याशब्दस्य वीप्सार्थता भाष्योक्ता। (छातिम) वृक्षे राजनि०।
सप्तजिह्व = पु० सप्त जिह्वा इव आस्वादसाधनानि अर्ञ्चिषो यस्य। वह्नौ त्रिका०। “काली कराली च मनोजवा च सुलोहिता चैव सुधूभ्रवर्णा। उग्रा प्रदीप्ता च कृपीटयोनेः सप्तैव कीलाः कथिताश्च जिह्वाः” इत्युक्तानां सप्तानामग्निज्वालानामेव तज्जिह्वात्वमुक्तम्। वह्निजिह्वानां वर्णभेदः अवस्थानदिग्भेदश्च गणशविमर्षिण्यां दर्शितो यथा “हिरण्या तप्तहेमाभा शूलपाणेर्दिशि स्थिता। वैदूर्य्यवर्णा कनका प्राच्यां दिशि समाश्रिता। तरुणादित्यसङ्काशा रक्ता जिह्वाग्निसंस्थिता। कृष्णा नीलाभ्रसङ्काशा नैरृत्यां दिशि संस्थिता। अतिरक्ता जवा० भासा वाथव्यां दिशि संस्थिता। बहुरूपा तथा ख्याता दक्षिणोत्तरसंस्थिता”।
सप्तज्वाल = पु० सप्त कालीत्यादयः ज्वाला यस्य। १ वह्नौ हेमच०। २ सप्तार्चिरादयोऽप्यत्र अमरः।
सप्ततन्तु = सप्तभिः भूरादिभिर्महाव्याहृतिभिस्तन्यते तन–तुन। यज्ञे अमरः।
सप्तति = स्त्री सप्तगुणिता दशतिः नि०। (सत्तर) १ संख्यायां २ तत्संख्यान्विते च। ततः पूरणे डट्। सप्तत तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
सप्ततितम = त्रि० सप्ततेः पूरणः तमप्। येन सप्ततिसंख्या पूर्य्यते तस्मिन् अर्थे स्त्रियां टाप्।
सप्तद्वीपा = स्त्री सप्त जम्बूप्रभृतयोद्वीपाः यस्याः। जम्बूप्रभृतिसप्तद्वीपयुतायां पृथिव्याम्। जम्बूद्वीपशब्दे ३०४३ पृ० दृश्यम्
सप्तधा = अव्य० सप्तन् + प्रकारे धाव्। सप्तप्रकारे।
सप्तधातु = पु० ब० व०। सप्तयुक्षिता धातवः। देहस्येषु “रसाम्न मांसमेदोऽस्थिमज्जानः शुक्रसंयुताः। शरीरस्था इमे ज्ञेयाः पण्डितैः सप्त धातव” इत्युक्तेषु रसादिषु धातुषु राजनि०।
सप्तन् = पु० त्रि०। सप–तनिन्। (सात) १ संख्यान्विते २ तत्संख्यायां महाभाष्यम्।
सप्तनाडीचक्र = न० वृष्टिज्ञानार्थे चक्रभेदे चक्रशब्दे २८३२ पृ० दृश्यम्।
सप्तनामा = स्त्री सप्त नामानि यस्याः डाप्। आदित्यभक्तायाम् राजनि०।
सप्तपत्त्र = पु० सप्त सप्त पत्त्राणि प्रतिपत्त्रं यस्य। १ मुद्गरवृक्षे राजनि०। २ सप्तच्छदवृक्षे च।
सप्तपदी = स्त्री सप्तानां पदानां समाहारः ङीप्। विवाहकाले मण्डलिकासु गन्तव्येषु सप्तसु पदेषु। तत्प्रकारो भवदेवभट्टोक्तो यथा “ततो जामाता प्रागुदीचीं गत्वा वधूं सप्तभिर्मन्त्रैः सप्तसु मण्डलिकासु सप्त पदानि नयेत्। षभूश्च दक्षिणपादं नीत्वा पश्चात् वामपादं मण्डलिकां नयेत्। जामाता च वधूं ब्रूयात् वामेन पादेन दक्षिणं पादमाक्रमयेति” इत्यादि। अस्यैव कर्मणो विवाहनिष्ठाकरत्वमुक्तं मनुना “पाणिग्रहणिकामन्त्रा नियतं दारलक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे”।
सप्तपर्ण = पु० सप्त सप्त पर्णानृस्य प्रतिपर्णम्। (छातिम) वृक्षे अमरः। “सप्तपर्णो व्रणश्लेष्मवातकुष्ठास्रजन्तुजित्। दीपनः श्वासगुल्मघ्नः स्निग्धोष्णस्तुवरः स्मृतः” भावप्र० तद्गुणा उक्ताः। २ लज्जालुलतायां स्त्री रत्नमा० ङीप्। “द्राक्षादाडिमखर्जूरमृदिताम्रं सशर्करम्। लालाचूर्णं समध्वाज्यं सप्तपर्णमुदाहृतम्” शब्दच० उक्ते ३ खाद्यभेदे न०।
सप्तपाताल = न० समाहारद्विगुः पात्रादि। “अतलं वितल ञ्चैव नितलञ्च गभस्तिमत्। महातलञ्च सुतलं पातालं सप्त कीर्त्तितम्” इत्युक्तेषु सप्तसु भूमेरधःस्थलोकेषु।
सप्तप्रकृतिविकृति = स्त्री ब० व० सप्तसंख्याताः प्रकृतिविकृतयः। सांख्यसिद्धे महदहङ्कारसहितसूक्ष्मपञ्चभूतहेतुशब्दादितन्मात्रात्मके पदार्थसप्तके “महदाद्याः प्रकृतिविकृतयः सप्त” इति सांख्यकारिका। षोडशकपदार्थहेतुत्वात् प्रकृतित्वम् प्रकृतिकार्य्यत्वाच्च विकृतित्वमासाम्।
सप्तभद्र = पु० सप्तस स्थानेषु भद्रमस्य। शिरीषवृक्षे शब्दच०।
सप्तम = त्रि० सप्तानां पूरणः मट्। येन सप्तमंख्या पूर्य्यते तस्मिन्नर्थे स्त्रियां ङीप्। सा च चन्द्रस्य सप्तमकलाया ह्रासवृद्धिरूपायां तिथौ च तिथिशब्दे २२९५ पृ० दृश्यम्।
सप्तरक्त = पु० सप्त रक्तानि प्रशस्तान्यस्य। “पाणिपादतले रक्ते नेत्रान्तरनखानि च। तालुकाधरजिह्वाश्च प्रशस्ता सप्तरक्तता” इत्युक्तस्थानेषु रक्ततावति जने।
सप्तर्षि = पु० ब० व०। सप्त ऋषयः संज्ञात्वात् कर्म०। “मरीचि- रत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः। वशिष्ठश्च महाभाग! सप्तैते ब्रह्मणः सुताः” इत्युक्तेषु सप्तसु ऋषिषु। मन्वन्तरभेदे तेषा नामभेदा ऋषिशब्दे उक्ता १४५३ पृ० दृश्या।
सप्तर्षिमण्डल = त्रि० ६ त०। आकाशे नित्यं ध्रुवनक्षत्रपरिभ्र मके नक्षत्रसप्तकात्मके नक्षत्रमण्डलभेदे “सप्तर्षिमण्डलं तस्माद्दृश्यते सर्वकोपरीति” पुराणम् तच्चारादि ऋषिशब्दे १४५२ पृ० दृश्यम्।
सप्तला = स्त्री सप्तधा लाति ला–क। १ नवमालिकायाम् अमरः २ चर्मकषायां ३ गुञ्जायां ४ पाटलायाञ्च मेदि०।
सप्तशती = स्त्री सप्तानां शतानां समाहारः। मार्कण्डेयपुराणान्तर्गतसप्तशतमन्त्रसमुदायरूपे देवीमाहात्म्यबोधके त्रयोदशाध्यायात्मके ग्रन्थभेदे तन्मन्त्रविभागः चण्डीशब्दे २८५५ पृ० दृश्यः। “मध्ये सप्तशतीं जपेदिति” तत्र दर्शितवाक्यम्।
सप्तशलाक = पु० सप्त शलाकाकारा रेखा वत्र। ज्योतिषोक्ते विवाहादौ वर्ज्यदोषसूचके सप्तशलाकाकारितचक्रभेदे चक्रशब्दे २८३० पृ० दृश्यम्। उपयमशब्दे १२६३ पृ० दृश्यम्।
सप्तशिरा = स्त्री सप्त शिरा अस्याः। ताम्बूलवल्ल्यां राजनि०।
सप्तसप्ति = पु० सप्त सप्तयोऽश्वा यस्य। १ सूर्य्ये हेमच० २ अर्कवृक्षे च। सप्ताश्वादयोऽप्यत्र।
सप्तसागर = पु० ब० व०। सप्तसंख्याताः सागरा। “नवनीतसुरासर्पिर्दधिदुग्धजलान्तका” इत्युक्तेषु सप्तसु सागरेषु सप्त घृतादिकल्पिताः सागरा इव देयपदार्थायत्र कप्। मत्स्यपुराणोक्ते स्वनामख्याते महादानभेदे मत्स्यपु० २८६ अ० तद्विधानं दृश्यम्।
सप्तांशु = पु० सप्त अंशवोज्वालायस्य। सप्तजिह्वशब्दे “कालीकरासी चेत्याद्युक्तसप्तज्वालायुते वह्नौ।
सप्तांशुपुङ्गव = पु० सप्तभिरंशुभिः पुङ्गव इव श्रेष्ठत्वात्। शनिग्रहे जटा०।
सप्तार्चिस् = पु० सप्त अर्च्चीषि यस्य। १ वह्नो अमरः २ चित्रकवृक्षे ३ शनिग्रहे हेमच०। ४ क्रूरनेत्रे त्रि० मेदि०।
सप्ताश्व = पु० सप्त अश्वा अस्य। १ सूर्ये २ अर्कवृक्षे अमरः।
सप्ताश्ववाहन = पु० सप्त अश्वाः वाहनान्यस्य। १ सूर्ये २ अर्कवृक्षे च “शुचिः सप्ताश्ववाहनः” सूर्य्यस्तवः।
सप्ति = पु० सप–ति। अश्वे अमरः।
सफर = पुंस्त्री० सप–अरन् पृषो० पस्य फः। (पु~टी) मत्स्ये स्त्रीत्वे ङीष्। “त्रम्यन्ती चलसफरीविघट्ठितोचः” भाघः अस्य तालव्यादितेत्यन्ये।
सफल = त्रि० सह फलेन सहस्य सः। १ अव्यर्थे २ फलयुक्ते च जटा०।
सबल = त्रि० सह बलेन सामर्थ्येन सेन्येन वा सहस्य सः। १ सामर्थ्यान्विते २ सैन्ययुक्ते ३ ज्यो० उक्तबलाद्ये “सबलेऽव्दपतौ स्वस्थे राज्याप्ति सुखकीर्त्तयः” नील० ता०।
सब्रह्मचारिन् = पु० समानं ब्रह्म वेदग्रहणकालीनं व्रतं चरति चर–णिनि समानस्य सः। एकगुरुसकाशात् वेदाध्ययनकाले तन्निबन्धनसमानव्रताचारयुते अमरः।
सभर्तृका = स्त्री सह भर्त्त्रा पत्या सहस्य सः कप्। विद्यमानपतिकायां स्त्रियाम् अमरः।
सभा = स्त्री सह भान्ति अभीष्टनिश्चयार्थमेकत्र यत्र गृहे। बहूनां समावेशनस्थाने २ तदधिष्ठायिजनसमूहे च अमरः “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः। राज्ञः प्रतिकृतो विद्वान् ब्राह्मणस्तां सभां विदुः”। विद्वतसंहतावपि सभापर्य्यायपरिषच्छब्दमाह “त्रैविद्या० हैतुकस्तर्की निरुक्तो धर्मपाठकः। त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद्दशावरा” मनुः। ३ द्रूते ४ गृहे मेदि० ५ समूहे हेमच०। समूहपरत्वे ६ त० न०। दासीसभं नृपसभमित्यादि। व्यवहारदर्शनार्थसमास्थानञ्च वीरमि० दर्शितं यथा वृहस्पतिः “दुर्गमध्ये गृहं कुर्य्याज्जलवृक्षन्वितं पृथक्। प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्याङ्कल्पयेत्सभाम्। प्रतिमालेख्यदेवैश्च युक्तामग्न्यम्बुना तथा” इति लक्षण्यां वास्तुशास्त्रोक्तलक्षणेन लक्षिताम्। अग्न्यम्बुनेति समाहारद्वन्द्वः। सभाया धर्माभिकरणत्वं कात्यायन आह “धर्मशास्त्रानुसारेण अर्थशास्त्रवियेचनम्। यत्राधिक्रियते स्थाने धर्माधिकरणं हि तदिति”। तत्र सभ्योपवेशनमाह मनुः “यस्मिन् देशे इत्यादि” प्रागुक्तम् त्रय इत्युपलक्षणम् अधिकानामपि स्मृतत्वात्। तच्च वक्ष्यते। अधिकृतो विद्वान् प्राड्विवाकः अत्र प्रविशेत् सभाम् सभामेव प्रविश्येत्यादिवचनात् समा सुख्यव्यवहारदर्शनख्यानम्। अन्यान्यमुख्यानि व्यवहारस्थनानावाक्यादवगन्तष्यानि। “दश स्थानानि वादानां पञ्च चैवाब्रवीद् भृगुः। निर्णयं येन गच्छन्ति विवादं प्राप्य वादिनः। आरण्यास्तु स्वकैः कुर्य्युः मार्थिकाः सार्थिकैस्तथा। सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः। उभयानुमतञ्चैव मृह्यते स्थानमीप्सितम्। कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः। ग्रामपौरगणश्रेण्याश्चातुर्विद्यय वर्गिणः। कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथा” इति। स्वकैरारण्यवैः ग्रामेऽपीत्यपिशब्दाद् वे ग्रामेऽरण्यादौ च निवसन्ति ते उभयवासिभिर्निर्णयं कुर्य्युरुभयव्यवहराभिज्ञत्वात्तेषाम् कुलिकाः कुलश्रेष्ठाः। सार्थो श्रामदेवयात्रादौ मिलितो जनसङ्घः तन्मुख्याः सार्थवाहादयः। पुरं मुख्यनगरम् तस्मादर्वाचीनो ग्राम इति पुरग्रामनिवासिनोर्भेदः सार्थकुलिकादीनि पञ्च स्थानानि तानि चारण्याकादीनामेव, ग्रामादीनि दश स्थानानि साधारणानि। ग्रामो ग्रामाकारेणावस्थितोजनः। पौरः पुरवासिनां समूहः “श्रेण्यो रजकाद्यष्टादश हीनजातयः। चातुर्विद्यः आन्विक्षिक्यादिविद्याचतुष्टयोपेतः वर्गिणा गणप्रभृतयः। राज्ञः सभाप्रवेशस्तत्रैव दर्शितः। तत्र मनुः “व्यवहारान् दिवक्षुस्तु ब्राह्मणैः सह पार्थिवः। मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम्। तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम्। विनीतवेषाभरणः प्रश्येत् कार्य्याणि कार्य्यिणाम्। प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः। अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक्। धर्मासनमधिष्ठाय संवीताङ्गः समाहितः। प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत्” इति
सभाज = सेवने दर्शने च सक० प्रीतौ अ० अद० चु० उभ० सेट्। सभाजयति ते अससभाजत्–त। अनेकाचत्वान्न षोपदेशः
सभाजन = न० सभाज–भावे ल्युट्। गमनागमनादिकाले सुखानन्दप्रीतिसाधने सम्भाषणे ३ पूजने च अमरः।
सभासद् = पु० सभायां सोदति–क्विप्। सामाजिके सभ्ये अमरः तल्लक्षणमाह याज्ञ० “श्रुताध्ययनसम्पन्नाः धर्मज्ञाः सत्यवादिनः। राज्ञा सभासदः कार्य्या रिपौ मित्रे च ये समाः” इति। श्रुतेन मीमांसाध्याकरणादिश्रवणेन वेटाध्ययनेन च सम्पन्नाः। धर्मज्ञाः सत्यवादिनः सत्यवदनशीलाः रिपौ मित्रे च समाः द्वेषरागशून्याः एवंविधा सभासदः सभायां सदपि यथा सीदन्ति तथा दानमानसत्कारैः राज्ञा कर्त्तव्याः सभ्यत्वेन वरीतव्या इत्यर्थः। अतस्तेषामुपादेयत्वात् स्वाध्यायोऽध्येतव्यो यूपं छिनत्ति पुरोहितस्तं प्रकुर्वीतेत्यादिवत् सत्यपि कर्मत्वेऽनुद्देश्यत्वात् तद्गतैकत्ववद्बहुत्वं विवक्षितम्। तच्च यद्यपि कपिञ्जलन्यायेन त्रित्वमात्रेणापि चरितार्थं तथापि स्मृत्यन्तरोक्तबहुत्वविकल्पपरम्। तथा च वृहस्पतिः “लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा। यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा” इति। मनुना तु त्रय एवोक्ताः। “यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रय” इति। अत्र त्रिभ्योऽन्यूनाः सप्तभ्योऽधिकाश्च न कार्य्या इत्यत्र तात्पर्य्यं सङ्ख्यावैषम्यन्तु “भूयोऽल्पविरोधे भूयसां स्यात् सधर्मकत्वमिति न्यायेन विप्रतिपत्तावधिकसङ्ख्यावचनमादरणीयं गुणसाम्यैः। तद्वैषम्ये तु शतमप्यन्धानान्न पश्यतीति न्यायेन गुणवत्तरवचनमेवेति प्रदर्शनार्थम्। “यत्तु चत्वारो धर्मज्ञाः पर्षत्त्रैविद्यमेव वा। सा ब्रूते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः” इति योगीश्वरेण विषमसङ्ख्यत्वमपि बहुत्वमपि चानादृतम्। तत्तु पूर्वोक्तानां घर्मकारकज्ञापकहेतूनां सन्देहनिर्णयविषयं प्रक्रमात्। व्यवहारविषये तु त्र्यवराणां विषमसङ्ख्यानामेव सभ्यत्वं विशेषविधानादित्यवसेयम्। एते च ब्राह्मणा एव। मनुवृहस्पतिभ्यां विप्रपदोपदानात्। स तु सभ्यैः स्थिरैर्युक्तः प्राज्ञैर्मौलैर्द्विजोत्तमैः। धर्मशास्त्रार्थकुशलैरर्थशास्त्रविशारदैरिति” द्विजोत्तमपदस्य च कात्यायनेनोपादानात्। नारदेन “राजा तु धार्मिकान् सभ्यान्नियुञ्ज्यात् सुपरीक्षितान्। व्यवहारधुरां वोढुं ये शक्ताः पुङ्गवा इव। धर्मशास्त्रेषु कुशलाः कुलीनाः सत्यवादिनः। समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः” इति। विचार्य्य श्रेणिभिः कार्य्यं कुलैर्यन्न विचारितम्। गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नृयुक्तकैः। कुलादिम्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षोऽधिकः कृतः। सर्वेषामधिको राजा धर्मं यत्नेन निश्चितम्। उत्तमाधममध्यानां विवादानां विचारणात्। उपर्य्युपरि बुद्धीनाञ्चरन्तीश्वरबुद्धयः” वर्णभेदोऽनादृतः। शुक्रनीतिपरिशिष्टेऽपि तथैवोक्तं यथा “यद्वर्णजो भवेद्राजा योज्यस्तद्वर्णजः सदा। तद्वर्ण एव गुणिनः प्रायशः सद्भवन्ति हि। व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः। रिपौ मित्रे समा ये च चमज्ञाः सत्यवादिनः। निरालसा जितक्रोधकामलोभाः प्रियंवदाः। राज्ञा ते च नियोज्याः स्युः सभ्याः सर्वासु जातिषु” “राजा तु धार्मिकान् सभ्यान् नियुञ्ज्यात् सुवरीक्षितान्। व्यवहारधुरां वोढुं ये शक्ताः पुङ्गवा इव। लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा। यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा। श्रोतारो बणिजस्तत्र कर्त्तव्याः सुविचक्षणाः। अनियुक्तो नियुक्तो वा धर्मज्ञो वक्तु मर्हति। एकः शास्त्रमधीयानो विन्द्य न्न कार्यनिर्णयम्। तस्माद् बह्वागमः कार्य्यो विवादेषू- त्तमो नृपैः। स ब्रूते यं स धर्मः स्यादेको वाध्यात्म चिन्तकः। एकद्वित्रिचतुर्वारं व्यवहारानुचिन्तनम। कार्य्यं पृथक् पृथक् सभ्यै राज्ञा श्रेष्ठात्तरैः सह। अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः। धर्मवाक्यै रञ्जयति स सभास्तारतामियात्। नृपोऽधिकृतसभ्याश्च स्मृतिगणकलेखकौ। हेमाग्न्यम्बु खं पुरुषः साधनाङ्गानि वै दश। एवद्दशाङ्गकरणं यस्यामध्यास्य पार्थिवः। न्यायान् पश्येत् कृतमतिः सा सभाऽध्वरसन्निभा”।
सभापति = पु० ६ त०। सभायाः स्थापके नृपे “सभापतिश्च नृपतिरेव “दुर्गमध्ये गृहं कुर्य्योदित्यादिना वृहस्पत्यादिभिः सभानिर्माणतद्रक्षणादेस्तत्र सभ्योपवेशनादेश्च तम्प्रत्येव विधानात्” वीरमि०।
सभास्तार = पु० सभां स्तृणाति स्तृ–अण्। १ सभ्ये अमरः। “अर्थिप्रत्यर्थिनौ सभ्यान् लेखकप्रेक्षकांश्च यः। धर्मवाक्यैरञ्जयति स सभास्तारतामियात्” शुक्रनोतिपरिउक्ते २ सभ्यभेदे च।
सभिक = पु० सभा द्यूतसभा आश्रयत्वेनास्त्यस्य ठत्। द्यूतकासके अमरः।
सभीक = पु० सभा द्यूतं प्रयोजनमस्य ईक। द्यूतकारं शब्दच०
सभोचित = पु० सभा उचिता परिचिता यस्य। १ पण्ढिते धनञ्जयः। २ सभायोग्ये त्रि०।
सभ्य = पु० सभायां साधुः यत्। १ सामाजिके २ द्यूतकारे च ३ विश्रब्धे त्रि० जटा०
सम् = अव्य० सो–वा० कमु। १ सम्यगर्थे २ प्रकर्षे ३ सङ्गतौ ४ शोभने शब्दच०। ५ समुच्चये हेमच०।
सम = त्रि० सम–अच्। १ समाने तुल्ये २ सर्वे अमरः ३ साधौ मेदि०। (योड) ४ युग्मे “समेऽर्द्धिते वर्गः” इति लीला० समतयाख्यातेषु द्वितीयचतुर्थषष्ठादिषु ५ राशिषु च। अतुल्येऽस्य सर्वनामता। गीतवाद्ययोरेककालभवे गायुकहस्तादिचालनरूपे ६ तालभेदे न० ७ शत्रुमित्रभिन्नोग्रहे प्रकृत्या० अभेदे तृतीया। समेन याति ममं यातीत्यर्थः।
समक्ष = अव्य० अक्ष्णः समीपम् अव्ययी० अच्। १ चक्षुःसन्निकर्षे तदस्यास्ति अच्। २ प्रत्यक्षविषये त्रि०।
समकोण = त्रि० समः कोणो यस्य। रेखागणितोक्ते सम० कोणयुक्त त्रिकोणादौ। क्षेत्रशब्दे २३९० पृ० १५ अङ्कचिह्निते दृश्यम्।
समकोल = पुंस्त्री० ६ व०। सर्पे त्रिका० स्त्रियां ङीष्।
समगन्धक = पु० समास्तुल्यभागेन निवेशितागन्धाः गन्धयुक्तद्रव्याण्यत्र कप्। कृत्रिमधूपभेदे शब्दमा०।
समगन्धिक = पु० समः सर्वदा तुल्यरूपः गन्धोऽस्त्यस्य ठन्। उशीरे० (वेणारमूल) राजनि०।
समग्र = त्रि० समं सकलं यथा स्यात्तथा गृह्यते ग्रह–ड। १ सकले अमरः २ पूर्णे। च
समङ्गा = स्त्री समज्यतेऽनया सम् + अन्ज–करणे घञ् टाप्। मञ्जिष्ठायाम् अमरः।
समचित्त = त्रि० समं सर्वत्र समभावं चित्तं यस्य। सर्वत्र तुल्यदर्शके तत्त्वज्ञानिनि।
समज = न० समजत्यत्र सम् + अज–आधारे अप् व्यभावः। १ वने मेदि० २ समूहे ३ पशूनां संघे ४ मूर्खवृन्दे च अमरः।
समज्ञा = स्त्री समस्मिन् सर्वत्र ज्ञायतेऽनया ज्ञा–क। कीर्त्तौ अमरः।
समज्या = स्त्री सम् + अज–क्यप् न वीभावः। १ सभायाम् अमरः २ कीर्त्तौ च रमानाथः।
समञ्जस = त्रि० सम्यक् अञ्ज औचित्त्रं यत्र अच् समा०। १ उचिते अमरः २ युक्ते च। प्रा० स०। ३ औचित्ये न०। ४ समाधाने त्रिका० ५ अत्यन्ते अमरः।
समण्ठ = पु० गण्डीरे हारा०।
समत्रय = न० समं त्रयं यत्र। समभागयुते हरीतकीनागरगुडत्रये राजनि०।
समदर्शिन् = त्रि० समस्मिन् सर्वत्र ब्रह्मभावेनाऽभिन्नतया पश्यात दृश–णिनि। सर्वत्र समदर्शके तत्त्वज्ञानिनि। “विद्याविनयसम्पन्न ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिन” इति गीता।
समदृष्टि = स्त्री कर्म०। १ सर्वत्र तुल्यदर्शने। “दुःखे सुखे च विप्रेन्द्र। या दृष्टिर्वर्त्तते सदा। तथा शत्रौ च मित्रे च समदृष्टिश्च सा स्मृता” पद्मपु० क्रिया० १६ अ०। ६ व०। २ समदर्शिनि त्रि०।
समधिक = त्रि० सम्यक् अधिकः प्रा०। अत्यन्ताधिके अमरः।
समनियत = त्रि० समेन नियतः। व्यापकत्वे सति व्याप्य त्वयुते गदा०। समव्याप्तादयोऽप्यत्र।
समन्त = पु० सम्यक् अन्तः, स यत्र वा। १ सम्यगन्ते २ सीमायाञ्च
समन्ततस् = अव्य० समन्त + तसिल्। सर्वत्र व्याप्तौ अमरः।
समन्तदुग्धा = स्त्री समन्ततो दुग्धनस्याः। स्नुहीवृक्षे अमरः।
समन्तपञ्चक = न० समन्तात् पञ्चकं ह्रदपञ्चकं यत्र। कुरुक्षेत्र स्थे तीर्थभेदे “त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्त्रियां प्रभुः। समन्तपञ्चके पञ्च चकार रौधिरान् ह्रदान्। स तेषु तर्पयामास भृगून् भृगुकुलोद्वहः” भा० व० ११७ अ०। “तरन्तुकारन्तुकयोर्युदन्तरं रामह्रदानाञ्च मचक्रुकस्य च। एतत् कुरुक्षेत्र समन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३ अ०।
समन्तभद्र = पु० समन्तात् भद्रमस्य। बुद्धे अमरः।
समन्तभुज् = पु० समन्तात् भुङ्क्ते भुज–क्विप्। वह्नां त्रिका०
समन्तात् = अव्य० समन्त + आति। १ समन्ततैत्यर्थे शब्दमा०। २ सर्वत्रव्याप्तौ च।
समन्वित = त्रि० सम + अनु + इण–क्त। सङ्गते।
समपद = न० समं पद यस्मिन्। धन्विनां समपदनिवेशनपूर्वके “स्थानानि धन्विनां पञ्च” इत्युपक्रम्य “अन्वर्थस्यात् समपदमि” त्युक्ते अवस्थानभेदे अमरः। २ रतिबन्धभेदे पु० “कोषित्पादौ हृदि स्थाप्य कराभ्यां पीडयेत् स्तनौ। यथेष्टं ताडयेत् योनिं बन्धः समपदः स्मृतः” रतिमञ्ज०।
समभिव्याहार = पु० सम् + अभि + वि + आ + हृ–घञ्। १ साहित्ये २ पूर्वापरीभावि ३ शेषशेषिवाचकयोः सहोच्चारणे च मीमांसकाः।
समभिव्याहृत = त्रि० सम् + अभि + वि + आ + हृ–क्त। १ सहिते २ सहोच्चरिते। ३ अव्यवहिते च।
समभिहार = पु० सम् + अभि + हृ–घञ्। १ पौनःपुन्ये क्रिया सातत्ये २ भृशार्थे मेदि० “क्रियासमभिहारेण विराध्यन्तं सहेत कः” माघः।
समम् = अव्य० सम–अमु। १ साहित्ये अमरः। २ एकदेत्यर्थे “सममेव समाक्रान्तं द्वयं द्विरदगामिना” रघुः
समय = पु० सम + इण–अच्। १ काले २ शपथे ३ आचारे ४ सिद्धान्ते ५ अङ्गीकारे च अमरः। ६ क्रियाकारके ७ निर्देशे ८ सङ्केते ९ भाषायां मेदि० १० सम्पदि ११ नियमे १२ अवसरे हेमच० १३ कालविज्ञाने शब्दच०। १३ नियमबन्धे अस्य शब्दस्येदमभिधेयमित्यभिधानाभिधेयनियमबन्धे” वात्स्या० १४ शास्त्रे च।
समया = अव्य० सम + इण्–आ। नैकट्ये २ मध्ये च अमरः।
समयाकार = पु० समयस्य सङ्केतस्याकारः। सङ्केते त्रिका०।
समयाध्युषित = न० समयः अध्युषितो यत्र। सूर्य्यतारारहितकाले “तथा प्रभातसमये नष्टे नक्षत्रमण्डले। रविर्यावन्न दृश्येत समयाध्युषितञ्च तत्” कर्म० कात्या०। “उदितेऽनुदिते चैव समयाध्युषिते तथा” इति मनुः।
समयाशुद्धि = स्त्री ६ त०। कालाशुद्धौ कालाशुद्धिशब्दे दृश्यम्
समर = पु० न० सम् + ऋ–आधारे अप्। युद्धे अमरः।
समरभ = रतिबन्धभेदे “स्वजङ्घाद्वयसंयुक्तं कृत्वा योषित्पदद्वयम्। स्तनौ धृत्वा रमेत् कामी बन्धः समरभः णृतः” रतिमञ्जु०।
समरमूर्द्धन् = पु० ६ त०। समरस्याग्रे।
समर्चन = न० सम्यक् अर्च्चनं प्रा० स०। सस्यक्पूजने।
समर्ण = त्रि० सम् + पर्द–क्त। सम्यक्पीडिते।
समर्थ = त्रि० सम् + अर्थ–अच्। १ शक्ते २ हिते च अमरः। सम्यगर्थः प्रा० स०। ३ प्रशस्ताभीष्टे पु०। सङ्गतीऽर्थो यस्य प्रा० स०। “समर्थः पदविधिः” पा० परिभाषिते मङ्गतार्थे समसादौ समासशब्दे दृश्यम्।
समर्थन = न० सम् + अर्थ–ल्युट्। इदमित्थमेवेति निश्चयहेतूपन्यासेन निश्चायकव्यापारभेदे अमरः। युच्। तत्र, अशक्येऽध्यवसाये च स्त्री।
समर्द्धक = त्रि० समर्द्धयति सम् + ऋध–ण्वुल्। इष्टफलदातरि देवादौ अमरः।
समर्य्याद = त्रि० सह मर्य्यादया सहस्य सः। १ सीमायुते २ समीपे पु० मेदि०।
समल = न० सम्यक् मलम्। १ विष्ठायां शब्दच०। सह मलेन सहस्य सः। २ कलुषे त्रि० त्रिका०।
समवतार = पु० समबतीर्य्यतेऽनेन सम् + अव + तॄ–घञ्। जलावतरणसोपाने।
समवर्त्तिन् = पु० सम वर्त्तते वृत–णिनि। १ यमे धर्मराजे अमरः। २ सर्वत्र समभावेन वर्त्तिनि त्रि०।
समवकार = पु० सम् + अव + कॄ–आधारे घञ्। नाटकभेदे सा० द० उक्तो यथा “वृत्तं समवकारे तु ख्यातं देवासुराश्रयम्। सन्धयो निर्विमर्षास्तु त्रयोऽङ्कास्तत्र चादिमे। सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत् पुनः। नायका द्वादशोदात्ताः प्रख्याता देवदानवाः। फलं पृथक् पृथक् तेषां वीरमुख्योऽखिलो रसः। वृत्तयो मन्दकौशिक्यो नात्र विन्दु प्रवेशकौ। वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश। गायत्र्युष्णिङ्मुखान्यत्र छन्दांसि विविधानि च। त्रिशृङ्गारस्त्रिकपटः कार्य्यश्चायं त्रिविद्रवः। वस्तु द्वादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम्। द्वितीयेऽङ्के च तिसृभिर्द्वाभ्यामङ्के तृतीयके”। नाडिका घटिकाद्वयमुच्यते। विन्दुप्रवेशकौ च नाटकोक्तावपि नेह विधातव्यौ। तत्र धर्मार्थकामैस्त्रिविधः शृङ्गारः कपटः पुनः। स्वाभाविकः कृत्रिमश्च दैवजो विद्रवः पुनः। अचेतनैश्चेतनैश्च चेतना चेतनौ कृतः”। तत्र शास्त्राविरोधेन कृतो धर्मशृङ्गारः अर्थलाभार्थकल्पितः अर्थशृङ्गारः। प्रहसनशृङ्गारः कामशृङ्गारः। तत्र कामशृङ्गारः प्रथमाङ्क एव। अन्ययोस्तु न नियम इत्याहुः। चेतनाचेतना गजादयः। समवकीर्य्यन्ते बहवोऽर्था अस्मिन्निति समवकारः। यथा समुद्रमन्थनम्”।
समवाय = पु० सम् + अव–क्षण–अच्। १ समूहे अमरः २ मेलने न्यायोक्ते नित्यद्रव्यादिषु जात्यादीनां ३ संबन्धभेदे च “घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” भाषा० “समवायं दर्शयति। घटादीनामिति अवयवावयविनोः जातिव्यक्त्योर्गुणगुणिनोः क्रियाक्रियावतोर्नित्यद्रव्यविशेषयोश्च यः सम्बन्धः स स मवायः समवायत्वं नित्यसम्बन्धत्वं तत्र प्रमाणन्तु गुण क्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् इत्यनुमाने संयोगादिबाधात् समवायसिद्धिः। न च स्वरूपसम्बन्धेन सिद्धसाधनम् अर्थान्तरं वा, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवात् लाथवादेकममवायसिद्धिः। न च समवायस्यैकत्वे वायौ रूपवत्ताबुद्धिप्रसङ्गः तत्र रूपसमवायसत्त्वेऽपि रूपाभावात्। न चेवम् अभावस्य वैशिष्ट्यं सम्बन्धान्तरं सिध्येदिति वाच्यं तस्य नित्यत्वे भूतले घटानयनानन्तरमपि घटाभावबुद्धिप्रमङ्गात् घटाभावसम्बन्धस्य तत्र सत्त्वात् तस्य नित्यत्वात् अन्यथा देशान्तरेऽपि तत्प्रतीतिर्न स्यात् वैशिष्ट्यस्य च तत्र सत्त्वात्, मम तु मते घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान्न तद्वत्ताबुद्धिः। वैशिष्ट्यस्यानित्यत्वे त्वनन्तवैशिष्ट्यकल्पने तवैव गौरवम् इत्थञ्च तत्तत्कालीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः”। अयुतसिद्धयोः सम्बन्धः स इति वैशेषिकाः स च सम्बन्धो नाना नित्यश्चेति नव्यनैयायिकाः प्राभाकराश्चाहुः। समवायश्च प्रत्यक्षः “प्रत्यक्षं समवायस्य विशेषणतया भवेत्” भाषा०। अतीन्द्रियोऽनुमेयश्चेति वैशेषिकाः, स्वरूपस्यैव सम्बन्धत्वोपपत्तेः समवायो न पदार्थान्तरमिति भाट्टाः।
समवायिजनक = न० कारणभेदे “यत् समवेतं कार्य्यं भवति ज्ञेयं तु समवायिजनकं तत्” “समवायिकारणत्वं द्रव्यस्यैव विज्ञेयम्” भाषा०। इदमेव उपादानकारणमिति साङ्ख्यावेदान्तिनश्चाहुः।
समवायिन् = त्रि० समवायोऽस्त्यत्र। समवायसम्बन्धानुयोगिनि यथा घटादीनां कपालादि गुणक्रिययोर्द्रव्याणि।
समवेत = त्रि० सम् + अव–इण–क्त। १ मिलिते २ समूहान्विते न्यायोक्तेन समवायसम्बन्धेन ३ स्थिते च।
समशनीय = पु० सम्यगशनाय हितं छ। विवाहोत्तरं दम्पत्योः सम्यगशनाय विहिते स्थालीपाके” तद्विधानादि सं० त० गोभिलोक्तं यथा “श्वोभूते वा समशनीयं स्थालीपाकं कुर्वीत” “यदि विवाहे यज्ञादिना महानिशा भूता तदा तत्परदिने सम्यगशनार्थं क्रियते इति सम्यगशनीयं स्थालीपाकं कुर्वीत” रघु०। तद्धोमविधानादि तत्रं दृश्यम्।
समष्टि = स्त्री सम् + अश–व्याप्तौ क्तिन्। १ सम्यग्व्याप्तौ २ समस्ततायाञ्च। कर्त्तरि क्तिच्। ३ संघीगूते समस्ते पदार्थे वेदान्तसा० “समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात्। तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टिसंज्ञया” पञ्चद०।
समष्ठि(ष्ठी)ल = पु० समं तिष्ठिति स्था–इलच् पृषो० षत्वं वा दीर्घः। (गु~डिया) शाके अमरः।
समसन = न० सम् + अस–ल्युट्। १ समासे २ संक्षेपे अमरः।
समसूत्रपातन्याय = पु० न्यायभेदे समतया सूत्रस्य पातने यस्य तल्लग्नत्वमेवमुपर्य्यधःस्थितानां ग्रहाणां तत्सूत्रसंलग्नैकदेशकालावच्छेदेन सहावस्थानं येन ज्ञाप्यते तादृशे न्याये “परः सन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्यायेन राश्येकांशवच्छेदेन सहावस्थानरूपः” ति० त० रघु०।
समस्त = त्रि० सम् + अस–क्त। १ संक्षिप्ते २ सकले अमरः। ३ व्याकरणोक्ते कृतसमासे शब्दभेदे च।
समस्थ = त्रि० समं तिष्ठति स्था–क। समभावेन तुल्यतया स्थिते
समस्थली = स्त्री कर्म०। अन्तर्वेदिदेशे हेमच०।
समस्या = स्त्री समस्यते संक्षिप्यतेऽनया सम् + अस–करणेक्यप्। संक्षेपेण उक्तस्य श्लोकपादादेः परकृतेन स्वकृतेन वा अव शेषेण भागान्तरेण संघटनार्थं कृते पश्ने अमरः।
समा = स्त्री समयति विकलयति भावान् सम–अच्–टाप्। वत्सरे अमरकृतास्य नित्यबहुवचनान्तताङ्गीकृता पाणिनिना तु “समांसमां विजायते” इति सूत्रे एकवचनान्तता निर्दिष्टा।
समांसमीना = स्त्री समां समां विजायते प्रसृते ख नि० अत्र समांसमामित्यत्र कालाधारे द्वितीया। प्रतिवर्षं प्रसूतायां गवि अमरः।
समाकर्षिन् = पु० सम् + आ + कृष–णिनि। १ अतिदूरगामिनि गन्धे अमरः। २ सम्यगाकर्षणकर्त्तरि त्रि० स्त्रियां ङीष्।
समाख्या = स्त्री समाख्यायतेऽनया सम् + आ + ख्या–अङ्। १ कीर्त्तौ अमरः २ संज्ञायाञ्च। ३ योगेनार्थबोधने “स्थानं क्रमो योगबलं समाख्या” शास्त्रदीपिका।
समाघात = पु० समाहन्यतेऽत्र सम् + आ + हन–आधारे घञ्। १ युद्धे अमरः। भावे घञ्। २ सम्यगाथाते च।
समाज = पु० सम् + अज–घञ् न वीभावः। पशुभिन्नानां १ समूहे अमरः। २ सभायां हेमच० ३ हस्तिनि नानार्थकोषः।
समादान = न० सम् + आ + दा–भावे ल्युट्। १ सम्यगादाने कर्भणि ल्युट्। २ बौद्धानां निजकर्मणि मेदि०।
समाधा = स्त्री सम् + आ + धा–अङ्। १ निष्पत्तौ २ विवादभञ्जने २ पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना सम्यगर्थावधारणे च। ल्युट्। समाधानमप्यत्र न०। तच्च ध्येयवस्तुनि चित्तस्य निरन्तरस्थापनरूपे समाधौ च।
समाधि = पु० सम् + आ + धा–कि। १ समाधायां ध्येयवस्तुनि एकाग्रतया मनसःस्थापनरूपे २ ध्यानभेदे २ वचनाभावे ४ नियमे च अमरः। ध्यानभेदश्च समाधिः यथोक्तं पात० सू० “तत्र प्रत्ययैकतानता ध्यानम्” सू० “तस्मिन् देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशप्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्” भा० “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” सू० “ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शृन्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते” भा० “व्यानसाध्यं समाधिं लक्षयितुं व्याचष्टे ध्यानमेवेति। ध्येयाकारनिर्भासमिति ध्येयाकारस्य निर्भासो न ध्यानाकारस्येति अतएवाह शून्यमिति। ननु शून्यं चेत् कथं ध्येयप्रकाशक इत्यत आह इवेति। अत्रैव हेतुमाह ध्येयस्वभावावेशादिति। अत्रापि पुराणम् “तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्। मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते” इति। ध्येयात् ध्यानस्य भेदकल्पना तद्धीनमित्यर्थः” विवर०। एकाग्रतात्मकसमाधिलक्षणं पुराणान्तरोक्तं यथा “नित्यं शुद्धं बुद्धियुक्तं सत्यमानन्दमद्वयम्। तुरीयमक्षरं ब्रह्म अहमस्मिपरं परं पदम्। अहंब्रह्मेत्यवस्थानं समाधिरिति गीयते” गारुडे ४४ अ०। “द्वादशध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः। तुष्येत संयतो मुक्तः समाधिः सोऽभिधीयते। ध्येयमेव हि सर्वत्र ध्याता तल्लयतां गतः। पश्यति द्वैतरहितं समाधिः सोऽभिधीयते” २४० अ०। “इमं गुणसमाहारमनात्मत्वेन पश्यतः। अन्तःशीतलता यस्य समाधिरिति कथ्यते” योगवाशिष्ठे उपशमप्रक०। ५ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०६ पृ० दृश्यम्। ६ इन्द्रियनिरोधे शब्दर०। ७ काव्यगुणभेदे मेदि० “श्लेषः प्रसादः समता माधुर्य्यं सुकुमारता। अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः। इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः। एषां विपर्य्ययः प्रायो दृश्यते गौडवर्त्मनि” काव्याद० तस्यौजस्यन्तर्भावः सा० द० उक्तो यथा “श्लेषः समाघिरौदार्य्यं प्रसाद इति ये पुनः। गुणश्चिरन्तनैरुक्ता ओजस्यन्तभवन्ति ते”। समाधिरारोहावरोहक्रमरूपः। आरोह उत्कर्षः। अवरोहीऽप्रकर्षस्तयोः क्रमो वैरस्यानावहो विन्यासः। यथा “चञ्चद्भुजेत्यादि”। अत्र पादत्रये क्रमेण बन्धस्य गाढता। चतुर्थपादे त्रपकर्षः”।
समाध्मात = त्रि० सम् + आ + ध्मा–क्त। १ सम्यग्गर्विते २ सम्यकशब्दिते च।
समान = त्रि० सममानयति अन–अण्। १ तुल्ये २ साधौ ३ एक० स्मिन्नित्यर्थे “समानतन्त्रसिद्धः” गौत० “यत्समानाधिकरणे ति चिन्तामणिः। सम् + अन–णिच्। भुक्तान्नादेः समीकरणे नाभिदेशस्थे प्राणादिपञ्चकान्तर्गते ४ वायुभेदे पु०
समानविभक्तिक = त्रि० समानाविभक्तिर्यस्मात् कप्। स्वप्रकृतिविभक्तिसजातीयविभक्तिके पदे साजात्यञ्च प्रथमात्वादा दिना। तेन वेदाः प्रमाणमित्यादौ समानविभक्तिकत्वम्।
समानविषयक = त्रि० समानो विषयो यस्य णप्। तुल्यरूपविशेष्यविशेषणताशालिति ज्ञाने स च समाननिसूप्यनिरूपकभावापन्नविषयताशाली बोधः समानाकारकोऽप्यत्र।
समानाधिकरण = त्रि० समानमेकमधिकरणं यस्य। एकाधि१ करणवृत्तिके स्वाधिकरणवृत्तिमति पदार्थे। २ विभिन्नविभक्तिराहित्ये सति अभेदेनैकाथबोधजनकत्वयुते पदे च लटः शतृशानचावप्रथमासमानाधिकरणे” पा० लटोऽपि प्रथमासामाधिकरण्य विभिन्नविभक्तिराहित्याद्बोध्यम्। “समानाध्रिकरणस्तत्पुरुषः कर्मधारयः” पा०।
समानाशौच = न० कर्म०। अघवृद्धिकालाभ्यां तुल्ये अशौचेयथा सपिण्डजननाशौचतुल्यं सपिण्डान्तरजनाशौचम् एवं त्रिरात्राङ्गास्पृश्यत्वसहितसपिण्डमरणाशौचतुल्यं तथाविधसपिण्डान्तरमरणाशौचं, जननमरणाशौचयोर्न तुल्यता नापि स्नानापनेयाङ्गास्पृश्यत्वयुक्तपुत्रजननाशौचेन सपिण्डजननाशौचस्य तुल्यता न वा यावदशौचाक्षारलवणान्नाशितायुक्तमहागुरुभरणाशौचस्य सपिण्डमरणाशौचस्य तुल्यता।
समानोदक = पु० समानमेकं तर्पणादौ देयमुदकं यस्य। “समानोदकभावस्तु निवर्त्तेता चतुर्दशात्” इत्युक्ते एकादशावधिचतुर्दशपुरुषपर्य्यन्ते ज्ञातिर्भदे सपिण्डशब्दे दृश्यम्।
समानोदर्य्य = पु० समाने उदरे भवः यत् वा न सादेशः। १ एकोदरजभ्रात्रादौ २ भगिन्या खी अमरः।
समाप = पु० सम्यक आपोयत्र अच् समा० नि०। देवयजनस्थाने सि० कौ०।
समापन = न० सम + आप–ल्युट्। १ समाप्तौ चरमकालसम्बन्धे २ परिच्छेदे ३ बधे च मेदि० ४ समाधाने विश्वः। ५ लब्ध धरणिः।
समापन्न = त्रि० सम् + आ–पद–क्त। १ समाप्ते २ प्राप्ते ३ क्लिष्ठे ४ बधे च विश्वः। भावे क्त। ५ समाप्तौ न०।
समाप्त = त्रि० सम् + आप–क्त। १ अवसानप्राप्ते २ सम्यक्प्राप्ते च
समाप्तपुनरात्तता = स्त्री समाप्ते वाक्यसमाप्तौ पुनरात्तता ग्रहणम्। क्रियान्वयेन निवृत्ताकाङ्क्षस्य विशेष्यवाचकपदस्य विशेषणान्तरार्थान्वयार्थं पुनरुच्चारणरूपे काव्यदोषभेदे दोषशब्दे ३७६४ पृ० दृश्यम्।
समाप्ताल = पु० समाप्ताय अलति पर्य्याप्नोति अल–अच्। पत्यो संक्षिप्तसा०।
समाप्ति = स्त्री सम् + आप–क्तिन्। १ अवहाने २ समर्थने मेदि०। ३ प्राप्तौ शब्दच०।
समायोग = पु० सम् + आ + युज–घज्। १ संयोगसमवायरूपादिसम्बन्धे “कृषेर्वृष्टिसमायोगादिति” पुराणम्। २ प्रयोजने मेदि०।
समालम्बिन् = पु० समालम्बते सम् + आ + लवि–णिनि। भूतृणे राजनि०। २ समालम्बनकर्त्तरि त्रि०।
समालम्भ = पु० सम् + आ + लभ–घञ् मुम् च। कुङ्कुमादिना गात्रलेपने अमरः। ल्युट्। तत्रैवार्थे न०।
समावर्त्तन = न० समावर्त्तते गुरुकुलादनेन सम् + आ + वृतकरणे ल्युट्। वेदाध्ययनानन्तरं गार्हस्थ्याय गुरुकुलादागमनहेतुके संस्कारभेदे तद्विधिः संस्कारतत्त्वे गोभिलोक्तो दृश्या।
समाविष्ट = त्रि० सम् + आ + विश–क्त। १ युक्ते २ मनोऽभिनिवेशयुते अभीष्टकर्त्तव्यकर्मणि चित्तैकाग्र्यविशेषयुक्ते च।
समावृत्त = पु० सम् + आ + वृत–क्त। कृतसमावर्त्तनसंस्कारे “अतःपरं समावृत्तः कुर्य्याद्दारपरिग्रहम्” याज्ञ०।
समावेश = पु० सम् + आ + विश–घञ्। १ बहूनामर्थानामेकत्र वाक्यादौ व्यवस्थापने २ कर्त्तव्येऽभिनिवेशे च।
समावेशित = त्रि० सम् + आ + विश–णिच्–क्त। कृतसमावेशने
समास = पु० सम् + अस–घञ्। १ संक्षेपे २ समर्थने मेदि०। ३ समाहारे ४ व्याकरणोक्ते द्व्यादिपदानामेकपदतासम्पादके पदसाधुतार्थके ५ संस्कारभेदे च यथा “समर्थः पदविधिः” पा० “समर्थः संसृष्टार्थः सङ्गतार्थ इति यावत्। साम र्थ्यञ्च द्विविघम् व्यपेक्षावत्त्वमेकार्थीभावश्च। तत्र स्वार्थवर्य्यवसायिपदानामाकाङ्क्षादिवशात् यः परस्परं सम्बन्धः सा व्यपेक्षा। राज्ञः पुरुषैत्यादौ वाक्ये सत्यामाकाङ्क्षायां यो यो यस्मिन् सन्निहितो योग्यश्च स तेन तेन सम्बध्यते यथा राज्ञः पुरुषोऽश्वश्च राज्ञो देवदत्तस्य च पुरुषः ऋद्धस्य राज्ञोऽश्वो धनञ्चेत्यादि। वृत्तौ तु नैवम् वृत्तीना- मेकार्थीभावात्। एकार्थीभावश्च विशेष्यविशेषणभावावनाह्येकोपस्थितिजनकत्वम्। तथा च राजपुरुषादिशब्देन विशिष्टैकार्थबोधकतया न तदैकदेशे ऋद्धादेरन्वयः पुरुषांशे विशेषणतयोपस्थितस्य नाश्वादिसम्बन्धिता राजादीनाम् जनितान्वयाच्च निराकाङ्क्षतया न देवदत्तादेः स्वामितया पुरुषादावन्वय इति द्रष्टव्यम्। देवदत्तस्य गुरुकुलमित्यादौ देवदत्तादेस्तु प्रधानीभूतकुलादिनैवान्वयः सम्बन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः यथोक्तं हरिणा “समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृशावयवास्ते तु युज्यन्ते तद्वता सह” इति। यद्वा सम्बन्धिशब्दार्थस्य पदार्थैकदेशत्वेऽपि भवत्येव केषाञ्चित् सम्बन्धान्वयः तदुक्तं तेनैव “सम्बन्धिशब्दः सापेक्षो नित्यं सर्वं समस्यते। वाक्यवत् सा व्यपेक्षापि वृत्तावपि न हीयते”। अतएव वार्त्तिककृता “सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति वक्तव्यमिति” सामान्यतो वृत्तिमतो विशेषणस्य स्वातन्त्र्येण प्रयोगाभावमभिधाय “अगुरुकुलपुत्रादीनां वक्तव्यम्” इत्यनेन गुरुकुलगुरुपुत्रादीनां विशेषणत्वेऽपि पृथक्प्रयोगाय नञा पर्युदासः कृतः। समानाधिकरणविशेषणस्य तु “समानाधिकरणमसमर्थवद्भवतीत्यनेन सर्वथा स्वातन्त्र्येण सामर्थ्याभावात् प्रयोगाभावो भङ्ग्याऽभिहितः। एतन्मूलकमेव प्राचां गाथा “सापेक्षे प्रत्ययो न स्यात् समासो वा कथञ्चन। सापेक्षं तद्विजानीयादसमस्तविशेषणम्। प्रतियोगिपदादन्यत् यदन्यत् कारकादपि। वृत्तिशब्दैकदेशस्य सम्बन्धस्तेन नेष्यते” इति। अत्रायं विशेषः भवति प्रघानस्य सापेक्षत्वेऽपि समास इत्युक्तेः प्रधानस्य वृत्त्युपस्थाप्यविशेष्यस्य राजपुरुषादेः सुन्दरादिविशेषणापेक्षायामपि समासः। समासे चावयवशक्त्यैव तत्तदर्थपदार्थोपस्थित्या विशेष्यविशेषणभावाद्यभ्युपगमे सापेक्षत्वादौ समासाभावादिकं वाचनिकं कल्प्यम् तथान्याप्यधिककल्पना स्यादतः समुदायशक्तिकल्पनम् यथोक्तं हरिणा “बहूनां वृत्तिधर्माणां वचनैरेव साधने। स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्त्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितमिति”। तथाहि द्वणादिविग्रहवाक्ये चकारादि प्रयुज्यते समस्ते तु न तत्र वचनैरेव तन्निषेधः कल्पनीयः समुदायशक्तिपक्षे तु उक्तार्थानामप्रयोग इत्युक्तन्यायादेव सिद्धम्। नामार्थयो- रमेदान्वयः कॢप्तः स च राजपदादुपस्थापितराजादेः पुरुषे स्वस्वामिभावसम्बन्धेनान्वये परित्यक्तः स्यात्। सम्बन्धलक्षणायान्तु किमपराद्धम् विशिष्टलक्षणया। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थः प्रधानमिति नियमश्च कॢप्तः स च प्राप्तानन्दादौ भज्येत आनन्दकर्तृकप्राप्तिकर्मेत्यर्थबोधस्योभयसम्मतत्वेन कर्तृविहितक्तान्तार्थस्य कर्त्तुर्विशेष्य तौचित्येन प्रकृते तद्वैपरीत्यात् आनन्दसम्बन्ध्यादिलक्षणास्वीकारे समुदायशक्तिपक्षे एव प्रवेशः। तथा प्राप्त आनन्दो यमिति विग्रहे आनन्दादौ अत्यन्तादिविशेषणयोगवत् समासे तद्वारणाय वृत्तस्य न विशेषणयोग इति वाचनिकत्वकल्पनाऽधिका एतन्मते न्यायसिद्धा इत्यादि बहुविप्लवापत्तिरतः समुदाये शक्तिरित्यन्यत्र विस्तरः। वार्त्तिककृता तु अवश्यं कस्यचित् नञ्समासस्यासमर्थसमासस्य गमकस्य साधुत्वं वक्तव्यमित्युक्तत्वात् असूर्यम्पश्येत्यादौ असमर्थेन नञा बाणेन हतमारीचो राम इत्यादौ वाणादेर्विग्रहार्थस्य गमकवृत्तौ सापेक्षत्वेऽपि तदर्थबोधकतयैव समास इति द्रष्टव्यम्” मत्कृतसरला “पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः” सि० कौ० “पदस्य पदयोः पदानां वा विधिः पदविधिरिति वचनविशेषस्याविवक्षितत्वं द्योतयन्नाह पदसम्बन्धीति। तत्र पदेति किम् वर्णाश्रये कार्य्येऽसमर्थेऽपि यथा स्यात् तथा च तिष्ठतु दधि आनयान्नमित्यत्र दध्यानयेति पदयोः सामर्थ्याभावेऽपि वर्णाश्रयं यणादिकं भवत्येव। मूत्रे समर्थपदं साक्षणिकमिति द्योतयन्नाह समर्थाश्रित इति समर्थेति किं पश्यति कृष्णं श्रितो राममित्यादौ समासो मा भूत् वस्त्रं कृष्णस्य अपत्यं देवदत्तस्येत्यादौ मा भूच्च कृष्णशब्दादपत्यार्थकतद्धितः। इयञ्च परिभाषा समासकृत्तद्धितादिवृत्तिमात्रे प्रवर्त्तते इति बोध्यम्” मत्कृतसरला। स च समासः षड्विधः। “सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति च ज्ञेयः समासः षड्विघो बुधैः” (सुपां सुपा) पदद्वयमपि सुबन्तम्। राजपुरुष इत्यादिः। (सुपां तिङा)। पूर्वषदं सुवन्तमुत्तरं तिङन्तम्। पर्य्यभूषयत्। “गतिमतोदात्तवता तिङापि समासः” इति वार्त्तिकात् समासः। (सुपां नाम्ना) कुम्भकार इत्यादि। “उपपदमतिङि” ति समासः। स च “गतिकारकोपपदानां कृद्भिः समासवचनं पाक् सुबुत्पत्तेरिति” परिभाषया भवति सुबुत्पत्तेः प्राक्। अत्रोत्तरपदे सुबत्पत्तेः प्रागि- त्यर्थः। अन्यथा चर्मक्रीतीत्यादौ नलोपानुपपत्तेः। (सुपां धातुना) उत्तरपदं धातुमात्रं न तिङन्तम्। कटप्रूः आयतस्तूः। “क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घश्चेति” वार्त्तिकात् समासः। “तिङां तिङा” पिवतखादता। पचतभृज्जतेत्यादि। “आख्यातमाख्यातेन क्रियासातत्ये” इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् समासः “तिङां सुवन्तेन” पूर्वपदं तिङन्तमुत्तरं सुबन्तम्। जहिस्तम्बः। “जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तारञ्चाभि दधातीति” मयूरव्यं सकाद्यन्तर्गणसूत्रात् समासः। अयं षड्विधोऽपि समास, “सह सुपा” इत्यत्र योगविभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ। स्वयं भाष्यादिसिद्धतद्भेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं दर्शयति”। “समासस्तु चतुर्द्धेति प्रायोवादस्तथाऽपरः। योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च। भौतपूर्व्यात् सोऽपि रेखागवयादिवदास्थितः”। चतुर्धा अव्ययीभावतत्पुरुषद्वन्द्वबहुब्रीहिभेदात्। अयं प्रायोवादः। भूतपूर्वः दृन्भूः अयतस्तूः वागर्थाविवेत्याद्यसंग्रहात्। तथा पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः सर्वपदार्थप्रधानो द्वन्द्वः। अन्यपदार्थप्रधानो बहुव्रीहिरित्यादि लक्षणमपि प्रायिकम्। उन्भत्तगङ्गं सूपप्रति अर्द्धपिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचारात्। तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्रधान्याद्बहुब्रीहिलक्षणातिव्याप्तिरव्ययीभावलक्षणाव्याप्तिश्च। “अन्यपदार्थे च संज्ञायामिति” पा० समासः। सूपप्रतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात् तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च। “सूपः प्रतिना मात्रार्थे” पा० समासः। अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च “अर्द्धं नपुंसकमिति” पा० समासः। एवं पूर्वकाय इत्यादौ द्रष्टव्यम्। द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वातिव्याप्तिः बहुव्रीह्यव्याप्तिश्च। शशकुशपलाशमित्यादिद्वन्धे समाहाराव्यपदार्थप्राधान्याद्वहुव्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च स्यादिति भावः। सिद्धान्ते त्वव्ययीमावाधिकारपठितत्वमव्ययीभावत्वमित्यादि द्रष्टव्यम्। असम्भवश्चैषामित्याह भौतपूर्व्यादित्यादि। रेखागवयादिनिष्ठलाङ्गूलादेर्वास्तवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्वम्। बोधकता तु तद्वदेव स्यादिति भावः” वैया०। शब्दशक्तिप्रकाशिकायाम् अन्यथा समासलक्षणादिकमुक्तं यथा “यादृशस्य महावाक्यत्यान्तस्त्वादिर्निजार्थके। यादृशार्थस्य धीहेतुः स समासस्तदर्थकः”। “यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालिबोधे हेतुस्तावृशं तद्वाक्यं तथाविधार्थे समासः। पाचकादिकन्तु पाककर्त्राद्यर्थकं वाक्यमपि स्वघटकालेकनामलर्भ्यतादृशार्थकत्वविरहान्न महावाक्यं प्रकृत्यर्थमात्रावच्छिन्नप्रत्ययार्थस्यान्वयबोर्ध प्रत्ययोग्यत्वं वा प्रकृते वाक्यस्य महत्त्वं वाच्यं तेन उपकुम्भादौ नाव्याप्तिर्न वा नीलघटत्वत्वमित्यादौ नीलघटत्वादिभागेऽतिप्रसङ्गः। क्षीरपायीत्यादिकस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोध समर्थोऽपि न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पानशीलसामान्यस्याप्रत्ययात्। राजन्येव पुरुषभावः प्रतीयते न तु राजपुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वितस्वार्थबोधकत्वादतो राज्ञः पुरुषेत्यादिभागे न प्रसङ्गः। पायं पायमित्यादिणमन्तभागस्तु स्वार्थावच्छिन्नस्य धात्वन्तरार्थस्यैवान्वयबोधको न तु त्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौ समासव्यपदेशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः” विभजते “स चायं षड्विधः कर्मधारयादिप्रभेदतः। यश्चोपपदसंज्ञोऽन्यस्तेनासौ सप्तधा मतः। “स चार्यः निरुक्तसमासः कर्मधारयद्विगुतत्पुरुषाव्ययीभावबहुव्रीहिद्वन्द्वभेदात् षड्विधः यश्च कुम्भकारादिरप्युपपदसंज्ञकः समासोऽस्ति तेन समं समासः सप्तविधः। सङ्काशनिभनीकाशादीनामिव कारादीनामपि शब्दानामुपपदार्थान्वितस्यैव स्वार्थस्य बोधकतया तथाविधनामान्तत्वमेव चैतस्य समासान्तराद्विशेषः। ननु यदि षड्विधः सप्त० विधो वा समासस्तदास्य पञ्चविधत्वोक्तिः प्राचामसङ्गतेत्यतस्तामुपपादयति”। “पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः पुनः। प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः। “कश्चित्समासः पूर्वपदार्थधर्मिकान्वयबोधजनकतया पूर्वपदप्रधान उच्यते यथा प्राप्तजायार्द्धपिप्पलीपूर्वकायादिकस्तत्पुरुषः यथा वा उपकुम्भाद्यव्ययीभावः पुरुषसिंहादिकर्मधारयश्च। कश्चिन्मध्यपदार्थधर्मिकधीजनकतयैव मध्यपदप्रधानो यथा पटानधिकरणप्रतियोगिताभवच्छेदकेत्यादिकस्तत्पुरुषः पटस्य नाधिकरणमित्यादिविग्रहे मध्यपदार्थस्यैव विशेष्यत्वात् बहुपदे बहुव्रीहिरेवेत्यस्त तत्पुरुषादेर्बहुनामगर्भत्वाभावे तात्पर्य्यमित्यग्रे व्युत्पाद्यत्वात्। कश्चिदन्त्यपदार्थधर्मिकधीहेतुत्वादन्त्यपदप्रधानः यथा राजपुरुषादिकस्तत्पुरुषो नीलोत्पलादिकः कर्मधारयो द्विगार्ग्यादिरव्ययीभावश्च। कश्चित् सर्वपदार्थधर्मिकबुद्धिहेतुत्वात् सर्वपदप्रधानः यथेतरेतरद्वन्द्वो द्वन्द्वमात्रं वा। कश्चित् स्वघटकान्यपदार्थधर्मिकज्ञानजनकत्वादन्यपदार्थप्रधानः यथा बहुव्रीहिः स्वलेयवाद्यव्ययीभावञ्च। तदेवं पञ्च भेदानादायैव पञ्चविधत्वं प्राच्यैरुक्तमतो न विरोधः। नित्यानित्यभेदेन समासस्य द्वैबिध्यमप्यस्ति यदुक्तं जयादित्येन “विभक्तिमात्रप्रक्षेपान्निजान्तर्गतनामसु। स्वार्थस्याबोधवोधाभ्यां नित्यानित्यौ समासकाविति।” स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्यार्थस्थाबोधः स नित्यः समासः यथा कृष्णसर्पनिर्मक्षिकासुराढिः कृष्णः सर्पो मक्षिकाया निः न सुर इत्यादितस्तल्लभ्यस्य वैजाजात्यादेरग्रहात्। यल्लभ्यस्य च बोधः सोऽनित्यो यथा राजपुरुषपूर्वकायादिः तल्लभ्यार्थस्य राज्ञः पुरुषः पूर्वं कायस्येत्यादिवाक्यादपि प्रतीतेः। स्कुरद्वाणी चलच्चैत्र इत्यादिकः कर्मधारयोऽप्यनित्य एव समासः स्फुरन्ती वाणीत्यादिविग्रहस्य वाण्यादौ स्फुरदादिविधेयकबोधाजनकत्वेऽपि स्फुरदभिन्नवाण्यादावेकत्वादिबोधकत्वमादायैव तदर्थप्रकाशकत्वात् स्फुरन्तीं बाणीमित्यादिवाक्यस्यैव तत्र विग्रहत्वसम्भवाच्च। विग्रह एव समासलभ्यार्थस्य मोधकत्वं तन्त्रं न तु समासे विग्रहार्थस्य। विग्रहलभ्ययोर्लिङ्गसङ्ख्ययोर्व्यञ्जकवैधुर्य्येण प्रायशः समासाबोध्यत्वात्। अतएव यत्र समासे तयोर्व्यञ्जकसद्भावस्तत्रावनमोऽपि यथा जरतीचित्रगुर्जनः प्रियतिसा पुरुष इत्यादौ स्त्रीत्वस्य स्त्रीप्रत्ययतिस्नादेशयोस्तदभिव्यञ्जकयोः सत्त्वात् तथा अक्षपरि प्रिययुवा हस्त्यश्वमित्यादावेक त्वादेः अक्षशलाकयारेकत्व एवान्ययीभावस्य युष्मदस्मदोर्द्वित्व एव युवाद्यादेशस्य सेनाङ्गानां बहुत्व एव समाहारद्वन्द्वस्य विधानात्। तदुक्तमभियुक्तैः “लङ्ख्या तु व्यञ्जकाभावादव्यक्ता प्रातरादिवत्। यत्र तु व्यञ्जक किञ्चित्तत्र सङ्ख्या प्रकाशते। शलाकापरि हस्त्यश्वं पूर्वकायोऽर्द्धपिप्पलीति”। पूर्वादेरर्द्धस्य च ङसर्थैकत्वमन्तर्भाव्यैवावयविना तत्पुरुषस्य व्युत्पन्नत्वात् सरसिजादौ कण्ठेकालादौ चालुक् समासे सुपः सङ्ख्यावगमेऽपि न क्षतिः तत्र व्यञ्जकसुपः सत्त्वेऽपि सङ्ख्या न बुध्यते इति समानशक्तिवादिनः पातञ्जलाः”। अधिकं तत्र दृश्यम्
समासक्त = त्रि० सम् + आ + सन्ज–क्त। १ संयुक्ते २ अत्यन्तासक्ते ३ अभिनिविष्टे च।
समासङ्ग = पु० सम् + आ + सन्ज–घञ्। १ संयोगे २ सम्यगभिनिवेशे च।
समासवत् = पु० समास + अस्त्यर्थे मतुप् मस्य वः। १ व्याकरणोक्तसमासयुक्ते शब्दे २ सक्षेपयुक्ते त्रि० ३ तुन्दवृक्षे पु० शब्दच०। समासेन तुल्यं वति। ४ समानतुल्यक्रियायां अव्य०।
समासादित = त्रि० सम् + आ + सद + णिच्–क्त। १ सम्यगाहृते० निकटस्थिते ३ प्राप्ते त्रि०।
समासान्त = पु० ६ त०। व्याकरणोक्तसमासस्य शेषावयवे तत्रत्योत्तरविहितविधिश्च अनित्यः “समासान्तविधिरनित्यः” परिभा०।
समासार्था = स्त्री समासेन संक्षेपेणार्थोऽभिहितीयस्याः। १ समम्यायाम् अभरः। ६ त०। २ समासबोध्यार्थे पु०।
समाहार = पु० सम् + आ + हृ–घञ्। १ समुच्चये अमरः २ अनुद्भूतावयवभेदे समूहे समाहारे द्वन्द्वे तु द्वित्वत्रित्वादिनैव समूहस्य बोधात् समूहत्वमेव प्रवृत्तिनिमित्तम्। द्वन्द्वशब्दे ३७९२ पृ० द्विगुशब्दे च ३८१३ पृ० दृश्यम्।
समाहारद्वन्द्व = पु० व्या० उक्ते समासभेदे ३७९२ पृ० दृश्यम्।
समाहारद्विगु = पु० व्या० उक्ते समासभेदे द्विगुशब्दे ३८१३ पृ० दृश्यम्।
समाहित = त्रि० सम् + आ + धा–क्त। १ कृतसमाधौ २ आहिते ३ प्रतिज्ञाते मेदि० ४ निष्पन्ने धरणिः ५ शुद्धे शब्दच०। ६ कृतसमाधाने। भावे क्त। ६ समाधाने न०।
समाहृत = त्रि० सम् + आ + हृ–क्त। १ संगृहीते २ एकत्रस्थीकृते।
समाहृति = स्त्री सम् + आ + हृ–क्तिन्। १ संक्षेपे २ समहे अमरः। ३ समुच्चये च।
समाह्वय = पु० समाहूयते सम् + आ + ह्वे–स्वच् चात्वाभावः। १ आह्वाने २ प्राणिकरणकद्यूते च “प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः” इति मनुः। ३ तदधिकारेण प्रवृत्तविवादभेदे च द्यूतशब्दे ३७७४ पृ० दृश्यम्।
समाह्वा = स्त्री समा–आह्वा यस्याः। १ गोजिह्वावृक्षे शब्दच०। प्रा० स०। २ समाख्यायाञ्च।
***