सचि(ची) = स्त्री सच–इन् वा ङीप्। इन्द्राण्यां रामाश्रमः

सचिल्लक = पु० सह क्लिन्नेन सहस्य सः कप् नि०। क्लिन्ननेत्रे (पिचुडियुक्तनेत्रे) शब्दच०।

सचिव = पु० सच–इन् तथा सन् वाति–क। १ सहाये २ मन्त्रिणि अमरः ३२१ पृ० दृश्यम्। ३ कृष्णधुस्तूरे राजनि०।

सचिवामय = पु० सचिवः सहाय आमयो यस्य। विसर्पे रोगभेदे राजनि०।

सचीनन्दन = न० ६ त०। वैष्णवसम्प्रदायप्रवर्त्तके नवद्वीपाविर्भूते वैष्णवाचार्य्यभेदे तदाविर्भावश्च “शाके मुनिव्योमयुगेन्दुमाने(१४०७) पुण्ये तिथौ फाल्गुनपौर्णमास्याम्। त्रैलोक्यभाग्योदयपुण्यकीर्त्तिर्देवः सचीनन्दन आविरासीत्” चैतन्यचन्द्रोदयः। अस्य कलौ गुप्तभगवदवतारत्वं वैष्णवामन्यन्ते तत्र न किञ्चित् प्रमाणमुपलभामहे

सचेतन = त्रि० सह चेतनया सहस्य सः। विशिष्टज्ञानयुक्ते।

सचेष्ट = पु० सचते सच–अच् तथाभूतः सन् इष्टः। १ आम्रे शब्दमा०। सह चेष्टया सहस्य सः। २ चेष्टान्विते त्रि०।

सच्चारा = स्त्री सन् चारो गात्रानुलेपने विष्वग्गतिरस्याः। हरिद्रायां शब्दच०।

सच्चिदानन्द = पु० सन् नित्यः चित् चैतन्यमानन्दः त्रिपद कर्म०। १ नित्यज्ञानसुखमये ब्रह्मणि वेदा०। ६ ब०। २ तद्युते ईश्वरादौ त्रि० न्यायमतम्।

सच्छूद्र = पु० कर्म०। गोपनापितादौ शूद्रभेदे “सच्छूद्रौ गोपनापिताविति” स्मृतिः।

सजम्बाल = त्रि० सह जम्बालेन सहस्य सः। पङ्कयुक्ते देशे अमरः।

सजाति = पु० समाना जातिरस्य समानस्य सः। सवर्णेन सवर्णाया मूढायाम् उत्पादिते पुत्त्रे। २ तुल्यजातौ त्रि० “सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः” मिता० स्मृतिः।

सजातीय = त्रि० समानां जातिमर्हति छ समानस्य सः। समानधर्मयुक्ते अमरः।

सजुष् = अव्य० सह जुषते क्विप् सहस्य सः। १ सहार्थे जुषाहलादौ र। सजुः उर्य्या०। “सजुःकृत्य रतिं वसेदिति” भट्टिः। २ प्रीतियुक्ते ३ सेवायुक्ते च त्रि० ४ तापसे संक्षिप्तसा०

सज्ज = त्रि० सस्ज–अच्। १ उद्युक्ते २ संनद्धे अमरः। ३ सम्भृते विश्वः ४ निभृते शब्दर०। भावे अ। ५ आयोजने ६ वेशे च स्त्री सतोजायते जन–ड। ७ साधुजाते त्रि०।

सज्जन = न० सस्ज–णिच्–ल्युट्। १ रणार्थं सैन्यस्थापने अमरः २ घट्टे (घाटी) मेदि०। ३ आयोजने। सन् जनः। ४ सौजन्यवति जने पु० “निजाचारग्राहिणो ये कुर्वन्ति वेदसम्मतम्। पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः” पद्मपु० “कुरु सज्जनरञ्जनमिति” उद्भटः। ५ सत्कुलोद्भवे च पु०। सस्ज–णिच्–युच्। ६ नृपादीनामारोहणार्थं गजभूषाकरणादौ स्त्री अमरः।

सज्जित = त्रि० सज्जा जातास्य तार० इतच् मस्ज् णिच्–कर्मणि क्त वा। १ कृतवेशे २ भूषिते ३ संनद्धे च।

सञ्च = सञ्चीयतेऽत्र सम् + चि–ड। लेखनार्थे पत्रभेदे (सा~च)। देवीपु०।

सञ्चत् = त्रि० सम् + चत–क्विप्। प्रतारके सि० कौ०।

सञ्चय = पु० सम् + चि–अच्। १ समूहे अमरः। २ संग्रहे च। ल्युट्। सञ्चयन। सङ्ग्रहे न०।

सञ्चयिन् = पु० सम् + चि–इनि। सङ्ग्रहकारके “सञ्चयी नावसीदतीति” पुराणम्

सञ्च(ञ्चा)र = पु० सञ्चरत्यनेन सम् + चर–घञर्थे करणे क घञ् वा। १ सेतौ रत्नमा० २ देहे हेमच०। भावे घञ्। ३ ग्रहादेः राश्यन्तरगमने ४ सम्यग्गतौ च।

सञ्चाय्य = पु० सञ्चीयतेऽग्निरत्र सम् + चि–ण्यत् नि०। यज्ञभेदे।

सञ्चारिका = स्त्री सञ्चारयति नायकयोर्वार्त्ताम् सम् + चरणिच्–ण्वुल्। १ दूत्याम् अमरः। २ कुट्टिन्यां ३ युग्मे ४ घ्राणे च मेदि०।

सञ्चारिन् = पु० सम् + चर–णिनि। १ धूपे त्रिका० २ वायौ शब्दच०। अलङ्कारोक्ते शृङ्गारादिरसाद्यनुगुणे ३ भाव भेदे च भावभेदश्च व्यभिचारिभावः। “नानाभिनयसम्बन्धात् मावयन्ति रसान् यतः। तस्माद्भावा अमी प्रोक्ता स्थायिसञ्चारिसात्त्विकाः”। “व्यक्तः सञ्चारिणा तथेति” सा० द०। ४ सञ्चारकारके त्रि० स्त्रियां ङीष्। “सञ्चारिणी दीपशिखेवेति” रघुः। सा च ५ हंसपद्याञ्च राजनि०।

सञ्चाली = स्त्री सञ्चलति सम् + चल–ण गौरा० ङीष्। गुञ्जायां युक्तिकल्पतरुः।

सञ्चित्रा = स्त्री प्रा० स०। मूषिकपर्ण्यां शब्दर०।

सञ्चित = त्रि० सम् + चि–क्त। १ स हीते २ अनारब्धफलके कर्मभेदे च

सञ्ज = पु० सम् + जन–ड। चतुर्मुखे १ व्रह्मणि २ शिवे च मेदि० ३ छाग्यां स्त्री त्रिका०।

सञ्जय = पु० भारतप्रसिद्धे धृतराष्ट्रसारथिभेदे।

सञ्जवन = न० सम् + जु–युच्। परस्पराभिमुखतया स्थिते चतुःशाले गृहे अमरः।

सञ्जीवन = न० सम् + जाव–ल्युट्। १ चतुःशालगृहे शब्दर०। २ सम्यक्पाणधारणे च। संजीवयति सम् + जीव–णिच्ल्युट्। ३ ओषधीभेदे स्त्री ङीप्।

सट = न० स्त्री सठ–अच् गृषो० ठस्य टः। १ व्रतिनां केशसङ्घाते २ जटायाम् शब्दर०। ३ शिखायां ४ सिंहादेः केशरे च मेदि० “सटच्छटाभिन्नघनेनेति” माघः।

सटाङ्क = पुंस्त्री० सटा अङ्को यस्य। सिंहे शब्दर० स्त्रियां ङीष्।

सटि(टी) = स्त्री सठ–इन् वा ङीप् पृषो०। १ शट्यां शब्दरत्ना० स्वार्थे क। २ गन्धपत्त्रवृक्षे राजनि०। सठ–इन् ङीप्। पृषो०। सटीत्यत्र। ठान्तः तत्रार्थे राजनि०।

सट्वा = स्त्री सठ–व पृषो०। १ पक्षिभेदे २ वाद्ये संक्षिप्तसा०।

सठ = श्वठार्थे गतौ संस्कारे असंस्कारे च चुरा० उभ० सक० सेट्। साठयति ते पोपदेशत्वमेव न्याय्यम्।

सणसूत्र = न० शणसूत्र + पृषो०। शणसूत्रे रायमुकुटः।

सण्डिश = पु० संदश + पृषो०। सन्दशे (सा~डासि) “सण्डिशैरपकृष्यन्ते नरैर्याम्यैर्मुखात्ततः” मार्कण्डेयपु० १४ अ०।

सण्डीन = न० सम् + डी–क्त। पक्षिणां सङ्गत्य गमनरूपे गति० भेदे अमरः।

सत् = त्रि० अस–शतृ। १ सत्ये २ साधौ २ पूजिते ४ धीरे ५ प्रशस्ते ६ विद्यमाने च अमरः। स्त्रियां ङीप्। सा च ७ पतिव्रतायां स्त्रियां ८ दक्षकन्याभेदे “सती सती योगविसृष्टदेहेति” कुमारः। ९ सौराष्ट्रमृदि हेमच० १० ब्रह्मणि न० “ओंतत्सदितिर्निर्देशो व्रह्मणस्त्रिविधः स्मृतः” इति गीता। ११ आदरे अव्य० “सदसती आदरानादरयोरिति” पाणिनिः उप० स० “सत्कृत्य” सि० कौ०। पतिव्रतापरत्वे संज्ञात्वात् तस्याभावः त्व “त्वतलोर्गुणवचनस्य” पा० न ह्रस्वः सतीत्वम् “तेन नारद! नारीणां सतीत्वमुपजायते” पुराणम्।

सतत = न० सम् + तन–क्त समोऽन्त्यलोप। १ निरन्तरे २ तद्वति त्रि० अमरः।

सतत्त्व = न० सह सदृशं तत्त्वेन। १ स्वभावे हेमच० २ यथार्थे “सतत्त्वताऽन्यथा प्रथा” वेदा० प०।

सतानन्द = पु० गौतमपुत्रे अहल्यागर्भजे मुनिभेदे शब्दच०।

सतीन = पु० सतीं नयति नी–ड। १ वंशभेदे शब्दच० (क्षुद्र मटर) २ कलायभेदे भरतः। स्वार्थे क। तत्रैव अमरः।

सतीर्थ्य = पु० समाने तीर्थे गुरौ वसति यत् समानस्य सः। परस्परैकगुरुके छात्रे अमरः। ६ ब०। निर्यकारोऽप्ययमत्रार्थे।

सतील = पु० सतीं लक्षयति लक्ष–ड। (क्षुद्रमटर) १ कलाये व्याडिः। २ वंशे हारा० ३ वायौ रायमु०।

सतीलक = पु० सतीलैव कायति कै–क, सह तिलेन तिलचि ह्नेन कप् पृषो० दीर्घः। १ वंशे (क्षुद्रमटर) २ कलायभेदे च अमरः।

सतीला = स्त्री सह तिलेन तिलचिह्नेन सहस्य सः पृषो० दीघः। कलायभेदे (तेओडा) अमरः।

सतेर = पु० सन–एर तान्तादेशः। सतुषे संक्षिप्तसा०।

सत्कदम्ब = पु० नित्यक०। केलिकदम्वे शब्दच०।

सत्कर्तृ = पु० सत् + कृ–तृच्। १ विष्णौ विष्णुस० २ सत्कारके त्रि०।

सत्कर्म्मन् = न० कर्म० वेदादिविहिते यागादौ कर्मणि।

सत्काञ्चनार = पु० कर्म०। रक्तकाञ्चने शब्दच०।

सत्काण्ड = पुंस्त्री० सत्काण्डं शब्दष्यापारोऽस्य। चिल्ले शब्दच० स्त्रियां ङीष्

सत्कार = पु० सत् + कृ–घञ् उप० स०। १ सम्भानने २ पूजने च।

सत्कार्य्यवाद = पु० ६ त०। कार्य्यस्य सत्त्वनिर्णायके वादे कथाभेदे स च वादः उत्पत्तिशब्दे ११०८ पृ० दृश्यः।

सत्कृत = त्रि० सत् + कृ–क्त। १ पूजिते २ कृतसम्माने च।

सत्क्रिया = स्त्री सत् + कृ–श। १ सत्कारे २ सम्मानने ३ पूजने च

सत्तम = त्रि० अतिशयेन सन् तमप्। अतिशयसाधौ अमरः।

सत्ता = स्त्री सतोभावः तल्। १ द्रव्यगुणकर्मवृत्तौ २ जातिभेदे “द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते” भाषा०। जातिशब्दे ३० ९३ पृ० दृश्यम्। ३ विद्यमानतायाञ्च विद्यमानत्वं च कालसम्बन्धः। आत्मधारणानुकूलव्यापार इति शब्दिकाः “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते। अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः” हरिः। तत्र विद्यमानता च वेदान्तमते त्रिविधा पारमर्थिकी १ ब्रह्मणः त्रैकालिकाबाध्यत्वरूपा व्यावहारिकी १ घटादीनां सा च तत्त्वज्ञाननाश्या प्रातीतिकी ३ शुक्तिरजतादेः सा चाधिष्ठानसाक्षात्कारनाश्या। ब्रह्मसत्तयैव सर्वेषां सक्ताव्यवहारः सदुत्पन्नत्वात् इति वेदान्तिनः।

सत्त्र = न० सद–ष्ट्र। १ स्थाने २ यज्ञभेदे ३ सदादाने ४ आच्छादने ५ अरण्ये ६ कैतवे मेदि० ७ धने ८ गृहे ९ दाने १० सरसि नानार्थकोषः। सदादानञ्च सदक्षिणं सततान्नदानम्। यज्ञभेदश्च द्वादशाहादिसाध्यः ज्योतिष्टोमादिः यथोक्तं कात्या० श्रौ० १२। १। ४। सूत्रभाष्यादौ “द्वाढशाहः सत्त्रमहीनश्च” सू० “सत्त्ररूपः अहीनरूपश्च भवति द्विविधः। आसत उपयन्तीति सत्त्रस्य सिङ्गं यजते इत्यहीनस्य। अत्र विशेषमाह “द्वादशाहमृद्धिकामा उपेयुरिति तथा त्रयोदशरात्रमासीरन्निति सत्त्रलिङ्गम् द्वादशाहेन प्रजाकामं याजयेदित्यहीनलिङ्गम्। अस्यामुकथनप्रयोजनम् सत्त्रे सत्रात्मको धर्मो दातृत्वेन प्रवर्त्तते अहीने चाहीनात्मकः। “उभयतोऽतिरात्रं सत्त्रमुपरिष्टादहीनस्य” सू० उभयत इत्यादावन्तेऽतिरात्रो यस्य तदुभयतोऽतिरात्रम् उपरिष्टात् अन्तएव। “यजमानाः सर्वे सत्त्रेषु” सू०। कर्त्तारो भवन्ति य ऋत्विजस्ते यजमाना इत्यनेनार्त्विजीनान् पदार्थान् लक्षणयानूद्य यजभानाः कर्तृत्वेन विधीयन्ते। “अदक्षिणानि च स्वामियोगात्” सू०। सत्राणि भवन्ति न हि कश्चिदात्मनैवात्मानं परिक्रीणाति। अत्र हि स्वामिन एवार्त्विज्यम् अनुपपन्नआत्मपरिक्रयः “गृहपतिर्याजमानमयुक्तत्वात्” सू० याजमानं यत्कर्म तद्मृहपतिः करोति कर्मान्तरे तस्यायुक्तत्वात् इतरेषां चाध्वर्य्यवादिषु योगात्। “दर्शनाच्च” सू० दृश्यते चायमर्थः तस्माद् यदि बहवो प्रयच्छेयुरिति। “सर्वे संस्कारान्” मू० यद्यत्संस्कारकं याजमानं यथा वपनादि तत्सर्वे कुर्युः तेन हि यजमाना। संम्क्रियन्ते। “दर्शने वचनात्” सू० यत्तु दर्शनमुक्तम् तद्वचनम् गृहपतये एकस्मै दनिमुक्तम् वचनं किमिव न कुर्य्यात्। “अविभवति गृहपत्यन्वारम्भ” सू० न संभवत्यनेककर्तृके पदार्थे वेदबन्धनाग्न्यन्वाधानादौ गृहपतेरन्वारम्भः सर्वैः कर्त्तव्यः। “पदार्थेष्वेकः कृतत्वात्” सू० यत् पुनः क्रत्वभिनिर्वृत्त्यर्थमेव कर्म यथा पात्रासादनमाज्यावेक्षणं वा तत्रावास्यैव कर्तृत्वम् कृतत्वात् पदार्थस्य। परार्थे यजमानकर्तृके आज्यावेक्षणादौ एको गृहपतिः कुतः कृतत्वात् एकेनापि कृतः कृत एव यतः। “अग्निं चेष्यमाणाः समारोह्य गृहपतिर्मध्ये मन्यत्यर्धश इतरे दक्षिणोत्तराः” सू० समारोह्येति च पूर्वकासतामात्रे ल्यबादेशो न समानकर्तृकतायाम्। “गृहपत्याहवनीयेऽङ्गारप्रासनम्” सू०। “तत्र प्राजापत्यः पशुः” सू०। तत्र विहारे प्राजापत्यः पशुर्भवति। पुनर्ग्रहणाच्चाहर्गणे प्राजापत्यस्य नियमः तथा चाश्वमेधे नियमदर्शनं भवति प्राजपत्यमालभेतेति। तत्र साधारणीकृते विहारे। “आज्येन पत्नीसंयाजा गृहपतिवर्जम्” सू०।

सत्त्रम् = अव्य० सद–त्रम्। १ सहार्थे जटा०। त्रा। सत्त्राप्यत्रार्थे अमरे पाठान्तरम्।

सत्त्रशाला = स्त्री ६ त०। अन्नजलादेर्दानार्थे कल्पिते गृहे हेमच०।

सत्त्राजित् = पु० सत्त्रेणाजयति लोकान् आ + जि–क्विप्। श्रीकृष्णश्वशुरे सत्यभामाजनके राजभेदे।

सत्त्रि = पु० सद–बा० त्रि। १ मेघे २ गजे ३ जयशीले त्रि० ठणादिकोषः।

सत्त्रिन् = पु० सत्त्वं गृहं यज्ञो वा विद्यतेऽस्य इनि। १ गृहपतौ अमरः २ गृहस्थे च।

सत्त्व = न० सतोभावः त्व। १ सांख्यसिद्धे प्रकाशादिसाधने प्रकृत्यवयवे पदार्थे प्रकृतिशब्दे दृश्यम् “सत्त्वं लघु प्रकाशकमष्टम्” सां० का०। अयं द्वितकारः पृषो० एकतकारः। २ द्रव्ये ३ प्राणेषु ४ व्यवसाये ५ बले ६ स्वभावे ७ पिशाचादौ शब्दच० ८ चित्ते मेदि० “सत्त्वे तप्यमाने तत्संक्रान्तः पुरुषोऽपि तप्यत इव” पात० भा०। ९ रसे १० आयुषि १ १ धने। १२ आत्मनि च शब्दच० १३ सत्तारूपे १४ जातिभेदे १४ विद्यमानतायाञ्च द्वितकारः। १५ जन्तुषु पु० न० अमरः।

सत्पत्त्र = न० सत् शोभनं पत्त्रम्। १ पद्मस्य नबदले शब्दच०। कर्म०। २ सुन्दरदले त्रि०।

सत्पथ = पु० कर्म० अच्समा०। शोभनमार्गे अमरः २ वेदादिविहिताचारे च।

सत्पुत्त्र = पु० कर्म० वेदादिविहितकार्य्यकर्त्तरि पुत्त्रे “पुन्नाम्नो नरकाद् यस्मात्त्रायते पितरं सुतः। मुखसन्दर्शनेनापि तदुत्पत्तौ यतेत सः” वृहस्पत्युक्तनरकतारणाय “ऋणमस्मिन् सन्नयति अमृतत्वञ्च विन्दति। पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्” इति वसिष्ठोक्तर्णापनयनाय च यत् पश्येदिति नियमविधानं तदकृतपुत्रकार्य्यपुत्रपरम्। सत्पुत्रस्तु मुखदर्शनं विनापि नरकनिस्तारकः। तथा च विष्णुपु० “सत्पुत्रेण तु जातेन वेनोऽपि त्रिदिवं ययौ। पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना”। ब्रह्मपुराणेऽपि “समुत्पन्नेन भो विप्राः सत्पुत्रेण महात्मना। त्वातः स (वेनः) पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा” शु० त०।

सत्प्रतिग्रह = पु० सद्भ्यः प्रतिग्रहः। साधुदत्तधनस्य प्रतिग्रह “सप्त वित्तागमा धर्म्या दायोलाभः क्रयोजयः। विभागः सम्प्रयोगश्च सत्प्रतिग्रह एव च इति स्मृतिः।

सत्प्रतिपक्ष = पु० कर्म०। तुल्यविरोधिनि १ प्रतियोगिनि २ न्यायोक्ते हेतुदोषे हेत्वाभासभेदे। स च बाधोपस्थिति समर्थपरामर्शकालीनसाध्यसिद्धिसमर्थपरामर्शविषयः। यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः। यथा शब्दोनित्यः श्रावणत्वाच्छब्दत्ववत्। शब्दोऽनित्यः कार्य्यत्वात् पटवत्। अन्ये तु अगृहोताप्रामाण्यकसाध्यवत्त्वेनोपस्थितिविश्रय इति वदन्ति। साध्याभावध्याप्यवत्पक्षः। साध्यवदन्यत्वव्याप्यवत्पक्षः। पक्षनिष्ठः साध्याभावयाप्यः पक्षनिष्ठः साध्यवद्भेदव्याप्यो वा। साध्यवदवृत्तिव्याप्यवत्पक्षः। पक्षनिष्ठः साध्यवदवृत्तिव्याप्यः। पक्षवृत्त्य भावप्रातयोनित्वष्याप्यवत्साध्यम्। साध्यनिष्ठः पक्षवृत्त्यभावप्रतियोगित्वव्याप्यो वा। “विरुद्धयोः परामर्शो हेत्वोः सत्प्रतिपक्षिता” भाषा०। तुल्यबलयोरेव सत्प्रतिपक्षत्वं नातुल्यबलयोः तेनैकतरत्र तर्कादिवलसत्त्वे तस्यैवान्यतरवाधकतेति बाध्यम्।

सत्फल = पु० सन्ति शोभनानि फलान्यस्य। १ दाडिमक्षे शब्दच०। २ सुफलयुते त्रि०।

सत्य = न० सत हित यत्। १ सत्ययुगे २ शपथे ३ याथार्थ्येच ४ तद्वति त्रि० मदि०। “ययार्थकथनं यच्च सर्वलोकसुखप्रदम्। तत् सत्यमिति विज्ञेयमसत्यं तद्विपर्य्ययः” पद्मपु० सर्वलोकसुखप्रदमिति न लक्षणघटक सत्यस्याप्यप्रियत्वे कथननिषेधात् अतएव मनुनोक्तं “सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्”। ५ अश्वत्थवृक्षे ६ नान्दीमुखश्राद्धीयदेवभेदे च पु० “इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः” श्रा० त० धृतवचनम्। ७ सिद्धान्ते शब्दर०। शफथरूपसव्यापालने दाषो यथा कृत्वा शफथरूपं यः सत्यं हन्ति न पालयन्। स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम्। सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः। ततः शूद्रा महाव्याधिः सप्तजन्मखतः शुचिः” ब्रह्मवै० प्र० ३८ अ०। ८ परमात्मनि “सत्यं ज्ञानमानन्दं व्रह्मेति” श्रुतिः। ९ श्रीरामे पु० शब्दर०। १० विष्णो “औत्तमेऽप्यन्तरे विष्णुः सत्यः सहस्वधोत्तरैः। सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः” कूर्सपु० ४८ अ०। ११ तन्मातरि स्त्री। १२ तपोलोकादूर्द्ध्वस्थे लोके सत्यलोकशब्दे दृश्यम्। सन्ति पृथिव्यप्तेजांसि च त्यौ वाय्वाकाशौ च समा० द्व० नि० ड समा० द्वितकारः। १३ भूतपञ्चके “सञ्च त्यच्च भूतपञ्चकं तं सत्त्यमित्याचक्षते” श्रुतिः। सत्यत्वञ्च त्रिकालावाध्यत्वमिति वेदान्तिनः यथार्थज्ञानविषयत्वं सत्यत्वमिति नैयायिकाः। सन्धिसन्ध्यशाभ्यां सहितसत्ययुगमानं दैवमानेन १२०० वर्षाः मानुष्यमानेन १७२८०० वर्षाः।

सत्यङ्कार = पु० सत्य + कृ–घञ् नि० मुम्। “मयैतत् अवेश्यं केयमित्येवम्” सत्यकरणे सत्यापने (वायनादेओया) अमरः

सत्यतपस् = पु० सत्यं तपोऽस्य। मुनिभेदे तस्यंव दुर्वाससो वरेण वेदव्यासरूपेणाविर्भावः तत्कथा वराहपु०।

सत्यघृति = पु० शतानन्दपुत्रे ऋषिभेदे मत्स्यपु० ४८ अ०।

सत्यनारायण = पु० कर्म०। संक्रान्त्यादिषु पूज्ये नारायणमूर्त्तिभेदे स्कन्दपु० रेवा० ४ अ० तत्कथा दृश्या।

सत्यपुर = न० सत्ययुक्तं पुरम्। विष्णुलोके।

सत्यफल = पु० सत्यं सदातनं फलमस्य। विल्ववृक्षे राजनि०।

सत्यभामा = स्त्री सत्राजितोनृपसुतायां श्रीकृष्णस्य भार्य्याभेदे शब्द च०।

सत्यभारत = पु० वेदव्यासे त्रिका०।

सत्यम् = अव्य० सत् + यमु। स्वीकारे।

सत्ययुग = न० सत्यप्रधानं युगम शाक० त०। सत्यप्रचुरे प्रथमे युगे

सत्ययौवन = पु० सत्यं यौवनमस्य। विद्याधरे देवयोनिभेदे जटा०

सत्यरत = त्रि० ७ त०। सत्यवाक्यासक्ते हरिश्चन्द्रनृपपितरि पु० मत्स्यपु० १२ अ०।

सत्यलोक = पु० सत्यप्रचुरो लोकः। ऊर्द्ध्वस्थसप्तलोकमध्ये सर्वोपरिस्थे तपोलोकादूर्द्ध्वस्थे लोके। “षड्गुणेन तपोलोकात् सत्यलोको विराजते। अपुनर्मारका यत्र ब्रह्मलोकाभिधः स्मृतः” विष्णुपु० अं ७ अ०

सत्यवचस् = पु० सत्यं वचोऽस्य। १ मुनौ अमरः। २ सत्यवचनयुक्ते त्रि०। सत्यवचनादयोऽप्यत्र।

सत्यवत् = पु० सत्यं विद्यतेऽस्य मतुप् मस्य वः। १ सावित्रीपतौ नृपभेदे भा० व० २९३ अ०। २ मुनिभेदे च। ३ सत्ययुक्ते त्रि० स्त्रियां ङीप्। सा च ४ व्यासस्य मातरि शब्दर०। ५ नारदपत्न्यां ६ ऋचीकमुनिपत्न्यां मेदि० कालिकापु० ८४ अ०।

सत्यवतीसुत = पु० ६ त०। सत्स्यगन्धापुत्त्रे व्यासे मुनिभेदे शब्दर०।

सत्यवाच् = पु० सत्या वाक् यस्य। १ ऋषौ शब्दच०। २ काके त्रिका०। तस्य शब्देन हि शुभाशुभनिश्चयेन तस्य तथात्वम। ३ सत्यवदनशीले त्रि०।

सत्यवादिन् = त्रि० सत्यं वदति वद–णिनि। यथार्थवाक्य वक्तरि।

सत्यव्रत = पु० सत्यं व्रतमस्य। १ त्रिशङ्कुनामके राजभेदे मत्स्यपु० १२ अ०। २ सत्यतत्परे त्रि०।

सत्यसङ्गर = सत्यः सङ्गरः प्रतिज्ञा यस्य। १ कुबेरे त्रिका०। २ सत्यप्रतिज्ञे त्रि०

सत्यसन्ध = त्रि० सत्या सन्धा सन्धान यस्य। १ सत्याभिसन्धौ सत्यसन्धस्य तप्तपरशुग्रहण छान्दोग्ये दर्शितम् ३ श्रीरामे ४ तदनुजे भरते ५ जनमेजयनृपे च प० शब्दर०।

सत्या = स्त्री १ रामपत्न्यां २ व्यासमातरि सत्यवत्यां शब्दर०। ३ दुर्गायां ब्रह्मवै० पु० प्र०। ४ द्रो पद्यां शब्दच०।

सत्याकृति = स्त्री सत्य + डाच् + कृ–क्तिन्। (अवश्यमेतन्मयाक्रेयम्) इत्येवं प्रतिज्ञारूपे सत्यकरणे (वायनादेओया) अमरः।

सत्याग्नि = पु० ६ ब०। अगस्त्यमुनौ शब्दर०। तज्जठरानलस्य समुद्रादिसर्वभक्षणेऽपि अवाधितत्वात् तथात्वम्।

सत्यानृतं = न० सत्यसहितमनृतं यत्र। बणिग्वृत्तौ बाणिज्येअमरः

सत्यापन = न० सत्य + णिच्–पुक्च ल्युट्। सत्याकृतौ अमरः युच्। सत्यापनाप्यत्र स्त्रा।

सत्योद्य = त्रि० सत्यमुद्यं यस्य वद–क्यप्। १ सत्यवादिनि शब्दमाला। कर्म०। २ सत्यवाक्ये न०।

सत्र = सम्बन्धे सन्तृतौ च अद० चु० आ० सक० सेट्। सत्रयते अससत्रत। सत्रापयते इत्यन्ये अनेकाच्कत्वात् अषोपदेशत्वेन सति निमित्ते न षत्वम्।

सत्र = न० सत्र्यते सन्तन्यते सत्र–अच् घञ्। १ बहुदिनसाध्ये यज्ञभेदे २ श्रीकृष्णश्वशुरे नृपभेदे च।

सत्राजित् = पु० सत्रेणाजयति लाकान् आ + जि–क्विप्। श्रीकृष्णश्वशुरे राजभेदे।

सत्रिजातक = न० पक्वमांसभेदे “मांसं बहुघृते भृष्टं सिक्त्वा चोष्णाम्बुना मुहुः। जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते। तदेव धृततक्राढ्यं सुस्रिग्धं सत्रिजातकम्” शब्दर०।

सत्वर = न० सह त्वरया सहस्य सः। १ शीघ्रे २ त्वरान्विते त्रि० अमरः।

सथूत्कार = न० सह थूत्कारेण सहस्य सः। अम्बुकृते सनिष्ठेवे कथने।

सदंशक = पु० सह दंशेन सहस्य सः कप्। १ कर्कटके राजनि० २ दंशयुक्ते त्रि०।

सदंशवदन = पुंस्त्री स ह दंशेन दंशाकारेण सहस्य सः तथाभूतं वदनमस्य। कङ्कबिहगे राजनि० स्त्रियां ङीष्।

सदञ्जन = न० कर्म०। पुष्पाञ्जने रीतिजाते अञ्जनभेदे शब्दच०।

सदन = न० सीदत्यस्मिन् + सद–आधारे ल्युट्। १ गृहे अमरः। २ जले मेदि०। भावे ल्युट्। ३ स्थितौ न०।

सदय = पु० सन् अयः कर्म०। १ साधुशुभावहविधौ। सह दयया। सहस्य सः। २ दयान्विते अमरः।

सदस् = स्त्री न०। सीदत्यस्याम् सद–असि। सभायाम् अमरः

सदस्य = पु० सदसि साधुर्वसति वा यत्। यज्ञादौ न्यूनातिरिक्तताविपर्य्ययपरिहारार्थं १ विधानदर्शिनि अमरः। २ मभसिदि त्रि० अमरः।

सदा = अव्य० सर्वस्मिन् काले दाच् सादशः। सर्वस्मिन् काले इत्यर्थे अमरः।

सदागति = पु० सदा गतिरस्य। १ वायौ २ सर्वदागतियुक्ते त्रि० ३ सूर्य्ये ४ निर्वाणे ५ सदीश्वरे मेदिनिकोषकारः।

सदाचार = पु० कर्म० ६ त० वा “सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्त्तं प्रचक्षत। तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः। वर्णानां सान्तरलानां स सदाचार इष्यते” इति मनूक्तदेशप्रचलिते आचारे “साधवः क्षीणदाषाश्च सच्छब्दः साधुवाचकः। तेषामाचरणं यत्तु सदाचारः स उच्यते” इत्युक्ते साधूनां २ शुभाचरणे च। सदाचारनिरूपणम् आचारशब्दे ६ ३२ पृ० दृश्यम्। विप्रस्य चातुराश्रम्यमुक्त्वा “गार्हस्थ्य ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः। क्षत्रियस्यापि गदिता य आचारो द्विजस्य हि। वैखानसत्वं गार्हस्थ्यमाश्रमद्वितयं विशः। गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर!। स्वानि वर्णाश्रमोक्तानि धर्माणीह न हापयेत्। यो हापयति तस्यासौ परिकुप्यति भास्करः। कुपितः कुलनाशाय देहरोगविवृद्धये। वर्ष्माशु पतते तस्य नरस्य क्षणदाचर!। तस्मात् स्वधर्मं न हि सन्त्यजेच्च न हापयेच्चापि तथात्मबंशम्। यः सन्त्यजेच्चापि निजं हि धर्मं तस्मै प्रकुप्येत दिवाकरश्च” वामनपु० १४ अ०।

सदातन = पु० सदा भवः सदा + ट्युल् तुटच्। १ विष्णौ त्रिका० २ नित्ये त्रि० अमरः स्त्रियां ङीप्।

सदातोया = स्त्री सदा तोयानि पेयानि यस्याम्। १ करतोयानद्याम् २ एलापर्ण्याञ्च शब्दच०। सदानीराशब्दे दृश्यम्

सदात्मन् = त्रि० सन् साधुरात्मा चित्तं यस्य। साधुचित्ते।

सदादान = पु० सदा दानं मदजलं त्यामो वा यस्य। १ ऐरावते गजे २ गणेशे ३ गजे मेदि० ४ सर्वदात्यागिनि त्रि०।

सदानन्द = पु० सदा आनन्दो यस्य। १ सदाशिवे २ अनवरतानन्दयुक्ते त्रि०।

सदानर्त्त = पुंस्त्री० सदा नृत्यति नृत–अच्। १ खञ्जनविहगे शब्दच० स्त्रियां ङीष्। २ सदा नृत्ययुते त्रि०।

सदानीरा = स्त्री सदा नीरं पेयमस्याः। करतोयानद्याम् अमरः। “अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला। सर्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” स्मृत्युक्तेः तन्नदीजलस्य सदापेयत्वात् तस्यास्तथात्वम्।

सदापुष्प = पु० सदा पुष्पं यस्य। १ नारिकेलवृक्षे शब्दमा०। २ रक्तार्के स्त्रा रत्नमा० ङीप्। २ सदापुष्पयुक्ते त्रि०।

सदाप्रसून = पु० सदा प्रसूनमस्य। १ रोहितकवृक्षे २ अर्कवृक्षे ३ कुन्दे च राजनि०।

सदाफल = पु० सदा फलमस्य। १ नारिकेलवृक्षे २ उडुम्बर- वृक्षे ३ स्कन्दफलवृक्षे च मेदि०। ४ विल्वे० जटा०। ५ वार्त्ताकुभेदे स्त्री राजनि० टाप्। “सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी। कण्डूकच्छूहरी चैव वार्त्ताकी गुणवत्तमा” राजव०।

सदाभद्रा = स्त्री सदा भद्रमस्याः ५ ब०। माम्भारीवृक्षे रत्नमा०।

सदायोगिन् = पु० सदा युज्यते युज्–घिनुण्। १ विष्णौ त्रिका० २ सदायोगयुते त्रि० स्त्रियां ङीप्।

सदाशिव = पु० सदा शिवमस्मात् ५ ब०। महादेवे।

सदुत्तर = न० कम०। १ व्यवहारे प्रतिज्ञापत्त्रानुसारिण्युत्तरे पृष्टस्य २ सम्यगुत्तरे च। ६ ब०। ३ तद्वति त्रि०।

सदृक्ष = त्रि० समानं दर्शनमस्य दृश + क्स समानस्य सादेशः। तुल्यरूपे अमरः।

सदृश् = त्रि० समानं दर्शनमस्य समान + दृश–क्विप् सादेशः। तुल्यरूपे अमरः।

सदृश = त्रि० समानं दर्शनमस्य समान + दृश–टक्। तुल्यरूपे स्त्रियां ङीप्।

सदृशस्पन्दन = त्रि० ऋश–गतौ क सत् ऋशं गतं स्पन्दनं यस्मात् ५ ब०। निष्पन्दे त्रिका०।

सदेश = पु० सह देशेन सहस्य सः। १ निकटे अमरः ३ देशान्विते त्रि०।

सद्धेतु = पु० कर्म०। न्यायोक्ते हेत्वाभासदोषरहिते हेतौ। पक्षसत्त्वं १ सपक्षसत्त्वं २ विपक्षासत्त्वं ३ अबाधितविषयत्वं ४ असत्प्रतिपक्षितत्वं ५ इति पञ्चरूपोपन्नो हेतुः सद्धेतुः “व्याप्त्यादिविशिष्टो हेतुः सः” नीलकण्टः “प्रमितव्याप्तिपक्षताको हेतुः सः” गदा०। २ वृत्तिमद्धेतौ च “अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशङ्क्याह” दीधितिः। अत्र सद्धेतौ वृत्तिमति हेतावित्यर्थः गगनादेः सयोगेन वृत्तिमत्त्वाभावात् तत्राव्याप्तिर्न सम्भवतीत्युक्तं सदिति।

सद्भाव = पु० सतोभावः, सन् वा भावः। १ विद्यमानत्वे २ साधुभावे च “सद्भावमागतः” इति मट्टिः।

सद्भूत = न० असत् सत् भूतम् सत् + च्वि–भू–क्त। १ यथार्थे २ तद्वति त्रि० हेमच०।

सद्मन् = न० सीदत्यस्मिन् सद–मनिन्। १ नृहे अमरः २ जले च मेदि०।

सद्यःकृत = त्रि० सद्यस्तत्क्षणात् कृत कृ–क्त। तत्क्षणकृते।

सद्यःप्राणकर = त्रि० सद्योहठात् प्राणं बलम् आयुर्वृद्धिञ्च करोति कृ–अच्। “सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम्। घृतमुष्णोदकञ्चैव सद्यःप्राणकराणि षड्” इति चालक्याक्ते द्रव्यसमूह

सद्यःप्राणहर = त्रि० सद्यः प्राणमायुर्बलंवा हरति हृ–अच्। शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुण दधि। प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षड्” इति चाणक्योक्त शुष्कमांसादिद्रव्यसमूहे।

सद्यःशोथा = स्त्री सद्यः शोथो यस्याः ५ ब०। कपिकच्छ्वाम्शब्दच०

सद्यःशौच = न० सद्यः शीघ्रमपनेयमशौचम्। १ स्मृत्युक्ते शीघ्रनाश्ये अशौचे ६ ब०। २ तद्वति शिल्पिनृपश्रोत्रियादौ त्रि०। अशौचशब्दे ४८८ पृ० दृश्यम्।

सद्यस् = अव्य० समेऽह्नि नि०। १ तत्क्षणे अमरः। २ समान दिवसे एकस्मिन् दिने इत्यर्थे च।

सद्यस्क = त्रि० सद्योभवः कन् कस्का०। सद्योजाते।

सद्यस्क्री = पु० सद्यःक्रीणाति सोमम् यत्र क्री–आधारे किप् कस्का०। सद्यःसोमक्रयसाध्ये यागभेदे “एकरात्रोऽतिरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः” अथर्व० ११। ७। १०। नानायज्ञोक्तौ। भावे क्विप्। २ सद्यस्क्रये स्त्री। तया साध्यः अण्। साद्यस्क्र सद्यःसोमक्रयेण एकाहसाध्ये यज्ञभेदे। “साद्यस्क्राश्च षट्” कात्या० श्रौ ०२२। २। ९। उक्ता यथा “षट् साद्यस्क्रा” सू० “स्वर्गकामपशुकामभ्रातृव्यवतां प्रथमः” सू०। १ साद्व्यष्क्र ख्यक्रतुर्भवति। “दीर्घव्याधिप्रतिष्ठाकामान्नाद्यकामानां द्वितीयः” सू०। साद्यष्क्रो २ भवति एषामत्राधिकारः। “हीनस्यानुक्रीः” सू० अनुक्रीर्नाम ३ साद्यष्क्रः स हीनस्य भवति यः कर्मणा हीन तस्यासौ भवति। “विश्वजिच्छिल्पः” सू० नाम साद्यस्क्रः ४। “श्येनोऽभिचरतः” सू०। श्येनो ५ नाम साद्यष्क्रः पञ्चमः सोऽभिचरतो भवति। “एकत्रिकः” सू० षष्ठः ६ साद्यष्क्रः। तत्र षट् षष्टिशतं दक्षिणा। साद्यःक्रधर्माः व्याख्यास्यन्त इति सूत्रशेषः। दीक्षादि सद्यः सर्वं क्रियते” भाष्यम् ताण्ड्यब्रा० भाष्ये चोक्तं यथा

अथ साद्यस्क्रा नाम पञ्च एकाहास्तेषु पथमद्वितीययोर्दीक्षाप्रभृत्यवभृथान्तं, सर्वमेकस्मिन्नेवाहन्यनुष्ठेय तृतीयस्य तु एकस्मिन् दिवसे दीक्षा परस्मिन् दिवसे सोमक्रयाद्यवभृथान्तं, चतुर्थपञ्चमयोरप्येवं यद्वा एका दीक्षा सोमक्रयप्रभृति उपवसथान्तं द्वितीयेऽहनि सुत्येति एवं सूत्र कारमतं पञ्चस्वपि साद्यस्क्रान्वयात् सद्य एव एकस्मिन्नेवाहनि दीक्षाद्यवभृथान्तं कर्त्तव्यमिति मतात्तरम्। एतत्सर्वं साद्यम्क्रेण वक्ष्यमाणे महारात्रे प्रातराहुतिं हुत्वेत्यादिना सूत्रकारेण विस्पष्टमुक्तम्। तत्र प्रथमस्य यदुर्क्त सर्वं सद्योऽनुष्ठेयमिति तद्विधित्सुराह “आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गे लोकेऽस्पर्द्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवं स्त आदित्या एतमपश्यंस्तं सद्यः परिक्रीयायास्यमुद्धातारं वृत्वा तेन स्तत्वा स्वर्गं लोकभायन्नहीयन्ताङि रसः” ताण्ड्य० ब्रा० १६। १२। १। “पुरा आदित्याश्चाङ्गि रसश्च अदीक्षन्त यज्ञाय दीक्षां कृतवन्तः ते उभे स्वर्गे लोके स्वर्गलोकतिमित्तमस्पर्धन्त वयं प्रथमं गमिष्यामो बयं प्रथमं गमिष्याम इति स्पर्द्धां कृतवन्तः एवं स्पर्द्धमानास्तेऽङ्गिरस आदित्येभ्यः सुत्यां श्वः परस्मिन्दीक्षानन्तरदिने करिष्यमाणं सोमयागं प्राब्रुवन् प्रोक्तवन्तः अथ ते आदित्या एव वक्ष्यमाणयज्ञमपश्यन् तं यज्ञं सद्यः एकस्मिन्नेवाहनि परिक्रीय सोमं क्रीत्वा अयास्य मृषिमुद्गातारं वृत्वा स्तावयित्वा समापयन् दोक्षाद्यवभृधन्तं सर्वं कर्म एकस्मिन्नेवाहनि अन्वतिष्ठन्नित्यर्थः। यज्ञसमाप्त्यनन्तरमेव ते स्वर्गलोकमायन् प्राप्नुवन् आङ्गिरषस्त्वहीयन्त दीक्षानन्तरदिवसे सुत्येति तैरुक्तत्वात् एतस्विन् दिने दीक्षाद्यवभृथान्तस्य सर्वस्याननुष्ठानेन स्वर्गप्राप्ताभावात् दीक्षितैरादित्यैः वद्योऽनुष्ठानेन स्वर्गगतेः हीनाः भूमायेव परित्यक्ता आसन्” भा०।

सद्योजात = पु० सद्योजायते जन–कर्त्तरि क्त। १ वत्से शब्दच०। २ शिवमूर्त्तिभेदे च ३ आशुजाते त्रि०।

सद्योभाविन् = पु० सद्योभवति भ–णिनि। १ वत्से शब्दच०। २ आशुजाते त्रि०। स्त्रियां ङीप्।

सद्रु = त्रि० सद–गतो रु। गन्तरि सि० कौ०।

सद्वृत्त = न० वृत–भावे क्त्व कर्म०। १ साधुस्वभावे जटा० २ साधुवर्त्तने। ६ ब०। ३ सच्चरितृयते त्रि०। “सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यते” इति ति० त०।

सद्वृत्ति = स्त्री कर्म०। १ उत्तमचरित्रे २ उत्तमव्याख्यानरूपे ग्रन्थं च सती वृत्तिः यस्य। ३ सद्वृत्तियुते त्रि० “सद्वृत्तिः सन्निबन्धनति माध०।

सधर्म्मन् = त्रि० समानो धर्मोऽस्य अनिच समा० समानस्य सः। सदृशे स्त्रियां वा डाप्।

सधर्म्मचारिणी = स्त्री सह धर्मं चरति चर–णिनि। सहधर्मकारिण्यां भार्य्यायां हला०।

सधर्मिन् = त्रि० समानं धर्मं चरति इनि। १ तुल्यधर्मचरणकर्त्तरि। स्त्रिया ङीप्। सा च २ पत्न्याञ्च हमच०

सधवा = स्त्री सह धवेन सहस्य सः। जीवत्पतिकायां स्त्रियां जटा०

सधि = पु० साधयति साधि–इन् पृषो० ह्रस्वः। वह्नौ त्रिका०।

सधिस् = पु० सह–इसिन् हस्य धश्च। वृषभे सि० कौ०।

सध्र्यच् = त्रि० सह–अञ्चति अनच–क्विप् सहस्य सध्रिः। १ सहचरे अमर सत्वे सध्राचः। स्त्रियां ङीप् सध्रीची सा च २ भार्य्यायां ३ सख्याञ्च हेमच०।

सन = पु० सन–अच। १ धण्टापारुलिवृक्षे। २ हस्तिकर्णास्फाले शब्दच०।

सनक = पु० सन–वुन्। ब्रह्मणो मानसपुत्त्र मुनिभेदे

“भगवद्ध्यानपूतेन मनसाऽन्यांस्तताऽसृजत्। सनकञ्च सनन्दङ्क सनातनमथात्मभूः। सनत्कुमारञ्च मुनीन् निष्क्रियानूर्द्ध्वरेतसः। तान् वभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः!। तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः” भाग० ३ १३ अ० “धर्मस्य भार्य्या हिंसाख्या तस्यां पुत्रचतुष्टयम्। सम्प्राप्तंमुनिशार्दूलं योगशास्त्रविचारकम्। ज्येष्ठः सनत्कुमारोऽभूत् द्वितीयश्च सनातनः। तृतीयः सनको नाम चतुर्थश्च सनन्दनः” वामनपु० ५ ७। ५ ८ अ० उक्ते धर्मपुत्रभेदे।

सनत = पु० सन–अति। १ चतुर्मुखे ब्रह्मणि त्रिला० सदेत्यर्थे अव्य० रामाश्रमः।

सनत्कुमार = पु० ६ त०। ब्रह्मणः पुत्त्रे मुनिभेदे अमरः। तस्य नित्यकुमारत्वादपि तन्नामता यथोक्तम् “सृष्टेः पूर्वञ्च वयमा यथैव पञ्चहायनः। अचूडोऽनुपवीतश्च वेदसन्ध्याविहीनकः। कृष्णेति मन्त्रं जपति यस्य नारायणो गुरुः। अनन्तकालकल्पञ्च भ्रातृभिश्च त्रिभिः सह। वैष्णवानामग्रलीशो चानिनाञ्च गुरोर्गुरुः ब्रह्मव० श्रीकृष्णजन्मख० १२९ अ०।

सनन्द = पु० सह नन्देन। १ सनकशब्दाक्ते मुनिभेदे २ आनन्दयुक्ते त्रि०।

सनपर्णी = स्त्री सनस्येव पर्णान्यस्याः ङीप्। असनपर्ण्यां शब्दच०

सनसूत्र = न० शणस्य सूत्रमस्त्यस्य अच् पृषो०। मत्स्यवारणार्थं शणसत्रकृते जाले अमरे पाठान्तरम्।

सना = अव्य० सदा–नि० दस्य नः। सदेत्यर्थे अमरः।

सनातन = त्रि० सदा + भवार्थे ट्युल् तुट् च नि० दस्य नः। १ सदाभवे नित्ये वस्तुनि अमरः। २ निश्चल विश्वः। स्त्रियां ङीप्। सा च ३ दुर्गायां “सर्वकाले सना प्रोक्ता विद्यमाने तनीति च। सर्वत्र सर्वकालेषु विद्यमाना सनातनी ब्रह्मवै० प्र० ५४ अ०। तन्नामनिरुक्तिः। ४ सरस्वत्यां ५ लक्ष्म्याञ्च शब्दमा०। ६ शिवे ७ विष्णौ ८ ब्रह्मणि ९ दिव्यमनुष्य ब्रह्मणोमानसपुत्रभेदे १० पितॄणामतिथौ च पु० हेमच०।

सनात् = पु० सना नित्यमतति अत–क्विप्। विष्णौ विष्णुस० सदत्यर्थे अव्य० अमरटीकायां रामाश्रमः।

सनाथ = त्रि० सह नाथेन सहस्य सः। १ युक्ते २ जीवद्भर्तृकस्त्रया स्त्री।

सनाभि = पु० समाना नाभियस्य। १ ज्ञातौ अमरः। तस्य एकदेहोत्पन्नत्येन तुल्यनाभितया तथात्वम्। २ मध्ययुक्ते ३ स्नेहयुक्ते ४ तुल्ये च त्रि० मेदि०।

सनामक = पु० सना सदा अमयति अम–ण्वुल्। १ शोभाञ्जनवृक्षे शब्दच०। तस्य पत्त्रादिभोजनस्य रोगहेतुत्वात्तथात्वम्। सह नाम्ना कप। २ नाभयुक्ते त्रि०।

सनि = पु० सन–भाव इन्। १ पजायां २ दाने च सि० कौ०। ३ सतकारपूर्वकनियोगे पुंस्त्रीं० अमरः स्त्रियो वा ङीप्। ४ ङीबत्तः हस्तिकर्णास्फाले शब्दर० ५ दिशि स्त्री शब्दमा०

सनित = त्रि० सन–बा० इत। प्रतिपन्ने हेमच०।

सनिष्ठी(ष्ठे)व = ने० सह निष्ठी(ष्ठे)वेन। १ समुखच्युतवारिकणे मथूत्कारे अमरः।

सनीड = त्रि० समानं नीडं सह नीडेन वा सादेशः। १ निकटस्थे अमरः। २ नीडयुक्ते त्रि०।

सन्त = पु० सन–बा० त। सहतले शब्दर०।

सन्तत = न० सम् + तन–क्त। १ मतते निरन्तरे। २ नैरन्तर्य्य युते त्रि० अमरः ३ विस्तीर्णे च।

सन्तति = स्त्री सन्तन्यते सम् + तन–क्तिच्। १ गोत्रे अमरः। २ पुत्रे ३ कन्यायाञ्च विश्वः। भावे क्तिन्। ४ विस्तारे ५ प ङक्तौ ६ अविच्छिन्नधःरायाञ्च विश्वः। मलतिश्च दैशिकी कालिकी च। तत्र दैशिकी तैलादीनां, कालिकी ज्ञानसुखादीनाम्। तत्र दैशिकसलतित्वं स्वाधिकरणदेशीयनानावच्छेदकवृत्तिधर्मत्वं तच्च मूर्त्तानामेव कालिकसलतित्वञ्च नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्, मुक्तिवादे गङ्गेशः तच्च मूर्त्तामूर्त्तयोरत एव वृक्ष दु स्वज्ञानादिसन्ततिर्भवतीति तदुक्तं तत्रैव “दैवदत्तवृत्तिदुःखत्वं दुःखत्वं वा स्वाश्रयसमानकालीनध्वं सप्रतियोगिवृत्ति कार्य्यंमात्रवृत्तिधर्मत्वात् सन्ततित्वाद्वेत्युक्त्वा सन्ततित्वं च नानाकालीनकार्य्यमात्रवृत्तिधर्मत्वम्” इत्युक्तम्।

सन्तप्त = त्रि० सम् + तप–क्त। १ अध्वगत्यादिना परिश्रान्ते २ अग्नितप्ते ३ तेन विशुद्धे च “सन्तप्तचामीकरवल्गु वज्र” मिति भट्टिः।

सन्तमस = न० सन्ततं तमः प्रा० स० अच् समा०। १ गाढान्धकारे अमरः। २ महामोहे च मोहस्य सर्वौपरत्वात् तमस्त्वेन महामोहस्य गाढान्धकाररूपत्वात्तथात्वम्।

सन्तर्पण = न० सन्तृप्यत्यनेन सम् + तृप–करणे ल्युट्। “द्राक्षा दाडिसखर्जूरीशर्करामधुसंयुतम्। लाजाचूर्णन्तु साज्यं यत् तच्च सन्तर्पणं बिटुः” राजनि० उक्ते द्राक्षादिभिर्युते लाजाचूर्णे खाद्यभेदे। सम् + तृप–णिच् ल्यु। २ सम्यकतर्पके त्रि०।

सन्तान = पु० सम् + तन–घञ्। १ वंशे अन्वये अमरः। २ कल्पवृक्षे ३ अपत्ये ४ विस्तारे च मेदि०।

सन्तानिका = स्त्री सम + तन–ण्वुल् टाप् अत इत्त्वम्। १ क्षोरसरै “सन्तानिका गुरुः शीता द्रव्याः पित्तास्रवातजित्” राजव०। २ मर्कटजले ३ केमे ४ छुरिकाफले च हारा०।

सन्ताप = पु० सम्यक् तापः प्रा० स०। १ वह्निजाते तापे अमरः। २ सम्यव्यतापे च।

सन्तापन = पु० सलापयति सम् + तश्–णिच्–ल्यु। कामदेश्म १ पञ्चशरान्तर्गते शरभेदे त्रिका०। २ सन्ताषकारक स्त्रि०।

सन्ति = स्त्री सन–ति। १ टापे २ अवमाने च मुग्धषोटीका।

सन्तोष = पु० सम + तुष–करणादौ घञ्। १ धैर्य्ये २ स्व स्यो घ हेमचः। ३ सम्यक्तुष्टौ “सन्तोषमूलं हि सुखम्” मनुः।

सन्दंश = पु० सम् + दन्श–अच्। (सा~डाशो) यन्त्रमेदे हेमच०।

सन्दंशपतित = पु० सन्दगे तन्मध्ये पतित इव। मीमांसकोक्ते न्यायभेदे न्यव्यशब्दे ४१६६ पृ० दृश्यग।

सन्दर्भ = पु० सम् + दृभ–घञ्। १ रचनायां हला०। २ ग्रघते ३ पबन्धे त्रिका० “गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठवा गिरा। नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते घुधै” इत्युक्ते ४ कथमभेदे ५ वक्तृतात्पर्य्यविशेषे च।

सन्दान = न० मम् + दो–करणादौ ल्युट्। १ दाम्नि २ बन्धने अमरः ३ सम्यक्खण्डने च। दा–ल्युट्। ४ सम्यग्दाने न० ५ गजस्याष्ठीवतोरधोभागे पु० त्रिका०।

सन्दानिका = स्त्री सन्दानं संखण्डतमस्त्यस्य ठत्। विट्खादरे राजनि०।

सन्दानित = त्रि० सन्दानं जातमस्य तार० इतच्। बद्वे अमर “रशनामन्दानितचरणे” ति मालविकाग्निमित्रम्।

सन्दानिनी = स्त्री सन्दानं बन्धनं गवामत्र बा०। इनि ङीप्। गाशालायाम् हमच०।

सन्दाव = पु० सम् + द–भावे घञ्। पलायने अमरः।

सन्दाह = पु० सम् + दह–करणादा घञ्। १ मुखादिशोषे राजनि०। २ सम्यगदाहे च।

सन्दिग्ध = त्रि० सम + दिह्–कर्त्तरि क्त। १ सन्देहयुक्ते। कर्मणि क्त। २ सन्देहविग्रये ३ सम्यगलिप्ते च। भावे क्त। ४ मन्देहे ५ संलेप च।

सन्दित = त्रि० सम + दो–क्त। बद्धे अमरः।

सन्दिष्ट = न० सम् + दिश–भावे क्त। १ वाचिकार्थकथने वार्त्तायाम शब्दर०। कर्मणि–क्त। २ उपटिबे त्रि०।

सन्दिहान = त्रि० सम् + डिह–शानेच्। सन्देहयुक्ते जटा०।

सन्दी = स्त्री सम् + दो–ड गौरा० ङीष्। खट्वायां त्रिका०।

सन्दीप्य = पु० मन्दीप्यतेऽसौ सम् + दीप–कर्त्तरि श। गयूरशिखावृक्षे शब्दच०।

सन्देश = पु० सम् + दिश–घञ्। वाचिकाथकथने वार्त्तायाम् अमरः। “मदर्थसन्देशमृणालमन्थरः” नैष०।

सन्देशहर = पु० सन्देशं हरति अभीष्टस्थानं कथनाय नयति हृ–अच्। १ दूते “तवैव सन्देशहरादिति” रघुः। ण्वुल्। सन्देशहारकोऽप्यत्र।

सन्देह = पु० सम् + दिह–घञ्। १ सशयशब्दस्यार्थे अमरः। २ अलङ्कारभेदे अलङ्कारशब्दे ४०५ प० दृश्यम्। सन्देहविशेषश्च पक्षतेत्याचार्य्याः स च प्रकृतपक्षविशेष्यकसाध्यबत्तानिश्चयप्रतिबन्धकतानिरूपितप्रतिरुध्यताशातिसंशयः।

सन्दोह = पु० सम् + दुह–घञ्। १ समूहे अमरः। २ सम्यग्दोहे कर्मणि घञ्। ३ दुग्धे च “सन्दोहश्चाष्ठमेऽहनि” मिता०।

सन्द्राव = पु० सम् + द्रु–घञ्। पलायने अमरः।

सन्धा = स्त्री सम् + धा–अङ्। १ स्थितौ २ प्रतिज्ञायां मेदि०। ३ सन्धाने सुरोत्पादनानुगुणे व्याप रभेदे शब्दर० ४ अनुसन्धाने ५ सन्ध्यायां वाचस्पतिः।

सन्धान = न० सम् + धा–ल्युट्। १ सुरादिसम्पादनानुगुणे व्या पारे २ सोमरसकण्डनात्मके अभिषवे ३ अनुसन्धाने ४ सङ्घट्टने च मेदि०। मन्धाने स्त्रीत्वमपि तत्र ङीप्। सा च ५ कुप्यशालायां शब्दर०। संघट्टनं च योजनम्। “यदर्द्धे विच्छिन्नं भवति कृतसन्धानमिव तत्” शकु०। ५ काञ्जिके हला०। ६ मदिरायाम् ७ अवदंशे ६ सौराष्ट्रे राजनि० ९ धनुषि शरस्य योजने च।

सन्धि = पु० सम् + धा–कि। १ नृपाणां षड्गुणान्तर्गते मेलनार्थं मैत्रीकरणरूपे व्यापारे षाडगुण्यान्तर्गतसन्धिविषयादिकं शुक्रनीतिपरि० उक्तं यथा “बलीयषाऽभियुक्तस्त नृपोऽनन्यपतिक्रियः। आपन्नः सन्धिमन्त्रिच्छेत् कुर्वाणः लाकयापुनम्। एक एवोपहारस्तु सन्धिरेष मतो हितः। उपहारस्य भेदास्तु सर्वेऽन्ये मैत्रवर्जिताः। अभियोक्ता बलीयस्त्यादलब्ध्वा न निवर्त्तते। उपहारावृते यस्मात् सन्धिरेष न विद्यते। शत्रोर्बलानुसारेण उपहारं प्रकल्पयेत्। सेवां वापि च स्त्रीकुर्य्याद् दद्यात् कन्यां भुवं धनम्। स्वसामन्तांश्च सन्धीयात् मन्त्रेणान्यजवाय वै। सन्धिः कार्य्योऽप्यनार्य्येण संप्राप्योत्साढयेद्धि सः। सैघातवान् यथा वेणुर्निविडैः कण्टकैर्वृतः। न शक्यते समुच्छेत्तुं वेणुः संघातवांस्तथा। सन्धिश्चातिबले, युद्धं साम्ये, यानन्तु दुर्बले। बलिना सह सन्धाय मये साधारणे यदि”। “आत्मानं गोपयेत् काले बहुमित्रेषु बुद्धिमान्”। “राजा न गच्छेद्विश्वासं स- न्धितोऽपि हि बुद्धिमान्। अद्रोहसमयं कृत्वा वृत्तमिन्द्रः सदाऽबधीत्”। “सन्धायान्यत्र यात्रायां पार्ष्णिग्रहेण शत्रुणा। सन्धाय गमनं प्रोक्तं तज्जिगीषोः फवार्थिनः”। तद्भेदलक्षणादिकं हितोपदेशे न्यरूपि यथा “कपाल उपहारश्च सन्तानः सङ्गतस्तथा। उपन्यासः प्रतीकारः संयोगः पुरषान्तरः। अदृष्टनर आदिष्ट आत्मादिष्ट उपग्रहः। परिक्रयस्तथोच्छिन्नस्तथा च परभूषणः। स्कन्धोपनेयः सन्धिश्च षाडशैते प्रकीर्त्तिताः। इति षोडशकं प्राहुः सन्धिं बन्धिविचक्षणाः। कपालसन्धि १ विंज्ञेय, केवलं समसंज्ञितः। सम्प्रदानाद्भवति य उपहार २ स उच्यते। सन्तानसन्धि ३ र्विज्ञेयो दारिकादानपूर्वकः। सद्भिस्तु सङ्गतः ४ सन्धिर्यैत्रीपूर्व उदाहृतः। यावदायुःप्रमाणस्तु समानार्थप्रयोलनः। सम्पत्तौ वा विपत्तौ वा कारणैर्यो न भिद्यते। सङ्गतः सन्धिरेवायं प्रकृष्टत्वात् सुवर्णवत्। तधान्यैः सन्धिकुशलैः काञ्चनः स उदाहृतः। द्रव्यात्मकार्य्यसिद्धिं तु समुद्दिस्य क्रियेत यः। स उपन्यासकुशलैरुपग्याह ५ उदाहृतः। पश्चास्तोपकृतं पूर्वं भमाप्येष करिष्यति। इति यः क्रियते सन्धिः प्रतीकारः ६ स उच्यते। उपकारं करोप्यस्य महाप्येष करिष्यति। अयं चापि प्रतीकारो रामसुग्रीवयोरिव। एकार्थां सम्यगुद्दिश्य क्रियां यत्र हि गच्छति। सुसंहितप्रयाणस्तु स च संयोग ७ उच्यते। आवयोर्बोधमुख्यैस्तु मदर्थः साध्यतामिति। यस्मिन् पणस्तु क्रियते स सन्धिः पुरुषान्तरः ८। त्वयैकेन मदीयोऽर्थः सम्प्रसाध्यस्त्वसाविति। यत्र शत्रुः पर्ण कुर्य्यात् सोऽदृष्टपुरुषः ९ स्मृतः। यत्र भूम्येकटेशेन प्रणेन रिपुवर्त्तितः। सन्धीयते सन्धिविद्भिः आदिष्टः १० स उदाहृतः। स्वसैन्येन तु सन्धानमात्मादिष्ट ११ उदाहृतः। क्रियते प्राणरक्षार्थं सवदानादुपग्रहः १२। कोषांशेनार्द्धकोषेण सर्बकोषेण वा पुनः। शिष्टस्य प्रतिरक्षार्थं परिक्रय १३ उदाहृतः। भुवां सारवतीनां तु दानादुच्छिन्न १४ उच्यते। भूम्युत्थफलदानेन सर्वेण परभूषणः १५। परिच्छिन्नं फलं यत्र प्रतिस्कन्धे दीयते। खन्धोपनेयं १६ तं प्राहुः सन्धिं सन्धिविचक्षणाः। परस्परोपकारस्तु मैत्री सम्बन्धकस्तथा। उपहारश्च विज्ञेयश्चत्वारश्चैव सन्धयः। एक एवोपहारश्च सन्धिरेव मतो मम। उपहारविभिन्नास्तु सर्वे मैत्राववर्जिताः। अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्त्तते। उपहाराद्दते तस्मात् सन्धिरन्थो न विद्यते”। सन्धिलक्षणादिकं युक्तिकल्पतरौ प्रदर्शितं यथा “पणबन्धा भवेत् सन्धिः स्वयं हीनस्तमाचरेत्। मर्य्यादोल्लङ्घनं नास्ति यदि शत्रोरिति स्थितिः। मर्य्यादोल्लङ्घनं यत्र शत्रो संशयितं भवेत्। न तं संशयितं कुर्य्यादित्युवाच वृहस्पतिः”। षाड्गुण्यशब्दे ५१७९ पृ० दृश्यम् २ संयोगे अमरः। ३ अस्थिद्वयसंयोगस्थाने ४ चौरादिकृत सुरङ्गायां सन्धिं कृत्वा तु ये चौर्य्यमिति” स्मृतिः। ५ भगे ६ सङ्घट्टने ७ नाटकाङ्गविशेषे ८ सविकाशे मेदि० ९ व्याकरणोक्ते वर्णद्वयजाते १० वर्णविकारभेदे ११ भेदे विश्वः। नाटकाङ्ग सन्धिश्च “अन्तरैकार्थसम्यन्धः सन्धिरेकान्वये सति”। एकार्थेन सम्बन्धः सन्धिः। तद्भेदानाह “मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते” सा० द०। सुखादिलक्षणम् तत्तच्छब्दे दृश्यम्। १२ सत्यादियुगानामाद्यन्तयोः कालयोः सन्ध्याशब्दे दृश्यम् “ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश। कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः” मनुः। तेन सन्धिसन्ध्यंशसहितं सत्ययुगमानम् ४८०० दैववर्षाः। “कृताव्दसङ्ख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः। तत्र युगानामादौ सन्धिः अन्ते सन्ध्यंश। मन्वन्तराणामादौ सन्धिः कल्पानामन्ते सन्धिरिति भेदः। १३ तिथ्यादेराद्यन्तभाग भेदे च उपयमशब्दे १२५८५९ पृ० दृश्यम्।

सन्धिका = स्त्री स्वार्थे क। मद्यसन्धाने शब्दच०।

सन्धिचौर = पु० सन्धिना कृतसुरङ्गया चौरः। सन्धिं कृत्वा चौर्य्यकारके (सि~धेल) शब्दमाला।

सन्धिजीवक = पु० सन्धिना अभिसन्धिना जीवति जीव–ण्वुल् शाट्येन परार्थहारके त्रिका०।

सन्धित = त्रि० सन्धा जाताऽस्य तार० इतच्। १ कृतसन्धे २ मिलिते च।

सन्धिनी = स्ती सन्धा वृषभसंयोगस्तज्जगर्भोऽस्त्यस्याः इनि ङीप्। १ वृषभसंयोगेन धृतगर्भायां स्त्रीगव्याम् अमरः। २ अकालदुग्धायां गवि मेदि०। तद्दुग्धपाननिषेधः “न पिवेत् सन्धिनीक्षीरम्” स्मृतिः।

सन्धिपूजा = स्त्री सन्धौ अष्टम्याः शेषे नवम्याश्च आद्ये दण्डे पूजा। आश्विनशुक्लाष्टमीनवमीसन्धिकाले विहितपूजायाम् “अष्टमी नवभीसन्धौ तृतीया खलु कथ्यते। तत्र पूज्या त्वहं पुत्र! योगिनीगणसंयुता”। ज्योतिषे “अष्टम्यां सन्धियोगे सकलपरिजनैः पूजयेत् सत्वभावैः”। कामरूपीय निबन्धे स्मृतिसागरे च “अष्टम्याः शेषदण्डश्च नवम्याः पूर्व दव च। अत्र या क्रियते पूजा विज्ञेया सा महा- कला” मत्स्यसूक्तेऽपि “अष्टमीनवमीयोगो रात्रिभागे विशिष्यते। अर्द्धरात्रे दशगुणं सन्ध्यायां त्रिगुणं भवेत्”। आश्विनाधिकारे “अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता। अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः”। इति विष्णुधर्मोत्तरीयमप्ये तद्विषयं न तु महानवमीपूजापरम्। तस्या अष्टम्युववासपरदिनबिधानेन सप्तमीवद्युग्मानादरात्। ततश्च सप्तमीपूजावन्महाष्टम्यादिकृत्यमपि षष्टिदण्डात्मिकायामेव न तु परदिवसीय खण्डतिथौ किन्तु पूर्वोक्तसन्ध्यनुरोधान्निशादावित खण्डतिथावपि सन्धिपूजेति। एवञ्च यस्मिन् दिने महाष्टमीपूजा तस्मिन् दिन एव उपवासः। न तु सन्धिपूजा दिने अष्टमीत्वेनोपवासविधेः पूर्वमुक्तत्वात्। एवञ्च पूर्णाष्टम्यामष्टमीपूजा ततपरदिने अष्टमीनवम्योः सन्धौ सन्धिपूजा तत्परदिने महानवमीपूजा प्रागुक्तनन्दिकेश्वरपुराणाद्युक्तोदय्गामितिथ्यनुरोधात् तत्परदिने दशम्यां विसर्जनं पूजानुरोधेनाधिकदिनलाभात्” ति० त०।

सन्धिबन्ध = पु० सन्धिं बध्नाति संयुनक्ति सम् + बन्ध–अच् १ १ भूमिचम्पके शब्दच०। तत्सर्वने हि भग्नसन्धियोजनं वैद्यके प्रसिद्धम्। २ नृपाणां सन्ध्यर्थनियमवन्धने च।

सन्धिला = स्त्री सन्धिं लाति ला–क। १ नद्यां स्वार्थे लच्। २ सुरङ्गायां ३ मदिरायाञ्च मेदि०।

सन्धिविग्रहाधिकारिन् = पु० सन्धिविग्रहेषु अधिकरोति अधि + कृ–णिनि। नृपाणां सन्धिविग्रहाद्यधिकारिणि मन्त्रिभेदे।

सन्धिवेला = स्त्री सन्धियुक्ता वेला समयः। अहोरात्रसन्धिसमये। सन्ध्याशब्दे दृश्यम्। ततः सन्धिवेलादि० भवार्थे अण् नकालाट्ठञ्। सान्धिवेल तत्र भवे त्रि०।

सन्धिहारक = पु० सन्धिनां सुरङ्गया हरति परद्रव्यम् हृण्वुल्। सन्धिचौरे (सि~धेल) हारा०।

सन्धुक्षित = त्रि० सम् + धुक्ष–क्त। उद्दीपिते।

सन्धेय = त्रि० सम् + धा–यत्। १ संयोज्ये २ मेलनीये ३ सन्धिकरणयोग्थे च सन्धेया असन्धेयाश्च हितोप० दर्शिता यथा “सत्यार्य्यौ धार्मिकोऽनार्य्यो भ्रात्रमङ्घातवान् नली। अनेकयुद्धविजयी सन्धेयाः सप्त कीर्त्तिताः। सत्योऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम्। पाणनाशेऽपि सुव्यक्तमार्य्यो २ नायात्यनार्य्यताम्। धार्मिकस्या ३ मियुक्तस्य सर्व एव हि युज्यते। प्रजानुरागाद्धर्माच्च दुःखच्छेद्यो हि धार्मिकः। सन्धिः कार्य्योऽप्यनार्य्येस्त० विनाशे समुपस्थिते। विना तस्याश्रयेणान्याः कुर्वान्न कालयापनम् सहतत्वाद्यथा वेणुर्मिविदः। कण्टकैर्वृतः। न शक्यते समुच्छेत्तुं भ्रानसङ्घातवां ५ स्तथा। बलिना ६ सह योद्धप्यनिति नास्ति निदर्शनम्। प्रतिवातं न हि समः कद चिटूपसर्पति। जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वटा अनेकयुद्धजयिनः ७ प्रतापादेव भुज्यते। अनेकयुद्धविजयो सन्धानं यस्य गच्छति। तत्प्रतापेन तस्माशु वशमायान्ति शत्रवः”। बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः। भीरुके भीरुकजनो लुब्धी लुब्धजनस्तथा। विरक्तप्रकृतिश्चैव विषयेष्वतिशक्तिमान्। अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः। दैवोपहतकसेव दैवचिन्तक एव च। दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः। अदेशस्थो अदेशस्थो बहुरिपुर्युक्तः कालेन यश्च न। सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी एतेः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम्। एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर्वशम्” स्त्री सम्+ध्यै-अङ् गनॣऔ भवः यत् वा। १ एकरूपकालोत्तरभाविपररूप कालयोरवकाशभेदे दिवारांत्रस्य २ मध्यवर्त्तिकाले अमरः। स च दिवाशेषदण्डसहितरात्रिप्रथम दण्डात्मकःकालः तयोश्चतुर्दण्डात्मकः कालश्च “त्रियामां रजनीं पाहुस्त्यक्त्वाद्यन्तचतुष्टये। नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” इति दक्षः। “अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः। सा च सन्ध्या समाख्यातेति” स्मृतिः। ३ सायाह्ने ४ सन्ध्याकाले उपास्यदेवताभेदे ५ तदुपासनायाम् व्यासः। “सन्ध्यामुपासते ये तु नियतं शंसितब्रता” इति स्मृतिः “प्रातः सन्ध्यां ततः कृत्वा सङ्कल्पं बुध आच रेत्” स्मृतिः। “अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः”। “एतत् सन्ध्यात्रयं प्रोक्तं ब्राह्म्णाय यदधिष्ठितम्। यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते” छन्दोगप०। “अनागतान्तु यः पूर्वां सादित्याञ्चैव पश्चिमाम्। नोपासित द्विजः सन्ध्यां स प्रष्ठोऽब्रह्माणः स्मृतः” शाता० अत्र सन्ध्यात्रयस्य नित्यत्वाभिधानात् “सर्वकालमुपस्थानं ग न्ध्यायाः पार्थिवेष्यते। अन्यत्र सूतकाशौचविभ्रमातुरपोतितः” इति विष्णुपुराणीये सन्ध्याया इत्येकवचनालपाठो गर्मकोषोक्तो युक्तः। एवमेव नव्यवर्द्धमानः। सर्वकालं प्रातर्मध्याह्नसायरूपकालत्रये। अन्यथा तदुपारानं व्यर्थं स्यात् विभ्रमश्चित्तविक्षेपः। तन क्षतादावपि सन्ध्यामाचरन्ति अत एव याज्ञवलक्यः “सर्वावस्थोऽपि यो विप्रः सनन्ध्य्योपासनतत्परः। ब्राह्मण्याच्च न हीयते व्यन्त्यजन्मगतोऽपि सन्”। सवावस्या नित्यं सेवकादिकर्मरतोऽपि। यथोचितशौचेत्यशक्तोऽपीति रत्नाकरः। अन्धाद्यवस्थापन्नोऽपीति युक्तम्। सन्ध्यात्रयसाधारणलक्षणमाह योगियाज्ञवलक्यः “त्रयाणाञ्चैव देवानां ब्रह्मादीनां समागमः। सन्धिः सर्वसुराणाञ्च तेन मन्थ्या प्रकीतिता” सन्ध्याद्वयकालस्तु अहोरात्रसम्बन्धिमुहर्तात्मकः। तथाच दक्षः “अहोरात्यस्य यः सन्धिः सूर्य्य० क्षत्रवर्जितः। सा च सन्ध्या समाख्याता मुनिमिस्तत्त्वः। दिभिः” सूर्य्यनक्षत्रवर्जितः अर्द्धास्तमितार्द्धोदितसूर्य्यमण्डलप्रकृष्टतेजौनक्षत्रवर्जितः। तथा च वराहः “अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता व तारका यावत्। तेजःपरिहानिरूपा भानारर्द्धोदयं यावत्”। अत्र आद्यन्तता उक्ता परिमाणमाह दक्षः “रात्र्यन्तकाले नाड्यो द्वे सन्ध्यादिः काल उच्यते। दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः। नाडी दण्डः योगियाज्ञवल्क्यः “ह्रासवृद्धी च सततं दिनरात्र्योर्यथाक्रमम्। सन्ध्या मुहूर्तमाख्याता ह्रासवृद्धौ समा स्मृता। अत्रोपासनाया अपि सन्ध्यात्वमाह व्यासः “उपास्ते सन्धिवेलायां निशाया दिवसस्य च। तामेव सन्ध्यां तस्मात्तु प्रवदन्ति मणीषिणः”। उपास्ते यद् वक्ष्यमाणप्राणायानादिक्रिययेति यावत्। तत्काले उपास्यापि देवता सन्ध्या तथा च याज्ञवलक्यः “सन्धौ सन्ध्यामपासीत नास्तगे नोद्गते रवौ”। उपासनोपक्रममाह संवर्त्तः “प्रातः सन्ध्यां सनक्षवामुपासीत यथाविधि। सादित्यां पश्चिमां सन्ध्यां अर्द्धास्तमितभास्क राम्”। सनक्षत्रामित्यनेन तद्युक्तकाले उपक्रम्य प्रातः सन्ध्यामुपासीत एवमवार्द्धास्तमितभास्करारब्धां पश्चिमां सादित्यामित्यनेन तद्युक्तकाले उपक्रम्य उपासोतेत्यर्थः। मध्याह्नसन्ध्याया अष्टममुहूर्त्तं कालमाह स्मृतिः “पूर्वापरे तथा सन्ध्ये सनक्षत्रे प्रकीर्त्तिते। समसूर्य्येऽपि मध्याह्ने मुहूर्त्ते सप्तमोपरि”। साङ्ख्यायनगृह्यम् “अरण्ये समितपाणिः सन्ध्यामुपास्ते नित्यं वागयत उत्तरापराभिमुखोऽन्वष्टमदिशमानक्षत्र० दर्शनात् अतिक्रान्तायां महाव्याह्वतीः सावित्रीं स्वस्त्ययनादि जप्त्वा एवं प्रातः प्राङ्मुखस्तिष्ठन् आमण्डलदर्शनादिति”। उत्तरपिराभिमुखो वायुकोणाभिमुखः कोणं विवृणोति अन्वष्टममिशमिति। उभयदिगष्टमभाग- मिति यावत् आ० त०। अधिकं गायत्रीशब्दे दृश्यम्। ६ युगसन्धिकाले ७ नदीभेदे मेदि०। ८ ब्रह्मपत्नीभेदे स्त्री। ९ चिन्तायां १० संश्रवे ११ सीमायां १२ सन्धाने १३ पुष्पभेदे हेमच० “चत्रार्य्याहुः सहस्राणि वर्षाणान्तुकृतं युगम्। तस्य तावच्छती सन्ध्यां सन्ध्यांशश्च तथाविधः। इतरेषु समन्ध्येषु ससन्ध्यांशेषु च त्रिषु। एकापायेन वर्त्तन्ते सहस्राणि शतानि च” मनुः। चत्वार्य्याहुरिति चत्वारि वर्षसहस्राणि कृतयुगं कालं मन्वादयो वदन्ति। तस्य तावद्वर्षशतानि सन्ध्या सन्ध्यांशश्च भवति युगस्य पूर्वा सन्ध्या उत्तरश्च सन्ध्यांशः। तदुक्तं विष्णुपुराणे “तत्प्रमाणैः शतैः सान्ध्या पूर्वा तत्राभिधीयते। सन्ध्यांशकश्च तत्तुल्यो युगस्यानलरोहि सः। सन्ध्यासन्ध्यांशयोरन्तर्य्यः कालो मुनिसत्तम। योगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः” एकापायेनेति। त्रीणि सहस्राणि त्रेतायुगं त्रीणि शतानि तस्य सन्ध्या सन्ध्याशथ द्वे सहस्रे द्वपरयुग द्वे शते तस्य सन्ध्या सन्ध्यांशथ। एकसहस्रं कलियुगमेकशतं तस्य मन्ध्या सन्ध्यांशश्च भवतीत्यर्थः। १४ प्रबोधसम्प्रसादयोः सन्धिभवे स्वप्ने “सन्ध्ये सृष्टिराह हि” शा० सू० “सन्ध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् “सन्ध्यं तृतीयं स्वप्नस्थानम्” द्वयोर्लोकस्थानयोः षबोधसम्प्रसादस्थानयोः सन्धो भवतीति सन्ध्यम्” भा०। “तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदञ्च परलोकस्थानञ्च” रत्नप्र० श्रुतिः मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवे सति वामनामात्रेण इम लोकं स्मरतः कर्मवशात् हृदये मानसं परलोकस्फूर्त्तिरूपः स्वप्नो भवति सोऽयं लोकद्वयसन्धो भवतीति सन्ध्यः स्वप्नः” रत्नप्र०।

सन्ध्यांश = पु० सन्ध्या तत्प्रमाणः सत्ययुगादेरंश। सत्ययुगादेरंशभेदे तत्प्रमाणम् सन्ध्याशब्दे मनूक्तम् दृश्यम् “सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच चतुर्युग” मिति मनुः।

सन्ध्याचल = पु० “सन्ध्यां वशिष्ठः कृतवान् तत्र तस्माद्वथेः सुतः। ततः सन्ध्याचलं नाम तस्य गायन्ति देवताः कालिकाप० ५० अ० निरुक्ते पर्वतभेदे।

सन्ध्यानाटिन् = सन्ध्यायां नटति नट–णिनि। १ शिवे त्रिका०

सन्ध्यापुष्पी = स्त्री सन्ध्यायां पुष्पमस्याः ङीप्। जातिवृमे राजनि०।

सन्ध्याबल = पुंस्त्री० सन्ध्याया सन्ध्योपलक्षिते रात्रिकाले बल यस्य। रात्री बलयुक्तं राक्षसे त्रिका० स्त्रियां ङीप्।

सन्ध्याभ्र = पु० सन्ध्याकालीनमभ्रमिव। १ सुवर्णगैरिके राजनि०। २ सन्ध्याकालीनमेघे च।

सन्ध्याराग = पु० सन्धाया इव रागोऽस्य। १ सिन्दूरे राजनि०। ६ त०। सन्ध्याकालीने २ रक्तवर्णे च।

सन्ध्याराम = पु० सन्ध्यायां तदाख्यभार्य्यायां रमते रमसंज्ञायां कर्त्तरि घञ्। चतुर्मुखे ब्रह्मणि शब्दमा०।

सन्न = पु० सीदति सद–क्त। १ पियालवृक्षे भरतः। २ अवसन्ने त्रि० स्वार्थ क। खर्वे भरतः।

सन्नकद्रु = पु० सन्न एव सन्नकः कर्म०। १ पियालवृक्षे अमरः। २ खर्ववृक्षे च।

सन्नत = त्रि० सम् + नम–क्त। १ प्रणते २ ध्वनियुते च।

सन्नति = स्त्री सम् + नम–क्तिन्। १ प्रणामे २ ध्वनौ मेदि०। ३ नम्रतायाञ्च। ४ होमभेदे ग च अथ० ४। ३९। एकादिमिरष्टानर्मग्त्रैर्विधेय। तैत्तिरीयव्रा० ३। ९१८५ विहितश्च।

सन्नद्ध = त्रि० सम् + नह–क्त। १ कृतसन्नाहे धृतवर्मणि २ व्यूहरचनयावस्थिते सैन्यादौ मेदि०। ३ आततायिनि रायमु४ मन्त्रादियुक्ते शब्दर०।

सन्नय = पु० सम् + नी–अच्। १ समूहे २ पृष्ठस्थिते–बले च अमरः

सन्नहन = न० सम् + नह–ल्युट्। १ वर्म्मग्रहणे २ उद्योगे ३ सम्यग्बन्धन च।

सन्नाह = पु० सन्नह्यत सम् + नह–कर्मणि घञ्। (सा~जोया) वर्मणिहेमच०। भावे घञ्। संबन्धने।

सन्नाह्य = पु० सम् + नह–ण्यत्। समरोचिते गजे हेमच०।

सन्निकर्ष = पु० सम् + नि–कृष–घञ्। १ सान्निध्ये हमच० “सद्वृत्तसन्निकर्षो हि क्षणार्द्धमपि शस्यतांइति पुराणम् न्यायमते २ विषयेन्द्रियसम्बन्धे ज्ञानलक्षणासामान्यलक्षणायोगजधर्मविशेषात्मके ३ अलौकिकप्रत्यक्षसाधने उपायभेदे च। “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्” गी० सू०। सन्निकर्षो दिविधः लौकिकालौकिकभेदात् लौकिकोऽपि षड्विधः अलौकिकस्तु त्रिविधः यथोक्तं भाषाप्र० “महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम्। विषये न्द्रियसम्बन्धा व्यापारः सोऽपि षड्विधः। द्रव्यग्रहस्तु संयोगात् १ संयुक्तसमवायतः २। द्रव्येषु समवेतानां, तथा तत्समवायतः ३। तत्रापि समवेतानां, शब्दस्य समवायतः ४। तद्वृत्तीनां समवेतसमवायेन ५ तु ग्रहः। विशेषणतया ६ तद्वदभावानां ग्रहो भवेत्। यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते। प्रत्यक्षं समवायस्य विशेषेणतया भवेत्। अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः। सामान्यलक्षणा १ ज्ञानलक्षणा २ योगज ३ स्तथा” भाषा० “यद्यपि विशेषणता नानाविधा तथाहि भूतलादौ घटाभावः संयुक्तविशेषणतया गृह्यते संख्यादौ रूपाद्यभावः संयुक्तसमवेतसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया, कादौ खत्वाद्यभावः श्रीत्रावच्छिन्नसमवेतविशेषणतया। एवं कत्वावच्छिन्नाभावे खत्वाभावादिकं विशेषणविशेषणतया। एवं घटाभावादौ पटाद्यभावः संयुक्तविशेषणविशेषणतया। एवमन्यदप्यूह्यं तथापि विशेषणतात्वरूपेणैकैव सा गण्यते अन्यथा षोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्यतेति” सि० मु०।

सन्निकर्षण = न० सम् + नि + कृष–ल्युट्। सन्निधाने अमरः।

सन्निकृष्ट = त्रि० सम् + नि + कृष–क्त। १ निकटस्थे अमरः २ इन्द्रियसम्बन्धविषये च।

सन्निध = न० सम् + नि + धा–क। १ नैकट्ये वोपालितः। २ समीपस्थिते त्रि०।

सन्निधान = न० सम् + नि + धा–ल्युट्। १ नैकट्ये सामीप्ये हेमच०। २ आश्रये च।

सन्निधि = पु० सम् + नि + धा–कि। १ सामीप्ये अमरः कर्मणि फि। २ इन्द्रियविषये मेदि० कर्म०। ३ साधुनिधौ। ६त०। ४ सतां निधौ।

सन्निपतित = त्रि० सम् + नि–पत–क्त। १ मिलिते २ उपस्थिते ३ मृते च।

सन्निपात = पु० सम् + नि + पत–घञ्। १ मेलने “सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति” व्या० परि०। २ कफादिधातुत्रयस्य वैषम्यरूपत्रिदोषजे ज्वरभेदे ३ नाशे ४ उपस्थितौ च। ५ तालभेदे “एक एव गुरुर्यत्र सन्निपातः स चेष्यते” सङ्गीतदा०। ज्वरभेदसान्निदानभेदादिकं भावप्र० उक्तं यथा “तत्र सन्निपातज्वरस्य विप्रकृष्टसन्निकृष्टकारणकथनपूर्विकां संप्राप्तिमाह “त्रिदोषजनकैर्वातपित्तश्लेष्मामगेहगाः। वहिर्निरस्य कोष्ठाग्निं रसगाज्वरकारिणः”। पूर्वरूपमाह “प्राग्रूपाणि त्रिदोषाणां स्युस्त्रिदोषज्वरे नृणाम्”। अथ सन्निपातज्वरस्य सामान्यानि लक्षणान्याह “क्षणे दाहः क्षणे शातमस्थिसन्धिशिरोरुजा। सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने। सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः। तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः। परिटग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परा। ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च। शिरसो लोठनं तृष्णा निद्रानाशो हृदिव्यथा। स्वेदमूत्रपुरीषाणां चिराद्दर्शनकल्पशः। कृशत्वं नातिगात्राणां सततं कण्ठफूजनम्। कोदानां श्यावरक्तानां मण्डलानाञ्च दर्शनम्। मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च। चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः।” लोचने सास्रावे साश्रुणी कलुषे अस्वच्छे निर्भुग्ने निर्गते कुटिले च कण्ठः शूकैरिवावृतः धान्याग्रैरिवावृतः। जिह्वा परिदग्धा परिदग्धेव ज्ञायते।” अथवा परिदग्धा इव कृष्णा दृश्यते स्रस्ताङ्गतां शिथिलाङ्गता। ष्ठीवनमित्यादि कफसयुक्तस्य रक्तस्य ष्ठीवनं शिरसो लोटनमितस्ततश्चालनं कृशत्वन्नातिगात्राणामिति गात्राणाम् अतिशयितं कार्श्यं न व्याधिप्रभावात् सततं निरन्तरं कोठः। “वरटीदंष्ट्रसंस्थानं कोठ इत्यभिधीयते” श्यावः कपिशो वर्णः। मूकत्वमवचनत्वमल्पवचनत्वं वा स्रोतसां कर्णनासादीनाम्। अथ सामान्यसन्निपातज्वरस्य त्रयोदश विशेषानाह “एकोल्वणास्त्रयस्तेषु द्व्युल्वणाश्च तथेति षट्। त्र्युल्वणश्च भवेदेको विज्ञेयः स तु सममः। प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च षट्। सन्निपातज्वरस्यैवं स्युर्विशेषास्त्रयोदश”। तत्र प्रवृद्धवातः मध्यपित्तो हीनकफः १ मध्यवातः प्रवृद्धपित्तो हीनकफः २ हीनवातः प्रवृद्धपित्तो भध्य कफः ३ प्रवृद्धवातः हीनपित्ता मध्यकफः ४ मध्यवातः हीनपित्तः प्रवृद्धकफः ५ हीनवातो मध्यपित्तः प्रवृद्धकफः ६ इति षट्। तेषां नामानि क्रमादाह “विस्फारकश्चाशुकारी कम्पनो बभ्रसंज्ञकः। शीघ्रकारी तथाभल्लुः सप्तमः कूटपालकः। संमोहकः पालकश्च याम्यः क्रकच इत्यपि। ततः कर्कटकः प्रोक्तस्ततो वैदारिकाभिधः” तन्त्रान्तरे विस्फारक इत्यत्र विस्फोरक इति पाठः। बभ्रस्थाने बभ्रुंरितिपाठः कुत्रापि बद्ध इति पाठः भल्लुरित्यत्र फस्सुरिति पाठः याम्य इत्यत्र संग्राम इति पाठः कर्कटक इत्यत्र कर्कोटक इति पाठः। तत्र वातोल्वणस्य लक्षणमाह “श्वासः कासो भ्रमो मूर्च्छा प्रलापो मोहवेपथू। पार्श्वस्थवेदना जृम्भा कषायत्वं मु खस्य च। वातोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्। एष विस्फारको १ नाभ्ना सन्निपातः सदारुणः।” अथ पित्तोत्त्वणस्य लक्षणमाह “अतिसारो भ्रमो मूर्च्छा मुखपाकस्तथैव च। गात्रे च बिन्दवो रक्ता दाहोऽतीव प्रजायते। पित्तोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्। भिषगभिः सन्निपातोऽयभाशुकारी २ प्रकीर्त्तितः”। अथ कपोल्वणस्य लक्षणमाह “जडता गद्गदा वाणी रात्रौ निद्रा भवत्यपि। प्रस्तब्धे नयने चैव मुखत माधुर्य्यमेव च। कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्। मुनिभिः सन्निपातोऽयमुक्तः कम्पनसंज्ञकः ३”। अथ वातपित्तोल्वणस्य लक्षणमाह “वातपित्ताधिकोऽयन्त सन्निपातः प्रकुप्यति। तस्य ज्वरो मदस्तृष्णा मुखशोथः प्रमीलकः। आध्मानारुचितन्द्राश्च कासश्वासभ्रमश्रमाः। मुनिभिबभ्रनामायं ४ सन्निपात उदाहृतः।” अथ वातश्लेष्मोल्वणस्य लक्षणमाह “बावत्सेष्माधिको यस्य सन्निपातः” प्रकुप्यति। तस्य शीतज्वरो मूर्च्छा क्षुत् तृष्णा पार्श्वनिग्रहः। शूलमखिद्यमानस्य तन्द्रा श्वासश्च जायते। असाध्यः सन्निपातोऽयं शीघ्रकारीति ५ कथ्यते। नहि जीवंत्यहोरात्रमगेनाविष्टविग्रहः।” “अथ पित्तश्लेष्मोल्वणस्य लक्षणमाह “पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति। अन्तर्टाहो बहिःशीतं तस्य तृष्णा प्रवर्द्धते। तुद्यते दक्षिणे पार्श्वे उर शीर्षमलग्रहः। ष्ठौवति श्लेष्मपित्तञ्च कृच्छ्रात्कटिश्च जायते। विडभेदश्वासहिक्राश्च वर्द्धन्ते सप्रमीलकाः। ऋषिभिर्भल्ल नामायं ६ सन्निपात उदाहृतः।” अथ वातपित्तश्लेष्मोल्वणस्य लक्षणमाह “सर्वदोषोल्वणो यस्य सन्निपातः प्रकुप्यति। त्रयाणामपि दोषाणां तस्य रूपाणि लक्षयेत्। व्याधिभ्यो दारुणश्चैव वज्रशस्त्राग्निसन्निभः। केवलोच्छ्वासपर मस्तब्धाङ्गः स्तब्धलोचनः। त्रिरात्रात् परमेतस्य जन्तोर्हरति जीवितम्। तदवस्थन्तु तं दृष्ट्वा मूढो व्याहरते जनः। धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये। अम्बया ब्रुवते केचिद् यजिण्या ब्रह्मराक्षसैः। पिशाचैर्गुह्यकैश्चैव तथान्यैर्मस्तके हतम्। कुलदेवार्च्चनाहीनं धर्षिनं कुलदेवतैः। नक्षत्रपीडामपरे गरकर्मेति चापरे। सन्निपातमिमं प्रहुभिषजः कूटपालकम् ७।” अथ प्रवृद्धमध्यहीनवातादिजनितसन्निपातज्वराणां लक्षणान्याह “प्रवृद्धमध्यहीनैस्तु वातपित्तकफैश्च यः। तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः। प्रलापायाससमाहकम्पमूर्च्छाऽरतिभ्रमाः। एकपक्षाभिघातश्च तत्राप्यते विशेषतः। एष संमोहकोऽ नाम्ना सन्निपातः ञ्चदारुणः।” रोगास्तएवोक्ताः उक्ता एव ते रोगाः व्यथातेपथुनिद्रानाशविष्टम्भादयो वातजाः दाहलष्णौष्णतास्वेदादयः पित्तजाः गौरवाग्निपान्द्योत्कास तामिकामुखप्रसेकादयः कफजाः। तत्रापि प्रलापादयः पक्ष घातान्तां विशेषाद्भवन्ति। ननु वातः प्रवृद्धः सज्वरं करिष्यति पित्तन्तु मध्यसममिति यावत् तत्कथं ज्वरं करिष्यति यत आह “धातवस्तन्मला दोषाः स्युर्नाशायाऽसकास्तनौ। समाः सुखाय विज्ञेया बलायोपचयाय च।” इति उच्यते। अत्र पित्तं मध्यमपि अप्रकृतमेव यतोऽप्रकृतयोर्वातश्लेष्मणोरपेक्षया मध्यं तेन मध्यकुषितनित्यर्थः। ननु कफक्षीणः स कथं ज्वरं करिष्यति हीनशक्तित्वात् उच्यते दोषाः क्षीणा अपि व्याधीन् कुर्वत्येव यत आह “वातक्षयेऽल्पचेष्टत्वं मन्दवाक्त्वं विसंज्ञता। पित्तक्षवेऽधिकःश्लेष्मा बह्निर्मन्दः प्रभाक्षयः।” शिथिलाः सन्धयोमूर्च्छारौक्ष्यं दाहः कफक्षये”। इत्याशङ्कासिद्धान्तश्चात्र परत्रापि। “मध्य प्रवृद्धहीनैस्तु वातपित्तकफैश्च यः। तेन रोगास्त एवोक्ता यथादोषबलाश्रयाः। मोहप्रलापमूर्च्छाः स्युर्मन्यास्तम्भः शिरोग्रहः कासः श्वासो भ्रमस्तन्द्रा संज्ञावाशो हृदिव्यथा। स्वेभ्यो रक्तं विसृजति संरक्तं स्तब्धने त्रता। तत्राप्येते विशेषाः स्युर्मृत्युरर्वाक् त्रिवासरात्। भिषग्भिः सन्निपातोऽयं कथितः पाकलाभिधः ९। हीनप्रवृद्धमध्यैस्तु वातपित्तकफैश्च यः। तेन रोगास्तएवोक्ता यथारोगबलाश्रयाः। हृदयं दह्यते चास्य यकृत्प्लीहान्त्रफुप्फुसाः। प्रच्यन्तेऽत्यर्थमूर्द्धाधःपूयशोणितनिर्गमः। शीर्णदन्तश्च मृत्युश्च तत्राप्येतद् विशेषतः। भिषग्भिः सन्निपातोऽयं याम्यो १० नाम्नः प्रकीर्त्तितः। प्रवृद्धहीनमध्यैस्तु वातपित्तकफैश्च यः। तेन रोगास्त एवोक्ता यथादोषबलाश्रवाः। प्रलापायाससंमोहाः कम्पमूर्च्छाऽरतिभ्रभाः। सन्यास्तम्भेन मृत्युः स्वात् तत्राप्येतद्विशेषतः। भिषग्भिः सन्निपातोऽयं क्रकचः ११ संप्रकीर्त्तित। मध्यहीनप्रवृद्धैस्तु वातपित्तकफैश्च यः। तेन रोगास्त एवोक्ता यथादोष बलाश्रयाः। कन्तर्दाहो विशेषोऽत्र न च वक्तुं स शक्यते। रक्तमालक्तकेनेव लक्ष्यते मुखमण्डलम्। पित्तेनाकर्षितः श्लेष्मा हृदयान्न प्रसिच्यते। इषुणेवाहतं पार्श्वं तुद्यते खन्यते हृदि। प्रमीलकः श्वासहिक्वा वर्द्धते तु दिने दिने। जिह्वा दग्धा खरस्पर्शा गलः शूकैरिवावृतः। विसर्गं नाभिजानाति कूजेच्चापि कपोतवत्। अतीव श्लेष्मणा पूर्णः शुष्कवक्तौष्ठतालुकः। तन्द्रानिद्रातियोगार्त्तो हतवाग्निहतद्युतिः। न रतिं लभते नित्य विपरीतानि चेच्छति। आयम्यते च बहुशो रक्त ष्ठीवति चाल्पशः। एव कर्कटको १२ नाम्रा सन्निपातः सुदारुणः। हीनंमध्यप्रवृद्धैस्तु वातपित्तकफैश्च य। तेन रोगास्तएवोक्ता यथादोषब्रलाश्रयाः। अल्पशूलं कटीतोदो मध्ये दाहो रुजा भ्रमः। भृशं क्लमः शिरोवस्तिमन्याहृदयवाग्रुजः। प्रमीलकः श्वासकासहिक्वा जाड्यं विसंज्ञता। प्रथमोत्पन्नमेनन्तु साधयन्ति कदाचन। एतस्मिन् सन्निवृत्ते तु कर्णमूले सुदारुणः। पिडका जायते जन्तोर्यथाकृच्छ्रेण जीवति। स वैदारिकसंज्ञो १३ऽयं सन्निपातः सुदारुणः। त्रिरात्रात् परमेतस्य व्यर्थमौषधकल्पनम्।” तन्त्रान्तरे वातोल्वणादीनां सन्निपातज्ज्वरविशेषाणां त्रयोदशानां शीताङ्गादीनि त्रयोदश नामान्तराणि लक्षणान्तराणि चाह “शीताङ्गस्त्रिमलोद्भवज्वरगणे तन्द्री प्रलापी ततो रक्तष्ठीवयिता च तत्र गणितः सम्भुग्ननेत्रस्तथा। साभिन्यासकजिह्वकश्च कथितः प्राग्सन्धि गोऽथान्तको रुग्दाहः सहचित्तविभ्रम इह द्वौ कर्णकण्ठग्रहौ”। तन्द्री तन्द्रिका प्रलापी प्रलापकः रक्तष्ठीवयिता रक्तष्ठीवी संभुग्ननेत्रः भुग्ननेत्रः। अभिन्यासकः अभिन्यासः कर्णकण्ठग्रहौ कर्णग्रहः कर्णिकः कण्ठग्रहः कण्ठकुब्जकः। अथ तेषां प्रत्येकं लक्षणानि “हिमशिशिरशरीरः सन्निपातज्वरी यः श्वसनकसनहिक्वामोहकम्पप्रलापैः। क्लमबहुकफवाता टाहवम्यङ्गपीडाः स्वरविकृतिभिरार्त्तः शीतगात्रः १ स उक्तः। तन्द्रातीव ततस्तृषानिसरणं श्वासोऽधिकः कासरुक् सन्तप्तातितनुर्गले श्वयथुना सार्द्धञ्च कण्डूकफम्। सुश्यामा रसना क्लमः श्रवणयोर्मान्द्यञ्च दाहस्तथा यत्र स्यात्सहि तन्द्रिको २ निगंदितो दोषत्रयोत्थो ज्वरः। यत्र ज्वरे निखिलदोषनितान्तरोष जाते प्रलापबहुला सहसोत्थिताश्च। कम्पव्यथापतनदाहविसंज्ञताः स्युर्नाम्ना प्रलापक ३ इति पथितः पृथिव्याम्। निष्ठीवो रुधिरस्य, रक्तसदृशं कृष्णं तनौ मण्डलम् लौहित्यं नयने तृषाऽरुचिवमिश्वासाति सारभ्रमाः। अध्मानञ्च विसंज्ञता च पतनं हिक्काङ्गपीडा भृशम्। रक्तष्ठीविनि ४ सन्निपातजनिते लिङ्गं ज्वां जायते। भृशं नयनवक्रताश्वसनकासतन्द्रा भृशम्। प्रलापमदवपथुश्रवणहानिमोहास्तथा। पुरो निखिलदोषजे भवति यत्र लिङ्ग ज्वरे पुरातनचिकित्सकैः स इह भुग्वनेत्रो ५ मतः। दोषास्तीव्रतरा भवन्ति बलिनः सर्वेऽपि यत्र ज्वरे मोहोऽतीव विचेष्टता विकलता श्वासो भृशं मूकता। दाहश्चिक्कणमाननञ्च दहनोमन्दोबलस्य क्षयः सोऽभिन्यास ६ इति प्रकीर्त्तितः इह प्राज्ञैर्भिषग्भिः पुरा। त्रिदोषजनिते ज्वरे भवति यत्र जिह्वा भृशम् वृता कठिनकण्टकैस्तदनु निर्भरं मूकता। श्रुतिक्षतिबलक्षतिश्वसनकाससन्तप्तयः पुरातनभिषग्वरास्तमिह जिह्वक ७ ञ्चक्षते। व्यथातिशयिता भवेच्छयथुसंयुता सन्धिषु प्रभूतकफता मुखे विगतनिद्रता कासरुक्। समस्तमिति कीर्त्तितं भवति लक्ष्म यत्र ज्वरे त्रिदोषजनिते बुधैः सहि निगद्यते सन्धिगः ८। यस्मिन् लक्षणमे ददस्ति सकलैर्दोषैरुदीर्णे ज्वरेऽजस्रं मूर्द्धविधूनने सकसनं सर्वाङ्गपीडाधिका। हिक्वाश्वाससदाहमोहसहिता देहेऽतिसन्तप्तता वैकल्यञ्च वृथा वचांसि मुनिभिः संकीर्त्तितः सोऽन्तकः ९। दाहोऽधिको भव्ति यत्र तृषा च तीव्रा श्वासप्रलापविरुचिभ्रममोहपीडाः। मन्याहनव्यथनकण्ठरुजः श्रमश्च रुग् दाहसंज्ञ १० उदित स्त्रिभवी ज्वरोऽयम्। गायति नृत्यति हसति प्रलपति विकृतं निरीक्षतेमुह्येत्। सदाहव्यथाभयार्त्तो नरस्तु चित्तभ्रमे ११ ज्वरे भवति। दोषत्रयेण जनिता किल कर्णमूले तीव्रा ज्वरे भवति तु श्वयथुर्व्यथा च। कण्ठग्रहो बधिरता श्वसनं प्रलापः प्रस्वेदमोहदवनानि च कर्णिकाख्ये १२। कण्ठः शूकशतावरुद्धवदतिश्वासः प्रलापोऽरुचिर्दाहोदेहरुजा तृषापि च हनुस्तम्भः शिरार्त्तिस्तथा। मोहो वेपथुना सहेति सकलं लिङ्ग त्रिदोषज्वरे यत्र स्यात् स हि कण्ठकुब्ज १३ उदितः प्राच्येश्चिकित्साबुधैः। सन्धिगस्तेषु साध्यः स्यात् तन्द्रिकञ्चित्तविभ्रमः। कंर्णिको जिह्वक कण्ठकुब्जः पञ्चापि कष्टतः। रुग्दाहस्त्वतिकष्टेन संसाध्यस्तेषु भाषितः। रक्तष्ठीवी भुग्ननेत्रः शीतगात्रः प्रलापकः। अभिन्यासोऽन्तकश्चैते षडसाध्याः प्रकीर्त्तिताः।” अथ तन्त्रान्तरे वातोल्वणादीनां सन्निपातज्वरविशेषाणां त्रयोदशानां कुम्भीपाकादीनि त्रयोदश नामान्तराण्याह “कुम्भीपाकः प्रोर्णुनावः प्रलापी ह्यन्तर्दाहो दण्डपातोऽन्तकश्च। एणोदाहश्चाथ हारिद्रसंज्ञो भेदा एते सन्निपातज्वरस्य। अजघोषभूंतहासौ यन्त्रापीडश्च संन्यासः। संशोषी च विशेषास्तस्यैवोक्तास्त्रयोदशान्यत्र”। अथैषां लक्षणानि “घोणाविवरझरद्बहुशोणासितलोहितं सान्द्रम्। विलुठन्मस्तकमभितः कुम्भीपाकेन १ पोडितं विद्यात्। उत्क्षिप्य यः स्त्रमङ्ग क्षिपत्यधस्तान्नितान्तमुच्छ- सिति। तं प्रोर्णुनाव २ जुष्टं विचित्रकष्टं विजानीयात्। स्वेदभ्रमाङ्गभेदाः कम्पोदवथुर्वमिर्व्यथा कण्ठे। गात्रञ्च गुर्वतीव प्रलापि ३ जुष्टस्य जायते लिङ्गम्। अन्तर्द्दाहः शैत्यं बहिः, श्वयथुररतिरपि तथा श्वासः। अङ्गमपि दग्धकल्पं सोऽन्तर्दाहा ४ र्दितः कथितः। नक्तं दिवा न निद्रामुपैति गृह्णाति मूढधीर्नभसः। उत्थाय दण्डपातो ५ भ्रमातुरः सर्वतो भ्रमति”। नभसो गृह्णाति आकाशात्किञ्चित् ग्रहीतुं करौ प्रसारयतीत्यर्थः। “संषूर्य्यते शरीरं ग्रन्थिभिरभितस्तथोदरं मरुता। श्वासातुरस्य सततं विचतनस्यान्तका ६ र्त्तस्य”। परिधावतीव गात्रे रुक्पात्रे भुजङ्गपतङ्गहरिणगणः। षेपथुमतः सदाहस्यैणोदाह ७ ज्वरार्त्तस्य”। रुकपात्रे पीडाभाजने गात्रस्य विशेषणमेतत्। “यस्याऽतिपीतमङ्गं नयने सुतरां मलस्ततोऽप्यधिकम्। दाहोऽतिशीतता बहिरस्य स हारिद्रको ८ ज्ञेयः। छगलकसमानगन्धः स्कन्धरुजावान्निरुद्ध गलरन्ध्रः। अजथोष ९ सन्निपातादाताम्राक्षः पुमान् भवति। शब्दादीनधिगच्छति न स्वान्विषयान् यदि न्द्रियग्रामैः। हसति प्रलपति परुष स ज्ञेयो भूतहासा १० र्त्तः। येन मुहुर्ज्वरवेगात् यन्त्रेणेवावपीड्यते गात्रम्। रक्तं पीतञ्च वभेद्यन्त्रापीडः ११ स विज्ञेयः। अतिसरति वमति कूजति गात्राण्यभितश्चिरं नरः क्षिपति। सन्न्यासा १२ सन्निपाते प्रलपत्युग्राक्षिमण्डलो भवति। मेचकवपुरतिमेचकलोचनयुगलो मलोत्सर्गात्। संशोषिणि १३ सितपिडकामण्डलयुक्तो ज्वरे नरो भवति। नारायण एव भिषक् भेषजमेतेषु जाह्नवीनीरम्। नैरुज्यहेतुरेको नित्यं मृत्युञ्जयो व्येयः।” अथासाध्यस्य सन्निपातज्वरस्य लक्षणमाह “सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः। शोथः संजायते तेन कश्चिदेव प्रमुच्यते।” सुटारुणः मारकत्वात् यतस्तेन शोथेन कश्चिदेव प्रमुच्यते कोऽपि जीवितं त्यजति इत्यर्थः। “सन्निपातज्वरान् कष्टानसाध्यानपरे जगुः। दोषे प्रवृद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः। सन्निपात ज्वरोऽसाध्यः कष्टसाध्यस्ततोऽन्यथा।” सर्वाणि दाहशीतादीनि सम्पूर्णानि आतुरगतानि प्रोक्तानि यावल्लक्षणानि यस्य सः। ततोऽन्यथा दोषे पक्वे अग्नौ दीप्ते स्वल्पलक्षणकः कष्टसाध्य इत्यर्थः।

सन्निपातज्वर = पु० सन्निपातजो ज्वरः। सन्निपातशब्दोक्ते त्रिदोषजविकारजाते ज्वरे।

सन्निपातनुद् = पु० सन्निपातं त्रिदोषजविकारं नुदति नुदक्विप्। नेपालनिम्बे राजनि०।

सन्निबन्धन = न० सम्यक निबन्धनं प्रा० स०। १ नानास्थानस्थवाक्यानामेकत्र सङ्कलने २ तदुवयोगिग्रन्थभेदे च। ७ ब०। ३ सम्यग्निबन्धनयुते त्रि० “सद्वृत्तिः सन्निबन्धनेति” माघः

सन्निभ = त्रि० सम् + नि + भा–कं। सदृशे जटा०। निभादि वदस्य नित्यसमासता।

सन्निवेश = पु० सम + नि + विश–आधारे घञ्। १ पुरादेर्वाह्यस्थे विहारार्थे देशे अमरः। भावे घञ्। २ सम्यक्स्थितौ।

सन्निहित = त्रि० सम् + नि + धा–क्त। १ निकटस्थे “सन्निहित बुद्धिरन्तरङ्गम्” न्यायः “या याः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः” ति० त०। २ सम्यक्स्थापिते च। भावे क्त। ३ नैकट्ये न०।

सन्न्यस्त = त्रि० सम् + नि + अस–क्त। १ निक्षिप्त २ कृतसम्यकथागे ३ युक्ते ४ अर्पिते च।

सन्न्यास = पु० सम् + नि + अस–घञ्। “काम्यानां कर्मणां त्यागं सन्न्यासं कवयोविटुः” गीतोक्ते विहितकर्मणां विधानेन १ सम्यक्त्यागे २ तदुपयोगिचतुर्थाश्रमे आश्रमशब्दे ८४२ पृ० दृश्यम्। ३ चैत्रे मासि क्षत्रियादिकर्त्तव्ये पुराणप्रसिद्धे शिवव्रतभेदे च। “चैत्रे शिवोत्सवं कुर्य्यात् नृत्यगीतमहोत्सवैः। स्नायात् त्रिसन्ध्यं रात्री च हविष्याशी जितेन्द्रियः। शिवस्वरूपतां याति शिवप्रीतिकरः परः। क्षत्रियादिषु यो मर्त्यो देहं संपीद्ध्य भक्तितः। अश्वमेधफलं तस्य जायते च पदे पदे। सर्वकर्मवरित्यागी शिवोत्सवपरायणः। भक्तैर्जागरणं कुर्य्याद्रात्रौ नृत्यकुतूहलेः। नानाविधैर्महावाद्यैर्नृत्यैश्च विविधैरपि। नानावेशधरैर्नृत्यैः प्रीयते शङ्करः प्रभुः। किमलभ्यं भगवति प्रसन्ने नीललोहिते। तस्यात् सर्वप्रयत्नेन तोषणीयो महेश्वरः। शङ्खवाद्यं शङ्खतोयं वजंयेत् शिवसन्निधौ। ग्रामाद्बहिरिमं शम्भारुत्सवं कारयेन्मुदा। उपोष्य हुत्वा संक्रान्त्यां व्रतमेतत् समापयेत्” वृहद्धर्मपु० उत्तरख० ४ अ०। ४ जटामांस्यां शब्दच०।

सन्न्यासिन् = पु० सम् + नि + अस–णिनि। १ सन्न्यासयुते २ चतुर्थाश्रमयुते तेषां धर्मभेदेन नामभेदो यथा

“तीर्थाश्रमवनारण्यगिरिपर्वतसागराः। सरस्वती भारती च पुरीति दश कीर्त्तिताः”। तेषां लक्षणानि यथा “त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे। स्रायात्तत्त्वार्थभावेन तीर्थनामा १ स उच्यते। आश्रमग्रहणे प्रोढ आशापाशविवर्जितः। यातायातविनिर्मुक्त एतदा- श्रमलक्षणम् २। सुरम्ये निझरे देशे वने वासं करोति यः। आशापाशविनिर्मुक्तो वननामा ३ स उच्यते। अरण्ये संस्थितो नित्यमानन्दनन्दने वने। त्यक्त्वा सर्वमिदं विश्वमरण्यलक्षणं ४ किल। वासो गिरिवरे नित्यं गाताभ्यासे हि तत्परः। गम्भीराचलबुद्धिश्च गिरिनामा ५ स उच्यते। वमेत् पर्वतमूलेषु प्रोढो यो ध्यानधार णात्। सारात्सारं विजानाति पर्वतः ६ परिकीर्त्तितः। वसेत् सानरगम्भीरो न च रत्नपरिग्रहः। मर्य्यादाश्च न लङ्घेत सागरः ७ परिकीर्त्तितः। स्वरज्ञानवशो नित्यं स्वरवादी कवीश्वरः। संसारसागरे साराभिज्ञो यो हि सरस्वती ८। विद्याभारेण सम्पूर्णः सर्वभारं परित्यजेत्। दुःखभारं म जानाति भारती ९ परिकीर्त्तिता। ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः। परव्रह्मरतो नित्यं पुरोनामा १० स उच्यते” इति वृहच्छङ्करविजये विद्यारण्यस्वामिधृतम्। ३ चैत्रे कर्त्तव्यशिवव्रतकर्त्तरि च।

***