सकण्टक = पु० सह कण्टकेन सहस्य षः। १ करञ्जभेदे (नाटाकरमचा) रत्रमा०। २ शेबाले गब्दच०। ३ कण्टकयुक्ते त्रि०
सकर्ण = त्रि० सह कर्णेन श्रवणेन तद्व्यापारेण वा। १ श्रुतिशीले जटा० २ कर्णयुक्ते च।
सकर्म्मक = त्रि० सह कर्मण सहस्य सः कप्। ह्याकरणोक्ते कर्मयुक्तक्रियाबोधके धातौ “फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः” इत्युक्तदिशा धातोः सकमकत्वमवसेयम्।
सकल = त्रि० सह कलया अवयवमात्रया चतुषष्ठ्या कलाभिर्वा सहस्य सः। १ समूर्णे २ समग्रे अमरः ३ कलार्साहते च
सकारण = त्रि० सह कारणेन। कार्य्ये।
सकाश = पु० कशनं पीडनं काशः कश–घञ् सह काशेन। अन्तिके समीपे।
सकुरुण्ड = पु० सह समानः कुरुण्डेन। साफरण्डक्षे राजनि०
सकुल = पुंस्त्री० सह समानं कुलमस्य। १ शकुलमत्स्यं (शल) स्प्रोत्वे ङीष्। २ समानवंशे त्रि०।
सकुल्य = त्रि० समाने कुले मवः यत्। अशौचविषये स्माववध्यूर्द्ध्वाधस्तनाष्टमपुरुषमात्रे “दशाहेन सपिद्धास्त शध्यन्ति प्रेतसूतके। त्रिरात्रेण सकुल्यास्तु स्यत्वा शुध्यन्ति बान्धवाः” वृह०। सपिण्डशब्दे दृश्यम्।
सकृत् = अव्य० एक + नि०। १ एकवारे अमरः। २ विष्ठायां स्त्री अन्ये।
सकृत्प्रज = पुंस्त्री० सकृत् एकवारं प्रजायते प्र + जन–ड। १ काके अमः स्त्रियां ङीष्। २ एकवारजातापत्ये च।
सकृत्फला = स्त्री सकृत् फलति फल–अच्। कदलीवृक्षे राजनि०
सकृद्गर्भ = पु० सकृद् गर्भो यस्य। खेसरे राजनि० एकवार गर्भवत्यां स्त्रियां स्त्री।
सकृद्वीर = पु० कर्म०। एकवीरवृक्षे राजनि०।
सक्त = त्रि० सन्ज–क्त। १ आसक्ते २ अव्चिरते च हेमच०।
सक्तु = पु० सन्ज–तुन् किच्च। भ्रष्टयवादिचूर्णे (छातु) शब्दच० “मेषादौ सक्तवी देया वारिपूर्णा च गर्गरी” ति० त०।
सक्तुफला(ली) = स्त्री सक्तव इव क्षुद्राणि फलान्यस्याः वा ङीप्। शमावृक्षे अमरः ङीबन्तः तत्रार्थे शब्दर०।
सक्थि = न० सन्ज–किथन्। १ क्तरौ अमरः २ शकटावथवभेदे च उणादि०। बहु० स्वाङ्गे अच्–समा०। मृगसक्थ इत्यादि।
सखण्डोपाधि = पु० कर्म०। बहुपदार्थथटिते धर्मे यथा इन्द्रियत्वदेहत्वादिघर्मः।
सखि = त्रि० सह समानं ख्यायते ख्या–डिन् नि०। सौहार्द्दयुक्ते अमरः। सखायौ सख्या सख्युरित्यादि।
सखी = स्त्री सखि + स्त्रीत्वे ङीप्। १ सहचर्य्यां हेमच० २ वायस्यायाम् अमरः।
सख्य = न० सख्युर्भावः यत्। १ मित्रतायां २ सौहार्दे च।
सगन्ध = पु० सह गन्धेन लेशेन वा सहस्य सः। १ ज्ञातौ त्रिका० २ गन्धायुते त्रि०।
सगर = पु० सह गरेण विषेण जातः। १ सूर्य्यवंश्ये नृपभेदे “सगरात् सागरोजातः” इति पुराणम्। स च सुबाहुनामराजतः यादव्यां जातः ततसपत्न्या गरदानेऽपि स न समार तत्कथा “तस्या (और्वस्या) श्रमे च सा गभं सुषुवे ज्वलनप्रभम्। व्यजायत महाबाहुर्गरेणैव सह द्विज!। सगरो नाम तेनाभूत् बालकोऽतिमनोहरः” पद्मपु० १३ अ०। २ विषयुक्ते त्रि०।
सगर्भ = पु० सह समानो गर्भोऽस्य। १ सहोदरे भ्रातरि शब्दर०। सह गर्भेण। २ गर्भयुक्ते मध्यवर्त्तिसूक्ष्मपत्त्र युक्ते कुशदूर्वादौ त्रि० स्त्रियां टाप्।
सगर्भ्य = पु० समाने गर्भे भवः यत् सहस्य सः। सहोदरे भ्रातरि।
सगोच = न० सह सनानं गोत्रम् सहस्य सः। १ कुले शब्दच० सह समं गोत्रमस्य। २ ज्ञातौ त्रि० अमरः।
सग्धि = स्त्री अद–क्तिन् नि० सहग्न्ध्या सहस्य सः। सगभोजने अमरः।
सङ्कट = त्रि० सम + कटच् सम् + कट–अच् वा। १ अल्पावकाशे स्थाने अमरः। २ संबाधे ३ दुःखे “नरोमुच्येत सङ्कटादिति” देवीमा०। ४ देवीभेदे स्त्री ज्योतिषोक्ते दशाभेदे च स्त्री टाप्। दशाशब्दे ३४८४ पृ० दृश्यम्।
सङ्कथा = स्त्री सम् + कथ–भावे अ। परस्परकथने हेमच०।
सङ्कटाक्ष = पु० सङ्गटं संबाधमक्षति अक्ष–अण्। धववृक्षे विश्वः
सङ्कर = पु० सम् + कॄ–कर्मणि अप्। १ सम्मार्जन्यादिभिः क्षिप्ते रजसि अमरः। इतरजातिपुरुषेण इतरजातिस्त्रियां २ जाते जातिभेदे। भावे अप्। ३ मेलने ४ परस्पराभावसाजाधिकरण्ये सत्येकाधिकरणवृत्तित्वे च स च जातिबाचकः। “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसंबन्धो जातिबाधकसंग्रहः” सि० मु०। यथा भूतत्वाभाववति मनसि मूर्त्तत्वप्य सत्त्वात् मूर्त्तत्वाभाबवति च घगने भूतत्वस्य सत्त्वात् भूम्यादिभूतचतुष्टये चोभयोः सामानाधिकरण्यात् तयोर्न जातित्वम्। वर्णसङ्करजातिश्च नानाविधा दिङमात्रमत्रोच्यते “वक्ष्ये सङ्करजात्यादि इत्युपक्रमे “विप्रान्मूर्द्ध्वावसिक्तो हि क्षत्रियायां, विशः स्त्रियाम्। जातोऽम्बष्ठस्तु शूद्रायां निषादः पार्षदोऽपि च” इत्यादि गरु० ९६ अ०। “स्त्रीषु दुष्टासु वार्ष्णेव! जायते वर्णसङ्करः” गीता। ५ अलङ्कारभेदे असङ्कारशब्दे ४०५ पृ० दृश्यम्। ६ संसर्गे स्पर्शादिसम्बन्धे चण्डालादिसङ्करे भवनादिदहनादि तत्र च प्रायश्चित्तादि पा० वि० उक्तं यथा “अथ चाण्डालसङ्करप्रायश्चित्तम्। तत्र च्यवनः “चाण्डाससङ्करेषु भवनदहनं पूरणं सर्वभाण्डभेदर्नं दारबाणाम् तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः प्रक्षालनं कांस्यताभ्राणामाकरशुद्धि। सौवीरपयोदधितक्राणां परित्यागः शेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत् बालवृद्धस्त्रीणामर्द्धं प्रायश्चित्तम् आषोडशाद्वालः सप्तत्यूर्द्धं स्थविरः चीर्णे प्रायश्चित्ते ब्राह्मणभोजनं गोशतञ्च दद्यादभावे सर्वस्वम्”। पूरणं पूर्वमृत्तिकाकर्षणेन मृत्तिकान्तरदानम् तक्षणं वास्यादिनांशवियोजनम् भाण्डभेदनं मृण्मयभाण्डभेदनम्। आकरे अग्नावित्यर्थः अग्निसंयोगात्ताम्रादीनामुत्पत्तेः। शेषरसानां लाक्षादाना यवसदूव्याणां च धान्यानां रक्षणम्। तथा च पराशरः “आकरे तु भवेच्छुद्विरारकूटे सकां- स्यके। जलशौचन्तु वस्त्राणां परित्यागस्तु मृण्मय। कुसुम्भगुडकार्पासलवणं सह सर्पिषा। द्वारि कुर्वीत धान्यानि गृहे दद्याद्धुताशनम्। हुताशज्वालासंस्पृष्टं शुच तन्मनुरब्रवीत”। तेन रक्षणं घृतादीनाम् अग्निज्वालापवित्रीकृतानां कर्त्तव्यम्। एतच्च प्रायश्चित्तं सद्यःपातहेतुयौनादिवर्जितैः संसर्गर्ज्ञानतो यावता कालेन पातित्यं भवति अज्ञानतस्तावत्कालसंसर्गे सति वेदितव्यम् इति तेन संवत्सरैकश्चाण्डालसम्बन्धे मासैकगोमूत्रयावकाहारः कर्त्तव्यः। अनेन च द्वादश धेनवो मासोपवासात् पञ्चमभागापकर्षाद्। गोशतञ्च दक्षिणा। एतच्च प्रायश्चित्तं व्राह्मणकात्रियविशां तुल्यमेव। तथा चापस्तम्बः “अन्त्यजातिरविज्ञातो निवसेद् यस्य वेश्मनि। स वै ज्ञात्वा तु काले तु कुर्य्यात्तत्र विशोधनम्। चान्द्रायणं पराकं वा द्विजातीनां विशोधनम्। प्राजापत्यन्तु शूद्राणां तथा संसर्गदूषणे। यैस्तत्र भुक्तं पक्वान्नं कृच्छ्रं तेषां विधीयते। तेषामपि च यैर्भक्तं तदर्द्धं तेषुविद्यते। तेषामपि च यैर्भुक्तं कृच्छ्रपादो विधीयते। कूपैकपानदुष्टानां तथा संसर्गदूषणे। उपवासेन शुद्धिः स्यात् पञ्चगव्येन चैवाहि। बालापत्या तथा रोगी गर्भिणी वृद्धएव यः। तेषां नक्तं प्रदातव्यं बालानां प्रहरद्वयम्। अथ वा क्रियमाणे तु येषामार्त्तिः प्रदृश्यते। शेषं सम्पादयेत्तेषां विपर्त्तिर्ने भवेत् यथा”। तत्र पूईर्वोक्तकालादल्पकालसङ्करे चान्द्रायणम्। स्वल्पतरे पराकः। शूद्रस्य प्राजापत्यम्। कूपैकपानदुष्टानामिति एकस्मि न्नेव कूपे द्विजानां चाण्डालादीनां सहजलपानं कुर्वतां संसर्गदुष्टानां सोपवासपञ्चगव्यं विशोधनमित्यर्थः। संवत्तः “चाण्डालसङ्करे विप्रः श्वपाके पुक्कशेऽपि वा। गोमूवयावकाहारो मासार्द्धेन विशुध्यति। एतदपि स्वल्पकालसङ्करविषयं मासार्द्धयावकाहाराशक्तौ षडधेनवः। सुमन्तुः “अगम्यागमनस्त्रीबधचाण्डालसम्पर्केषु कृच्छ्रत्रयम्”। एतदत्यन्तस्वल्पकालविषयं कृच्छ्रत्रयाशक्तस्य धनुत्रयम्। तथा “अविज्ञातस्तु चाण्डालो निवसेद यस्य वेश्मनि। विज्ञाते तूपसंन्यस्य द्विजाः कुर्युरनुग्रहम्” इत्युपक्रम्याह पराशरः “दधिसर्पिःपयो भुक्तं यदा गोमूत्रयावकम्। भञ्जोत सह भृत्यैस्तु त्रिसन्व्यमवगाहनम्। भावदुष्टं न भञ्जीत भोक्तव्यं गोरसप्लुतम्। त्रिपलं क्षारदघ्रोश्च पलमेकन्तु सर्पिषः”। तथा स पूतः सह भृर्थय कुर्य्याद्ब्राह्मणभोजनम्। अनडुत्- सहितां गाञ्च दद्याद्विप्राय दक्षिणाम्”। दधिसर्पिःप्रयो भुक्तं यद गोमूत्रयावक द्वादशाहं भुञ्जीतेत्यर्थः। तत्र परिमाणामतषाम् त्रयाणामुक्तम्। चमकारादीनामावज्ञात सङ्करे तु चाण्डालसङ्करप्रायश्चित्तस्य षष्ठी भागः करणीयः चाण्डालस्पशप्रायश्चित्ताच्चर्मकारादिस्पर्शे प्रायश्चित्तस्य षष्ठभागदर्शनात्। यथा स्वल्पयमः “चाण्डालैः श्वपचैः स्पृष्टो विणमूत्रे च कृते द्विजः। त्रिरात्रं सम्प्रकुर्वीत ऊर्द्ध्वोच्छिष्टः षडाचरेत्”। चर्मकारादिस्पर्श तुं संवर्त्तः “एतः स्पृष्टस्तथोच्छिष्ट एकरात्र पयः पिबेत्” देवलः “चाण्डालसंयोगे जातश्चाण्डाल एव स्यात् ब्रह्याहत्योद्दिष्टं प्रायश्चित्तं वाषिंकं षाण्मासिकं कृच्छ्रं वा ब्रह्यणस्य। चतुस्त्रिशध्येकमासाः शेषाणाम्। अविज्ञातचाण्डालसम्पर्के विद्यमान एव दम्पत्योः संयोगे यो जातो ब्राह्मणः स वार्षिकं ब्रह्महत्याव्रतं प्राजापत्यं वा षाण्मासान् कुर्य्यात् वार्षिकव्रह्मत्याव्रताशक्तौ पञ्चदश धेनवो देयाः। षाण्मासिकब्रह्महत्याव्रताशक्तावपीत्यर्थः। अस्पृश्यस्पर्शनप्रायश्चित्तमभिहितमिदानीं स्पर्श एव निरूप्यते। किं साक्षात् स्पर्श एव स्पर्शशब्दस्यार्थः उत परम्परास्पर्शोऽपि न प्रथमः परम्परया चाण्डालस्पर्शे स्नानाद्यभावप्रसङ्गात् नापि द्वितीयः संयोगे संयुक्तसंयोगे चैकस्पर्शपदप्रवृत्तिनिमित्ताभावात् आकाशादिद्वारेण सर्वेषामेव तत्सम्भवाच्च किञ्चैवम् “औडुम्बरी सर्वा वेष्टयितव्या औडुम्बरीं स्पृष्ट्वोद्गायेत्” इत्यत्र सर्ववेष्टनस्पर्शयोरविरोधः स्यात् उपस्पर्शस्यापि स्पर्शशब्दवाच्यत्वात् तथा च विरोधाधिकरणोदाहरणं भाष्यकारस्याप्यसङ्गतं स्यात्। तथा च वृद्धशातातपः “अशुचिंसंस्पृशेद् यस्तु एक एव स दुष्यति। तत्स्पृष्टोऽन्योन दुष्येत सर्वद्रव्येष्यं विधिः”। “तथा संहतानान्तु पात्राणां यद्येकमुपहन्यते। तस्यैव शोधनं प्रोक्तं न तु तत्स्पृष्टिनामपि”। उच्यते। सत्यम् उपस्पर्शो यद्यपि न स्पर्शशब्दार्थस्तथाप्यत्र वचनादेकावयबिद्वारकपरम्यरास्वर्शोऽपि ग्राह्यः। तथा चापस्तम्बः “एकशाखां समारूढश्चाण्डालादिर्यदा भवेत्। व्राह्मणस्तत्र निवसन् स्नानेन शुचतामियात्”। आदिशब्दादुदक्यादीनां ग्रहणम्। शाखाग्रहणमेकावयव्युपलक्षणार्थं तेनकपाषाणादरपि ग्रहणम्। तथा स एव “एकवृक्षं समारूढौ चाण्डालब्राह्मणी यदि। फलं भक्षयतस्तत्र प्रायश्चित्त कथ भवेत्। ब्रह्मणानप्यनुज्ञाप्य सवासाः स्नानमावरेत्। अ- होरात्रोषिती भूत्वा पञ्चगव्येन शुध्यति”। तथा स एव “एकशाखां समारूढः फलान्यश्नात्यसौ यदि। प्रायश्चित्तं त्रिरात्रं स्यात् पञ्चगव्यं विशोधनम्”। अत्र व्यवधानसन्निभानाभ्यामेकरात्रत्रिरात्रे। चानविषयं चैतदुभयम्। तथा च ब्रह्मपुराणम् “विप्रण्डालसहितो यत्रकस्मिन् वनस्पतौ। अज्ञानात्तु फलं भङ्क्ते चरेत्तत्राघमर्षणम्”। उपस्पर्शत्वात्। “पाद आमाशने तथेति” पुर्वोक्तापस्तम्बेन न विरोधः। तथाचापस्तम्ब “मूढः स्रस्तरे वा संस्पृशन् अप्रयतान् प्रयतो मन्येत”। तृणस्रस्तरादी चाण्डालादिभिः सहावस्थितोऽपि स्पृशन्नपि तान् प्रयतत्वमात्मनो मूढो मन्येत वस्तुतस्तु अशुचिरेवासौ इति पूर्ववाक्योपात्तं स्नानमेव कुर्य्यात् तथा “तृणकाष्ठादिषु निखातेष् च”। संक्रमादौ निखातेषुतृणकाष्ठेषु चाण्डालेन सहाबस्थितोऽप्यशुचिरेव तथा “प्रोक्ष्य वास उपयोजयेत्”। न सचेलं स्नानमित्यर्थः। अयमेव विशेषः साक्षात्स्पर्शादस्य। अतोवचनादेकावयविद्वारा परम्परास्पर्शे स्नानादिकनिति। नौकादिषु न दोष इत्याह पराशरः। “रथ्याकर्दमतोयानि नावः पन्थास्तृणानि च। स्पर्शनान्न प्रदुष्यन्ति पक्वेष्टकचितानि च”। तृणसमूहः पक्वेष्टकचितानि मठादीनि। नन्वेवं याज्ञवल्क्यवचनविरोधः तद यथा “उदक्याशौचिभिः स्नायात् संस्पृष्टस्तैरुपस्पृशेत्। अब्लिङ्गानि लपेच्चैव गायत्री मनसा स्मरन्”। अत्र परम्परयोदक्यया अशुचिभिश्च स्पर्शे आचमनमवगम्यते। तथा “शवं तत्स्पृष्टिनाञ्चैवेति” मनुवचते तत्स्पृष्टीत्यभिधीयते तदनर्थकं स्यात् चाण्डालादिस्पृष्टस्पष्टिनीरपि स्नानाभ्युगमात् “शवस्पृष्ट्युपस्पर्शे सर्वोदकस्पर्शाच्छुद्धिरिति” गौतमविरोधः “शवस्पृर्शे दिवाकीर्त्तिम्” इत्यादि वृहस्पतिवचन “शवस्पृशञ्च स्पृष्ट्वेत्यादिविष्णुवचनाभ्याञ्च विरोधः व्यात तच्छब्देन सर्वेषामेव चाण्डालादीनां परामर्शात् एषु सर्वेषु शवस्प्ष्टिग्रहणात। उच्यते। एकशाखां समारूढ इत्याद्यापस्तम्बवचनं वर्त्तमानाशुचिसंसर्गिस्पर्शविषय याज्ञवल्क्यादिवचनञ्चातौतस सर्गिस्पर्शविषयमि त्यविरीधः। अतएव “संस्पृश्याशुचिसंस्पृष्टं तृतीयं वापि मानवः। हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य शुध्यति” इति देवलबचनमपि वर्त्तमानाशुचिसं सर्गिस्पृष्टी मूलाभूताशुच्यपेक्षया तृतीयो भवति तं स्पृष्ट्वा खाचमनमात्रं चतुर्थे नेत्यर्थः। अतीतविषये द्वितीयमेव स्पृष्ट्वाचमनमिति व्यवस्थितविकल्पवाचिवाशब्दार्थः। तृतीयस्पर्शे न किञ्चित्। चाण्डालादिस्पर्शविषयञ्चैतत् अतीतान्त्यजस्पर्शविषये तु द्वितीय एव नाचमनम्। तथा च शातातपः “अशुचिं संस्पृशेद् यस्तु एक एव स दुष्यति। तत्स्पृष्टोऽन्योन दुष्योत्तु सर्वद्रव्येष्वयं विधिः”। एतल्लशुनाद्यशुचिद्रव्याधऊर्द्ध्वोच्छिष्टस्पर्शविषयमपि। अत्रापि वर्त्तमानान्त्यजसंसर्गिस्पर्शे साक्षात्स्पर्श इवाचमनमेवेति सर्वमुपपन्नम्”। पराशरेणाऽत्र कश्चिद्विशेष उक्तो यथा “उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथञ्चन। अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात्। मार्जनोपाञ्जनैर्वेश्म प्रोक्षणेन च पुस्तकम्। सम्मार्जनेनाञ्जनेन सेकेनील्लेखनेन च। दाहेन च भुवः शुद्धिर्वासेनाप्यथ वा गवाम्”। अत्रापि लघुगुरुसंसर्गविषयभेदात् व्यवस्था। “नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम्। ब्राह्मणान्तरितं भोक्ष्यमाकराः सर्व एव हि”।
सङ्करी = स्त्री सङ्कीर्य्यते सम् + कॄ–कर्मणि घ गौरा० ङीष्। नवदूषितकन्यायां मेदि०।
सङ्करीकरण = न० सङ्करः क्रियतेऽनेन च्वि + कृ–करणे ल्युट्। पापभेदे तत्स्वरूपप्रायश्चित्तादिकं प्रा० वि० दर्शितं यथा
“अथ सङ्करीकरणापात्रीकरणमलावहप्रायश्चित्तम्। तत्र मनुः “खरोष्ट्राश्वमृगेभानामजाविकबधस्तथा। सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च। निन्दितेभ्यो धनादानं बाणिज्य शूद्रसेवनम्। अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम्। कृमिकीटवयोहत्यामद्यानुगतभोजनम्। फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्”। मद्यानुगतभोजनं मद्यपानसमये यदुपस्थापितं फलमूलादि। अधैर्य्यं गीतश्रवणादि “अल्पेऽप्यचये अत्यन्तवैरकृत्यमिति” कल्पतरुः। “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम्। मलिनीकरणीये तु तप्तः स्यात् यावकस्त्र्यहम्”। तथा विष्णुः “ग्राम्यारण्यानां पशूनां हिंसा सङ्कीर्णकरम्। सङ्कीर्णकरणं कृत्वा मासमश्नोत यावकम्। कृच्छ्रातकृच्छ्रमथ वा प्रायश्चित्तन्तु कारयेत्। निन्दितेभ्यो धनादानं बाणिज्यं कुशीदजीवनम्”। असत्यं शूद्रसेवनमित्यपात्रीकरणं कृत्वा तप्तकृच्छेण शुद्ध्यति। “शीतकृच्छ्रेण वा भूयोमाहासान्तपनेन वा”। “पक्षिणां जलचराणाञ्च घातनं कृमिकीटघातनं मद्यानुगतभोजनमिति मलावहानि” “मलिनीकरणीये तु तप्तकृच्छ्र स- माचरेत्। कृच्छ्रातिकृच्छ्रमथ वा प्रायश्चित्तं विमोधनम्। अत्र सङ्करीकरणे सकृत्करणे मासवकम अभ्यासे कृच्छ्रातिकृच्छम्। अत्यन्ताभ्यासे चान्द्रायणम्। अपात्रीकरणे च सकृत्करणे तप्तकृच्छ्रं चतुरहसाध्यम्। शीतकृच्छ्रो वा शीतकृच्छ्रे तप्तकृच्छ्रेतिकर्त्तव्यतैव किन्तु तदेव द्रव्यमत्र शातलमिति विशेषः। अभ्यासे तु महासान्तपनम् अत्यन्ताभ्यासे चान्द्रायणम्। मलावहेतु सकृ दाचरणे त्र्यहयावकम् अभ्यास तु तप्तकृच्छ्रम् अत्यन्ता भ्यासे कृच्छ्रातिकृच्छ्रमिति यथायोग्यमूह्यम्। एषु च तुर्षुयत्र यत्र प्रायश्चित्तविशेषो नोक्तस्तत्रैव एष बोद्धव्यः”।
सङ्कर्षण = पु० संकृष्यते गर्भात् गर्भान्तरं नीयतेऽसौ सम् + कृषयुच्। १ यलदेवे अमरः। तत्कथा हरिवं० ५८ अ० “सप्तमो देवकीगर्भः योऽंशः सौम्यो ममाग्रजः। स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम्। सङ्कर्षणात्तु गर्भस्य स तु सङ्कर्षणो युवा। भविव्यत्यग्रजो भ्राता मम शीतांशुदर्शनः” निद्रात्मिकां विष्णुमायां प्रति भगवदुक्तिः। भावे ल्युट्। २ आकर्षणे ३ स्थानान्तरनयने च न०।
सङ्कलन = न० सम् + कल–ल्युट्। १ एकत्रस्यीकरणे २ योजने (ठिकदेथा) लीला० ३ संग्र्हे च। योजनं च नानासङ्ख्यासूचकाङ्कानामेकसङ्ख्यापादकाङ्ककरणं तच्च द्विविधं शुद्धसङ्कलनं भिन्नसङ्कलनञ्च तत्र शुद्धसङ्कलनं तु “कार्य्यः क्रमादुत्क्रमतोऽथ वाङ्कयोगो यथास्थानमथान्तरं वा” लीला० उक्त्या यथास्थानम् एकादिस्थाने एकाद्यङ्कयोग एव दशशतादिस्थाने दशशताद्यङ्कयोगः। भिन्नसङ्कालनञ्च छेदसहिताङ्कयोजनम्। तत्रांशसमवर्णनं तत्रोक्तं यथा “अन्योन्यहाराभिहतौ हरांशौ राश्यीः समच्छेदविधानमेवम्”। न्यासः (३/१) (१/५) (१/३) समच्छेदे जातम् (४५/१५) (३/१५) (५/१५) “योगोऽन्तरं तुल्य हरांशकानां कल्प्यो हरो रूपमहार राशेः” इत्युक्तदिशा योजने जातम् (५३/१५) एवं प्रभागभागानुबन्धभागापवाहेषु समच्छेदकरणं तत्र दृश्यम्।
सङ्कलित = त्रि० सम् + कल–क्त। १ योजिते २ रेखादिना संवृते अमरः। ३ संगृहीते च भावे क्त। ४ संयीजने न०।
सङ्कलितैक्य = न० ६ त०। “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलितैक्यम्” लीला० उक्ते एकाद्यङ्कानां यीगे
सङ्कल्प = पु० सम् + कृप–घञ् गुणे रस्य लः। १ अभीष्टसिद्धये (इदमित्थमेव कार्य्यम) इत्येवंरूपे मतमोव्यापारभेदे अ- मरः। २ कर्मसाधनाय अभिलापवाक्ये “सङ्कल्पेन विनाराजन्! यत् किञ्चित् कुञ्चित् कुरुते नरः। फलस्याल्पाल्पकं तस्य धर्मस्यार्द्धक्षयो भवेत्” ब्रह्मपु०। धर्मस्य अर्द्धक्षयोक्तेः फलस्याल्पाल्पकत्वमप्यर्द्धपरत्वं युक्तं धर्माधीनत्वात् फलस्य। “आशास्य च शुभं कार्यमुद्दिश्य च मनोगतम्” अगस्त्यपूजने उक्तम् “मनोगतं शुभफलमाशास्य मनसा सङ्कल्प्य, उद्दिश्य वाचा अभिलप्य, कार्यं कर्मणा उपपाद्यम्” ति० त० रघु०। “मनसा सङ्कल्पयति वाचा अभिलपति कर्मणा चोपपादयति” हारीतः। तत्प्रकारो यथा “शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा। सङ्कल्पो नैव कर्त्तव्यो मृण्मयेन कदाचन। गृहीत्वौदुम्बरं पात्रं वारिपूर्णं गुणान्वितम्। दर्भत्रयं साग्रमूलं फलपुष्पतिलान्वितम्। जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः। साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम्” भविष्यपु०। अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भावविषयः एकहस्तपरो वा एका० त० रघु०। मानससङ्कल्पश्च द्विविधः भावाभावविषयभेदात् तत्राद्यः मयैतत्कर्त्तव्यमित्येवरूपः द्वितीयः मयैतन्न कर्त्तव्यमित्येवं रूपः। तत्र पूजादिसङ्कल्पोभावविषय उपवासादिसङ्कल्पोऽभावविषय इति भेदः। ध्यम्। “सङ्कल्पभूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः। व्रतानियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” एका० त०।
सङ्कल्पजन्मन् = पु० सङ्कल्पात् जन्म यस्य। १ कामदेवे हला० सङ्कल्पजादयोऽप्यत्र। सङ्कल्पजातमात्रे यज्ञादौ च त्रि०
सङ्कल्पयोनि = पु० सङ्कल्पोयोनिरुत्पत्तिकारणं यस्य। कामदेवे “सङ्कल्पयोनेरभिमानभूतमिति” कुमारः।
सङ्कसूक = त्रि० सम् + कस–ऊकन्। १ अस्थिरे अमरः। २ मन्दे सि० कौ० ३ दुर्बले उणादि०। ४ सङ्कीर्णे ५ अपवादशीले च संक्षिप्तसा०।
सङ्कार = पु० सम् + कॄ–कर्मणि बा० घञ्। १ सम्मार्ज्जनादिक्षिप्तधूल्यादौ शब्दर०। २ नवदूषितकन्यायां स्त्री मेदि० गौरा० ङीष्। भावे घञ्। ३ अग्निचटत्कारे मेदि०।
सङ्काश = त्रि० सम्यक् काशते काश–अच्। १ सदृशे “तरुणादित्यसङ्काशमिति” तन्त्रम्। अत्रार्थे निभादिवदस्य नित्यसमासता। २ अन्तिके च विश्वः।
सङ्किल = पु० सम् + किल–क। वह्नेरुल्कायां त्रिका०।
सङ्कीर्ण = त्रि० सम् + कॄ–क्त। बहुजनसङ्घर्षेण निरवकाशे १ स्थाने भरतः। २ मिलितनानाजातीये उणा० ३ व्याप्ते ४ मिश्रिते ५ सङ्कटे अजयः। एकत्र ६ निसितयोः पर- स्परविजातीययोश्च। इतरवर्णेन इतरवर्णस्त्रियां जाते ७ जातिभेदे पु० ८ अशुद्धे अमरः। ९ मिश्रितरागे सङ्गीत०
सङ्कीर्त्तन = न० सम् + कीर्त्त–ल्युट्। १ स्तुतौ २ देवादेर्नामोच्चारणे ३ गानेन देवगुणाद्युत्कीर्त्तने च “श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम्। कुरु वत्साघुनात्रैव शृण्वन्तु मुनयः सुराः। गोपीनां वस्त्रहरणं परं रासमहोत्सवम्। ताभिः सार्द्धं जलक्रीडां हरेरुत्कीर्त्तनं कुरु। कृष्णसङ्कीर्त्तनस्थाने ये च नृत्यन्ति वैष्णवाः। तेषां पादरजः स्पर्शात् सद्यः पूता वसुन्धरा” नारदपञ्चरात्रम्।
सङ्कुचित = त्रि० सम् + कुच–क्त। १ कृतसङ्कीचे २ संक्षिप्ते ३ अप्रफुल्ले च हेमच०। ४ सुप्ते राजनि०।
सङ्कुल = न० सम् + कुल–क। १ परस्परवराहते “यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता। माता तु मम बन्ध्यैव पुत्त्रहीवः पितामहः” इत्येवं वाक्ये अमरः। २ परस्पपरहननरूपे युद्धे ३ बहुजनादिभिः संबाधेन निरवकाशे स्थाने ४ सङ्कीर्णे त्रि० अमरः।
सङ्केत = पु० सम् + कित–घञ्। मनोगतभावव्यञ्जनाय कृते हस्तादिचालनरूपे १ व्यापारे (इसारा) त्रिका०। “अस्नाच्छब्दादयमर्थोबोध्यः, अयं शब्दः अमुमर्थं बोधयतु वा” इत्येवंशब्दनिष्ठे २ अर्थबोधनाशक्तिविशेषे सङ्केतश्च जात्यादिचतुष्के इति वैयाकरणाः। “शब्दैरेव प्रतीयन्ते जातिदूव्यगुणक्रियाः। चातुर्विध्यादमीषान्तु शब्द उक्तश्चतुर्विधः” काव्यादर्शः। “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च” हरिः “जातिदूव्यगुणस्पन्दैर्धर्मैः सङ्केतवत्तया। जातिशब्दादिभेदेन चातुर्विध्यं परे जगुः” वैयाकरणमतम् शब्दश० प्र० उक्तम्। “रूढं सङ्केतवन्नास सैव संज्ञेति कीर्त्त्यते” शब्दश०। शक्तिशब्दे ५०७६ पृ० दृश्यम्। ३ प्रियसङ्गमार्थे गुप्तस्थाने च।
सङ्केतित = त्रि० सङ्केतो जातोऽस्य तार० इतच्। सङ्केतयुते वाच्ये अर्थे “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” काव्यप्र०।
सङ्कोच = पु० सम् + कुच–घञ्। बहुविषयकवाक्यस्याल्पविषयकतया १ व्यवस्थापने सामान्यशब्दस्य २ विशेषपरतायाम् श्राद्धवि० ३ जडीभावे ४ बोधे ५ बन्धे च मेदि०। सम् + कुच–अच्। ६ मत्स्यभेदे पुंस्त्री० मेदि० स्त्रियां ङीष्। ७ कुङ्कुमे न० अमरः।
सङ्कोचनी = स्त्री सम् + कुच–ल्यु–गौरा० ङीष्। लज्जःलुलतायां रत्नमा०।
सङ्क्रन्दन = पु० सङ्क्रन्दयत्यसुरान् सर् + क्रन्द–णिच्–ल्यु। १ इन्द्रे अमरः। भावे ल्युट्। २ सम्यक्क्रन्दने न०।
सङ्क्र(क्रा)म = पु० सङ्क्रामत्यनेन सम् + क्रम–घञ् वा वृद्धिः। १ जलबन्धनस्थाने (सा~को) अमरः “आत्मानं सङ्क्रमं कृत्वेति” स्मृतिः। भावे घञ्। २ रव्यादेः राश्यन्तरसञ्चारे धरणिः। “त्रुटेः सहस्रभागो यः सकालो रविसंक्रमः” ति० त०। ३ एकत्रस्थितवस्तुनः तत् स्थानत्यागेनान्यत्रगमने च।
सङ्क्रमण = न० सम् + क्रम–ल्युट्। १ सङ्क्रान्तौ २ रव्यादीनां राश्यन्तरगमने च।
सङ्क्रान्त = त्रि० सङ्क्रान्तिरस्यास्ति अच्, सम् + क्रम–क्त वा। १ सङ्क्रान्तियुक्ते २ सङ्कमकमणर्त्तरि ३ प्राप्ते दायरूपेण भर्त्त्रादित आगते स्त्रिया ४ प्राप्तधने च। दायभा० मते स्त्रीणां संक्रान्तधते उषभोगमात्रं तन्मरणे स्वपत्यादि दायादानां तद्धनम् “भुञ्जीतामरणात् क्षान्ता दायादः ऊर्द्ध्वमाप्नुयुः” कात्या० वचनात्। मिता० मते स्वदायादानामिति विवेकः।
संक्रान्ति = स्त्री सम् + क्रम–भावे क्तिन्। संक्रमणशब्दार्थे संक्रान्तिपदार्थरविसंक्रान्तिनामभेदफलभेदादि मु० चि० पी० धा० निरूपितं यथा “घोरा १ऽर्कसंक्रमणमुग्ररवौ हि शूद्रात्, ध्वाङ्क्षी २ विशो, लघुविधौ च चरर्क्षभौमे। चौरान्, महोदरयुता ३ नृपतीन्, ज्ञमैत्रे मन्दाकिनी ४ स्थिरगुरौ सुखयेच्च, मन्दा। ५। विप्रांश्च, मिश्रभभृगौ तु पशूंश्च मिश्रा ६ तीक्ष्णर्कजेऽन्त्यजसुखा खलु राक्षसी ७ च। त्र्यंशे दिनस्य नृपतीन् प्रथमे निहन्ति मध्ये द्विजानपि विशोऽपरके च शूद्रान्। अस्ते निशाप्रहरकेषु पिशाचकादोन्नक्तञ्चरानपि नटान् पशुपालकांश्च। सूर्य्योदये सकललिङ्गिजनञ्च सौम्यया० म्यायनं मकरकर्कटर्निरुक्तम्। षडशीत्याननञ्चापमृयुक्वन्याझषे भवेत्। तुलाजौ विषुवं, विष्णुपदं सिंहालिगो घटे। संक्रान्तिकालादुभयत्र नाडिकाः पुण्या मनाः षोडशषोडशोष्णगोः। निशीथतोऽर्वागपरत्र संक्रमे पूर्वापराहान्तिमपूर्वभागकौ। पूर्णे निशीथे यदि संक्रमः स्याद्दिनद्वयं पुण्यमथोदयास्तात्। पूर्वं परस्ताद् यदि याम्यसौम्यायने दिने पूर्वपरे तु पुण्ये। सन्ध्या त्रिनाडीप्रमितार्कबिम्बादर्द्धोदितास्तादधऊर्द्ध्वमत्र। चेद्याम्यसौव्येअयने क्रमात्स्तः पुण्यौ तदनीं परपूर्वघस्रौ। थाभ्यायने विष्णुपदे चाद्या मध्यास्तुनाजायीः। षडशीत्याकने सौम्ये परा नाड्योऽतिपुण्यदाः” मु० चि०। “तत्र ग्रहाणां प्राग्राशितोऽपरराशौ संक्रमणं संक्रान्तिरिति संक्रान्तिलक्षणं सा च द्विविधा मध्यमा स्पष्टा च। षट्कर्मसंस्कृतो मध्यमग्रहोराश्यन्तरं यदा संक्रानति सा मध्यमसंक्रान्तिरुच्यते। यदा तु स्पष्टीकृतसंस्कारविशिष्टो ग्रहो राश्यन्तरं गच्छेत् सा स्पष्टसंक्रान्तिरुच्यते। तत्र मध्यममानस्य स्पष्टोकरणार्थत्वादेव तज्जनितसंस्कारानुपयोगादत्रा तत्त्यागेन स्पष्टसं क्रान्तिरेव गृह्यते। सापि द्विविधा सायनांशा निरयनांशा चेति। तत्र यदा सिद्धान्तगणनागतायनांशसंस्कृता ग्रहाराश्यन्तरगमनमुररीकुर्वते सा सायनांशसंक्रान्तिरुच्यते। यदा त्वयनांशसंस्काररहिताग्रहाराश्यन्तरगास्तदा निरयनांशा संक्रान्तिरुच्यते। तत्रान्यासां चन्द्रांदिसंक्रान्तीनान्तु “देवद्व्यङ्कर्त्तवोऽष्टाष्टौ नाड्योऽङ्काः खनृपाः क्रमात्”। वर्ज्याः संक्रामणेऽर्कादेः प्रायोऽर्कस्यातिनिन्दिता” इति वर्ज्यधटीत्वमेव विवाहप्रकरणे वक्ष्यति न तु फलकथने आसां संक्रान्तीनां कश्चिदुपयोगः। सूर्य्यसंक्रान्तीनान्तु नक्षत्रवारसमयभेदेन ववादिकरणभेदेन च शुभाशुभफलकथनयोग्यता पुण्यकालता संक्रान्तिविशेषे वर्ज्यघटीन्यूनाधिकभावश्चास्तीत्यतो बहुवक्तव्यत्वात् स्वतन्त्रमेव सूर्य्यसंक्रान्तिप्रकरणर रिप्सुर्नक्षत्रवारभेदेन फल तावत् सार्द्धवसन्ततिलकयाह। घोरेति अर्कस्य सूर्य्यस्य संक्रमणं निरयनाशा संक्रान्तिरुग्ररवावुग्रसंज्ञकनक्षत्रे रविवारेऽर्कवारे वा स्यात् तदा घोरानाम्नी सा शूद्रान् सुखयेत् सुखिन उत्पादयेत्। अत्रार्कसंक्रमणमिति पदौपादानसामर्थ्यात् सूर्य्यसं क्रान्तिष्वेवायं विचारो नाखिलग्रहसंक्रान्तिष्विति फलितोऽर्थः। अथ लघुनक्षत्रे विधौ चन्द्रवारे वा सूर्य्यसंक्रान्तिर्ध्याङ्क्षीनार्म्ना विशी वैश्यान् सुखयेत्। चरर्क्ष चरनक्षत्रे भौमे मङलवारे वा संक्रान्तिर्महोदरयुता महोदरीनाम्नी चोरान् सुखयेत् ज्ञमैत्रे बुधे मैत्रसंज्ञकनक्षत्रे वा संक्रान्तिर्मन्दाकिनीनाम्नी नृपतीन् राज्ञः सुखयेत्। स्थिरनक्षत्रे गुरुवारे वा संकान्तिर्मन्दानाम्नी विप्रान् सुणयेत्। मिश्रनक्षत्रे भृगुवारे वा संक्रान्तिर्मिश्रनाम्नी पशून् सुखयेत्। तीक्ष्णनक्षत्रे अर्कजे शनिवारे वा संक्रान्तिः खलु निश्चयेन राक्षसीनाम्नी अन्त्यजांश्चाण्डालान् सुखयतीत्यन्त्यजसुखा स्यादित्यर्थः। यद्राह कश्यपः “घोराष्वाङ्क्षीमहोदर्य्यो मन्दा मन्दाकिनी तथा मिश्राराक्षसिका सूर्य्यसंक्रान्तष्वर्कवासरात्”। वसिष्ठ “घो- रोग्रर्क्षे ध्वाङ्क्षी लघुभे चरमे महोदरी मृदुभे। मन्दाकिनी चरर्क्षे मन्दा मिश्रा मिश्रे च राक्षसी तीक्ष्णे”। अत्र छन्दीभङ्गस्त्वार्षः। देवीपुराणे “मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा। क्षिप्रे ध्वाङ्क्षीं विजानीया दुग्रे घोरा प्रकीर्त्तिता। चरे महीदरी ज्ञेया क्रूरैरु ग्रैस्तु राक्षसी। मिश्रिता चैव विज्ञेया मिश्रऋक्षैस्तु संक्रमे” इति। रत्नमालायाम् “उग्रक्षिप्रचरे मित्रध्रुवमिश्राख्यदारुणैः। ऋक्षैः संक्रान्तिरर्कस्य घोराद्या क्रमशो भवेत्”। नारदकश्यपौ “शूदूतस्करवैश्ये क्ष्मादवभूपगवां क्रमात्। अनुक्तानाञ्च सर्वेषां धरिद्याः सुखदाः स्मृताः”। क्ष्मादेवाः ब्राह्यणाः अनुक्तानां चाण्डालादीनाम्। ननूक्तं वक्ष्यमाणं वा शुभाशुभफलं सायनांशसंक्रान्तितः कुतो न विचार्य्यते इति चेत् उच्यते सायनांशसंक्रान्तेः स्नानदानजपादावेव कार्य्यं न सर्वत्र यदाह पुलस्त्यः “स्नानदानजपश्राद्धव्रतहोमादिकर्मसु। सुकृतं चलसंक्रान्तावक्षयं पुरुषोऽश्नुते” इति। चलसंक्रान्तिः सायनांशसंक्रान्तिः। अतश्चलसंक्रान्तेः परिगणितस्नानादिकविषयत्वादेव कृत्यान्तरेषु विवाहादिशुभकर्मसु संक्रान्तिमासाङीकारे शुभाशुभफलकथनञ्च नास्या उपयीग इति युक्तमुत्पश्यामः। इदं चाग्रे सम्यक्ततया निर्णेष्यते”। “अथ दिनरात्रिविभागेन संक्रान्त्यशुभफलमुत्तरायणदक्षिणायनसंज्ञाञ्च सार्द्धवसन्ततिलकय्याह। त्र्यंशे इति अत्रार्कसंक्रमणमित्यनुवर्त्तते दिनप्रमाणं त्रिभिर्भक्तं घट्यात्मकस्तृतीयांशो भवति तत्र दिनस्य प्रथम त्र्यंशेऽर्कसंक्रमणं नृपतीन् हन्ति मध्ये द्वितीयत्र्यंशे द्विजान् ब्राह्मणान् हन्ति अपरके तृतीयत्र्यंशे वैश्यान् इत्येवं सर्वेत्र व्याख्येयम्। अस्ते सूर्य्यास्तसमयेऽर्कसंक्रमणं शूद्रान्। अथ रात्रिसं क्रान्तिफल तत्र रात्रिप्रथमप्रहरे पिशाचकादीन् आदिशब्देन भूवादीन्। द्वितीयप्रहर नक्तञ्चरान् राक्षसान् तृतीयप्रहरे नदान् नर्त्तकान्, चतुर्थप्रहरे पशुपालकान् आभीरान्। सूर्य्योदयसमयकालेऽर्कसंक्रमणं सकललिङ्गिजनं पाखण्डादिकं हन्तीत्यर्थः “पाखण्डाः सर्वलिङ्गिन” इत्यभिधानात्। यदाहतुर्नारदकश्यपौ “पूर्वाह्णे नृपतीन् हन्ति विप्रान् मध्यदिने विशः। अपराह्णेऽस्तगे शूद्रान् प्रदोषे च पिशाचकान्। निशि रात्रिञ्चरान्नाट्यकारानपररात्रके। गोचारिणश्च सन्ध्यायां लिङ्गिनं रविसंक्रमः” इति। संक्रान्तेः क्रूरसौम्यवारपरत्वेन फलविशेषमाह वसिष्ठा रविरविज- समवारे संक्रान्तौ दिनकरस्य तन्मामे। पित्तकफानिलजामयनरपतिकलहस्त्ववृष्टिश्च। बुधगुरुसितचन्द्राहे सति संक्रान्तावनामयं नॄणाम्। क्षितिपतिनिकरक्षेमं सस्य विवृद्धिर्विधर्मिणां पीडा”। अत्र मेषसंक्रान्तौ विशेषमाह कश्यपः “यदा मेषगतः सूर्य्यो भरण्यादिचतुष्टये। सस्यवृद्धिर्भवेत्तत्र वृद्धिरार्द्राचतुष्टये। मघादि दशके हानिः क्षेमं चानुक्तभेषु च”। अस्यार्थः। यस्मिन् दिने मेषसंक्रमस्तद्दिने चन्द्रो यदि भरण्यादिनक्षत्रचतुष्टये स्यात् तदा सस्यवृद्धिः एवमग्रेऽपि व्याख्येयम्। अथ जन्मनक्षत्रे संक्रान्तिफलं दीपिकायां “यस्य जन्मर्क्षमासाद्य रविसंक्रमणं भवेत्। तन्मासाद्यन्तरे तस्य रोगः क्लेशो धनक्षयः” इति। तत्र शान्तिकमपि दिपिकायामुक्तम् “तगरसरोरुहपत्रैरजनीसिद्धार्थलोधरसंयुक्तैः। स्नानं जन्मन्यृक्षे रविसंक्रान्तौ नृणां शुभदमिति”। अथ संक्रान्तिषु वृष्टौ जातायां फलमुक्तम् वसिष्ठेन “अजकन्याझषकर्किणि संक्रान्तौ यदि भवेद्वर्षम्। अतुलं क्षेमसुभिक्षं नृपसज्जनगोकुलक्षेमम्। घटचापसिंहमिथुनसंक्रान्तौ यदि भवेद्वर्षम्। आमयडामरभूभृद्युद्धमनर्थं त्ववृष्टिश्च। वृषवृश्चिकतुलमकरे वृष्टिः स्यात् संक्रमे समये। विस्फोटामयतस्करपीडावृष्टिः कृशानुभयमिति”। अथ सौम्येति मकरकर्कटयोः संक्रान्तिश्चेत् तदा क्रमेण सौम्ययाम्यायनं निरुक्तं कथितं मकरे उत्तरायणं कर्कटे याम्यायनं स्यादित्यर्थः। यदाह नारदः “सौम्ययाम्यायने नूनं भवतो मृगकर्किणि” इति। अथावशिष्टतादृशसंक्रान्तीनां षडशीतिमुखादिकाः संज्ञा अनुष्टभाह षडशीतीति धनुर्मिथुनकन्यामीनेषु संक्रान्तिश्चेत् तदा षडशीतिमुखानाम्नी संक्रान्तिः, तुलामेषयोः संक्रान्तिर्विषुवनाम्नी। सिंहवृश्चिकवृषकुम्भेषु संक्रान्तिर्विष्णुपदाख्या। उक्तञ्च नारदेन “स्थिरभेष्वर्कसंक्रान्तिर्ज्ञेया विष्णुपदाह्वया। षडशीतिमुखं ज्ञेयं द्विस्वमावेषु राशिषु। तुलाधराजयोर्ज्ञेयं विषुवं सूर्य्यसंक्रमः”। संज्ञाप्रयोंजनञ्च “याभ्यायने विष्णुपदे चाद्या मध्यास्तुलाजयोः। षडशीत्यानने सौम्ये परा नाद्योऽतिपुण्यदाः”। इति ग्रन्थकृदग्रे वक्ष्यति। अत्र मनुः “संक्रान्तौ यानि दत्तानि हव्यकव्यानि दातृभिः। तानि नित्यं ददात्यर्कः पुनर्जन्मनि जन्मनि। रविसंक्रमणे पुण्ये न स्नायाद् यदि मानवः। सप्तजन्मसु रोगी स्यात् दुःखभागी हि जायते” इति शातातपोक्तेः स्नानदाश्राद्धादिकृत्यस्य संक्रान्तिकालेऽवश्यकर्त्त- व्यता प्रतीयते तत्र श्राद्धादेरनेकक्षणसाध्यत्वादननुष्ठान लक्षणमप्रामाण्यमापद्येत संक्रान्तिकालस्यातिसूक्ष्ममत्वात् तदुक्तम् देवीपुराणे “सुस्थे नरे सुखासीने यावत् स्पन्दति लोचनम्। तस्य त्रिंशत्तमोभागस्तत्परः परिकीर्तितः। तस्माच्छततमोभागस्त्रुटिरित्यभिधीयते। त्रुटेः सहस्रभागी यः स काली रविसंक्रमः” इति। देवलोऽपि “संक्रान्तिसमयः सूक्ष्मो दुर्ज्ञेयः पिशितेक्षणैः” इति पिशितेक्षणैः मनुष्यैः। अतोमुख्यकालानुपलब्धौ गौणकालेऽपि कार्य्यं वचनप्रामाण्यात्। स च गौणकालः प्रतिनिधिरित्यतो गौणकालमुषजातिकाच्छन्दः पूर्वार्द्धेनाह संक्रान्तीति। गणितमार्गेण यः उष्णगोः सूर्य्यस्य संक्रान्तिकाल आगतस्तत उभयत्र पूर्वतः परतश्च षोडश नाड्यः पुण्यसम्पादकत्वात् पुण्या मताः सम्मता सूर्य्यसंक्रान्तिसमयात् पूर्वं षोडश पश्चाच्च षोडशघटिकाः पुण्यकाल इति द्वात्रिंशद्घटिका भवन्तीत्यर्थः। तदाह वसिष्ठः “दिनपतिसंक्रमणात् प्राक् षोडश नाड्यश्च पुण्यकालः सः। परतः षोडश नाड्यः सर्वत्र स्नानदानकार्य्येषु। ब्रह्मसिद्धान्तेऽपि “सक्रान्तेः प्राक्परस्ताच्च सार्द्धाः षोडश नाडिकाः। त्रयस्त्रिंशत् संक्रमस्य पुण्याः सर्वस्य नाडिकाः”। अनेन “संक्रान्तेः पुण्यकालस्तु षोडशोभयतः कलाः” इति स्मृतिवाक्ये “यैः पूर्वतः परतश्चाष्टावष्टौ घटिकाः पुण्यकालं इत्येवं षोडशेति व्याख्यातं तदपाकृतं भवति। किञ्चायमर्थोवासनासिद्धः सूर्य्यसिद्धान्तेऽभिहितः “अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः। तदर्द्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथा परे”। सिद्धान्तशिरोमणावपि “षष्टिघ्नबिम्बं ग्रहभूक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये। रवेस्तु ताः पुण्यतमा ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते”। इति वासना चेयं यदि ग्रहस्पष्टगतितुल्यकलाभिरहोरात्रमानरूपाः षष्टिघटिकालभ्यन्ते तदा ग्रहबिम्बकलाभिः किमिति त्रैराशिकेन ग्रहे बिम्बकलानां षष्टिर्गुणको जहाभुक्तिर्भाजको निष्पन्न इत्यर्थः। एवं सर्वग्रहाणामपि संक्रान्तिः स्यात् तदुक्तं सिद्धान्त एव। अत्र तु विस्तरभयादनुपयुक्तत्वाच्च नास्माभिरलेखि। अतएव त्रिं शद् एकत्रिंशत्सार्द्धद्वात्रिंशत्त्रयस्त्रिंशदादिभेदेन स्मृतिषु पुण्यघटिकाभिवधान स्पष्टीकृत्या भेदसंभवाद्भिन्नं तदेव सामान्यतः संक्रान्तिषु द्वात्रिंशत् घटिकारूपः पुण्यकालो निर्णीतः। देवीपुराणे तु मन्दादिसंज्ञाभेदात् पुण्यकाल- विशेष एवोक्तः “द्विचतुःपञ्चसप्ताष्टनपद्वादश एव च। क्रभेण घटिकाह्येतास्तत् पुण्यं पारमार्थिकम्” इति। अस्यार्थः मन्दायामन्तरालवर्त्तिघटिकाद्वयं मन्दाकिन्याञ्चतस्रो घटिकाः ध्वाङ्क्ष्यां पञ्च, घोरायां सप्त, महोदर्यामष्टौ, राक्षर्स्या नव, मिश्रायां दश” प्रागभिहितदेवीपुराणोक्तमन्दादिसंज्ञावाक्यान्नक्षत्रजनितसंज्ञासु मन्दादिष्वयं विचारो न वारप्रयुक्तास्वचनात् एवं संक्रान्तिषु पुण्यकालमभिधाय इदानी रात्रिसंक्रान्तौ विशेषमुपजात्युत्तरार्द्धेनाह निशीथत इति। निशीथोऽर्द्धरात्रं तस्मादवाक् पूर्वत्र अपरत्र पश्चाच्च सं क्रमे संक्रान्तिकाले सति पूर्वापरयोरह्नोः क्रमेणान्तिमपूर्वभागौ पुण्यौ स्यातां भागकाविति स्वार्थे कः। यद्यर्द्धरात्रात् प्राक्संक्रान्तिस्तदा पूर्वदिनस्योत्तरार्द्धं पुण्यं यद्यर्द्धरात्रादुपरि संक्रान्ति स्तदीत्तरदिनस्य पूर्वार्द्धमेव पुण्यमित्यर्थः। उक्तञ्च ब्रह्मसिद्धान्ते “भवनान्तं बिम्बमध्यं रात्र्यर्द्धात् प्रागुवेति चेत्। स्नानदानादि मध्याहात् कुर्य्यादूर्ध्वं गते दिने। रात्र्यर्द्धादुपरि क्षेत्रं याति चेदन्यथार्यमा। अह्न्यागामिनि मध्याह्नात् पूर्वं स्नानादि पुण्यदम्”। भवनं राशिः बिम्बमध्यं रवेः, क्षेत्रं राशिः। वृद्धवसिष्ठोऽपि अह्निसंक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम्। रात्रौ संक्रमणे भानोर्दिनार्द्धं म्नानदानयीः। अर्द्धरात्रादधास्तस्मिन् मध्याह्नस्योपरिक्रिया। ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात् प्रहरद्वयम्” इति। ननु रात्रौ शेषदिनसंक्रान्तौ वा रात्रावपि घुण्यकालसत्त्वात् तदा स्रानादि कुतो न क्रियते यदर्थमयसुद्यम आरब्ध उच्यते “रात्रौ म्नानं न कुर्वीत दानं चैव विशेषतः” इति सुमन्तुवाक्याद्रात्रौ म्नानाद्यधिकारासत्त्वात्। यत् तु नैमित्तिकं ग्रहणादिप्रयुक्तं तद्भवत्येव “नैमित्तिकञ्च कुर्वीत म्नानं दानञ्च रात्रिषु” इति सुमन्तुवाक्यशेषात् “अर्द्धरात्रसमये संक्रमणे मकरकर्कयोश्च विशे षमुपजातिकयाह। पूर्णे इति। “अर्द्धरस्त्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ” इत्थभिधानादर्द्धरात्रो निशीथशब्द वाच्यः तणिन्निशीथे पूर्णे रात्रिद्वितीयप्रहरान्तिमकलावच्छिन्ने यदि संक्रमः स्यात् तदा प्रागपरं दिवद्वये पुण्य मुक्तम्। उक्तञ्च वृद्धवसिष्ठेन “पूर्णे चेदर्द्धरात्रे तु यदा संक्रमते रविः। प्राहुः दिनद्वयं पुण्यं मुक्त्वा मकरकर्क टाविति”। ब्रह्मसिद्धान्तेऽपि “यद्यर्द्धरात्र एव स्यात् संपूर्णे संक्रमो रवेः। तदा दिनद्वयं पुण्य म्नानदानादि कर्मसु”। अत्र मुक्त्वा मकरकर्कटावित्य क्तं तत्रः मकरकर्क- टयोस्तु कथमित्यत आहाथेति अथानन्तरमुदयास्तात् सूर्य्योदयात् सूर्य्यास्ताच्च पूर्वं परस्ताच्च यदि याम्यसौम्ययने कर्कटमकरसंक्रान्ती भवतस्तदा पूर्वपरदिने पुण्ये स्यातां यदि सूर्य्योदयात् पूर्वं कर्कटसंक्रमणं स्यात् तदा पूर्वदिन एव पुण्यकालो न परदिने। तदाह वृद्धगार्ग्यः “यदास्तमयवेलायां मकरे याति भास्करः प्रदोषे चार्द्ध रात्रे वा स्नार्न दानं परेऽहनि। अर्द्धरात्रे तदूर्ध्वं वा संक्रान्तौ दक्षिणायने। पूर्वमेव दिनं ग्राह्यं यावन्नोदयते रविः” इति। अस्तमयवेलाया इति पञ्चम्यन्तं पदं वाशब्द इवार्थे। भविष्योत्तरपुराणेऽपि “कार्मुकन्तु परित्यज्य मृगं संक्रमते रविः। प्रदोषे चार्द्धरात्रे वा कुर्य्यादहनि पूर्वतः” इति। प्रदोषलक्षणं स्कन्दपुराणे “त्रि मुहर्त्तः प्रदोषः स्याद्रवावस्तं गते सति” इति। अथार्द्धोदयास्तादिति वचनस्याप्यवादमिन्द्रवज्राछन्दसाह अर्द्धोति अर्द्धोदितादर्द्धास्ताच्चाध ऊर्द्ध्वं च क्रमात्त्रिघटिकास्ताभिः प्रमिता सन्ध्यासन्ध्याकालः स्यात् अर्द्धोदितार्कविम्बात्पूर्वं त्रिघटीप्रमिता प्रातःसन्ध्या तथार्द्धास्तादर्कबिम्बादुपरि त्रिनाडीप्रमिता सायसन्ध्येत्यर्थः। तदाह वराहः “अर्द्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत्। तावत् सन्ध्याकालञ्चिह्नैरेतैः फलं ब्रूयादिति”। तत्प्रमाणमाह नारदः “अर्द्धास्तमनसन्ध्या हि घटिका त्रयसन्मिता। तथैवार्द्धोदयात् प्रातर्घटिकात्रयसम्मिता” इति। स्कन्दपुराणेऽपि “उदयात् प्राक्तनी सन्ध्या घटिकत्रयमुच्यते। सायसन्ध्या त्रिघटिका ह्यस्तादुपरि भास्वतः” इति। अत्र सन्ध्यांलक्षणे अर्द्धास्तमितानुदितवाक्यस्य स्कन्दपुराणीयवाक्यस्य च व्रीहिययवद्विकल्पः। अथः सन्ध्यालक्षणप्रयोजनमाहात्रेति। अथ सन्ध्यायां पातःसन्ध्यायां सायंसन्ध्यायां च क्रमाच्चेदु याम्यसौम्ये अयने दक्षिणोत्तरायणे तदानीं परपूर्वौ घस्रौ दिवसौ पुण्या याम्यसौम्ये अयने इत्यत्र यदि प्रातःसन्ध्यायां दक्षिणायनप्रवृत्तिस्तदा सूर्योद यादनन्तर सम्पूर्णमहः पुण्यं तथा यदि सायंसन्ध्यायामुत्तरायणप्रवृत्तिस्तदा सूर्य्यास्तात्पूर्वं सम्पूर्ण महः पुण्यं स्यादिर्थः। यदाह नारदः “सूर्य्यस्योदयसन्ध्यायां यदि याम्यायनं भवेत्। तदोदयादहःपुर्ण्य पूर्वाहः पूर्वतो यदि। सूर्य्यास्तमनसन्ध्यायां यदि सौम्यायनं भवेत्। तदाहः पुण्यकालः स्यात् परतश्चोत्तरेऽहनि इति। अत्र यद्युदयसन्ध्यातः प्राक्कर्कसंक्रम- स्तदा प्रागदिन एव पुण्यकालो नोत्तरदिने। तथा यद्यस्तसन्ध्यामतिक्रम्य मकरसंक्रान्तिस्वदोत्तरदिन एव पुण्यकालोनोत्तरदिने इति निष्कृष्टोऽर्थः। अतो वृद्धगार्ग्या दिवाक्यनारदवाक्ययोः प्रदोषसन्ध्यापदोपादानेन सामान्यविशषमावोऽवगन्तव्यः। यत्तु हेमाद्रौ स्कन्दपुराणीयं वाक्यम् “धनुर्मीनावतिक्रम्य कन्यां च मिथुनं ततः। पूर्वापरविभागेन रात्रौ संक्रमते यदा। दिनानान्ते पञ्च नाड्र्यस्तु तदाः पुण्यतमाः स्मृताः। उदये च तथा पञ्च दैवे पित्र्ये च कर्मणि” इति। तदपि सन्ध्याविषयकमेवेत्याहुरभियुक्ताः। वषुवे तु यथाश्रुतम् एवेति, अन्यदपि सन्ध्यालक्षणप्रयोजनं प्राक्सन्ध्यागर्जित इत्यादिषु वक्ष्यति। ननु नायमयनपुण्यकालोक्त्युद्यमः सफलः शास्त्रान्तरविरुद्धत्वात्तथा हि “अह्नि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्त्तितम्। रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदानयोः। अर्द्धरात्रादधस्तस्मिन् मध्याह्नस्योपरिक्रिया। ऊर्द्धं संक्रमणे चोर्द्ध्वमुदयात् प्रहरद्वयम्। पूर्णे चेदर्द्धरात्रे च यदा संक्रमते रविः। प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ” इति वृद्धवसिष्ठेनायनव्यतिरिक्तेषु दशसु संक्रमेषु रात्रिगतेषु “यायाः सन्निहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः” इति कश्यपोक्तसामान्यवाक्याद्रात्रावेवानुष्ठानं प्रसक्तमहः संक्रम इत्यादिनाप्येतदेवानुष्ठानं विहितं तस्यापि पर्युदासः क्रियते मुक्त्वा मकरकर्कटाविति तस्मान् मकरकर्कटयोः संक्रमणे रात्रावेवानुष्ठानं कर्त्तव्यमित्युक्तं भवति अतएवाह याज्ञवल्क्यः “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नानदानादिकं कार्यं निशि काम्यव्रतेषु च” इति वसिष्ठोऽपि “सुतजनने संक्रान्तावुपरागे चन्द्रसूर्ययोर्नियतम्। रात्रा वपि कर्त्तव्यं स्नानं दानं विशेषतो नॄणामिति” सुमन्तुश्च
“ग्रहणोद्वाहसंक्रान्तियात्रार्त्तिप्रसवेषु च। श्रवणे चेतिहासस्य रात्रौ दान प्रशस्यते” इति। एषु वाक्येषु सामान्यवाचिनोऽपि संक्रातिपदस्य मकरकर्कटसंक्रान्तिपरत्वमवसीयते यस्तु “रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः” इति निषेधः स संक्रान्त्यन्तरे व्यवतिष्ठते अतएवोक्तं कश्यपेन “स्नानं दानं ग्रहणवत् सौम्ययाम्यायनद्वये” इति। तस्मादयनसंक्रमे रात्रौ सत्यां तत्रैव स्नानदानाद्यनुष्ठातव्यमितिः। अत्राहुः शास्त्रद्वयेन तुल्यबलत्वाद्विकल्पसिद्धौ तत्तद्देशप्रसिद्धशिष्टाचारेण व्यवस्था दष्टव्या। तत्र गौर्जरास्तु कश्यपादिवाक्यमभ्युपेत्य रात्रा- वयनसम्भवे सति रात्रौ एव स्नानदानादिकं कुर्वन्ति। दाक्षिणात्यास्तु वृद्धगार्ग्यादिवाक्यमङ्गीकृत्य दिवस एव स्नानदानादि कुर्वन्तीत्यलमतिप्रसङ्गेन। यदा तु दिने कर्कमकरसंक्रमस्तदा क्रमेण पूर्वोत्तरघटिकानियममाह वृद्ध वसिष्ठः “अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने। त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृता” इति। उत्तरायणमतीतं सत् पुण्यं कर्कटायनमागामि पुण्यं तत्र कर्कटसंक्रान्तेः प्राक्त्रिशत् घटकिः पुण्याः मकरे तूत्तरविंशतिर्घटिकाः पुण्या इत्यर्थः। अत्र वाक्ये यद्यपि दिनपदानुपादानं तथापि यदास्तमयवेलायामिति रात्रि परविशेषवाक्यालोचनादिदं दिनपरं प्रतिभाति तथसति केनापि हेतुना समीपथटीषु श्राद्धाद्यनुष्ठानासम्भवे परमावधित्वेन त्रिंशदादयो घटिका अत्रानुज्ञायन्ते यदा तु प्रतिबन्धस्तदा “यायाः सन्निहिता नाड्यस्तास्ताः पूण्यतमाः स्मृता” इति कश्योपोक्तेः समीपघटिकास्वेव श्राद्धादि विधेयं “सन्निहितपरित्यागे कारणाभावादितिं न्यायच्चि”। “अथ पूर्वापराः षोडश घटिकाः पुण्या इति पूर्वं सामान्येनोक्तमिदानीं विष्णु पदादिषु स क्रमेषु विशेषमनुष्ट भाह याम्यति। याम्यायने कर्कमंक्रान्तौ तथा विष्णुपदे वृषसिंहवृश्चिककुम्भसं क्रान्तिकाले आद्याः नाड्यः प्रथमाः षोडशघटिकाः अतिपुण्टदाः स्नानदानादावनन्तफलदाज्ञेयाः अपिमास्तु न तथेति निष्कृष्टोऽर्थः। तुलाजयोस्तुलामेषयोः मध्या उभयतः षोडश षोडश घटिकाः पुण्याः अथ वा षोडशैव घटिकाः पुण्या। षडशीत्यानने मिथुनकन्याधनुर्मीनसंक्रान्तिषु तथा सौम्ये मकरसंक्रातौ संक्रान्तिकाल त्परा अग्रिमाः षोडश घटिकाः अतिपुण्यदाः प्रथमास्तु न तथेति निष्कृष्टोऽर्थः। यदाह श्रीपतिः याम्यायने विष्णुपदेतथादौ दानाद्यनन्तं विषुवे च मध्ये। वदन्त्यतीते षडशीतिवक्त्रे महर्षयः खल्वयने च सौम्ये”। तत्र कर्के प्रागेव मकरसंक्रान्तौ पश्चादेव पुण्यकाल इति तु प्राङ्निरणायि। विष्णुपदे तु अग्रिमादिघटीनां पुण्यकाले तरतमभावः “पुण्यायां विष्णुपद्यां च प्राकपश्चादपि षोडशेति” वृद्धवसिष्ठोक्तेः। विषुवे तु सामान्यनिर्णय एवेति केचित् दीपिकाटीकाकारस्त्वेवमाह “मेषे तुलायां संक्रान्ति मध्य एव संक्रान्तिकालात्पूर्वमष्टौ घटिकाः परतश्चाष्टौ घटिका पुण्य इति”। युक्तं चैतत्। विषुवे च मध्यपदोपदानान् मध्ये षोडश धटिकाः पुण्याः इत्युच्यते अस्पात् कालान् मध्य इत्यपेक्षायां संक्रान्तिकालादेवेत्यतः पूर्वभष्टौ पश्चाच्चाष्टौ घटिकाः पुण्या इत्यर्थः। यत्तूक्तं वृहस्पतिना “वर्त्तमाने तुलामेषे नाड्यस्तूभयतो दश” इति। तुलामेषसक्रान्तिकालात् प्राक्पश्चाच्च पञ्च पञ्च ष्टट्यः पुण्या इत्युक्तम् यदप्युक्तम् आद्यन्तसापेक्षत्वान् मध्यशब्दस्य गणितागतपुण्यकालघटिकानां मध्ये त्रिभागः स्थूलदृशा दशघटिकात्मको भवतीति। “यायाः सन्निहिता नाड्य” इति कश्यपोक्तेः। षडशीतिमुखेऽप्याद्याग्रिमघटीनां पुण्यकाले तरतमभावः। यत्तु षडशीत्यां व्यतीतायां षष्टिस्तुल्यास्तु नाडिका” इति वृद्धवसिष्ठवाक्यं तत् प्राग्घटीषु प्रतिवन्धवशात् श्राद्धादेरसम्भवे सत्यन्तिमघटीषु श्राद्धादिक्रियाभ्यनुज्ञायाः परमावधिकालेयत्तार्थम्। इदं सर्वं दिनसंक्रान्तिविषयं वेदितव्यम् “अह्नि सं क्रमणे पुण्यमहः कृत्स्वं प्रकीर्त्तितम्” इति सामान्यवाक्यस्य सौम्यायने विष्णुपदे इत्यस्य च विशेषवाक्यस्यैकवाक्यता। अतएव “रात्रौ संक्रमणे भानोर्दिनार्द्धं स्नानदानयोः” इति रात्रिपरविशेषस्य सत्त्वाच्च। एवं निर्णीते पुण्यकाले स्नानदानाद्यवश्यं विधेयमिति फलितोऽर्थः। तत्र स्नानदानाद्यकुर्वतश्च प्रत्यवायमाह वसिष्ठः “इति सञ्चिन्त्यविनिर्णयमादेष्टव्यं सदैव दैवज्ञैः। विषुवत्यसने ग्रहणे संक्रान्तौ पुण्यदिवसेऽपि। पितृतृप्तिं यो न कुरुते दत्त्वा शापं व्रजति तस्य पिता। आगतगतसमयेऽपि च करोति यद्दानजपहोमाद्यम्। ऊषरवापितवोज यद्वत् तद्वच्च निष्फलं भवतीति”। अयते अयनघ्रवृत्त्याख्ये हल संक्रमणे आगतसमये निर्णीते पुण्यकालातिक्रमसमये स्नादि निष्फलमित्यर्थः। संक्रान्तिषु स्नानदानादेः फलमाह भरद्वाजः “षडशीत्यां तु यद्दानं विषुवद्वितये तथा। दृश्यते सागरस्यान्तस्तस्यान्तो नैव दृशते”। वृद्धवसिष्ठोऽपि “अयने कोटिः पुण्यानि सहस्रं यिषुवे फलम्। षडशीत्यां सहस्रन्तु फलं विष्णुपदेषु च” इत्यलमतिप्रसङ्गेन। इति सूयसङ्क्रान्तिनिर्णयः। अथ नायं केवलं सूर्यसङ्क्रमण एव पुण्यकालः किन्तु चन्द्रादीनां ग्रहाणां नक्षत्रसङ्क्रमे राशिसङ्क्रमे च पुण्यकालो भवति सोऽपि सोपपत्तिकः प्रसङ्गतः प्रोच्यते अस्माभिः यदाह जैमिनिः “नक्षत्रराश्यो रविसङ्क्रमे स्युरर्वाक् परत्रापि रमेन्दुनाद्यः १६। पुण्यास्तथेन्दोस्त्रिघरापलैर्पुक् शुभैकनाडी १। १३ सुनिभिः शुभोक्ता। नाद्ध्यश्चतस्रः षपलाः कुजस्य ४। १ बुधस्य तिस्रो मनवः पलानि ३१४ अब्ध्यब्धिनाड्यः पलसप्तयुक्ता गुरौ च ४४। ७ शुक्रे सपलाश्चतस्रः ४। १। द्विनागनाड्यः पलसप्तयुक्ताः ८२। ७ शनैश्चरस्याभिहिताः सुपुण्याः। आद्यन्तमध्ये जपदानहोमं कुर्वन्नवाप्नोति सुरेन्द्रधाम”। अस्यार्थः सूर्यस्य नक्षत्रसंक्रमे राशिसंक्रमे च प्राक्परतश्च षोडश घटिकाः पुण्याः एवं चन्द्रस्यैकधटी त्रयोदश पलानि। भौमस्य चतस्रो घटिका एकं पलम्। बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि, गुरोश्चतुश्चत्वारिंशत्घटिकाः सप्त पलानि शुकस्य चतस्रो घटिकाः पलमेकं, शनेर्द्व्यशीतिघटिकाः सप्त पलानि चोभयतः पुण्यकाल इत्थर्यः। अत्रोपपत्तिः। “भानोर्गतिः स्वदशभागयुतार्द्धिता वा बिम्बं विधोस्त्रिगुणितायुगशैलभक्ता ७४। तिथ्यद्रि ७१५ हीनशशिभुक्तिरिषु द्वि २५ भक्ता नन्दाक्षि २९ युग्भवति वा विधुविम्बमेवमिति” सिद्धान्तशिरोमण्युक्तप्रकारेण रविचन्द्रयोर्मानकला आनेयाः “व्यङ्घ्रीषवः सचरणा ऋतवस्त्रिभागयुक्ताद्रयो नव च सत्रिलवेषवश्च। स्युर्मध्यमास्तनुकलाः क्षितिजादिकानां त्रिज्याशुकर्णविवरेण पृथग्विनिघ्ना। इति तत्रैवोक्ताः भौमादूनां मानकलास्तत्र क्रमेण मानकलाः। तत्र “षष्टिघ्नविध्बं ग्रहभुक्तिभक्तं संक्रान्तिनाड्योऽखिलधर्मकृत्ये। रवेस्तु ताः पुण्यतमाग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते” इति भास्करोक्तदिशा संक्रान्तिनाड्ग्यः स्युः तत्र ग्रहभुक्तयस्तेबैवीक्ताः “नन्दाक्षाभुजगारवेः शशिगतिः खार्काद्रयः क्ष्माग्नयस्तुङ्गस्याङ्गकलाः कुर्वेद ४४ विकलाः पातस्यरामाभवाः। माहेयस्य महीगुणारसकरा ज्ञस्येषुसिद्धारदाः पञ्चेज्यस्य सितस्य षण्णवमिता अष्टौ शने र्द्वे कले” इति बुधशुक्रयोस्तु संक्रान्तिघटिकानयने सूर्य्यगतिरेव हारः कल्प्यस्तद्गतितुल्यत्वात्तयोः, वासनाभाष्ये हि बुधशुक्रौ तु रवेरासन्नावेव कदाचिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविव सदाव्रजन्तौ दृश्येते। ततस्तयोरपि रविभगणतुल्या एव भगणा इत्युपपन्नमिति भास्करेणाभिहितत्वात्। पठ्यमानानुगतिस्तच्छीघ्रयोः शीघ्रफलानयानार्थं वासनासिद्धजीर्णैः कल्पिता तदेवं ग्रहगतय इमास्त्रिप्रकारेण साधिताः पुण्यकालघटिकाः सूर्य्यस्य यथा त्रिंशत् घटिका एवं चन्द्रस्य द्वे धटिके षड्विंशतिप्रलानि भौमस्य नवघटिकाश्चत्वारिंत्पलानि बुधस्य षट्घटिकाः विंशतिपलानि गुरोरष्टाशीतिर्घटिका एवं शुक्रस्य नव घटिका अष्टौ पलानि शनेः षष्ट्यधिकं शतं घटिकाः। पूर्वापरकालौ मिलित्वा पुण्यकाल इत्यर्थः। अत्र वासना प्रागुक्ता एतदर्द्धा नाद्ध्य प्राक्परतश्चपुण्या। अत्र गणितागतघटीपलेषु लिखितजैमिनिवाक्ये च क्वचित् किञ्चित्पलभेदो घटिकाभेदश्च सगतिस्पष्टकृतिवशतः। युक्तं चैतत् आकाशे हि वेधादिना स्पष्टा एव स्वगा दृश्यन्ते न मध्यमाः “दिनद्वयस्पष्टखगान्तरालकालः स्फुटस्तु स्फुटभुक्तिबिम्बैरिति” स्पष्टगत्यैव बिम्बसंक्रान्तिघट्यानयनमुचितम् उक्तञ्च केशवार्केण “कुजादिकानामपि बिम्बलिप्ताः षष्ट्यागुणाः स्वस्वजवेन भक्ताः। नाड्यादिकः संक्रमणान्तराल कालः स्फुटस्तु स्फुटभुक्तिविम्बैरिति” अपिशब्दात् सूर्यचन्द्रमसोर्ग्रहणं तथा सति मध्यमाग्रेक्षया स्पष्टगतिबिम्बयोरुपचयापचयाम्यां साम्यैस्तत्तद्घटिकानामप्युपचयापचयसाम्यातिक्रमेणापतति तेषां चानियतत्वात्पद्ये उपनिबन्धायोगाज्जीर्णैर्नियतमध्यगत्या सूर्य्यादीनां ग्रहाणां पुण्यकालघटीरानीयोपनिबन्धः कृतः। अत्र मत्कृतं पद्यम् “नाड्यो रामगुणा ३३ रवेरथ विधोः षट्दोः पलैर्युग्द्वयं २। २६ भौमस्याब्धिपलैर्युतानव ९। ४ विदो ६। २० युक्ताः पलैः खाश्विभिः। षण्णाद्ध्योऽष्टगजा ८८ गुरोरथ भृगोर्नन्दा ९। ८ पलैरष्टभिः पुण्याः स्युः खनृपाः शने १६० रुभयतो राश्यृक्षयोः संक्रमे। अतो यो जैमिनिवाक्ये सार्द्धाश्चतस्रः पलसप्तयुक्ता गुरोरितिपाठो माधवादिभिरपाठि तथा हेमाद्रिणापि द्विनागनाड्यः इति पदै नागा अष्टौ द्विरावृत्ता नागा द्विनागाः षोडशनाडिकाः शनैश्चरसंक्रान्तौ पुण्यकाल इति यत् व्याख्यातवान् तदुभयमपाकृत भवति तथा रामचन्द्राचार्य्या अपि कालनिर्णयदीपिकायां हेमाद्र्यादिमूलकममुमर्थं स्वपद्येनोपानिबध्नात् अतश्चिन्त्योक्तयोज्ञेयाः। तस्मात्सर्वग्रहाणां राशिनक्ष त्रयोः संक्रान्तिषु पुण्यकालताप्यास्त। भास्करोऽपि “रवेस्तु ताः पुण्यतषाः” इतिवदंश्चन्द्रादिसंक्रान्तिषु नाड्यः पुण्या इत्यसूचयत्। अतिशायने तमविष्ठनाविति पाणिनिवचनात् “ग्रहः स्वसंक्रान्तिगोमिश्रफलं विधत्ते” इति। सूर्य्यादिसंक्रान्तिसाधारणं तत्र सकलसंक्रान्तिषु दिनरात्रिविष्णुपदादिभेदेन सूर्यसंक्रमवन्निर्णयोध्येयः। एतत्संक्रान्तिमान्यता हि गुर्जरदेशेऽस्तोत्यलं प्रसक्तानुप्रसक्तेन। इति सकलग्रहसंक्रान्तिनिर्णयः” पी० धा० करणभेदेऽर्कसंक्रान्तिफलं तत्रैव नारदः “निविष्टो वणिजे विष्ट्यां वालवे च यवे गरे। कौलवे शकुनौ भानुः किंस्तुत्रे चोर्ङ्गसंस्थितः। चतुष्पा- त्तैतिले नागे सुप्तः क्रान्तिं करोति सः। धान्यार्धवृष्टिषु समं श्रेष्ठं हीनं भवेत्क्रमात्” क्रान्तिं संक्रान्तिम। रत्नमालायामपि “चतुष्पदे तैतिलनागयोश्च सुप्तो रविः संक्रमणं करोति। विष्ट्यां ववाख्ये च गराह्वये च स बालवाख्ये बणिजे निबिष्टः। किंस्तुघ्ननाम्नि शकुनावपि कौलवाख्ये चोर्द्ध्वस्थितस्य खलु संक्रमणं रवेः स्यात्। धान्यार्घवृष्टिषु भवेत् क्रमशस्त्वनिष्टमध्येष्टतेति मुनयः प्रवदन्ति पूर्वे” इति।
“संक्रान्तौ ग्रहणर्क्षं वा जन्मन्युभयपार्श्वयोः। नेष्टं त्रयं षट्शुभदं पर्य्यायाच्च पुनःपुनः। हानिर्वृद्धिः स्थानहानिस्तथा प्राप्तिरिति क्रमात्” नारदेनोक्तम्। संक्रान्तेर्यन्नक्षत्रं ग्रहणनक्षत्रं वा यदि जन्मभं भवेदथ वा ताभ्यामुभयपार्श्वगतं जन्मभं भवेत्तदा अनिष्टमेव नक्षत्रत्रयं निषिद्धं तत्रो नक्षत्रषट्कं शुभं ततस्त्रिकेऽर्थहानिस्ततः षट्के वृद्धिः ततस्त्रिके स्थानहानिस्ततः षट्सु वृद्धिः षट्सु स्थान० प्राप्तिरिति। अतएव पठन्ति दाक्षिणात्याः “संक्रान्त्यधरनक्षत्राद्गणथेज्जन्मभावधि। त्रिकं षट्कं त्रिकं षट्कं त्रिकं षट्कमिति क्रमात्। पन्थाभोगो व्यथा वस्त्रं हानिश्च विपुलं धनम्” इति त्रिकं शुभं षट्कमशुभमिति फलितोऽर्थः” पी० धा०। अधिकमयनसंक्रान्तिशब्दे ३३९ पृ० दृश्यम्। स्थूलतया मेषादौ रविसंक्रान्तेर्वारदण्डाद्यानयनप्रकारः ज्यो० त० उक्तो यथा “नवाष्टशक्र १४८९ हीनेन शकाव्दाङ्केन पूरिताः। भूर्वाणचन्द्रावेकाम्नी कुरामौ वेदयुग्मके। १। १५। ३१। ३१। २४ अङ्का अनुपलादेस्तु षष्ट्या लब्धाङ्कमिश्रिताः। दण्डात् खाग्नी हयेषू च ३०। ५७ पलाद्धित्वा ततः पुनः। सप्तावशिष्टा वाराः स्युस्ततो दण्डादिकाः परे। मेषस क्रमणे भानोः सिद्धान्तस्फुटसम्मताः। भुजौ षडिषूरामाग्नी २। ५६ ३३ कालोजातिर्गजावनी। ६। २२। १८ रामश्चन्द्रोऽग्नियुम्मञ्च ३ १ २३ तर्कोऽङ्कदृक् नवाशुगौ। ६२९ ५९ द्वावङ्कदृग् वेदवाणा २। २९। ५४ अब्धिर्वाणशरौ सुराः। ४। ५५। ३३ षस्मागवेदौ शून्येन्दू ६ ४८ १० एकं शैलभुवौ शराः। १। १७। ५। द्वौ षडग्नी तथा काला २। ३६। ६ अब्धीरामः शराचनी। ४। ३। १५। पञ्चाग्नीषू तथा रुद्रा ५। ५३। ११। मेषसंक्रमवारतः। अङ्कैर्योज्या वृषादेस्तु वाराद्याः संक्रमे रवेः”। राशिभेदे संक्रान्तिनामभेद तत्संक्रमकाले स्वनक्षत्रस्य पुरुषाकृतिसंक्रान्तिचक्रस्थानविशेषस्थितौ फलभेदश्च तत्रोक्तो यथा मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने। विषुवती तुला मेषे गोलमध्ये तथापराः। धनुर्मिथुनकन्यासु मीने च षडशीतयः। वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता। मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत्। त्रितयं हस्तपादेषु महाविषुवभक्रमात्। मस्तके भूपतेः सौख्यं वदने पटुता शुभे। हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे। वामे करे महद्दुःखं सुखं पादे च दक्षिणे। भ्रमणं वामपादे च कथितं विषुवत् फलम्। षड्मूर्ध्नि वदने पञ्च चत्वारि हृदये तथा। त्रितयं करपादेषु पयोविषुवतः क्रमात्। मानं मूर्ध्नि मुखे वैरं हृदये सुखसम्भवः। दोःपदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे” जलविषुवफलम्। “शीर्षे पञ्च मुखे त्रीणि हस्तयोश्च त्रयं त्रयम्। हृदि पञ्च शशी नाभौ गुदे च पादयोरसाः। उत्तरायणभाज्ज्ञेयं स्वनक्षत्रस्थितेः फलम्। शीर्षेऽथ लाभो वदने सुखानि दक्षे करेऽङ्घ्रौ हृदये च सौख्यम्। नाभौ शुभं वामकरेऽर्थनाशो गुह्ये भयं वामपदे प्रवासः उत्तरायणफलम्। “शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च हस्तयोः। अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनसंक्रमात्। शीर्षे मानो मुखे विद्या हृदये वित्तसञ्चयः। प्रवासः स्यात् करे वामे भिक्षालाभश्च दक्षिणे। निष्फलं वामपादे च किञ्चिल्लाभश्च दक्षिणे” दक्षिणायनफलम्। “ऋक्षे संक्रमणं यत्र विष्णुपद्यां मुखे तु तत्। चत्वारि दक्षिणे वाहौ त्रीणि त्रीणि पदद्वये। चत्वारि वामवाहौ च हृदये पञ्च निर्दिशेत्। अक्ष्णोर्द्वयं द्वयं योज्यं मूर्ध्नि द्वे चैककं गुदे” “रोगो भोगस्तथा यानं बन्धनं लाभ एव च। ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात्” विष्णुपदीफलम् “मुखे चैकं करे वेदाः पादयुग्मे द्वयं द्वयम्। क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च। द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा। द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते। मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि। कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्त्रीयभेनॄणाम्। सम्मानो नेत्रयोश्चैव अपमानश्च मस्तके। गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः” षडशीतिफलम्”। गुरुसंक्रान्तिफलमुक्तं ज्यो० त० यथा “शीर्षे चत्वारि राज्यं जलधिरपि करे दक्षिणे चापि सौख्यं चैकं कण्ठे विभूतिं मदनशरसितं वक्षसि प्रीतिसङ्गम्। पादस्थाः षट् च पीडा पुनरपि जलधिर्वामहस्ते च मृत्युं नेत्रे त्रीणि प्रदद्युः सुखमथ निजभे वाकपते संक्रमर्क्षात्”। संक्रान्तिपुण्यकालव्यवस्था ति० त० संक्षेपतो दर्शिता यथा “तदयं संक्षेपः। दिनसंकमणे कृत्स्नं दिनं पुण्यं षडशीति मुखे” इत्याद्युक्तं पुण्यतरं मन्दामन्दाकिनीत्यादि रूपेण त्रिचतुरादिघटिकाः पुण्यतमाः। दिनवृत्तोत्तरायणादिविहितविंशतिदण्डादीनां रात्रिप्रविष्टभागस्यापि पुण्यत्वं रात्रिसंक्रमणे तु कलान्यून प्रथमार्द्धगते तद्दिवसीयशेषयामद्वयं पुण्यम्। कालद्वयात्मकमध्यरात्रगते तद्दिवसीयतिथेरभेदे तद्दिवसीयशेषयामद्वयं पुण्यं भेदे तु तद्दिवसीयशेषयामद्वयं परदिवसीयाद्ययामद्वयञ्च पुण्यम्। उभयदिने पुण्यकालेऽपि पूर्वदिनाकरण एव परदिने तद्विहितं कार्य्यम्। तिथिभेदाभेदयोर्दक्षिणायने तद्दिवसीयशेषयामद्वयम् उत्तरायणे तु परदिवसीयाद्ययामद्वयं पुण्यमिति मध्यरात्रीयकलोत्तर शेषार्द्धरात्रसंक्रमणमात्रे तु परदिनाद्ययामद्वयं पुण्यमिति सन्ध्यासंक्रमणे तु दिनदण्डे दिनस्य रात्रिदण्डे रात्रेर्व्यवस्थितिः”। तत्प्रमाणं ति० त० दृश्यम्। संक्रान्तौ कालाशुद्धिदोषादिकं नास्ति यथोक्तं ति० त० स्कान्दे “एकान्ततो मया प्रोक्ताः कालाः संक्रान्तिसंज्ञकाः। नैतेषु विद्यतेऽनिष्टं यतश्चाक्षयसंज्ञिताः। अश्रद्धयापि यद्दत्तं कुपात्रेभ्योऽपि मानवैः। अकालेऽपि हि तत्सर्वं सत्यमक्षयतां व्रजेत्”।
सङ्ख्य = न० संख्यायते परस्परनामोच्चारणं क्रियतेऽत्र सम् + ख्या–घञर्थे क। १ युद्धे अमरः। अङ्। २ विचारे स्त्री अमरः। एवं ३ सम्यग्बुद्धौ राजनि० ४ द्रव्याश्रिते एकत्वद्वित्वादौ गुणभेदे च स्त्री टाप्। एकादिसंख्यावाचकस्य संख्यासंख्येयोभयपरता “द्व्येकयोर्द्विवचनैकवचने” इति पा० महाभाष्ये उक्ता। तेन घटानां पञ्चेत्यपि स्यात् “वार्त्ताकुरेका गुणसप्तयुक्ता” इत्यादि वैद्यके संख्यापरतया निर्देशोऽपि साधुः। किन्तु संख्यात्व जातानेव शक्तिः संख्यायुक्ते निरूढलक्षणेति विवकः तत्र एकादिदशान्ताः शब्दास्त्रिलिङ्गा विंशत्याद्यासु नियतस्त्रीलिङ्गादिकाः। तत्रापि विंशत्यादिशब्दाना बहुत्वसंख्यावाचकत्वेऽपि एकवचनान्ततैव। तदावृत्तै बहुवचनान्ता अपि पञ्च विंशतयः षट् शतानीत्याष्टि। तेषां विशेषसंज्ञा लीला० दर्शिता यथा “एकदशशतसहस्रायतलक्षप्रयुतकोटयः क्रमशः। अर्बुदमब्जः (शङ्खः) खर्वनिखर्वौ महापद्मशङ्कवस्तस्मात्। जलधिश्चान्त्य मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः संख्याया व्यव- हारार्थं कृताः पूर्वैः”। व्रह्माण्डपु० नामान्तराण्युक्तानि यथा “एकं दश शतं चैव सहस्रमयुतं तथा। लक्षं च नियुतञ्चैव कोटिरर्वुदमेव च। वृन्दः खर्वो निखर्वश्च शङ्खपद्मौ च सागरः। अन्त्यं मध्यं परार्द्धञ्च दशवृद्ध्या यथोत्तरम्”। संख्या च गणनव्यवहारे हेतुः यथोक्तं “गणनव्यवहारे तु हेतुः सङ्ख्याभिधीयते। नित्येषु नित्यमेकत्वमनित्येऽनित्यमुच्यते। द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजामता। अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः। अपेक्षावुद्धिनाशाच्च तेषां नाशो निरूपितः। अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरुच्यते” भाषा० पर्य्याप्तिसम्बन्धेनैव अनेकाश्रिता समवायेन तु प्रत्येकाश्रितेति बोध्यम्।
सङ्ख्यात = त्रि० सम् + ख्या–क्त। १ कृतसङ्ख्ये २ गणिते ३ सम्यक्ख्याते च तेन रात्रिशब्दस्य समासे अच् सख्या०। संख्यातरात्रः।
सङ्खावत् = पु० संख्या विचारणाऽस्त्यस्त मतुप् मस्य वः। १ पण्डिते अमरः। २ संख्यायुक्ते त्रि०।
सङ्ख्येय = त्रि० संख्यायतेऽसौ सम् + ख्या–वत्। १ गणनीये २ संख्याकरणयोग्ये।
सङ्ग = पु० सन्ज–भावे घञ्। १ मेलने २ सम्यन्धे ३ विषयादिरागे च “ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते” गीता।
सङ्गणिका = सम् + गण–भावे ण्वुच्। अप्रतिरूपकथायां त्रिका०
सङ्गत = न० सम् + गम–भावे क्त। १ सौहार्दे २ सङ्गतौ च। कर्त्तरि क्त। ३ मिलिते त्रि०। ४ सङ्गतियुते ५ युक्तिसंसिद्धे अमरः।
सङ्गति = स्त्री सम् + गम–क्तिन्। १ सङ्गमे २ मेलने न्यायोक्ते अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषये “सप्रसङ्ग उपोद्बातो हेतुतावसरस्तथा। निर्वाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते” इत्युक्ते ३ प्रसङ्गादौ पदार्थे च।
सङ्गम = पु० सम् + गम–घञ् ग वृद्धिः। १ सङ्गतौ २ स्त्रीपुंसयोः संभोगे पु० न० अमरः। ३ नद्यादेर्नदादियोतस्याने च “गङ्गासागरसङ्गमः” इति पुराणम्।
सङ्गर = पु० सङ्गीर्य्यते सम् + गॄ–भावादौ अप्। १ आपदि २ प्रतिज्ञायां ३ युद्धे च अमरः। कर्त्तरि अच्। ४ क्रियाका रके ५ विप्रे मेदि० ६ शमीवृक्षफले न० मेदि०।
सङ्गव = पु० सङ्गता गावो दाहनायात्र काले नि०। “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु” इति दक्षीक्ते प्रातःकालानन्तरं मुहूर्त्तत्रयात्मके कालभेदे।
सङ्गिन् = स्त्रि० सन्ज–वितुण्। सङ्गयुक्ते स्त्रियां ङीप्।
सङ्गीत = न० सम् + गै–क्त। १ दर्शनार्थे नाट्यगीतवाग्रतिके हेमच०। २ तत्पतिपादकग्रन्थे च। कर्मणि क्त। ३ सम्यग्गीते त्रि०। सङ्गीतशास्त्राणि च नानाविधानि तत्र मूलग्रन्थकर्त्तारश्चत्वारः भरतहनुमत्सोमेश्वरकलनाथास्तत्र हनूमद्ग्रन्थस्यैव लोकेऽधुना बहुलप्रचारः। तद्ग्रन्थत्य च स्वराध्यायः रागाध्यायः तालाध्यायः नृत्याध्यायः भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति सप्ताध्यायः। सङ्गीतसारादौ विस्तरो दृश्यः।
सङ्गीति = स्त्री सम् + गे–क्तित्। १ सम्यग्ज्ञाने २ कालामे हलाः।
सङ्गीर्ण = त्रि० सम् + गॄ–क्त। स्वीकृते अमरः।
सङ्ग्रह = पु० सम + ग्रह–अप्। १ सञ्चये २ वह्वर्यकवाक्यानामेकत्र सङ्कलने च “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः। निबन्धीयः समासेन संग्रहं तं विदुर्बुधाः”। ३ वृहति ४ उत्तुङ्गे ५ ग्रहणे ६ संक्षेपे मेदि० ७ मुष्टौ विश्वः ८ स्वीकारे ९ महोद्योगे नानार्थरत्नमा०। १० व्याडिप्रणीते व्याकरणग्रन्थभेदे “सङ्ग्रहेऽस्तमुमागते” वाक्यपदीयम्।
सङ्ग्रहणी = स्त्री सञ्चिता ग्रहणी। ग्रहणीरोगभेदे।
सङ्ग्राम = युद्धे अद० चु० उभ० सक० सेट्। सङ्ग्रामयति से अससङ्ग्रामत् त। अस्याफलवत्कर्त्तर्य्यपि आ० इत्येके
सङ्ग्राम = पु० सङ्ग्राम–भावे अच्। युद्धे अमरः।
सङ्ग्रामपटह = पु० ६ त०। रणवाद्यभेदे त्रिका०।
सङ्ग्राह = पु० संगृह्यते सम् + ग्रह–कर्मणि घञ्। फनकस्य मुष्टिबन्धनस्थाने अमरः।
सङ्ग्राहिन् = पु० सम्यक् गृह्णाति मलम् सम् + ग्रह–णिवि। १ कुटजवृक्षे राजनि०। २ मलावष्टम्भके ३ संग्रहकारके च त्रि०।
सङ्घ = पु० संघवत् सर्वम्। १ समातीयजन्तुसमूहे २ समूहे च अमरः। ३ संहते त्रि०।
सङ्घचारिन् = पु० सङ्घीभूय चरति चर–णिनि। १ समव्ये हेमच०। २ सङ्घीभूयचारिणि जन्तुमात्रे त्रि० स्त्रियां ङीप्
सङ्घजीविन् = पु० सङ्घेन जीवति जीव–णिनि। मंघोपजीविनि व्रातीने हेमच०।
सङ्घट्ट = पु० सम् + घट्ट–भावे अच्। १ परस्परसङ्घर्षणे २ गदृसेच। कर्त्तरि अच्। ३ लतायां शब्दर०। ४ चालके त्रि०।
सङ्घट्टन = न० सम् + घट्ट–ल्युट्। १ मेलने २ गठने ३ रत्तनायाञ्च। युच्। तत्रैव स्त्री।
सङ्घतल = पु० सङ्घे संहते मिलिते तले यत्र। संयोजितप्रतलद्वये (योडहात) अमरः
सङ्घपुष्पी = स्त्री सङ्घननि संहांतानि पुष्पाण्यस्याः ङीप्। षातकी पुष्प्याम् (धाइ फुल) राजनि०।
सङ्घर्ष = पु० सम् + घृष्–घञ्। १ परस्परघर्षणे २ स्पर्द्धायां ३ संसर्षे च शब्दर०।
सङ्घशस् = अव्य० सङ्घ + वीप्सार्थे–शस्। भूरिशः इत्यर्थे।
सङ्घाटिका = स्त्री सङ्घटयति सम् + घट–णिच्–ण्वुल्। १ युग्मे २ कुट्टन्यां ३ जलकण्टके मेदि०। ४ घ्राणे विश्वः।
सङ्घात = पु० सम् + हन–घञ्। १ समूहे २ नरकभेदे अमरः। ३ सम्यघनने मेदि० ४ दृढसंयोगे ५ कफे च राजनि०।
सङ्घातपत्त्रिका = स्त्री सङ्घातयुक्तं पत्त्रमस्याः कप् अत इत्त्वम्। शतपुष्पायां राजनि०।
***