—स—
सकार = ऊष्मवर्णभेदः तस्योच्चारणस्थानं दन्तमूलं तस्योच्चारणे आभ्यलरप्रयत्नः विवृते जिह्वाग्रेण अद्धंस्पर्शनेन चोचार्य्यमाणत्वात् अर्द्धस्पृष्टम्। बाह्यपयत्ना विवारश्वासाघोषाः महाप्राणञ्च अस्य ध्येयरूपं यथा “सकारं शृणु चार्वङ्गि! शक्तिवीजं परात्परम्। कोटिविद्युल्लताकारं कुण्डलीत्रयसयुतम्। पञ्चदेवमयं देवि! पञ्चपाणात्मकं सदा। रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा” कामधेनुत०। तस्याधिष्ठातृदेवतारूपं यथा “शुक्लाम्बरां शुक्लवर्णां द्विभुजां रक्तलीचनाम्। श्वेतचन्दनलिप्ताङ्गी मुक्ताहारोपशाभिताम्। गन्धर्वगोयमानाञ्च सदानन्दमयीं पराम्। अष्टसिद्धिप्रदां नित्यां भक्तानन्दविवर्द्धिनीम्। एवं ध्यात्वा सकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारत० अस्य वाचकशब्दाः “साहंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः। जगद्वीजं शक्तिनामा सोहं वेशवती भृगुः। प्रकृतिरीश्वरः शुद्धः प्रभा श्वेता कुलोज्वलः। दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षयः। सुरूपा च गुणेशो गौः कलकण्ठो वृकादरी। प्राणाद्या च परा देवी लाक्ष्मीः सोमो हिरण्यपू। दुर्गोत्तारणसम्मोहा जीवो मूर्त्तिर्मनोहरः” वर्णाभिधा०। मातृकान्यामेऽस्य दक्षपाद न्यास्यता। काव्यादो प्रयोगे फलं सुखम् “सः सौख्यं हस्तु स्वंदम्” वृ० र० टी०। षोपदेशधातूनां प्रयागे दन्त्यादित्वम् “सकारजः षकारश्चेत्युक्तेः सति निमित्ते पुनः षत्वम्।
स = पु० सा–ड। १ विष्णो एकार्थसंग्रहः। २ सर्पे ३ ईश्वरे शब्दर० ४। वहगे पुंस्त्री० एकाक्षरकोषः। समासे पूर्वपदस्थः ५ सहार्थे ६ समानार्थे च यथा सषित्क” सरूप इत्यादि। “सोऽन्तगुरुः कथितोऽन्तलघुस्तः” छन्द० शास्त्रक्ते ७ अन्तगुरुके आदिलघुद्वयके ८ वर्णगणे पु०। सगणोऽप्यत्र।
संक्षेप = पु० सम् + क्षिप–घञ्। भूयसीऽर्थस्याल्पवाक्यादिनाप्रकाशने भरतः। ल्युट्। तत्रार्थे न०। सर्वत्र समः स्थाने झरिपरे वा परसवर्णः पञ्चमवर्णः।
संक्षोभ = पु० सम् + क्षुभ–घञ्। चाञ्चल्ये क्षोभे च वा ङ।
संग्राहिन् = पु० सम् + ग्रह–णिनि। १ कुटजवृक्षे राजनि०। २ सञ्चयकारके ३ धारके च। वा ङ् सङ्ग्राहीति रूपम्।
संघ = पु० सम् + हन–ड नि०। १ समूहे २ जन्तुसमूहे च अमर अस्य वा ङ्। सङ्घ इति वा रूपम्।
संघट्ट = पु० सम् + घट्ट–भावे अच्। १ अन्योन्यविमर्दे २ गठने च “मृदाहरणसंघट्ट प्रतिढाह्वानमेव च” ति० त०। ३ लताया स्त्री शब्दच०। ल्युट्। तत्रार्थे न०।
संघर्ष = पु० सम् + घृष–घञ्। १ अन्योन्यदृढसंयोगे २ स्पर्द्धायां ३ संमर्दने च शब्दर० वा ङ्।
संज्ञ = न० सम् + ज्ञा–क। १ पीतकाष्ठे कालीयके गन्घदध्ये शब्दच०। सम् + ज्ञा–अङ्। २ चेतनायां ३ बुद्धौ ४ आख्यायां ५ हस्ताद्यैरथसूचने च स्त्री अमरः। ६ गायत्र्यां ७ सूर्य्य पत्न्याञ्च स्त्री मेदि०। वा ञ्। ८ संहतजानुके त्रि० माहसाङ्गः।
संज्ञज्ञापन = सम + ज्ञा–णिच्–पुक् मारणे ह्रस्यः ल्युट्। १ मारणे अमरः। २ ज्ञापने न ह्रस्वः। क्तिन्। संज्ञप्तिरप्यत्र स्त्री हेमच० वा ञ्।
संज्ञासुत = पु० संज्ञायाः सूर्य्यपत्न्याः सुतः। शनैश्चरे।
संज्ञु = त्रि० सहते जानुनी यस्य जानुस्थाने ज्ञुः। संहतजानुके अमरः। वा ञ्।
संज्वर = पु० सम् + ज्वर–अप्। अग्निजाते तापे अमरः वा ञ्।
संमर्द = पु० सम् + मृद–घञ्। अन्योन्यदृढसंयोगरूपे संक्षर्षे वा मः
संय = पु० स + यम्–ड। कङ्काले शब्दमा०।
संयत = त्रि० सम् + यम–क्त। १ बद्धे अमरः २ कृतशास्त्रोक्तनि यमे च।
संयत् = स्त्री संयम्यतेऽत्र सम् + गम–आधारे क्विप् तुक् च। १ युद्धे अमरः। कर्त्तरि क्विप्। २ संयमनकर्त्तरि त्रि०।
संयत्वर = पु० सम् + यम–क्वरप् तुक्च। १ जन्तुसमूहे २ वाग्यते त्रि० संक्षिप्तसा०।
संयद्वर = पु० ६ त०। नियन्तृणां वरे नृपे उणादि०।
संयद्वाम = पु० वामं संयाति सम् + या–शतृ पृषो० पूर्वनिपतिः। अक्षिपुरुषे “एतं हि अक्षिणि पुरुष संयद्वाम इत्या चक्षते एतं हि सर्वाणि वाम न्यभिमंयन्ति” छ न्देग्योप०।
संयन्तृ = त्रि० संयच्छति सम् + यम–तृच्। नियन्तरि।
संय(या)म = पु० सम् + यम–घञ् वा वृद्धिः। व्रताङ्गतया पूर्वदिनकर्त्तव्ये १ नियमभेदे अमरः २ इन्द्रियनिग्रहे ३ बन्धने च
संयमन = न० सम् + यम–ल्युट्। १ बन्धने २ व्रतभेदे मेदि० ३ च तुःशाले गृहे च भरतः। यम–णिच्–ल्यु। ४ यमे पु० “वैवस्वतः संयमनः” श्रुतिः।
संयमनी = स्त्री संयम्यते वध्यतेऽत्र सम् + यम–आधारे ल्युट्। यमाधिकृतपुर्य्याम् मेदि० “अन्येऽपि ये संयमिनः संयमन्यामुशन्ति ते” काशीख० ८ अ०। यमसभावर्णनं भा० स० ८ अ० दृश्यम्। संयमननगरपरत्वे न० “एतत् संयमनं पुण्यमतीवाद्भुतदर्शनम्” भा० व० १६३ अ०।
संयमिन् = पु० सम् + यम–णिनि न वृद्धिः। १ हुनिमेदे धरणिः २ इन्द्रियसंयमयुते त्रि० गीता।
संयाव = पु० सम्यक् घृतादिभिर्यूयते मिश्र्यते गोधूमचूणाद्यत्र सम् + यु–आधारे घञ्। “संयावस्तु घृतक्षीरगुडगोधूमपाकजः” इत्युक्ते घृतादिना पक्वगोधूमचूर्णे शब्दच०।
संयुज् = त्रि० सम्यक् युनक्ति सम् + यज–क्विन्। १ गुणाढ्ये त्रिका० २ संयुक्ते च।
संयुक्त = त्रि० सम् + युज–क्त। १ संयोगयुते पदार्थे २ अचानन्तरिते हल्वर्णे च पा०।
संयुग = न० संयुज्यतेऽत्र सम् + युज–क न्यङ्क्वा० जस्य गः। युद्धे अमरः। तत्र साधु० खञ्। सांयुगीन रणेसाधौ।
संयुत = त्रि० सम् + यु–क्त। संयुक्ते।
संयोग = पु० सम् + युज–घञ्। १ मेलने क्रियाजन्ये द्रव्याश्रिते गुणभेदे २ सम्बन्धमात्रे च “अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः। कीर्त्तितस्त्रिविधख्येष आद्योऽम्यतर कर्मजः। तथोभयोः कर्मजन्यो भवेत् संयोगजोऽपरः। आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः। मेषयोः सन्निपातोयः स द्वितीय उदाहृतः। कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः। तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्त्तितः। अभिघातो गोदनश्च शब्दहेतुरिहादिमः। शब्दाहेतुर्द्वितीयः स्यात्” भाषा० “उदयात् प्राक् दशम्यास्तु शेषः संयोग उच्यते। उपरिष्टात् प्रवेशस्तु तस्मात् तत् परिवर्जयेत्” ति० त० उक्ते उदयात् प्राक्दशम्याः शेषे च।
संयोगपृथक्त्व = न० संयोगेन फलसम्बन्धभेदेन पृथक्त्वं नानारूपत्वं यत्र। एकस्यैव कर्मणो नित्यानित्यत्वप्रतिपादके मीमासकोक्ते न्यायभेदे स च त त्त्वबो० दर्शितो यथा “अग्नीषोमीयपशौ श्रूयते “खादिरे पशुं वघ्नाति खादिरं वीर्य्यकामस्य यूपं कुर्वीत”। अत्र पशुबन्धनाययूपोविहतः स च नित्यत्वेनावश्यकः यागसाधनत्वात् पशुकामनावतश्च अन्योयूपोविहितः स च कामनाधीनत्वान्नावश्यकः। अत्र संसयः किं काम्य एव खादिरो नित्येऽपि स्यात् उत एकः खादिरः क्रतुपुरुषोभयार्थः उत काम्य एव खादिरो नित्यस्त्वन्यकाष्ठनिर्मित इति। तत्र काम्यनित्यप्रयोगाङ्गता न सम्भवति कामनाधीनत्वेन तस्यानावश्यकत्वात् नित्यश्चावश्यकः नह्येकस्यावश्यकत्व मनावश्यकत्वञ्च सम्भवति विरोधात्। तस्मात् काम्य एव खादिरः नित्यश्चान्यकाष्ठनिर्मितः। तदुक्तं शास्त्रदीपिकायाम् एतदधिकरणीयोदाहरणान्तरे “दघ्ना जुहोति दध्नेन्द्रियकामस्येत्यधिकृत्य “पूर्वाधिकरणन्यायात् काम्यत्वेन श्रुतं दधि। अनित्यार्थसुपादेयमतोऽन्यन्नित्यमिष्यताम्”। अन्यद्द्रव्यान्तरं पूर्वाधिकरणन्यायात् प्रागुक्ताप प्रणयनन्यायात्। माधवाचार्य्योऽपि “नित्येऽग्निहोत्रे पूर्वाधिकरणन्यायेन दधि न प्रयोक्तव्यं किन्तु अन्यदेव किञ्चित् द्रव्यम्” इत्याह। ननु नित्येऽपि खादिर एव श्रूयते णतो नित्य एकः स्वादिरः काम्यश्चान्यः स्वादिर इति यूपद्वयं विधोयते अन्यथा नित्ये खादिरत्वःभिधानं व्यर्थं स्यात् तथा च क्व विरोधः येनैकस्योभयार्थत्वे विरोधमाशङ्क्य समाहितमिति चेन्न स्वादिरेण वीर्य्यं कुर्य्यादित्यर्थकत्वषर्य्यवसन्नं स्वादिरत्वाभिधानं व्यर्थमिति तस्मान्नित्ये स्वादिराविधानात् काम्य एव स्वादिरः नित्यस्तु काष्ठान्तरीय इति प्राप्ते आह “एकस्य तूभयत्वे संयोगपृथक्त्वम्” सू० संयोगः सम्बन्धः एकस्य खादिरस्य नित्यत्वकाम्यत्वोभयरूपत्वे संयोगस्य पशुसम्बन्धस्य पृथकत्वं परस्परनिरपेक्षेण पृथगभिधानं नियामकमिति शेषः। अयम्भावः यदि द्वयोरेकस्य वाकाङ्क्षा तदा द्वयोरेकवाक्यता इह तु उभयमेव निराकाङ्क्षं तथा हि नित्यवाक्यं यूपस्य पशुबन्धनसम्यन्धे अलौकिकं किमपि नापेक्षते पशुबन्धनदृष्टफसत्वात् च्चाम्बर्वाक्यामनुपन्यस्याभिधानाच्च। काम्यवाक्यमपि आश्रयसम्बन्धकरं किमपि प्रमाणं नापेक्षते सन्निधानादेवाश्रयलाभे हि तथा स्यात् पृथक्पृथक् संयोगस्य निरपेक्षेण वाक्यद्वयेनाभिधानात् कासनासत्त्वे च खादिरं दृष्टफलद्वारा क्रतोरुपकरिव्यति पुरुषस्य वी र्य्यमप्यावक्ष्यति। किस्त्वयं विशेषः कामनासत्त्वे तत्सहकारेण पुरुषार्थस्तदभावेन च कत्पर्थ इति। तदुक्तम् “द्वयोरेकस्य वाकाङ्क्षा भवेद् यदि तयोस्ततः। प्रकल्प्येतैकवाक्यत्वं निराकाङ्क्षन्त्विहोभयमिति” तस्मादुभयार्था खादिरतेति। ननु नित्य एव खादिरोऽस्तु खादिरमित्यादिनाऽङ्गस्य प्रशंसार्थं फलश्रुत्यर्थवादोऽस्तु यथा यस्य पर्णमयी जुहूर्भवति न स पापश्लोकं शृणोति” इत्यत्रेति किमेकस्योभयार्थत्वाङ्गीकारेणेति चेन्न तत्र जूहुप्राप्तावपि तन्निष्यादकद्रव्यविशेषणामावात् तत्परिचायकत्वेनैव स्तुत्यर्थवादस्यौचित्यात् न चात्र तथा पूर्ववाक्यत एव खादिरत्वप्राप्तौ पुनः खादिरपदापन्यासेनान्यस्य वीर्यसामर्थ्यकत्वबोधनेनैकप्रयोजनकत्वात्। एवं दध्ना जुहोति दध्नेन्द्रियकामस्य जुहूयादित्यादावपि उभयार्थता दध्नो बोध्या उभयत्र दध्नः कीर्त्तनात्”।
संयोगविरुद्ध = न० संयोगेन विरुद्धम्। द्रव्यान्तरसंयोगेन विरुद्धगुणाश्रये द्रव्यभेदे तच्च राजवल्लभेन दर्शितं यथा “शाकाम्लपलपिण्याककुलत्थलवणामिषैः। करीरदधिमाषैश्च प्रायः क्षीरं विरुध्यते। प्राणहारी तु हारीतो हरिद्रालवणैः शृतः। रुरोस्तैलानलैर्भृष्टं विषं मायूरमामिषम्। वराहवसया भृष्टा बलाका तु हरत्यसून्। संयुक्ता सैव वारुण्या कुल्माषैश्च विरुध्यते। अविं कृसुम्भशाकेन मत्स्यतैलैः कणां त्यजेत्। मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम्। कपोतः सार्षपे भृष्टो घृतं कांस्ये दशाहिकम्। विषं घृतसमं क्षौद्रं मधुना गगनाम्बु च। मूलकं माषसूपेन मधुना च न भक्षयेत्। एकत्र सर्वमांसानि विरुध्यन्ते प्रस्परम्। रात्र्यन्धवीसर्पदकोदराणां विस्फोटिकोन्मादभगन्दराणाम्। मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्याऽऽमविषस्य चैव किलासकुष्ठग्रहणीगदानां शोथातिसारज्वरपीनसानाम्। सन्तानदोषस्य तथैव मृत्योर्विरुद्धमन्नं प्रवदन्ति हेतुम्। विरुद्धाहारजान् रोगात् विगिहन्ति विरेचनम्। वभनं शमनं वापि पूर्वं वा हितसेवनम्”।
संयोजन = न० सम् + युज–णिच्–आधारादौ ल्युट्। १ मैथुने हारा०। २ सम्यग्योजने च।
संयोजित = त्रि० सम् + युज–णिच् क्त। कृतमेलने पदार्थान्तरेण कृतयोजने पदार्थे
संरम्भ = पु० सम् + रभ–घञ्–मुम् च। १ कोपे शब्दर०। २ आटोपे त्रिद्वा०। ३ लत्साहे मेदि० ४ वेगे च “अव्र्ष्टिसंरम्भमिधाम्बुहम्” इति कुमारः।
संराधन = न० सम् + राध–ल्युट्। १ सव्यक् मेवने २ सम्यक् चिन्तने च।
संराव = पु० मम् + रु–धञ्। शब्दे अमरः।
संरूढ = त्रि० सम् + रुह–क्त। १ प्रौढे २ जाताङ्कुरे च मेदि०।
संरोध = पु० सम + रुध–घञ्। १ रोधने २ क्षेपे च मेदि०।
संलग्न = त्रि० सम् + लग–क्त। मिलिते।
संलय = पु० संलीयते इन्द्रियव्यापारोऽत्र सम् + ली–आधारे अच्। १ निद्रायां हेमच०। भावे अच्। २ प्रलये च।
संलाप = पु० सम् + लप–घञ्। १ परस्परकथने अमरः। प्रीत्या अन्योन्याक्तिप्रत्युक्तिभ्यां २ भाषणे ३ रहसि कथने च।
संवत्सर = पु० संवसन्ति ऋतवोऽत्र सम् + वस–सरन्। १ वत्सरे ज्यातिषोक्ते इदादिपञ्चक न्तर्गते २ वत्सरभेदे च। इदावत्सरशब्दे ९०६ पृ० दृश्यम्।
संवत् = अव्य० सम् + वय–क्विप् यलोपे तुक्। विक्रमादित्यराज्यावधिके तत्प्रवर्त्तितवत्सरे।
संवदन = न० सम् + वद–ल्युट्। १ आलोचने २ वशीकरणे च मेदि०। सम् + वन्–ल्युट्। संवननमप्यत्र रामाश्रमः।
संवर = न० सम् + वॄ–करणे अप्। १ जले। कर्त्तरि अच्। २ दैत्यभेदे ३ मत्स्यभेदे ४ मृगभेदे च पुंस्त्री०।
संवर्त्त = पु० सम्यक् वर्त्त्यते परावर्त्त्यतेऽत्र सम् + वृत–णिचाधारे अच्। १ प्रलयकाले अमरः। २ स्मृतिकारकमुनिभेदे ३ कर्षफलवृक्षे मेदि० ४ मेधे शब्दच० ५ मेघनायकभेदे च। “त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्त्तं विद्धि संवर्त्तं पुष्करं द्राणमम्बुदम्। आवर्त्तो निर्जलो मेघः संवर्त्तश्च बहूदकः। पुष्करो दुष्करजलो द्रोणः शम्यपपूरकः” ज्या० त०।
संवर्त्तक = न० सम् + वृत–णिच्–ण्वुल्। १ बलदेवलाङ्गले २ बाडवानले पु० हेमच०। ततः अस्त्वर्थे अच्। ३ बलदेवे शब्दर०।
संवर्त्तकिन् = पु० संवर्त्तकं लाङ्गलभेदोऽस्त्यस्य इनि। बुलरामे त्रिका०।
संवर्त्तिका = स्त्री सम्यकवर्त्तिका मम् + वृत–ण्वुल् टापि अत इत्त्वं वा। १ दीपादेः शिखायां २ पद्मादेः केसरसमीपस्थे दले अमरः ३ नवपत्त्रे मधुसूदनः।
संवर्द्धक = त्रि० सम् + वृध–णिच्–ण्वुल्। सम्माननाकारिणि हेमच० २ वृद्धिकारके च।
संवलित = त्रि० संस + वच–क्त। मिलिते।
संवसघ = पु० सीवसत्यम्मित् मम् + वस–आघारे अथच्। ग्रामे जनममूहनिवासस्थाने अमरः।
संवह = पु० मम्यक् वहति सम + वह–अच्। सप्तवायुमध्यवर्त्तिनि वायुमदे आवहशब्दे १६४ पृ० दृश्यम्।
संवार = पु० सम + वञ्। शिक्षाग्रथोक्ते वर्णोश्वारणार्थे गलनिलसंकोधात्मक बाह्यपयत्नमेदे २ सङ्गोपने च।
संवास = पु० संवसत्यत्र सम् + वस–घञ्। १ गृहे शब्दच०। पुरवासिनां पुराद्वहिर्वामयोग्ये अनावृते २ स्ताने जटा०।
संवाह = पु० संवाहयति सम् + वह–अच्। अङ्गसंमर्दके भृत्थे जटा०। ण्वुल्। संवाहक तत्रैव।
संवाहन = न० सम् + वह–णिच्–ल्युट्। १ भारादेवांहने २ अङ्ग संमर्दने च मेदि०।
संविग्न = त्रि० सम् + विज–क्त। १ उद्विग्ने इष्टवस्तुलाभाय तदप्राप्त्या भयादिना वा जातौत्कण्ठे।
संवित्ति = स्त्री सम् + विद–क्तिन्। १ ज्ञाने शब्दमा० २ प्रतिपत्तौ ३ चेतनायां ४ अङ्गोकारे ५ बुद्धौ च मेदि०।
संविद् = स्त्री सम् + विद–सम्प० क्विप्। १ ज्ञाने २ प्रतिपत्तौ मेदि०। ३ सम्भाषायां ४ बुद्धौ ५ क्रियाकरणे ५ युद्धे ६ अङ्गीकारे च अमरः। ७ नामनि ८ आचारो ९ सङ्कते १० तोषे ११ समाधौ च शब्दच०।
संविदा = स्त्री संविद्यतेऽनया सम् + विद–क्विप् टाप्। भुङ्ग {??}रं (सिद्धि) “संविदासवयोर्मध्ये संविदैव गरीयभी” तन्त्रम्।
संविदित = त्रि० सम् + विद–क्त। १ अङ्गीकृते २ सम्यग्ज्ञात च।
संविद्व्यतिक्रम = पु० संविदाऽङ्गीकारस्य व्यतिक्रमा यत्र। कृताङ्गीकारस्योल्लङ्घनहेतुके विवादभेदे वीरमि० तन्निरूपणं यथा “तस्य स्वरूप व्यतिरेकस्खेन दर्शयति” नारदः “पाषण्डनैगमादीनां स्थितिः समय उच्यते। समयस्यानपाकम तद्विवादपदं स्मृतमिति”। पाषण्डाः वैदिकमार्गद्वेषिणः क्षपणकादयः। नैगमाः सार्थिका वणिज इति मदनरत्ने। नैगमाः षेदप्रामाण्याभ्यु पगन्तारः पाशुपतादय इति मिताक्षरायाम्। आदिशब्देन विद्वद्ब्रह्मणसमूहादीनां ग्रहणम्। समयस्यानपाकर्म व्यतिक्रमः संमयापरिपालनमिति यावत् तद्व्यतिक्रम्यमाणं विवादपदम्भवतीत्यर्थः। तद्रूपयोग्यार्थमाह वृहस्यतिः “वेदविद्याविदा विप्राः तेषां वृत्ति० प्रकल्पयेत्” इति। याज्ञवल्क्योऽपि “राजा कृत्वा पुरे स्थानं ब्रह्मण्यं न्यस्य तत्र तु। त्रैविद्यं वृत्तिमद् ब्रूयात् स्वघर्मः पाल्यतामिति”। ब्रह्मणानां समूहो ब्रह्मण्यम्। “ब्राह्मणमानववाडवाद्यदिति” पा० सूत्रेण यत्। विद्या वेदा तिसृणां विद्यानां समाहारस्त्रिविद्यम्। त्रिविद्यमधीते इति। तेषां वृत्तिं प्रकल्ययेदित्यस्याऽर्थो वृहस्पतिनैव विवृतः “अनाच्छेद्यकरास्तेभ्यः प्रदद्याद् गृहभूमिकाः। युक्तभाव्यश्च नृपतिर्लेखयित्वा स्वाशासनम्” इति। अनाच्छेद्यकराः अग्राह्यकराः। एतदुक्तम्भवति। आगामिनृपतिभिरग्राह्य- कराः तेभ्यो सिसृष्टकराश्च गृहभूमिकाः प्रदद्यादिति। एवं नियुक्तैर्यत्कर्तव्यं तदाह याज्ञवल्क्यः “निजधर्माविरोधेन यस्तु सामयिको भवेत्। सोऽपि यत्नेन सरक्ष्यो धर्मो राजकृतश्च यः” इति। निजधर्माविरोधेन श्रौतस्मार्त्तकर्माविरोधेन सामयिकः समयान्निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन रक्षणीयः। यश्च राज्ञा कृतो निजधर्माविरोधेनैव यः सामयिको धर्मो यावत्पथिकम्भोजनन्देयमस्मदरातिमण्डले तुरगादयो न प्रस्थापनीया इत्येवंरूपः सोऽपि यत्नेन रक्षणीय इत्यर्थः। वृहस्पतिरपि “नित्यं नैमि त्तिकं काम्यं शान्तिकम्पौष्टिकन्तथा। पौराणां कर्म कुर्य्युस्ते सन्दिग्धे निर्णर्य तथेति”। पौराणां पुरवासिनामित्यर्थः। एवं राजनियुक्तसमुदायविशेषस्य कार्य्यविशेष उक्तः। सर्वसमुदायाताञ्च कार्य्यमाह स एव “ग्रासश्रेणिगणानाञ्च सङ्केतः समयक्रिया। बाधाकाले तु सा कार्थ्या धर्मकार्य्ये तथैव च। चाटचोरभये वाधाः सर्वसाधारणाः स्मृताः। तत्रोपशमनं कार्य्यं सर्वेश्चैकेन केनचिदिति”। गणानाञ्चेत्यत्र चशब्दः पाषण्डनैगमादीनां समुच्चयार्थः। ततशच गणपाषण्डनैगमादीनां लमयकरणमन्तरेण यद्युपद्रवो दुःपरिहरः धर्मकार्य्यं च दुःसाध्यन्तदा पारिभाषिकी समयक्रिया सर्वोर्मलितैः कार्य्या। चाटोवृकः। चाटचोरादिभ्यो भये प्राप्ते तदुपशमनं सर्वैः कार्व्यमित्यर्थः। धर्मकार्य्यमपि सम्भूय कार्य्यमित्युक्तं तेनैव “मभाप्रपादेवगृहतटाकारामसं स्कतिः। तथाऽनाथदरिद्राणां संस्कारो यजनक्रिवा। कुलायननिरोधश्न कार्य्यमस्माभिरंशतः। यत्रैतल्लिखितं पत्रे धर्म्या सा समयक्रिया। पालनीयाः समस्तैस्तैर्यः समर्थो विसंवदेत्। सर्वस्वहरणं दण्डस्तस्य निर्वासनं युरादिति”। समा मण्डपः। प्रपा पानीयशालिका। आरासः उपवनम। संस्कतिः जीर्णोद्धारः। संस्कार उपनयनादिकः प्रेददहमादिकश्च। यजनक्रिया सोमयागादिकर्त्तृभ्यो दानम। कुलायननिरोधः। कुलायनस्य दुर्भिक्षाद्यपगमपर्यन्तस्य धारणम्। कुल्यायनविरोधश्चेति कल्पतरौ पाठः। कुल्यायननिरोधः कुल्यायाः प्रवर्त्तनमप्रतिसन्धश्च। एवं कृता समुयक्रिया न केवलं सयुदायिभिरेव पालनीया अपि तु राज्ञापि इत्याह नारदः “पाषण्डनैगनश्रेणिपूगव्रातगणादिषु। संरक्षेत् समयं राजा ष्टुर्गं जनपदे तथेति”। पाषण्डा। वेदोक्तलिङ्ग- धारणव्यतिरिक्ताः सर्वे लिङ्गिमः। तेषु विहितभिक्षाचरणाद्याः सन्ति। नैगमाः सार्थिका वणिक्प्रभृतयः। तेषु सकञ्चुकसन्देशहरपुरुषतिरस्कारिणो दण्ड्या इत्येवमादयोबहवः समया विद्यन्ते। अथ वा नैगमाः आप्तप्रणेतृत्वेन ये वेदप्रामाण्यमिच्छान्त पाशुपतादयः। श्रेणयः एकशिल्पोपजीविनः। तास्विदभनयैव श्रेण्या विक्रेयमित्येवमादिकाः समया वरीवर्त्तन्ते। पूगा हस्त्यश्वारोहादयः। व्रातगणशब्दयारर्थमाह कात्यायनः “नानायुधधरा व्राताः समवेतास्तु कीर्त्तिताः। कुलानां हि समूहस्तु गणः सम्परिकीर्त्तितः” इति। पूगे व्राते वास्त्रमुत्सृज्य समरे न गन्तव्यमित्येवमादयः समया वर्त्तन्ते। गणे तु पञ्चमे दिने पञ्चमे वर्षे वा कर्णवेधः कर्त्तव्य इत्येवमादि समयः समस्ति। गणादीत्यत्रादिशब्देन ब्रह्मपुरीनिविष्टस्य महाजनादेः परिग्रहः। तत्र गुरुदक्षिणाद्यर्थमागता माननीय इत्यादिः समयोऽस्ति। दुर्गे तु धान्यादिकं गृहीत्वा अन्यत्र न तद्विक्रेयमित्यादिरस्ति समयः। जनपदे तु क्वचिद्विक्रेतृसकाशाच्छुल्कग्रहणमित्याद्यनेकविधः समयो वरोवर्त्तते। तदेवं समयजातं यथा न भ्रश्यति तथा राजा कुर्य्यादित्यर्थः। समूहादिपुरुषविषये विशेषमाह वृहस्पतिः “कोशेन लेख्यक्रियया मध्यस्थैर्वा परस्परम्। विश्वासं कृत्वा यः कुर्य्युः कार्य्याणि समनन्तरम्” इति। कोशेन देवतास्नानोदकपानेन। लेख्यक्रियया समयपत्रेण। मध्यस्थैः प्रतिभूभिः कार्य्याणि समूहतार्य्याणि। एतदक्तं भवति। समुदायिभिः परस्परं समयातिक्रमाभावाय कोशादिभिर्विश्वासमुत्पाद्य सामयिककार्य्याणि कर्त्तव्यानीति। कात्यायनोऽपि “समूहानां तु यो धर्मस्तेन धर्मेण ते सदा। प्रकुर्युः सर्वकर्माणि स्वधर्मेषु व्यवस्थिताः” इति। सामयिकधर्मनिजधर्मानतिक्रमेण सर्वकार्य्याणि समुदायिनः कुर्युरित्यर्यः। याज्ञवल्क्योऽषि “निजधर्माविरोधेन यस्तु सामयिको भवेत्। सोऽपि यत्नेन संरक्ष्यी धर्मो राजकृतश्च यः” इति। निजघर्माविरोधेनेत्यनेन निजधर्माविरोधी सामयिको धर्मा यथा सन्व्यावन्दनवेलायां सर्वैरेव स्वव्यापारप्ररिहारेण, राजभवनं प्रत्यागन्तव्यं यो नायास्यति प्रथमसाहसं दण्ड्यः इति नासौ रक्ष्य इत्यर्थादुक्तम्। कात्यायनोऽपि “अवरोधेन धर्मस्य निर्जितं राजशासनम्। तस्यैवाचरणं पूर्वं सर्त्तव्यन्तु नृपाज्ञयेति”। धर्मस्य श्रौतस्मार्त्तादि धर्मस्य निर्जितं कृतमित्यर्थः “राज्ञा प्रवर्त्तितान् धर्मान् यो नरो नानुपालयेत्। गर्ह्यः स पापो दण्ड्यश्च लोप यन् राजशासनम्” इति। विचित्रबुद्धिभिः समुदा यिभिरनेकैरैकमत्येन कार्य्यकरणासम्भवात् द्वित्राः पञ्च वा कार्य्यचिन्तकाः कर्त्तव्या इत्याह वृहस्पतिः “द्वौ त्रयः पञ्च वा कार्य्याः समूहाहतवादिनः। कर्त्तव्यं वचनन्तेषां ग्रामश्रेणिगणादिभिरिति”। कार्य्यचिन्तकेषु हेयोपादेयान्दर्शयति स एव “विद्वेषिणो व्यसनिनः शालीनालसभीरवः। लुब्धातिवृद्धबालाश्च न कार्य्याः कार्य्यचिन्तकाः। शुचयो वेदधर्मज्ञाः दक्षा दान्ताः कुलोद्भवाः। सर्वकार्य्यप्रवीणाश्च कर्त्तव्याञ्च महात्तमाः” इति। शालीनाः अधृष्टाः कार्य्यचिन्तकाः स मुदायकार्य्यसाधकविचारकाः। कार्य्याचिन्तकानामपि समूहहितवादिनां वचनं सर्वैः समूहिभिः कार्य्यामित्याह याज्ञवल्क्यः “कर्त्तव्यं वचनं सर्वैः समूहहितवादिनाम्” इति। समूहप्रतिकूलस्य प्रथमसाहसं दण्ड इत्याह स एव “यस्तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम्” इति। प्रथमं पूर्वसाहसम्। कात्यायनोऽपि “युक्तियुक्तं वचो हन्याद् वक्तुर्योऽनवकाशतः। अयुक्तञ्चव यो व्रूयात् स दाप्यः पूर्वसाहसम्” इति। वृहस्पतिरपि “यस्तु साधारणं हिंस्यात् क्षिपेत्त्रैविद्यमेव वा। सन्धिक्रियां विहन्थाच्च स निर्वास्यस्ततः पुरात्” इति। साधारणम् समुदायग्राह्यं दण्डादि द्रव्यम्। हिंस्यात्। दण्ड्यादेः साहाय्यकरणान्नाशयेत् क्षिपेत् वा तिरष्कुर्य्यादित्यर्थः। समूहिनामप्यधर्मेण द्वेषादिना कार्य्यकरणे दण्डमाह स एव “बाधां कुर्युर्य एकस्य सम्भूता द्वेषसंयुताः। राज्ञा तु विनिवार्यास्ते शास्या श्चैवानुवन्धतः” इति। अनुबन्धतः निग्रहतारतम्यानु सारेण। मुख्यानाम्नपराक्षविशेषे दण्डविशेषमाह याज्ञवल्क्यः “गणद्रव्यं हरेद्यस्वु स विदं लङ्घवेच्च यः। सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्” इति। मुख्य दण्डने समूहस्यैवाधिकारः। अतएव कात्याद्धनः “साहसी भेदकारी च गणद्रव्यविनाशकः। उच्छेद्याः सर्व एवैते विख्याप्यैव नृपे भृगुरिति”। नृपे विख्याप्य गणेनोच्छेद्या इत्यर्यः। समूहाशक्तौ तस्य दण्डो राज्ञा विधयः। अतएव ममुः “यो ग्रामदेशमङ्घननां कृत्वा सत्येन संविदम्। विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवाद्धयेत्। निगृह्य दापयेच्चैगं समयष्यभिवारिणम्। चतुःसुवर्णान् षण्णिष्काश्छतमानञ्च राजतम्। एवं दण्डविधिं कुर्य्याद्धार्मिकः पृथिवीपतिः। ग्रामजातिसमूहेषु समयव्यभिचारिणाम्” इति। एतेषां प्रवासनचतुः सुवर्णषण्णिष्कशतमानरूपाणाञ्चतुर्णां दण्डानाञ्चाति विद्यागुणाद्यपेक्षया व्यवस्था कल्पनीया। यत्तु कञ्चिदेतेषाञ्चतुर्णां दण्डानां क्रमेण ब्राह्मणादिचतुर्वर्णविषयत्वमित्याह तदज्ञानविलसितम्। एतादृशव्यवस्थायां प्रमाणाभावात्। ब्राह्मणस्य प्रवासन क्षत्रियादीनाञ्चतुःसुवर्णादि दण्ड इत्यस्यानुचितत्वाच्च। मर्मोद्घाटकादीनां पुरान्निर्वासनमेव दण्ड इत्याह वृहस्पतिः “अरुन्तुदः सूचकश्च भेदकृत्साहसी तथा। श्रेणिपूगनृपद्विष्टः क्षिप्रं निर्वास्यते ततः” इति। अरुन्तुदः मर्मोद्घाटकः। सूचकः पिशुनः। पिशुनौ खलसूचकावित्यभिधानात्। भेदकृत् समुदायिषु वैमत्यकृत्। समूहस्थानान्निर्वास्यते समूहेनेति शेषः। न च समूहस्य दण्डकरणेऽनधिकारात् समूहेनेति शेषकरणमयुक्तमिति वक्तव्यम्। पूर्वोक्तकात्यायनवचनेन समुहस्यैव मुख्यदण्डनेऽधिकारस्य प्रतिपादितत्वात् “पूगश्रेणिगणाध्यक्षाः पुरदुर्गनिवासिनः। वाग्धिग्दण्डपरित्यागं प्रकुर्युः पापकारिणम्। तैः कृतं यत् सधर्मेण निग्रहानुग्रहं नृणाम्। तद्राज्ञ मनुमन्तव्यं निसृष्टार्था हि ते स्मृताः” इति वृहस्पतिनामभिधानाच्च। वाग्दण्डः पापिष्ठोऽसीत्यादि भाषणम्। धिग्दण्डोधिक्त्वामिति भाषणम्। परित्यागोऽसद्व्यवहार्य्यत्व करणं निर्वासनं वा। उभयत्रापि लोके परित्यागशब्दप्रयोगदर्शनात्। एतच्चार्थदण्डादेरुपलक्षणार्थम्। निग्रहानुग्रहमित्येतेन पुनः साम्येनाभिधानात् निसृष्टार्था अज्ञातकार्याः। नारदोऽपि “पृथग्गणांस्तु ये भिन्द्युस्ते विनेया विशेषतः। आवहेयुर्भयं घोरं व्याधिवत्तेह्युपेक्षिता” इति। गणान् श्रेण्यादिरूपान्। वृहस्पतिरपि “तत्र भेदमुपेक्षां वा यः कश्चित्कुरुते नरः। चतुःघवर्णं षणिष्कांस्तख दण्डो विधीयते” इति। मुवर्णचतुष्टयषण्णिष्कयोः शक्त्यादितारतन्यानुनारेण गुणवदगुणवद्विषयत्वेन वा व्यवस्वा मन्तव्या। पाषण्डादिसवसमूहेषु राज्ञा यथा वर्त्तितव्यन्तदाह नारदः “यो धर्मः कर्म यच्चैषामुपव्याटविधिश्च यः। यच्चैषां प्रत्युपादानमभुमत्येत् तत्तथेति”। धर्मः सत्यवदनादिः। कर्म प्रातःप्रर्धु षितमिक्षादनादिः उपस्यनबिधिः षमूहकार्थार्थं मृदङ्गादिध्वनिमाकर्ण्यं मण्ड- पादौ मेसनम्। प्रत्थुपादानञ्जीवनाय तापसवेषपरिग्रहः। एषां पाषण्डिनामित्यर्थः। अन्यदपि राजकृत्य माह स एव “प्रतिकूलरु यद्राज्ञः प्रकृत्या च मतञ्च यत्। बाधकञ्च यदर्थानां तत्तेम्बोऽपि निवर्त्तयेत्” इति। यद्राज्ञः प्रतिकूलम् “यथा यस्य राज्ञर्स्तु कुरुते शूद्रोधर्म विवेचगम्। तस्य प्रक्षुभ्यते राद्रं बलं कोशश्च नश्यति” इति। एवञ्च सार्थिकादिशूद्रविवादे घर्मविवेचनं च यद्राज्ञ इत्यस्योदाहरणम्मन्तव्यम्। प्रकृत्या स्वभावत एव मतम् अवज्ञातार्थं पाषण्डादिषु ताम्बूलभक्षणादिकम्। यच्चार्थानां वाधकन्धननाशकचौरादिसंबाधादिकं तत्तेभ्योऽपि निवर्त्तयेत्। यथा ते न कुर्वन्ति तथा कुर्व्यादित्यर्थः। अन्यदपि निवर्त्त्यमाह स एव “दोषंवत्करणं यत्स्यादनाभ्रायप्रकल्पितम्। प्रवृत्तमपि तद्राजा श्रेयस्कामो निवर्त्तयेत्”। लोमादिदोषवत्करण श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्डादिभिः प्रकल्पितम्। तद्बहुकालप्रवृत्तमपि राज्ञा निवर्त्तनीयमित्यर्थः। त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्वतिदिशति याज्ञवल्क्यः “श्रोणिनैगमपाषण्डिगणानीमप्ययं विधिः। भेदञ्चैषां नृपोरक्षेत् पूर्ववृत्तिं च पालयेत्” इति। समूहकार्यार्थमागताय यद्राज्ञा समूह पूजार्थं दत्तन्तद्यदि समूहायासौ न ददाति तदा तद्दत्तं एकादशगुणं दाप्य इत्याह स एव “समूहकार्य्य आयातान् कृतकार्यान् विसर्जयेत्। सदानमानसत्कारैः पूजयित्वा महीपतिः। समूहकार्य्यं प्रहिता यल्लभेत तदर्पयेत्। एकादशगुणं दाप्यो यद्यसौ नार्पयेत् स्वयम्”। इति। यल्लभेत समूहसम्भाननार्थमिति शेषः। यतो राजदत्तं सर्वसाधाराणमतो यथांशतो विभागं कृत्वा ग्राह्यं निस्वादिभ्यो वा दातव्यमित्याह वृहस्पतिः “ततो लभ्येत यत्किञ्चित् सर्वेषामेव तत्समम्। षण्मासिकं मासिकं वा विभक्तव्यं यथांशतः। देयं वा निःस्पवृद्धान्घस्त्रीयाला तुररोगिषु। सान्तानिकादिषु तथा धर्म एव सतातनः” इति। एकस्य पुरुषस्य षण्मासनिर्वाहाय पर्य्याप्तं कुटुम्बस्य वैकस्य षण्मासनिर्वाहाय पर्य्याप्तं, लब्धं वा यथांशतः स्वस्वांशानुरूपेण विभजनीयन्निस्वादिभ्यो वा देयमिति तात्पर्यार्थः राजप्रसादलब्धवदृणमपि सर्वेषां सममित्पाह स एव “यत्तैः प्राप्तं रपितं वा गणार्थं वा वा ऋणं कृतम्। राजप्रसादलब्धञ्च सर्वेषामेव तत्समम्” इति। अयमर्थः। तैः समूहकार्य्यार्थं प्रहितैर्यत्सीमा- विवादावधिं क्षेत्रारामादिकं धर्माधिकरणे त्यायतः पाप्तम्। यच्च परैरपह्रियमाणं रक्षितं यच्च लमूहप्रयोजनार्थमुपात्तमृणम्, यच्च राजप्रसादलब्धं तत् सर्वं सर्वेषां समुदायिनां सममिति। गणकृतमृणं सर्वेषां सममित्यस्य क्वचिदपवादमाह कात्यायनः “गणमुद्दिश्य यत्किञ्चित् कृत्वर्णं भक्षितं भवेत्। आत्मार्थं विनियुक्तं वा दैयं तैरेव तद्भवेत्” इति। तैः मुख्यैः। ये तु समुदायानुग्रहात्तदन्तर्भावं प्राप्ताः ये च समुदायक्षोभादिना ततो बहिर्भूतास्तान् प्रत्याह स एव “गणानां श्रेणिवर्गाणां गताः स्युर्य्येऽपि मध्यताम्। प्राकृतस्य घनर्णस्य समाशाः सर्व एवेति। तथैव भोज्यवैभव्यदानधर्मक्रियासु च। समूहस्थोऽंशभागी स्यात् प्राग्गतस्त्वंशभाङ्नत्विति”।
संविधान = न० सम् + वि + धा–ल्युट्। १ उपाये २ आयोजने ३ रचनायाञ्च।
संविषा = स्त्री स मर्दितं विषं यथा प्रा० ब० धातुजस्य उत्तरपदलोपः। अतिविषायाम् (आतैच्) शब्दच०।
संवीक्षण = न० सम्यग्वीक्ष्यते अन्विष्यते वा सम् + वि + ईक्ष–भावे ल्युट्। १ सम्यग्दर्शने २ इष्टवस्तुईलाभाय अग्वेषणे च।
संवीत = त्रि० सम् + व्येञ्–क्त। १ आवृते २ रुद्धे च अमरः। सम् + वि + इण–क्त। ३ सङ्गते।
संवृत = त्रि० सम् + वृ–क्त। १ आवृते २ कृतगोपने ३ संवाहरूपे वर्णोच्चारणाभ्यन्तयत्ने च
संवेग = पु० सम् + विज–घञ्। १ भयादिना त्वरायाम् अमरः २ सम्यग् वेगे च।
संवेद = पु० सम् + विद–घञ्। ज्ञाने अमरः। स्वार्थे णिच्युच्। संवेदनाप्यत्र स्त्री।
संवेश = पु० सम्यक् विशत्यत्र सम् + विश–आधारे घञ्। १ निद्रायाम् अमरः। संपूर्वकस्य तस्य निद्रार्थकत्वात्तथात्वम्। यथा “संविष्टः कुशशयने निशां निनायेति” रधुः। २ पीठे हेमच० ३ स्त्रीरतिबन्धभेदे मेदि०।
संवेशन = न० सम् + विश–णिच्–ल्युट्। रतिक्रियायां हेमच० तदुत्तरं हि निद्राधिक्येन तस्या निद्राहेतुत्वात्तषात्वम्।
संव्यान = न० संवीयते सम् + व्येञ्–कर्मणि ल्युट्। १ उत्तरीयवस्त्रे अमरः। २ वस्त्रमात्रे मेदि०।
संशप्तक = पु० सम्यक् शप्तमङ्गीकारो यस्य कप्। प्रतिज्ञाय संग्रामादनिवर्त्तिनि सैन्ये नारायणीये सैन्यभेदे च तेषां प्रतिज्ञा यथा “ब्राह्मणांस्तर्पयित्वा च निष्कन्दत्त्वा पृथक् पृथक्। गाश्च वासांसि च पुनः समाभाव्य परस्परम्। प्रज्वाल्य कृष्णवर्त्मानमुपगम्य रणे व्रतम्। तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृडनिलयाः। शृण्वतां सर्वभूतानामुच्चैर्वाचोवभाषिरे। ते च चनञ्जयवधे प्रतिज्ञाञ्चापि चक्रिरे। ये वै लोकाश्चानृतिनां ये च वै ब्रह्मवातिनाम्। मद्यपस्व च लोका ये गुरुदाररतस्य च। ब्रह्मस्वहारिञ्चश्चैव राजपिण्डापहारिणः। शरणागतं वा त्यजता याचमानं तथा घ्नतः। अगारदाहिनाञ्चैव ये च गां निघ्नतामपि। अपकारिणाञ्च ये लोका ये च ब्रह्मद्विवामपि। स्वभार्य्यामृतुकालेषु यो मोहान्नाभिगच्छति। श्राद्धर्मथुनिकानाञ्च ये चाप्यात्मा पकारिणाम्। न्यासापहारिणां ये च श्रुतं नाशयताञ्च ये। क्लीवेन युध्यमानानां ये च दीनानुसारिणाम्। नास्तिकानाञ्च लोका येऽग्निमातृपरित्यजाम्। तानाप्नुयामहे लोकान् ये च पापकृतामपि। यद्यहत्वा वयं सर्वे निवर्त्तेम धनञ्जयम्। तेन चाभ्यर्दितास्त्रामुङ्खिबे महि पराङ्मुखाः। यदि त्वमुकरं लोके कर्म कुर्य्याम संयुगे। इष्टान् लोकान् प्राप्त याम वयमद्य न संशयः। एवमुक्त्रा ततो राजंस्तेऽम्यवर्त्तन्त संयुगे। आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति” भा० द्रो० १७ अ०।
संशय = पु० सम् + शी–अच्। सन्देहे एकस्मिन् धर्मिणि भावाभावयोः विरुद्धधर्मद्वयस्य वा सन्देहे। यथा पर्वतो वह्निमन्नि वा, अयं स्थाणुर्वा पुरुषोवेति। “स संशयो भवेद्या धीरेकत्रानावभावयोः। साधारणादिधर्मस्य ज्ञानं स शयकारणम्” भापा० “एकधर्मिकविरुद्धभावाभ वप्र कारकं ज्ञानं संशयः इत्यर्थः। साधारणेति। उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम्। यथा उच्चैस्तरत्वं स्थाणुत्वसाधारणं ज्ञात्वा अयं स्थाणुर्न बेति सन्दिग्ध। एवम् असाधारणज्ञानं तत्कारणम्। यथा शब्दत्वं नित्यानित्यव्यावृत्तं शब्दे गृहीत्वा शब्दो नित्यो ण वेति सन्दिग्धे। विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्या दिशब्दात्मिका न संशयकारणस्। शब्दव्याप्तिज्ञानादिनाख् निश्चयमात्रजनकत्वस्वाभाव्यात्। किन्तु तत्र शब्देन कोटिद्वयज्ञानं जन्यते। संशयस्तु तत्र मानस एवेति। एवं ज्ञाने प्रामाण्यसंशयाद् विषयसंशय इति। एवं व्याप्यसं शयादपि व्यापकसंशय इत्यादिक बोध्यम्। किन्तु स शये धर्मिज्ञानं धर्मीन्द्रिसन्निकर्षो वा कारणमिति” सि० मु०। “समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपमश्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः” न्यायसू० “समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशय इति स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहो पश्यन् पूर्व- दृष्टञ्च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरन्नावधारयति यदनवधारयति तदनश्चधारणं ज्ञानं सशयः समानयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषा बुद्धिरपेक्ष्या संशयस्य प्रवर्त्तिका वर्त्तते, तेन विशेषापेक्षो विमर्शः संशयः। अनेकधर्मोपपत्तेरिति समानजातीयमसमानजातीयञ्चानेकं तस्यानेकस्य धर्मोपपत्तेर्विशेषस्योभयथा दृष्टत्वात् समानजातीयेभ्योऽसमानजातीयेभ्यश्चार्था विशेष्यन्ते। शन्धवत्त्वात् पृथिवी अबादिभ्यो विशेष्यते गुणकर्मभ्यश्च, अस्ति च शब्दे विभागजत्वं विशेषः, तस्मिन् द्रव्यं गुणः कर्म वेति सन्देहः विशेषस्वोभयथा दृष्टत्वात् किं द्रघ्यस्य सतो गुणकर्मभ्यो विशेष आहोस्विद्गुणस्य सत इति अथ कर्मणः सत इति विशेषापेक्षा अन्यतमस्य व्यवस्थापकं धर्मन्नोपलभे इति बुद्धिरिति। विप्रतिपत्तेरिति व्याहतमेकार्थदर्शनं विप्रतिपत्तिः व्याघातो विरोधोऽसहभाव इति। आस्त्यात्मेत्येकं दर्शनम् नास्त्यात्मेत्यपरम्, व च लद्भावासद्भावौ सहैकत्र सम्भवतः, न चान्यतरसाधको हेतुरुपलभ्यते तत्र तत्त्वानवधारणं संशय इति। उपलब्ध्यव्यवस्थातः स्वल्वपि सच्चोदकमुपलभ्यते तडानादिषु मरीचिषु वाऽविद्यमानमुदकमिति ततः क्वचिदुपलभ्यमाने तत्त्वप्यवस्या पकस्य प्रमाणस्यानुपलब्धेः किं सदु पलभ्यते अथासदिति संशयो भवति। अनुपलब्ध्यव्यवस्थातः सच्च नोपकभ्यते मूलकीलकोदकादि, असच्चानुत्पन्नं विरुद्धं वा, ततः क्वचिदनुपलभ्यमाने संशयः किं सन्नोपलभ्यते लतासदिति संशयो भवति विशेषापेक्षा पूर्ववत्, पूर्वः समानोऽनेकश्च धर्मो ज्ञेयख्यः, उपलब्ध्यनुपलब्धी पुनर्ज्ञातृस्थे, एतावता विशेषेण पुनर्वचनम्, समानधर्माधिगमात् समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति, स्थानवर्ता लक्षणवचनमिति ससामम्” वा० भा०। “संशय इति सक्ष्यनिर्देशः विमर्श इत्यत्र विशब्दो विरोधार्थः मशिर्ज्ञानार्थः एकस्मिन् धर्मिणीति पूरणीयं तेन एकधर्मिणि विरोधेन भावाभावप्रकारकं ज्ञानं संशयः तत कारणमुखेन विशेसलक्षणान्थाह समानेत्यादि उपपत्तिर्ज्ञानं तथा च समासस्य विरुद्धकोटिद्वयसाधारणधर्मस्य ज्ञानादित्यर्थः। अनेकधर्मः असाधारणधर्मः तज्ज्ञानादित्यर्थः। तथा च साधारणधर्मवद्धर्सिज्ञानजन्योऽसाधारणधर्भवर्भवल्लर्मिज्ञानजन्यश्चेत्यर्थः, विप्रातिपत्तिर्विरुद्धकोटिद्वयोपरधावतः शब्दरखादित्यर्थः यदापि शब्दरव ग संशयकत्वं तपापि” शब्दात्काटिद्वयोपस्थितौ मानसः सशय इति वदन्ति। उपलब्धेर्ज्ञानस्य अनुपलब्धेर्व्यतिरकज्ञानस्य याऽव्यवस्था मधिमयकत्वानिर्द्धारण प्रामाण्य संशय इति फलितोऽर्थः, नन्ये तु उपलब्ध्यव्यवस्था प्रामाण्यसंशयः अनुपलब्धिर्विरोधिभ्वामः तदव्यवस्था ततः संशय इत्याहुः। वस्तुतस्तु ग्रामाण्यसंशयस्य न संशयहेतुत्वं किं त्वगृहीतापामाण्यकश्चाव्रस्य विरोधितया सति प्रामाण्यसंशये तज्ज्ञानस्थाचिरोधितया साधाणधर्मदर्शनादित एव संशयोत्पत्तिरिति। उपलब्धीत्यादिकं तादृशस्थले संशयो न भवतीत्येतावन्मात्रपर चकारो व्याप्यसंशयस्य व्यापकशसंशयहेतुत्वं समुच्चिवोतीति वदन्ति विशेषापेक्षः कोटिस्मरणसापेक्षः। वस्तुतस्तु संशयधारावाहिकत्वं स्यादत आह विशेषेति विशेषं विशेषदर्शनम् अपेक्षते विअवार्त्तकर्वंन तथा च विशेषदर्शननिवर्त्त्यत्वकथनमुखेन विशेषादर्शन्यसंशय इत्मुक्तम” वृतितिः स च संशयो द्विविधः यथोक्तम “द्विविधः संशयो वहिर्विषयकोऽन्तर्विषयकश्च बहिर्विषयश्चोऽपि दृश्यामानधर्मिकोऽदृश्यमानधर्मिकश्च तत्र डश्यषानधार्मको यथा ऊर्द्धत्वविशिष्टस्य धर्मिणो दर्शनात् अयं रवाणुः पुरुषो येति। अदृश्यमानधर्मिको यथा अरण्ये झाटाद्यन्तरिते योगवंयादिविषाणमात्रदर्शनात् अयं गौर्गवयो वेति। वस्तुतस्तत्रापि विषाणधर्मिक एव सन्देहो विषाणभिदं गोसम्बन्धि गवयसम्बन्धि संति विवक्षामात्राद्द्वैविध्याभिधानम्। यत् सामान्यं संशयाहेतुस्तढनेकत्र दृष्टं संशायकम एकत्र धर्मिणि वा दृष्टं संशयहेतुरित्यत्र प्रथमां विधामाह” उप० वृत्तिः। “इद्रन्तु वोध्यं संशयश्च प्रत्यक्षरूपः सन्निकर्षजन्यत्वात् अतएवोक्तं “परीक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धान्तादिति”। संशये च उभयप्रकारतानिरूपिता विशेष्यता एकैव। समुच्चये तु विशेष्यताद्वयमिति” गढाधरः।
संशयसम = पु० जात्युत्तरभेदे “सामान्यदृष्टान्तयौरैन्द्रियकत्वे समाने नित्याब्नुअत्यासांधर्म्यात् संशयसमः” न्यायसू०। “अनित्यः शब्दः प्रयत्यात्रानान्तरायत्वात घटवष्टित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्ननान्तरीयकस्त्रे अ ख्येवास्य नित्येन सामास्येन साधर्म्यमैन्द्रियकत्वसस्ति च घटेनानित्येन। अतो लित्यानित्यसाधर्म्यादनिवृत्तः संशय इति” वा० भा०।
संशयस्थ = त्रि० संशये तिष्ठति स्था–क। संशययुक्ते।
संशयात्मन् = पु० संशय आत्मनि यस्य। मन्दिग्धान्तःकरणे “संशयात्मा विनश्यतीति” “संशयात्मा निबध्यते”।
संशयालु = त्रि० संशय + अत्यर्थे आलुच्। संशययुक्ते हेमच०
संशयितृ = त्रि० सम् + शी–तृच्। संशयकर्त्तरि हेमच०।
संशरण = न० संशीर्य्यतेऽनेन सम् + शॄ–करणे ल्युट्। रणारम्भे शब्दमा०।
संशित = त्रि० सम्स् + शो ओरते इत्त्वम। १ सम्पादितव्रतविषयकयत्ने २ तद्वति त्रि० सै० कौ०।
संशितव्रत = त्रि० संशितं सम्यक् सम्पादितं घ्रतमनेन। सम्यक्सम्पादितव्रते।
संशुद्धि = स्त्री सम + शुध–क्तिन्। १ सम्यक्शोधने २ देहादिमार्जने च रत्नभा०।
संश्च(श्व)त् = सम् + श्यु–श्वि–वा वा० डति। कुहके उणादि०।
संश्यान = त्रि० सम् + स्यौ–क्त न सम्प्र०। सङ्कुचिते।
संश्रय = पु० सम् + श्रि–भावे अच्। आश्रये।
संश्रव = पु० सम्–श्रु–अप्। अङ्गीकारे अमरः। घञ्। संश्रावीऽप्यत्र पु०।
संश्रुत = त्रि० सम + श्रु–क। १ अङ्गीकृते अमरः। २ मम्यकश्रुते।
संश्लिष्ट = त्रि० सम् + श्लिष–क्त। १ आखिङ्गिते २ सम्बद्धे च।
संश्लेष = पु० सम् + श्लिष–घञ्। १ आखिङ्गने अमरः २ सम्पन्धमात्रे च।
संसक्त = त्रि० सम् + सन्ज–क्त। १ मिलिते २ संबद्धे ३ अव्यवहिते अमरः ४ समन्ताद्विस्तीर्णे च “पान्तेषु श्वंसक्तनमेरुशास्यजिति” कुमारः।
संसद् = स्त्री संसीदत्यात्याम् सुम् + सद–सम्प्र० आधारे क्विप्। सभायां अमरः।
संसरण = न० सम् + सृ–ल्युट्। स्वादृष्टनिबद्धदेस्वीकाररूपे १ संसारे २ असंवाधमेनागने ३ घण्टापथे अमरः। ४ रणारम्भे मेदि०। ५ सङ्गतौ शब्दच०।
संसर्ग = पु० सम् + सृज–घञ्। १ सम्बब्धे विभागानन्तरं “यत्तव धनं तन्मनेति” कृतसमयेन एकत्राबस्थानरूपे २ धनसम्बन्धे च पापिष्ठसंसर्गस्य पापभदे कालभेदेन पातित्यादिजनकत्वं प्र० वि० दर्शितं यथा
“तत्र पातकिस अगस्य पापहेतुत्वमाह मनुः “ब्रतहत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः मह” इति। ननु तैः सहेति निर्देशात् मह्यपातकिसंसर्गस्थैव पापहेतुत्वं लभ्यते न तु पातक्यन्तरसंसर्गस्य प्रायश्चित्तमपि महापातकिसंस एव मनुना दर्शितं यथा मनुः “एषां पापकृताम्भुक्तः चतुर्णासपि निष्कतिः। पतितैः सम्प्रयुक्त्रानामिमाः शृणुत निष्कृतीः। यो येन पतितेनैषां संसर्शं याति सानवः। स तस्यव व्रतं कुयात् तत्संसर्गविशुद्धये” इति अत्र चतुर्णामित्यनेन ब्रह्महत्यादिमहापातकचतुष्टयमुपसांहृत्य यो येन पतितेनेत्युक्तं महापातकपरमेव। उच्यते “प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेनं वा। न संसर्गं व्रजेत् सद्भिः पायश्चित्तेऽकृते द्विजः। एनखिभिरनिर्णिक्तैर्नार्थं किञ्चित् समाचरेत्। कृतनिर्णे जनांश्चैव न जुगुपसेत कर्हिचित्” इति मनुना सामान्थतः पापिष्ठसं सगस्य निषिद्धत्वात् निषिद्धाचरणात् पापोत्पत्तिः पापिष्ठसंसर्ग एव दर्शिता प्रायश्चित्तमपि सामान्थेन दर्शितम् “यो येन पतितेनैषां संसर्गम्” इति निर्देशात् चतुर्णामिति हिंसाऽभक्ष्यभक्षणतेयागम्यागमनाख्यप्रकारचतुष्टयानां न तु ब्रह्महत्यादिविशेषार्थं लधीयसामपि हिसाभक्ष्यभक्षणस्तेयागम्यागमनादीनाम् मनुना पूर्वसुक्तत्वात अपि च संसर्गपापस्मृत्या श्रुतिः कल्प्यमाना पापिष्ठसंश्चगीं पापी भवतीति सामान्यस्मृतिरेव कल्पानीया लाघवात् होलाकाधिकरणन्याय एवात्र जागर्त्ति। विष्णुनापि सामान्येनैव स्मृते “यश्च येन पा पात्मना सह संसृजेत् स तस्यैव प्रायश्चित्तं कुर्य्यात्”। गोतमोऽप्याह “ब्रह्महसुरापगुरुतल्पगमातृपितृयोनिसम्बन्धागस्तेनाभक्ष्यभक्षकनास्तिकनिन्दितकर्माभ्यासपतितात्यागाऽपतितत्यानिनः पतिताः पातकसंयोजकाश्च तैश्चाब्दं समाचरन्”। अत्र पतितात्यागेति सामान्थेनैव दर्शयति। तैश्चाव्दं समाचरन्निति द्वितीथसं सर्गिणोऽपि पतितत्वमुक्तम्। नन्वेकग्रामनिवासादिनापि पतितेन संसर्निणः पतितत्वं स्यात् न संसर्गविशेषाणां निधेधात् निषिद्धपतितसं सर्नात् पततीति श्रुतिः कल्प्या। के ते संसर्गप्रकारा इत्याह वृहस्पतिः “एकशय्यासनं षङ्क्तिर्भाण्डपक्वन्नमिश्रणम्। याजनाध्यापनं योनिरनया च सह भोजनम्। नवधा सङ्करः प्रोक्तो न कर्त्त व्यीधमैः सह। उत्तनीरुत्तमैनित्यं कर्त्तव्यस्तु समेन वा” एकशव्याशयनैकपीठाद्युपयेशनैकपङ्क्तिभोजनपक्वान्नादिसम्यन्धिभाण्डमिश्रणपक्वन्नमिश्राख्याः पञ्च लघुसंसर्गाः। तथा याजनं पतितेन ऋत्विजा यजनं यजजानस्य, पतितयजमानार्त्विज्यकरणमृत्विजश्च। अध्यायगं ओअतितमाणवकवेदाध्यापनमाचार्य्यस्य, पतिताचार्य्याद्वा वेदाध्यबनं माणवकस्य। योनिः योनिसम्बन्धः स च पतितपुरुषसम्भागः स्त्रियाः, पतितस्त्रीसम्भोगो वा पुरुतस्य, तथा पतितकन्यापरिणयनं वरस्य, पतितवरपरिखयनं वा कन्यायाः। तथा च मनुः “नैतैरपूतैर्विधि वदापद्यपि हि कर्हिचित्। ब्रह्म्यान् यौनांश्च सन्धन्धानाचरेत् ब्राह्मणः सह”। जिकनकल्पतरुकारादयस्तु पतितवराय कन्यादानं दातुः, पतिताद्दातुरादानं वा कन्याया वरस्य, सर्वत्र व्यवहितयीनिसम्बन्ध, योनिसम्बन्धस्य स्त्रीपुरुषमात्रनिष्पाद्यत्वात् नात्र दातृवरयोः साक्षात् योनिसभ्बन्धः दानपतिग्रहलक्षणिप्ययं सम्बन्धो दातृसम्प्रदानयोर्योन्यन्तर्भावात् यौन इत्युच्यते प्रायश्चित्तगौरवार्थः। किन्त्वयमनार्षः प्रायश्चित्तविशे षाश्रवणात् अनुपादेयश्च पतितजाता कन्या पतितैव वक्ष्यते तत्परिणयनं पतितकन्यापरिणयनमेव नात्र व्यवहितयोनिसम्बन्धः। सह भोजनं स्वस्यान्नस्य परस्य वा एकपात्रे भोजनं नोच्छिष्टभोजनम् उच्छिष्टेन सहोच्छिष्टभोजनात् तस्य लघुत्वात् एते चत्वारो गुरुसंसर्गाभवन्ति एवं मिलित्वा नव संसर्गाः। नन्वेक यानालापगात्रस्पर्शनिश्वासहाध्ययनादिकमपि संसर्गान्तरमस्ति तत्कथं नवविधत्यं यथा पराशरः “आसनाच्छयनाद्यानात् भाषणात् सह भोजनात्। संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि”। भाषणमपि अन्योन्यसंकथनं सहभोजनमेकपङ्क्तिभोजनं लघुसंसर्गसाहचर्य्यात्। तथा देवलः “संलापस्पर्शनिश्वाससहशय्यासनाशनात्। याजनाध्यापनात् यौनात् पापं संक्रमते नृणाम्”। सहाशनमेकपङ्क्तिभोजजनम्। तथा छा{??}लेयः “आलापात् गात्रसंस्पर्शात् निश्वासात् सहभोजनात्। सहशय्यासनाध्यायात् पापं संक्रमते नृणाम्”। सहाध्यायः पतितेन ब्रह्माचारिणा सहैकस्माद्गुरोरध्ययनम्। सत्यं नवधेत्यत्र प्रकारवाचिना धाप्रत्ययेन प्रकारान्तरं सूचितम् अन्यथा नवेत्युक्तं स्यात्। तेन तदन्नभोजन तत्संस्पृष्टान्नभोजनतत्प्रतिग्रहादीनामुपसंग्रहः। नन्वनेकवचनेषु पापसंक्रान्तिः श्रूयते पूर्वदेशत्यागेन देशान्तरसम्बन्धे संक्रान्तिशब्दस्य सुख्यत्वात् मूलपापकर्त्तुः पापषरिच्छेदे भूते किमर्थं प्रायश्चित्तामुष्ठानमिति। तथा हारीतः “हन्यादशुद्धः शुद्धन्तु शुद्धोऽशुद्धन्तु शोघयेत्। मशुद्मग्र तमोभूतः शुद्धवासेन शुद्ध्यति”। तथा च मनुः “अद्धाद भ्रूष्णदा मार्ष्टि पत्यौ मार्य्यापचारिणी। गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्पिषम्”। मार्ष्णीति प्रोञ्छयति संक्रामयतीत्यर्थः। तथा यमः “दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति। यो यस्यान्नमिहाश्नाति श्च तस्काश्नाति किल्विषम्”। तत्र किल्विषम् अश्नाति इव्यनेनापि पापाभावो गम्यते। उच्यते न पूर्वपापव्यक्तेराश्रयत्यागेन आश्रयान्तरसम्बन्धः सम्भवति गुणस्य तद्रूपादर्शनेनायोग्यत्वात् किन्तु तत्तुल्यव्यक्तिसम्बन्धे गौणोऽयं संक्रान्त्यादिशब्दः। तथा च देबलः “बान्धवोऽपि पृथग् भूत्वा तत्पापं नाप्नुयात् क्वचित्। पृथग्जनोऽपि संयोगात् भजते तुल्यदोषताम्”। तत्पापं तज्जातीयं पापमित्यर्थः। तुल्यदोषतां तत्समानपापतामित्यर्थः। “शुद्धोऽशुद्धन्तु शोधयेदिति” यत्र ब्राह्मणादिसम्पर्क एव पापक्षयहेतुस्तत्र वोद्धव्यम्। यथोशनाः “कृतलक्षणैर्दर्शनस्पर्शनसम्भाषणानि वर्जयेत्” इत्युक्त्वा “सम्भाषणे घ्राह्मणसम्भाषणमित्यादि”। कृतलक्षणो राज्ञा कृतपापचिह्नः। किन्तु यदि पापिष्ठस्यान्यसंसर्गः पापक्षयहेतुस्तदेतरप्रायश्चित्तवदिदमपि केनापि मुनिना प्रायश्चित्तरूपतया पठितः स्वात् प्रत्युत निषेध एव श्रूयते यथा मनुः “प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा। न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्विजः” इति। किञ्च “मिश्रितस्तेन सोऽव्दान्ते स्वयञ्च पतितो भवेदिति” ष्ठेबलवचने चशब्दान्मूलपापकर्तुरपि पापस्थितिरवगम्यते मूलुषापकर्त्ता पतितः स्वयमपि पतति इत्यर्थः। इदानीश्चा कियता कालेन कतमस्य संसर्गस्य पतितसाम्यापादनमिति निरूप्यते। तत्र देबलः “पतितेन सहोषित्वा जानन् संवत्सरं नरः। मिश्रितस्तेन सोऽव्दान्ते स्वयञ्च प्रतितो भवेत्। वाजनं योनिसम्बन्धं स्वाध्यायं सहभोजनम्। कृत्वा सद्यः पतन्त्येते पतितेन न संशयः”। यानादिलधुसंसर्गैः ज्ञानकतैः संवत्सरेण पतति याजनादिभिर्गुरुभिः सद्यः पततीत्यर्थः। तथा बौधायनः “संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनात् सद्यो न शयनासनात्”। शयनादिना सद्यापातनिषेधात् साकाङ्क्षस्य संवत्सुरेण पततीत्यस्य शयनादिना सम्बन्धः। याजनादिपदं सहनोजनमप्युपलक्षयति। विष्णुः। “आसं वत्सरात् पतति पतितेन सहाचरन्। सह यानासनाभ्यां यौनात् जौवात् मौखात् सम्बन्धात्। सद्य एव”। यानासनाभ्यामिधि खसुसंसर्गोपलक्षणम्। यौनात् इत्याधि सहभोजगोपलक्षणम्। कूर्मपुराणे श्चासः “घ्रह्ममा मद्यापः स्तेनो गुरुतस्पग एव च। महापातकिनस्त्वेते यश्च तैः सह संवसेत्। संवत्सरन्तु पतितैः संसर्गं कुरु तु यः। यानशय्यासनैर्नित्यं जा- नन् वै पतितो भवेत्। एभिर्वचनैर्याजनादिना सद्यः पातो यानादिना ज्ञानतः संवत्सरेणेत्यवगम्यते। ननु याजनादिना संवत्सरेण पतति न तु यानादिनेत्याह मनुर्बिष्णुश्च “संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनात् न तु यानासनाशनात्”। यानासनाशनादुत्पन्नसंयोगमाचरन्नित्यर्थः। तथा पैठोनसिः “संवत्सरेण प्रतति पतितेन सहाचरन्। याजनाध्यापनात् यौनात् नत्वेवं शयनासनात्”। अत्र मवदेवकल्पतरुकारादयः देवलबौधायनादिवचनैर्याजनादीनां सद्यः पातहेतुत्वावगतेः मनुपैठीनसिवचनयोर्नत्विति मध्यपठितस्य पूर्वेण याजनादिना सम्बन्धो न तु परेण यानादिना, याजनाध्यापनात् न तु संवत्सरेण पतति किन्तु यानादिभिरित्याहुः। तदसङ्गतम् सुमन्तुवचनविरोधात् यथा पतितानभिधायाह सुमन्तुः “यश्चैतैर्यौनमौखस्रौवाणां सम्बन्धानामन्यतमेन सह संवत्सरं सम्पर्कमियात् नस्याप्येतदेव प्रायश्चित्तं विदध्यात्” इयात् कुर्य्यात् एतदेव द्वादशवार्षिकव्रतम् इत्यर्थः। अत्र याजनादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते। तथा हारीतः “संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनादेकशय्यैकभोजनात्”। एकभोजनमेकपात्रे कालभेदेन भोजनं जलपानञ्च। तथा वृहस्पतिः “षाण्मासिके तु संयोगे याजनाध्यापनादिना। एकत्राशनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्। तथा वत्सरसंसर्गे योनियुक्ते विशेषतः। पूर्वोक्तेन विधानेन पतितव्रतमाचरेत्”। अनेन याजनादिना षाण्मासिकसंसर्गे प्रायश्चित्तार्द्धं वदता वत्सरेण समूर्णप्रायश्चित्तमर्थादुक्तम् उत्तरवचने पुनः स्फटीकृतम्। योनियुक्तपदेन याजनादीनामप्यु पसंग्रहः। एकत्राशनशव्यादिरिति पाठोऽनाकारः राज्ञाऽलिखितत्वात्। जिकगादयस्तु यदि प्रत्येकं विभक्तिनिर्देशात् भोजनं कृत्वा पतति योनिसम्बन्धं कृत्वा पततीति एवं सम्बन्धोऽभिधीयते तदा कृत्वा पततीति पदथोरन्वयावृत्तितात्पर्य्यावृत्तिभ्याम् आस्तां वाक्यभेदः चत्वारि वाक्यानि स्थुः। अतः कृत्वेति पदेन तन्त्रेण वाजनादिकर्मचतुष्टमादाय पततीति सम्बन्धे वोधिते न वाक्यमेदः संवत्सरपदेन पृथगुपद्वीतानामपि कृन्तेति पदेन तन्त्रेणोपनयनात्। दर्शपौर्णमासाभ्यां स्वर्गकामी यजेतेत्याग्नेयादियागषट्कानामिव। अत एकवाक्यानुरोधाद्याजनादीनां तन्त्रेण समुच्चितोपनीतानां पततीत्यनेन सम्बन्धे बोधिते याजनादीनां समुच्चितानां सद्यः पातहेतुत्वं पूर्वोक्तसुमन्त्वादिवचनादेकैकेषां संवत्सरेणैव अत्रैवसंसर्गत्रय चतुमिर्मासैः संसर्गद्वयेऽष्टभिर्मासैर्भागहारेण पातहेतुत्वमूहनायम्। तन्न कृत्वेति पदस्य याजनादिकर्मत्वेऽशक्तत्वात् किन्त्वन्विताभिधानलभ्यं तत् तदा च निरपेक्षाणामेवान्विताभिधानप्राप्तत्वादनुषङ्गाधिकरणन्यायान्न तन्त्रता सत्यपि तन्त्रताभिधाने न समुच्चयः सर्वेभ्यो दर्शपौर्णमासावित्यत्रेव समुच्चयबोधकस्य द्वन्यसमासादेरभावात्। न वा तन्त्रतायां समुच्चयो नियतः गर्गाभैज्यन्तां सप्तदशप्राजापत्यान् पशूनालभेदित्यत्र व्यभिचारात् पततीति पाठस्य राज्ञाऽलिखितत्वाच्च कथं पततीति पदावृत्तिः। न च सुमन्तुवचने याजनादीनामन्यतमेन वत्सरेण पातावगमादर्थान्मिलितैः सद्यः पात इति कल्पनीयं निरपेक्षश्रुतिविरोधात् वक्ष्यमाणप्रकारेण वचनद्वयसामञ्जस्य सम्भवात्। उच्यते। गुरुलघुभेदेन द्विविधं याजनादिकं भवति तत्र गुरुणा ज्ञानकृतेन याजनादिना एकैकेन सद्यः प्रातः तेनैवाज्ञानकृतेन वारद्वयाभ्यासात्। लघुयाजनादावज्ञानकृते वत्सरेण पातः तस्मिन्नेव ज्ञानकृते वत्सरार्द्धेनेति व्यवस्था। तथा हि याजनं योनिसम्बन्धमित्यत्र देवलवचने पतितेन सहोषित्वा पूर्ववचने जानन्निति पटसम्बन्धाज्ज्ञानकृतत्वं दर्शितम्। गुरुत्वं च देवलवचनेनैव याजनाध्यापनयोरुपसंहाराद्दर्शितम्। यथा देवलः “आचार्य्याद्व्रतनियमशुश्रूषादिभिस्त्रयीविद्योपादानसध्ययनंतस्य चाचारान्वयः प्रक्रमसामर्थ्यभक्तिशीलशुश्रूषोपनताय शिष्यय प्रदानसध्यापनम्। पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिभिर्हविर्भिः खदिरपलाशाश्वत्थन्थग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमुषलकुठारखनित्रयूपदारुचमदर्भग्रावपवित्रपात्रभाजनादिभिर्द्रज्योपरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिरृत्विम्भिः काम्य नैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां वज्ञानां समापर्न यजनम् एतेन याजनं व्याख्यातग्”। प्रक्रमः वृद्यभः। अत उपनयनपूर्वकमध्यापनं ज्योतिष्टोमादियज्ञानां याजनं च गुरु, तत्साहचर्य्याद्यौनं परिणयनरूपं गुरु मन्त्रहोमादिमाध्यत्वात्, स्तेयादिना पतितान्यब्राह्नण्यागमनं वा ब्राह्मणस्य, तदप्रेक्षया पतितस्वब्राह्मणीगमनपतित शूद्रागमनयोर्लघुत्वात्। सह भोजनं पतितान्नस्य पतितेन सहैकपात्रे भोजनं गुरु। उपसयनं विना वेदा- ध्यनम्, अष्टकादियज्ञयाजनं पतितस्वब्राह्मणीगमनं अपतितान्नस्य पतितेन सहैकपात्रे भोजनं पतितोच्छिष्टभोजनं वा पूर्वोक्तयाजनाद्यपेक्षयालघु। देवसवचने ज्ञानतो गुरुणा याजनादिना संबत्सरेण पतमिति गम्यते। ज्ञानतः सकृत्कृतेन येन पतनं तेनाज्ञानतो वारद्वयाभ्यासेन। अज्ञानतो वत्सरेण येन पतनं तेन चानतः षण्मासैरिति वचनद्वयसामञ्जस्यं तथा च लगुयाजनविषये संवर्त्तः “एभिः संसर्गमायाति यः कचित् काममोहितः। षणमासानव्ढमेकं वा ब्रह्महत्याव्रतञ्चरेत्”। कल्पतरुकारस्याप्येष स्वरसः। अतएव कूर्मपुराणं “याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः। कृत्वा सद्यःपतेत् जानन् सह भोजनमेव च। अज्ञानादथ वा मोहात् कुर्य्यादध्यापनं द्विजः। संवत्सरेण पतति सहाध्ययनमेव च”। अत्र पूर्ववचनं गुरुयाजनादिपरं द्वितीयवचनं लघुयाजनाद्यर्थम्। न च ज्ञानाज्ञानाभ्या० मेव सद्योवचनसंवत्सरवनयोः सामञ्जस्त्यं भविष्यत्र किं गुरुलघुव्यवस्थापनेनेति वाच्यं ज्ञानकृतादज्ञासकृतस्यार्द्धम् अज्ञानकृताच्च ज्ञानकृतस्य द्वैगुण्यं युक्तं यतः “स्यात्त्वकामकृते यत्तद्द्विगुणं बुद्धिपूर्वके” इति वचनात् अत्यन्तविप्रकर्षस्यादृष्टत्वाच्च। देवलेन याजनादिवचनस्य गुरुयाजनादावुपसं हृतत्वान्मनुवचने चार्थाल्लघुयाजनाद्यवगतेस्तस्मादुक्तैव व्यवस्था। अथ गुरुसं सर्गकालं निरूष्याधुना लघुसंसर्गकालो निरूप्यते। तत्र भवदेवेनोक्तं याजनादिम्यो लघूनां यानासनशयनैकपङ्क्तिभोस्वनानां चतुर्णां लघुतराणाञ्चालापस्पर्शनिश्वासानां मिलित्वा मप्तानां ज्ञानती वत्सरेण पातहेतुत्वमज्ञानतो वत्सरद्वयेनेति तदेतत्प्रमाणशून्यं द्वन्द्वानर्देशादेरभावात्। जिकनस्तु “आसंवत्सरात् पतति पतितेन सहाचरन्। सह यागासनाभ्यामिति” विष्णुवचने द्वयोर्द्वनिर्देशात् यानासनादीनाञ्चतुर्णां मध्यादयेन केनचित् संसर्गद्वयेन वत्सरेण पात एकैकशस्तु वत्सरद्वयेन एभ्योऽपि संलापादेर्लघुस्रात् सहथानादेर्द्विगुणकालेन साम्यापादकत्वम् एतच्च ज्ञानतः “जानन् संवत्सरं नर” इति वचनात् अज्ञानादेतद्द्विगुणकालेतेति। तन्न त्रयाणामपि द्वन्द्वनिर्देशात्। यथा मनुः “संवत्सरेण पतति पतितेन सहाचरन्। याजनास्यापनाद् यौनात् न तु यनिशनासनात्”। यथा याजनादिना प्रत्येकमज्ञानाद्वत्सरेण पातः तथा न यानादिभिः एभिघ मिसितैर्ज्ञानादित्यर्धः। तथा स कूर्मपुराणे “ब्रह्माह्वा मध्यपस्तेनो गुरुतल्पग एव च। महापातकिनस्त्वेते यश्च तैः सह संवसेत्। संवत्सरन्तु पतितैः ससंर्गं कुरुते तु यः। यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत्”। तथा वृहस्पतिः “षाण्मासिके तु संयोगे याजनाध्यापनादिना। एकत्रासनशय्याभिः प्रायश्चित्तार्द्धमाचरेत्”। अत्रासनशय्यापदेन लघुसंसर्गान्तरे लक्ष्यते अन्यथा यहुवचनानुपपत्तेः। यथा प्रोद्गातृर्णा भक्ष्यः फलचमसः इत्यत्र प्रोद्गातृशब्दस्य प्रोद्गार्त्र प्रीद्गातृपरत्वमुक्तम्। यदा र्वेकत्रासनशय्यादिरिति पाठस्तदादिशब्दात संसर्गान्तरलाभः अयन्त्वपपाठः रा ज्ञाऽलिखितत्वात्। उच्यते। यानादीनां लघुसंसर्गाणां समुच्चितानां पातजेतुत्वं द्वन्द्वनिर्देशात् त्रयाणां द्वन्व निर्देशी वहुषु बचनेष्ववगम्यते। अत्र च यानादीनामनियतश्रवणात् लाघवात् एभिस्त्रिभिः लघुसंसर्गैर्वत्सरेण पततीत्येकैव श्रुतिः कल्पनीया सह यानासनाभ्यामित्यत्र महशब्दादेककालत्वमवगभ्यते एककाले चैकपीठाद्युपवेशनं स्पर्शनिश्वासालापलधुतरसंसर्गत्रयनियतमतस्तदप्यर्थादेव गम्यते एभिस्त्रिभिर्लघुतरसंसर्गैरेको लघुसंसर्गः समानः अतस्तत्रापि लघुससर्गत्रयमेव मन्वादिवचनेषु सहशब्दाभावात् कालपभेदेन सततपतितोपभुक्तासनाद्युपवेशनं ग्राह्यमतस्त्रिभिलघुसंसर्गेर्वत्सरेण साम्यम् एतच्च ज्ञानतः “जानन् संवत्सरम्” इति देबलवचनात् अज्ञानतो वत्सरद्वयेन एकैकशो ज्ञानाद्वत्सरत्रयेण अज्ञानात् वत्सरषट्केन संलापादीनाम् एकैकयानादिसमानत्वात् ज्ञानती वत्सरत्रयेण पातः। अज्ञानतो वत्सरषट्केन ज्ञानादेकैकशी वत्सरनवकेन। अज्ञानादेकैकशोऽष्टादशभिर्वत्सरैरित्यर्थः। ननु संलापादीनां कथं यानादिभ्यो लघुत्वम्। उच्यते लघु प्रायश्चित्तश्रवणात् यथोशना “छतलक्षणकैर्दर्शनसम्भाषणादीनि वर्जयेत् दर्शने ज्योतिषां दर्शनं स्पर्शने हृदयालम्भनं सम्भाषणे ब्राह्मणसम्भाषणमपां स्पर्शनञ्चोति” कृत्रलक्षणकैः पर्तितैः पदादिचिह्नितैः, दर्शनञ्च न संसर्गः प्रकरणेऽपाठात् पतितस्य र्शनमत्र परम्परया ग्राह्यं साक्षात् स्पर्शने स्नानश्रवणात् तथा मनुः “दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकान्तथा। शवं तत्स्पृष्टिनं चेव स्पृष्ट्वा स्नानेन शुध्यति”। पतितान्नभीजनपतितद्रव्यप्रतिग्रहयोश्च प्रत्यक ज्ञानतः षड्भिर्मासैरज्ञानाद्वर्षेण पातिषापादकत्वं यथा पातितानमिधायाह संवर्त्तः “एभिः संसर्गमायाति यः कश्चित् काम- मोहितः। षण्मासानव्दमेकं वा ब्रह्महत्याव्रतञ्चरेत्”। न चास्य ज्ञानाज्ञानकृतयोनसंसर्गविषयत्वम् अविशेषश्रुतेर्यौनतुल्यत्वादेतयोः तथा च पतितान्नभोजनस्य सवत्सरेण पातहेतुत्वमाह देबलः “स वत्सरेण पतति पतितेन सहाचरन्। भीजनासनशय्यादि कुर्वाणः सार्वकालिकम्”। भोजनं तदन्नभोजनं सार्वकालिकमनवच्छिन्न भोजने च तथा दर्शनात् प्रतिग्रहेऽपि तथात्वमूहनीयं तयोः समानत्वदर्शनात् साम्ये हेतुसाह वृहस्पतिः “पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृहा च। मासोपवंसं कुर्वीत चान्द्रायणमथापि वा”। मासोपवासो ज्ञानाभ्यासे तत्र च पञ्चदश धेनवः। चान्द्रायणमज्ञानाभ्यासे तत्र सार्द्धसप्त धेमवः। गृहं गत्वेति अनेकसंवत्सरेणेति। तथा मनुः “चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च। पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति”। तथा रजकादीनभिधायाह यमः “भुक्त्वा चैषां स्त्रियो गत्वा पीत्वापः प्रतिगृह्य च। कृच्छ्रमव्दं चरेज्ज्ञानादज्ञानादैन्दवद्वयम्”। पतितान्नभक्षणप्रायश्चित्तात् पतितस्पृष्टान्नभक्षणप्रायश्चित्तार्द्धेन ह्रासदर्शनादत्रार्द्धहानिः तेन ज्ञानतः पवितस्पृष्टान्नभोजने संवत्सरेण साम्यमज्ञानती वत्सद्वयेनेति। तथा प्रचेताः “प्रतितान्नन्तु यी भुड्क्ते सप्ताहसुदके वसेत्। पानीयपानतश्चै कुशवारि पिबेत्त्र्यहम्”। सप्ताहोदकवासे धेनुद्वयं वक्ष्यते एतत् सकृदज्ञानविषयं सकृज्ज्ञानकृतपतितस्पृष्टान्नभक्षणे शङ्घः “भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत्। अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा”। “अमेध्यपतितचाण्डालपुक्कशरजस्वलाबधूतकुणिकुष्ठिकुनखिस्पृष्टान्नानि भुक्त्वा कृच्छ्रमाचरेत्”। पातकिस्पृष्टपाकान्नभोजने तु संसर्गस्य किञ्चिद्व्यवधानात् पादहानिः तेन ज्ञानतः सपादवत्सरेणाज्ञानतः सार्द्धवत्सरद्वयेन साम्यम्। पातकिसकीर्णपाकान्नभोजने तु ततोऽपि व्यवहितत्वादपरपादहानिः। तेनात्र ज्ञानकृते सार्द्धवत्सरेणाज्ञानतो वत्सरत्रयेण साम्यम्। पतितामान्नभक्षणे पतितसिद्धान्नभक्षणस्य चतुर्थभागः एवं पतितपानीयपानेऽपि चाण्डालान्नभक्षणे तथा दर्शनात्। “यथा विष्णुः चाण्डालान्नं भुक्त्वा त्रिरात्रमुपवहेत् सिद्धान्नं भुक्त्वा पराकः”। इति अत्रान्नमामान्नम् उत्तरत्र सिद्धान्नदर्शनात् पराके च द्वादशोपवासाः। तथा प्रचेताः: “पतितान्नन्तु यो भुङ्क्ते सप्ताहमुदके वसेत्। पानीयपानतश्चैव कुशवारि त्र्यहं पिवेत्”। त्रिरात्रोपवासे चतुर्विंशतिपणलभ्यं काञ्चनं देयम्। एतदेव कुशवारिपाने किञ्चिदूनं देयम्। पतितोच्छिष्टभक्षणे तु पतितान्नभक्षणाद्द्वैगुण्येन पापाधिक्यम्। यथाङ्गिराः “चाण्डालपाततादीनामुच्छिष्टान्नस्य मक्षने। द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति”। एतत् सकृदज्ञानविषयम्। पराके पञ्च धेनवः। सकृदज्ञानकृतपतितान्नभोजने धेनुद्वयं प्रचेतोवचने व्याख्यातम्। तेन ज्ञानतः पतितोच्छिष्टान्नभक्षणे मासत्रयेण पतितसाम्यम् अज्ञानतो मासषट्केन। उच्छिष्टान्नभक्षणवदुच्छिष्टप्रोञ्छनेऽपि व्यवस्था “उच्छिष्टभोजन ञ्चैव तथा तस्य च मार्जनम्” इति देवलवचने साहचर्य्यदर्शनादिति। अत्र कृतानेकपातकपुरुषसंसर्गादेकैव पापव्यक्तिरुत्पद्यते न भिन्ना कल्पनागौरवापत्तेः। पुरुषापराधस्य च संसर्गलक्षणस्य निमित्तकारणस्य तद्विशिष्टात्मनःसंयोगस्यासमवायिकारणस्यैकत्वात्। प्रायश्चित्तन्तु गुरुसंसर्गस्यैव करणीयं गुरुणा प्रायश्चित्तेन लघुनः पापस्य क्षयाभिधानात्। तथानेकमहापातकिपुरुषसंसर्गपापव्यक्तिभेदेऽपि देशकालकर्त्रैक्ये तन्त्रताया उक्तत्वात्तन्त्रेणैव प्रायश्चित्तम्। जिकनस्तु युगपदनेकब्राह्मणबधवद्युगपदनेकपातकिसंसर्ग एव तन्त्रता। क्रमकृते तु ब्राह्मणबधवदावृत्तिरेव प्रायश्चित्तस्येति तन्न ब्रह्मवधेऽपि क्रमकृते प्रायश्चित्ततन्त्रताया उक्तत्वात्। युगपदनेकव्रह्मबध एव ज्ञानाज्ञानाभ्यां विशिष्टमरणयावज्जीवव्रतसक्षणप्रायश्चित्तभेदेन तन्त्रताऽभावस्य श्रीभहादेवपादैर्दर्शितत्वात्। इह तु तद्वत् प्रायश्चित्तवैशिष्ट्ये प्रमाणं नास्ति तथा शुद्धस्वेव महापातकिनोऽपि पातक्यन्तरसंसर्गे पापसुत्पद्यते एव आवृत्तवह्मधवद्धेतोश्च समत्वात्। अत्यथा पातकिनश्चाण्डालान्नभक्षणेऽप्यदोषः स्यात्। तथा प्रतिक्षणं पूर्वपूर्वोत्पन्नपापव्यक्तिसहकृतीत्तरोत्तरसंसर्गादन्यान्या एव पापव्यक्तयो महत्य उत्पद्यत्ते पूर्वापूर्वा चोत्पद्यैव विनश्यति वत्सरेणैव मूलपापकर्तृपापसुमानदुरितापूर्वव्यक्तिरुत्पद्यते। सा च सम्पूर्णनरकंफला वत्सराभ्यन्तरेऽल्पाल्पनरकफलिका अतएव प्रायश्चित्तवाक्यमप्येकम्। न तु भिन्नभिन्नाः समानाः पापघ्यक्तयः समदायात् सम्पर्णनरकं फलम्। सम्पूर्णनरकफलस्य ब्रह्मवथादावेकपापव्यक्तिफलत्वदशनादिति”। अत्रेदं योध्यम्। महापातकिससर्गस्यैत् कलौ पापहंतुत्वं नान्यपासंसर्गस्य यथोक्तं पराशरेण “कृते सम्भाष- णात् पापं त्रैतायाञ्चैव स्पर्शनात्। द्वापरे चान्नमादाय कलौ पतति कर्मणा”। कलौ सम्भाषणादिना न पातित्य किन्तु कर्त्तुरेव कर्ममात्रेणैव पातित्यं न संस्पर्शनादिना। “आलापात् गात्रसंस्पर्शादित्यादि” पराशरवचनं महापातकिविषयमिति पराशरभाष्ये माधवाचार्य्य आह स्म।
संसर्गाभाव = पु० संसर्गेण सम्बन्धेनावच्छिन्नप्रतियोगिताकोभावः। ध्वंसप्रागभावात्यन्ताभावरूपे भेदभिन्ने १ अमावे २ सम्बन्धाभावे च “प्रागभावस्तश्रा ध्वंसोऽप्यन्ताभावःएव च। एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते” भाषा०। संसर्गाभावत्वं च अन्यीन्याभावभिन्नाभावत्वं तत्र अन्योन्याभावस्य तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपतया तद्भिन्नस्य संसर्गाभावत्वोक्तेः। तादात्म्यातिरिक्तसंसगावच्छिन्नप्रतियोगिताकत्वेन संयर्गाभावस्य यौगिकताऽपि। संसर्गप्रतियोगिकाभावत्वं तु न लक्षणं तथात्वे खण्डनकारोक्तं दूषणमापतेत् तथा हि अभावस्य संसर्गप्रतियोगिकत्वे घटादिप्रतियोगिकत्वं वाध्येय द्रव्यगुणकर्मणां समवायिकारणेषु संसर्गस्य संमवायसम्बन्धरूपतया तस्य नित्यत्वेन ध्वंसाधारे तत्संसर्गाभावस्य असम्भवात्। समवायावच्छिन्नप्रतियोगिताकत्वेन बोधने तु प्रतियीग्यसत्त्वदशायां समवायस्य नित्यत्वेन तबुद्धेरसम्भवात्। संसर्गाभावश्च नञादिनिपातेन धातुना च बोध्यते तत्र निपातेन प्रातिपदिकार्थाभावस्य बोधने अनुयोगिनि सप्तम्यपेक्षा यथा गेहे घटो नास्तीति। विभक्त्यर्थसं सर्गाभावस्यं धात्वर्थादौ बोधने तु नायं नियमः यथा गगनं न पश्यति न कलञ्जं भक्षयेदित्यादौ तत्र दर्शने गगनकर्मत्वस्य कलञ्जभक्ष बलवदनिष्टासाधनत्वस्य नञा संसर्गाभावस्य बोधनान्न तत्र सप्तम्यपेक्षेति विवेकः। कणा० सू० वृत्त्योश्चान्यथोक्तं यथा
“नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः” कणा० सू० “गेहे घटस्य यः संसर्गः संयोगस्य प्रतिषेधः स च यदि कदाचिदपि न घटस्तदात्यन्तभाव एव भविष्यतः प्रागभाबो भूतस्य प्रध्वंसाभावः, तर्हि घटसंसर्गो गेहे नास्तीति प्रतीत्या भवितव्यमति चेत् प्रतीत्या भवितव्यमित्यस्य कोऽर्थः यदि तद्विषयया प्रतीत्या भवितव्यमित्पपादनार्थस्तदेष्टापत्तिः अथ तदुल्लेस्यिन्येति तदा गेहे इत्यधिकरणोश्लेखस्यैव संसर्गोल्लेखपर्य्यवसानमाधारत्वस्यैव धर्मसम्बन्धाकारत्वात् तत किं घटस्तत्राख्ये? अस्त्येवेति कोऽर्थस्तत्र समवेतः संउउक्तो वा वाद्यः समवेतघटस्य तत्राभावात् न। द्वतायः संयोगस्य निषेधात् नन्वेवं घटादीनां केवलान्वयित्वप्रसङ्गः तत्संयागसमवायान्यतरस्यैव सर्वत्र निषेधादिति चेन्न तदभयनिषेधस्यैव घटनिषेधात्मकत्वात् तत् का घटस्तत्संयोगश्चेत्येकं तत्त्वं येन घटस योगनिषेधो घटस्तत्संयोगश्चेकिं घटस्तत्संयोगसमवायावेकं तत्त्वं येन तद्विधिरेव घटविधिः स्यात् न हि तौ यत्र निषेध्येते तत्र घटान्वयो येन केवलान्वयित्वं तस्य स्यात् तथा च यस्य यो विधिस्तन्निषेध एव तन्निषेध इति। यद्धा घटस्य समवायितया गेहेऽत्यन्ताभाव एव स एव गेहे घटो नास्तीति प्रतीति विषयः कपाले संयोगितयैव। एवं सति केवलान्वय्यत्यन्ताभावप्रतियोगितया घटोऽसन स्यादिति चेत् भवेदेवं यदि संयोगित्वसमवायित्वाभ्यां सर्वत्रासन् स्यादिति”।
संसर्गिन् = त्रि० सम् + सृज–घिनुण्। १ संसर्गयुक्ते विभागानन्तरम् (यत्तव धनं तन्ममेति) कृतसमयेन एकत्रावस्था नरूपसंसर्गयुक्ते २ भ्रात्रादौ ३ सम्बद्धे च।
संसार = पु० संसरत्यखात् सम् + सृ–घञ्। १ मिथ्याज्ञानजन्य संस्काररूपवासनायां २ देहारम्भकादृष्टभेदे ३ स्वादृष्टोपनिवद्धदेहपरिग्रहे च आधारे घञ्। ४ विश्वे। भावे घञ्। ५ सङ्गतौ। संसारगतिप्रकारः शा० सू० भा० दर्शितो यथा “तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् सू० पञाश्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते, वैराभ्यहेतोस्तस्माज्जुगुप्सेताति चान्ते श्रवणात्। जोवो मुख्यप्राणभचिवः सेन्द्रियः समनस्को विद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यते इत्येतदवशगतम्। “अथैनमेते प्राणा व्यगिसुमायन्ति” इत्येवमादेः “अन्यन्नवतरं कल्याणतरं रूपं कुरुते” इत्ये वमन्तात् संसारप्रकारणस्थाच्छब्दात्, धर्माषर्मफलोपभोगसम्भवाच्च। स किं देहवीजैर्भूत सूक्ष्मरसम्पारष्वक्तो गच्छति आहोस्वित् सम्परिष्वक्त इति चिन्त्यते। किन्तावत् प्राप्तं असम्परिष्वक्त वति। कुतः करणोपादमवदुभूतोपादानस्याश्रुतत्वात्। “स एतास्तोजोभात्राः सनभ्याददानः” इत्यत तेजोमात्वाशब्दोन करणापा संवादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात्। नैवस्यूनमातोपादानसङ्कीर्तनमस्ति। सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरभ्रव्यात्सत्रव सन्ति। ततश्च तासा नयन निष्प्रयोजनं, तस्मादसम्पारिष्वक्ता यातोत्येवं प्राप्ते पठत्याचार्यः “तदन्तरप्रतिपत्तौ रहति सम्परिष्वक्तः” इति! तदवर- प्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः सम्परिष्वक्तो रंहति गच्छतीत्थवगन्तव्यम्। कुतः प्रश्ननिरूपणाभ्याम्। तथा हि प्रश्नः “वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति। निरूपणञ्च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपा आतीरुक्त्वा “इति तु पञ्चम्यामाहुतावापः पुरुषवचसा भवन्ति” इति। तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते”। सा० का० तत्प्रकारो दर्शिता यथा “संसरति निरुपभीगं भावेरधिवासित लिङ्गम्” का० “नन्वस्त्वेतदेव शरीरं भागायतन पुरुषस्य, कृतं दृश्यमानेन षाट्कौशिकेन शरारणत्यतआह संसरतीति उपात्तमुपात्तं षाट्कौशिकं शरीरं जहाति हायं हायं चोपादत्ते, कस्मात्? निरुपभोगं यतः षाट्कौशिकं शरीरं विना हक्ष्मं शरीरं निरुपभोगं, तस्मात् संसरति। ननु धर्माधर्मनिमित्तः ससारः न च सूक्ष्मशरीरस्यास्ति तद्योगः, तत्कथं संसरतीत्यत आह भावैरधिवासितं धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्य्याणि भावास्तदन्विता बुद्धिः तदन्वितञ्च सूश्मशरीरमिति तदपि भावैरधिवासितं यथा सुरभिचम्पकसम्पर्काद्वस्त्रं तदामीदवासितम्भवति तस्माद्भावैरेवाधिवासितत्वात् संसरति। कस्मात् पुनः प्रधानमिव महाप्रलयेऽपि तच्छरीरं न तिष्ठतीत्यत आह लिङ्गम् लयं गच्छतीति लिङ्गं हेतुमत्त्वेन चास्य लिङ्गत्वमिति भाबः। स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं सूक्ष्माशरीरेणाप्रामाणिकेनेत्यत आह” “चित्रं यथाश्रयमृते स्याण्वादिभ्योविना यथा छाया। तद्वद्विना विशेषैर्न तिष्ठति निराश्रय लिङ्गम्” का० “लिङ्गनात् ज्ञापनास् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति। जन्मप्रयाणान्तराले वद्ध्यादयः प्रत्युत्पन्नधरीरश्रिताः प्रत्युत्पन्नपञ्चदन्मात्रवत्त्वे सति बुद्ध्यादिस्यात् दृश्यमःनशरीरवृत्तियुद्ध्यादवत्। पिना विशेवैरिति सूक्ष्मैः शरीरैत्यर्थः। आगमश्चात्र भवति “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमीवआदिति”। न्यङ्गौमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मतो निष्कर्मासम्भवेन सूक्ष्ममेव शरीरं गूरुमस्तदपि हि पुर सम अशारीरे शेते” त० कौ०।
संसारगुरु = पु० ६ त०। १ कासदेवे तिका० २ सगाततौ च।
संसारचक्रन = समारक्रमिव। पुनपनर्जन्मभरक्षात्म्के जीवस्य व्यापारभेदे तूमकमणा देहग्रहणानन्तरं तत्र०पर्भुकोसानकर्मणो नाशे मरणं तढनन्तरं च स्वकर्मानुसा- रेण देवतिर्य्यगादिभावापत्तिरित्येवं सततगतागतप्रचुरत्वात् संसारस्य चक्रतुल्यत्वात् तथात्वम्। तदेतत् विष्णुपु० संसारचक्रनिरूपणे निरूपितं तत्र दृश्यम्।
संसारमार्ग = पु० ६ त०। योनिद्वारे त्रिका०। तत एव हि वहिर्निमने मायामुग्धतेति तस्य तथात्वम्।
संसारिन् = त्रि० संसरति अदृष्टवशात् देहभेदमनुगच्छति मम् + सृ–णिनि। शरीराभिमानिनि जीवे।
संसिद्ध = त्रि० सम्यक् स्वभावेन वा सिद्धः सम + सिध–क्त। १ स्वभावसिद्धे २ सम्यग्निष्पन्ने च।
संसिद्धि = स्त्री सम् + सिध–क्तिन्। १ स्वभावे प्रकृतौ २ सम्यग् निष्पत्तौ। सम्यक्सिद्धिर्यत्र। ३ मुक्तौ च “कर्मणैव हि संसिद्धिमाश्रिताजनकादयः” गीता।
संसृति = स्त्री सम् + सृ–क्तिन्। १ संसारे २ प्रवाहे च त्रिका०। ३ सङ्गतौ शब्दच०।
संसृष्ट = पु० सम् + सृज–क्त। विभागानन्तरं मैत्र्यात् पुनः स्वस्वधनेषु कृतसंसर्गयुते भ्रात्रादौ “विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थिताः। पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते” “वृहस्पतिपरिगणितव्यतिरिक्तेषु संसर्गकृतो विशेषो नादरणीयः परिगणनानर्थक्यात्” दायभा०। तद्धनविभागस्तत्र दर्शितो यथा “विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि। समस्तत्र विभागः स्यात् ज्यैष्ठ्यं तत्र न विद्यते” मनुः। “समस्तत्रेति सवणेर्भ्रातृसंसर्गाभिप्रायेण ब्राह्मणक्षत्त्रिययोस्तु पूर्वकॢलुप्तभागानुसारेण भागव्यवस्था बोद्धव्या। पूर्वकॢप्तज्यैष्ठाशनिषेधमात्रपरं हि समवचनम् अतएव वृह० “विभक्ता भ्रात्ररो ये तु संप्रीत्यैकत्र संस्यिताः। पुतर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते” इति ज्येष्ठांशभात्रं निषेधति न तु भागसाम्यम्” दायभा०। तत्र भ्रात्रधिकारे विशेषस्तत्रोक्तो यथा “अन्योदर्य्यस्तु संसृष्टी नान्नदर्य्यधनं हरेत्। अससृष्ट्यपि चादयात् संसृष्टो नान्यमातृजः” याज्ञ० अस्यायमर्थः। “संसृष्टी पुनरन्योदर्य्यः प्रथमं हरेत् न पुनरन्योदर्य्यमात्रम्। प्रथग्रं च हरन् ओदरं बाधित्वैव वा तेन सह वेत्यपेक्षायामुक्तम् असंसृष्ट्यपि सोदरो गृह्णीयात् सोदरपदमनुवर्त्तते (“सोदरस्य तु सोदरः इति वचनात्)। नान्यमातृज एव संसृष्टीं गृह्णीनात् संसृष्टपदमेव वा सीदरमभिधत्ते अतएव बृहद्याज्ञ० “सोदरो नान्यमातृजः” इति जितेन्द्रियेण लिखितम्। तथा च पूर्वार्द्धस्य संसृष्टीत्यनुवर्त्तते न च केवलमन्योदर्य्य एव संसृष्टी गृह्णीयात् किन्त्वसं- सृष्ट्यपि सोदरो गृह्णीयादित्यर्थः। तन असंसृष्टिना सोदरेण संसृष्टिना चासोदरेण विभज्य ग्रहीतव्यमतएवापिशब्दं प्रयुक्तवान्” दायभा०। “तस्मात् सोदरासोदरमात्र सद्भावे सोदराणामेव। सोदराणामेव मध्ये एकस्य संसृष्टत्वे तस्यैव असंसृष्टसोदरसंसृष्टासोदरसद्भाव च द्वयोरेव सापत्रमात्रसद्भवे प्रथमं संसृष्टस्य तदभावे चासंसृष्टासादरस्येति दायमा० एव भ्रातृपुत्रेऽपि। २ वमनादिना संशुद्धे मादि० ३ संयुक्ते च। भावे क्त। ४ सम्बन्धे।
संसृष्टि = स्त्री सम् + सृज–क्तिन्। १ संसर्गे २ अलङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम्।
संसृष्टिन् = पु० संसृष्टमनेन इष्टा० इनि। संसृष्टभ्रात्रादौ “संसृष्टस्य तु संसृष्टी” याज्ञ०।
संस्कर्त्तृ = त्रि० सम् + कृ–तृच्० सुट च। १ संख्वारकारके २ पाचके च “संस्कर्त्तौ चोपहर्त्ता च षडेते घातकाः स्मृताः” मनुः।
संस्कार = पु० सम् + कृ–सुट् च। सतोगुणान्तराधानरूपे १ प्रतियत्ने यथा अलङ्कारादेरस्त्रादेर्वस्त्रादेश्च उद्दीपनलिशानमार्जनादयः, दर्पणादेर्निर्मलीकरणादिः ब्राह्मादेश्च यज्ञाङ्गतासम्पदानाय वैदिकमार्गेण प्रोक्षणादिः। स च “संस्कारः पुंस एवेष्टः प्रोक्षभ्य क्षणादिषु” कुसुमा० उक्तेः पुरुषस्यैव धर्मः” न्यायभतम्। प्रोक्षिता एव ब्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिता इति प्रोक्षणादिजन्यसंस्कारोयज्ञाङ्गपुरडाशेष्विति द्रव्यधर्मः मीमांसकाः। एवं स्नालाचमनादिजन्याः संस्कारा देहे उत्पद्यमाना अपि” तदभिमानिजीवे कल्प्यन्ते इति वेदान्तिनः। २ स्मृतिहेतौ अनुभवजत्ये आत्मवृत्तिगुणभेदे पृथिव्यादिचतुष्टयस्थे ३ वेगाख्ये गुणे, यथावस्थिततयास्थापनप्रयोजफे स्थितिस्थापनाख्ये ४ गुणभेदे च
“संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने। मूर्त्तमात्रे तु वेगः स्यात् कर्मजो वेगजः क्वचित्। स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्प्वपि। अतीन्द्रियः स विज्ञेवः क्वचित् स्मन्देऽपि कारणम्। भावनाख्यस्तु संस्कारो जोववृत्तिरतीन्द्रियः। उपेक्षानात्मकस्तस्य निश्चपः कारणं भवेत्। स्मरणे प्रत्यनिज्ञायामप्यसौ हेतुरुच्यत” भाषा० “नित्यः संस्कारो नास्ति वेगस्तु द्विविधः कर्मजवेगजभेदात् तत्र शरादौ नोदनजनितेन कर्मणा वेगो जन्यते तेग च पूर्वकर्मनाशादुत्तरं कर्म एवमुत्तरोत्तरमपि कर्म जायते। वेगं विना कर्मणः कर्मान्तराजनकत्वात् “षूर्वकर्मनाशे उत्तरकर्मोत्पत्तिश्च न स्यात्। यत्र वेगवता कपालेन जनिते घटे वेगो जन्यते तत्र वेगजो वेगः। स्थितिस्थापकसंस्कारश्चातीन्द्रियः आकृष्टशाखादीनां परित्यागे यत् पूर्वदेशगमनं तत्र स्थितिस्थापकोहेतुः। उपेक्षानात्मकानश्चयेन भावनाख्यसंस्कारो जन्यते स च स्मरणे प्रत्यभिज्ञायां च हेतुः जीववृत्तिः रतीन्द्रियश्च स च चरमफलनाश्यः क्वचित्ंरोगादिनाश्यः क्वचित् कालनाश्यः” सि० मु० अन्ये तु समानविषयकं स्मरणमेव संस्कारनाशकम् अतएव “जायते च पुनःपुनःस्मरणाददृढतमसंस्कारः” इति दीधिकृत् इत्याहुः।
संस्कारत्वं तु न जातिरिति चषकादौ व्यवस्थापितम्। ५ शास्त्राभ्यासजन्यव्युत्पत्तौ, व्याकरणोक्तदिशा शब्दानां ६ साधनप्रकारे, विप्रादीनां वैदिककर्मार्हत्वप्रयोजके ७ गर्भाधानादौ क्रियाकलापे ८ पाके च। विप्रादीनां देहसंस्काराश्च अष्टाचत्वारिंशत् तच्छब्दे ५१० पृ० दर्शिताः। हूदानीन्तनानां तु गर्भाधानाद्याविवाहान्ताः दशविधाः प्रसिद्धाः। तेषां च देह दोषनाशकता यथोक्तं हारीतेन “गर्भाधानवदुपेतो ब्रह्मगर्भं संदंदाति पुंसवनात् पुंसीकरोति फलस्थापनात् मातापितृजपाष्मानमपोहति रेतोरक्तमर्भोपघातः पञ्चगुणो जातकर्मणा प्रथममपोहति नामकरणेन द्वितीयं प्राशनेन तृतीयं चूडाकरणेन चतुर्थं स्नापनेन पञ्चममेतैरष्टाभिः संस्कारैर्गर्भापष्ठातात् पूतो भवति”। “स्नापनं समावर्त्तनम्” उपतयनस्य वेदग्रहणार्थत्वम् विवाहस्याग्निसाध्यस्मार्त्तकार्यार्थत्वमितिविषेकः अतो दशविधाः। “गर्भाधानमृतौ पुंसः करणं स्पन्दनात् पुरा। षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च। अहन्येकादशे नाम चतुर्थे मासि निष्कमः। षष्ठेऽन्नप्राशनं मासि चूडा कार्य्यायथाकुलम्। एवमेनः शमं यति वीजगर्भसमुद्भम्” याज्ञ०। अत्र जातकर्मनिष्क्रामावधिकौ संस्कारौ बीजादिदोषनिवारकतयोक्तौ। अग्निस्थापनार्थश्च पञ्चविधः भूसस्कारः गृह्ये दर्शितः ते च समूहनमुपलेपनमुल्लेस्यनं सिकतोद्धरणमभ्युक्षणञ्चेति। दीक्षणीयतान्त्रिकमन्त्रसंस्काराश्च द्रशविधाः दीक्षा० त० दर्शिता यथा शारदायाम् “मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः। जननं जीवन पश्चात्ताडनं बोधनं तथा। अथाभिषेको विमलीकरणाप्यायने तथा। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः मन्त्राणां, मान्त्रिकायन्त्रादुद्धारो जननं स्मृतम् प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः। एतज्जीवन२ मित्याहुमन्त्रतन्त्रविशारदाः। मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा। प्रत्येकं वायुना मन्त्री ताडन ३ तदुदाहृतम्”। वायुना वायुवीजन “यमित्यनेन तं मन्त्री प्रसूनै करवीरजैः। तन्मन्त्राक्षरसंख्यातैहन्याद् यान्तेन बोधनम् ४”। यान्ते न रमिमनन इति “स्वतन्त्रोक्तविधानेन मन्त्रो मन्त्रार्णसंख्यया। असत्थपल्लवैर्मन्त्रमभिषिञ्चेद्विशुद्धय। स्वतन्त्रो विधानेन मूर्ध्नि तोयेन देशिकः। नमोऽन्तं मन्त्रमुच्चार्य्य तदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु। तौयैरञ्जलिबद्धैश्चाप्यनिषिञ्चेत् स्वमुर्द्धनि ५”। स्वतन्त्रोक्तविधानेन पुरश्चर्य्याप्रकरणोक्तविहिताञ्जलिना इत्यभिहितेन “सभिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत्। मन्त्रे मलत्रयं मन्त्री विमलीकरण ६ न्त्विदम्”। मलत्रयं मायिकं कार्मिणं मानसरूपम् “तारव्योमाग्निमनुयुग्दन्तो ज्योतिर्मनुर्मतः”। तारः प्रणवः व्योम हकारः अग्नीरेफः मनुरीकारः तद्युक्तोदन्तोऽनुस्वारः। तेन ओम् ह्रौं इतिमन्त्रः। “कुशोदकेन मन्त्रेण प्रत्यर्ण प्रोक्षणं मनोः”। प्रत्यर्णं प्रत्यक्षरम “तेन मन्त्रेण विधिवदेतदाप्यायन ७ मतम्। मन्त्रेण वारिणा मन्त्रतर्पणं तर्पणं ८ मतम्”। मन्त्रेण मूलमन्त्रेण। “मूलमन्त्रं समुच्चार्य्य तदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चात्त र्पयामि नमोऽन्तकम्”। इति पुरश्चर्य्योक्षक्रमेण लिखितमन्त्राधाररूपयन्त्रे। “तारमायारमायोगोमनोर्दीपन ९ मुच्यते”। तारः ओम् माया ह्रीं रमा श्रीम् “जप्यमानस्य मन्त्रस्य गोपन १० न्त्ववकाशनम्। संस्कारा दशसंख्याताः मर्वतन्त्रेषु गोपिताः। यान् कृभा सम्प्रदायालं मन्त्री वाञ्छितमश्नुते”। देवप्रतिष्ठाङ्गसंस्काराश्च देवताप्रतिष्ठाशब्द ३७२३ पृ० दृश्याः। अन्येऽपि तत्तत्क्रत्वङ्गसंस्कारास्तत्तद्ग्रन्थे दृश्याः।
संस्कारवर्जित = त्रि० ३ त०। १ गर्भाधामादिसंस्काहीने २ शास्त्रदौ व्युत्पत्तिहीने च संस्कारहीनादयोऽप्यत्र।
संस्कृत = त्रि० सम् + कृ–क्त सुट् च। १ कृतसंस्कारे पदार्थे व्याकरणलक्षणाधीनसधिनयुक्ते २ शब्दे ३ पक्वे ४ मूषिते ५ शास्त्रभेदे मेदि० ६ शोधिते जटा०।
संस्तर = पु० सम् + स्तॄ–अप्। १ यज्ञे २ शथ्यायां हेमच० ३ पल्लवादिरचितशय्यायां च “नबपल्लवसंस्तरे यथेति” कुमारः
संस्तव = पु० स्म् + स्तु-अप्। १ परिचये अमरः २ सम्यकस्तुतौ च
संस्ताव = पु० संस्तूयतेऽत्र सम् + स्तु–घञ्। यज्ञार्थ संस्तावकविप्राणां वासभसौ अमरः।
संस्तुत = त्रि० सम् + स्तु–क्त। १ षरिचिते २ सम्यक्स्तुते च।
संस्त्र्याय = पु० सम् + स्त्र्यै–घञ्। १ संचाते २ निविडसंयोगरूपे सन्निवेशे अमरः। ३ विस्तृतौ ४ संस्थाने च मेदि० करणे धञ्। ५ गृहे हेमच०।
संस्थ = त्रि० सन् + स्था–क। १ अवस्थिते मेदि० २ मृते शब्दर० ३ चरे पु० मेदि० ४ निवारके ५ व्यवंस्थिते ६ व्यक्तौ ७ क्रतुप्रकारभेदे ८ समाप्ते च हेमच०। ९ प्रकारे “नैमित्तिकः प्राकृतिको नित्य आत्यन्तिकोलयः। संस्थेति कविभिः पोक्तश्चतुर्धाऽस्य स्वभावतः” इत्युक्ते १० प्रलये च।
संस्था = स्त्री सम् + स्था–अङ्। १ न्याय्यपथावस्थितौ अमरः। २ स्थितौ ३ नाशे मेदि० ४ यज्ञभेदे ५ व्यवस्यायां ६ व्यक्तौ ७ सादृश्ये ८ प्रान्ते च।
संस्थान = न० सम् + स्था–ल्युट्। १ चतुष्पथे अमरः। २ सन्निवेशे मेदि० ३ आकारे ४ अवयष्यारम्भकसंयोगभेदे ५ मृत्यौ ६ चिह्ने अजयः। ७ सम्यक्स्थितौ च।
संस्थित = त्रि० सप् + स्था–क्त। १ मृते अमरः २ अम्यक्स्यिते च
संस्पर्शा = स्त्री संस्पृश्यते सम् + स्पृश–कर्मणि घञ् टाप्। रजनीगन्धावृक्षे अमरः।
संस्फाल = पु० सम्यक् स्फाल स्फरणं यस्य। मेथे त्रिका०।
संस्फुट = त्रि० सम् + स्फुट–क। विकशिते शब्दच०।
संस्फेट = न० सम् + स्फुट–आधारे घञ् पृषो०। युद्धे भरतः
संस्फोट = पु० सम् + स्फुट–आधारे घञ्। युद्धे अमरः।
संहत = त्रि० सम् + हन–क्त। १ दृढसन्धौ अमरः। २ मिलिते ३ दृढे मेदि०। ४ परार्थं मिलिते “संहपरार्थत्वादिति” साङ्ख्यसू०। ४ दृढसंयोगयुक्ते ५ सम्यग् हते च। भावे क्त। ६ संघाते न०।
संहतल = पु० सं हतं संहननं सङ्गातं लाति–ला–क। मिलितपाणिद्वये अमरः।
संहतपुष्पिका = स्त्री संहतानि द्वढसंयुक्तानि पुष्पाण्युखाः कप् अत इत्त्वम्। मिश्रेयायां राजनि०।
संहतजानु = त्रि० संहदे जानुनी यस्य। लग्नजानुके अमरः वा कप्। तत्रार्थे।
संहति = स्त्री सम् + हन–क्तिन्। १ समूहे अमरः। २ सम्यघनने च।
संहनन = न० संहन्यते परार्थं संस्रज्यते सम् + हन–ल्युट्। १ देहं अमरः २ सङ्घाते ३ बधे च।
संहर्ष = पु० सम्यक् हर्षः प्रा० सम् + हृष–घञ् वा। १ आनन्दे २ स्पर्द्धावाञ्च संहृष्यत्यनेन करणं धम्। ३ पाथो मेदि०।
संहार = पु० सम् + हृ–घञ्। १ प्रलये हेमच० २ गीशे ३ संक्षपे ४ नरकभेदे अमरः। ५ वितर्जने ६ कासिकाभैरवभेद पृ जटा०। “असिताङ्गोरुरुश्चण्डः क्रोध उन्मत्त एव च। कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः” तन्त्रसा०।
संहारमुद्रा = स्त्री संहारार्था विसर्जनार्था मुद्रा। तन्त्रोक्ते मुद्राभेदे तल्लक्षणम् “अधोमुखे वामहस्ते ऊर्द्ध्वास्यं दक्षहस्तकम्। क्षिप्त्वाङ्गुलीरङ्गलीभिः संगृह्य परिवर्त्तयेत्। प्रोक्ता संहारमुद्रैवमर्पणे तु प्रशस्यते” पदार्था० धृतवाक्यम्। अर्पणे आत्मनि देवार्षणे” ति० त०।
संहिता = स्त्री सम्यक् हितं प्रतिषाद्यं यस्याः। १ मन्वादिप्रणीते धर्मशास्त्रे २ पुराणे ३ इतिहासादौ ४ कर्मकाण्डप्रतिपादके वेदभागे च संहितापाठप्रकारस्तु ति० त० मत्स्यसूक्तोक्तः चण्डीशब्दे २८५० पृ० दर्शितः। “परः सन्निकर्षः सहिता” पा० उक्ते ५ पूर्वापरवर्णयोः अत्यन्तसन्निकर्षे तत्र नियमविशेषः स्पर्य्यते “संहितैकपते नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते”।
संहूति = स्त्री सम् + ह्वेञ्–क्तिन्। बहुमिः कृते आह्वाने अमरः।
संहृत = त्रि० सम् + हृ–क्त। १ कृतसंहारे २ सङ्कुचिते च।
संहृति = स्त्री० सम् + हृ–क्तिन्। संहारे।
संह्राद = पु० सम् + ह्रद–घञ्। शब्दभेदे।
संह्रादिन् = त्रि० सम् + ह्रद–णिनि। शब्दायह्वाने।
संह्लाद = पु० सम् + ह्लद–घञ्। आनन्दभेदे।
***