श्चुत = क्षरणे भ्वा० पर० अक० सेट्। श्चोतति इरित् अश्चुतत् अश्चोतीत्।

श्च्युत = क्षरणे भ्वा० पर० अक० आसेचने सक० सेट्। श्च्योतति इरित् अश्च्युतत् अश्च्योतीत्।

श्च्योत = पु० श्च्युत–घञ्। समन्तात् मेचने आधारे अमरः।

श्मन् = न० शेते शी–मनिन् डिच्च। १ पुंमुखे २ शये कालिकापु० अदन्तोऽप्यत्र “सर्वे नान्ताः अदन्ता स्यु” रित्युक्तेः।

श्मशान = न० श्मानः शवाः शेरतेऽत्र शी–आनच् डिच्च। “श्मन् शब्देन शवः प्रोक्तः शानं शयनमुच्यते। निर्वचन्ति श्मशानार्थं मुने! शब्दार्थकोविदाः। महान्त्यपि च भूतानि प्रलये समुपस्थिते। शेरतेऽत्र शवो भूत्वा श्मशानन्त त्ततोऽभवत्” महाभूतलयस्थाने महाश्मशाने १ काश्याम् कालिकापुराणे ३० अ०। २ शवदाहस्थाने अमरः।

श्मशानकाली = स्त्री श्मशानस्था काली। कालिकाभेदे।

श्मशानवासिन् = पु० श्मशाने वसति वस–णिनि। १ महादेवे २ वटुकभैरवे च। श्मशानबासकर्त्तरि चण्डालादौ त्रि०।

श्मश्रु = न० श्म पुंसुखं श्रूयते लक्ष्यतेऽनेन श्रु–ड्। गुरुपसुखस्थे लोमसङ्घे अमरः। “केशामश्रुधारयतामग्र्या भवति सन्ततिः” शु० त०।

श्मश्रुमुखी = स्त्री श्मश्रु मुखे यस्याः ङीप्। १ पुरुषलक्षणयुक्तायां २ पोटाख्यायां स्त्रियां जटा०।

श्मश्रुल = पु० श्मश्रुविद्यतेऽस्य लच्। श्मश्रुयुक्ते

श्मश्रुवर्द्धक = पु० श्मश्रु वर्द्धयति छिनत्ति वृध–ण्वुल्। नापिते क्षुरकर्मकारके।

श्मील = निमेषणे भ्वा० पर० अक० सेट्। श्मीलति अश्मीलीत्।

श्यान = त्रि० श्यै–क्त। सङ्कोचविशेषप्राप्ते घनीभूते “पथश्चाश्यानकर्दमान्” रघुः।

श्याम = पु० श्यै–मक्। १ वृद्धदारकवृक्षे २ प्रयागतीर्थस्थे वटे ३ कोकिले ४ मेघे ६ कृष्णवर्णे ६ हरिद्वर्णे च। ७ तद्वति त्रि० मेदि०। ८ धुस्तूरे ९ पीलुवृक्षे १० श्यामाके राजनि०। ११ मरिचे १२ सिन्धुजलबणे च न० मेदि०। १३ दमनकवृक्षे १४ गन्धतृणे पु० विश्वः। ईषद्भेदेऽपि कृष्णश्यामनीलादीनाममरादौ पर्य्यायता तत्र कृष्णवस्तूनि कतिचित् कविकल्पलतायां दर्शितानि यथा “कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः। विन्ध्याञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः। शिवकण्ठधनद्वैपायनरामधनञ्जयाः। शनिः द्रुपदजा काली कलिकोलयमाऽसुराः। केशकज्जलकस्तूरीराजपट्टविदुरजम्। विषकोषकुहूशस्त्रागुरुपापतमोनिशाः। मसोपङ्कमटाम्भोधियमुनाधूमकोकिलाः। गोलाङ्गूलास्यगुञ्जास्ये कण्ठः णञ्जनकेकिनोः। शबलं तालतापिञ्जतिलेन्दीवरवल्लयः। रसावद्भुतशृङ्गारौ कटाक्षोऽलिः कनीनिका। नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः। भिन्नच्छाया गजाङ्गारखलान्तःकरणादवः”।

श्यामक = न० श्याम + संज्ञायां कन्। १ रोहिषतृणे राजनि०। २ श्यामाके (शामा) धान्यभेदे पु० हेमच०।

श्यामकण्ठ = पु० श्यामः कण्टोऽस्य। १ मयूरे हेमच०। २ शिवे ३ नीलकण्ठविहगे च।

श्यामकन्दा = स्त्री श्यामः कन्दोऽस्याः। अतिबिषायां राजनि०।

श्यामकाण्डा = स्त्री श्यामः काण्डोऽस्याः। गण्डदूर्वायां राजनि०।

श्यामग्रन्थि = स्त्री श्यामो ग्रन्थिरस्याः। गण्डदूर्वायां राजनि०

श्यामपत्त्र = पु० श्यामानि पत्त्राणि यस्य। तमालवृक्षे शब्दच०

श्यामल = पु० श्यामवर्णं लाति ला–क। १ पिप्पले २ कृष्णवर्णयुते त्रि० मेदि०। ३ अश्वगन्धायां ४ कटभ्यां ५ जम्ब्वां ६ कस्तूर्य्याञ्च स्त्री राजनि०। ७ श्यामवर्णे पु० अमरः।

श्यामलचूडा = स्त्री श्यामला चूडाऽस्याः। गुञ्जायां राजनि०

श्यामलता = स्त्री कर्म०। १ स्वनामख्याते शारिवौषधौ शब्दर०। श्यामलस्य भावः तल्। २ कृष्णवर्णे ३ हरिद्वर्णे च

श्यामलिका = स्त्री श्यामलोवर्णोऽस्त्यस्याः ठन्। नील्यामौषधौ राजनि०।

श्यामलेक्षु = पु० कर्म०। (काजला) इक्षुभेदे राजनि०।

श्यामसुन्दर = पु० श्यामोऽपि सुन्दरः। श्रीकृष्णे “श्यामसुन्दर! ते दास्यः” इति भागवते १० स्क० २२ अ०। “ध्यायन्ति योगिनस्तञ्च शुद्धं ज्यातिःस्वरूपिणम्। हस्तपादादिरहितं निर्गुणं प्रकृतेः परम्। वैष्णवास्तन्न मन्यन्ते तद्भक्ताः सक्ष्मदर्शिनः। कुतो बभूव तज्ज्योति रहो तर्नाखन विना। ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम्" ब्रह्मवै० गणपतिख० ४१ अ०।

श्यामा = स्त्री श्यै–मन्। १ शारिवौषधौ २ अप्रसूताङ्गनायां ३ प्रियङ्गौ ४ यमुनायां ५ वागुजौ ६ रात्रौ ७ कृष्णत्रिवृति ८ नील्यां मेदि० ९ गुग्गुलौ १० सोमलतायां ११ गुन्द्रायां १२ कृष्णायाम् १३ अम्बिकायां विश्वः। १४ गुडूच्यां १५ कस्तूर्य्यां १६ षटपत्त्र्यां १७ वन्दायां १८ नीलपुनर्नवायां १९ पिप्पात्यां २० हरिद्रायां २१ नीलदूर्वायां २२ तुलस्यां २३ पद्मवीजे २४ गवि २५ छायायां २६ कृष्णशारिकायां २७ शिशपायां २८ पक्षिभेदे (शामा) राजनि०। “शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला। तप्तकाञ्चनवर्णाभा सा स्त्री श्यामेति कीर्त्तिता” इत्युक्तलक्षणे २९ स्त्रीविशेषे च। ३० हिमालयसुतायां काल्यां च “ततः सा कालिका देवी योगनिद्रा जगन्मयी। पूर्वत्यक्त सतीरूपा जन्मार्थं मेनकां ययौ। समयस्यानुरूपेण मेनका जठरे शिवा। सम्भूय च समुत्पन्ना सा लक्ष्मी रिव सागरात्। वसन्तसमये देवी नवम्यां मृगयोगतः। अर्द्धरात्रौ समुत्पन्ना गङ्गेव शशिमण्डलात्। तान्तु दृष्ट्वा यथा जातां नीलोत्पलदलानुमाम्। श्यामां सा मेनका देवी मुदमापातिहर्षिता” कालिकापु० ४० अ०।

श्यामाक = पु० श्यामेव कायति कै–क। (श्यामा) धान्यभेदे “श्यासाकः शोषणो रूक्षो वातलः कफपित्तकृत्” भावप्र०

श्यामाङ्ग = पु० श्यामं हरिद्वर्णमङ्गमस्य। १ बुधग्रहे त्रिका०। २ कृष्णदेहे त्रि० स्त्रियां ङीष्। “श्यामाङ्गीं विगताम्बराम्” तन्त्रम्।

श्यामाम्ली = स्त्री कर्म०। नीलाम्लीकुपे राजनि०।

श्यामिका = स्त्री श्याम + वा० भाव ठन्। १ श्यामत्के २ स्वर्णादिमालिन्ये च “हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा” रघु

श्याल = पु० श्यै–कालन। पत्नीभातरि अमरः। स्वार्थे ठक्। श्यालिकोऽप्यत्र।

श्यालिका = स्त्री श्यै–कालत् संज्ञायां कन्। अत इत्त्वम्। पत्नीभगिन्याम् शब्दच०।

श्याव = पु० श्यै–वन्। १ कृष्णपीतमिश्रवर्णे २ तद्वति त्रि० अमरः

श्यावदत् = त्रि० श्यावो दन्तो यस्य दवादेशः। श्यामवर्णदन्तयुक्ते स्त्रियां ङीप्।

श्यावदन्त = पु० कर्म०। १ स्वभावतः कृष्णवर्णयुक्ते दन्ते ६ ब० कप्। २ तद्युक्ते त्रि० “सुरापः श्यावदन्तकः” विष्णुस्मृ०

श्येत = पु० श्यै–इतच्। १ शुल्लबर्णे २ तद्वति त्रि० स्त्रियां ङीप् तम्य नश्च। श्येनी।

श्येतकोलक = पुंस्त्री० श्वेतः कोल इव। (पु~टि) मत्स्यभेदे हारा० स्त्रियां ङीष्।

श्येन = पुंस्त्री० श्यै–इनन्। १ पक्षिभेदे (वाज) अमरः। २ पाण्डुरवर्णे च ३ तद्वति त्रि० मेदि०। तत्खगस्य शुभागुभसूचनं यथा “प्रदक्षिणीकृत्य नरं व्रजन्तो यात्रासु वामेग गताः प्रवेशे। श्येनाः प्रशस्ताः प्रकृतस्वरास्ते शान्ताः प्रदीप्ता वित्ततस्वस्तस्ते। श्येनो नृणां दक्षिणवामपृष्ठभागेषु भाग्यैः स्थितिमादधाति। तिष्ठन् पुरस्तान्मृतये कणेति युद्धे जयं छन्नरथध्वजस्थः” इति वसन्तराजः। “श्येनेनाभिचरन् यजेत” श्रुतिविहिते २ यागभेदे अभिचारशब्दे दृश्यम्।

श्येनघण्टा = स्त्री श्येनी घण्टेव। दन्तीवृक्षे राजनि०।

श्यै = गतौ भ्वा० आ० सक० अनिट्। श्यायते अश्यास्त।

श्यैनम्पाता = स्त्री श्येनस्य पातो यत्र अण् मुम् च। मृग यायाम् अमरः।

श्यो(णा)माक = पु० श्ये–ओना(णा)क। (शोणा) क्षुपेभेदे। “श्योनाको दीपनः पाके कटुकस्तुवरो हिमः। ग्राही तिक्तोऽनिमलेष्मपित्तकासामनाशनः। कटु तस्य फलं बालं रुक्षं वातकफापहम्। हृद्यं कषायं मधुरं रोचनं लघु दीपनम्। गुल्मार्शःकृमिहृत् प्रोक्तं गुरुवातप्रकोपणम्” भावप्र०।

श्रक = सर्पणे भ्वा० आ० सक० सेट् इदित्। श्रङ्गति अश्रङ्गीत्।

श्रग = गतो भ्वा० पर० सक० सेट् इदित्। श्रङ्गति अश्रङ्गीत्।

श्रण = दाने भ्वा० पर० सक० सेट्। श्रणति अश्राणीत् अश्रणीत् मित् घटादि० श्रणयति।

श्रण = दाने चु० उभ० सक० सेट्। श्राणयति ते अशिश्रणत् त।

श्रत् = अव्य० श्रो–डति। श्रद्धायाम्।

श्रथ = यत्ने अक० प्रतिहर्षे सक० चु० उभ० सेट्। श्राथयति ते अशिश्रयत् त।

श्रथ = दौर्बल्ये अ० चु० उ० अक० सेट्। श्रथयति ते असश्रथत् त।

श्रथ = बधे भ्वा० पर० सक० सेट्। श्रथति अश्रथीत् अश्राथीत्।

श्रथ = बन्ध मोक्षे बधे च वा चु० उ० पक्षे भ्वा० पर० सक० सेट्। श्राथयति ते श्रथति अशिश्रथत् त अश्रथोत्–अश्राथात्।

श्रथ = शैथिल्ये अक० तत्करणे सक० भ्वा० आ० सेट् इदित्। श्रन्थते अश्रन्थिष्ट।

श्रथन = न० श्रथ–ल्युट्। १ बधे २ यत्ने ३ प्रतिहर्षे च।

श्रद्धा = स्त्री श्रत्-धा–अङ्। १ आदरे २ शुद्धौ शब्दच०। ३ गुरुवेदान्तवाक्यादिषु विश्वामे वेदान्तसा० ४ स्प हायां ५ चित्तप्रसादे “प्रत्ययो धर्मकार्येषु सा श्रद्धेत्यभिधीयते” इति स्मृत्युक्ते धर्मकार्येषु ६ प्रत्यये च अमरः। “प्रत्ययो धर्मकार्येषु तथा श्रद्धेत्युदाहृता। नास्ति ह्यश्रद्दधानस्य धर्मकृत्ये प्रयोजनम” इति स्मृतिः। सा त्रिविधा यथोक्तं गीतायाम् १७ अ०। “त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत!। श्रद्धामयाऽयं पुरुषो यो यच्छद्धः स एव सः। यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतगणांश्चान्ये यजन्ते ताममा जनाः”। “श्रुद्धापूर्वा इमे धर्माः श्रद्धा मध्यान्तःसंस्थिता। श्रद्धा नित्या प्रतिष्ठाश्च धर्माः श्नद्धैव कीर्त्तिताः। श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः। श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा। कायक्लेशैर्न बहुभिस्तथैवार्थस्य राशिभिः। धर्मः संप्राप्यते सूक्ष्मः श्रद्धाहीनैः स्तुरेरपि। श्रद्धाधर्मः परः सूक्ष्मः श्रद्धा ज्ञानं हुतं तपः। श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत्। सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि। नाप्नुयात्तत्फलं किञ्चित श्रद्धादानं ततो भवेत्। एवं श्रद्धान्वयाः सर्ये सर्वधर्माः पकीर्त्तिताः। केशवः श्रद्धया गम्यो ध्येयः पूज्यश्च सर्वदा” वह्निपु०। देवलः “अर्थानामुदिते पात्रे श्रद्धया प्रतिषादनम्। दानमित्यमिनिर्दिष्ट व्याख्यानन्तस्य वक्ष्यते। उद्रित शास्त्रकथिते। देवलेनाम्याप्युक्ता यथा “सत्कृति श्चानसूया च सदा श्रद्धेति कीर्त्तिता”। अतएव भग वद्गातासु “अश्रद्धया हुतं दत्त तपस्तप्तं कृतन्तु यत्। असदित्युच्यते पार्थ! न च तत्प्रेत्य नेह च”। हरिवं० “अश्रात्रिय श्राद्धमधीतमव्रतं त्वदक्षिणं यज्ञमनृत्विजा हुतम्। अश्रद्धया दत्तमसस्कृत हविर्भागाः षडते तव दैत्यपुङ्गव!” शु० त०। थाज्ञवलक्यः “श्रद्धाविधिसमायुक्तं कर्म यत् क्रियते नृभिः। सुविशुद्धेन भावेन तदानन्त्याय कल्प्यते” यागियाज्ञवल्क्य “विधिहीनं भवेद्दुष्टं कृतमश्रद्धया च यत। तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः”

श्रद्धालु = स्त्री श्रद्धा + आलुच्। १ स्पृहावत्यां स्त्रियां २ श्रद्धायुक्ते त्रि०।

श्रन्थ = ग्रन्थने बधे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। श्रन्थयति-ते श्रन्थति अशश्रन्थत् त अश्रन्थीत्।

श्रन्थ = माचने प्रतिहर्षे च क्र्या० प० सक० सेट्। श्रथ्नाति अश्रन्थीत्

श्रन्थ = पु० श्रन्थ–भावे घञ्। १ खथने कर्त्तरि अच्। सर्वसीवनकर्त्तरि २ विष्णौ त्रिका०।

श्रन्थन = न० श्रन्थ–ल्युट्। ग्रन्थते।

श्रपित = त्रि० चु० श्रा–क्त–णिच्-पुक् ह्रस्वश्च। घृतादिमिन्ने पक्वे मांसादौ जटा०।

श्रम = तपसि, आयास खटे च अक० भ्वा० शमादि० पर० सेट् उदित् क्त्वा वेट्। श्राम्यति इरित् अश्रमत् अश्रमीत्। श्रान्त्वा श्र मत्वा श्रान्तः।

श्रम = पु० श्रम–घञ् न वृद्धि। १ तपसि २ स्वेदे ३ आयासे ४ शस्त्राभ्यासे च हेमच०।

श्रमण = पु० श्रम–युच्। १ यतिभेदे २ भिक्षाजीविनि त्रि०। ३ जटामांस्यां ४ मुण्ड्यीव्यां ५ शवरीभेदे ६ सुदर्शनायां स्त्रियां च स्त्री मेदि०।

श्रमिन् = त्रि० श्रम–इनि। श्रमक्तक्ते।

श्रम्भ = प्रमादे भ्वा० आ० अक० सेट्। श्रम्भते अश्रम्भिष्ट। श्रन्भ इत्येके।

श्रय = पु० श्रि–अच्। आश्रये। ल्युट्। तत्रैव न० अमरः।

श्रव = पु० शृणोत्यनेन श्रु–अप्। १ कर्णे २ ख्यातौ च भरतः।

श्रवण = न० शृणोत्यनेन श्रु–वरणे ल्युट्। १ कर्णे शब्दग्राहकेन्द्रियभेदे अमरः। भावे ल्युट्। २ श्रुतौ अश्वन्यादिषु द्वाविंशे ३ नक्षत्रे पुंस्त्री० ज्यो० त० क्लीवत्वमपि “अमार्कपाते अवणं यदि स्यादिति” स्मृतिः। ४ मुण्डरिकावृक्षे स्त्री रत्नमा०।

श्रवणद्वादशी = स्त्री श्रवणेन युक्ता द्वादशी शाक०। “मासि भाद्रपदे शुक्ले द्वादशी श्रवणाःन्वता” इत्युक्तायां भाद्रशुक्लद्वादृश्याम्। व्रतशब्दे दृश्यम्।

श्रवणशीर्षिका = स्त्री श्रवणमिय शीर्षमस्याः कप् अत इत्त्वम्। श्रावणीवृक्षे राजनि०।

श्रवस् = न० श्रूयतेऽनेन श्रु–करणे असि। १ कर्णे अमरः। कर्मणि असि। २ कीर्त्तौ।

श्रवाय्य = पु० श्रु–आय्य। यज्ञियपशौ सि० कौ०। शब्दकल्पद्रुमे श्रवाप्य इति पाठ कल्पनं प्रामादिकमेव।

श्रविष्ठा = स्त्री श्रूयते श्रु–अप् श्रवः प्रसिद्धिरस्त्यस्याः मतुप् ङीप् अतिशयेन श्रववती इष्टन् मतुपो लुक्। १ धनिष्ठानक्षत्रे अमरः २ श्रवणनक्षत्रे च।

श्रविष्ठाज = पु० श्रविष्ठायां श्रवणनक्षत्रे जायते जन–ड। बुधग्रहे त्रिका०। भगदैवतशब्दे ४६३१ पृ० दृश्यम्।

श्रा = विकॢत्तौ अदा० पर० अनिट्। श्राति अश्रासीत्।

श्रा = पाके अदा० पर० सक० अनिट् घटा०। श्राति अश्रासीत् श्रपयति।

श्राण = त्रि० श्रा–क्त। १ घृतादिभिन्ने पक्वे मांसादौ जटा०। २ यवाग्वां स्त्री अमरः।

श्राद्ध = न० श्रद्धा–हेतुत्वेनास्त्यस्य अण्। “श्रद्धया दीयते यस्मात् श्राद्धं तेन निगद्यते” इत्युक्ते पित्रादिभ्यः श्रद्धया देपे १ द्रव्ये। अस्त्यर्थे अण्। २ श्रद्धायुक्ते त्रि०। श्राद्धलक्षणं तत्प्रयोजनञ्च गयाश्राद्धादिपद्धतौ हेमाद्रि श्राद्धकल्पासुसारेणास्माभिः प्रदर्शितं यथा “सम्बोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्य पुत्त्रादिभिर्मन्त्रद्वारा श्रद्धयान्नादेर्दानं श्राद्धम् “अथैतन्मनुः आद्धशब्दं कर्म प्रोवाचेति” श्राद्धविवेकधृतापस्तम्बवचनेन श्राद्धशब्दस्य कर्मसामान्यवचनतावगमात् “सस्कृतं व्यञ्जलाढ्यं च पयोदधिघृतान्वितम्। श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते” इति श्राद्धतत्त्वधृतपुलस्त्यवचनेन श्रद्धाहेतुकदानरूपकर्मविशेषस्य श्राद्धपदार्थतावनमाच्च। श्राद्धमिति शब्दो वाचको यस्य तत्कर्मेत्यर्थ इति श्राद्धवियेकः। तस्मिंश्च कर्मणि यागादाविन्द्रादी नामिव पित्रादेर्देवतात्वं तदुद्देशेन मन्त्रद्वारा द्रव्यत्या गात्। तथा च यागादौ मन्त्राहूता इन्द्रादयः शक्ति मात्रेण तत्तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन तृप्यन्तस्तेषाममीष्टफलं यथा साधयन्ति तथा श्राद्धेऽपि मन्त्राहूताः पित्रादयः समागताः पुत्त्रादित्यक्तद्रव्यभोगेन तृप्यन्तो विशिष्टफलप्रदा इत्येव कल्पनीयम्। किन्तु सर्वो हि लोकः सफले कर्मण्येव प्रवर्त्तते नाफले। तत्र यज्ञादौ यथा देवानां फलदातृत्वमेवं श्राद्धदेवानां पित्रादोनां फलदातृत्वे सम्भवत्येव श्राद्धस्य सफलत्वं भवेत्तदेव नोपपद्यते। तथा हि इन्द्रादयो हि देवाश्चेतना विशिष्टज्ञानक्रियाशक्तिमन्तो मन्त्रमात्राहूताः शक्तिविशे षेण यज्ञदेशे आविर्भवितुं शक्नुवन्ति आविर्भूय च यज्ञदत्तद्रव्यदर्शनमात्रेण तृप्यन्तो विशिष्टफलदानाय समर्थाः। नैवं पित्रादयो भवितुमर्हन्ति। ते हि स्वस्वकर्मानुमारेण नानायोनिततया अतिविप्रकृष्टदेशस्थिताः विशिष्टशक्तिरहिताश्च कथं मन्त्रमात्राहूताः श्राद्धदेशे आगच्छेयुः। आगता वा कुतो न दृश्येयुः देवानामिव तेषामतीन्द्रिय भावात् दर्शनमात्रेण तृप्तेरभावाच्च। भोजनेनैव तेषां तृप्तिसम्भवाच्च भोजनमन्तरेण कथं तृप्तेयुः। अतूप्ताश्च कृतो वा फलं दद्युः। पश्वादिगता वा कुतो विशिष्टफलप्रदाः स्युः। अपरञ्च इह दत्तस्य चान्नादेरचेतनतया नेतृपुरुषाभावेनान्यत्र गमनासम्भवः। श्राद्धदत्तद्रव्यस्य यथापूर्वमवस्थानान्न भोक्तृदेशगमनमित्यनुमीयते। एवमिह दत्तेनान्नेनान्यत्र स्थितानां भोगस्तु नैव सम्भवी। पात्रीयब्राह्मणेन श्राद्धान्नस्य भोजनान्न पित्रादितृप्तिसम्भवः भोगतृप्त्योः सामानाधिकरण्यनियमात्। किञ्च देवयोनिगतानाममृतान्धसां मानुषयोग्येनान्नेन कथं तृप्तिः कथं वा पशुयोनिगतानां तृणाहारयोग्यानां तेन तृप्तिः। तेषां पश्वादिभावमापेदुषां फलदातृत्वासम्भवस्तु विशिष्टशक्तेरभावात् सर्वानुभवसिद्धः। एतेन “यथा गोषु प्रनष्टो वै वत्सो विन्दति लातरम्। एवं श्राद्धेऽन्नमुद्दिष्टं मन्त्रः प्रापयते पितॄन्। नामगोत्रं पितॄणान्तु प्रापकं हव्यकव्ययोः। नाममन्त्रैस्तथोद्देशो भवान्तरगतानपि। प्राणिनः प्रीणयन्त्येते तदाहारत्वमागताः। देवो यदि पिता जातः शुभकर्मानुसारतः। श्राद्धान्नममृतं भूत्वा देवत्वेऽप्यनुगच्छति। दैत्यत्वे भोग्यरूपेण पशुत्वे च तृणं भवेत्। श्राद्धान्नं वायुरूपेण नागत्वेऽप्यनुगच्छति। पानं भवति यक्षत्वे गृध्रत्वे च तथामिषम्। दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम्। मानुषत्वेऽन्नपानादि नानाभोगरसं तथेति च” हेमाद्रिश्राद्धकल्पादिधृतमार्कण्डेयवचनैरिह दत्तान्नादेरेव मन्त्रशक्त्या विप्रकृष्टदेशनयनं पितृप्राप्तयोनियोग्यामृतादिरूपेण परिणामश्च कल्प्यते इत्यपि न विचारचारु अचेतनानामपि मन्त्राणां चेतनधर्मकल्पनापि तदैव साधीयसी स्यात् यदि दत्तान्नादेरिह यथापूर्वमवस्थितिर्न स्यात् स्याच्च पूर्वरूपान्यथाभावः। तथा च एवमादिवचनानां स्तुत्यर्थवादपरताया अग्रे दर्शयिष्यमाणत्वान्नाधिककल्पना। किञ्च पात्र- ध्रह्मणेन भोगादिना विनष्टस्य वस्तुनः कथं स्थानान्तरनयनं कथं वा तत्तदाहारतारूपेण परिणामः धर्मिणि सत्येव स्थानान्तरगमनादिसम्भवो न विनष्टस्यातः श्राद्धस्य कथं प्रयोजनवत्त्वमित्येवं स्थिते। उच्यते। ब्राह्मणादिसम्प्रदानक्रियाया इव श्राद्धकर्मण एव स्वजन्ययुण्यद्वारा विशिष्टफलजनकता तत्र च कालान्तरभावितत्तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्साध० नत्वम्। अतएव भगद्गीतायाम् “यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्यतस्याचलां श्रद्धां तामेव विदधान्यहम्। स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान्” इति भक्तानां तत्तदिष्टोत्पादनस्य स्वकर्त्तृकत्वं भगवतोक्तम्। युक्तञ्चैतत् श्रुतिस्मृत्योरोश्वरानुज्ञास्वरूपतया तत्तदर्थानुष्ठानेन तदाज्ञाप्रतिपालने ईश्वरस्य सम्माननारूपा तृप्तिस्ततश्चाभीष्टलाभः। तथैवोक्तं गीतायाम् “स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते भरः। खकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। खकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः” इति। स्वकर्मणा स्वस्ववर्णाश्रमविहितकर्मानुष्ठानेन, तम् परमेश्वरम् अभ्यर्च्य तदाज्ञाप्रतिपालनेन सम्मान्य तत्सम्मानेन च तत्कृतां सिद्धिम् तत्तदभीष्टसिद्धं लभते इति तदर्थः। अस्मिन् पक्षे च पित्रादीनां श्राद्धान्नादेर्वा न स्थानान्तरंगमनकल्पना। अथ वा देवदत्तादिशब्दस्य यथा न केवलं देहमात्रं, न बा जीवमात्रमर्थः किन्तु तत्तद्देहाभिसानी जीव एवार्थः। तथा पित्रादिशब्दस्य उत्पादकदेहाभिमानी केवलं जीवोऽपि नार्थः किन्तु वसुरुद्रादित्यदेवाधिष्ठितमादृशजीव एवार्थः, “वसवः पिनरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः। प्रपितामहाश्चादित्याः श्रुतिरेषा सनातनी। प्रेतानुद्दिस्य यत् कर्म क्रियते मानुषैरिह। तुष्यन्ति देवतास्तेन न प्रेताः पितरः स्मृताः”। इति श्राद्धकल्पधृतदेवलवचने पित्रादिपदानां पारिभाषिकत्वोक्तेः। प्रेताः मृताः न पितरः न केवल पितृपदाभिधेयाः किन्तु तदधिष्ठितवसव एव पितृपदाभिधेयास्त एव तुष्यन्वीत्यर्यः। अतएव श्राद्धकाले पित्रादीनां तेन तेन रूपेण ध्येयताऽग्रेहभिधास्यमानोपपद्यते। एवञ्च वस्वादिदेवानामिन्द्रादिवत् विशिष्टशक्ति ज्ञानतम्पन्नतया सन्तमात्रावाहने यागादाविन्द्रादिवदाग- मनसम्भवाच्च त्यक्तद्रव्यदर्शनमात्रेण तृप्तिः, “न वै देवा अश्नन्ति पिवन्ति एतदेवामृतं दृष्ट्वा तृप्यन्तीति” छान्दोग्यवाक्यात्। अतएव भगवद्गीतायाम् “सह यज्ञाः प्रजाः सृष्टा पुरावाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधक्। देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवापस्यथेति” प्रजाकृतयज्ञेन तृप्तनां देवानां यजमानफलदातृत्वम् प्रजाः प्रति प्रजापतिवचनत्वेनोक्तम्। अनेन यज्ञेन देवान् भावयत तर्पयत ते च यज्ञतर्पिता देवाः वः युष्मान् भावयन्तु तर्पयन्त्वित्यर्थः। यज्ञपदञ्च कर्ममात्रोपलक्षणम्। एवञ्च यथा काचित् गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यति स्याश्रयं गर्भञ्च तर्पयन्ती दोहददातारमप्युपकरोति तथा वस्वादयोऽपि श्राद्धान्नदर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रादिपुरुषान् तर्षयन्तः श्राद्धकर्त्तुरपीष्टदातारो भवन्ति। प्रागुक्तवचनजातेष्वपि मन्त्रशक्त्यान्नादेर्देशान्तरनयनकथनस्यापि स्वस्वकर्मानुसारेण पश्वादिभावापन्नपित्रादीनां तदुपभोगयोग्यान्नादितुल्यतृप्तिर्वस्वादिकृता तद्दिर्न भवतीत्येतत्परत्वश्राद्धप्रशसापरत्वयोः कल्पने न वैयर्थ्यम्। यत्र च काश्याविमरणेन पित्रादीनां मुक्तत्वम् तत्र वस्वादिमात्रस्यैव तृप्तिर्न विशिष्टस्य, विशेषणस्यासत्त्वे विशेष्यस्यैव विशिष्टकारित्वात् कुण्डलविशिष्टस्य नरस्य कुण्डलापगमेऽपि मनुष्यकर्मकारित्वव्याहतिवत्। तथा च त एव तृप्ता विशिष्टफलं दद्युरिति सिद्धा श्राद्धस्यार्थवत्ता”। श्राद्धभेदाश्च विश्वामित्राद्युक्ताः प्रा० वि० दर्शिता यथा “नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम्। षार्वणञ्चेति विज्ञेयं गोष्ठ्यां शुद्ध्यर्थमष्टमम्। कर्माङ्गं नवम प्रोक्तं दैविकं दशमं स्मृतम्। यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम्”। एतद्भविष्यपुराणे विवृतम्। यथा “अहन्यहनि यत् श्राद्धं तन्नित्यमभिधीयते। वैश्वदेवविहोनं तदशक्तावुदकेन तु। एकोद्दिष्टन्तु यत् श्राद्ध तन्नैमित्तिकमुच्यते। तदप्यदैवं कर्त्तव्यमयुग्मानाशयेद्द्विजान्। कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये। पार्वणेन विधानेन तदप्युक्तं खगाधिप!। वृद्धौ यत् क्रियते श्राद्धं वृद्धिश्राद्धं तदुच्यते। सर्वं प्रदक्षिणं कार्य्यं पूर्वाह्णे तूपवीतिना। गन्धोदकतिलैर्युक्तं कुर्य्यात् पात्रचतुष्टयम्। अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्। ये समाना इति द्वाभ्यामेतजूज्ञेयं सपिण्डनम्। नित्येन तुल्यं शेषं स्यादेकोद्दिष्टं स्त्रिया अपि। अमावास्यां यत् क्रियते तत् पार्वणमुदाहृतम्। क्रियते पर्वणि यत्तत् पार्वणमिति च स्थितिः। गोष्ठ्यां यत् क्रियते श्राद्धं गोष्ठोश्राद्धं तदुच्यते। बहूनां विदुषां सम्पत्सुखार्थं पितृतृप्तये। क्रियते शुद्धये यत्तु ब्राह्मणानान्तु भाजनम्। शुद्ध्यर्थमिति तत् प्रोक्तं वैनतेय! मनीषिमिः। निषेककाले सोमे च सीमन्तोन्नयने तथा। ज्ञेयं पुंसवने चैव श्राद्धं कर्माङ्गमेव च। देवानुद्दिश्य यत् श्राद्धं तद्दैविकमिहोच्यते। हविष्येण विशिष्टेन सप्तभ्यादिषु यत्नतः। गच्छन् देशान्तरं यत्तु श्राद्धं कुर्य्यात्तु सर्पिषा। यात्रार्थसिति तत् प्रोक्तं प्रवेशे च न संशयः। शरीरोपचये श्राद्धमन्नोपचय एव च। पुष्ट्यर्थमेतद्विज्ञेयमौपचारिकमुच्यते”। वृह० “नित्य नैमित्तिकं काम्यं वृद्धिश्राद्धं तथैव च। पार्वणञ्चेति मनुना श्राद्धं पञ्चविधं स्मृतम्”। कूर्मपुराणे “अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः। एकोद्दिष्टता विज्ञेयं वृद्धिश्राद्धञ्च पार्वणम्। एतत् पञ्चविञ्चं श्राद्धं मनुना परिकीर्त्तितम्”। स्वरूपतो द्दादशविधत्वेऽपि पञ्चविधविधानोपाधिभेदात् पञ्चथिधत्वं गोर्ष्ठाश्राद्धादीनां पार्वणकाम्यवृद्धिश्राद्धैरपृथग्विधानात् एतेष्ववान्तर्भाव इत्यभिप्रायः। सपिण्डीकरणस्याप्यं शतः पार्वणविधानादंशतएकोद्दिष्टविधेरुभयात्मकत्वात् न पृथक्त्वं नित्यपार्वणात् काम्यस्य देवताभेदात् पृथग्विधानम्। वस्तुतः प्रपञ्चार्थमेव द्वादशविधत्वम्। युगाद्यादिश्राद्धानामपि सत्त्वात्। यत्तु मत्स्यपुराणे “नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते”। इति तत्र नित्यपदमुक्तार्थमेव नैमित्तिकपदमागन्तुकनिमित्तोत्पन्नत्वेन पार्वणैकोद्दिष्टयोः परिग्रहार्थम्। काम्यपदं दृष्टफलत्वेन तिथिश्राद्धादीनामभ्युदयस्य च ग्रहणार्थमित्यविरोधः। विष्णुना तु नित्यकाम्यरूपतया द्वैविध्यं वक्ष्यते तत्र नित्यपदमावश्यकतया पार्वणैकोद्दिष्टयोरपि परिग्रहार्थम्। काम्यपदमनावश्यकार्थं सर्वमिदमुपाधिभेदादविरुद्धम्”। श्राद्धे विहिता देशाः प्रा० वि० दर्शिता यथा तत्र विष्णुः “पुष्करेष्वक्षयं श्राद्धं जपहोमतपांसि च”। “पुष्करे स्नातमात्रस्तु सर्वपापेभ्यः पूतो भवति” इत्यभिधाय “ग्रचमयेषुतीर्थेषु सरिद्वरासु सङ्गमेषु प्रभवेषु पुलिनेषु निकुञ्जेषु प्रस्रवणेषु उपवनेषु गोमययेनोपलिप्तेषु गृहेषु मनोज्ञेषु च” आहस्य। प्रभवोऽत्र नदीनामुत्- पत्तिदेशः सरिद्वरासु सङ्गमेषु चेति प्रस्तुत्य प्रभवेष्वित्यभिधानात्। पुलिनं नदीतोयोत्थितप्रदेशः। निकुञ्जोलतादिवेष्टितप्रदेशः प्रस्रवणं निर्झरः। उपवनं गृहवाटिका मनोज्ञं रमणीयम्। देबलः “श्राद्धस्य पूजितो देशो गया गङ्गा सरस्वती। कुरुक्षेत्रं प्रयागश्च निमिष पुष्कराणि च। नदीतटेषु तीर्थेषु शैलेषु पुलिनेषु च। विविक्तेषु च तुष्यन्ति दत्तेनेह पितामहाः”। विविक्तं विजनम्। वृहस्पतिः “काङ्क्षन्ति पितरः पुत्रान्नरकापातभीरवः। गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारथिष्यति। करिष्यति वृषोत्सर्गमिष्टापूर्त्तं तथैव च। प्रालयिष्यति वार्द्धक्ये श्राद्धं दास्यति चान्वहम्। गयायां धर्मपृष्ठे च सरसि ब्रह्मणस्तथा। गयाशीर्षेऽक्षयवटे पितृणां दत्तमक्षयम। धर्मारण्यं धर्मपृष्ठं धेनुकारण्यमेव च। दृष्ट्वैतानि पितॄंश्चार्च्य वंशान् विंशतिमुद्धरेत्”। गयामुपादाय गयास्थानविशेषोपन्यासोऽधिकफलार्थः। इह श्राद्धदेशत्वेन कथिता नानादेशीयतीर्थविशेषस्वरूपविशेषास्तत्तद्देनिवासिभ्योऽवगन्तव्या अत्र पुष्करेष्यक्षयं श्राद्धमित्यादिविष्ण्वादिवाक्यैः सामान्यतस्तीर्थप्राप्तिनिमित्तेऽमावास्यादिश्राद्धे च प्राप्ते पुष्करादिदेशाख्यगुणफलश्राद्धविधिः “गोदोहेनापः प्रणयेत् पशुकामस्येति” वत् न तु विशिष्टश्राद्धान्तरविधानं विधिगौरवापत्तेः अगत्या तु “मोमेन यजेतेत्यादौ” तथा। तथा मनुः “शुचिं देशं विविक्तञ्च गोमयेनोपलेपयेत्। दक्षिणाप्लवनञ्चैव प्रयत्ननोपपादयेत्। अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि। विविक्तेषु च तुष्यन्ति द्रत्तेन पितरः सदा”। अशुचिमविविक्तमदक्षिणाप्लवनं यत्रतः शुचित्वादिना उपपादयेत्। विविक्तं विजनं चोक्षेषु मनोज्ञेषु विविक्तेषु वनादिषु। यमः “दक्षिणाप्लवनं स्निग्धं विविक्तं शुभलक्षणम्। शुचिदेशं प्ररीक्ष्याशु गोमयेनोपलेपयेत्। आगारेषु विविक्तेषु तीर्थेषु च नदीष च। विविक्तेषु च तुष्यन्ति देशेषु पितरः सदा। पारक्ये भूमिभागे तु पितॄणां निर्वपेत्तु यः। तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते। तस्मात् श्राद्धानि देयानि पुण्येष्वायतनेषु च। नदीतीरेषु तीर्थेषु स्वभूमौ तु प्रयत्नतः। उपह्वरनितम्बेषु तथा पर्वतसानुषु। गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च”। स्निग्धं स्तिमितं विविक्तेषु देशेषु स्वभावतो वनादिषु। उपह्वरमत्र पर्वतान्तिकम्”। श्राद्धनिन्दितदेशास्तत्रोक्ता यथा विष्णु “न मृएच्छविषये श्राद्धं कुर्य्यान्न च गच्छेत्तथा। चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते। तं म्लेच्छदेशं जानीयादार्य्यावर्त्तमतःपरम्”। वायुपुराणे “त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादशयोजनम्। उत्तरेण महानद्या दक्षिणेन तु कीकदात्। देशस्त्रैशङ्कवोनाम श्राद्धकर्मणि गर्हितः। पारस्कराः कलिङाश्च सिन्धोरुत्तरमेव च। प्रनष्टाश्रमधर्माश्च देशावज्योः प्रयत्नतः”। पारस्कारादेशविशेषाः। कीकटोमगधः। सिन्धुर्नदीविशेषः। व्रह्मपुराणे “परकायगृहे यस्तु स्वान् पितॄस्तर्पयेज्जडः। तद्भूमिस्वाभिनस्तस्य हरन्ति पितरो बलात्। अग्रभागन्ततस्तेभ्यो दद्यास्मूल्यञ्च जीवताम्”। गृह इति भूभागमात्रोपलक्षणं “पारक्ये भूमिसागे च” इति यमवचनात् स्वभूम्यभावे कथं श्राद्धमित्याह अग्रभागमिति श्राद्धीयद्रव्यस्येति तेभ्यस्तद्भूमिस्वामिपितृभ्य उत्सृज्य देयं जीवतां स्वामिनां मूल्यं वा देयम। यमः “अटव्यः पर्वताः पुण्या नद्यस्तीर्थानि यानि च। सर्वाण्यस्वामिकान्याहुन हि तेषु पुरिग्रहः”। स्वाम्यमावे हेतुमाह न हि तेखिति। परिग्रहो दानविक्रयणादियथेष्टविनियागलट्यणः। तथा “रूक्षं कृमियुत क्लिन्नं संकीर्णांनिष्टगब्धिकम। देशन्त्वनिष्टशब्दञ्च वर्जयेत् श्राद्धकर्मणि”। रूक्षं धूलियुत क्लिन्न पङ्किलम् अनिष्टगन्धम् असुरभिगन्धम् अनिष्टशब्दं प्रतिकूलशब्दम्”।

श्राद्धदेव = पु० श्राद्धाद्देश्यानां पितॄणां देवः शाक०। १ यमे अमरः। २ वैवस्वतमनौ हरिव० १५ अ०।

श्राद्धदेवता = स्त्री श्राद्धे देवता त्यक्तव्यद्रव्यस्योद्देश्या। “पितरः श्राद्धदेवता” इति स्मृत्युत्युषु १पितृषु।

श्राद्धशाक = न० श्राद्धयोग्यं शाकम्। कालशाके भावप्र०।

श्राद्धिक = त्रि० श्राद्धे देयं, श्राद्धं दद्द्रव्य भक्ष्यत्वेनास्त्यस्य वा ठन्। १ श्राद्धद्धेये भक्ष्ये २ श्राद्धदेयद्रव्यभोक्तरि च।

श्राद्धिन् = त्रि० श्राद्धं तद्द्रव्यं भक्ष्यत्वेनास्त्यस्य इनि। द्धदयान्नभोक्तरिमि० औ०।

श्रान्त = त्रि० श्रम–क्त। १ श्रमयुक्ते २ शान्ते ३ जितेन्द्रिये च हेमच०। भाव क्त। ४ श्रमेन०

श्रान्तसंवाह = न० श्रान्तस्य श्रमस्य लंवाहः दूरीकरणम्। पाद्यासनादिना श्रमनिवारणे।

श्राम = मन्त्रणे अ० चु० लभ० सक० सेट्। श्रामयति ते अशश्रामत् त।

श्राम = पु० श्रम–अच्। १ कःले २ मण्डपे ३ मासे च मेदि०।

श्रावक = पु० त्रि० श्रु–ण्वुल्। १ श्रवणकर्त्तरि २ शाक्यमुनिशिव्ये मुनिभेदे ३ काके पुंरवी० त्रिका०।

श्रावण = पु० श्रवणेन युक्ता षौर्णमासी श्रावणी सास्मित् मासे अण। वैशाखादिषु चतुर्थे श्रावणीयुक्ते चान्द्रे १ मासे २ तथाभूते पक्षे श्रवणनक्षत्रेण पर्वान्तकाले उदयास्तसम्बन्धात् वार्हपत्ये ३ वर्षभेदे च। गुरुवर्षशब्दे २६१९ पृ० दृश्यम् उपचारात् कर्कटस्थरविके सौरे ४ मासे ५ पाषण्डे च मेदि०। श्रवणेन कर्णेन निर्वृत्तः अण्। ६ कर्णसाध्ये प्रत्यक्षभेदे श्रवणनक्षत्रेण युक्ता पौर्णमासी अण् ङीप्। ७ चान्द्रश्रावणमासीयपौर्णमांस्यां स्त्री। सा च (थुलकुडि) ८ वृक्षभेदे राजनि०। ९ दध्यालीवृक्षे मेदि० टाप्। १० मुण्डतिकावृक्षे भावप्र० ङीप्। “मुण्डितिका कटुः पाके वीर्य्योष्णा मधुरा लघुः। मेध्यागण्डापचीकृच्छ्र कृमियोन्यर्त्तिपाण्डुनुत्। श्लीपदारुच्यापस्मारप्लीहमेदोगुदार्त्तिहृत्। महामुण्डी च तत्तुल्या गुणैरुक्ता महर्षिभिः” भावप्र०।

श्रावणिक = पु० श्रावणी श्रवणनक्षत्रयुक्त पूर्णिमाऽस्त्यणिन् मासे ठन्। १ चान्द्रश्रावणमासे अमर २ तथाभूते पक्षे

श्रावन्ती = स्त्री श्रु–झिच् पृषो० ङीप्। धर्मपत्तनाख्ये नगरीभेदे त्रिका०।

श्रि = सेवने भ्वा० उभ० सक० सेट्। श्रयति ते अशिश्रियत् त।

श्रित = त्रि० श्रि–क्त। १ सेविते २ आश्रिते च।

श्रिय = दाहे भ्वा० पर० स० सेट् क्त्रा वेट्। श्रेयति अश्रेयीत्।

श्री = पाके क्र्या० उ० सक० सेट्। श्रोणाति–ते अश्रायीत् अश्रायिष्ट

श्री = स्त्री श्रि–क्विप् नि०। १ लक्ष्म्यां २ लवङ्गे अमरः। ३ शोभायां ४ वाण्यां ५ वेशरचनायां ६ सरलवृक्षे ७ धर्मार्थकामेमु ८ सम्पत्तौ ९ प्रकारे १० उपकरणे ११ बुद्धौ १२ विभूतौ मेदि०। १३ अधिकारे १४ प्रभायां १५ कीर्त्तौ धरणिः। १६ वृद्धौ १७ सिद्धौ शब्दर० १८ कमले १९ बिल्ववृक्ष २० वृद्धिनामौषधौ राजनि० “देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राघिदेवताम्। सिद्धं सिद्धाधिकारांश्च श्रीपूर्वं समुदीरयेत्” एत्युक्ते देवादीनां २१ नामोच्चारणायोपाधिभेदे च “सिद्धाधिकारान् स्वर्गगामित्वादिना सिद्धोऽधिकारो येषां नराणां तान् सिद्धाधिकारान्। तेन जीवतां श्रीशब्दादित्वं न मृतानामिति” संस्कारत० रघु०। २१ रागभेदे पु०। श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते अपराह्णे गेयः। तस्य पञ्च रागिण्य मानश्रीः मारवी धनाश्रीः वसन्तरागिणी आशाचरी संगीतदा०। पत्रे श्रीशब्दन्याससंख्याभेदाः पत्रशब्दे ४२२० पु० हश्या

श्रीकण्ठ = पु० श्रीः शोभा काण्ठेऽप्य। १ शिवे अमरः सर्वतः धेतत्य कण्ठे कृष्णवर्णविषसन्निकर्षे शोभाधिक्यात्तथात्वम्। २ हस्तिनापुरस्य उत्तरपश्चिमस्थे कुरुजाङ्गलाख्ये देशे च हेमच०

श्रीकण्ठपदलाञ्चन = पु० भवभूतौ शब्दमाला।

श्रीकन्द = स्त्री श्रीः शोभा तया युक्तः कन्दोऽस्याः। बन्ध्या कर्कट्यां राजनि०।

श्रीकर = न० श्रियं शोभां करोति कृ–अच्। १ रक्तोत्पले त्रिका० २ विष्णौ पु० ३ दायनिबन्धमेदकारके पण्डितभेदे च पु०। ४ शोभाकारके त्रि०।

श्रीकरण = न० श्रीयुक्तं क्रियतेऽनेन कि–करणे ल्युट्। लेखन्यां शब्दच०।

श्रीकान्त = पु० ६ त०। विष्णौ शब्दच० श्रीनाथश्रीपत्यादयोऽप्यत्र। श्रीपतिस्तु मूमिपाले च मेदि०।

श्रीकारिन् = पु० श्रियं करोति कृ–णिनि। जङ्घाले महाजवे १ मृगभेदे राजनि०। २ शोभाकारिणि त्रि० स्त्रियां ङीप्।

श्रीखण्ड = न० श्रियः शोभायाः खण्ड इव यत्र। चन्दने त्रिका०

श्रीगर्भ = पु० श्रीर्गर्भेऽस्य। १ विष्णौ त्रिका० २ खङ्गेच “श्रीगर्भो विजयश्चैव” इति खङ्गनामाष्टकम्।

श्रीग्रह = पु० श्रियः ग्रह इव यत्र। पक्षिणां पानीयशालायां हारा०।

श्रीघन = पु० श्रिया बुद्ध्या धनः। १ बुद्धभेदे अमरः। २ दघ्नि न० जटा०।

श्रीचक्र = न० श्रियाः चक्रं यन्त्रभेदः। “बिन्दुत्रिकोणवसुकोणदशारयुग्मं मन्वस्रनागदलसङ्गतषोडशारम्। वृत्तत्रयञ्च धरणीसदनत्रयञ्च श्रीचक्रमेतदुदितं परदेवतायाः” इति तन्त्रोक्ते त्रिपुरासुन्दरीपूजाङ्गे यन्त्रभेदे।

श्रीज = पु० श्रियो जायते जन–ड। कामदेवे श्रीनन्दनादयोऽप्यत्र।

श्रीताल = पु० श्रीयुक्तस्तालः शाक०। तालवृक्षतुल्ये वृक्षभेदे राजनि०।

श्रीद = पु० श्रियं घनं ददाति दा–क। १ कुवेरे अमरः २ धनदातरि त्रि०।

श्रीधर = पु० श्रियं धरति धृ–अच्। १ विष्णौ “अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम्। श्रीधरं देवि! विज्ञेयम्” इत्युक्ते २ शालग्राममूर्त्तिभेदे न०।

श्रीनिकेतन = पु० श्रियं निकेतयति नितरां वासयति नि + कित–णिच्–ल्यु। १ विष्णौ शब्दच० ६ त०। २ श्रीलक्ष्मी निवासे।

श्रीनिवाम = पु० निवसायस्मिन् नि + वस–घञ् ६ त०। १ विष्णौ त्रि० ६ त०। २ श्रिय आलये च।

श्रीपञ्चमी = स्त्री श्रियः पूजाङ्गं पञ्चमी शाक०। माधशुक्लपञ्चम्याम्। माघोपक्रमे “चतुर्थी वरदा शुक्ला तत्र गौरी सुपूजिता सौभाग्यमतुलं कुर्य्यात् पञ्चम्यां श्रीरपि श्रियम्”। सरस्वतीपूजादिनेऽनध्यायश्च गौडाचारः। अत्र श्रीपञ्च म्यामारभ्य प्रतिमासं षडब्दसमाप्यं श्रीपञ्चमीव्रतं स्त्रियः कुर्वन्ति तत्प्रमाणं संवत्सरकौमुदीधृतब्रह्मपु०।

श्रीपथ = पु० श्रीयुक्तः पन्थाः अच् समा० शाक०। राजपथे हारा०।

श्रीपर्ण = न० श्रीर्लक्ष्मीः पर्णे दलेऽस्य। १ पद्मे श्रीयुक्तं पर्णमस्य। २ अग्निमन्थवृक्षे पु० मेदि०।

श्रीपर्णिका = स्त्री श्रीयुक्तं पर्णमस्याः संज्ञायां कन् अत इत्त्वम्। कट्फलवृक्षे अमरः।

श्रीपर्णी = स्त्री श्रीयुक्तानि पर्णान्यस्याः ङीप्। १ गाम्भारीवृक्षे अमरः। २ कट्फलवृक्षे मेदि०। ३ शाल्मलीवृक्षे ४ हठवृक्षे हेमच०। ५ अग्निमन्थवृक्षे राजनि०।

श्रीपिष्ट = पु० श्रियै शोभायै पिष्यते पिष–क्त। सरलवृक्षे रामाश्रमः।

श्रीपुत्त्र = पु० ६ त०। १ कामदेवे श्रियः पुत्त्रो भ्राता सहजत्वात्। २ उच्चैःश्रवसि अश्वे त्रिका० ३ चन्द्रे च।

श्रीपुष्प = न० श्रीयुक्तं पुष्पम् शाक०। १ लवङ्गे राजनि०। २ पद्मकाष्ठे रत्नमाला।

श्रीफल = पु० श्रीयुक्तं फलमस्य। १ बिल्ववृक्षे अमरः। २ राजादन्याञ्च राजनि०। ३ नील्यां ४ क्षुद्रकारवेल्ल्यां स्त्री राजनि० टाप्। स्वार्थे क अत इत्त्वम्। ५ तत्रार्थे राजनि०। ६ आमलक्यां मेदि० स्त्री गौरा० ङीष्।

श्रीभद्रा = स्त्री श्रीयुक्तं भद्रमस्याः। भद्रमुस्तके शब्दच०।

श्रीभागवत = न० श्रीमत् भागवतम् शाक०। अष्टादशपुराणेषु सध्ये द्वादशस्कन्धयुक्ते अष्टादशसाहस्रे व्यासप्रणीते पुराणे भागवतशब्द दृश्यम्। श्रीमद्भागवतमप्यत्र “श्रीमद्भागवते महामुनिकृते” भाग० १। १।

श्रीभ्रातृ = पु० श्रियः लक्ष्म्याः भ्राता अनुजत्वात्। १ अश्वे राजनि० २ चन्द्रे च।

श्रीमत् = पु० श्रीरस्त्यंस्य मतुप्। १ तिलवृक्षे अमरः। २ अश्वत्थवृक्षे राजनि०। ३ विष्णौ शब्दर०। ४ शिवे त्रिका०। ५ कुबेरे शब्दच०। ६ शोभायुक्ते ७ धनिनि च त्रि० स्त्रियां ङीप्। सा च ८ राधिकायां ह्रस्वान्तताऽपि पृषो० राधिकायाम् नारदपञ्चरात्रम्।

श्रीमलापहा = स्त्री श्रिया शोभया मलमपहन्ति अप + हनड। धूम्रात्त्रायां लतायां राजनि०।

श्रीमस्तक = पु० श्रीयुक्तं मस्तकमस्य। रसोने (लसुन) राजनि०

श्रीमूर्त्ति = स्मी श्रीपूर्वककथयोग्या मूर्त्तिः। देवताप्रतिमायां राजनि०। विष्णोर्मूर्चिभेदाश्चतुर्विंशति मूर्त्तिशब्दे दृश्या। श्रीमूर्त्तयश्चाष्टविधाः भाग० ११ स्कन्दे दर्शिता यथा “शैली दारुमयी लौ ही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाष्टबिधा मता। चलाचलेति द्वि- विधा प्रतिष्ठा जीवमन्दिरम्। उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने। अस्थिरायां विकल्पः स्यात् स्य ण्डिले तु भवेत् द्वयम्। स्वपनं त्वविलेप्यायामन्यत्र परिमार्जनम्। गोपालमन्त्राद्दिष्टत्वात् तच्छ्रीमूर्त्तिरपेक्षिता। तथापि वैष्णवप्रीत्यै लेख्याः श्रीमूर्त्तयोऽखिलाः”।

श्रीरङ्गपत्तन = न० श्रिया रङ्गस्य पत्तनमिव। दक्षिणस्थे देशभेदे

श्रीरस = पु० श्रियै रसोऽस्य। श्रीवेष्टे गन्धद्रव्ये राजनि०।

श्रीराम = पु० श्रीशब्दयुक्तो रामः। दशरथात्मजे भगदवतारभेदे शब्दच०।

श्रील = त्रि० श्री + अस्त्यर्थे लच्। १ शोभायुक्तो २ सम्पदादियुक्ते च अमरः।

श्रीलता = स्त्री श्रीयुक्ता लता। महाञ्योतिष्मत्या राजनि०।

श्रीवत्स = पु० वदति महत्त्वं वद–स श्रीयुक्तो वत्सः। १ वक्षस्थे महत्त्वलक्षणश्वेतरोमावर्त्तविशेषे। स अस्त्यस्य अच्। २ विष्णौ हेमच०। ३ सुरङ्गाभेदे त्रिका०।

श्रीवत्सक = पु० श्रीवत्सः चिहभेतः तेन कायति कै–क। हृटयस्थश्वेतलामयुक्ते अश्वभेदे।

श्रीवत्सभृत् = पु० श्रीवत्सं बिभर्त्ति भृ–क्विप्। विष्णौ हेमच०

श्रीवत्सलाञ्छन = पु० श्रीवत्सोलाञ्छनं यस्य। विष्णौ अमरः श्रीवत्साङ्कादयोऽप्यत्र।

श्रीवराह = पु० श्रिया युक्तो वराहः। विष्णोर्दशस्ववतारेषुवराहावतारे त्रिका०।

श्रीवल्ली = स्त्री श्रीयुक्ता वल्ली। कण्टकप्रधानवृक्षभेदे राजनि०।

श्रीवाटी = स्त्री श्रिया वाटीव। नागवल्लीभेदे राजनि०।

श्रीवारक = पु० श्रियं वारयति कामयते ण्वुल्। सितावरशाके राजनि०।

श्रीवास = पु० श्रियै वासयति वस–णिच्–अच्। सरलवृक्षरसे (टारपिन)। “श्रीवासः सरलः पूतिः कुन्दुरुर्ग्रन्थिपर्णकम्। सिह्लकः परमाभांसी देवदारु सुरा नखी। सर्वेऽमी परमाऽलक्ष्मीरक्षोघ्ना ज्वरनाशनाः” राजव०। ५ त०। २ पद्मे ३ विष्णौ मेदि० ४ शिवे शब्दच०।

श्रीवासस् = न० श्रियै वासयति वस–णिच् असि। सरलवृक्षरासे अमरः।

श्रीविद्या = स्त्री श्रियै त्रिवर्गाय विद्या। त्रिपुरासुन्दर्य्यां तन्त्रसा०।

श्रीवृक्ष = पु० श्रियः शोभायाः वृक्ष इव। १ अश्वस्य हृदयस्थे श्वोतरोमावर्त्तभेदे २ अश्वत्थवृक्षे हेमच०। श्रीनामकोवृक्षः शाक०। ३ विल्ववृक्षे “श्रीवृक्षे बोधयामि त्वाम्” ति० त०।

श्रीवेष्ट = पु० श्रियै वेष्ट्यतेऽसौ वेष्ट–कर्मणि घञ्। सरलवृक्षनिर्य्यासे (तारपिन) राजनि०।

श्रीश = पु० ६ त०। १ विष्णौ २ श्रीरामे शब्दच०। श्रीश्वरादयोऽप्यत्र।

श्रीसंज्ञ = न० श्रियः संज्ञा संज्ञाऽस्य। सवङ्क्षे अमरः।

श्रीसहोदर = पु० ६ त०। १ चन्द्रे २ उच्चैःश्रवसि अश्वे च ३ कर्पूरे च।

श्रीहस्तिनी = स्त्री श्रीयुक्ता हस्तिनीव। (हातिशु~डा) वृक्षभेदे अमरः।

श्रु = गतौ भ्वा० पर० सक० अनिट्। श्रवति अश्रौषीत्।

श्रु = श्रवण भ्वा० पर० सक० अनिट्। शृणोति अश्रौषीत्। णिंन चङि अशिश्रवत्। णिचि सनि शि (शु)श्रावयिपति।

श्रु(स्रु)घ्न = पु० देशभेदे।

श्रु(स्रु)घ्निका = स्त्री श्रु(स्रु)घ्नः देशभेदः कारणत्वेनाऽस्त्यस्याः ठन्। सर्जिकाक्षारे रत्नमा०।

श्रुत = न० श्रूयते श्रु–क्त। १ शास्त्रे अमरः २ तज्ज्ञाते च “श्रुतान्वितः” इति भट्टिः। ३ श्रवणेन गृहीते त्रि० मेदि० ४ अवधृते

श्रुतकीर्त्ति = स्त्री १ कुशध्वजकन्यायां शत्रुघ्नपत्न्याम्। श्रुता विख्याता कीर्त्तिरस्य। २ विख्यातयशस्के त्रि०।

श्रुतदेवी = स्त्री श्रुतस्य शास्त्रस्य देवी। सरस्वत्यां हेमच०।

श्रुतबोध = पु० श्रुतमात्रं बोधयति बुध–णिच्–अण्। १ कालिदालकृते छन्दोग्रन्थभेदे। २ सुगमार्धके ग्रन्थे च।

श्रुतश्रवस् = पु० श्रुतं श्रवो यशोऽस्य। शिशुपालपितरि “निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः” इति माघः।

श्रुतश्रोणि = स्त्री श्रुता विख्याता श्रोणीव! स्ववन्त्यां भावप्र०।

श्रुतादान = न० ६ त०। ब्रह्मवादे हारा०।

श्रुतायुस् = सूर्य्यवंश्ये नृपभेदे “नामागस्याम्बरीषोऽभूत् सिन्धुद्वीपस्ततोऽभवत्। ततः श्रुतायुः पुत्रोऽभूत्” मत्स्यपु०।

श्रुति = स्त्री श्रु–कर्मादौ क्तिन्। १ वेदे वेदस्य सर्वैः श्रूयमाणत्वात् श्रुतित्वम्। २ कर्णे कर्णस्य श्रवणहेतुत्वात् तघात्वम्। ३ श्रवणेन्द्रियजन्ये ज्ञाने च। अङ्कशास्रोक्ते त्रिभुजक्षेत्रादौ भुजकोट्योः संयुज्यमाने ४ रेस्वाभेदे च लीला०। कर्णस्य शुभाशुभत्वं यथा “रक्ताम्लपरुषश्मश्रुकर्णाः स्युः पापमृत्यवः। निर्मांसचिपिटैर्मोगाः कृपणा ह्रस्वकर्णकाः। शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः। वृहत्कर्णाश्च राजानो धनिनः परिकीर्त्तिताः” गरुडपु० ६६ अ०। ५ श्रवणक्रियायां ६ वार्त्तायां मेदि०। ७ श्रवणनक्षत्रे शब्दर०। ८ षड्जरागाद्यारम्भकावयवे शब्दभेदे मल्लिना० “प्रथम श्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः। सा श्रुतिः सम्परिज्ञेया स्वरावयवलक्षणेति”। श्रुतिसंख्यानियमश्रुतत्र दर्शितः “चतुयतुश्चतुश्चैव षड्जमध्यमपञ्चमाः। द्वे द्वे निषादगान्धारौ त्रिस्त्रिरृषभधैवतौः”। तद्भेदास्तु “नान्दी चालानकारिसा च सुमुखी चित्रा विचित्रा घना मातङ्गी सरसामृता मधुकरी मैत्री शिवा माधवी। बाला शार्ङ्गरवी कला कलरवा माला विशाला जया मात्रेति श्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिताः”। “श्रतिस्थाने स्वरान वक्तु नालं ब्रह्माऽपि तत्त्वतः। जले च सुतरां मार्गो मीनानां नोपलक्ष्यते। गगने पक्षिणां यद्वत् तद्वत् स्वरगता श्रुतिः। श्रुतिर्नादवशा प्रोक्ता तथाढ्या च कला मता। यथा तैल्गत सर्पिर्यथा काष्ठगतोऽनलः। ज्ञायतेऽत्रोपदेशेन तथा स्वरगता श्रुतिः। वीणादेस्तु श्रुतिर्ज्ञानं स्वरज्ञानं तु वंशजमं” संगीतदा०। संगीतरत्नाकरे न षड्जादिभेदे अन्यविधाः श्रुतय उक्ता यथा “तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः। दयावती रञ्जनी च रतिका ऋषभे स्थिता। रौद्री क्रोधा च गान्धारे वज्रिका च प्रसारिणी। प्रीतिश्च मार्जनीत्येताः श्रुतयो मध्यमाश्रिताः। क्षितिरक्ता च सान्दीपिन्यालापी चैव पञ्चमे। मदन्ती रोहिणी रम्येत्येता धैवतसश्रुयाः। उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती”।

श्रुतिकट = पुंस्त्री० श्रुतिं कर्णं कटति कट–अच्। १ सर्पे तस्य गुप्तकर्णत्वात् तथात्वम् स्त्रियां ङीष्। २ प्राञ्चल्लोहे ३ पापशोधने च पु० मेदि०।

श्रुतिकटु = पु० श्रुतौ श्रवणे कटुः कठोरा। अलङ्कारोक्ते कठोरशब्दविशेषरूपे १ काव्यदोषभेदे २ कठोरशब्दे च।

श्रुतिजीविका = स्त्री श्रुतिं जीवयति मूलतयानुसरति जीवल्युट्। स्मृतिशास्त्रे शब्दर०।

श्रुतिधर = त्रि० श्रुत्या श्रवणमात्रेण धरति धारयति धृ–अच्। श्रवणमात्रेण धारणायुक्ते।

श्रुतिमूल = न० श्रुतिरेव मूलं धर्मप्रामाण्ये कारणम्। १ वेद्ररूपे धर्मबोधनप्रमाणे ६ ब०। २ यज्ञादौ वेदशास्त्रबोधिते धर्मादौ च ६ त०। ३ कर्णमूले।

श्रुतिवर्जित = त्रि० श्रुत्या वेदाध्ययनेन कर्णेन्द्रियेण वा वर्ज्जितः १ वेदपाभ्ठहीने २ बधिरे च कमा०।

श्रुतिवेध = पु० श्रुतेः कर्णस्य वेधी यत्र। कर्णवेधाख्ये सस्कारभेदे कर्णवेधशब्दे १७१० पृ० दृश्यम्।

श्रुतिस्फोटा = स्त्री श्रुताविस पत्रे स्फोटो यस्याः। कर्णस्फोटालतायां राजनि०।

श्रुत्यनुप्रास = पु० श्रूयतै इति श्रुतिः शब्दस्तस्यानुप्रासः। अलङ्कारोक्ते शब्दालङ्कारभेदे अनुप्रासशब्दे १७८ पृ० दृश्यम्

श्रुत्युक्त = त्रि० श्रुतौ वेदे उक्त विहितः। वेदविहिते धर्मादौ।

श्रुद = पु० श्रूयते क। १ यागे जदा० श्रुतिविहितत्वात् तस्य तथात्वम्

श्रु(स्रु)वा = स्त्री श्रु(स्र)क। यज्ञपात्रभेदे राजनि०। कात्या० श्रौ० १। ३। ३८ अयं दन्त्यादितया पुंस्त्वेन चोक्तः “अरत्निमात्रः स्रुवोऽङ्गुष्ठपर्ववृत्तपष्करः” सू०। “अरत्निः प्रमाणमस्यासावरत्निमात्रः स्रुवोऽरत्निप्रमाणो भवति अङ्गुष्ठपर्वणो वृत्तमङ्गुष्ठपर्ववृत्तम् अङ्गष्ठपर्ववृत्तं पुष्करं मुख यस्यासावङ्गुष्ठपर्ववृत्तपुष्करः पुर्वशब्दः सन्धिवाची सन्धिर्ग्रन्थिः तदुक्तम् “अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते। तत्र तत्र वृहत्पर्व ग्रन्थिभिर्मिनुयात् बुधः”। अतोऽङ्गुष्ठस्य वृहत्पर्वग्रन्थिप्रमाणं चतुरस्रं कृत्वा तदेव मण्डलं चतुरस्रं चिकीर्षन्नित्थु पायेन वृत्तं विधाय तत्प्रमाणं स्रुवस्य पुष्करं नासिकावत् स्वातं स्यात्” कर्क०। कर्मप्रदीपे कात्या० “स्वादिरी वाथ पालाशो वितस्तिस्तु स्रुवः स्पृतः। स्रुग्बाहुमात्रा विज्ञेया वृत्तस्तु प्राग्रहस्तयोः। स्रुवाग्रे घ्राणवत् खातं द्व्यङ्गुष्ठपरिमण्डलम्”।

श्रु(स्रु)वावृक्ष = पु० श्रु(स्रु)वार्थो वृक्षः। (व~इचि) विकङ्कतवृक्षे राजनि०।

श्रेढी = स्त्री श्रेण्यै राशीकरणाय ढौकते ढौक–ड पृषो० गोरा० ङीष्। भिन्नजातीयद्रव्याणां मिश्रकरणाय लीला० उक्ते गणनाङ्गभेदे।

श्रेढीव्यवहार = पु० श्रेढ्या व्यवहारः। श्रेढीगणनार्थे लीलावत्युक्ते उपायभेदे।

श्रेणि(णी) = स्त्री श्रि–णि वा ङीप्। विच्छेदरहितायां पङक्तौ अमरः।

श्रेयस् = न० अतिशयेन प्रशस्यम् इयसु श्रादेशः। १ धर्मे २ मोक्षे अमरः। ३ शुभे न० ४ अतिप्रशस्ते त्रि० मेदि० स्त्रियां ङीप्। सा च ५ हरीतक्यां ६ पाठायां ७ गजपिप्पल्याम् अमरः ८ रास्नायां विश्वः। ९ शुभयुक्ते त्रि० अमरः।

श्रेष्ठ = पु० अतिशयेन प्रशस्यः इष्ठन् श्रादेशः। १ कुबेरे २ नृपे ३ विप्रे शब्दर० ४ विष्णौ विष्णुस०। ५ गोदुग्धे न० त्रिका० ६ अत्यन्तशस्ते त्रि० अमरः। ७ स्वलपद्मिन्यां स्त्री ८ मेदायाञ्च राजनि०।

श्रेष्ठकाष्ठ = पु० श्रेष्ठ काष्ठमस्य। शाकवृक्षे (शेगुण) राजनि०।

श्रेष्ठाम्ल = न० श्रेष्ठमम्लमस्य। वृक्षाम्ले राजनि०।

श्रेष्ठिन् = पु० श्रेष्ठं धनादिकमस्त्यस्य इति। १ शिल्पिवणिजां श्रेष्ठे जटा० “स हि श्रेष्ठिचत्वरे प्रतिवसतीति” मृच्छकटिकटीका।

श्रै = स्वेदे भ्वा० प० अक० अनिट्। श्रायति अश्रासीत्। विकॢत्तौ घटादि० श्रपयति।

श्रोण = संधाते भ्वा० पर० अक० सेट् ऋदित् चङि न ह्रस्वः। श्रोणंति अश्रोणीत्।

श्रोण = पु० श्रोण–अच्। १ पङ्गौ अमरः। २ काञ्जिके स्त्री।

श्रोणि(णी) = स्त्री श्रोण–इन् वा ङीप्। १ कट्याम् अमरः २ पथि शब्दर०।

श्रोणिफलक = न० श्रोणिः फलकमिव। १ प्रशस्यकटौ ६ त०। २ कटिपार्श्वे।

श्रोणिसूत्र = न० श्रोणो स्थितं सूत्रम्। श्रोणिस्थे खड्गादि बन्धनसूत्रे।

श्रोतस् = न० श्रु–असुन् तुट् च। १ कर्णे २ नदीवेगे अमरः। ३ इन्द्रिये हेमच०। अत्रार्थे दन्त्यादित्वमित्यन्ये।

श्रोत्र = न० श्र्यतेऽनेन श्रु–करणे ष्ट्रन्। १ शब्दज्ञानसाधने इन्द्रियभेदे अमरः। २ तदाधारे गोलके च कर्णशब्दे १७०६ पृ० दृश्यम्।

श्रोत्रिय = पु० छन्दो वेदमधीते वेत्ति वा छन्दस् + घ श्रोत्रादेशः। १ वेदाध्ययनानुरते अमरः। “एकां शाखां सकल्पां वा षड्भिरङ्गैरधीत्य च। षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित्” इत्युक्ते २ विप्रभेदे “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते। विद्याभ्यासी भवेद्विप्रः श्रोत्रियस्त्रिभिरुच्यते” मभूक्तलक्षणे ३ ब्राह्मणभेदे च।

श्रौत = त्रि० श्रुतौ विहितमण्। १ वेदविहिते धर्मादौ “श्रौतं क्रर्म स्वयं कुर्य्यात्” कात्या० स्मृतिः। २ गार्हपत्याहवनीयदक्षिणाग्निषु पु०।

श्रौत्र = न० श्रोत्र–स्वार्थे अण्। १ कर्णे। श्रोत्रियस्य भावः कर्म वा अण् यलोपः। वैदिकस्य भावे “श्रौत्रार्हन्तीचणैर्गुण्यैः” सिद्धान्तकौ०।

श्रौषट् = अव्य० श्रु–डौषटि। यज्ञादौ हविर्दाने अमरः।

श्लक = सर्पणे भ्वा० आ० सक० सेट् इदित्। श्लङ्कते कश्लङ्किष्ट।

श्लक्ष्ण = त्रि० श्लिष–क्स्न नि०। १ अल्पे अमरः २ चिक्कणे। संज्ञायां कन्। ३ मनोहरे उणा० ४ पूगे राजनि०।

श्लक्ष्णत्वच् = पु० श्लक्ष्णा त्वगस्य। अश्मन्तकवृक्षे राजनि०।

श्लग = गतौ भ्वा० पर० सक० सेट् इदित्। श्लङ्गति अश्लङ्गीत्।

श्लथ = दौर्वल्ये अद० चु० अक० सेट्। श्लथयति ते अशश्लथत् त

श्लथ = पु० श्लथ–अच्। १ विरलसंयोगे शिथिवे जटा० २ दुर्बले च

श्लाख = व्याप्तौ भ्वा० पर० सक० सेट् ऋदिंत् चङि न ह्रस्वः। श्लास्वति अश्लाखीत्।

श्लाघ = आत्मगुणाविष्करणे भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः। श्लाघते अश्लाघिष्ट।

श्लाघा = स्त्री श्लाघ–अ। १ प्रशंसायां २ वरिचर्य्यायाम् ३ अभिमाषे च मेदि०। ४ विजगुणाविष्ककरणे।

श्लाघ्य = त्रि० श्लाघ–ण्यत्। प्रशस्ये “श्लाघ्यस्त्वन्मृत्युरावयीरिति” देवीमा०।

श्लिकु = न० श्लिष–कु नेत्त्वम् पृषो०। ज्योतिःशास्त्रे उणा०।

श्लिक्यु = पु० श्लिष–क्यु नेत्त्वम् पृषो०। १ भृत्ये सि० कौ० २ जारे उणादि०।

श्लिष = दाहे भ्वा० पर० सक० सेट् उदित् क्त्वा वेट्। श्लेषति अ श्लेषीत्।

श्लिष = आलिङ्गने संसर्गे च सक० दि० अनिट्। श्लिष्यति ऌदित् अश्लिषत्। आलिङ्गने तु अश्लिक्षत्।

श्लिष = श्लेषणै चु० उभ० सक० सेट्। श्लेषयति ते अशिश्लेषत् त।

श्लिष्ट = त्रि० श्लिष–क्त। १ आलिङ्गिते २ संसृष्टे ३ श्लेषरूपशब्दालङ्कारयुक्ते शब्दे च।

श्लीपद = न० श्रीयुक्तं वृद्धियुक्तं पदमस्मात् पृषो०। (गोद) १ रोगभेदे ६ ब०। २ तद्रोगयुक्ते त्रि०। शिलीपदशब्दे ५१११ पृ० दृश्यम्।

श्लीपदप्रभव = पु० श्लोपदाय रोगभेदाय प्रभवति प्र + भू–अच्। आम्रवृक्षे शब्दमा०। तत्फलसेवने रससञ्चयात् तद्वृद्धिः।

श्लीपदापह = पु० श्लीपदं रोगभेदमपहन्ति अप + हन–ड। पुत्त्रजीववृक्षे त्रिका०।

श्लील = त्रि० श्रीरस्त्यस्य लच् पृषो० रस्य लः। शोभायुक्ते तद्विपरीतो हि अश्लीलः।

श्लेष = पु० श्लिष–घञ्। १ संसर्गे अमरः। २ दाहे ३ आलिङ्गने ४ शब्दालङ्कारभेदे च अलङ्कारशब्दे ४०५ पृ० दृश्यम्।

श्लेष्मघ्ना = स्त्री श्लेष्माणं हन्ति हन–क टाप्। १ मल्लिकायां २ केतक्याञ्च विश्वः। ३ ज्योतिष्मत्यां जटा० ङीप्। सा च ४मल्लिकायां मेदि० ५ त्रिकटुनि शब्दच०।

श्लेष्मण = पु० श्लेष्माऽस्त्यस्य न। कफविशिष्टे अमरः।

श्लेष्मन् = पु० श्लिष–मनिन्। कफ अमरः। श्लेष्मस्वरूपादिकं मावप्रकाशाद्युक्तं कफशब्दे १६७६ पृ० दृश्यम्। तत्प्रकृतिकलक्षणम् “गम्भोरबुद्धिः स्थूलाङ्ग स्निग्धकेशो महाबलः। सुप्नो जलाशयालोकी श्लेष्मप्रकृतिको नरः”। तत्कर्माणि यया “स्नोहो बन्धः स्थिरत्वञ्च गौरवं दृष्यता बलम्। क्षमाधृतिरलोभश्च कफकर्माविकारजम्”। श्लेष्मकरद्रव्याणि कफकरशब्दे १६७७ पृ० दृश्यानि। अन्यानि यथा “मोजनानन्तरं स्नानं जलपानं विना तृषा। तिलतैलं स्विग्धतैलं स्निग्धमामलकीद्रवम्। पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि। माषाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम्। नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम्। तरुमुञ्जापक्वफलं सुपक्वकर्कटीस्मलम्। स्वातस्नानञ्च वर्षासु मूलकं श्लेष्मवारणम् तज्जल ब्रह्मरन्ध्रे च महावीर्य्यविनाशनम्”। श्लेष्मनाशकद्रव्याणि कफघ्नीशब्दे १६७७ पु० दृश्यानि। अन्यानि च यमा “वह्निस्वेदं भृष्टभङ्गं पक्वतैलं विशोषकम्। भ्रमणं शुष्कमक्ष्यञ्च शष्कपक्वहरीतकी। पिण्डारकमपक्वञ्च रम्भःफलमपक कम्। वेशवारसिन्धुवारमनाहारमपामकम्। सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम्। मरीचं पिप्पलीं शुष्कमार्द्रकं जीरकं मधु। द्रव्याण्येतानि गन्धर्वि! सद्यः श्लेष्म हराणि च” ब्रह्मवै० ब्रह्म० १६ अ०।

श्लेष्मल = त्रि० श्लेष्म + अस्त्यर्थे लच्। १ कफयुक्ते (बहुयार) २ वृक्षे पु० शब्दच०।

श्लेष्मह = पु० श्लेष्माणं हन्ति हन–ड। १ कट्फलवृक्षे शब्दच० २ श्लेष्मनाशके त्रि०। कफघ्नीशब्दे १६७७ पृ० दृश्यम्।

श्लेष्मात = पु० श्लेष्मणा अतति अत–अच्। श्लेष्मातकवृक्षे शब्दर०

श्लेष्मातक = पु० श्लेष्मणा स्वसेवनजनितकफेन अतति अत–ण्वुल् (वहुयार) बहुवारवृक्षे अमरः “बहुवारस्तु शीतः स्यादुदालो बहुवारकः। शेलुः श्लेष्मातकश्चापि पिच्छिलो भूतवृक्षकः। बहुवारो विषस्फोटव्रणवीसर्पकुष्ठनुत्। मधुरस्तुवरस्तिक्तः केश्यश्च कफपित्तहृत्। फलमामन्तु विष्टम्भि रूक्षं पित्तकफास्रजित्। तत् पक्वं मधुरं स्निग्धं श्लेष्मलं शीतलं गुरु” भावप्र०।

श्लेष्मान्तक = पु० श्लेष्मणा स्तसेवनजकफेन अन्तक इव नाशकत्वात् (वहुयार) वृक्षभेदे राजनि०।

श्लोक = वर्द्धने संघाते च भ्वा० आ० म० सेट् ऋदित् चङि न ह्रस्वः। श्लोकते अश्लोकिष्ट।

श्लोक = पु० श्लोक–अच्। चतुःपदात्मके कविकृते १ वाक्यभेदे २ यशसि च अमरः “क उत्तमश्लोकगुणानुवादात्” भाग० १। १

श्लोण = संघाते भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। श्लोणति अश्लोणीत्।

श्वःश्रेयस = न० श्वः परदिने भाविकाले श्रेयो यस्मात् अच् समा०। १ मङ्गले अमरः २ सुखे ३ परमात्मनि च मेदि०। ४ कल्याणयुक्ते त्रि०।

श्वक = सर्पणे भ्वा० आ० सक० सेट् इदित् श्वङ्करे अश्वङ्किष्ट।

श्वच = गतौ भ्वा० आ० सक० सेट्। श्वचते अश्वचिष्ट इदिदप्ययम्

श्वठ = गतौ संस्कारे च चु० उभ० सक० सेट्। श्वठयति–ते अशिश्वठत् त। इदिदप्ययम् श्वण्टयति।

श्वठ = दुर्वचने अद० चु० उभ० सक० सेट्। श्वठयति ते अशश्वठत् त।

श्वदंष्ट्रक = पु० शुनो दंष्ट्रेव कण्टकोऽस्य कप्। गोक्षुरे क्षुप राजान०।

श्वदंष्ट्रा = स्त्री शुनो दंष्ट्रेवृ कण्टकावृतत्वात्। गोक्षुरे क्षुपे अमरः।

श्वधूर्त्त = पुंस्त्री निशूनो वञ्चनार्थं धूर्त्तः। शृगाले शब्दच० स्त्रियां ङीष्।

श्वन् = पु० श्वि–कनिन् नि०। कुक्कुरे तज्जातिस्त्रियां ङीप् नी।

श्वनिश = न० स्त्री शुनां कुक्कुराणां निशा वा ह्रस्वः। कुक्कुरमादकरात्रौ।

श्वपच = पुंस्त्री० श्वानं पचति भोजनाय पच–अच्। श्वपाके जातिभेदे। स च अन्त्यावसायिसज्ञः “चण्डालः श्रपचः क्षत्ता सूती वैदेहकस्तथा। मागधायोगवौ चैव सप्तौतेऽन्त्यावसायिनः। अन्त्यावसायिनामन्नमश्नीयाद् यस्तु कामतः। स तु चान्द्रायणं कुर्य्यात् तप्रघृच्छमथापि वा” प्रा० त० अङ्गिराः।

श्वपाक = पु० श्वानं पचति कर्त्तरि संज्ञायां घञ्। जातिभेद “क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते” मनुः। तद्धर्मश्च चण्डालशब्दे २८४९ पृ० उक्तो दृश्यः।

श्वफल = पु० शुनः प्रियं फलमस्य। वीजपूरवृक्षे रत्नमा०।

श्वफल्क = पु०। वृष्णिवंश्ये अक्रूरपितरि क्षत्रियभेदे विष्णुपु०।

श्वभीरु = पु० श्वभ्यी भीरुः। शृगाले शब्दमा०।

श्वभ्र = गतौ छिद्रकरणे सक० दीःस्थ्ये अक० चु० उभ० सेट्। श्वभ्रयति ते अशश्वभ्रत् त।

श्वभ्र = न० श्वभ्र–अच्। छिद्रे अमरः।

श्वयथु = पु० श्वि–वृद्धौ अथुच्। शोथे अमर।

श्वयीची = स्त्री श्वि–ईचि ङीप्। पीडायाम् सि० कौ०।

श्वल = वेगे भ्वा० पर० अक० सेट्। श्वलति अश्वालीत्।

श्वल्क = भाषणे चु० उ० स० सेट्। श्वल्कयति ते अशश्वल्कत् त।

श्वल्ल = वेगे भ्वा० पर० अक० सेट्। श्वल्लति अश्वल्लीत्।

श्ववृत्ति = स्त्री शुन इव पराधीना वृत्तिः। दास्ये “सैवा श्ववृ“त्तराख्याता तस्यात्तां परिवर्जयेत्” मनुः। “दीनदृष्टिसन्दर्शनस्वामितर्जननीचक्रियादिधर्मयोगात् श्वतुल्यासिति” कुल्लू० “न श्ववृत्त्या कदाचन” मनुः।

श्वव्याघ्र = पु० शुनो व्याघ्रः। कुक्कुरघातके व्याध्रभेदे (चिते) जटा०।

श्वशुर = पु० शु आशु अश्नुते आशु + अश–उरच् पृषो०। १ पत्युः पितरि २ भार्य्यायाः पितरि च अमरः।

श्वशुर्य्य = पु० श्वशुरस्यापत्यम् यत्। १ देवरे २ श्याले च अमरः।

श्वश्रू = स्त्री श्वशुरस्थ पत्नी ऊङ् उकाराकारलोपश्च। श्वशुरभार्य्यायाम् अमरः। श्वश्रूस्नु षयोरविश्वासकारणं वराहपु० उक्तं यथा “एवमुक्त्वा स चोत्थाय शप्ता नारी तदा धरे!। या स्नुषाभिः समं शप्ता विश्वासो भवतु क्वचित्। सा च स्नुषा कदाचित् स्यात् या श्वश्रूं जीवतीमिषेत्”।

श्वस् = अव्य० आगामि अहः पृषो० नि०। आगामिनि दिवसे अमरः।

श्वस = जीवने अदा० जक्षा० धर० सक० सेट्। श्वधिति अश्व- सीत्। “न विश्वसेदविश्वस्ते इत्यादौ” तु गणव्यत्यासात् भ्वादित्वम् निष्ठा वेट्। श्वसितः श्वस्तः।

श्वस = स्वप्रे अदा० प० अक० वैदिकोऽयस्। श्वस्ति अश्वसीत्।

श्वसन = पु० श्वसित्यनेन श्वस–ल्युट्। १ वायौ २ मदनवृक्षे च अमरः। भावे ल्युट्। ३ निश्वामे न० मेदि०।

श्वसनाशन = पुं स्त्री० श्वसनोवायुरशनमस्य। सर्पे हारा०। स्त्रियां ङीष्

श्वसनेश्वर = पु० श्वसनो वायुरीश्वरोऽस्य। अर्जुनवृक्षे शब्दच०।

श्वसनोत्सुक = पुंस्त्री० ७ त०। सर्पे शब्दर० स्त्रियां ङीष्।

श्वसित = न० श्वस–क्त। निश्वासे मुखनासिकाभ्यां बहिर्गमनरूपे हृदयस्थप्राणवायुव्यापारे।

श्वसुन = पु० श्वस–उनन्। (कुकुरशोङ्गा) वृक्षे शब्दमा०।

श्वस्तन = त्रि० श्वोभवः श्वस्–ठ्युल् तुट् च। भाविदिनस्यायि वस्तुनि स्त्रियां ङीष्।

श्वस्त्य = त्रि० श्वोभवः श्वस् + त्यप्। भाविदिनस्थायिवस्तुनि।

श्वागणिक = पु० श्वगणेन चरति ठञ्। कुक्कुरादिना मृगयाकर्त्तरि व्याधे सि० कौ०।

श्वादन्त = त्रि० शुन इव दन्तोऽस्य नि० दीर्घ। कुकुरतुल्यदशन युते।

श्वान = पुंस्त्री० श्वेव अण् न टिलोपः। कुकुरे शब्दमा०। तज्जातिस्त्रियां ङीष्।

श्वानचिल्लिका = स्त्री श्वान इव चिल्लिका। शुनकचिल्ल्यां राजनि०।

श्वापद = पु० शुन इवापदस्मात् अचसमा०। १ हिंसपशौ हेमच० २ व्याघ्रे च शब्दर०।

श्वाविध् = पु० शुना आविध्यते आ–व्यध् क्विप् ६ त०। शल्यके (शजारु) अमरः। क। श्वाविधोऽप्यत्र पु०।

श्वास = पु० श्वस–घञ्। १ वायुघ्यापारे २ रोगभेदे ३ शिक्षोक्ते वर्णोच्चरणार्थे बाह्यप्रयत्नभेदे च। श्वासरोयस्य निदानादि भावप्र० उक्तं यथा “श्वासनिदानमाह यैरेव कारणैर्हिक्का देहिनां सम्प्रवर्त्तते। तैरेवबहुभिः श्वासो व्याधिर्घोरः प्रजायते”। श्वासस्य भेदानाह “महोर्द्ध्वछिन्नतमकक्षुद्रभेदैस्तु पञ्चधा। भिद्यते स महाव्याधिः श्वास एको विशेषतः”। तस्य पूर्व रूपमाह “प्राग्रूपं तस्य हृत्पीडा शूलमाध्मानमेव च। आनाहो वक्त्रवैरस्यं शङ्कनिस्तोद एव च”। सम्प्राप्तिमाह “यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकैः। विष्वक् ब्रजति संरुद्धस्तदा श्वासं करोति साः”। विष्वक् ब्रजति सर्वतो विमार्नान् याति संरुद्धः कफानादिना रुद्धमार्गः। महाश्वासस्य लक्षणमाह “ऊर्द्ध्वायषानवातोयः शब्दवत् दुःखितो नरः। उच्चैः श्वसिति सन्नद्धो मत्तर्षभ इवा- निशम्। प्रनष्टज्ञानविज्ञानस्तथा बिभ्रान्तलोचनः। विवृताक्ष्याननो बवुमूत्रवर्ची विशीणवाक्। दीनस्य श्वासतञ्चास्य दूराद्विज्ञायते भृशम्। अहाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते १। ऊर्द्ध्वायमानवातः ऊर्द्ध्वं नीयमाने वातो यस्य सः शब्दवत् सशब्दं यथा स्थात्। कीदृक् स शब्दस्तद्बोधयितुमाह मत्तर्षभ इव। उच्चैः श्वीसतीत्थन्वयः। सन्नद्धः आनद्धः आनाहयुक्त इति यावत्। ज्ञानं तत्तदर्थविनिश्चयः। विशीर्णवाक् स्खलितवचनः। दीनः म्लानः। मारकश्चायं महाश्वासः। ऊर्द्ध्वश्वासमाह “ऊर्द्धं श्वसिति योऽत्यर्थं न च प्रत्याहरत्यधः। श्लेष्मावृतमुखस्रोतःक्रुद्धगन्धबहार्दितः। ऊर्द्ध्वदृष्टिर्विपश्यंस्तु बिभ्रान्ताक्ष इतस्ततः। प्रमुह्यन् वेदनार्त्तश्च शुष्काम्यो रतिपीडितः। ऊर्द्ध्वश्वास प्रकुपिते ह्यधःश्वामो निरुद्ध्यते। मुह्यतस्ताम्यतश्चोर्द्धश्वासस्तस्य निहन्त्यसून्” २। सर्वेषु श्वासेषु ऊर्द्ध्वश्वासोऽत्र अत्यर्थमिति विशेषः। न च प्रत्याहरत्यधः न श्वासमधः करोति श्लेष्मावृतेत्यादिश्लेष्मणावृतं यन्मुखं स्रोतांसि च तेः क्रुद्धो यो गन्धवहस्ते नार्दितः। विपश्यन् इतस्ततो विकृतं यथा स्यादेवं पश्यन् अधःश्वासो निरुद्ध्यत श्वासो नाधः प्रवर्त्तत” इत्यर्थः। मुह्यतो मोहं प्राप्नुवतस्ताप्यतो ग्लानिं प्राप्नुवतञ्च ऊर्द्ध्वश्वासः असून् प्राणान् हन्ति। छिन्नश्वासस्यारिष्टं लक्षणञ्चाह “यस्तु श्वसिति विच्छिन्न सर्वप्राणेन पीडितः। न वा श्वसिति दुःखार्त्तो मर्मच्छेदरुजार्दितः। आनाहस्येदमूर्च्छार्त्तो दह्यमानेन वस्तिना। विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः। विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः। छिन्नश्वासेन विच्छिन्नः स शीघ्र विजहात्यसून्” २। विच्छिन्नं सविच्छेदं सर्वप्राणेन सर्ववलेन मर्मच्छेदरुजार्दितः हृदयशिरश्छेदवेदनयैव पीडितः। दह्यमानेन वस्तिना उपलक्षितः। विप्लुताक्षः अश्रुपूर्णनेत्रः। विचेताः उद्विग्नचित्तः छिन्नश्वासेन विच्छिन्नः यस्तु श्वसिति विच्छिन्नमित्यादिलक्षणयुक्तो यः स नरः छिन्नश्वासेन विच्छिन्न पीडितो बोद्धव्यः। मारकश्चायं छिन्नश्वासः। तमकश्वासमाह “प्रतिलोमो यदा वायुः स्रोतांसि प्रतिपद्यते। ग्रीवां शिरश्च संगृह्य श्लेष्माणं समुदीर्य्य च। करोयि पानसं तेन कण्ठे घुर्थरकं तथा। अतीव तीव्रवेगञ्च श्वासं प्राणप्रपीडकम्। प्रताम्यति स वेगेन त्रस्यते सन्निरुध्यते। प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः। श्लेष्मणा मुच्यमानेन भृशं भवति दुःखितः। तस्यैव च विमोक्षान्ते मुहूर्त्तं लभते सुखम्। तथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्। न चापि निद्रां लभत शयानः श्वासपीडितः। पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः। आसीनो लभते सौख्यमुष्णञ्चैवाभिनन्दति। उच्छ्रि ताक्षो ललाटेन स्विद्यता भृशमार्त्तिमान्। विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते। मेघाम्बु शीतप्राग्वातैः श्लेष्मलैश्च विवर्द्धते। स याप्यस्तमकः श्वासः साध्यो वा स्यान्नवोत्थितः” ४। संगृह्य व्यथया समुदीर्य्य वर्द्धयित्वा। पीनसं नासास्रावं तेन श्लेष्मणा घर्धुरं घुर्घुरशब्दं प्राणप्रपीडकम्। प्रताम्यति तमसि प्रविशतीव वेगेन श्वासवेगेन सन्निरुध्यते निश्चेष्टो भवतीति चक्रः। सन्नि रुध्यते श्वास इति जैज्जटः।। श्लेष्मणा मुच्यभानेन सुखं सुस्तमिव उद्ध्वंसते व्यथितो भवति। शयानः शयननिहिताङ्गोऽवगृह्णाति पीडयति उष्णश्चैवाभिनन्दति इत्यनेन तमकी वातकफारब्ध इति बोद्धव्यः। उच्छ्रिताक्षः शूनाक्षः। ललाटेन स्विद्यता उपलक्षितः अव धम्यते गजारूढस्येव सवगात्रञ्चाल्यते। तमकस्यैव पित्तानुबन्धजनितज्वरादियोगेन प्रतमकसंज्ञामाह “ज्व रमूर्च्छापरीतञ्च विद्यात् प्रतमकं मिषक्”। तस्यैवापरलक्षणमाह “उदावर्त्तरजो जीर्णकलिन्नकायनिरोधजः। तमसा वर्द्धतेऽत्यर्थं शीतलैश्च प्रशाम्यति। मज्जतस्तम सीवास्य विद्यात् प्रतमकन्तु तम्”। उदाबर्त्तो रोगविशेषः रजो धूलिः अत्राजीर्णमामादिक्लिन्नं विदग्धं कायनिरोधा अङ्गवेगानां निरोधः तस्मादुत्पन्नः। क्षुद्रश्वासमाह “रूक्षायासोद्भवः कोष्ठे क्षुद्रोवात उदीरयन्। क्षुद्रश्वासो न सोऽत्यर्थदुःखेनाङ्गप्रवाधकः। हिनस्ति न च गात्राणि न च दुःखं यथेतरे। न च भोजनपानानां निरुणद्ध्युचितां गतिम्। नेन्द्रियाणां व्यथाञ्चापि काञ्चिदुत्पादयेद्रुजम्। स साध्य उक्तो वलिनः सर्वे चाव्यक्तलक्षणाः” ५। क्षुद्रः अल्पनिदानलिङ्गः उदीरयन् ऊर्द्ध्वं गच्छन् दुःखः दुःखप्रदः। सर्वे महाश्वासादयोऽपि। अव्यक्तकक्षणाः सन्तः साध्याः। श्वासानां साध्यत्वादिकमाह “क्षुद्रेः साध्यतमस्तेषां तमकः कृच्छ्र उच्यते। त्रय श्वासा न सिध्यन्ति तमको दुर्बलस्य च। काम प्राणहरा रोगा बहवो न तु ते तथा। यथा श्वासश्च हिक्का च हरतः प्राणमाशु वै”। वहवो ज्वरादयः “तथा यथा श्वासहिक्वे हरतो जीवमाशुते”। तेषां निदानकर्मविपाकास्तु भृगुभार० उक्ता यथा “श्वासरोगो महानुग्रो देहिदेहाभिघातकः। कर्मणा येन भवति तन्मे निगदतः शृणु। महोर्द्ध्वच्छिन्नतमकक्षुद्राभेदोऽस्य पञ्चधा। श्वासः संजायते नॄणां पृथक् कर्मानुसारतः। यस्तु यज्ञं समासाद्य पशुश्वासं निरुध्य च। हन्ति स्वादन्ति वातञ्च महाश्वासेन गृह्यते१। पौराणिक कथा मध्ये यस्तु वाचान्यथा वदेत्। स ऊर्द्ध्वश्वासमासाद्य दुनोत्यहरहर्निशम् २। निषिद्धदानग्रहणाच्छिन्नश्वासेन गृह्यते३। मर्त्यः शास्त्रार्थनिर्णीतवाक्य यो दूषयत्यपि। पीड्यते तमकश्वासैः ४ क्षुद्रैः पाकस्य विघ्नतः ५। परत्र कर्मतो देही नरकेषु विपच्यते। नरकान्ते पुनर्व्याघ्रयोनिं शृकरवायसीम्। पृथक् कर्मवशाद् योनौ गत्वा संप्राप्य तप्यते। मानुषत्वमनुप्राप्य पूर्वोक्तेनोपगृह्यते”।

श्वासकास = पु० श्वासयुक्तः कासः। श्वासयुक्ते कासरोगे “पिशुनो नरकस्यान्ते जायते श्वासकासवान्। घृतं तेनु प्रदातव्यं सहस्रपलसम्मितम्” शाता० कर्म०।

श्वासकुठार = पु० श्वासे कुठार इव। श्वासरोगोषधभेदे “रसो गन्धो विषञ्चापि टङ्कणञ्च मनः शिला। एतानि कर्षमात्राणि मरिचञ्चाष्टकर्षकम्। कटुत्रयं कर्षयुग्मं पृथगत्र विनिःक्षिपेत्। रसः श्वासकुठारोऽयं सर्वश्वास निवारकः” भावप्र०।

श्वासधारण = न० श्वासः प्राणवायुः ध्रियतेऽनेन। प्राणधारणव्यापारे प्राणायाम

श्वासहेति = स्त्री श्वासस्य हेतिरिव। निद्रायां हेमच०।

श्वासारि = पु० श्वासस्य रोगभेदस्यारिः नाशकत्वात्। पुष्करमूले राजनि०।

श्वासिन् = पु० श्वासयति श्वस–णिच णिनि। वायौ शब्दच०।

श्वि = गतौ सक० वृद्धौ अक० भ्वा० पर० यजा० सेट्। श्वयति अशिश्वत्–अश्वत्–अश्वयात्। ट्वित् श्वयथुः ओदित् निष्ठा तस्य नः शूनः।

श्वित = शुक्लतापादने भ्वा० आ० ऌदित् लुङि उभ० सक० सेट्। श्वेतते अश्वितत् अश्वेतिष्ट।

श्वित्र = न० श्वित–रक्। श्वेतकुष्ठभेदे (धवल) अमरः। तन्निदानादि भावप्र० उक्तं यथा “कुष्ठैकमम्भनं श्चित्रं किलास चारुणं भवेत्। निर्दिष्टमपरिसांवि त्रिधातूद्भवसंश्रयम्”। कुष्ठैकसम्भवं कुष्ठेन सह सम्भवो निदानं यस्य तत्। अथ श्वित्रस्य भदमाह किलासञ्चारुणं भवेत् श्वित्रमेव रक्तमांसाश्रयात्किलासमरुणञ्च भवेदित्यर्थः। ननु कुष्ठात् श्वित्रस्य को भेद इत्यत आह निर्दिष्टमपरिस्रावीति श्वित्रमपरिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसंश्रयमिति श्वित्रम त्रयोधातवो रक्तवांसमेदांसि सश्रयोऽधिष्ठानं यस्य तत्। कुष्ठन्तु सान्निपातिकं मर्वधातुगतं भवतीति भदः। दोषभेदेव लक्षणभेदान्याह “वाताद्रूक्षारुणं पित्तात् ताम्रं कमलपत्रव!। सदाहं रोमविध्वंसि कफात् श्वेतं घनं गुरु सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत्। वर्णेनेवेदृगुभय कुष्ठं तच्चोत्तरोत्तरम्”। अरुणमीषल्नोहितम्। कमलपत्त्रवदित्यनेन मध्ये श्वेतमन्ते लाहित बोधयति। घनं पुष्टम्। क्रमाद्रक्तमांसमेदःसु आदिशेत्। तथा च चरकः “अरुणं रक्तगे वाते ताम्रं पित्ते पलङ्गते। श्वेतं श्लेष्मणि मेदःस्थे श्वित्रं कुष्ठं परंपरम्” इति। उभयं द्विविधमपि श्वित्रं वर्णेन ईदृगेव। अरुणं ताम्रं श्वेतञ्च दोषभेदात्। द्विविधं दोषजं व्रणजं च। तथा च भोजः “श्वित्रं तु द्विविधं विद्याद्दोषजं व्रणजं तथा” इति। श्वित्रं साध्यमसाध्यञ्चाह “अशुक्लरोमाबहलमसृग्युक्तमथो नबम्। अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा”। अब्रहलं तनु। अन्यच्च “गुह्यपाणितलाष्ठेषु जातमप्यचिरन्तनम्। वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता”। गुह्यं मेहनम् भगञ्च तलमत्र पदतलं सुश्रुतेनान्ते जातमिति सामान्यतो निर्दिष्टत्वात्। अप्यचिरन्तनम् नवमपि”।

श्वित्रघ्नी = स्त्री श्वित्रं हन्ति हन–टक् ङीप्। पीतपर्ण्याम् (विछुती) शब्दच०।

श्वित्रिन् = त्रि० श्वित्रमस्त्यस्य इनि। श्वेतकुष्ठयुक्ते “श्वित्री वस्त्र श्वा रसं च चीरी लवणहारकः” याज्ञ०।

श्विद = शुक्लतापादने भ्वा० आत्म० सक० सेट् इदित्। श्विन्दति अश्विन्दीत्।

***