शी = शयने अदा० आत्म० अक० सेट्। शेते शेरते अशयिष्ट। ञीत् वर्त्तमाने क्त शयितः। शयित्वा।
शी = स्त्री शी–भावे क्विप्। १ शयने २ शान्तौ च शब्दर०।
शीक = मेके सर्पणे च भ्वा० आत्म० सक० सेट्। शीकते अशीकिष्ट। ऋदित् चङि न ह्रस्वः।
शीक = आमर्षे सेके च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। शीकयति ते शीकति अशीशिकत्–त अशीकीत्।
शीकर = न० शीक–अरन्। १ सरलद्रवे २ वायौ पु० मेदि०। ३ जलकणे अमरः।
शीघ्र = न० शिघि–रक् पृषो०। १ विलम्बाभावे २ त्वरिते च ३ तद्वति त्रि० अमरः। ४ दन्तीवृक्षे स्त्री राजनि०।
शीघ्रचेतन = पुंस्त्री० शीघ्रा चेतना यस्य। १ कुक्कुरे शब्दमा० स्त्रियां ङीष्। २ द्रुतचेतनायुते त्रि० ५ ब०। ४ अर्कवृक्षे पु०। ५ अतिबलायां स्त्री राजनि०।
शीघ्रजन्मन् = पु० शीघ्रं जन्म यस्य। करञ्जभेदे (का~टाकरमचा) शब्दच०।
शीघ्रपुष्प = पु० शीघ्रं पुष्पं यस्य। वकवृक्षे राजनि०।
शीघ्रवेधिन् = पु० शीघ्र विधति विध–णिनि। शीघ्रलक्ष्यवेधनकर्त्तरि हेमच०।
शीत = न० श्यै–क्त स्पर्शे सम्प्र०। १ शीतले स्पर्शे २ जले शब्दमा० ३ हिमे च अमरः ४ त्वचे राजनि० ५ बहुवारवृक्षे ६ वेतसवृक्षे च पु० अमरः। ७ असनपर्ण्यां शब्दर०। ८ पर्षटे ९ निम्बे १० कर्पूरे राजनि०। ११ हिमर्त्तौ च पु० १२ शीतस्पर्शयुते त्रि० अमरः। १३ अलसे त्रि० मेदि०। १४ क्वथिते शब्दच०।
शीतक = पु० शीतमिव करोति कृ–ड। १ दीर्घसूत्रिणि आलस्यहेतुना कार्य्याकरणाय शीतवाधामभिनोय २ सुस्थिते मेदि०। शीत + स्वार्थे क। ३ शीतपदार्थे ४ शीतकाले मेदि० ५ वृश्चिके शब्दमा० ६ असनपर्ण्यां शब्दर०।
शीतकर = पु० शीतः शीतलः करो यस्य। १ चन्द्रे २ कर्पूरे च शीतकिरणादयोऽप्यत्र त्रि०। शीत करोति कृ–अच्। ३ शीतकारके।
शीतकाल = पु० ६ त०। हिमर्त्तौ मार्गग्रौषमासद्वयात्मके काले
शीतकुम्भ = पु० शीतं स्कुभ्नाति स्कुन्भ–अच् नि०। १ करवीरे रत्नमा०। २ जलजवृक्षभेदे स्त्री राजनि० गौरा० ङीष्।
शीतकृच्छ्र = पु० “त्र्यहं शीतं पिबेत् तोयं त्र्यहं शीतं पयः पिबेत्। त्र्यहं शीतं घृतं पीत्वा वायुभक्षपरस्त्र्यहम्” यमोक्ते व्रते।
शीतक्षार = न० कर्म०। श्वेतटङ्कणे राजनि०।
शीतगन्ध = न० शीतः शीतलः गन्धो यस्य। श्वेतचन्दने राजनि०
शीतगु = पु० शीता गावः किरणाः यस्य। १ चन्द्रे २ कर्पूरे च
शीतचम्पक = पु० शीतश्चम्पक इव। १ दर्पणे २ प्रदीपे च मेदि०
शीतपर्णी = स्त्री शीत पर्णं यस्याः ङीप्। अर्कपर्णिकायां रत्नमा०।
शीतपल्लवा = स्त्री शीतः पल्लवो यस्याः। भूमिजम्बां रत्नमा०
शीतपाकिनी = स्त्री शीते पाकोऽस्त्यस्याः इनि ङीप्। काकोल्यां शब्दच०।
शीतपाकी = स्त्री शीतेन पाको यस्याः ङीप्। १ वाट्यालके शब्द च०। २ काकोल्यां राजनि०।
शीतपुष्प = पु० शीतं शीतवीर्य्यकरं पुष्पं यस्याः। १ शिरीषवृक्षे राजनि० २ अतिबलायां स्त्री टाप्। शैलेये न० अर्कवृक्षे पु० राजनि०।
शीतप्रभ = पु० शीतस्य हिमस्येव प्रभा यस्य। कर्पूरे राजनि०
शीतप्रिय = पु० ६ त०। पर्पटे राजनि०।
शीतफल = पु० शीतं शीतवीर्यकरं फलमस्य। १ उदुम्बरे २ शेलौ च राजनि०।
शीतबला = स्त्री शीतं बलं वीर्य्यं यस्याः ५ ब०। महासभङ्गायां राजनि०।
शीतभानु = पु० शीताः शीतलाभानयोऽस्य। १ चन्द्रे २ कर्पूरे च शब्दर०।
शीतभीरु = स्त्री ५ त०। १ मल्लिकायाम् अमरः। २ शीतभीते त्रि०
शीतमञ्जरी = स्त्री शीतकाले मञ्जरी यस्याः न कप्। शेफा० लिकायां राजनि०।
शीतमयूख = पु० शीता मयूखा यस्य। १ चन्द्रे २ कर्पूरे च मेदि०। शीतमरीच्यादयोऽप्यत्र शब्दर०।
शीतमूलक = न० शीतं शीतवीर्यकरं मूलनस्य कप्। १ उशीरे (वेणारषूल) राजनि०। २ शीतलमूलयुते त्रि०।
शीतरश्मि = पु० शीतारश्मयोऽस्य। १ चन्द्रे २ कर्पूरे च ज्यो० त
शीतल = पु० शीतं लाति ला–क शीतमस्त्यस्य लच् वा। १ शी० तस्पर्शे २ तद्वति त्रि०। ३ मकयोद्भवे चन्दने न० ४ शैलेये५ पुष्पकासीसे च मेदि०। ६ पद्मके ७ मौक्तिके राजनि०। ८ वीरणमूले न० शब्दच०। ९ असनपर्स्याम् अमरः। १० ब हुवारवृक्षे ११ चत्पके १२ राले १३ चन्द्रे १४ कर्पूरे पु० राजनि०।
शीतलक = न० शीतलमिव इवार्थे कन्। १ श्वेतोत्पले २ मरुवके पु० राजनि०।
शीतलच्छद = पु० शीतलः शीतलस्पर्शवान् छदोऽख। १ चम्पकेराजनि०। कर्म०। २ शीतले पत्त्रे पु०।
शीतलजल = न० शीतलं जलं यस्मात् ५ ब०। १ उत्पले राजनि०। कर्म०। २ शीतले वारिणि न०।
शीतलवातक = पु० शीतलोवातो धातुभेदो यस्मात् कप्। असनपर्ण्यां शब्दच०। तत्सेवने हि वायोः शीतलता।
शीतला = स्त्री १ देवीभेदे “नमामि शीतसां देवीं रासभस्यां दिगम्बरीम्। मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम्” स्कन्दपु०। सा च विस्फोटकभेदनाशिनी। २ जलजवृक्षभेदे रत्नमा० तत्र ङीप्। ३ कुटुम्बिनीवृक्षे ४ आरामशीतलायां ५ बालुकायां स्त्री राजनि० टाप्।
शीतवल्क = पु० शीतः शीतकरः बल्कोऽस्य। उदुम्बुरे राजनि०
शीतवीर्य्यक = पु० शीतं शीतलकर वीर्यं यस्मात् ५ ब०। कप्। १ प्लक्षवृक्षे राजनि०। २ शीतलवीर्य्यकरे त्रि०।
शीतशिव = न० शीतं शीतलमपि शिवम्। १ सैन्धवलवणै २ शैले- यनामगन्धद्रव्ये अमरः। २ मिश्रेकायां ४ शमीवृक्षे च स्त्री राजनि० ५ सक्तुफलवृक्षे मेदि० ६ मधुरिकायां पु० अमरः।
शीतसह = पु० शीतं सहते सह–अच्। १ पीलुवृक्षे शब्दच०। २ नीलसिन्धुवारे ३ बासन्त्यां स्त्री राजनि० टाप्।
शीता = स्त्री श्यै–क्त सम्प्र०। १ लाङ्गलपद्धतौ भरतः २ रामपत्न्यां शब्दच० ३ अतिबलायां ४ कुटुम्बिन्यां ५ दूर्वाया ६ शिल्पिकातृणे राजनि०।
शीतांशु = पु० शीताः अंशवो यस्य। १ चन्द्रे २ कर्पूरे च राजनि
शीताङ्गी = स्त्री शीतमङ्गमस्याः ङीष्। १ हंसपदीवृक्षे राजनि० २ शीतलदेहयुते त्रि० स्त्रियां ङीष्।
शीताद = पु० शीतमादत्ते आ + दा–क। दन्तमूलगते रोगभेदे दन्तरोगशब्दे ३४६६ पृ० दृश्यम्।
शीतार्त्त = त्रि० शीतेन ऋतः। शीतालौ जटा०।
शीतालु = त्रि० शीत + अस्त्यर्थे आलुच्। शीतबाधायुक्ते जटा०।
शीतावला = स्त्री शीतमावलयति आ + वल्–णिच्–अण्। महासमङ्गायां राजनि०।
शीताश्मन् = पु० कर्म०। चन्द्रकान्तमणौ राजनि०।
शीतीभाव = पु० शीत + अभूततद्भावे च्वि–भू–भावे घञ्। मोक्षे त्रिका०। तत्र तापत्रयशून्यत्वात्तथात्वम्।
शीतोत्तम = न० शीतमुत्तमं यत्र। जले शब्दच०।
शीत्कार = पु० शीदित्यस्य कारः शीत् + कृ–घञ्। स्त्रीणां रति काले अव्यक्ते ध्वनिभेदे जटा०।
शी(सी)त्य = त्रि० शी(सी)ताम् अर्हति यत्। हलकृव्ये क्षेत्रादौ अमरः।
शीधु = पु० न०। शी–धुक्। इक्षुरसजाते मद्यभेदे अमरः।
शीधुगन्ध = पु० शीधोरिव गन्धोऽस्य। बकुलवृक्षे त्रिका०।
शीन = त्रि० श्यै–क्त सम्प्र० तस्य नः। १ धनीभूते घृतादौ २ मूर्खे ३ अजगरे च पु० मेदि०।
शीभ = कथने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः। शीभते अशीभिष्ट।
शीर = पुंस्त्री० शी–रक्। अजगरसर्पे शब्दच० स्त्रियां ङीष।
शीरिन् = पु० शीरस्तदाकारोऽस्त्यस्य। हरिदर्भे राजनि०।
शीर्ण = त्रि० शॄ–क्त। १ कृशे २ शुष्कताप्राप्ते च मेदि०। ३ स्थौ णेयके भावप्र०।
शीर्णपत्त्र = पु० शीर्णं पत्त्रमस्य। १ कर्णिकारवृक्षे शब्दच०। २ निम्बे ३ पट्टिकालोध्रे च राजनि० ४ विशीर्णपत्त्रयुक्ते त्रि०। कर्म०। ५ विशीर्णे पर्णे न०।
शीर्णपर्ण = पु० शीर्णं पर्णमस्य। १ निम्बे राजनि० २ विशीर्णपत्त्रवुक्ते त्रि० कर्म०। ३ विशीर्णे पर्णे न०।
शीर्णपाद = पु० शीर्णः पादोऽस्य नातृशापात्। शनैश्चरे त्रिका० तत्कथा छायाशब्दे २९८६ पृ० दृश्या। शीर्णाङ्घ्रिप्रभृतयोऽप्यत्र।
शीर्णपुष्पी = स्त्री शीर्णं पुष्पमस्याः ङीप्। अवाक्पुष्प्यां शब्दच० वा कप्। शीर्णपुष्पिका तत्रैव।
शीर्णमाला = स्त्री शीर्णानां माला यत्र। १ पृश्निपर्ण्यां शब्दच०। कर्म०। २ विशीर्णे माल्ये।
शीर्णवृन्त = न० शीर्णं वृन्तमस्य। (तरमुज) फलवृक्षे शब्दच०।
शीर्वि = त्रि० श–क्विन् न वलोपः। १ अपकारके २ हिंसके च सि० कौ०।
शीर्ष = न० शिरस् + पृषो० शीर्षादेशः शृ–क सुक्च वा। १ मस्तके अमरः। २ कृष्णागुरुणि राजनि०। शसादौ शीष्णः शीर्ष्णा इत्यादि।
शीर्षक = न० शीर्षे कायति कै–क। १ शिरस्त्राणे (टोपर) २ शिरोऽस्थ्नि राजनि०। ३ जयपराजयपत्त्रज्ञाप्यदण्डभेदे “शीर्षकस्थेऽभियोक्तरि” याज्ञ० स्मृतिः। स्वार्थे क। ४ मन्तके न०। तेन कायति कै–क। ५ राहुग्रहे शब्दर०
शीर्षच्छेद्य(दिक) = त्रि० शीर्षच्छेदमर्हति यत् ठन् वा। बध्ये “शीर्षच्छेद्यमतोऽहं त्वाम्” भट्टिः।
शीर्षण्य = पु० शीर्षे बध्यते शीर्ष + यत् शीर्षन्नादेशः। १ शिरस्त्राणे अमरः। शीर्षे भवः यत्। २ विशदकेशे पु० अमरः ३ पिशदकेशयुते त्रि०।
शीर्षरक्ष = न० शीर्षं रक्षति रक्ष–अण्। शिरस्त्राणे हारा०।
शील = समाधौ भ्वा० पर० सक० सेट्। शीलति अशीलीत्। “सरमीः परिशीलितुं मया” नैवधम्। ममाधिरत्र मेवा तत्र सक० प्रवृत्तिभेदो वा तत्र अक० ञीत् वर्त्तमानेक्त।
शील = अभ्यासे अतिशायने च अद० चु० उभ० सक० सेट्। शीलयति ते अशिशीलत् त।
शील = न० शील–अच्। १ स्वभावे २ सद्वृत्ते मेदि० ३ चरित्रभेदे ४ अजगरसर्पे पुंस्त्री० शब्द च० स्त्रियां ङीष्। सद्वृत्तशीलञ्च त्रयादशविधं हारीतोक्तं यथा “ब्रह्मण्यता १ देवपितृभक्तता २ सौम्यता ३ अपरोपतापिता ४ अनसूयता ५ मृदुता ६ अपारुष्य ७ मैवता ८ पियवादिता ९ कृतज्ञता १० शरण्यता ११ कारुण्यता १२ शान्तिश्चेति १३ त्रयोदशविधं शीलम्। ४ रागद्वेषपरित्यागे मनुटी० गोविन्दराजः। ५ कौण्डिन्यमुनिपत्न्यां स्त्री।
शीलन = न० शी–ल्युट्। १ अभ्यासे २ अतिशायने ३ प्रवर्त्तने च
शीलित = त्रि० शील–क्त। १ अभ्यस्ते २ चीर्णे च त्रिका०।
शीवन् = पु० शी–क्रनिप्। अजगरसर्पे सि० कौ०
शुक = गतौ भ्वा० पर० सक० सेट्। शोकति अशोकीत्।
शुक = न० शुक–क। १ ग्रन्थिपर्णे अमरः। २ वस्त्रे ३ वस्त्राञ्चले ४ शिरस्त्राणे हेमच०। ५ व्याससुते “पराशरकुलोत्पन्नः शुकोनाम महायशाः। व्यासादरण्यां संभूतो विधूमोऽग्निरिव ज्वलन्” वह्निपु०। (शुया) इति ख्याते ६ खगभेदे पु० स्त्री स्त्रियां ङीष्। शुकदर्शनशुभादिकं वसन्तराजशाकुने उक्तं यथा “वामः पठन् राजशुकः प्रयाणे शुभं भवेद् दक्षिणतः प्रवेशे। वनेचराः काष्ठशुकाः प्रयातुः स्युर्सिद्धिदाः संमुखमापतन्तः”। ७ रावणमन्त्रभेदे ८ शिरीषवृक्षे (शेयालका~टा) ९ वृक्षे रत्नमा० १० कश्यपत्न्यास्ताम्रायाः कन्याभेदे स्त्री ङीष्। “काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्। ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः” भा० आ० ६६ अ०।
शुकच्छद = न० शुकस्य छदैव छदो दलमस्य। ग्रन्थिपर्णे जटा०
शुकजिह्वा = स्त्री शुकस्य जिह्वेव पर्णमस्याः। (शुयाठो~टी) वृक्षे रत्नमा०।
शुकतरु = पु० शुकप्रियस्तरुः। शिरीषवृक्षे रत्नमा०। शुकद्रुमादयोऽप्यत्र।
शुकदेव = पु० व्यासपुत्रे मुनिभेदे।
शुकनामन् = पु० शुकः शुकजिह्वा नामास्य मध्यपदलोपः। शुकजिह्वावृक्षे रत्नमा०।
शुकनाशन = पु० शुकं नाशयति नश–णिच्–ल्यु। दद्रुघ्ने वृक्षे राजनि०।
शुकनास = पु० शुकस्य नासेव पत्त्रमस्याः। श्योणाकवृक्षे अमरः। २ शुकतुल्यनासायुक्ते त्रि०। ३ कादम्बरीग्रन्थप्रसिद्धे तारापीडनृपमन्त्रिभेदे पु०।
शुकपिण्डी = पु० शुकानां प्रिया पिण्डीव। शुकशिम्ब्यां शब्दच०।
शुकपुच्छ = पु० शुकस्य पुच्छैव। १ गन्धके हेमच०। ६ त०। २ शुकस्य पुच्छे पु०।
शुकपुष्प = पु० शुकैव हरित् पुष्पमस्य। १ शिरीषवृक्षे राजनि०।
शुकप्रिय = पु० ६ त०। १ शिरीषवृक्षे भावप्र०। २ जम्बां स्त्री राजनि०।
शुकफल = पु० शुकैव फलमस्य। अर्कवृक्षे राजनि०।
शुकवर्ह = न० शुकस्यव वर्होऽस्य। गन्धद्रव्यभेदे (गा~टियाला) शब्दच०
शुकवल्लभ = पु० ६ त०। १ दाडिमवृक्षे राजनि० ६ त०। तस्य २ प्रिय त्रि०।
शुकशि(सि)म्बी = स्त्री शुकैव शि(सि)म्ब्वी। कपिकच्छां शब्दर०।
शुकादन = पु० शुकैरद्यते अद–ल्युट्। दाडिमे शब्दच०।
शुकानना = स्त्री शुकस्याननमिव पत्त्रपस्याः। (शुयाटो~टी) वृक्षे रत्नमा०।
शुकोदर = न० शुकस्योदरमिव। १ तालोशपत्त्रे राजनि०। ६ त०। २ शुकस्योदरे च।
शुक्त = न० शुच–क्त। १ मांसे शब्दच०। २ काञ्जिके हारा०। ३ अमिषूतद्रपद्रव्यभेदे “कन्दमूलफलादीनि सस्नेहलवणानि च। यद्द्रव्ये अभिसूयन्ते तच्छुक्तमभिधीयते” “शक्तं तीक्ष्णोष्णलवणं पित्तकृत् कटुकं लघु। रूक्षं कृम्युदरा नाहशाथार्शोविषकुष्ठनुत्” राजनि० “शुक्तं यन्मधुरं कालवशादम्लत्वमागतम्” इत्युक्ते ४ पदार्थे च। शुक्तभक्षणनिषेधो यथा “अपूपाश्च करम्भाश्च धानावटकसक्तवः। शाकं मांसमपूपं च सूपं कृशरमेव च। यवागूः पायसश्चैव यच्चान्यत् स्नेहसम्भवम्। सर्वं पर्युषितं मक्ष्यं शुक्तञ्च परिवर्जयेत्” यमः। तत्प्रतिसवो यथा “दधि शुक्तेषु भोक्तव्यं सर्वञ्च दधिसम्भवम्” मनुः। ६ निष्ठूरे त्रि० मेदि० ७ पूते ८ अम्ले त्रि० विश्वः। ९ श्लिष्टे १० निर्जने शब्दच० ११ चुक्रिकायां स्त्री शब्दर०।
शुक्ति = स्त्री शुच–क्तिन्। १ जलजन्तुभेदे (झिनुक) राजनि० २ कपालखण्डे ३ शङ्खे ४ शङ्खनखे ५ नख्याम् ६ अर्शोरोगे ७ अश्वावर्त्तके मेदि०। ८ नेत्ररोगभेदे हेमच०। चक्षूरोगशब्दे २८४४ पृ० दृश्यम्। ९ कर्षद्वयपरिमाणे शब्दमा० १० चतुष्कर्षमाने वैद्यकम्।
शुक्तिका = स्त्री शुक्तिरेव कन्। (झिनुक) १ मुक्तास्फोटे जटा० २ चुक्रियायाञ्च शब्दर०।
शुक्तिज = न० शुक्तौ जायते जन–ड। मुक्तायां हेमच०।
शुक्तिमत् = पु० शुक्तिरस्त्यस्य मतुप्। १ कुलाचलपर्वतभेदे २ नदीभेदे स्त्री ङीप्।
शुक्र = न० शुच–रक् नि० कुत्वम्। १ मज्जजाते २ चरमधातौ अमरः। ३ नेत्ररोगभेदे २८४४ पृ० दृश्यम्। ५ दैत्यगुरौ ग्रहभेदे अमरः। ६ अग्नौ ७ चित्रकवृक्षे ८ ज्यैष्ठमासे अमरः विष्कम्भादिषु योगेष मध्ये ९ चतुर्विंशे योगे च पु० ज्यो० त०। धातुभेदशुक्रस्योत्पत्तिकारणस्वरूपादिकं भावप्र० उक्तं यथा “रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते। मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः”। “ततः स्थूलो भागो रसो मासेनं पुंसां शुक्रं स्त्रीणाञ्चार्त्तवं शुक्रञ्च भवति। उक्तञ्च सुश्रुते “एवं मासेन रसः शुक्रो भवति” ‘स्त्रीणाञ्चेति’। चकारात् स्त्रीणामपि शुक्रं भवति। अतएवोक्तं सुश्रुते “योषितोऽपि स्नवत्येव शुक्रं पुंसः समागमे। तत्र गर्भस्य किञ्चित्तु करोतीति न चिन्त्यते”। गभस्य शुद्धस्य विकृतस्य तु गर्मस्य कारणं तदपि भवति। यत उक्तम् “यदा ना- र्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन। मुञ्चन्त्यो शुक्रमन्योऽन्यमनस्थि तत्र जायते” इति। एतेन स्त्रीणां सप्तमो धातुरार्त्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत्। “स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम्। तासामपि बले वर्णं शुक्रं पुष्टिं करोति हि”। एवं रस एव केदारकुल्यान्यायेन सर्वान् धातून् पूरवन् मासेन नवदण्डोत्तरेण शुक्रमार्त्तवं च भवतीति सिद्धान्तः। एवं सति साद्रक्तमिति सङ्गतमेव। ततो मांसन्ततो रक्तोत्पत्तेरनन्तरं मांसं जायते रसादेवेत्यर्थः। मांसान्मेदः प्रजायत इति। मांसादनन्तरं मेदः प्रजायते रसादेवेत्यर्थः। मेदसोऽस्थि जायते रसादेवेत्यर्थः। एवं ततो मज्जा अग्रे शुद्धं शुक्रं सम्भवतीत्यर्थः। रसः शरीरे त्रिधा सञ्चरति। तथा चोक्तम् “रसः शरीरे शब्दार्चिर्जलसन्तानवत् त्रिधा। सञ्चरत्यनुरूपोऽयं नित्यमेव हि देहिनाम्”। अस्यायमभिप्रायः। पुरुषास्तीक्ष्णाग्नयो मध्यमाग्नयो मन्दाग्नयश्च भवन्ति। तत्र तीक्ष्णाग्नीनां स रसः शब्दसन्तानवत् शीघ्रं सञ्चरति। मध्यमाग्नीनामर्चिःसन्तानवन्मघ्यवेगेन चरति मन्दाग्नीनां जलसन्तानवन्मन्दं चरति। तेन मासेन रसः शुक्रं भवतीति यदुक्तम् तन्मध्यवगेन चरति। मन्दाग्नीनां जलमन्तानवन्मन्द चरति। तेन मासेन रसः शुक्रं” भवतीति रदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तम्। दीप्ताग्नीनान्तु रसः किञ्चिन्थ्नेन मासेन शुक्रं भवति। मन्दाग्नेः किञ्चिद० केन मासेनेनि सिद्धान्तः। तर्हि वाजीकरणानामोषधीनां किं प्रयोजनमित्याह “वाजीकरिण्य आषध्यः स्वप्रभावगुणोच्छ्रयात्। विरेचवन्ति ताः शुक्रं विरेकिद्रव्यवन्नृणाम्”। वाजीकरिण्यः याभिः ओषधीभिः पुरुषः शुक्राधिक्यात् स्त्रोषु वाजिवत् सामर्य्यं प्राप्नोति ताः वाजीकरिण्यः स्वप्रभावगुणोच्छ्रयात्। तत्र काश्चिदीषध्यः स्वप्रभावाधिक्यात्, काश्चित् स्वगुणाधिक्यात्, काश्चित् स्वप्रभावगुणाधिक्यात्। तत्र सङ्कल्पपादलेपविशिष्टकान्तास्पर्शादयः स्वप्रभावाधिक्यात् शुक्रं विरेचयन्ति। घृतक्षीरादयः स्वगुणाधिक्यात्। स्निग्धत्वाधिक्यात् माषादयः स्वप्रभावस्निग्धत्वादिगुणाधिक्यात्। वाजीकरण्य इति बहुवचनमाद्यार्थानुवर्त्तनम्। बल्यं वृंहणं जीवनीयगणादयः तद्वद्बाद्धव्याः। विरेचयन्ति स्वप्रभावगुणाविक्यात् शीघ्रमेवं रसाद्युत्पादनपूर्वकं शुक्रं जनयित्वा प्रवर्त्तयन्ति। यत आह “दुग्धं माषाश्च भल्लातफलमज्जामलानि च। जनकानि निगद्यन्ते रेचनानि च रेतसः”। ननु वालानां कथं शुस्तं न दृश्यते इत्यत आह “बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते। पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते। तेषां यदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा। रोमराज्यादयः पुंसां नारीणामपि यौवने। जायतेऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च”। व्याख्यानं यथा पुंसां रोनोराजीश्मश्रुप्रभृतयः नारीणान्तु रीमराजीस्तनस्तन्यार्त्तवप्रभृतयः। ननु, अन्नरसो वृद्धस्य धातुवृद्धिं कथं न करोतीत्याह “वार्द्धके वर्द्धमानेन वायुना रसशोषणात्। न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत्”। अथ शुक्रस्य स्वरूपमाह “शुक्रं सौम्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम्। गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः”। जीवस्याश्रय उत्तम इत्याह “जीवी वसति सर्वस्मिन् देहे तत्र विशेषतः। वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात्”। अथ गर्भसञ्जननशुक्रस्य लक्षणमाह “स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च। शुक्रमिच्छन्ति केचित्तु तैलक्षीरनिभञ्च तत्”। अथ शुक्रस्य स्थानमाह “यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा। एवं हि सकले काये शुक्रं तिष्ठति देहिनाम्”। अत्र सर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिःशुक्रयोर्लाभात्। इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे पुंसि अतिपीडनेनेक्षुरसशुक्रयोर्लाभात्। अथ शुक्रस्य क्षरणमार्गमाह “द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतपथे शुक्रं पुरुषस्य प्रवर्त्तते”। वृद्धवाग्भटोऽप्याह “सप्तमी शुक्रधरा द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधोमूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्त्तयतीति। सप्तमी कला। अथ शुक्रक्षरणकारणमाह “कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते”। स्त्रीसुरतरूपं व्यायामं कुर्वतः। अन्यच्च “शुक्रं कामेन कामिन्या दर्शनात् स्पर्शनादपि। शब्दसंश्रवणातु ध्यानात् संयीगाच्च प्रवर्त्तते”। दैत्यगुरोः शुक्रनामकारणं काशीख० १७ अ० उक्तं यथा “नन्दिनाऽपहृते शुक्रे गिलिते च विषादिना” इत्युपक्रमे “तेन शब्देन महता शुक्रः शम्भूदरे स्थितः। छिद्रान्वेषी भ्रमन् सोऽथ विनिकेतो यथानिशम्। सप्त लोकान् सपातालान् रुद्रदेहे विलोकयन्। ब्रह्मनारायणेन्द्राणां सादित्याप्सरसां तथा। भुवनानि विचित्राणि युद्धञ्च प्रमथासुरम्। सवर्षाणां शतं कुक्षौ” भवस्य परितो भ्रमन्। ततः स ददृशे रन्ध्रं शुचेरन्ध्रं खलो यथा। शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः। चस्कन्द च सनामापि ततो देवेन भाषितः। जठरान्निर्गते शुक्रे देवोऽपि मुमुदेतराम्। मूयः श्रेयो भवेद् यन्मे न स्थितो जठरे द्विजः। शुक्रवन्निःसृतो यस्मात्तस्मात्त्वं भृगुवन्दन। कर्मणानेन शुक्रोऽपि मम पुत्रोऽसि गम्यताम्”। शुक्रग्रहस्वरूपादि वृहज्जातके ग्रहयोन्यध्याये उक्त दृश्यम्। तत्कक्षादिमानं खगोलशब्दे २४२५ पृ० दृश्यम्।
शुक्रकर = पु० शुक्रं वीर्यं करोति कृ–अच्। मज्जधातौ हेमच० असृक्करशब्दे ५५८ पृ० दृश्यम्। वीर्य्यकारके त्रि०।
शुक्रभुज् = स्त्री शुक्रं भुङ्क्ते भुज–क्विप्। मयूरजातिस्त्रियां शब्दच०।
शुक्रभू = पु० भवत्यस्यात् भू–अपादाने क्विप्। मज्जधातौ शब्दच० असृक्वरशब्दे तद्धेतुता दृश्या।
शुक्रला = स्त्री शुक्रं लाति ला–क। उञ्चटावृक्षे भरतः।
शुक्रशिष्य = पु० ६ त०। दैत्ये असुरे अमरः।
शुक्रिय = त्रि० शुक्रोदेवताऽस्य तस्येदम् वा घ। १ शुक्रसम्बन्धिनि २ तद्दैवते यजुर्वेदीये “ऋचं वाचमि” त्यादिके षट्त्रिं शत्तमे ३ शान्त्यध्याये न०।
शुक्ल = न० शुच–लक् कुत्वम्। १ रजते मेदि०। २ नवनीते शब्दच०। ३ अक्षिरोगभेदे चक्षूरोगशब्दे २८४४ पृ० दृश्यम्। ४ श्वेतवर्णे ५ श्वेतवर्णयुते त्रि० अमरः। ६ शुद्धे च त्रि०। ७ विष्कम्भादिषु योगभेदे मेदि०। ९ श्वेतैरण्डे राजनि० १० शुक्लपक्षे ज्यो० त०। “तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि। चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” षट्त्रिंशन्मतम्। शुक्लवर्णपदार्थास्तु कविकल्पलताथां कतिचित् उक्ता यथा “सुधांशूच्चैःश्रवाः शम्भुः कीर्त्तिर्ज्योत्स्ना शरद्घनाः। प्रासादसौधतगरमन्दारद्रुहिभाद्रयः। सूर्येन्दुकान्तकर्पू करम्भा रजतं हली। निर्मोकभस्महिण्डीरचन्दनं करका हिमम्। हारोर्णनाभस्तन्त्वस्थि स्वर्गङ्गेभरदाभ्रकम्। शेषाहिः शर्करा दुग्धं दधि गङ्गा सुधा जलम्। मृणालसिकताहंसवककैरवचामरम्। रम्भागर्भं पुण्डरीकं केतकीशङ्खनिर्झराः। लोध्रसिंह ध्वजच्छत्रं चूर्णशुक्तिकपर्दका। मुक्ताकुसुमनक्षत्रदन्तपुण्योशनोगुणाः। कैलासकासकार्पामहासवासव- कुञ्जराः। नारदः पारदः कुन्दखटिकास्फटिकादयः”।
शुक्लकण्ठ = पुंस्त्री० शुक्लः कण्ठो यस्य। दात्यूहखगे शब्दमाला। स्त्रियां ङीष्।
शुक्लकन्द = पु० शुक्लः कन्दो यस्य। १ महिषकन्दे २ अतिविषायां स्त्री राजनि०। कर्म०। ३ श्वेते कन्दे।
शुक्लक्षीरा = स्त्री शुक्लं क्षीरं निर्यासो यस्याः। काकोल्यां राजनि०।
शुक्लकर्म्मन् = त्रि० शुक्लं शुद्धं कर्म यस्य। पवित्रे शुभचरित्रे जटा०।
शुक्लकुष्ठ = न० कर्म०। श्वेतकुष्ठे (धवल)।
शुक्लदुग्ध = पु० शुक्लं दुग्धमस्य। १ शृङ्गाटके शब्दच० २ श्वेतनिर्यासयुते त्रि०।
शुक्लधातु = पु० कर्म०। कठिन्यां (खडि) हेमच० २ श्वेतधातौ च
शुक्लपक्ष = पु० कर्म०। १ वृद्ध्यनुगुणचन्द्रकलाक्रियापञ्चदशकात्मके चान्द्रमासार्द्धे श्येतच्छदे २ वके पुंस्त्री०। स्त्रियां ङीष्।
शुक्लपुष्प = पु० शुक्लं पुष्पमस्य। १ छत्राकवृक्षे २ कुन्दवृक्षे ३ मरुवके च रत्नमा०। ४ श्येतपुष्पयुते त्रि०। ५ नागदन्त्यां ६ शीतकुम्भ्यां स्त्री रत्नमा० ङीप्। कर्म०। ७ शुभ्रे पुष्पे न०।
शुक्लपृष्ठक = पु० शुक्लं पृष्ठमस्य कप्। सिन्धुकवृक्षे शब्दच०।
शुक्लयजुस् = न० कर्म०। इषेत्वेत्यादि चत्वारिंशदध्यायात्मके यज्र्वेदभेदे।
शुक्लरोहित = पु० वर्णोवर्णेनेति कर्म०। १ श्वेतरक्ते वर्णे २ तद्वति त्रि०। ३ तथाभूतवृक्षे पु० राजनि०।
शुक्लला = स्त्री शुक्लं लाति ला–क। उच्चटायां रत्नमा०।
शुक्लवायस = पुंस्त्री० कर्म०। १ वके त्रिका० २ श्वेतकाके च। स्त्रियां ङीष्।
शुक्लशाल = पु० कर्म०। १ गिरिनिम्बे राजनि० २ श्वेतवर्णवृक्षे च
शुक्ला = स्त्री शुक्ल + अर्श आद्यच् टाप्। १ सरस्वत्यां त्रिका०। २ शर्करायां शब्दच०। ३ काकोल्यां ४ विदार्य्यां ५ स्नुह्यां राजनि०। ६ श्वेतवर्णवत्यां स्त्रियाञ्च।
शुक्लाङ्गी = स्त्री शुक्लमङ्गमस्याः ङीष्। १ शेफालिकायां राजनि०। २ श्वेताङ्गयुक्ते त्रि०।
शुक्लापाङ्ग = पुंस्त्री० शुक्लः अपाङ्गो यस्य। मयूरे हेमच०। स्त्रियां ङीष्।
शुक्लाम्ल = न० कर्म०। अम्लशाके राजनि०।
शुक्लार्म्मन् = न० नेत्ररोगभेदे भावपु० ४४२८ पृ० दृश्यम्।
शुक्लिमन् = पु० शुक्लस्य भावः इमनिच्। श्वेतवर्णे।
शुक्लोपला = स्त्री कर्म० स अस्त्यस्याः अच्। शर्करायां रत्नमा०
शुङ्ग = पु० शम–ग तस्य नेत्त्वं नि० अत उत्त्वञ्च। १ वटवृक्षे २ आम्रातके ३ शूके च मेदि०। ४ पर्पटीवृक्षे ५ धान्यादिशूके च स्त्री राजनि०।
शुङ्गाकर्म्मन् = न० शुङ्गैः वटपल्लवैः आ सम्यक् कर्म० यत्र। गर्भमात्रसंस्कारभेदे “पुंसवने चन्द्रनामा शुङ्गाकर्मणि शीभनः” ति० त०।
शुङ्गिन् = पु० शुङ्गोऽस्त्यस्य इनि। १ वटपृक्षे २ प्लक्षवृक्षे जटा० ३ शुङ्गवति त्रि०।
शुच = शोके क्लेदे च दिवा० उभ० अक सेट्। शुच्यति ते इरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः। अनु + किञ्चिटुद्देशेन पश्चात्तापे सक०। अनुशोचति।
शुच = शोके भ्वा० पर० सक० सेट्। शोचति अशोचीत्।
शुच् = स्त्री शुच–क्विप्। शोके अमरः। वा टाप्। तत्रैव।
शुचि = पु० शुच–कि। १ वह्नौ २ चित्रकवृक्षे ३ आषाढमासे ४ शृङ्गाररसे अमरः। ५ ज्यैष्ठमासे मेदि० ६ शुद्धाचरणे ७ ग्रीष्मे ८ ऋतौ ९ शुद्धमन्त्रिणि मेदि०। १० अग्निभेदे “पावकः पवमानश्च शुचिरग्निश्च ते त्रयः। निमथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः। यश्चाग्नौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः” कूर्मपु० १२ अ०। ११ श्वेतवर्णे १२ तद्वति त्रि० अमरः। शुचित्वञ्च शौचं शुद्धता वैदिककर्मार्हत्वप्रयोजकः संस्कारविशेषः। “शुचिस्तत्कालजीवी कर्म कुर्य्यात्” श्रुतौ शौचस्य कर्माङ्गत्वं, स च स्नानादिजन्यः पुण्यभेदो वा। १३ मूर्ये च “तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः” सूर्यस्तवः। १४ अर्कवृक्षे १५ काश्यपत्न्यास्ताम्रायाः कन्याभेदे स्त्री “षट्सुताश्च महा सत्त्वास्ताम्रायाः परिकीर्त्तिताः। शुकी श्येनी च भासे च सुग्रीवी शुचिगृध्रिके” गरुडपु० ६ अ०। १६ शुद्धे १७ अनुपहते त्रि० मेदि०।
शुचिद्रुम = पु० कर्म०। अश्वत्थवृक्षे राजनि०।
शुचिमल्लिका = स्त्री कर्म०। नवमल्लिकायां राजनि०।
शुच्य = स्नाने अक० अभिषवे मन्यने पीडने सन्धाने च सक० भ्वा० पर० सेट् ईदित् निष्ठा अनिट्। शुच्यति अशुच्यीत्।
शुटीर = पु० शौटीर + पृषो०। वीरे त्रिका०।
शुठ = गतिविघाते भ्वा० पर० सक० सेट्। शोठति अशोठीत्।
शुठ = आलस्ये चु० उभ० सक० सेट्। शोठयति ते अशूशुठत् त।
शुठ = शोधने बा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। शुण्ठयति ते शुण्टति अशुशुण्ठत् त अशुण्ठीत्।
शुण्टि(ण्ठी) = स्त्री शुठि–इन् वा ङीप्। (शु~ट) शुष्कार्द्रके “शुण्ठी रुच्यामवातघ्नी पाचनी कटुका लघुः। स्निग्धोष्णा मधुरा पाके कफवातविबन्धनुत्। वृव्या स्वर्य्या च निश्वासशूलकासहृदामयान्। हन्ति श्लीपदशोथार्शस्तोयांशं परिशोधयेत्” भावप्र०।
शुण्ठ्य = न० शठि–यत्। शुण्ठ्याम् शब्दच०।
शुण्ड = पु० शुन–ड तस्य नेत्त्वम्। १ मदनिर्झरे हेमच०। २ गज हस्ते पुंस्त्री० स्त्रीत्वे टाप्। ३ मद्यपानगृहे ४ वेश्यायां ५ सुरायां ६ जलहस्तिन्याञ्च स्त्री मेदि०। ७ नलिन्यां विश्वः। ८ कुट्टिन्याञ्च स्त्री शब्दमा०।
शुण्डापान = न० शुण्डा सुरा पीयतेऽत्र पा–आधारे ल्युट्। १ मद्यपानगृहे अमरः। ६ त०। २ मद्यपाने च।
शुण्डार = पु० शुण्डा अस्त्यर्थे र। १ शौण्डिके शब्दच० २ हस्तिनि च। अपकर्षे र। ३ अपकृष्टशुण्डायाम् स्त्री। लच्। शुण्डाल हस्तिनि धनञ्जयः।
शुण्डिन् = पु० शुण्डाऽस्त्यस्य इनि। १ हस्तिनि २ शौण्डिके शब्दच०।
शुण्डिमूषिका = स्त्री शुण्डिनी मूषिकेव। छुछुन्दर्य्यां (छु~छ) राजनि०।
शुण्डी = स्त्री शुण्डाकारोऽस्त्यस्याः अच् गौरा० ङीष्। (हातिशु~डा) वृक्षे राजनि०।
शुद्ध = न० शुध–क्त। १ सैन्धवलवणे २ मरिचे च राजनि०। ३ केवले ४ निर्दोषे ५ पवित्रे मेदि०। ६ शुभ्रे च त्रि०। शुद्ध्यशुद्धी शास्त्रज्ञाप्ये संस्काररूपे यथोक्तं “शुद्ध्यशुद्ध्योः संस्काररूपत्वेन एकपुरुषस्यैकदोभयस्थिति र्घटते। शुद्धेर्भावरूपत्वे अशुद्धेस्तदभावरूपत्वे नैतत् विरोधात्। अतएव शङ्खः “ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा। कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” अशुद्धौ चतुर्थाहादौ। कथमशुद्धौ श्राद्धं? कालाशौचयोरधिकारिविशेषणत्वादत आह कर्तुस्तात्कालिकी शुद्धिरिति। श्राद्धविधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः कल्प्यते “स पुनरशुद्धः कर्मान्तरे” श्रा० वि०। शुद्धितत्त्वे च “एवं शुद्धेर्भावरूपत्वे अशौचस्य तदभावरूपत्वे विरोधः तथात्वे अशौचसङ्करोऽपि न स्यात्। एकस्मिन् शुद्ध्यभावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशुद्धिरूपप्रतियोग्यन्तराभावात् अनुपपत्तेः। तस्मात् शुद्ध्यशुद्ध्योर्भावरूपत्वम्। पद्मपु० उत्त० ख० १९ अ० कतिचिदशुद्धा उक्ताः। तद्भिन्नस्यैव शुद्धता यथा
“जातके मृतकेऽस्नाते जलौकोभिः क्षते तथा। अपवित्रो द्विजातीनां देहः सन्ध्यादिकर्मसु। अपूततनुरुत्सर्गे नरो मूत्रपुरीषयोः। अस्पृश्यस्पर्शने चैव ब्रह्मयज्ञजपादिषु। रक्तपाते नखशृङ्गदन्तखङ्गादिभिः क्षते। विप्रादेरशुचिः कायः शस्त्रास्त्रैः कण्टकादिभिः। भुक्त्वा हस्ताननोच्छिष्टेऽपवित्रः कृतमैथुने। शयने ब्राह्मणादीनां शरीरं चुरकर्मणि। ज्वरादिभिश्चतुःषष्टिरोगैर्युक्त द्विजन्मनाम्। वघुरप्रयतं पूजादानहोमजपादिषु। धूमोद्गारे वमौ श्राद्धपतितान्नादिभोजनैः। तथा च रेतःस्खलने मर्त्यदेहाऽपवित्रता। अपवित्रं द्विजातीनां वपुः स्याद्राहुदर्शने। गर्हितदानग्रहणे पतिते पातकादिभिः। अशौचान्तेन शुद्धिः स्यात् जातके मृतकेऽपि च। सर्ववर्णाश्रमादीनां तनोः सन्ध्यादिकर्मसु”। मृतकादिभिन्ने स्नानापनेयतेति। अशौचशब्दे द्रव्यशुद्धिशब्दे च दृश्यम्।
शुद्धजङ्घ = पुंस्त्री शुद्धा जङ्घा यस्य। गर्दभे त्रिका० स्त्रियां ङीष्।
शुद्धमांस = न० २१८३ पृ० कृतान्नशब्ददर्शिते पक्वमांसभेदे
शुद्धवल्ली = स्त्री कर्म०। १ गुडूच्यां शब्दच० २ पवित्रायां लतायाञ्च शब्दच०।
शुद्धान्त = पु० शुद्धः निर्द्दोषः अन्तः पर्य्यन्तो यस्य। १ नृपान्तःपुरे उपचारात् तत्र स्थितायां २ राजयोषिति पुंस्त्री० “शुद्धान्तसम्भागनितान्ततुष्टे” इति नैषधम्। शुद्धं शुद्धिः ६ त० ३ अशौचान्ते।
शुद्धापह्नुति = स्त्री कर्म०। “शुद्धापह्नुतिरन्यस्यारोपार्थो धर्मनिह्नवः” चन्द्रालोकोक्ते अर्थालङ्कारभेदे।
शुद्धि = स्त्री शुध–क्तिन्। १ मार्जने जटा० २ नैर्मल्यसम्पादने ३ वैदिककर्णयोग्यत्वासम्पादकसंस्कारभेदे च। ४ दुर्गायां “स्मरणाच्चिन्तनाद्वापि शोध्यते येन पातकात्। तेन शुद्धि समाख्याता देवी रुद्रतनौ स्थिता” देवीपु० तन्नामनिरुक्तिः
शुद्धोदनसुत = पु० बौद्धभेदे हेमच०।
शुध = शौचे शोधने सक० निःशेषभवने अक० च दि० पर० अनिट्। शुध्यति ऌदित् अशुधत्। “भक्तोहरः शुध्यकि यद्गुणः स्यादिति” लीला०।
शुन = गतौ तु० पर० सक० सेट्। शुनति अशोनीत्।
शुन = पु० शुन–क। कुक्कुरे। कि। तत्रैव वाचस्पतिः।
शुनःशेफ = पु० शुनैव शेफोऽस्य अलुक्समा०। विश्वामित्रशिष्ये मुनिभेदे।
शुनक = पु० शुनैव कन्। १ मुनिभेदे स्वार्थे क। २ कुक्कुरे राजनि०।
शुनकचञ्चुका = स्त्री शुनकस्येव चञ्चुः पत्रे यस्याः कप्। क्षुद्रचञ्चुक्षुपभेदे राजनि०।
शुनकचिल्ली = स्त्री शुनकप्रिया चिल्ली। शाकभेदे राजनि०।
शुनासीर = पु० सुष्ठुनासीरं यस्य पृषो०। १ इन्द्रे २ पेचके च पृषो० तस्य रूपत्रयम् द्विरूपकोषे उक्तं यथा “शुनाशोरो द्वितालव्यः सुनासीरो द्विदन्त्यकः। तालव्यादिर्दन्त्यमध्यः शुनासीरश्च दृश्यते”।
शुनी = स्त्री श्वन् + स्त्रियां ङीष्। १ कुक्कुरयोमिति अमरः। २ कुष्माण्ड्यां लतायां राजनिघण्टुकोषः।
शुनीर = पु० शुनी + संघार्थे र। कुक्कुरौसमूहे त्रिका०।
शुन्ध = शुद्धौ अक० शीधने सक० चु० उभ० सेट्। शुन्धयति ते अशुशुन्धत् त।
शुन्ध = शुद्धौ अक० शुद्धीकरर्णे सक० भ्वा० उभ० सेट्। शुन्धति ते अशुन्धीत् अशुन्धिष्ट। “आपः शुन्धन्तु मैनसः” इति सन्ध्यामन्त्रः।
शुन्ध्यु = पु० शुन्ध–युच तस्य न अनादेशः। वायौ उणा०।
शुन्भ = दीप्तौ अक० मर्दने सक० तु० पर० सेट्। शुभति अशुभम्भीत् “प्रागप्राप्तनिशुम्भशाम्भवधनु” रिति वी० च०
शुन्य = न० शुनीनां समूहः यत्। १ कुक्कुरीसंके त्रिका० शून्य + पृषो०। २ रिक्ते जटा०।
शुभ = दीप्तौ अक० हिंसने सक० तु० मुचा० पर० सेट्। शुम्भति अशीभीत्।
शुभ = दीप्तौ भ्वा० आ० अक० सेट्। शोभते ऌदित् अशुभत् शुशुभे
शुभ = न० शुभ–क। १ मङ्गले २ शुभयुक्ते त्रि० अमरः। २ पन्नकाष्ठे राजनि० ४ विष्कम्भादिषु मध्ये त्रयोविं शयोगे पु० ५ स्वेचरपुरभेदे न० मेदि०।
शुभंयु = त्रि० शुभम् + अस्त्यर्थे युस्। शुभान्विते अमरः “क्षितिपः शुभंयुः” इति भट्टिः।
शुभगन्धक = न० शुभोगन्धीऽस्य कप्। १ वोले राजनि० २ शुभगन्धयुते त्रि०।
शुभग्रह = पु० शुभः शुभदायकः ग्रहः। १ सौम्यग्रहे २ गुरौ शुक्रे अर्द्धाधिकचन्द्रे पापग्रहायुक्ते बुधे च।
शुभङ्कर = त्रि० शुभं कराति कृ–खच् मुम् च। २ मङ्गलकारके २ दुर्गायां स्त्री शब्दमा० ङीप्।
शुभद = पु० शुभं ददाति दा–क। १ अश्वत्थवृक्षे राजनि०। २ मङ्गलदातरि त्रि०।
शुभदन्ती = स्त्री शुभा दन्ता अस्याः ङीष्। १ सुदत्यां स्त्रियां २ पुष्पदन्तदिग्गजयोषिति च मेदि०।
शुभपत्त्री = स्त्री० शुभानि पत्त्राण्यस्याः ङीष्। (शालपान) क्षुपे वा कप्। शुभपत्त्रिका तत्रार्थे राजनि०।
शुभम् = अव्य० शुभ–कसु। मङ्गले “शुभंयुः”।
शुभवासन = पु० शुभं वासयति मुखम् वासि–ल्यु। मुखवासने द्रव्ये शब्दच०।
शुभसूचनी = स्त्री देवीभेदे (सुवचनी) “रक्ता पद्मचतुर्मुखी त्रिनयना चामीकरालङ्कृता पीनोत्तुङ्ककुचा दुकूलवसना हंसाधिरूढा परा। ब्रह्मानन्दमयी कमण्डलुकराक्षाभीतिहस्ता शिवा ध्येया सा शुभमूचनी त्रिजगतागम्बापदुद्धारिणी”। सा च स्त्रीभिः पूज्या।
शुभा = स्त्री शुभ–क। १ शोभायां २ कान्तौ ३ इच्छायां मेदि०। ४ राचनायां ५ गोरोचनायां ६ शम्यां ७ प्रियङ्गौ ८ श्वेत- दूर्वायां राजनि०। ९ देवसभायां शब्दच० १० उमासखी भेदे शब्दच०।
शुभाचार = त्रि० शुभ आचारोयस्य। १ शोभनाचारयुते २ उमासखीभेदे स्त्री शब्दमा०।
शुभाञ्जन = पु० शुभ–क शुभम् अञ्जनं यस्मात् ५ ब०। शोभाञ्जनवृक्षे शब्दर०।
शुभ्र = न० शुभ–रक्। १ अभ्रके मेदि० २ रौप्ये ३ कासीसे ४ शुभ्रलवणे राजनि०। ६ चन्दने शब्दच०। ६ श्वेतवर्णे पु० ७ तद्वति त्रि० अमरः।
शुभ्रकर = पु० शुभ्रः करोऽस्य। १ चन्द्रे २ कर्पूरे च। शुभ्रकिरणशुभ्रांशुप्रभृतयोऽप्यत्र।
शुभ्रदन्ती = स्त्री शुभ्रो दन्तो यस्याः ङीष्। पुष्पदन्तदिग्गजयोषिति अमरः
शुभ्रालु = पु० कर्म०। १ महिषकन्दे राजनि०। २ श्वेतालौ च।
शुभ्रि = पु० शुभ–क्रि। चतुर्मुखे ब्रह्मणि सि० कौ०।
शुम्भ = पु० शुन्भ–अच्। दानवभेदे। शुम्भश्च प्रह्लादपुत्रविरोचनात्मजगवेष्ठिनः पुत्रः एकः “विरोचनश्च प्राह्लादिः पञ्च तस्यानुजाः स्मृताः। गवेष्ठी कालनेमिश्च जम्भो वास्कल एव च। शुम्भश्चैव निशुम्भश्च विष्वव् सेनो महौजसः। गवेष्ठिनः सुता ह्येते” वह्निपु०। अपरश्च “कश्यपस्य दनुर्नाम भार्य्यासीत् द्विजसत्तम!। तस्यास्तु द्वौ सुतावास्तां सहस्राक्षाद्बलाधिकौ। ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः” वामनपु०। देवीमाहा० अपरोऽपि देव्या निहतः। तदन्योऽपि तत्रैव १२ अ० “शुम्भो निशुम्भश्चैवान्यावुपत्स्येते महासुरौ। ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” इत्युक्तः।
शुम्भमर्दिनी = स्त्री शुम्भं मृद्गाति मृद–णिनि। दुर्गायां हेमच०। हन–णिनि। शुम्भधातिनी शब्दच०।
शुम्भपुरी = स्त्री ६ त०। (शम्भलपुर) एकचक्राख्ये पुरे त्रिका०।
शुर = मारणे स्तम्भने च दि० आ० सक० सेट्। शूर्यते अशोरिष्ट।
शुल्क = कथने, सर्जने, वर्जने च चु० उभ० सक० सेट्। शुल्क० यति ते अशुशुल्कत् त।
शुल्क = पु० न० शुल्क्यते अतिसृज्यते कर्मणि घञ्। १ घट्टादिदेये राजकरे मेदि० २ राजग्राह्यकरभेदे अमरः। वरपक्षात् कन्यापक्षीयैः ३ ग्राह्ये धने ४ स्त्रीधनभेदे “भगिनीशुल्कं सोदर्य्याणाम्” इति स्मृतिः। सम्भोगार्थं स्त्रीभ्यः देये ५ घने “अशुल्कोपहृतायास्तु पिण्डदावोढुरेव ते” इति स्मृतिः ६ पणे च।
शुल्कस्थान = न० ६ त०। (घाटि) २ घट्टे भूपानां क्रयविक्रययोग्य द्रव्यकरादानस्थाने।
शुल्ल = न० शुल्व–अच् पृषो०। १ ताम्ने २ रज्जौ च अमरटीका।
शुल्व = माने दाने च चु० उभ० सक० सेट्। शुल्वयति ते अशुशुल्वत् त।
शुल्व = न० शुल्व–अच्। १ ताम्रे २ रज्जौ च अमरः ३ जलसमीपे ४ आचारे ५ यज्ञकार्य्ये च मेदि०।
शुल्वारि = पु० ६ त०। १ गन्धके हेमच० तस्य ताम्रादिजारकत्वात् तथात्वम्।
शुश्रू = स्त्री मातरि “शिशोः शुश्रूषङात् शुश्रूः” भा० शा० अ०
शुश्रूषण = न० श्रु–सन्–ल्युट्। सेवायां शब्दच०। युच्। तत्रैव स्त्री २ श्रवणेच्छायाञ्च।
शुश्रूषा = स्त्री श्रु–सन्–अ। १ श्रवणेच्छायाम् २ उपासने ३ कथने च।
शुष = शोषणे दि० पर० सक० अनिट्। शुष्यति ऌदित् अशुषत्।
शुष = पु० शुष–क। १ गर्त्ते २ बिले च अजयपालः।
शुषि = स्त्री शुष–कि। १ पाषाणे २ विले च मेदि०।
शुषिर = न० शुष–किरच्। १ छिद्रे २ वंश्यादिवाद्ये ३ सच्छिद्रे त्रि० अमरः ४ मूषिके पुंस्त्री० मेदि० स्त्रियां ङीष्। ५ अग्नौ पु० विश्वः। ६ चित्रकवृक्षे ७ नद्यां स्त्री धरणिः। ८ नलीनामगन्धद्रव्ये स्त्री अमरः।
शुष्क = त्रि० शुष + क्त। आतपादिना १ कृतशोषणे। भावे क्त। २ शोषणे न०।
शुष्कपत्त्र = न० शुष्कं पत्त्रमस्य। (नालता) १ शाकभेदे। “शुष्कपत्रं पयोमिश्रं पित्तश्लेष्मज्वराषहम्। तत् शुष्कपत्रं जलदोषनाशनं विशेषतः पित्तकफज्वरापहम्। जलञ्च तस्यापि च पित्तहारकम् सुरोचनं व्यञ्जनयोयकारकम्” राजवल्लभः। कर्म०। २ शुष्के पर्णे न०
शुष्कमांस = न० कर्म०। आतषादिना शुष्कमांसे तद्गुणा भावप्र० उक्ता यथा “त्रिदोषकृत् व्यालजुष्टं शुष्कं शूलकरं गुरु” मांसमित्यनुषङ्गः।
शुष्करेवती = स्त्री मातृकाभेदे “अस्थिभ्यश्च तथा काली सृष्टा पूर्वं महात्मना। तया तद्रुधिरं पीतमन्धकानां महात्मनाम्। सा चास्मिन् कयिता लोके नामतः शुष्करेवती” वह्निपु० १५४ अ०।
शुष्कल = न० शुष्कं शोषणं लाति ला–क। १ शुष्कमांसे। शुष–कलच् किच्च। २ आमिषे उणादि०।
शुष्कवृक्ष = पु० कर्म०। धववृक्षे राजनि०।
शुष्कवेर = न० शुष्कं फलशून्यं वैरम्। उद्देश्यशून्ये कलहे।
शुष्कव्रण = पु० कर्म०। (घ~टा) किणरूपे व्रणे त्रिका०।
शुष्काक्षिपाक = पु० नेत्ररोगभेदे तल्लक्षणं भावप्र० उक्तं यथा “यत् कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाबिलदर्शनं यत्। सुदारुणं यत्प्रतिबोधने च शुष्काक्षिपाकोपहत यदक्षि”। कूणितं सङ्कोचितं सुद्रितमिति यावत्। दारु- णरूक्षवर्त्म दारुणं विकृतं रूक्षं च वर्त्म यस्य तत्। इदमक्ष्णाविशेषणं सन्दह्यते सदाहं भवति। आबिल दर्शनम् आबिलस्य अनच्छस्य दर्शनं वैन तत्। तत्प्रतिबोधने उद्वाटने, सुदारुणम् अतिशयन विकृतम्”।
शुष्काङ्ग = पु० शुष्कमङ्गमस्य। १ धववृक्षे (धगाछ) २ शुष्कावयवयुते त्रि० स्त्रियां ङीष्। सा च ३ गोधिकायां शब्दच०
शुष्कार्द्रक = न० शुष्कमार्द्रकम्। शुण्ठ्यां (शु~ठ) शब्दच०।
शुष्म = न० शुष–मन् किच्च। १ तेजसि मेदि० २ पराक्रमे हेमच०। ३ सूर्य्ये पु० मेदि० ४ अग्नौ त्रिका० ५ चित्रकवृक्षे ६ वायौ ७ पक्षिणि संक्षिप्तसा० ८ अर्चिषि च पु० भरतः।
शुष्मन् = न० शुष–ङ्मनिप्। १ तेजसि जटा०। २ शौर्य्ये हेमच० ३ अग्नौ ४ चित्रकवृक्षे च पु० अमरः।
शूक = पु० न० श्वि–कक् सम्प्र०। (शुङ्गा) १ तीक्ष्णाग्रे अमरः। २ शिखायां ३ दयायां मेदि० ३ सविषजलमलोद्भवे जन्तुभेदे भावप्र० तद्दोषाधिकारेण तज्जातरोगास्तत्र दर्शिता यथा “अथ शूकदीषाधिकारः। तत्र शूकदोषस्व निदानमाह “अक्रमाच्छेफसो वृद्धिं योऽमिवाञ्छति मूढधीः। व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः”। अक्र मात् अनुचितवृद्धिक्रमात्। अनुचिता च वृद्धिः भूरिविकारजनकस्व योगेन शूकजाः शूकोजलशूकः सविषो जलजन्तुविशेषः स तु जलमलोद्भवः अल्पडुण्डुभ इत्यादिकः। तथा शूकप्रधानो लिङ्गवृद्धिकरे वात्स्यायनाद्युक्तो रोगः शूक उच्यत”। शूकदोषा दश चाष्टौ च भवन्ति। तेष्वादौ सर्षपिकामाह “गौरसर्षपसंस्थाना शूकदुर्भगहेतुका। पिडका श्लेष्मवाताभ्यां ज्ञेयासर्षपिका तु सा। शूकदुर्भगहेतुका शूकदुष्टयोनिनिमित्ता च। अथाष्टीलिकामाह “कठिना विषमैर्भुग्नैर्वायुनाष्टीलिका २ भवेत्”। अष्टीला लौहकारस्य भाण्डविशेषः (निहार) इति लोके। तथा कठिनेत्यष्टीलिका विषमैर्भुग्नैरिति वक्ष्यकाणणूकविशेषणम्। विषमैर्ह्रस्वदीर्घैः। भुग्नैः वक्रैः। ग्रथितमाह “शूकैर्यत् पूरितं शश्वद्ग्रथितं २ नाम तद्भवेत्”। यल्लिङ्गं सदा शूकैः पूरितं तद्ग्रथितत्वाद्ग्रथितम्। कुम्भिकामाह “कुम्भिका ४ रक्तपित्तात् स्याज्जाम्बवास्थिनिभा सिता” कुम्भिका कुम्भीफलतुल्यत्वात्। अलजीमाह “अलजी ५ स्यात्तथा यादृक्प्रमेहपिडका तथा। सा च रक्ताऽसिता स्फोटाचिता च कथिता बुधैः”। एषा रक्तपित्तनिमित्ता ज्ञेया। मृदितमाह “मृदितं ६ पीडितं यत्तु संरब्धं वातकोपतः। शूकदोषे जाते पीडितं सद्यत् संरब्धम् सशोथं भवति तल्लिङ्गं मृदितमुच्यते। संमूढपिडकामाह “पाणिभ्यां भृशसंमूढे समूढण्डिका ७ भवेत्”। शूकदोषे जाते पाणिभ्यां मृशसंभूढे पिशिते लिङ्गे”। अत्रापि वातकोपत इत्यनुवर्त्तते। अथावमन्थमाह “दीर्घा वह्व्यश्च पि डका दीर्य्यन्ते मध्यतस्तु याः। सोऽवमन्थः ८ कफासृग्भ्यां वेदना रोमहर्षकृत्”। दीर्घा दीर्घाङ्कराः। पुष्कारकामाह “पिडका पिडकाव्याप्ता पित्तशोणितसम्भवा। पद्मकर्णिकसंस्थाना ९ ज्ञेया पुष्करिकेति सा”। पिडकाव्याप्ता पार्श्वतः क्षुद्रपिडकाव्याप्ता। अतएव पद्मकर्णिकसंस्थाना। स्पर्शहानिमाह “स्पर्शहानिन्तु १० जनयेच्छोणितं शूकदूषितम्” अत्र स्पर्शासहत्वमेव लक्षणम्। उत्तमामाह “मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा च या। एषोत्तमाख्या पिडला ११ शृकाजीर्णसमुद्भवा”। शतपोनकमाह “छिद्रैरणुमुखैर्लिङ्गं चिरं यस्य समंन्ततः। वातशोणितजो व्याधिः विज्ञेयः शतपोनकः १२”। शतपोनकश्चालनी तत्तुल्यत्वाच्छतपोनकः। त्वक्पाकमाह “वातपित्तकृतो ज्ञेयस्त्वक्षाको १३ ज्वरदाहकृत्”। शोणितार्बुदमाह “कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम्। लिङ्गं वास्तुरुजाश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् १४”। वास्तुरुजः स्फोटपिडकाधिष्ठानयेदनाः। अथ मांसार्बुदमाह “मांसदुष्टं विजग्नीयादर्बुदं मांससम्भवम् १५। मांसपाकमाह “शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः। विद्यात्तं मांसपाकन्तु १६ सर्वदोषकृतं भिषक्”। शीर्य्यन्ते गलन्ति। सर्वाश्च वेदनाः वातपित्तकफजाः। अथ विद्रधिमाह “विद्रधिः १७ सन्निपातेन यथोक्तमभिनिर्दिशेत्”। यथोक्तं सान्निपातिकं विद्रधितुल्यं कथयेत्। तिलकालकानाह “कृष्णानि चित्राण्यथ वा शुक्लानि सविषाणि तु। पतन्ति पातयन्त्याशु मेढ्रं निरवशेषतः। कालानि भूत्वा मांसानि शीर्व्यन्ते यस्य देहिनः। सन्निपातसमुत्थांश्च तान् विद्यात्तिलकालकान् १८”। चित्राणि नानावर्णानि। शुक्लानि शुक्लवर्णानि मञ्चाः क्रोशन्तीति वत्। सविषाणि सविषशूकाख्यजन्तुविशेषकृतत्वात्। शीर्व्यन्ते गलन्ति। कृष्णतिलतुल्यत्वात्तिलकालकाः। अथासाध्यमाह “तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः। विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः”।
शूकक = पु० शूकैः जलजन्तुभेदै कायति कै–क। १ प्रावृट्काले २ रसे च मेदि०।
शूककीट = पु० शूकाकाररोमयुक्तः कीटः शा० त० (श्लया- पोका) कीटभेदे अमरः। स हि शूकाभरोमवान्।
शूकधान्य = न० शूकयुक्तं धान्यम् शाक०। यवादौ धान्ये अमरः। “व्रीह्यादिकं यदिह शूकसमन्वितं स्यात् तत् शूकधान्यमथ मुद्गमकुष्ठकादि। शिम्बीनिगूढमिति तत् प्रवदन्ति शिम्बीधान्यं तृणोद्भवमथो तृणधान्यमन्यत्। तत्र त्रिदोषशमनं लघु शूकधान्यं तेजोबलातिशयवीर्य्य विवृद्धिदायि। देशे देशे शूकधान्येषु संख्या ज्ञातुं शक्या नो नरैर्दैवतैर्वा” राजनि०। “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते। परतो वातकृद्रूक्षं प्रायेणाभिनवं गुरु” राजवल्लभः।
शूकपिण्डी = स्त्री शूकस्य पिण्डीव। शूकशिम्ब्यां शब्दच०।
शूकर = पुंस्त्री० शू इत्यव्यक्तं शब्दं करोति कृ–अच् शूक + अस्त्यर्थे र वा। स्वनामख्याते पशौ अमरः स्त्रियां ङीष्।
शूकरकन्द = पु० शूकर इव रामशः कन्दोऽस्य। वाराहीकन्दे राजनि०।
शूकदंष्ट्रक = पु० गुदभ्रंशे क्षुद्ररोगभेदे “सदाहो रक्तपर्य्यन्तस्त्वक्पाकी तीव्रवेदनः। कण्डूमान् ज्वरकारी च स स्वाच्छूकरदंष्ट्रकः” भावप्र० तल्लक्षणमुक्तम्।
शूकरपादिका = स्त्री शूकरस्येव पादाः मूलान्यस्याः कप् अत इत्त्वम्। कोलशिम्ब्यां राजनि०।
शूकराक्रान्ता = स्त्री शूकरेणाक्रम्यते स्म आ + क्रम–क्त ३ त०। वराहक्रान्तायां शब्दच०।
शूकरी = स्त्री शूकर आक्रामकत्वेनास्त्यस्याः अच् गौरा० ङीष्। १ वराहक्रान्तायां शब्दच०। शूकर + जातौ ङीष्। २ तज्जातिस्त्रियाञ्च।
शूकरेष्ट = पु० ६ त०। १ कसेरुनामकन्दे राजनि०। २ वराहप्रियद्रव्ये त्रि०।
शूकवती = स्त्री शूकस्तीक्ष्ण ग्रमस्त्यस्याः भतुप् भस्यवः ङीप्। १ कपिकच्छ्वां शब्दच०। २ शूकयुते त्रि० स्त्रियां ङीप्।
शूकशिम्बा = स्त्री शूकयुक्ता शिम्बा शाक०। कपिकच्छ्वां शब्दच०।
शूकशिम्बि(म्बी) = पु० शूकयुक्ता शिम्बिः शाक० वा ङीप्। कपिकच्छ्वां शब्दच०।
शूका = स्त्री शूकोऽस्त्यस्याः अच्। कपिकच्छ्वां शब्दच०।
शूकापूट्ट = पु० तृणमणिभेदे हारा०।
शूतिपर्ण = पु० श्वि–क्तिच् शूति स्फीतं पर्णं यस्य। आरग्बधे शब्दर०।
शूद्र = पुंस्त्री० शुच–रक् पृषो० चस्य दः दीर्घश्च। १ चतुर्थे वर्णे स्त्रियां टाप्। शूद्रा शूद्रजातिस्त्रियाम्। पुंयोगे ङीष्। शूद्री शूद्रभार्य्यायाम्। शुचा द्रवति द्रु० ड पृषो०। २ शोकहेतुकगतियुक्ते शूद्राधिकरणशब्दे दृश्यम्। अथ शूद्रधर्मादि “विप्राणामर्चनं नित्यं शूद्रधर्मो विधोयते। तद्द्वेषो तद्धनग्राही शूद्रश्चाण्डालतां व्रजेत्। नृध्रः कोटिसहस्राणि शतजन्मानि शूकरः। श्वापदः शतजन्मानि शूद्रो विप्रधनापहा। यः शूद्रो ब्राह्मणीगामो मातृगामी स पातकी। कुम्भीपाके पच्यते स यावद्वै ब्रह्मणः शतम्। कुम्भीपाके तप्ततैके दष्टः सर्पैरहर्निशम्। शब्दञ्च विकृताकारं कुरुते यमताडनात्। ततश्चाण्डालयोनिः स्यात् सप्तजन्मसु पातकी। सप्तजन्मसु सर्पश्च जलौकाः सप्तजन्मसु। जन्मकोटिसहस्रञ्च विष्ठायां जायते कृमिः। योनिक्रिमिः पुंश्चलीनां स भवेत् सप्तजन्मसु। गवां व्रणकृमिः स्याच्च पातकी सप्तजन्मसु। योनौ यौनौ भ्रमत्येवं न पुनर्जायते नरः” ब्रह्मवै० पु० ८३ अ०। “द्विजानां पादशुश्रूषा शूद्रैः कार्य्या सदा त्विह। पादप्रक्षालनं गन्धैर्भोज्यमुच्छिष्टमात्रकम्। ते तु चक्रु स्तदा चैव तेभ्यो भूयः पितामहः। शुश्रूषार्थ मया यूयं तुरीये तु पदे कृताः। द्विजानां क्षात्त्रवर्गाणां वैश्यानाञ्च भवद्विधाः। त्रिभ्यः शुश्रूषणा कार्य्या इत्यवादीद्वचस्तदा” पाद्मे सृ० स्व० १६ अ०। “शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम्। कारुकर्म तथाऽऽजीवः पाकयज्ञोऽपि धर्मतः” गारुडे ४९ अ०। “तथा मद्यस्य पानेन ब्राह्मणीगमनेन च। वेदाक्षरविचारेण शूद्रश्चा० ण्डालतां व्रजेत्” इति शूद्रकमलाकरधृतपराशरवाक्यम्। ब्राह्मणस्य तदन्नभोजननिषेधो यथा “शूद्रान्नं ब्राह्मणोऽश्नन् वै मामं भासार्द्धमेव वा। तद्योनावभिजायेत सत्यमेतद्विदुर्बुधाः। अथोदरस्थशूद्राम्नो मृतः श्वा चैव जायते। द्धादश दश चाष्टौ च गृध्रशूकरपुष्कराः। उदरस्थितशूद्रान्नो ह्यधीयानोऽपि नित्यशः। जुह्वन् वापि जपन् वापि गतिमूर्द्ध्वां न विन्दति। अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम्। वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम्। तस्मात् शूद्रं न भिक्षेयुर्यज्ञार्थं सद्द्विजातयः। श्मशानमिव यच्छूद्रस्तस्मात्तं परिवर्जयेत्। कणानामथ वा भिक्षां कुर्य्याच्चातिविकर्षितः। सच्छूद्राणां गृहे कुर्वन् तत्पापेन न लिप्यते। विशुद्धान्वयसंजातो निवृत्तो सद्यमांसतः। द्विजभक्तो बणिग्वृत्तिः शूद्रः सन् परिकीर्त्तितः” वृहत्पराशरः। शूद्रकृत्यविचारणतत्त्वे मत्स्यपुराणम् “एवं शूद्रोऽपि सामान्यं वृद्धिश्राद्धन्तु सर्वदा। नभरशा रेण गन्त्रेण कुर्य्यादामान्नवद्बुधः। दानप्रधामः शूद्रः स्यादित्याह भगवान् प्रभुः। दानेन सर्वकामाप्तिरस्क संजायते यतः”। ततो दानमेवापेक्षित न तु मोजनमपि। सामान्यं सर्वजनकर्त्तव्यत्वेन प्रतिमासकृष्णपक्षादिविहितश्राद्धम् आभ्युदयिकश्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुर्य्यादित्यन्वयः। नमस्कारेण मन्त्रेण न तु पठितमन्त्रेण। आमान्नवदित्यनेन जलसेकसिद्धान्नव्यावृत्तिः “स्मिन्नमन्नमुदाहृतम्” इति वशिष्ठेन स्यिन्नस्यैवाद्भत्वस्याभिधानात् कन्दुपक्वस्य भ्रष्टत्वं न तु स्विन्नत्वं हारीतेन स्वेदनभर्जनयोः पृथक्त्वमुक्तं यथा “आदीपनताषनस्वेदनभर्जनपचनादिभिः पञ्चमीति”। अस्यार्थः आदीपनं काष्ठानां, तापनं तोयादेः, स्वेदनं धान्यादेर्भर्जनं यवादेः, पचनं तण्डुलादेः इति पञ्चमी सूना इति कल्पतरुः। अतएव स्विन्नधान्येन व्यवह्रियते। “कन्दुपक्वानि तैलेन पायसं दधिसक्तवः। द्विजैरेतानि भोज्यानि शूदूगेहकृतान्यपि” इति कूर्मपुराणवचने शूद्रकर्तृक कन्दुपक्वादेर्ब्राह्मणभक्ष्यत्वेन श्राद्धे देयत्वमुक्तम्। कन्दुपक्वं जलोपसेकं विना केवलपात्रेण यद्वह्निना पक्वम्। पायसं पाकेन काठिन्यविकारापन्नं दुग्धं परमान्नपरत्वे पुंलिङ्गनिर्देशापत्तेः तथा चामरः “परमान्नन्तु पायसः” इति। “दिने त्रयोदशे प्राप्ते पाकेन भोजयेद्घिजान्। अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः” इति श्राद्धचिन्ताभणिधृतवराहपुराणवचनमपि कन्दुपक्वपरम् एवन्तु एतद्वचनं सच्छूद्रपरं मैथिलोक्तं हेयम्। एवम् आममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयम्। तत्र द्गव्यदेवताप्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्याः “अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः। अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” इति वराहपुराणात् अयं श्राद्धेतिकर्त्तव्यताकोविधिः शद्रकर्तृकमन्त्रपाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्धौ यदमन्त्रस्येति पुनर्वचनं तत्स्त्रियाग्रहणार्थं परिभाषार्थञ्च ततश्च तत्कर्मसम्बन्धिमन्त्रेण विप्रस्तदीयकर्मकारयितृब्राह्मणो गृह्यते तेन ब्रह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्य्यं तत्र यजुर्वेदिको मन्त्रः तथा च स्मृतिः “आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः। तस्माच्छूद्रः स्वयं कर्म यजुर्वेदीव कारयेत्”। आर्षक्रमेण श्रुत्युक्तक्रमेण यजुर्वेदिसम्बन्धिगृह्यादिना “चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा। धभशास्त्राणि राजेन्द्र! शृणु तानि गप्रोत्तम!। विशेषतस्तु शूद्राणां पावनामि मनीपिभिः। अष्टादश पुराणानि चरितं राघवस्य च। रामस्य कुरुशार्दूल धर्मकामार्थसिद्धये। तथोक्तं भारतं बीर! पाराशर्य्येण धीमता। वेदार्थं सकलं योज्य धर्मशास्त्राणि च प्रभो!” इति भविष्यपुराणवचनात्तेषां पौराणिकादिबिधिः। योज्य योजयित्वा। अत्र च “श्राद्धं वेदमन्त्रवर्जं शूद्रस्य इति वचने वेदेत्युपादानात् श्राद्धे पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तं तन्न वराहपुराणे शूद्राणां मन्त्रवर्जित इत्यनेन मन्त्रमात्रनिषेधात् मत्स्यपुराणे नमस्कारेण मन्त्रेण इत्युपादानाच्च पौराणिकस्यापि श्राद्धे निषेषः प्रतीयते। एवं स्नानेऽपि “ब्रह्मक्षत्रविशामेव मन्त्रवत् स्नानमिष्यते। तूष्णामेव हि शूद्रस्य सनमस्कारकं मतम्” इत्थनेन नमस्कारविधानात् पञ्चयज्ञेऽपि। “शूद्रस्य द्विजशुश्रूपा तया जीवनवान् भवेत्। शिल्पैवां विविधैर्जीवेत् द्विजातिहितमाचरन्। भार्य्यारतिः शुचिर्भृत्यभर्त्ता श्राद्धक्रियारतः। नमस्कारेण मन्त्रेण पञ्च यज्ञान्न हापयेत्” इति नमस्कारमात्रविधानात् श्राद्धादिषु पौराणिकमन्त्रनिषेधः। ततश्च स्नानश्राद्धतर्पण पञ्चयज्ञेतरत्र शूद्रस्य पौराणिकमन्त्रपाठः प्रतीयते। अत्र “षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति मनुवचनात् “चूडा कार्य्या यथाकुलम्” इति याज्ञवल्क्यवचनाच्च संस्कारमात्रे कुलधर्मानुरोधेन कालान्तरस्य नामविशेषोच्चारणस्याभिधानाच्च शूद्रादीनां नामकरणे वसुघोषादिकपद्धतियुक्तनामकरणस्य च प्रतीतेर्वैदिककर्मणि शूद्राणां पद्धतियुक्तानामाभिधानं क्रियते इति”। शूद्रस्त्वाचमने दैवतीर्थेन ओष्ठे जलं सकृत्क्षिपेत् न पिबेत् तथा च याज्ञवल्क्यः “हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः। शुन्धरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः”। अन्ततो हृदयादिसमीपेन ओष्ठेन उत्तरात्तरमपकर्षात् अतएव स्पृष्टाभिरित्युक्तं न तु भक्षिताभिरिति “स्त्रीशूद्रः शुध्यते नित्यं क्षालनाच्च करोथयोः” इति ब्रह्मपुराणवचनाच्च। याज्ञवल्क्यः “प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्” अत्र द्विजस्यैवाचमने ब्राह्मतीर्थोपादानात् स्त्रीशूद्रयोर्न तेनाचमनम् एवमेव मिताक्षरायां व्यक्तमुक्तं मरीचिना “स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च। सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः” इति। एतदनन्तरम् इन्द्रियादिस्पशनन्तु ब्राह्मणवदेव प्रमाणान्तरन्तु वाजसनेयिसामगश्राद्धाह्निकतत्त्वर्योरनुसन्धेयम्” आ० त० रघु०।
शूद्रकर्म्मन् = न० शूद्रस्य शास्त्रविहितं कर्म। शूद्रकर्त्तव्ये द्विजसेवादौ शूद्रकृत्यादयोऽप्यत्र।
शूद्रप्रिय = पु० ६ त०। पलाण्डौ राजनि०।
शूद्राधिकरण = शूद्रस्य विद्यायामधिकारोऽस्ति नवेति सन्देहे नाधिकार इति निर्णायके शारीरकसूत्रोक्ते अधिकरणभेदे तच्चाधिकरण तत्र दर्शितं यथा “शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि” सू० “यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्त्तयितुम् इदमधिकरणमारभ्यते। तत्र शूद्रस्याप्यधिकारः स्यादिति तावत् प्राप्तम्, अर्थित्वसामर्थ्ययाः सम्भवात्, “तस्माच्छुद्रो यज्ञेऽनवकॢप्तः” इतिवत् शूद्रो विद्यायामनवकॣप्त इति निषेधाश्रवणात्। यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वं न तद्विद्यास्वधिकारस्यापवादकम्। न ह्याहवनीयादिरहितेन विद्या बेदितुं न शक्यते। भवति च लिङ्गं शूद्राधिकारस्योपोद्बोलकं, संवर्गविद्यायां हि जानश्रुतिं पौव्रायणं शुश्रूषुं शूद्रशब्देन परामृशति “अह हारे त्वा शूद्र! तवैव सह गोभिरस्तु” इति। विदूरप्रभृबयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्य्यन्ते। तस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः। न शूद्रस्याधिकारो वेदाध्ययनाभावात्। अधीतवेदा हि विदितवेदार्थो बेदार्थेष्वधिक्रियते, न च शूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य उपनयनस्य च वर्णत्रयविषयत्वात्। यत्त्वर्थित्वं न तदसति सामर्थ्येऽधिकारकारणं भवति। सामर्थ्यमपि न लौकिकं केवलमधिकारकारणं भवति शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात् शास्त्रीयस्य च सामर्थ्यखाध्ययननिराकरणेन निराकृतत्वात्। यच्चेदं शूद्रो यज्ञेऽनवकॢप्त इति तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति न्यायस्य साधारणत्वात्। यत् पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे न तल्लिङ्गम्, न्यायाभावात्। न्यायोक्ते हि लिङ्गदर्शनं द्योतर्क भवति, न चात्र न्यायोऽस्ति कामञ्चायं शूत्रशब्दः संवर्गविद्यायामेषैकस्यां शूद्रमधिकुर्य्यात् तद्विषयत्वात् न सर्वासु विद्यासु, अर्थवादस्थत्वात् न तु क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते। शक्यते चायं शूद्रशब्दोऽधिकृतविषये योजयितुम्। कथमित्युच्यते। “कं वर एवमेतत् सन्तं सयुग्वानमिव रैक्कमात्थेति अस्मार्द्धसवाक्यादात्मनोऽनादर श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे तामृषी रैक्क शूद्रशब्देनानेन सूचयाम्बभूवात्मनः परोक्षज्ञानस्य ख्यापनायेति गम्यते, जातिशूद्रस्यानधिकारात्। कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यते इति, उच्यते, तदा द्रवणाच्छुचमभिदुद्राव शुचा वाभिदुद्रुवे शुचा वा रैक्कमभिदुद्रावेति शूद्रावयवार्थसम्भवात् रूढार्थस्य चासम्भवात्। दृश्यते चायमर्थोऽस्यामाख्यायिकायाम्”।
शूद्रार्त्ता = स्त्री शूद्रेणार्त्ता पीडिता। प्रियङ्गौ शब्दच०।
शूद्रावेदिन् = स्त्री शूद्रां विन्दति विद–णिनि उप०। शूद्रजातिस्त्रिया विवाहकर्त्तरि। “शूद्रायेदी पतत्यत्रेः” मनुः “कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः। शूद्रैव भार्य्या शूद्रस्य सा च खा च विशः स्मृते। ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः” इति मनुना कामतश्चातुर्वर्ण्यविवाहे विहितेऽपि शूद्रावेदीत्यस्याधिकदोषार्थता द्विजातिस्त्रीलाभे शूद्रस्त्रीविवाहनिषेधार्थता च। स च विवाहः युगान्तरविषथः कलौ असवर्णस्त्रीविवाहनिषेधात् कलिशब्दे १८०३ पृ० दृश्यम्।
शूद्रान्न = न० ६ त०। शूद्रस्वामिकान्ने तस्य द्विजैरभक्ष्यर्त्वं यथा हारीतः “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः। स वैखरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति” म० त० धृत वाक्यं शूद्रान्नं शूद्रस्वामिकान्नं रघु०। “आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते” इति तत्पक्वान्नस्य सर्वथा निषेधादत्र अस्मिन्नमेव शूद्रस्वामिकान्नं गृह्यते। तद्दत्तमपि भोजनकाले तद्गृहावस्थितं तदपि शूद्रान्नं तदाहाङ्गिराः “शूदवेश्मनि विप्रेण क्षीरं वा यदि वा दधि। निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्” तेन शूद्रवेश्मस्थितक्षीरदध्यादिकमपि शूद्रान्नं पारिभाषिकमित बोध्यम्। निवृत्तेन शूद्रान्नानिवृत्तेन। तदपीति अपिशब्दात् साक्षाद्दत्तघृततण्डुलादि न तु तद्दत्तकपर्दकादिना क्रीतमपि। स्वगृहागते शूद्रान्ने अङ्गिराः “यथा यतस्ततो ह्यापः शुद्धिं यान्ति नदीं गताः। शूद्राद्विप्रगृहेष्वन्नं प्रविष्टन्तु सदा शुचि” प्रविष्टं स्वत्वापादकप्रतिग्रहादिनेति शेषः। अतएव पराशरः “तावद्भवति शूद्रान्नं यावन्न स्पृशति द्विजः। द्विजातिकरसंस्पृष्टं सर्वं तद्धविरुच्यते”। स्पृशति प्रतिगृह्णातीति कल्पतरुः। तच्च संप्रोक्ष्य ग्राह्यमित्याह विष्णुपु० “संप्रोक्ष्य प्रतिगृह्लीया शूद्रान्नं गृहमागतम्र” तच्च पात्रान्तरे ग्राह्यमि- त्याहाङ्गिराः “स्वपात्रे यत्तु विन्यस्तं शूद्रो यच्छति नित्यशः। पात्रान्तरगतं ग्राह्यं दुग्धं स्वगृहमागतम्”। एतेन स्वगृहमागतस्यैब शुद्धत्वं प्रतीयते ततश्चैतादृगपि मुर्मूषुणा शूद्रान्नं सर्वथा न भोक्तव्यम् प्रागुक्तहारीतवचने तन्निन्दाश्रवणात्” शु० त०। “नाद्यात् शूद्रस्य विप्रोऽन्नं मोहाद्वा यदि वान्यतः। स शूदयोनिं व्रजात यस्तु भुङ्क्ते ह्यनापदि। षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम्। जीवन्नेव भवेत् शूद्रो मृतः श्वा चाभिजायते। ब्राह्मणक्षत्रियविशां शूद्रम्य च मनीषिणः। यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात्” व्यासवाक्यम् “आर्त्विजः कुलमित्रञ्च गोपालो दासनापितौ। एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्। कृषीवलः कुम्भकारः क्षेत्रकर्षक एव च। एते शूद्रेषु भोज्यान्ना दत्त्वा खल्पपणं बुधैः। पायसं स्निग्धपक्वञ्च यावकञ्चैव सक्तवः। पिन्याकञ्चैव तैलञ्च शूद्राद् ग्राह्यं द्विजातिभिः” कूर्मपु० ७ त० भागे १६ अ०। “कन्दुपक्वानि तैलेन पायसं दधिसक्तवः। द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि”। “कुलमित्रादीनां भोज्यान्नता तु कलीतत्परा। शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणाम्। भोज्यान्नता मृहस्थस्य तीर्थसेवाऽतिदूरतः” षराशरेण कलौ वर्ज्यस्योक्तेः शूद्रोऽपि ब्राह्मणद्वारा पक्वान्नेन नैवेद्यं दातुमर्हति वृषोत्सर्गाङ्गचरुपाकादिवत् तत्रापि तस्याधिकार इति ति० त० दुर्गोत्सवप्रकरणे रघुनन्दनेन व्यवस्थापितम् तत्र दृश्यम्।
शूद्रासुत = पु० शूद्रायाः द्विजातिभिः ऊढायाः सुतः। द्विजातिजाते शूद्रजातिस्त्रियाः सुते पुत्रभेदे।
शूना = स्त्री श्वि–अधिकरणे–क्त सम्प्र० दीर्घः। १ प्राणिबधस्थाने हला० “पञ्च शूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः। तद्दोषनिवृत्तये कार्का मनुना पञ्च यज्ञा विहिता यथा “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। हौमो दैवौ वलिर्भोती नृयज्ञाऽतिथिपूजनम्। पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः। स गृहेऽपि वसन्नित्यं शूनादोषैर्न लिप्यते”। (आलजिभ) २ अधोजिह्वायां हारा०।
शून्य = त्रि० शूनायै प्राणिबधाय हितम् रहस्यस्थानत्वात् यत्। १ निर्जनस्थाने मेदि०। २ आकाशे शब्दच०। ३ बिन्दुमात्रे हेमच०। ४ अभावे च अमरः। ५ असम्पूर्णे ६ ऊने ७ तुच्छे च त्रि० अमरः।
शून्यमध्य = पु० शून्यमाकाशो मध्ये यस्य। १ गले राजनि०। २ शून्यमध्ययुक्त त्रि०।
शून्यवादिन् = पु० शून्यमभावमात्रं सर्वकारणतया वदति बद–णिनि। बौद्धभेदे बुद्धशब्दे ४५८१ पृ० दृश्यम्।
शून्या = स्त्री शून्यमस्त्यस्याः अच्। १ नल्यां विश्वः। २ महाकण्टकिन्याम्। (फणिमनसा) राजनि०।
शूर = हिंसे स्तम्भे च दि० आ० सक० सेट्। शूर्य्यते अशूरिष्ट। ईदित् शूर्णः
शूर = विक्रमे अद० चु० उभ० सक० सेट्। शूरयति ते अशुशूरत् त।
शूर = पु० शूर–अच्। १ वीरे विक्रमवति अमरः। २ वसुदेवनामके यादवे मेदि०। ३ सूर्य्ये त्रिका० ४ अर्कवृक्षे ५ सिंहे ६ शूकरे पुंस्त्री० स्त्रियां ङीष्। ७ चित्रकवृक्षे ८ साले ९ निकुचे १० मसूरे च पु० राजनि०।
शूरण = पु० शूर–ल्यु। (ओल) १ मूलभेदे अमरः “शूरणो दीपनो रूक्षः कषायः कण्डुकृत् कटुः। विष्टम्भी बिशदो रुच्यः कफार्शःकृन्तनो लघुः। विशेषादर्शसे पथ्यः प्लोहगुल्नविनाशनः। सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते। दद्रूणां रक्तपित्तानां कुष्ठानां न हितो हि सः। सन्धानयोगसंप्राप्तः शूरणो गुणकृत्तमः” भावप्र०। २ शोणाकवृक्षे च शब्दमाला।
शूरसेन = पु० शूरा सेना यत्र, यस्य वा। १ देशभेदे २ नृपभेदे च।
शूर्प = माने चु० उभ० सक० सेट्। शूर्पयति ते अशुशूर्पत् त।
शूर्प = पु० शूर्प्यते धान्यादिकमनेन शूर्प–घञ्। (कुला) धान्यादिस्फोटके १ वंशमयपात्रे २ द्रोणद्वयपरिमाणे च शब्दच०।
शूर्पकर्ण = पुंस्त्री० शूर्प इव कर्णो यस्य। १ गजे त्रिका०। स्त्रियां ङीष्। २ शूर्पश्रुतिरप्यत्र हारा०।
शूर्पणखा(खी) = स्त्री शूर्प इव नखा अस्याः णत्वम् वा ङीष्। रावणभगिन्यां शब्दमा०।
शूर्पपर्णी = स्त्री शूर्प इव पर्णान्यस्याः ङीप्। शिम्बीभेदे शब्दच०।
शूर्पवात = पु० ६ त०। शूर्पजवायौ फुल्लफाले त्रिका०।
शू(सू)र्म्म = पु० सुष्ठु उर्मिरस्त्यस्याः अच् वा पृषो० सस्य शः। लौहप्रतिमायाम् अमरः।
शू(सू)र्मि(र्मी) = स्त्री सुष्ठु ऊर्मिः यस्याः वा शत्वम् वा ङीप्। लौहादिप्रतिमायां शब्दच०।
शूल = रुजायां भ्वा० पर० अक० सेट्। शूलति अशूलीत्।
शूल = पु० न० शूल–क। १ रोगभेदे २ त्रिशूले च अमरः। ३ व्यथायां ४ मृत्यौ ५ सुतीक्ष्णे अयःफाले धरणिः। ६ चिह्ने मेदि०। ७ मुनिभेदे विष्कम्भादिषु ८ नवमे योगे च पु०। ९ विक्रेतव्ये “अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियो राजन्! भविष्यन् युगक्षये” भा० व० १८८ अ०। अट्टशब्दे ९५ पृ० दृश्यम्। शूलरोगभेद निदानादिकं भावप्र० उक्तं यथा “अथ शूलाधिकारः। तत्र शूलस्य सन्निकृष्टं निदानमाह “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्। सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः (कर्त्ता)”। अथ वातिकस्य विप्रकृष्टं निदानं सम्प्राप्तिपूर्वकं लक्षणञ्चाह “व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्। कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिधातात्। कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः। विट्च्छुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभाषात्। वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वे त्रिकवस्तिदेशे। जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम्। मुहुर्मुहुश्चोपशमप्रकोपौ विण्मूत्रसंस्तम्भनतोदभेदैः। संस्वेदनाभ्यञ्जनमर्दनाद्यैः सिग्धोष्णभोज्यैश्च शमं प्रयाति”। व्यायामो मल्लयुद्धादिः यानं तुरगरथादि मैथुनं स्त्रीसेवा प्रजागरो रात्रौ, एषामतियोगात् शीतलजलप्रभूतपानात् कलायस्त्रिपुटः आढकः तुवरी कोरदूषः कोद्रवः। अतिरूक्षद्रव्यसेवा, अध्यशनं भुक्तस्योपरि मोजनम् अभिधातो लोष्टादिभिः, कषायतिक्तरससेवा विरूढजान्नम् विरूढमङ्कुरितमन्नम् कलायचणकादि तज्जमन्नं भक्ष्यम्। वल्लूरकं शुष्कमांसम्। तस्य शूलस्य देशमाह हृदादिषु तत्र हृच्छूलस्य पृथगपि लक्षणं षठन्ति “कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः। हृदिस्थः कुरुते शूलमुच्छासस्यावरोधकम्। स हृच्छूल इति ख्यातो रसमारुतकोपजः”। अथ पार्श्वर्शूलस्यापि लक्षणमाह “कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्। पार्श्वस्थः पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम्। तेनोच्छसिति वक्त्रेण नरोऽन्नञ्च न काङ्क्षति। निद्राञ्च नाप्नुयादेव पार्श्वशूलः प्रकीर्त्तितः”। वस्तिशूलस्यापि लक्षणमाह “संरोधात् कुपितो वायुर्वस्तिं संश्रित्य तिष्ठति। वस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते। विण्मूत्रवातसंरोधी वस्तिशूलः स उच्यते”। प्रकृतमनुसरति जीर्णे भुक्ते प्रदोषे रात्र्यागमे रात्रि भवशीतेन वातप्रकोपात्। घनागमे वर्षासु मेघोदये च तथैव। पैत्तिकमाह “क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूपैः। कट्वम्लसौवीरसुरावि कारैः क्रोधानलायासरविप्रतापैः। ग्राम्यातियोगादशगैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्। तृणूमोह दाहार्त्तिकरं हि नाभ्यां संस्वेदमूर्च्छाभ्रमशोषयुक्तम्। मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जलटात्यये च। शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरति भोजनैश्च”। निष्पावो राजमाषः। सौवीरं सन्धानभेदः। सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरा मता”। तस्या विकारैः। रविप्रतापः आतपः। ग्राम्यातियोगो मैथुनाधिक्यम्। विदाहीत्युक्त्वापि अशनैर्विदग्धैरिति वोधयति अविदाहिवस्तुनोऽप्रि पित्तवशाद्दिदाहित्वं भवति। जलदात्यये शरदि। शीतैर्वातादिभिः। श्लैष्मिकमाह “आनूपबारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः। अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम्। हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः। भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रम् सूर्य्योदयेऽथ शिशिरे कुसुमागमे च”। आनूपं बहुलजलदेशजं भक्ष्यम्। वारिजं शालूकादि “पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्चिका। तक्रेण तक्रकूर्चीस्यात्तयोः पिण्डः किलाटकः”। पयोविकारः पायसादिः पिष्टं माषादिः। अन्यैः गुर्वादिभिः। स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोपं शिरश्च तयोर्गुरुत्वैः सह। सूर्य्योदय इति त्रिधा विभक्तदिवस प्रथमभागस्योपलक्षणम्। शिशिरे तत्र कफस्यातिसञ्चयात्। कुसुमागमे वसन्ते। द्वन्द्वजमाह “द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम्। सर्वेषु देशेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम्। सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः”। सर्वेघु देशेषु हृत्पृष्ठपार्श्वत्रिकवस्तिनाभ्यामाशयेषु। सर्व भवं त्रिदोषजम्। आमजमाह “आटोपहृल्लासवमी गुरुत्वस्तैमित्यमानाहकफप्रसेकैः। कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति”। अत्रामशूले जाते पश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम्। म च प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्दोषैर्वस्तिनाभिहृत्पार्श्वकुक्षिषु भवति यथा दोषसम्बन्धः। आमशूलस्य दोषविशेषेण देशविशेषमाह “वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्। हृत्पार्श्वकुक्षौ कफसन्निविष्टं सर्वेषु देशेषु च सन्निपातात्”। हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ। कफसन्निविष्टं कफनाविष्टम् “वस्तौ हृत्कटिपार्श्वेषु स शूलः कफवातिकः ४ कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः ५। दाहज्वरकरा घारो विज्ञेयो वातपै त्तिकः”। तन्त्रान्तरोक्तमामशूलमाह “अतिमात्रं यदा भुक्तं पावके मृदुताङ्गते। स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति। यदान्नं न गतं प्राकं तच्छूलं कुरुते भृशम्। मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशं स विलम्बिकम्। कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि। अविपाकोद्भवं शूलमेतमाहुर्मनीषिणः” अविपाकोद्भवम् आमोद्भवमित्यर्थः। अथ श्लस्योपद्रवानाह “बेदनाति तृषा मूर्च्छा आनाहो गौरवारुची। कासः श्वासो वमिर्हिक्का शूलस्योपद्रवाः स्मृताः”। अथासाध्यत्वादिकमाह “एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विद्रोषजः। सर्वदोषान्वितो घोरस्त्वसाध्यो भूर्य्युपद्रवः”। अथारिष्टमाह “वेदनातितृषा मूर्च्छा आनाहो गौरवं ज्वरः। भ्वमोऽरुत्तिः कृशत्वञ्च बलहानिस्तथैव च। उपद्रवा दशैवेते यस्य शूलेषु, नास्ति सः”। अथ शूलस्यैव भेदं परिमाणमाह “स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा। कफपित्ते समावृत्य शूलाकारो भवेद्बली। भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम्”। स्वैर्निदानैरित्याद्रिना निदानपूर्विका संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम्। समावृत्य व्याप्य। तस्य लक्षणमप्येतत् समासेनाभिधीयते। “आघ्मानाटोपविण्मूत्रविबन्धारतिवेपनैः। स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेत् भिषक्। तृष्णादाहारतिस्वेदकद्वम्ललवणोत्तरम्। शूलं शीतशमप्रायं पैत्तिकं लक्षयेत् बुधः। छर्द्दिहृल्लाससम्मोह स्वल्परुक् दीर्घसन्तति। कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम्। संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्। त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्”। अथान्न द्रवनामानं शूलविशेषमाह “जीर्णे जीर्य्यति चाप्यन्ने यच्छूलमुपजायते। पथ्याप्रथ्यप्रयोगेण भोजनाभोजनेन वा। न शमं याति नियमात्सोऽन्नद्रव उदाहृतः। नेदं शूलमसाध्यं चिकित्साभिधानात्”। अथ शूले पथ्यापथ्ये भावप्र० दर्शिते यथा “कलाययवगोधूमाः श्यामाकाः कोरदूषकाः। राजमाषाश्च कुलत्थाः कङ्गुशालयः। दधिलुप्तरसं क्षीरं सर्पिर्गव्यं समाहिषम्। वास्तुकं कारवल्ली च कर्कोटक फलानि च। वर्हिणो हरिणामत्स्या रोहिताद्याः कपिञ्जलाः। एतस्यिन्नामये शस्तामतामुनिचिकित्सकः दधिलुप्तरसं दध्ना लुप्तः कृतो रसो यस्य तत्क्षीरं दधियुक्तं क्षीरभित्यर्थः। “व्यायामं मैथुनं मद्यं लवणं कटुकं रसम्। वेगरोधं शुच क्रोकं विदलं शूलवान् त्यजेत्”। स च उपपातकचिह्नं यथोक्तं शाता० कर्मवि०
“जलोदरयकृत्प्लोहशूलरोगव्रणानि च। श्वासाजीर्णज्वरच्छर्दिभ्रममोहगलग्रहाः। रक्तार्बुदविसर्पाद्या उपपापापोद्भवा गदाः”।
शूलक = पुंस्त्री० शूल + संज्ञावां कन्। १ दुर्विभाग्ये हेमच०। स्त्रियां ङीष्। स्वार्थे क। २ शूलशब्दार्थे।
शूलग्रन्थि = पु० शूलाकारः ग्रन्थिरस्य। मालादूर्वायां राजनि०
शूलघातन = न० शूलं रोगभेदं घातयति हन–णिच्–ल्यु। मण्डूरे शब्दच०।
शूलघ्न = पु० शूलं हन्ति हन–क। तुम्बुरवृक्षे रत्नमा०।
शूलद्विष = पु० ६ त०। हिङ्गौ रत्नमाला।
शूलधन्वन् = पु० शूलं धनुरायुधमस्य अनङ् समा०। शिवे शब्दच०।
शूलधर = पु० शूलं धारयति धारि–अच् ह्रस्वः। शिवे शब्दच०। भृ–क्विप्। शूलभृदप्यत्र।
शूलधारिन् = पु० शूलं धरति धृ–णिनि। १ शिवे १ दुर्गायां स्त्री ङीप् शब्दच०।
शूलधृष् = पु० शूलेन धर्षति दैत्यान् धृष–क्विप्। १ शिवे २ दुर्गायां स्त्री। धृज–क्विन्। शूलधृज् तत्रार्थे।
शूलनाशन = न० शूलं नाशयति नश–णिच्–ल्यु। सौवर्चलवणे हेमच०।
शूलपत्त्री = स्त्री शूलमिव पत्त्रं यस्याः ङीप्। शूलीतृणे राजनि०।
शूलपाणि = पु० शूलं पाणौ यस्य। शिवे शूलहस्तादयोऽप्यत्र।
शूलशत्रु = पु० शूलस्य रोगस्य शत्रुः। एरण्डवृक्षे शब्दच०।
शूलहन्त्री = स्त्री शूलं रोगं हन्ति हन–तृच् ङीप्। यवान्यां राजनि०।
शूलहृत् = पु० शूलं रोगं हरति हृ–क्विप्। हिङ्गुलि त्रिका०।
शूला = स्त्री शूलं तदाकारोऽस्त्यस्य शूलं स्वयौवनविक्रेयतयाऽस्त्यस्या वा अच्। १ दुष्टबधार्थकीलके २ वेश्यायाञ्च त्रिका०।
शूलाकृत = त्रि० शूलेन विद्धा कृतं पक्वम् शूल + डाच् + कृक्त। लौहादिकीलकेन विद्धा पक्वे मांसे (कावाव) अमरः
शूलिक = त्रि० शूलं पाकसाधनत्वेनास्त्यस्य ठन्। १ शूलाकृते शब्दच० २ शशके हेमच० ३ शूलयुते त्रि०।
शूलिन् = पु० शूलमस्त्यस्य इनि। १ शूलरोगयुक्ते २ शूलास्त्र धारके त्रि० ३ शिवे पु० ४ शशके भावप्र०।
शूलिन् = पु० शूलं तदाकार फलमस्त्यस्य इनन्। भाण्डीरवृक्षे शब्दच०।
शूली = स्त्री शूलं पत्त्राकारे अस्त्यस्य अच् गौरा० ङीष्। शूलाकारपत्त्रयुते स्वनामख्याते तृणभेदे राजनि०।
शूलोत्खा = स्त्री शूलं रोगभेदमुत्खनति उद् + खन–ड। सामराज्यां शब्दच०।
शूल्य = त्रि० शूले संस्कृतं यत्। शूलाकृते मांसे भावप्र० कृतान्नशब्दे तत्पाकादि २१८३ पृ० दृश्यम्।
शूष = प्रसवे भ्वा० पर० सक० सेट्। शूषति अशूषीत्।
***