शि = तेजने भ्वा० उभ० सक० अनिट्। शिनोति शिनुते अशैषीत् अशेष्ट।

शिंशपा = स्त्री शिवं पाति पा–क पृषो०। (शिशु) वृक्षे अमरः “शिंशपा कटुका तिक्ता कषाया शोमकारिणी। उष्णवीयां हरेन्मेदःकुष्ठचित्रयमिक्रमीन्। वस्तिज्याव्रणदाहास्नबलासगभैपातिनी” भावप्र०।

शिक्कु = त्रि० शिच्–कु कस्य नेत्त्वम्। अध्यवसायिनि त्रिका०।

शि(सि)क्थ = न० शिच–थक् कुक् च पृषो० सस्य शोवा। (मोम) मधूच्छिष्टे अमरः। स्वार्थे क। तत्रैव।

शिक्य = न० शि–यत् कुक् च। (सिका) रज्जुकृते पदार्थे शब्दर०

शिक्यित = त्रि० शिक्यं शिक्यस्थं करोति शिक्य + णिच्कर्मणि क्त। शिक्याधारे स्थापिते पदार्थे।

शिक्ष = अभ्यासे भ्वा० आ० सक० सेट्। शिक्षते अशिक्षिष्ट।

शिक्षा = स्त्री शिक्ष–भावे अ। १ अभ्यासे २ वर्णानामुच्चारणप्रदर्शके वेदाङ्गे ३ ग्रन्थभेदे अमरः। ४ श्योनाकवृक्षे शब्दच०। “वर्णस्वराद्युच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा तथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति। शिक्षां व्याख्यास्यामः। वर्णः स्वरः मात्रा बलं साम सन्तान इत्युक्तं शिक्षाध्याय इति” ऋ० भा०। “अथ शिक्षां प्रवक्ष्यामि पाणिनीयमतं यथा। शास्त्रानुपूर्वं तद्विद्याद् यथोक्तं लोकवेदयोः। प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः। पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम्। त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः। प्राकृते सस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा। स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारो विसर्गश्च + कु~पौ चापि पराश्रितौ। दुःष्पृष्टश्चेति विज्ञेय ऌकारः प्लुत एव च। आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। मारुतस्तूरसि चरन्मन्त्रं जनयति स्वरम्। प्रातःसवनयोगन्तं छन्दोगायत्रभाश्रितम्। कण्ठे माध्यन्दिनयुतं मध्यमं त्रैष्टुभानुगम्। तारं तार्त्तीयसवनं शीर्षण्यं जागतानुगम्। सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः। वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः। स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः। इति वर्णविदः प्राहुर्निपुणास्तं निबोधत। उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः। ह्रस्वो दीर्घः प्लत इति कालतो नियमा अचि। उदात्ते निषादगान्धारावनुदात्ते ऋषभ धैवतौ। स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः। अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु च। ओभावश्च विवृत्तश्च स–ष–सारेफ एव च। जिह्वामूलमुपाध्मानं गतिरष्टविधोष्मणः। यद्योभागप्रसन्धानमुकारादि परं पदम्। खरान्तं तादृशं विद्याद् यदन्यद्व्यक्तमूष्मणः। हकारं पञ्चमैर्युक्तभन्तःस्थाभिश्च संयुतम्। औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्या ऋटुरषा–दन्त्या ऌ–तु–ल–साः स्मृताः। जिह्वामूले तु कुः प्रोक्तो दन्त्यौष्ठ्यो वः स्मृतो बुधैः। एऐ तु कण्ठतालव्यावोऔ कण्ठौष्ठजौ स्मृतौ। अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्। ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम्। संवृतं मात्रकं ज्ञेयं बिवृतन्तु द्विमात्रकम्। घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः। स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्। तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च। अनुखारयमानाञ्च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः। अलावुवीणानिर्घोषो दन्त्यमूलस्तराननु। अनुस्वारस्तु कर्त्तव्यो नित्यं ह्रोः शषसेषु च। अनुस्वारो विवृत्यस्तु विरामे चाक्षरद्वये। द्विरोष्ठ्यौ तु विगृह्णीयाद् यत्रैकारवकारयोः। व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत्। भीतापतनभेदाभ्यां तद्वत् वर्णान् प्रयोजयेत्”। “अचोऽस्पष्टायणस्त्वीषन्नेमस्पृष्टाः शलस्तथा। शेषाः स्पृष्टाहलः प्रोक्ता निबोधानुप्रदानतः। यमोऽनुनासिका न ह्रौ नादिनो हऋषः स्मृताः”। “ईषन्नादाय नञ्जश्च श्वासिनश्च कफादयः। ईषच्छ्वासांश्चरो बिद्यात् गोर्द्धामैतत् प्रचक्षते। दाक्षीपुत्रपाणिनिना येनेदं व्यापितं भुवि। छन्दःपादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमु च्यते। शिक्षा घ्राणन्तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमंधोव्यैव ब्रह्मलोके महीयते”। “मन्त्रोहीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वाग्वज्रं यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपरा धात्। “अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम्। अक्षता शस्त्ररूपेण वज्रं पतति मस्तके। हस्तहीनन्तु योऽधीते स्वरवर्णविवर्जितम्। ऋग्यजुःसामभिर्द्दग्धो वियोनिमधिगच्छति” पाणिनिशिक्षा। नारदशिक्षा व्यासशिक्षादयो ग्रन्याः सन्ति विस्तरभयान्नोक्ताः।

शिक्षाकर = पु० शिक्षां करोति कृ–अच्। १ व्यासे शब्दमा० २ शिस्यशिक्षाकर्त्तरि।

शिक्षागुरु = पु० विद्यादातरि।

शिक्षित = त्रि० शिक्षा जाताऽस्य तार० इतच् शिक्ष–क्त वा। १ कृताभ्यासे २ निपुणे ३ विज्ञे च अमरः।

शिक्षिताक्षस = पु० शिक्षितान्यक्षराणि येन। १ छात्रे २ शिक्षादातरि गुरौ च त्रिका०।

शिख = गतौ भ्वा० पर० सक० सेट् इदित्। शिङ्खति अशिङ्खीत्।

शिखण्ड = पु० शिखाममति अम–ड तस्य नेत्त्वम्, ६ त०। शक० वा। १ मयूरपिच्छे अमरः। २ चूडायाञ्च मेदि०।

शिखण्डक = पु० शिखण्ड इव कन्। १ काकपक्षे अमरः। (काणजुल्पी) स्त्रीत्वमपि तत्र। सा च २ चूडायाञ्च हेमच०।

शिखण्डिक = पुंस्त्री० शिखण्डोऽस्त्यस्य ठन्। कुक्कटे हेमच० स्त्रियां ङीष्।

शिखण्डिन् = पु० शिखण्डोऽस्त्यस्य इनि। १ मयूरे २ द्रुपदराजस्य पुत्रभेदे मेदि०। ३ मयूरपुच्छे ४ कुक्कटे ५ वाणे च हेमच०। ६ द्रुञ्जायां ७ स्वर्णयथिकायां राजनि०। ८ विष्णौ विष्णु स० ९ यूथिकायां स्त्री ङीप् मेदि०।

शिखर = न० शिखा अस्त्यस्य अरच् आलोपः। १ पर्वताग्रे २ अन्तमात्रे च। ३ वृक्षाग्रे पु० न० अमरः। ४ पुलके ५ शुष्कतृणादौ पक्वदाडिमवीक्षाभे ६ रत्नभेदे ७ सकलाग्रे मेदि०। ८ कोटौ त्रिका०। ९ मूर्वायां स्त्री शब्दच०।

शिखरवासिन् = त्रि० शिखरे धसति बस–णिमि ७ त०। शर्वताग्नवासिनि स्त्रियां ङीप्। “देवी शिखरवासिनी” उद्भटः सा च हिमाचलवासिय्यां २ दुर्गायां त्रिका०।

शिखरिन् = पु० शिखाऽस्त्यस्य इनि। १ पर्वते २ वृक्षे ३ अपामार्मे मेदि० ४ कोट्टे ५ कोयष्टौ हेमच०। ६ वन्दाके ७ कुन्दुरुके ८ याववाले ९ कर्कटशृङ्ग्यां राजनि०। रसालायां खाद्यभेदे स्त्री। ११ सप्तदशाक्षरपादके छन्दीभेदे स्त्री “रसैरुद्रैश्छिन्ना यमननभला गः शिखरिणी” वृ० र० १२ मल्लिकायां १३ रोमावल्यां १४ नारीरत्ने च स्त्री मेदि० सर्वत्र ङीप्।

शिखलोहित = पु० शिखास्त्यश्च अच् तथामूतः सन् लोहितः। (कुकुरमुडा) क्षुपयेदे रत्नमा०।

शिखा = स्त्री शी–खक् तस्य नेत्त्वम् पृषो०। १ अग्निज्वालायां २ मस्तकमध्यकेशपुञ्जे च अमरः। “मुण्डयेत् सर्व गात्राणि कक्षोपस्थशिखां बहिः” प्रा० त०। ३ शाखाथां ४ बहिचूडायां ५ काङ्गलिक्याम् ६ अग्रमात्रे ७ चूडामात्रे ८ प्रपदे च मेदि०। ९ प्रधाने शिक्षायां १० घृणौ हेमच०। ११ स्मरज्वरे शब्दच०। “शिखी तिलकी कर्म कुर्य्यात् ज्रुत्या शिखावत एव कर्मण्यधिकारः तत्रापि बद्धशिखस्य कभण्यधिकारः न मुक्तशिवस्य यथोक्तं गायत्र्या तु शिखां बद्ध्वा मैर्कृत्यां ल{??}रब्धतः। जूटिकात ततो {??} ततः कर्म समा- रभेत्”। “निबद्धशिस्य आसीनो द्विज आसमनं चरेत्। कृत्वोपवीतं सव्येऽसे वाङ्मनःकायसंयतः”। मुक्तशिखस्याचमने दोषो यथा “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽषि वा। अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् आ० त०।

शिखाकन्द = न० शिखेव कन्दोऽस्य। गृञ्जने राजनि०।

शिखातरु = पु० शिखाया दीपशिखायास्तरुरिव। दीपवृक्षे (देलको) त्रिका०।

शिखाधर = पुंस्त्री० शिखां चूडां धरति धृ–अच्। १ मयूरे रत्नमा० स्त्रियां ङीष्। २ शिखाधारके त्रि० स्त्रियां टाप्। ३ मञ्जुधोषे पु० त्रिका०।

शिखामूल = न० शिखेव मलमस्य। गृञ्जले (गा~जर) राजनि०

शिखालु = पु० शिखास्त्यस्य आलुच्। मयूरशिखावृक्षे राजनि०

शिखावत् = पु० शिखा ज्वालाऽस्त्यस्य मतुप् मस्य वः। १ वह्नौ २ चित्रकवृक्षे च अमरः। ३ केतुग्रहे शब्दच०। ४ शिखायुते त्रि० स्त्रियां ङीप्। सा च ५ मूर्वायां शब्दच०

शिखावर = पु० शिखां वृणोति वृ–अच्। पनसवृक्षे शब्दच०

शिखावल = पुंस्त्री० शिखास्त्यस्य वलच्। १ मयूरे अमरः। स्त्रियां ङीष्। २ मयूरशिखावृक्षे स्त्री राजनि० टाप्।

शिखावृद्धि = स्त्री प्रतिदिनग्राह्यवृद्धौ वृद्धिशब्दे दृश्यम्।

शिखिकण्ट = न० शिखिनो मयूरस्य कण्ठस्तद्वर्णोऽस्त्यस्य अर्श आद्यच्। तुत्थे (तु~ते) रत्नम्भ०।

शिखिग्रीव = पु० शिखिनो मयूरस्य ग्रीवा तद्वर्णोऽस्त्यस्य अच्। तुत्थे (तु~ते) अमरः।

शिखिध्वज = शिखिनो वह्नेर्ध्वज इव। १ धूमे त्रिका०। शिखी मयूरोध्वजो यस्य। २ कार्त्तिकेये शब्दच०।

शिखिन् = पु० शिखा अस्त्यस्य इनि। १ मयूरे २ वह्नौ ३ चित्रकवृक्षे अमरः। ४ केतुग्रहे ५ कुक्कुटे ६ वृक्षे ७ वृषे ८ शरे च मेदि०। ९ अश्वे हेमच० १० अजलोम्नि रत्नमा० ११ पर्वते १२ ब्राह्मणे १३ सितावरे १४ मेथिकायां राजनि० १५ शि खायुक्ते त्रि० १६ मयूरशिखावृक्षे राजनि० स्त्री ङीप्।

शिखिप्रिय = पु० शिखिनं प्रीणयति प्री–क। लघुयदरे राजनि०।

शिखिमण्डल = पु० शिखिनां मण्डलमिव यत्र। वरुणवृक्षे शब्दर०।

शिखिमोदा = स्त्री शिखिनः अजलोम्र इव मोदो यस्याः। अजमोदायां राजनि०।

शिखियूप = पु० शिखी शिखावान् यूप इव। श्रीकारिणि मृगे राजनि०।

शिखिवर्द्धक = पु० शिखिनं वर्द्धयति वृध–णिच्–ण्वुल्। कुष्माण्डे शब्दर०

शिखिवाहन = पु० शिखो लयूरो वाहन यस्य। कार्त्तिकेये अमरः।

शिखिव्रत = न० “प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः। वैश्वानरपटं याति शिखिव्रतमिदं स्मृतम्” गरुपु० १२९ अ० उक्ते वह्निपददायके व्रतभेदे।

शिग्रु = पु शि–रुक् गुक् च। (सजिना) १ वृक्षे २ शाकमात्रे च अमरः। “शोभाञ्जनो बीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः। मुखषोदः कृष्णशिग्रुश्चक्षुष्यो रुचिराञ्जनः। शोभाञ्जनस्तीक्ष्णकटुः स्वादष्णः पिच्छिलस्तथा। जन्तुवातार्त्तिशूलघ्न श्चक्षुष्यो रोचनः परः। श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः। ससूलः श्वेतमरिचो रोचनो मघुशिग्रुकः। श्वेतशिग्रुः कटुस्तीक्ष्णः शोकाबिलनिकृन्तनः। अङ्गव्यथाहरा रुच्यो दीपनो मुखजाड्यनुत्। रक्तको रक्तशिग्रुः खान्मघुरो बहुलच्छदः। सुगन्धि केशरी सिंहो मृगारिश्च प्रकीर्त्तितः। रक्तशिग्रुमहावीर्य्यो मधुरश्च रसायनः। शोफाध्मानसमीरार्त्तिपित्तश्लेष्माप हारकः” रालनि०।

शिग्रुज = न० शिग्रुतो जायते जन ड। श्वेतमरिचेशोभाञ्जनवीजे अमरः ६ त०। शिग्रुवीजमप्यत्र शब्दच०।

शिघ = आघ्नाणे भ्वा० पर० पक० सेट् इदित्। शिङ्घति अशिङ्घीत्।

शिङ्घाण = न० शिघि–आनच पृषो० णत्वम्। १ काचपात्रे २ लाहमले ३ नासिकामले श्लेष्मणि च मेदि०। स्वार्थे क। नासिकामले म०।

शिज = अस्फुटध्वनौ इदित् वा चु० उभ पक्षे अदा० आत्म अक० सेट्। शिञ्जयति ते शिङ्क्ते अशिशिञ्जत् त अशिञ्जिष्ट। भ्वादिरप्ययं पर० इत्येके तेन शिञ्जति अशिञ्जीत्

शिञ्जा = स्त्री शिजि–भावे अ। १ भूषणशब्दे शब्दर०। शिजिअच्। २ धनुर्गुणे हेमच०।

शिञ्जित = न० शिजि–भावे क्त। भूषणध्वनौ अमरः।

शिञ्जिनी = स्त्री शिञ्जति शिजि–णिनि। धनुर्गुणे अमरः। २ नूपुरे हेमच०।

शिट = अनादरे भ्वा०पर० सक० सेट्। शेटति अशेटीत्।

शिण्डाकी = स्त्री खाद्यद्रव्यभेदे यथा “शिण्डाकी राजिलायुक्तैः स्यान्मूलकदलद्रवैः। सर्वपस्वरसैर्वापि शालिपिष्टकसंयुतैः। शिण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता” राजनि०।

शित = त्रि० शो–क्त। १ दुर्बले २ शाकिते च मेदि० ३ कृशे विश्वः

शितद्रु = पु० शतं द्रवति द्रु–कु–नि०। (शतलुज) नदीभेदे अमरः।

शितशूक = पु० शितस्तीक्ष्णः शूकोऽग्रं यस्य। १ यवे अमरः। २ गोधूमे त्रिका०।

शिति = पु० शि–क्तिच्। १ भुजपत्त्रवृक्षे २ शुक्लवर्णे ३ कृष्णवर्णे च मेदि० ४ तद्वर्णवति त्रि०। ५ सारे पु स्त्री० शब्दर०।

शितिकण्ठ = पु० शितिः नोलः कण्ठो यस्य। १ शिवे अमरः २ दात्यूहविहगे पुंस्त्री० त्रिका० स्त्रियां ङीष्।

शितिचार = पु० शितिः सन् चरति चर–संज्ञायां कर्त्तरि घञ्। (सुषनि) शाकभेदे जटा०।

शितिच्छद = पु० शितिः शुभ्रः छदो यस्य। हंसे शब्दर०।

शितिसारक = पु० शितिः शुभ्रः सारो यस्य कप्। तिन्दुकवृक्षे राजनि०।

शिथिल = त्रि० श्लथ–किलच् पृषो०। १ श्लथे २ अदृढे संयोगभेदे ३ मन्दे च शिथिलसंयोगश्च प्रचयः। “प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते” भाषा० “भूयोऽवयवावच्छेदेत्रावयवान्तरसंयोगिन्यवयवे वर्त्तमानः संयोगः प्रचयः” इति दीनकरी यथा तूलकादौ।

शिनि = पु० शि–निक्। यदुवंश्ये क्षत्रियभेदे यस्य सात्यकिर्नप्ता

शिपि = पु० शी–क्विप् तां पाति पा–कि पृषो० ह्रस्वः। १ रश्मौ २ जले न० “शैत्यात् शयनयोगाच्च शिपि वारि प्रचक्षते। तत् पानाद्रक्षणाच्चैव शिपयो रश्मयो मता। तेषु प्रवेशात् विश्वेशः शिपिविष्ट इहोच्यते” व्यासः।

शिपिविष्ट = पु० ७ त०। १ खलतौ २ दुश्चर्मणि च ३ महेश्वरे अमरः। ४ विष्णौ शिपिशब्दे दृश्यम्। “नेकरूपो वृहद्रूपः शिपिविष्ट प्रकाशनः” विष्णुस०। पृषो० शिषविष्ट तत्रार्थे रमानाथः।

शिप्र = पु० शि–रक् पुक् च। १ सरोवरभेदे २ पदीभेदे स्त्री। “एवं विवाह्य विधिवत् सौवर्णे मानसाचले। अरुन्थतीं वशिष्ठस्तु मोदमाप तया सह। तत्र यत् पतितं तोयं मानसाचलकन्दरे विवाहावभृतार्थाय शान्त्यर्थं वसुधातले। ब्रह्मविष्णुमहादेवपाणिभिः समुदीरितम्। तत्तीय सप्तधा भूत्वा पतितं मानसाचयात्। हिमाद्रेः कन्दर सानौ सरस्याञ्च पृथक् पृथक्। ततीयं पतित शिप्रे देवभोग्ये सरोवरे। तेन शिप्रा नदी जाता विष्णुना प्रेरिता कितिम्” कालिखा० २३ अ०। “ततो हिमवतः प्रस्थे प्रतीच्यां तत्पुरस्य च। शिप्रं नाम सरः पूर्णं ददृशुर्द्रुहिणादयः। तद्रहः स्थानमामाद्य ब्रह्मशकादय सराः। उपविष्टः यथान्याकं सुरस्कृत्य महेश्वरम्। तं शिप्रसंज्ञकासारं मनोज्ञं सवदेहिनाम्। शोतामलजल सर्वैर्गुणैर्मानससाम्सतम्। दृष्ट्वा क्षण हरस्तस्मिन् सौत्सुक्योऽभूदवेक्षणे। शिप्रां नाम नदीं तस्मान्निःसृता दक्षिणोदधिम्। गच्छन्तीञ्च ददर्शासौ पावयन्तीं जगज्जनान्”। तत्रैव १९ अ०।

शिफा = स्त्री शि–फक्। वृक्षाणां १ जटाकारे मूले। (शिफड) अमरः। २ नद्यां ३ मांसिकायां ४ मातरि मेदि०। ५ शतपुष्पायां ६ हरिद्रायां राजनि०। ७ पद्मकन्दे मुकुटः। जाटाकारे मूले पु० विद्याविनोदः।

शिफाक = पु० शिफेव इवार्थे कन् पद्ममूले शब्दच०।

शिफाकन्द = पु० शिफेव कन्दः। पद्ममूले अमरः।

शिफाधर = पु० शिफा अधरा यस्मात् १ शाम्लायां शब्दच०।

शिफारुह = पु० शिफायां रोहति रुह–क। वटवृक्षे राजनि०

शिमुडी = स्त्री (चङ्गोनि) ख्याते क्षुपभेदे राजनि०।

शि(सि)म्बा = स्त्री शाम्यति समति वा शम–सम–वा वा० डम्बच् पृषो०। (छिनी) ख्याते १ पदार्थे शब्दच०। २ चक्रमर्दे पु० शब्दच०।

शि(म्बि)म्बी = स्त्री शम–बि नि० वा ङीप्। १ शिम्बायां (शिम) लतायां हेमच० “महापाषकरी शिम्बी” ति० त० २ एरकायाञ्च भावप्र०। स्वार्थे क। तत्रैव।

शिम्बीधान्य = न० शिम्बीजातं धान्यं शा० त०। मुद्गादौ धान्यभेदे भावघ्र०।

शिम्बीपर्णी = स्त्री शिम्बीव पर्णमस्याः ङीप्। मुद्गपर्ण्यां शब्दर० कप् तत्रैव।

शिर = न० शॄ–क। १ मस्तके जटा० “पिण्डं दद्यात् गयाशिरे” वायुपु०। २ पिप्पलीमूले मेदि०। ३ शय्यायाम् ४ अजगरे च संक्षिप्तसा०।

शिरःफल = पु० शिर इव फलमस्य। नारिकेले त्रिका०।

शिरःशूल = न० शिरसः शूलमिव तापकत्वात्। शूलरोगभेदे गारुडे

शिरज = पु० शिरे जायते जन–ड। केशे शब्दच०।

शिरस् = न० शॄ–असुन् नि०। १ मस्तके २ शिखरे अमरः। ३ प्रधाने ४ सेनाग्रे मेदि०।

शिरसिज = पु० शिरसि जायते जन ड वा अलुक् समासः। केशे जटाघ० लुकि शिरोजोऽप्यत्र।

शिरसिरुह = पु० शिरसि रोहति रुह–क वा अलुक् समा०। केशे शब्दच०।

शिरस्क = न० शिरसि कायति प्रकाशते कै–क। शिरस्त्राणे हेमच०

शिरस्त्र = न० शिरस्त्रायते त्रै–क। शिरोरक्षके उष्णीषे अमरः

शिरस्त्राण = न० शिरस्त्रायते अनेन त्रै–करणे ल्युट्। शिरोरक्षण उष्णीषे हेमच०।

शिरस्य = पु० शिरसि भवः यत्। १ निर्मलकेशे अमरः २ शिरोभवमात्रे त्रि०।

शिरा = स्त्री शृ–क। नाड्यां (शिर) मेदि०। शृ–किरच् डिच्च। अस्य दन्त्यादित्वमपीत्यन्ये।

शिरापत्त्र = पु० शिरेव पत्त्रं यस्य। हिन्तालवृक्षे राजनि०।

शिराल = न० शिरोऽस्त्यस्य लच्। १ कर्मरङ्गे शब्दच०। तत् फलम्य शिरायुक्तत्वात्तथात्वम्। २ शिरायुक्ते त्रि०।

शिरालक = पु० शिरायामलति पर्य्याप्नोति अल–ण्वुल्। (हाडयोडा) वृक्षभेदे शब्दच०।

शिरावृत्त = न० शिरेव वर्त्तते वृत–क्त। सीसके राजनि०।

शिरि = पु० शृ–कि। १ खड्गे २ शरे २ हिंस्त्रे त्रि० उणादि०। ४ शलभे सि० कौ०।

शिरीष = पु० शॄ–ईषन् किच्च। खनापख्याते वृक्षे अमरः। “क्षिरीषो मघुरोऽनुष्णस्तिक्तश्च तुवरो लघुः। दोषशोथ विसर्पघ्नः कासव्रणविषापहः” भावप्र०।

शिरीषपत्रिका = स्त्री शिरीषस्येव प्रत्रमस्या कप् क्वापि अत इत्त्वम्। श्वेतकिणीहवृक्षे राजनि०।

शिरोगृह = न० शिरःस्थमुपरिस्थं गृहम्। (चिलेघर) चन्द्रणालायां हेमच०।

शिरोग्रह = पु० “रक्तमाश्रित्य पवगः कुर्य्यात् शृङ्गधराः शिराः। रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्याच्छिरोग्रहः” भावप्र० उक्ते वातरोगभेदे “शृङ्गधरा ग्रीवागताः स पवनः शिरोग्रहः स्यादित्यन्वयः” भावप्र०

शिरोधरा = स्त्री शिरोमस्तकं धरति धृ–अच्। ग्रीवायां हेमच०।

शिरोधि = स्त्री शिरो धीयतेऽत्र धा–कि। ग्रीवायाम् अमरः

शिरोमणि = पुंस्त्री० शिरसि धार्थ्योमणि शा० त०। शिरोधाय्य रत्ने चूडामणौ शब्दच०। स्त्रीपक्षे वा ङीप्। शिरोरत्नादयोऽप्यत्र न०।

शिरोमर्म्मन् = पु० शिरसि मर्म यस्य। शूकरे हेमच०।

शिरोरुजा = स्त्री शिरो रुजति व्यथयति रुज–क। १ सप्तच्छदवृक्षे त्रिका०। ६ त०। २ मस्तकरोगे च।

शिरोरुह = पु० शिरसि राहति रुह–क। केशे अमरः।

शिरोरोग = पु० ६ त० सुश्रुतोक्ते मस्तकरोगभेदे तल्लक्षणं यथा अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः। शिरो रुजति गर्त्त्यानां वातपित्तकफैस्त्रिभिः ३। सन्निपा तेन ४ रक्तेन ५ क्षयेण ६ क्रिमिभि ७ स्तथा। सूर्य्यावर्त्ता ८ न्तबाता ९ र्द्धावभेदक १० शङ्खकैः ११। एकादशप्रकारस्य लक्षण सप्रवक्ष्यते। यस्यानिमित्त शिरसो रुजश्च भवन्ति तीत निशि चातिमात्रम्। बन्धोपताप्रैश्च भवेद्विशेषः शिरो-ऽभितापः स समोरणेन १। यस्योष्णमङ्गारचितं यथैव मवेच्छिरो धूमवती च नासा। शीतेन रात्रौ च भवेद्विशेषः शिरोऽभितापः स तु पित्तकोपात् २। शिरोनलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमञ्च। शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ३। शिरोऽभितापे त्रितयप्रवृत्ते ४ सर्वाणि लिङ्गानि समुद्भवान्त। रक्तात्मकः ५ पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च। वसाबलासक्षतसम्भवानां शिरोगतानामिह संक्षयेण। क्षयप्रवृत्तः ६ शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम्। संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति। निस्तुद्यते यस्य शिरोऽतिमात्रं सन्तक्ष्यमाणं स्फुरतीव चान्तः। ध्राणाच्च गच्छेत्सलिलं सरक्तं शिरोऽभितापः कृमिभिः ७ स घोरः। सूर्य्योदयं या प्रतिमन्दमन्दमक्षिभ्रुवंरुक् समुपैति गाढम्। विवकन चांशुमता सहैव सूर्य्यापवृतौ विनिवर्त्तते च। शातेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च। तं भास्करावर्त्त ८ मुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्। दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटां सरुजां सुतीव्राम्। कुर्वन्ति साक्षिभ्रुवजखदेशे स्थितिं करोत्याशु विशेषतस्तु। गण्डस्य पार्श्वेषु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान्। अनन्तवातं ९ तमुदाहरन्ति दोषत्रयोत्थं शिरसोविकारम्। यस्योत्तमाङ्गार्द्धमतीव जन्तोः सम्भेदतोदभ्रमशूलजुष्टम्। यक्षाद्दशाहादथ वाप्यकस्मात्तस्यार्द्धभेदं १० त्रितयाद्व्यवस्येत्। शङ्खाश्रितो वायुरुदोर्णवेगः कृतामुयात्रः कफपित्तरक्तैः। रुजः सुतीब्राः प्रतनोति मूर्ध्रि विशे षतश्चापि हि शङ्खयोस्तु। सुकष्टमेनं खलु शङ्खकाख्यं ११ महर्षयो वेदविदः पुराणाः। व्याधि वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम्”।

शिरोवल्ली = स्त्री शिरसा वल्लीव। मयूरचूडायां शब्दच०।

शिरोवृत्त = न० शिर इव वृत्तं वर्तुलम्। मरिचे राजनि०।

शिरोवृत्तफल = पु० शिरोवृत्तं मरिचमिव फलमस्याः। रक्तापामार्गे भावप्र०।

शिरोवेष्ट = पु० वेष्ट–घञ् शिरसो वेष्टः। (पाकडी) उष्णीषे त्रिका० ल्युट्। तत्रैव न०।

शिल = उञ्छे कणश आदाने तुदा० पर० सक० सेट्। शिलति अशेलीत्।

शिल = न० शिल–क। गृहीतशस्यात् क्षेत्रात्कणशोमञ्जर्य्या दानरूपायां १ वृत्तौ उञ्छशब्दे १०७० पु० दृश्यम्। २ पाषाणे ३ द्वाराधःस्थितकाष्ठखण्डे च (गोवराट) स्त्री अमरः। ४ स्तम्भशीर्षे ५ मनःशिलायां स्त्री मेदि० ६ कर्पूरे राजनि०।

शिलगर्भजः = पु० शिलाया गर्भे जायते संज्ञायां ह्रस्वः। पाषाणभेदवृक्षे स्त्री राजनि०।

शिलाकर्णी = स्त्री शिलेव कर्णमस्य ङीप्। शल्लकीवृक्षे शब्दच०

शिलाकुट्टक = पु० शिलां कुट्टयति कुट्ट–ण्वुल्। १ पाषाणभेदके अस्त्रभेदे शब्दच०। शिलया कुट्टति वितुषीकरोति। २ अश्मकुट्टके वानप्रस्थभेदे।

शिलाज = न० शिलातो जायते जन–ड। १ शैलेये गन्धद्रव्ये शब्दच०। २ लौहे राजनि०।

शिलाजतु = न० शिलाजातं जतु। १ पर्वतजाते उपधातुभेदे अमरः। तदुत्पत्त्यादिकं भावप्र० उक्तं यथा “निदाधे धर्मसन्तप्ता धातुसारन्धराधराः। निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम्। सौवर्णं राजतन्ताम्रमायसन्तच्चतुर्विधम्। शिलाजत्वद्रिजतु च शैल निर्य्यास इत्यपि। गैरेयमश्मजञ्चापि गिरिज शैलधातुजम्। शिलाजं कटु तिक्तोष्णं कटुपाकं रसायनम्। छेदि योगवहं हन्ति कफमेदाश्मशकराः। मूत्रकृच्छ्र क्षयं श्वासं वाताशांसि च पाण्डुताम्। अपस्मारन्तथोन्माद शोथकुष्ठोदरक्रमीन्। सौवर्णन्तु जवापुष्पवर्णं भवति तद्रसात्। मधुर टुतिक्तञ्च शीतलं कटुपाकि च। राजत पाण्डुरं शीतं कटुक स्वादुपाकि च। ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णञ्च जायते। लौहं जटायुपक्षाभं तत्तिक्तं लबणं मबेत्। विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम्”।

शिलाञ्जनी = स्त्री शिला अज्यतेऽनया अन्ज–करणे–ल्युट् ङीप्। कालाञ्जनीवृक्षे राजनि०।

शिलाटक = पु० शिलेव अटति शिलामटति वा अट–ण्वुल्। १ अट्टे २ बिले च मेदि०।

शिलात्मज = न० शिलाया आत्मज इव। लोहे राजनि०।

शिलात्मिका = स्त्री शिलेव आत्मा यस्य कप्। (मूचि) मूषायां शब्दच०।

शिलादद्रु = पु० शिलाया दद्रुरिव। शेलेये गन्धद्रव्ये राजनि०

शिलाधातु = पु० शिलाया धातुश्चरमधातुरिव शुभ्रत्वात्। १ श्वेतोपले (खडी) त्रिका०। २ पीतवर्णे गैरिकभेदे च राजनि०।

शिलापुत्र = पु० शिलायाः पुत्र इव। (लोडी) पेषणसाधने पस्तरखण्डभेदे शब्दच०।

शिलापुष्प = न० शिलायाः पुष्पमिव। शैलेये गन्धद्रव्ये राजनि०

शिलाभव = न० शिलायां भवति भू–अच् ७ त०। शैलेये जटाध०

शिलाभेद = पु० शिलामपि भिनत्ति भिद–अण्। १ पाषाणभेदिवृक्षे रत्नभा० २ पाषाणभेदकास्वे च।

शिलारम्भा = स्त्री शिलेव रम्भा। कोष्ठकदल्यां राजनि०।

शिलावल्का = स्त्री शिलेव कठिनः वल्को यस्ताः। (शिस्तावाक्) इति प्रसिद्धे वृक्षभेदे शिलात्वगप्यत्र राजनि०।

शिलाव्याधि = पु० शिलाया व्याधिरिव। शैलेये गन्धद्रव्ये त्रिका०।

शिलासन = न० शिला आसनं यस्य। शैलेये गन्धद्रव्ये शब्दर० २ शिलानिर्मिते आसने च।

शिलासार = न० शिलायाः सार इव। लौहे हेमच०।

शिलि = पु० शिल–कि। १ भूजपत्त्रवृक्षे शब्दमा०। द्वाराधःस्थे २ काष्ठे (गोवराट) स्त्री शब्दर०। ३ भेक्यां ४ छत्राकपुष्पे ५ स्तम्भशीर्षे च मेदि० स्त्री ङीप्।

शिलिन्द = पुंस्त्री० शिलिं ददाति दा–क पृषो०। स्वनामख्याते मतस्यविशेषे “शिलिन्दः श्लेष्मको बल्यो विपाके मधुरो गुरुः। आमवातकरो ह्रद्यो वातपित्तहरो मतः” राजवल्लभः। स्त्रियां ङीष्।

शिलीन्ध्र = न० शिलीं धरति धृ–क पृषो० मुम्। १ कदलीपुष्पे २ कवके च मेदि० ३ त्रिपुटायां विश्वः।

शिलीन्ध्रक = न० शिलीन्ध्र इव इवार्थे–कन्। गोमयच्छत्राके हारा०।

शिलीपद = पु० शिलो द्वाराधःखकाष्ठमिव पदमणात्। रोगभेदे (गोद) शब्दर० पृषो०। श्लीपदमप्यत्र न० भावप्र०। तन्निदानादि भावप्र० उक्तं यथा “पुराणोदकभूयिष्ठाः सर्वर्त्तुषु च घीतत्राः। ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः”। विशेषत इति वचनेनान्यत्रापि श्लीपदं भवतीति बोध्यते। अथ श्लीपदस्य सामान्यलक्षणमाह “यः सज्वरोवङ्क्षक्षणजो भृशार्त्तिः शोथो नृणां पादगतः क्रमेण। तत् श्लीपदं स्यात्करकर्णनेत्रशिश्नौष्ठनासास्यपि केचिदाहुः”। तत्त्रिविधम् वातिकं पैत्तिकं श्लैष्मिकञ्चेति। तत्र तेषां कमेण लक्षणान्याह “वातजं कृष्णरूक्षं हि स्फुटितं तीव्रवेदनम्। अनिमित्तरुजञ्चास्य बहुशो ज्वर एव च। पित्तजं पीतसङ्काशं दाहज्वरयुतं भृशम। श्लैष्मिकन्तु भवेत् स्निग्धं तथा पाण्डुरमस्थिरम्। त्रीण्यप्येतानि जानोयात् श्लीपदानि कफात् पुनः। गुरुत्वञ्च महत्त्वञ्च यस्मातास्ति विना कफात्”। अथासाध्यमाह “बलमीकमिव सञ्जातं कण्टकैरुपचोयते। अव्दात्मकन्महत्तत्तु वर्जनीयं विशेषतः। यत् श्लैष्मिकाहारविहारत्वातैर्जातं तथाभरिकफस्थ पुंसः। वास्तावमत्युन्नतभर्व- लिङ्गं सकण्डुकञ्चापि विवर्जनीयम्” अचिकित्स्यत्वादिति शेषः।

शिलीमुख = पु० शिलीव मुखमस्य। १ भ्रनरे २ वाणे अमरः। ३ युद्धे ४ जडीभूते च शब्दर०।

शिलोच्चय = पु० शिलानामुच्चयो यत्र। ववैते अमरः।

शिलोञ्छ = पु० शिलेनोञ्छ उछि–घञ्। उपात्तशस्यात् क्षेत्रात् शेषावचयने।

शिलोत्थ = न० शिलाया उत्तिष्ठति उद्–स्था–क। शैलेये गन्धद्रव्ये राजनि०। शिलोद्भवादयोऽप्यत्र।

शिल्प = न० शिल–पक्। चित्रकलादिकर्मसु अमरः। २ स्रुचि मेदि०। तदारम्भमुहूर्त्तः मु० चि० उक्तो यथा “मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा ख १० लग्नगे। विधौ ज्ञजीवबर्गस्थे शिल्पारम्भः प्रशस्यते”।

शिल्पकारिन् = त्रि० शिल्पं चित्रादिकलां करोति कृ–णिनि। चित्रादिकर्त्तरि।

शिल्पका = स्त्री शिल्पमिव कायति कै–क। तृणभेदे राजनि०

शिल्पशाला = स्त्री ६ त०। चित्रकरादोनां चित्रकरणगृहे अमरः

शिल्पशास्त्र = न० शिल्पज्ञापनं शास्त्रम्। वास्तुविद्यादिज्ञापके शास्त्रे।

शिल्पिन् = त्रि० शिल्पं वेत्त्यधीते वा इनि। १ चित्रादिकर्मकरे अमरः। २ कोलदलौषधौ स्त्री मेदि० ङीप्।

शिव = न० शो–वन् पृषो०। १ मङ्गले अमरः। २ सुखे ३ जले उणादि०। ४ सैन्घवे सामुद्रे च ५ लवणे ६ श्वेतटङ्कणे च राजनि०। ७ मङ्गलवति त्रि० ८ सहादेवे पु० अमरः। एवं ९ मोक्षे १० कीलग्रहे ११ वालुके १२ गुग्गुलौ १३ वेदे १४ पुण्डरीकवृक्षे १५ कृष्णधुस्तूरे १६ पारदे राजनि०। १७ देवे शब्दर० १८ लिङ्गे उणादि० १९ विष्कुम्भादिषु मध्ये विंशतितमे योगे च पु० ज्यो० त०। “शिवमद्वैतं तुरीयं मन्यन्ते” श्रुत्युक्ते २० अद्वैतब्रह्मणि न०।

शिवक = पु० शिव–इव इवार्थे कन्। १ कीलके अमरः गवां गात्रकण्डूयनार्थे गोष्ठे निखाते २ काष्ठे च भरतः।

शिवकाञ्ची = स्त्री ६ त०। पुरीभेदे।

शिवघर्म्मज = शिवघर्माज्जायते जन–ड। मङ्गलग्रहे “पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः। अपतत् मीमवक्त्रस्य स्वेदविन्दुर्ललाटजः” इत्यादिना वीरभद्रोत्वत्तिमुक्त्वा तस्यैव मङ्गलग्रहरूपतामाह “शान्तिप्रदानात् सर्वेषां ग्रहाणां प्रथमो भव। प्रेक्षिष्यन्तो जनाः पूजां करिष्यन्ति मतं मम। अङ्गारक इति ख्यातिं गमिष्यति धरात्मज!” मत्स्यपु० ६८ अ०।

शिवज्ञान = न० मासनेदे तण्डभेदेन माहेन्द्रादियोगज्ञापके शास्त्रभेदे “माहेन्द्रे विजयो नित्यममृते कार्य्यशोमनम्। वक्रे कार्यविलम्बः स्यात् शून्ये च मरणं भवेत्। वैशाखादिश्रावणान्तमेकभावेन संवदेत्। अमृतादि दिवारात्रौ चतुर्मासं यथाक्रमम्। याममानं दिवामाने ज्ञेयं सर्वत्र मासके। तत्प्रामाणेन ज्ञातव्यं दण्डमान विचक्षणैः। रात्रिमानप्रमाणेन ज्ञेयं दण्डप्रमाणकम्। न वारतिथिनक्षत्र न योगः करणं तथा। शिवज्ञानं समासाद्य सर्वं मुनिविचारणम्। भाद्रादिमार्गपर्य्यन्त सप्तवारे समादिशेत्। शून्यवक्रादियोगं हि पौषादिचैत्रतस्तथा” ज्योति०।

शिवचतुर्दशी = स्त्री शिवप्रिया चतुर्दशी। फाल्गुनकृष्णचतुदस्याम्। व्रतशब्दे शिवचतुर्दशीव्रतं दृश्यम्।

शिवताति = स्त्री शिव + तातिल्। मङ्गलपरस्परायां हेमच०

शिवदारु = न० शिवो देवस्तदादिकं दारु। देवदारुवृक्षे राजनि०

शिवदूती = स्त्री शिवो दूतो यस्याः। १ दुर्गामूर्त्तिभेदे त्रिका० २ योगिनीभेदे च “यदा जघान जगतां रक्तवीजं हिताय वै। महादेवी महामाया तदास्याः कायतः सृता। दूत प्रस्थापयामास शिवं शुम्भाय साम्बिका। तेन सा शिवदूतीति देवैः सर्वैः प्रगीयते” कालिकापु० ६० अ०। “यः शिवाविरुतं श्रुत्वा शिवदूतीं शिवप्रदाम्। प्रणमेत् साधको भक्त्या तस्य कामाः करे स्थिताः” तत्रैव। “ब्र ह्माणा प्रथमा प्रोक्ता ततो माहेश्वरी पराः। कोमारी वैष्णवी चैव वाराही पञ्चमी तथा। नारसिंही तथैवैन्द्री शिवदूतो तथाष्टभी। एताः पूज्या महाभागाः योगिन्यः कामदायिकाः तत्रैव। कौषिक्याः हृदयाद्देवी निःसृता ध्यानता हरेः। शिवदूतीति विख्याता शिवाशतसुसंवृता” तत्रैव।

शिवद्रुम = पु० शिवप्रियः द्रुमः। बिल्ववृक्षे राजनि०।

शिवद्विष्टा = स्त्री ३ त०। केतक्यां राजनि०।

शिवधर्म्म = न० शिवस्य तदुपासनार्थो धर्मो यत्र। उपपुराणभेदे “चतुर्थं शिवधर्मारयं साक्षान्नन्दाशभाषितम्” कूर्मपु०।

शिवधातु = पु० ६ त०। पारदे पारदशब्द दृश्यम्।

शिवनाभि = पु० शिवस्य नाभिरिव। शिवलिङ्गभेदे “शिवनाभि मयं लिङ्गं प्रतिपूज्यं महर्षिभिः। श्रेष्ठञ्च सर्वलिङ्गे भ्यस्तस्मात् पूज्यं विधानतः” वीरमि०। अच समा०। शिवनाभः शालग्रामशिलाभेदे शालग्रामशब्दे दृश्यम्।

शिवपुरी = स्त्री ६ त०। कास्यां हेमच० शिवनगर्य्यादवोऽप्यत्र।

शिवप्रिय = न० ६ त०। १ रुद्राक्षे २ महादेववल्लभे त्रि० राजनि०। ३ वकवृक्षे जटा०। ४ धुस्तूरे ५ स्फटिके च पु० राजनि०। ६ दुर्गायां स्त्रा शब्दमा०।

शिवमल्लक = पु० शिवः कल्याणकरः मल्ल इव कायति कै–क। अजुनवृक्ष राजनि०।

शिवमल्ली = स्त्री शिवस्य मल्लोव प्रियत्वात्। वकवृक्षे अमरः।

शिवरात्रि = स्त्री शिवप्रिया तदुपासनार्था रात्रिः। माघातः परस्यां कृष्णचतुर्दश्याम्। तद्रात्रौ हि शिव पूजनव्रतादिकं क्रियते इति तस्या रात्रेस्तत्प्रियत्वम्। २ तद्दिवसकर्त्तव्येव्रते च। तद्विधानकालादि ति० त० उक्तं यथा कालमाधवीये स्कान्दे नागरखण्डम् “माघमासस्य शेषे या प्रथमे फालगुनस्य च। कृष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्त्तिता”। अत्रैकस्यास्तिथेमांघीयत्वफाल्गुनीयत्वे मुख्यगौणवृत्तिभ्याम् अविरुद्धे। ततस्तु माघ्यनन्तरा चतुर्दशी शिवरात्रिः। अस्यामुपवासः प्रधानम् “न स्नानेन न वस्त्रेण न धूपन न चार्चया। तुष्यामि न तथा पुष्पैर्यथा तत्रोपवासतः इति शङ्करोक्तेः। स्कान्दे “ततो रात्रौ प्रकत्तंव्यं शिवप्रोणनतत्परैः। प्रहरे प्रहरे स्नानं पूजा चैव विशेषतः”। अत्र वीप्सया प्रहरचतुष्टयसाध्यं प्रतीयते। नरसिंहाचार्य्यधृतेश्वरसहितायाम् “शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः। सर्वं पूजाफलं हन्ति शिवरात्रिबहिर्मुखः”। संवत्सरपदीपे “दुग्धेन प्रथमे स्नानं दघ्ना चैव द्वितीयके। तृतीये च तथाज्येन चतुर्थे मधुना तथा”। ईशानसंहितायाम् “माघे कृष्णचतुर्दश्यां रविवारो यदा भवेत्। भौमो वापि भवेद् देवि! कर्त्तव्यं व्रतमुत्तमम्। शिवयोगस्य योगेन तद्भवेदुत्तमोत्तमम्। शिवरात्रिव्रतं नाम सर्वषापप्रणाशनम्। आ चाण्डालात् मनुष्याणां भुक्तिमुक्तिप्रदायकम। नागरखण्डे “उपवासप्रभावेण बलादपि च जागरात्। शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया। अक्षयान् लभते लोकान् शिवसायुज्यमाप्नुयात्”। पाद्मे “वर्ष वर्षे महादेवि! नरी नारी पततिव्रता। शिवरात्रौ महादेवं काम भक्त्या प्रपूजयेत्”। ईशानसंहितायाम् “एवमेव व्रतं कुर्य्यात् प्रतिसंवत्सरं व्रती। द्वादशाव्दिकमेतद्धि चतुर्विंशाव्दिकं तथा सर्वान् कामानवाप्नाति प्रेत्य चेह च मानवः”। हेमाद्रिधृता स्मृतिः “प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दर्शी। प्रदोषमाह वत्सः “प्रदोषोऽधग्रयादूर्द्ध्वं वदि- काद्वयसिष्यते”। ऊर्द्ध्वमनन्तरम्। वायुपुराणे “त्रयोदश्यस्तगे सूर्य्ये चतसृष्वपि नाडषु। भूतावद्धा तु या तत्र शिवरात्रिव्रतञ्चरेत्–”। ईशानसंहितायाम् “माघे कृष्णचतुर्दश्यामादिदेवो महानिशि। शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभ। तत्कालव्यापिनी ग्राह्या शिवरात्रि प्रते तिथिः अर्द्धरात्रादधश्चोर्द्ध्वं युक्ता यत्र चतुर्दशी। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रतं नरः”। अत्र “महानिशा द्वे घटिके रात्रेर्मध्यमयामयोः” इति देवलोक्ता महानिशा ग्राह्या। घटिका एकदण्डः। एवञ्च यद्दिने प्रदोषनिशीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम् उभयव्याप्त्यनुराधात्। कालमाधवीयोऽप्येवम्। एतेन परदिने उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रिद्वितीय यामप्रभृतिचतुर्दशीसत्त्व बहुप्रहरव्यापित्वेन पूर्वदिन एव व्रतभिति निरस्तम् यदा तु पूर्वद्युर्निशीथमात्र व्याप्तिः परेद्युः गदाषमात्रव्याप्तिस्तदा पूर्वेद्युर्व्रतं प्रधानः कालव्याप्त्यनुरोधात्। “पूर्वेद्युरपरेद्युर्वा महानिशि चतुर्दशी। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्य्यात् व्रत नरः” इतीशानसंहितावचनाच्च। एतद्विषय एव भविष्यपु० “अर्द्धरात्रात् पुरस्तात्तु जयायोगा भवेद् यदि। पूर्वविद्धैव कर्त्तव्या शिरात्रिः शिवप्रियैः”। विष्णु धर्मोत्तरे “जयन्ती शिवरात्रिश्च कार्य्य भद्रजयान्विते।कृत्वोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम्”। तिथ्यन्तेपारण जयन्तीमात्रपरं तत्र चतुर्दश्यामेव तत् “व्रह्मा ण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै। पूजितानिभवन्तीह भूतायां पारणे कृते” इति स्कान्दात्। “दिन मानप्रमाणेन या तु रात्रौ चतुर्दशी। शिवरात्रिस्तु सा ज्ञेया चतुर्दश्यान्तु पारणम्” इति गौतमीयाच्च। यदा त पूर्वदिने न निशीथव्याप्तिः परदिने प्रदोषमात्र व्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनीति प्रागुक्तत्वात् तिथेस्त्रिसन्ध्यव्यापित्वाच्च। एतद्विषय एव लिङ्गपुराणम् “शिवरात्रिव्रते भूतां कामविद्धां विर्जयेत्। एके नैवोपवासेन ब्रह्महत्यां व्यापोहति”। अत्रामावस्यायामेव पारणम् “शिवाऽघारा तथा पेता सावित्री च चतुर्दशी। कुहूयुक्तैव कर्त्तव्या कुह्वामेव हि पारणम्”। इति वचनात्। तदयं संक्षेपः। यद्दिने प्रदोषनिथीथोभयव्यापिनी चतुर्दशी तद्दिने व्रतम्। यदा तु पूर्वेद्युर्निशीथव्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्वेद्युर्वतम्। यदा तु न पूर्वेद्युर्निशोघव्याप्तिः परदिने प्र- दोषव्यापिनी तदा परदिने। पारणन्तु परदिमे चतुर्दशीलाभे चतुर्दश्यां, तदलाभे अमावास्यायाम्” ति० त० रघु०

शिवलिङ्ग = न० ६ त०। शिवस्य लिङ्गाकारे प्रस्तरादिमये पदार्थे तदाविर्भावपूज्यतादिक यथा “प्तत्राषि गत्वा मदनो ददर्श वृषकेतनम्। दृष्ट्वा प्रहर्त्तु कामोऽथ ततः स प्राद्रवद्धर। ततो दारुवनं घोरं मदनाभिसृतो हरः। विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः। ते चापि ऋषयः सर्वे दृष्ट्वा मूर्ध्ना नताभवन्। ततस्तान् प्राह भगवान् भिक्षां मे प्रति दीयनाम्। ततस्ते मौनिनस्तस्थुः सर्व एव महर्षयः। तदाश्रमाणि पुण्यानि परिचक्राम नारद!। तं प्रविष्टं तदा दृष्ट्वा भार्गवात्रेययोषितः। प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः। ऋते त्वरुन्धतीमेकामनसूयाञ्च भाविनीम्। एताभ्यां भर्तृपूजासु कृतं वे सुस्थिरं मनः। ततः संक्षुभिताः सर्वा यत्र याति महेश्वरः। तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः। त्यक्त्वाश्रमाणि शून्यानि स्वानि ता मुनियोषितः। अनुजग्मुर्यथा मर्त्तं करिण्य इव कुञ्जरम्। ततस्तु ऋषयो दृष्ट्वा भार्गवाङ्गिरसो मुने!। क्रोधान्विताब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि। ततः पपात देवस्य लिङ्गं पृथ्वीं विदारयत्। अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः। ततः स पतितो लिङ्गो विभिद्य वसुधातलम्। रसातलं विवेशाशु ब्रह्माण्डं चोर्द्ध्वतोऽभिनत्। ततश्चचाल पृथिवी गिरयः सरितो नगाः। पातलभुवनाः मर्वे जङ्गमाऽजङ्गमाः स्थिताः। संक्षुब्धान् भुवनान् दृष्ट्वा भूर्लोकादीन् पितामहः। जगाम माधवं द्रष्टुं क्षीराटं नाम सागरम्। तत्र दृष्ट्वा हृषीकेशं प्रणिपत्य च भक्तितः। उवाच देव! भुवनाः किमर्थं क्षुभिता विभो!। अथोवाच हरिर्ब्रह्मन् शार्वो लिङ्गो महर्षिभिः। पतितस्तस्य भारार्त्ता सञ्चचाल वसुन्धरा। ततस्तदद्भुतमयं श्रुत्वा देवः पितामहः। तत्र गच्छा देयेश एवमाह पुनः पुनः। ततः पितामहो देवः केशवश्च जगत्पतिः। आजगाम तमुद्देशं यत्र लिङ्गं भवस्य तत्। ततोऽनन्तं हरिर्लिङ्गं दृष्ट्वारुह्य खगेश्वरम्। पातालं प्रविवेशाथ विस्मयात् त्वरितो विभुः। ब्रह्मा पद्मविमानेन उर्द्ध्वमाक्रम्य सर्वनः। नैवान्तमलभद् ब्रह्मा विस्मितः पुनरागमः। विष्णुर्गत्वाथ पातालं सप्तलोकपरायणः। चक्रपाणिविंनिष्क्तान्तो सेभेऽन्तं न महामुने!” इत्युपक्रमे “हरा उवाच यद्यर्च्चयन्ति त्रिदशा मम लिङ्गं सुरोत्तमौ!। तदेतत्प्रतिगृह्णीयां नान्यथति कथञ्चन। ततः प्रोवाच भगवानेवमस्त्विति केशवः। ब्रह्मा स्वयञ्च जग्राह लिङ्गं कनकपिङ्गलम्। ततश्चकार भगवांश्चातुर्वर्ण्यं हरार्चने। शास्त्राणि चैषां सुख्यानि नानोक्तिविदितानि च। आद्यं शैवं १ परिख्यातमन्यत् पाशुपतं २ मुने!। तृतीयं कालवदनं ३ चतुर्थञ्च कपालिकम् ४। शैव आसीत् स्वयं शक्तिर्वशिष्ठस्य प्रियः सुतः। तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः। महापाशुपतस्त्वासीद्भारद्वाजस्तपोधनः। तस्य शिष्योऽप्यभूद्राजा ऋषभः सोमकेश्वरः। कालास्यो भगवानासीदापस्तम्बस्तपोधनः। तस्य शिष्यो वको वैश्यो नाम्ना क्राथेश्वरो मुने। महाव्रती च धनदस्तस्य शिष्यश्च वीर्य्यवान्। कुन्दोदर इति ख्यातो जात्या शुद्रो महातपाः। एवं स भगवान् व्रह्मा पूजनाय शिवस्य च। कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः। गते ब्रह्मणि सर्वोऽपि ततः संहृत्य तं तदा। लिङ्गं चित्रवनं, सूक्ष्मं प्रतिष्ठाप्य चचार ह”। वामनपु० ६ अ०। एकगृहे लिङ्गद्वयार्चननिषेधो यथा “गेहे लिङ्गद्वयं नार्च्यं शालग्रामद्वयं तथा। द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्य्यद्वयं तथा”। तन्निर्माल्यभक्षणविधिनिषेधौ यथा “अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्। शालग्रामशिलायोगात् पावनं तद्भवेत् सदा”। “लिङ्गपूजां विना देवि! अन्यपूजां करोति यः। विफला तस्य पूजा स्यादन्ते नरकमाप्नुयात्। तस्माल्लिङ्गं प्रयत्नेन प्रथमं परिपूजयेत्”। तत्पूजनप्रशंसा यथा “यद्राष्ट्रं लिङ्गपूजायां रहितं संततं प्रिये!। तद्राष्ट्र पतितं मन्ये विष्ठाभूमिसमं स्मृतम्”। “ब्रह्मा विट् क्षत्रियो देवि! यदि लिङ्गं न पूजयेत्। तत्क्षणात् परमेशानि! त्रयं चाण्डालतां व्रजेत्। शूद्रश्च परमेशानि! सदा शूकरवत् प्रिये!। पूजयेत् परमेशानि! चत्वारो ब्रह्मणादयः। शिवार्च्चनन्तु पूजासु यद्गृहे वर्जितं सदा। विष्ठागर्त्त समं देवि! तद्गृहं विद्धि पार्वति!। शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि!। आदौ लिङ्गं समभ्यर्च्य बिल्वपत्रैर्वरानने!। पश्चादन्यं महेशानि! शिवं प्रार्थ्यप्रपूजयेत्। शिवपूजां विना देवि! अन्यपूजां करोति यः। स एव रसनाहीनः कुम्भीरो जायते प्रिये!। निर्माय पार्थिवं लिङ्गं रुद्रं संहाररूपिणम्। आशुतोषं महादेवं शङ्करं वृषभध्वजम्। निर्माय पाषितं लिङ्गं विधिवत् पूजयेत् शिवम्। शिवपूजा महेशानि! यदुगृहे सततं प्रिये!। काशीपुरं महेशानि! तद् गृह वरवर्णिनि!। शिवलिङ्गं प्रपूज्याथ सर्वपूजाफल लभेत्”। चतुर्विधलिङ्गं यथा “चतुर्द्धा पार्थिवं लिङ्ग मृतस्नाभेदेन पार्वति!। शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि!। शुक्लन्तु ब्राह्मणे शस्तं, क्षत्रिये रक्तमिष्यते। पीतं च वैश्यजातौ तु कृष्णं शूद्रे प्रकीर्त्तितम्। चान्दनञ्च महेशानि! सर्वजातिषु शस्यते”। लिङ्गार्चनतन्त्रे १। २। ३ प०। अस्य पञ्च वक्त्राणि यथा “तत् सर्वं शृणु चार्कङ्गि पार्थिवस्य मुखं प्रिये!। विभाव्य मुखपद्मं हि शिवस्य वरवर्णिनि!। सद्योजातं वामदेवमघोरञ्च ततः परम्। तत्पुरुषं तथेशानं पञ्चवक्त्वं प्रकीर्त्तितम्। सद्योजातञ्च वै शुक्लं शुद्धस्फटिकसन्निभम्। पीतवर्णं तथा सौम्यं वामदेवं मनोहरम्। कृष्णवर्णमघोरञ्च समं भीमविवर्द्धनम्। रक्तं तत्पुरुषं देवं दिव्यमूर्त्ति मनोहरम्। श्यामलञ्च तथेशानं सर्वदेव शिवात्मकम्। चिन्वयेत् पश्चिमे चाद्यं द्वितीयन्तु तथोत्तरे। अघोरं दक्षिणे देवं पूर्वे तत्पुरुषं तथा। ईशानो मध्यतोध्येयं चिन्तयेत् भक्तितत्परः”। तत्रैव ६ प्रटलः। अथ रौद्रलिङ्गलक्षणम्, वीरमित्रोदयधृते “नदीसमुद्भवं रौद्रमन्योन्यस्य विथर्षणात्। नदीवेगात् समं स्निग्धं संजातं रौद्रमुच्यते”। समुच्चयेऽपि “सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति। तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम्। नदीसारनर्मदायां वण लिङ्गसमाकृति। तदन्यदपि वोद्धव्यं लिङ्गं रौदूं भविष्यति। रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति। श्वेतं रक्तं तथा षीतं कृष्णं विप्रादिपूजितम्। स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धिदम्। नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितम्”। दैवलिङ्गमधिकृत्य सिद्धान्तशेखरे “करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम्। रेखाकोटरसंयुक्तं निम्नोन्नतसमन्वितम्। दीर्वाकारञ्च यल्लिङ्गं ब्रह्मभानादिवर्जितम्”। अथ गोललिङ्गलक्षणम् “लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना। कुष्माण्डस्य कलाकारं नागरङ्गफलोपमम्। काकडिम्बफलाकारं गोललिङ्गमितीरितम्”। अथार्षलिङ्गलक्षणम्। तत्रैव “मालाकोलफलाकारं ब्रह्मसूत्रविवर्जितम्। मूले स्थूमञ्च गलिङ्गं कपित्थफलसन्निभम्। तालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत्। मध्ये स्थूस्तं वरं लिङ्ग मृषिलिङ्गमुदीरितम्”। लिङ्गं च द्विविधमकृत्रिमं कृत्रिमञ्च अकृत्रिमं स्वयम्भुवाणलिङ्गादि स्वयम्भूतम्। कृत्रिमं धातुलिङ्गादिनिर्मितम्। सिद्धान्तशेखरे “तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलं तथा। प्रत्येकं त्रिविधं ज्ञेय लिङ्गं तदुभयात्मकम्। प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम्। स्थापितमचलं गेहे स्थिरं लिङ्गमयोजिते। पञ्चधा तत स्थितं लिङ्गं स्वयम्भु दैवपालितम्। आर्षञ्च मामसं लिङ्गं तेषां लक्षणमुच्यते। नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम्। अदृष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते। तल्लिङ्गन्तु खयम्भूतमषरं लक्षणच्युतम्। स्वयम्भुलिङ्गमित्युक्तं तच्च नानाविधं मतम्। शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम्। पद्माभमस्तकं ब्राह्मं छत्राभं शाक्रमुच्यते। शिरोयुग्मं तथाग्नेयं त्रिपदं याम्यमोरितम्। खड्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति। वायव्यं ध्वजबल्लिङ्गं कौवेरन्तु गदान्वितम्। ईशानस्य त्रिशूलाभं लोकपालादि निःसृतम्। सयम्भुलिङ्गमाख्यातं सर्वशास्त्र विशारदैः”। मत्स्यसूक्ते “दृष्ट्वा लिङ्गं महेशस्य स्वयम्भूतस्य पार्वति!। सर्वपाधविनिर्मुक्तः परे ब्रह्मणि लीयते”। एतेषां पूजाफलन्तु तत्रैव “विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः। पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः। एवं वै दारुजं ज्ञेयं धातुलिङ्गं तथा पुनः। स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यपदञ्च तत्। पुत्रवृद्धिकरं ताम्रं राङ्गभायुःप्रवर्द्धनम्” पद्मपु० “पारदञ्च महाभूत्यै सौभाम्याय च मौक्तिकम्। चान्द्र कान्तं मृत्युजित् स्याद्धाटकं सर्वकामदम्”। वी० मि० धृत कल्पोत्तरेऽपि “सर्वा फलप्रदा भूमिर्मणयस्तद्वदेव हि। अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः। रात्रौ प्रकाशकाः सर्वे विषाद्याधातकारिणः। नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः। वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनिर्मितम्। सर्वकामप्रदं पुंषां लिङ्गं तात्कालिकं मतभ्”। लक्षणसमुच्चये “गान्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम्”। तथा “नानागुणोद्भवं लिङ्गं नानाकामप्रदायकम्। सैकतं गुणदं लिङ्गं सौभाग्याय च कावणम्। उच्चाटनै तु पालाशं भास्मं शत्रुक्षयावहम्। तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्चयेत्”। तथा “कुस्तूरिकाया द्वौ भागौ चत्वारश्चन्दमस्य च। कुङ्कुमस्य त्रवश्चैव शशिना च चतुःसमम्। एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः। शिवसायुज्यमाप्तोति बन्धुभिः सहितो नरः। कार्य्यं पुष्पभयं लिङ्गं हयगन्धसमन्वितम्। नवखण्डां धरां भुक्त्वा गणेशोऽधिपतिर्भवेत्। रजोभिर्निर्मितं लिङ्गं यः पूजयति भक्तितः। विद्याधरपदं प्राप्य पश्चात् शिवसमी भवेत्। श्रीकामो गोशकृल्लिङ्गं कृत्वा मक्त्या प्रपूजयेत्। स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत्। कार्य्यं च षष्टिजं लिङ्गं यवगोधूमशालिजस्। श्रीकामः पुष्टिकामश्च पुत्रकामस्तदर्चयेत्। सिताखण्डमयं लिङ्गं कार्य्यमारोम्यवर्द्धनम्। वश्ये लवणजं लिङ्गं तले त्रिकटुकान्वितम्। गव्यधृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम्। लवणेन च सौभाग्यं पार्थिवं सर्वकामदम्। कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम्। भस्मोत्थं सर्वफलदं गुडोत्थं प्रीतिवर्द्धनम्। गन्धोत्यं गुणदं भूरिशर्करोत्थं सुखप्रदम्। वांशाङ्कुरं वंशकरं गोमयं सर्वरोगदम्। केशास्थिसम्भवं लिङ्गं सर्वशत्रुविनाशनम्। क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम्। दारिद्र्यदं द्रुमोद्भूतं पैष्टं स्परस्वतप्रदम्। दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मी सुखप्रदम्। धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत्। पुष्पोत्थं दिव्यभोनायुर्मुक्त्यै धात्रीफलोद्भवम्। नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम्। दूर्वाकाण्डसमुद्भूतमपमृत्युविनाशनम्। कर्पूरसम्भवं लिङ्गं कलायैर्भुक्तिमुक्तिदम्। आयख्यान्तं चतुर्द्ध्यं तु ज्ञेयं सामान्यसिद्धिषु” गरुडपु०। “सर्व मणिभवं श्रेष्ठं तत्र वाज्रमरिच्छिदे। यमलिङ्गं भहाभूत्यै सौभाग्याय च मौक्तिकम्। पुष्टिभूलं महानीलं ज्योतिस्तीरसमुद्भ वम्। स्पर्शकं कुलसम्बत्त्यै तैजसं सूर्यकान्तजम्। चन्द्रापीडं मृत्युजिते स्फाटिकं सर्वकामदम्। शूलाख्यमणिजं शत्रुक्षयार्थं मौक्तिकं तथा। आवत्थं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम्। शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं शत्रुदर्पहृत्। नीलं सक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्वकामदम्”। सारसंग्रहे “महाभुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम्। आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम्। त्रपुसीसायसं लिङ्गं शत्रूणां नाशने हितम्। कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुत्रवर्द्धनम्। पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्वसिद्धिदम्” कालोत्तरतन्त्रम्। तत्रैव शिवनारदसंवादे “पितॄणां मुक्तयें लिङ्गं पूज्यं रजतसम्भवम्। हैमजं सत्यलोकस्य प्रा- प्तये पूजयेत् पुमान्। पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः”। मत्स्यसूक्ते “ताम्रलङ्गं कलो नार्च्यं रैत्यस्य सीसकस्य च। रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा”। मातृकाभेदतन्त्रे १२ पटले “पार्थिवे शिवपूजायां सर्वसिद्धियुतो भवेत्। पाषाणे शिवपूजायां द्विगुणं फलमीरितम्। स्वर्णलिङ्गे च पूजायां शत्रूणां नाशनं मतम्। सर्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम्। ताम्रेपुष्टिं विजानीयात् कांस्ये च धनसंक्षयः। गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत्!। स्फाटिके सर्वसिद्धिः स्यात् तथा मारकते प्रिये!। लौहलिङ्गे रिपोर्नाशं कामदं भस्मलिङ्गकम्। बालुकायां काम्यसिद्धिर्गोमये रिपुहंसनम्। सर्वलिङ्गस्य माहात्म्यं धर्मकामार्थमोक्षदम्। संस्कारेण विना देवि! पाषाणादौ न पूजयेत्”। “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम्। एतदन्यन्न कुर्वीत कदाचिदपि पार्वति!” मातृकाभेदतन्त्रे ७ प०। “मृत्तिकातोलकं ग्राह्यमथ वा तोलकद्वयम्। त्रिसूत्रस्य प्रमाणेन घटनं कारयेद् बुधः। अङ्गुष्ठपर्वमानन्तु कृत्वा लिङ्गं प्रपूजयेत्” विश्वसारतन्त्रम्। त्रिसूत्रीकरणमुक्तं कालात्तरे “लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात्। समञ्चैव विजानीयात् त्रिसूत्रीकरणन्त्विदम्”। ब्राह्मणादीनां भृत्तिकाभेदेन पूजाफल प्रशंसा तत्रोक्ता यथा “शुक्लं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत्। स एव विप्रो देवेशि! त्रिवर्गफलभाग्भवेत्। क्षत्रियस्तु वरारोहे! रक्तं निर्माय पार्थिवम्। पूजयेत् सततं यस्तु त्रिवर्गफलभाग्भवेत्। पीतं तु पार्थिवं देवि! निर्माय यस्तु पूजयेत्। स च वैश्यो महेशानि। त्रिवर्गफलभाग्भवेत्। कृष्णं हि पार्थिवं लिङ्गं निर्माय यस्तु पूजयेत्। स शूद्रः परमेशानि! त्रिवर्गफलभाग्भवेत्। शिलादौ च महेशानि! स्थूलञ्च फलदायकम्। अङ्गुष्ठमानं देवेशि! यद्वा हेमाद्रिमानकम्। क्रमेण देवदेवेशि! फलं बहुबिधं स्मृतम्। स्थूलात् स्थूलतरं लिङ्गं रुद्राक्ष परमेश्वरि!। पूजना द्धारणाद्वापि फलं बहुविधं स्मृतम्”। स्थूलतरमिति पार्थिवलिङ्गेतरपरम् मृत्तिकातोलकं ग्राह्यमित्या दिवचनात्। शिलास्फाटिकमरकतादीनां पञ्चसूत्रीकरणमुक्तम् लैङ्गे “शिवलिङ्गस्य यन्मानं तन्मानं दक्ष सव्ययोः। योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत्”। “लिङ्गस्य यादृग्विस्तारः परिणामोऽपि तादृशः। लिङ्गस्य द्विगुणा वेदी योनिस्तदर्द्धसंमिता। कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचिदपि क्वचित्। रत्नादिशिवनिर्माणे मानमिच्छावशाद्भवेत्”। तन्त्रान्तरम्। लिङ्गशब्दव्युत्पत्तिर्यथा “आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका। आलयः सर्वदेवानां लयनाल्लिङ्गमुच्यते” स्कन्दपु०। “एकहस्तेन निर्माय प्रार्थिवं लिङ्गमर्चयेत्। लक्षलिङ्गपूजनस्य फलमाप्नोत्यसंशयम्। तदेव स्याच्छतगुणं वामहस्तेन निर्मितम्। मृदाहरणकेशादि शोधनञ्चैव पाणिना। “एवं कृते तु गृहिणां संसारात् स विमुञ्चतिः। द्व्याधिकैर्विं शतिपलैर्मृद्भिः शैवं प्रयत्नतः। लिङ्गं निर्माय देवेशि! पूजयेद्भक्तिसंयुतः” तन्त्रसारः।

शिवलोक = पु० ६ त०। कैलासनामके स्थाने।

शिववल्लभ = त्रि० ६ त०। १ महादेवप्रिये २ शतपत्त्र्यां स्त्री राजनि०।

शिववल्ली = स्त्री० शिवप्रिया वल्ली शा० त०। १ लिङ्गिनीलतायां २ श्रीवल्ल्यां च राजनि०।

शिववाहन = न० शिवं वाहयति वह–णिच्–ल्यु। वृषभे राजनि०।

शिववीज = न० ६ त०। १ पारदे राजनि०। शिववीर्य्यादयोऽप्यत्र। २ शिवस्य शुक्रे च।

शिवशेखर = पु० शिवस्य शेखर इव। १ धुस्तूरे राजनि०। २ वकपुष्पे च जटा०।

शिवसुन्दरी = स्त्री ६ त०। दुगायां तन्त्रसा०।

शिवा = स्त्री शी–वन् नि०। १ मङ्गलवत्यां स्त्रियां २ दुर्गायां “शिवा मुक्तिः समाख्याता योगिनां मोक्षदायिनी। शिवायै यां यजेद्देवीं शिवा लोके ततः स्मृता” देवीपु० ४५ अ०। ३ मुक्तौ ४ शृगाले ५ हरीतक्यां ६ शमीवृक्षे ७ तामलक्याम् अमरः। ८ आमलक्यां मेदि०। ९ हरिद्रायां १० दूर्वायां ११ गोरचनायाञ्च राजनि० १२ शृगाल्याम् अमरः।

शिवाटिका = स्त्री शिवायाटति अट–ण्वुल्। वंशपत्त्र्यां राजनि०।

शिवात्मक = न० शिवो मङ्गल आत्मा यस्य कप्। १ सैन्धवे लवणे राजनि०। २ शिवमये त्रि०।

शिवानी = स्त्री शिवं कल्याणमानयति आ + नी–ड गौरा० ङीष्। १ जयन्तीवृक्षे शब्दच० २ दुर्गायाञ्च।

शिवाप्रिया = पु० ६ त०। १ छागे त्रि० २ तस्याः प्रियमात्रे त्रि०।

शिवापीड = पु० ६ त०। वकवृक्षे राजनि०।

शिवाफला = स्त्री शिवाया इव फलं यस्याः। शमीवृक्षे राजनि०।

शिवाबलि = पु० शिवाभ्यो देवी बलिः शा० त०। तन्त्रसा- रविहिते सन्ध्यायां शिवाभ्यो देये मांसादिबलौ तद्विधिस्तन्त्रसारे दृश्यः।

शिवाराति = पु० शिवाया शृगालस्यारातिः। १ कुक्कुरे शब्दमा० २ शिवशिवयार्द्वेष्टरि पाषण्डे च।

शिवारुत = न० ६ त०। शृगालीशब्दे दिग्भेदे तस्य शुभाशुभफलं वसन्तराजशाकुने उक्तं यथा “शोभनं शुभफलाप्तिसूचकं कथ्यते त्ववितथं शिवारुतम्। शान्तदीप्तककुभां विशेषतो ज्ञानमत्र च सदापयुज्यते। दग्धा दिगुक्ता दिननाथयुक्ता विवस्वताप्ता भवति प्रदीप्ता। सा धूमिता यां सविता प्रयातः शेषा दिगन्ताः फिल पञ्च शान्ताः। दग्धा दिगैशी ज्वलिता दिगैन्द्रो प्रधूमिता चानलदिक्क्रमेण। आद्ये दिनस्य प्रहरे प्रवृत्ते महेशदेवेशहुताशदिक्षु। शिवा रटन्ती कुरुते नराणां संत्रासकायव्ययबन्धनानि। अह्नो द्वितीये प्रहरस्य भागे सहस्रनेत्रानलकालदिक्षु। शिवा रटन्ती कुरुते इत्यादि। ब्राह्म्ये तृतीये प्रहरे दिनस्य हुताशवैवस्वतयातुदिक्षु। शिवा रटन्ती कुरुते इत्यादि। समागतेऽह्नः प्रहरे तुरीवे प्रेतेशरक्षःपतिपाशिदिक्षु। शिवा रटन्ती कुरुते इत्यादि। आद्ये निशायाः प्रहरेप्रवृत्ते रक्षाऽधियादःपतिवातदिक्षु। शिवा रटन्ती कुरुते इत्यादि। ततो द्वितीयप्रहरे रजन्यास्तोयाधिनाथानिलसोमदिक्षु। शिवा रटन्ती कुरुते इत्यादि। यामेन्तृतीयेऽपि च यामवत्याः समीरदोषाकरशम्भुदिक्षु। शिवा रटन्ती कुरुते इत्यादि। समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्षु। शिवा रटन्ती कुरुते इत्यादि। इतीरितं दिक्त्रययामयोगात् फलं विरुद्धं विरुतैः शिवायाः। ब्रूमोऽथ दिक्पञ्चकयामयोगात् फलानि पुंसां क्रमतः शुभानि। कृतान्तरक्षोवरुणानिलेन्दुदिक्ष्वाद्ययामे रवितैः शृगाल्याः। स्यादिष्टवार्त्ताश्रुतिरिष्टसिद्धिर्लाभः सुभिक्षं प्रियलोकसङ्गः। रक्षःप्रचेतोऽनिलसोमशम्भुदिक्षु द्वितीये प्रहरे रुतेन। स्यादिष्टवार्त्ताश्रुतिरित्यादि। जलेशवातेन्दुशिवामरेशदिक्ष्वारवेण प्रहरे तृतीये। स्यादिष्टवार्त्ताश्रुतिरित्यादि। समीरसोमेशसुरेशवह्निदिक्षु स्वरेण प्रहरे चतुर्थे। स्यादिष्टवार्त्ताश्रुतिरित्यादि। शशाङ्करुद्रेन्द्रहुताशकालदिक्ष्वारवैः पञ्चमयामभागे। स्यादिष्टवार्त्ताश्रुतिरित्यादि। ईशानशक्राग्निकृतान्तरक्षोदिक्षु स्वरेण प्रहरे च षष्ठे। स्यादिष्टवार्त्ताश्रुतिरित्यादि। इन्द्राग्निकालासूपपाशपाणिदिक्ष्वारवैः सप्तमयामकाले। स्यादिष्टवार्त्ताश्रुतिरित्यादि। अत्यन्तकृन्नैरृतषाशिवातदिक्ष्वष्टमे च प्रहरे रवेण। स्यादिष्टवार्त्ताश्रुतिरित्यादि। “एकादिकानां निधनाष्टमानां शिवारुतानामधुना यदर्थम्। प्राच्यादिकास्वष्टसु दिक्ष्वशेषं यद्यत् फलं तत्तदुदीरयामः। धनान्यभीष्टाप्तिमभीष्टलाभं ध्रुवं ततोऽर्थस्य फलं शुभञ्च। भयं प्रलापं सकलञ्च सोख्यमेकादिशब्दैः कुरुते प्रशान्ते। भयान्यनिष्टश्रुतिरर्थहानिरिष्टैर्वियोगो महती च भीतिः। स्याद्विग्रहाप्तिर्मरणञ्च दीप्ते त्वेकादिना चेत् कृतसप्तकेन। ऐश्यां निनादे प्रथमेऽर्थलाभो भवेद्द्वितीये निधिदर्शनञ्च। कन्यां तृतीये लभते चतुर्थे त्वध्वागमं पञ्चमकेऽथ सिद्धिम्। षष्ठे रवे कुप्यति भूमिनाथा भोः सप्तमे स्याद्विफलोऽष्टयस्तु। त्रासोऽग्निभागे प्रथमे द्वितीये नराधिपः कुप्यति भीस्तृतीये। घातश्चतुर्थे नगरस्य शब्दे शिवाकृते पञ्चमके च युद्धम्। वदन्ति तज्ज्ञाः कलहश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। आद्ये शुभ स्यादशुभ द्वितीये याम्ये महाव्याधिभयं तृतीये। स्वरे चतुर्थे स्वजनागमः स्यात् पुत्रा भवेत् पञ्चसु फेत्कृतेषु। जायेत कन्या रटिते च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। ग्रामस्य घातो दिशि राक्षसानामाद्ये द्वितीयेऽपि च गोकुलस्य। मृत्युस्तृतीये द्विचतुष्पदानां हानिश्चतुर्थेऽपि च पञ्चमेऽत्र। चौराद्भयं राजभयञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। शब्दे शिवाया वरुणस्य भागे आद्ये भयं हानिरथ द्वितीये। स्याद्राजदूतागमनं तृतीये वादश्चतुर्थे खलु चौरभीतिः। स्यात् पञ्चमे राजभयञ्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। वायव्यभागे भयमेकशब्दे भयातिरेको भवति द्वितीये। वृष्टिस्तृतीये भहती चतुर्थे मेधागमे वर्षति पञ्चमे च। क्रोधं विघत्ते नृपतेश्च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। दिश्युत्तरस्यां बिहिते विरावे म्रियेत कश्चित् प्रथमे द्वितीये। महाभयं, विप्रबधस्तृतीये क्षत्रं चतुर्थे खलु हन्यते च। विट् पञ्चमे षष्ठरवे च शूद्रा भीः सप्तमे स्याद्विफलोऽष्टमस्तु। राहोस्तथा दर्शनमाद्यशब्दे केतोर्द्वितीये च तथोत्तरेण। उल्कापपातस्त्रिषु दुर्दिनञ्च चतुर्षु भद्रं खलु पञ्चमे च। सङ्गो भवेद्वैरिजनैश्च षष्ठे भोः सप्तमे स्याद्विफलोऽष्टमस्तु। आद्ये भवेद्दुर्दिनमोशदेशे वृष्टिर्द्वितीये च रवे शिवायाः। वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित् खलु पञ्चमे च। लभेत पृथ्वीं निनदे च षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु” “क्षेमलाभपुनरागमनानां निश्चयं यमधिगम्य विशङ्कः। येन याति पथिकः परदेश तं शिवारुतमथ प्रथयामः। यं यं देशं गन्तुमभ्युद्यतानां पुंसां शब्दानुच्चरन्ती शृगाली। शान्तायां सा सिद्धये वाञ्छितानां दीप्तायान्तु स्यादभीष्टक्षयाय। प्राचीं दिशं सम्मुखभानुविम्बं प्रतिष्ठमानस्य नरस्य यस्य। शब्दं सृगाली पुरतः करोति बन्धं बधं वा प्रकरोति तस्य। प्राचीदिगीशाभिमुखस्य पुंसः व्रस्थानकामस्य शिवा सशब्दा। भियेऽर्थनाशाथ च द क्षिणा स्याद्वामा पुनर्वाञ्छितकार्य्यसिद्ध्यै। प्रत्यर्कमाशां चलितस्य पूर्वां शिवा विरावं पुरुषस्य यस्य। करोति पृष्ठे प्रकरोति तस्य सर्वप्रकारामभिलाषसिद्धिम्। प्रस्थायिनो यस्य च दक्षिणाशां शिवा रतं मुञ्चति दक्षिणेन। आदित्यमुक्ता यदि नो तदानीं ध्रुवं भवेत्तस्य महीपतित्वम्। वैवस्वताशाचलितस्य यस्य दिवाकरस्तिष्ठति दक्षिणेन। शिवा च वामा कुरुते विरावं सम्पद्यते तस्य समस्तमिष्टम्। पुमान् यदा याम्यककुप्प्रवासी करोति शब्दं पुरतः शृगाली। आस्ते विवस्नानपि सम्भुखश्चेत् भवेत् तदानीमचिरेण मृत्युः। नरस्य याम्यां ककुभं यियासोः शृगालभार्य्या यदि पृष्ठभामे। फेत्कारमामुञ्चति मानवस्य मृत्युश्च पुत्रेण भवत्यवश्यम्। दिशं प्रतीचीं व्रजतः शृगाली नरस्य यस्याभिमुखी विरौति। शान्तास्थिता शान्तफलादात्री दीप्तास्थिता दीप्तफलं तनोति। प्राचेतसीं सञ्चलितस्य काष्ठां शृगालिका जल्पति दक्षिणेन। यदा वदानीं सुबहूननर्थान् करोति चार्थानपि हन्ति पुंसः। दिशं प्रचेतःपरिपाल्यमानां नरस्य यस्य व्रजतः शृगाली। वामा विरार्व प्रकरोति शान्ता भवन्त्यभिप्रेतफलानि तस्य। यो वारुणीं याति दिशं भनुष्यः शृण्वन् शिवायारटितानि पृष्ठे। गतस्य तस्याशु हृताशभीतिरसंशयं स्यात् द्रविणक्षयश्च। यस्योत्तराशां चलितस्य पुंसः प्राच्यां शिवा मुञ्चति फेत्कृतानि। भानुः प्रतीच्यां विहितस्थितिश्चेदपेक्षितं सिध्यति तत्क्षणेन। मुञ्चत्युदीचीं चलितस्य पृष्ठे शिवा विरावं पुरुषस्य यस्य। आस्ते च मध्ये नभसो विवस्वांस्तस्यार्थहानिर्मरणं प्रदिष्टम्। कुवेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति। तस्याध्वगस्याभिमत्यर्थसिद्धिर्भवेच्च सम्पत् पुनरागमश्च। तिष्ठति तीव्रकरोदिशि यस्यां फेत् कुरुते यदि तत्र शृगाली। तद् व्रजतः पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ। दक्षिणतः प्रथमं यदि पश्चात् वामगता पथिकस्य शृगाली। फेत् कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि। अथास्य शान्तां ककुभं नरस्य वामा शृगाली यदि वा रटन्ती। तदार्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणती रटन्ती। वामा प्रदीप्ते ककुभः प्रदेशेऽलाभं तथानर्थमुपादिशन्ति। शिवा रटन्ती पथि दक्षिणा तु क्षिपत्यनर्थानथसङ्कटेषु। शान्ते दिगन्ते यदि वा प्रदीप्ते पृष्ठे प्रयाणे प्रतिषेधयित्री। शब्दायमाना तु शिवा पुरस्तात् निमज्जयत्यापदगाधसिन्धौ। वामेऽपसव्ये पुरतोऽथ पृष्ठे पुंसः शिवा जल्पति यत्र तत्र। आयान्ति चौराः प्रथमे विरावे द्वयोर्भवेत्तस्करदर्शनञ्च। नृपादरोऽर्थागमनं तृतीये तुर्य्ये क्षतिः पञ्चमकेऽर्थलाभः। वाणिज्यसेवादिफलाय षष्ठे भीः सप्तमे स्याद्विफलोऽष्टमस्तु। हाहारवं मुञ्चति हृष्टभावा हास्यं तु तस्यास्तदुदाहरन्ति। अग्रेसरा वा पथि या यियासोः सा द्बिप्रकाराषि मनोरथाप्त्यै। नृपस्य यात्रासमये पुरस्तात् प्रायाति चेद्वर्त्मनि वेदयन्ती। कुर्य्याच्छिवा वैरिपराभवं तज्जयश्रियञ्चाभिमतं विदध्यात्। कार्य्यान्तरेष्वप्यनुगम्यमाना श्रेयःप्रदा शान्तदिशि प्रदिष्टा। शिवा प्रदीप्ते तु दिशि प्रदेशे समारटन्ती महते भयाय। भवोद्गमे दीप्तदिशि प्रदीप्तैर्नादैर्नृणां हन्ति भयानि देवी। महान्ति सर्वाण्यपि, शान्तनादा शान्तस्थिता सर्वभयप्रदात्री। यदा च नद्युत्तरगा नराणां शब्दं शृनाली कुरुते कदाचित्। तटद्वये तत्परिरक्षणीयं महद्भथं भावि जलेचरेभ्यः”। “स्थानस्पितानामपि योगभाजां नैमित्तिकानासुपदिश्यते तु। शिवाविरावैरशिवं शिवञ्च सुनिश्चितार्थं मुनिसम्मतेन। करोति फे फे इति सर्वदिक्षु यदा तदा स्थानविघातयुद्धे। शिवो विधत्ते क्षुधिता त्वसंख्यान् रौद्रान् स्वरान् मुञ्चति चेदुपेक्षाम्। निरन्तरं रौति विदिक्षुदिक्षु समन्दकारुण्यवरातुरा चेत्। अपत्यमोहेन यदा शृगाली त्यक्तस्पृहा सा कथितेह तज्ज्ञैः। स्थित्वा प्रदीप्ते ककुभो विभागे ज्वालामुखी फेत्कुरुतेऽतिरौद्रम्। ग्रामस्य तस्य प्रकरोति नाशं तस्याथ वा तिष्ठति यस्य मध्ये। ग्रामस्य मध्यं समवाप्य यस्य ज्वालामुखी मुञ्चति फेत्कृतानि। स शून्यतां गच्छति निश्चयेन लोकस्य वा स्यादसुखं प्रभूतम्। ग्रामान्तिके सप्तदिनानि यावत् महाभयोत्पादितफेत्कृतानि। विरौति चेत्तत् कुरुते शृगालो तद्वासिलोकस्य भयं प्रभूतम्। मध्यंदिने यावदहानि पञ्च शिवा समीपे नगरस्य यस्य। विरौति घातं विदधाति तस्य भयञ्च बह्निप्रभवं प्रभूतम्। पञ्चार्द्धरात्राणि कथञ्चिदेषा क्रूरारवा व्याहरते शृगाली। यस्यान्तिके तं बहवो हठेन मुष्णन्ति चौरा जनसन्निवेशे। स्थानस्य यस्योपगता समीपं दिनानि पञ्चोच्चरति प्रभाते। स्वरेण रौद्रेण शृगालभार्य्या स्यात्तत्र हानिर्महती नराणाम्। सुरक्षितस्यापि मनुष्यलक्षैर्ग्रामस्य शीघ्रं हरणं विधत्ते। त्रयं दिबानां दिवसावसाने शिवारटन्ती परुषस्वरेण। दिक्ष्वारटन्ती सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरश्चेत्। शृगालभार्य्या खलु तद्ब्रवीति युद्धं महत्तत्र महाभिघातम्। ज्वालां विमुञ्चत्यतिरौद्रनादा समाकुला धावति या समन्तात्। कौमारक था जनयत्यकस्मात् कुर्य्याच्छिवा सा युवराजपातम्। रोमोद्गमं या जनयत्यकस्मात् फेइत्यतिक्रूररवा नराणाम्। मूत्रं पुरीषन्तु तुरङ्गमाणां सा सर्वदा स्यादशिवा शिवेह। तरङ्गिणोरोधसि सौम्यरूपांस्त्रीन् पञ्च वा मुञ्चति या निनादान्। शिवां शिवां तां नृपतित्वदात्रीं वन्देत देवीमभिवन्दनीयाम्। श्मशानभूमौ दिनमध्यभागे मध्ये रजन्याः स्वगृहप्रदेशे। सा रौति तस्यै बलिमर्घ्ययुक्तं भक्त्या प्रदद्याद् यदि भष्ट्रमिच्छेत्। सर्वेषु कार्येषु समुद्यतेषु बलिः शिवाया विमियेदनीयः। गृह्णाति यस्मिन् विषयेऽभ्युपेत्य देवी बलिं जल्पति तत्र सिद्धिम्” “कथ्यते बलिविधानमिदानीं शाकुनागममतेन शिवायाः। दिव्यमन्त्रबलिबाधितदोषं साधिताखिलसमुद्यतकार्यम्। शून्यालयं रुद्रगृहं श्मशानं चतुष्पथं मातृगृहं जलान्तम्। बन्ध्यावनिश्चत्वरमेवमाद्या वलिप्रदानाय मताः प्रदेशाः। तेषाञ्च मध्यादुचितप्रदेशे विशोधितं मण्डलिकं विदध्यात्। पौराणिकश्लोकपरीक्षितायाः सगृह्य गोर्गोमयमन्तरीक्षात्। अत्यन्तजीर्णदेहाया बन्ध्यायाश्च विशेषतः। रोगार्त्तनवसूताया न गोर्गोमयमाहरेत्। तस्मिन् विचित्रं विततं विदध्यात् पिष्टाक्तकेनाष्टदलं सरोजम्। संपूजयेत् तत्र सुराधिपादीन् क्रमेण सर्वानपि लोकपालान्। मध्ये सुतैः पञ्चभिरभ्युपेता शिवान्विता पिष्टमयी प्रसन्ना। पूज्या शिवा तुष्यति भक्तियोगात् प्रभूतपुष्पाक्षतधूपदीपैः। साज्यगुडौदनमाषकुलत्थं र्यावकपूपलिकामिषमद्यैः। संभृतिरत्र नराशनमात्रं बुद्धिमता बलिकर्मणि कार्य्या। प्राप्याष्टमीं वामचतुर्दशीं वा संमन्त्र्य मन्त्रेण च सप्त कृत्वः। बलिं शिवाया निशि निश्चयेन दद्यान्मनुष्यो यदि भद्रमिच्छेत्”।

शिवालय = न० शिव आलीयतेऽत्र ली–अच्। १ श्मशाने हारा०। ६ त०। २ रक्ततुलस्यां शब्दर०। ३ महादेवगृहे च पु०।

शिवालु = पु० शिवायालति अल–उन्। शृगाले राजनि०।

शिवास्मृति = स्त्री शिवायाः स्मृतिर्यस्याः ५ ब०। जयन्तीवृक्षे शब्दच० तन्नामोच्चारणे हि जयन्तीनामकदुर्गायाः स्मरणमिति तस्यास्तथात्वम्।

शिवाह्लाद = पु० शिवमाह्लादयति आ + ह्लद–णिच्–अण्। १ वकवृक्षे राजनि०। ६ त०। २ ततसन्तोषे च।

शिवाह्वा = स्त्री शिवस्येवाह्वा यस्याः। रुद्रजटावृक्षे राजनि०। ६ त०। २ महादेवाह्लाने च।

शिवि = पु० शि–वि नि० न गुणः। १ हिंस्रपशौ त्रिका०। २ भूर्जवृक्षे ३ उशीनरराजसुते नृपभेदे च मेदि०।

शिविका = स्त्री शिवं करोति शिव + णिच्–ण्वुल् अत इत्त्वम्। यानभेदे (डुली) अमरः।

शिविर = न० शो + किरच् वुक् च। कटके सैन्यनिवासस्थाने। शिविरलक्षणमुक्तं यथा “शिविरं परिखायुक्तमुच्चैःप्राकारवेष्टितम्। युक्तद्वादशद्वारञ्च सिंहद्वारपुरस्कृतम्। युक्तं चित्रैर्विचित्रैश्च कृत्रिमैश्च कपाटकैः। निषिद्धवृक्षरहितं प्रसिद्धैश्च पुरस्कृतम्। सुलक्षणं चन्द्रवेधं प्राङ्गिणञ्च तथैव च”। तत्र विहितनिषिद्धवृक्षादि यथा “आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः। शिविरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः। सर्वत्र मङ्गलार्हश्च तरुराजी मनोहरः। रसालवृक्षः पूर्वस्मिन्नृणां सम्पत्प्रदस्तथा। शुभप्रदश्च सर्वत्र सुरकारो! निशामय। बिल्वश्च पनसश्चैव जम्बीरो बदरी तथा। प्रजाप्रदश्च पूर्वस्मिन् दक्षिणे धनकस्तथा। सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धते गृही। जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा। बन्धुपदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा। सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः। हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा। ईशाने सुखदश्चैव सर्वत्रैव निशामय। सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा। अलाबुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः। खर्जुरी कर्कटी चापि शिविरे मङ्गलप्रदाः। वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः।। लताफद्धञ्च शुभदं सर्वं सर्वत्र निश्चि- तम्। प्रशस्तं कथितं कारो! निषिद्धञ्च निशामय। वन्यवृक्षा निषिद्धश्च शिविरे नगरेऽपि च। वटो निषिद्धः शिविरे नित्यं चौरभयं ततः। नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा। हे कारो! तिन्तिडीवृक्षो यत्नात्तं परिवर्जय। शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम्। शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च। न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरषु च। वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम। ग्रामेषु नगरे चापि शिविरे च तथैव। इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा। अशाकश्च शिरीषश्च कदम्बश्च शुभप्रदाः।। कच्ची हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा। हरीतकी च शुभदा ग्रामेषु नगरेषु च। न वाठ्यां भद्रदा नित्यं तथा चामलकी ध्रुवम्। गजानामस्थि शुभदमश्वानाञ्च तथैव च। कल्याणमुच्चैःश्रवसां वास्तौ स्थापनकारिणाम्। न शुभप्रदमन्येषामुच्छन्नकारणं परम्। वानराणां नराणाञ्च गर्दभानां गवामपि। कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम्। भेटकानां शूकराणां सर्वेषाञ्चा शुभप्रदम्। ईशाने चापि पूर्वस्मिन् पश्चिमे च तथोत्तरे। शिविरस्य जलं भद्रमन्यत्राशुभमेव च। दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः। चतुरस्रे गृहे कारो! गृहिणां धननाशनम्। दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतः। शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम। प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयं तथा। गृहिर्णा शुभदं द्वारं प्राकारस्य गृहस्य च। न मध्यदेशे कर्त्तव्य किञ्चिन्न्यूनाधिके शुभम्। चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम्। अभद्रं सूर्य्यवेधञ्च प्राङ्गणञ्च तथैव च। शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम्। धनपुत्रप्रदात्री च पुण्यदा हरिभक्तिदा। प्रभात तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत्। मालती यूथिका कुन्दोमाधवी केतकी तथा। नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम्। अपराजिता च शुभदा तेषामुद्यानमीप्सितम्। पूर्वे च दक्षिणे चैव शुभदं नात्रसंशयः। ऊर्द्ध्वं षोडशहस्तभ्यो नैवं कुर्य्याद् गृहं गृही। ऊर्द्ध्वं विशतिहस्तेभ्यः प्राकारं न शुभप्रदम्। सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम्। वाटीमूले ग्राममध्ये न कुर्य्यात् स्थायिनं बुधः। ब्राह्मणं क्षत्रियं वैश्यं सच्छूद्रं गणकं शुभम्। भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके! प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम्। परितः शिविराणाञ्च गम्भीरं दशहस्तकम्। सङ्केतपूर्वकञ्चैव परिस्वाद्वारमीप्सितम्। शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च। शाल्मलीनां तिन्तिडीनां हिन्तालानां तथैव च। निम्बानां सिन्धुवाराणां उडम्बराणामभद्रकम्। धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम्। एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम्। वृक्षञ्च वज्रहेतकं दूरतो वर्जयेद् बुधः। पुत्रदारधनं हन्यादित्याह कसलोद्भवः” ब्रह्मवै० ख० १०२ अ०।

शिवेष्ट = पु० ६ त०। १ वकवृक्षे २ दूर्वायां स्त्री राजनि०। ३ महादेवप्रिये त्रि०।

शिवीरथ = शिवेर्भुर्जवृक्षस्य ईः शोभा यत्र तादृशो रथः। याप्ययाने हारा०।

शिशिर = न० शश–किरच् नि०। १ हिमे माघफाल्गुनमासद्वयात्मके २ ऋतुभेदे अमरः। तत्र ऋतौ वर्ण्यादिवस्तूनि “करीषः धूमः कुन्दः पद्मदाहः शिशिरोत्कर्षः” कविक० ल० ३ शीतले स्पर्शे च न० ३ तद्वति त्रि० अमरः।

शिशु = पु० शो–कु सन्वद्भावः द्वित्वम्। १ बालके अमरः २ स्वल्पे च।

शिशुक = पुंस्त्री० शिशुरिव इवार्थे कन्। १ जलजन्तुभेदे (शुशुक) राजानि० स्त्रियां ङीष्। २ बालके मेदि०। ३ वृक्षभेदे हेमच० “जातमात्रः शिशुस्तावत् यावदष्टौ समा वयः। स हि गर्भसमोज्ञेयो व्यक्तिमात्रप्रदर्शकः। भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथाऽनृते। तस्मिन् काले न दोषः स्यात् स यावन्नोपनीयते” मनुः।

शिशुगन्धा = स्त्री शिशुः खल्पो गन्धा यस्याः। मल्लिकाभेदे शब्दमा०।

शिशुचान्द्रायण = न० “चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः। चतुरोऽस्तमिते सूर्य्ये शिशुचान्द्रायणं स्मृतम्” मनूक्ते व्रते।

शिशुत्व = न० ६ त०। शिशोर्भावः त्व। बाल्ये तल्। शिशुताऽप्यत्र स्त्री।

शिशुपाल = पु० चेदिदेशीयराजभेदे दमघोषात्मजे त्रिका०।

शिशुपालहन् = पु० शिशुपालं हतवान् हन–भूते क्विप्। श्रीकृष्णे हेमच०।

शिशुमार = पुंस्त्री० शिशुं मारयति मृ–णिच। १ जलजन्तुभेदे अमरः स्त्रियां ङीष्। गगनस्थे २ ताराचक्रभेदे च “शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति। सन्नि वेशञ्च तस्यापि शृणुष्व मुनिसत्तम!। यदह्ना कुरुते पापं दृष्ट्वा तन्निशि मुच्यते। तावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि। तावन्त्येव तु वर्षाणि जीवन्यभ्यधिकानि तु। उत्तानपादस्तस्याथ विज्ञेयोऽप्युत्तरी हलः। यज्ञो-ऽधरश्च विज्ञेयो धर्मो मुर्द्धानमाश्रितः। हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः। वरुणश्चार्य्यमा चैव पश्चिमे तस्य सक्थिनी। शिश्नं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः। पुच्छेऽग्निश्च महेन्द्रश्च कश्यपोऽथ ततो ध्रुवः। तारकाः शिशुमारस्य नास्तमेति चतुष्टयम्” विष्णुपु० २ अं १२ अ०। भाग० २३ अ० अन्यथोक्तं यथा “केचिदेतत् ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवणयन्ति। यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति। पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः यस्य दक्षिणावर्त्तकुण्डलीभूतशरीरस्य यान्युद्गमनानि दक्षिणपार्श्वे नक्षत्राणि उपकल्पयन्ति। दक्षिणानि तु सव्ये यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवाः समसंख्या भवन्ति। पृष्ठे त्वजवीथी आकाश गङ्गा चोदरतः। पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योरार्द्राश्लेषा च दक्षिणवामयोः पादयोरभिजिदुत्तराषाढे दक्षिणवामपार्श्वबध्रिषु युञ्जीत। तथैव भृगशीर्षादीन्युद्गमनानि दक्षिपार्श्वे प्रातिलोम्येन प्रतियुञ्जीत। शतभिषाज्येष्ठे स्कन्घयोर्दक्षिणवामयोर्न्यसेत्। उत्तराहनावगस्त्यः अधराहनौ यमः मुख्ये चाङ्गारकः शनैश्वर उपस्थे वृहस्पतिः ककुदि वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रोनाभ्यामुशनास्तनयोरश्विनौ बुधः प्राणापानयो राहुर्गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः। एतदुहैव भगवतो विष्णोः सर्वदेवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतोनिरोक्षमाण उपतिष्ठेर्त”।

शिशुवाह = पुंस्त्री० शिशुं वहति वह–ण्वुल्। वनच्छागे हेमच० स्त्रियां ङीष्। शिशुर्वाह्योऽस्य। शिशुवाह्य तत्रार्थे त्रिका०

शिश्न = पु० शश–नक् नि०। मेढ्रे पुंचिह्नभेदे अमरः।

शिश्विदान = त्रि० श्विद–कानच् द्वित्वम्। पापकारके अमरः

शिष = बधे भ्वा० पर० सक० सेट्। शेषति अशेषीत्।

शिष = परिशेषीकरणे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। शेषयति ते शेषति अशिशीषत् त अशेषीत्।

शिष = विशेषे रुधा० पर० सक० अनिट्। शिनष्टि ऌदितशिषत् शेष्टा।

शिष्ट = त्रि० शास–क्त शिष–क्त वा। १ शान्ते २ वेदबाक्ये विश्वासयुते ३ सुबोधे ४ धीरे च “न पाणिपादचपलो न नेत्रचपलो मुनिः। न च वागङ्गचपल इति शिष्टलस्य क्षणम्” भा०आश्व० “धर्मो नातिगतोयैस्तु वेदः स परिवृंहितः। ते शिष्टा ब्रह्मणा प्रोक्ता नित्यमात्मगुणान्विताः” कूर्म० उप० २४ अ०। “विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकीर्त्त्यते। मन्वन्तरेषु ये शिष्टाः इह तिष्ठन्ति धार्मिकाः। मनुः सप्तर्षयश्चैव लोकसन्तानकारणात्। तिष्ठन्तीह च धर्मार्थं तान् शिष्टान् परिचक्षते। तैः शिष्टैः स्थापितो धर्मः स्थाप्यते वै युगे युगे” मत्स्यपु० १२० अ०। ५ कृतशासने ६ अवशिष्टे च।

शिष्टाचार = पु० शिष्टानामाचारः। सह्यवहारे “ततः स्मार्त्तः स्मृतो धर्मो वर्णाश्रमविभागशः। एवं वै विविधो धर्मः शिष्टाचारः स उच्यते। त्रयी वार्त्ता दण्डनीतिः प्रजा वर्णाश्रमेज्यया। शिष्टैराचर्य्यते यस्मात् शिष्टाचारः स शाश्वतः। दानं सत्यं तपोऽलोभो विद्येज्या पूजनं दमः। अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम्। शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये। मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः। श्रुतिस्मृतिभ्यां विहितो धर्म्मो वर्णाश्रमात्मकः। शिष्टाचारविवृद्धस्तु धर्मः स साधुसम्मतः” मत्स्यपु० १२५ अ०। “आचारश्चैव साधूनामिति” मनुना तस्य धर्मे प्रामाण्यमुक्तं स च वेदाविरुद्ध एव प्रमाणम् श्रुतिस्मृत्योर्भिन्नविषयत्वे सदाचारेण तत्र धर्मनिर्णयः। श्रुतिविराधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधे सदाचारस्य न धर्मनिर्णायकत्वम्। तेन दाक्षिणात्यानां मातुलकन्याविवाहस्य शिष्टैराचर्य्यमाणत्वेऽपि न प्रमाणता। तदेतत् “विरोधे त्वनपेक्षं स्यादसति ह्यनुसानं जैमि० सूत्रेण निर्णीतम्। वशिष्ठेनापि “तदभावे शिष्टाचारः प्रमाणम्” इत्युक्तम्। ततश्च शिष्टाचारेण सूलस्मृतिरनुमीयते यथा होलकाद्याचारात्। ततः स्मृत्या मूलश्रुतिरनुयातव्येति अधिकरणमाला। अतएव अविगोतशिष्टाचारपरम्पराप्राप्तं ग्रन्थादौ मङ्गलाचरणं मङ्गलवादादौ व्यवस्थापितम्।

शिष्टि = स्त्री शास–क्तिन्। १ आज्ञायां २ शासने अमरः। ३ ताडने च “शिष्यशिष्टिरबधेन” स्मृतिः।

शिष्य = त्रि० शास–क्यप्। १ शिक्षणोये २ छात्रे अमरः ३ उपदेश्ये च। शिष्यलक्षणादि तन्त्रसा० उक्तं यथा

“शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे क्षमः। समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो धनी। एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा। गुरुता शिष्यता वापि तयोर्वत्सरवासतः” तथा चोक्तं सारसंग्रहे “सद्० गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत्। वर्षैकेन भवेद्योग्यो विप्रोगुणसमन्वितः। वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः। चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता” तत्रैव “राज्ञि चामात्यजो दोषः पत्नी पापं स्वभर्त्तरि। तथा शिष्यार्जितं पापं गुरुः प्राप्नोति निश्चितम्” देव्यागमे शिववाक्यं “गुरुशय्यासनं यानं पादुकोपानहं पीठम्। स्नानोदकं तथा छायां लङ्घयेन्न कदाचन। गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत्। दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे परित्यजेत्”। अथ निषिद्धशिष्याः अगस्त्यसंहितायामुक्ता यथा

“अलस्रा मलिनाः क्लिन्नाः दाम्भिकाः कृपणास्तथा। दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः। असूयामत्सरग्रस्तास्तथा परुषवादिनः। अन्यायोपार्जितधनाः परदाररताश्च ये। भ्रष्टव्रताश्च ये कष्टवृत्तयः पिशुनाः खलाः। बह्वाशिनः क्रूरचेष्टा दुरात्मानश्च निन्दिताः। इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः। एवंभूताः परित्यज्या शिष्यत्वेनोपकल्पिताः। पापिने क्रूरचेष्टाय कृपणाय तथैव च। दीनायाचारशून्याय मन्त्रद्वेषकराय च। मिन्दकाय च मूर्खाय तीर्थद्वेषपराय च। भक्तिहीनाय देवेशि! न देया मलिनस्य च” “आचारे शासयेद्यस्तु स आचार्य्य उदाहृतः। य आचार्व्यपराधीनस्तद्वाक्यं धार्य्यते हृदि। शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः। एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम्। अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम्” पद्मपु० उ० २५ अ०।

शि(सि)ह्ल = पु० सिह–लक् नि० सस्य शो वा। (शिलारस) गन्धदूव्यभेदे शब्दच०। स्वार्थे क। तत्रैव अमरः।

***