शाक = पु० न० शक–घञ्। १ पत्रपुष्पादौ अमरः २ वृक्षनेदे पु० (सेगुण) वृक्षे च ३ शक्तौ ४ शिरीषवृक्षे पु० शब्दरत्ना०। ५ स्वराज्यावधि वत्सरप्रवर्त्तके राजभेदे ६ तदीये वत्सरे च पु० मेदि०। श्यति सामर्थ्यं शो–क तस्य नेत्त्वम्। “मूलपत्त्रे करीराग्रे फलकाण्डाधिरूढकम्। त्वक्पुष्पं कवकञ्चैव शाकं दशविधं स्मृतम्” इत्युक्तेषु ७ वृक्षादीनां पत्त्रादिषु न०। तत्र १ मूलं भूलकादेः। २ पत्रं वास्तूकादेः। ३ करीरं वंशादेः। ४ अग्रं वेत्रादेः। ५ फलं कुष्माण्डादेः। ६ काण्डं उत्पलादेः। ७ अधिरूढं तालास्थिमज्जादेः। ८ त्वक् मातुलाङ्गादेः। ९ पुष्पं कोविदारादेः। १० कवकं छत्रिकादेः। भावप्र० अन्यथोक्तं यथा “पत्रं पुष्प फलं नालं कन्दं संस्वेदजं तथा। शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम्”। “प्रायः शाकानि सर्वाणि विष्टम्भीनि गुरूणि च। रूक्षाणि बहुवर्चांसि सृष्टविण्मारुतानि च। शाकं भिन्नत्ति वपुरस्थि नहन्ति नेत्रम् वर्णं विनाशयति रक्तमथापि शुक्रम्। प्रज्ञाक्षयं च कुरुते पलितञ्च नूनम् हन्ति स्मृतिं गति मिति प्रवदन्ति तज्ज्ञाः”। ८ द्वीपभेदे मत्स्यपु० १२१ अ० तत्प्रमाणाद्युक्तं यथा “शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्। कथ्यमानं नियोधध्वं शाकं द्वीपं द्विजोत्तमाः!। जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः। विस्तारात् द्विगुणश्चापि परीणाहः समन्ततः। तेनावृतः समुद्रोऽयं द्वितीयो णवणोदकः। तत्र पुण्या जनपदा चिराच्च म्रियते जनः। कुत एव च दुर्भिक्षं क्षपातेजोयुतेष्विह। तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः। शाकद्वीपादिषु स्येषु सप्त सप्त नगास्त्रिषु। ऋज्वायताः प्रतिदिशं निविष्टाः पर्वतोत्तमाः। रत्नाकराद्रिनामानः सालुमन्तो महाचिताः। समोदिताः प्रतिदिशं द्वीपविस्तारमानतः। उभवत्रावगाढौ च लवणक्षीरसागरौ। शाकद्वीप्रे तु वक्ष्यामि सप्त दिव्यान् महाचलान्। देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतः स सौवर्ण चदयो नाम पर्वतः। तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च। तस्यापरेण सुमहान् जलधारो महागिरिः। स वै चन्द्रः समाख्यातः सर्वौवधिसमन्वितः। तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम्। नारदो नाम चैवोक्तो दुर्गशैलो महाचितः। तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ। तस्यापरेण सुमहान् श्यामो नाम महागिरिः। यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल। स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः। शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः। रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत्। तस्यापरेण रजतो महानस्तो- गिरिः स्मृतः। स वै सोमक इत्युक्तो देवैर्वत्रामृतं पुरा। अमृतञ्चाहृतञ्चेव मातुरर्थे गरुत्मता। तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः। हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः। आम्बिकेयात् परो रम्यः सर्वाषधिनिवेशितः। विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान् निरिः। यस्माद्विभ्राजते वह्निर्विभ्राजस्तेन स स्मृतः। सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च। तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः। शृणुध्वं नामतस्तानि यथावदनुपूर्वशः। द्विनामान्येव वर्षाणि यथैव गिरयस्तथा। उदयस्योदयं वर्षं जलधारेति विश्रुतम्। नाम्ना गतभयं नाम वर्षं तत् प्रथमं स्मृतम्। द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्। तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम्। नारदस्य च कौमारन्तदेव च सुखोदयम्। श्यामपर्वतवर्षं तदनीचकमिति स्मृतम्। आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम्। सोमकस्य शुभं वर्षं विज्ञयं कुसुमोत्करम्। तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम्। आम्बिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम्। तदेव ध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम्। द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव च। जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिम्। शाको नाम महावृक्षः प्रजास्तस्य सहानुगाः। एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः। विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह। तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः। तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः। द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधा स्मृता। प्रथमा सुकुमारीति गङ्गा शिवजला शुभा। मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता। सुकुमारी तपःसिद्धा द्वितीया नामतः सती। नन्दा च पावनी चैव तृतीया परिकीर्त्तिता। शिविका च चतुथी स्यात् द्विविधा च पुनः स्मृता। इक्षुश्च पञ्चमी श्वेथा तथैव च पुनः कुहूः। वेणुका चामृता चैव षष्ठो सम्परिकीर्त्तिता। सुकृता च गभस्ती च सप्तमी परिकीर्त्तिता। एताः सप्त महाभागाः! प्रतिवर्षं शिवोदकाः। भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्। अभिगच्छन्ति ताश्चान्या नदनद्यः सरांसि च। बहूदकपरिस्रावा यतो वर्षति वासवः। तासान्तु नामधेयानि परिमाणं तथैव च। न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः। ताः पिबन्ति सदा हृष्टा नदीर्जन्पदास्तु ते। एते शान्तभयाः प्रीक्ताः प्रमोदा ये च वै शिवाः। आनन्दाश्च सुखाश्चैव क्षेमकाश्च नरैः सह। वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः। आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः। अवसर्पिणी न तेष्वस्ति तथैवोत् सर्पिणी पुनः। न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित्। त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते। शाक द्वीपादिषु ज्ञेयं पञ्चस्वंतषु सर्वशः। देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः। न तेषु सङ्करः कश्चित् वर्णाश्वमकृतः क्वचित्। धर्मस्य चाव्यभीचारादेकान्तसुखिनो जनाः। न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः। विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम्। कालो मैव च तेष्वस्ति न दण्डो न च दाण्डिकः। स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्”।
शाकचुक्रिका = स्त्रा शाकेषु मध्ये चुक्रिका। चिञ्चायां राजनि०।
शाकट = न० शकटाय हितम् अण्। १ शकटसम्बन्धियुगादौ २ शकटयोद्धरि च मेदि०। २ श्लेष्मातक वृक्षे राजनि०। ४ धववृक्षे च पु० रत्नमा०।
शाकटायन = पु० व्याकरणकारके मुनिभेदे “इन्द्रश्चन्द्रः काश कृत्स्त्न्यापिशली शाकटायनः। पाणिन्यमरजैनेन्द्राः जयन्त्यष्टादिशाव्दिकाः” कविकल्पद्रुमः।
शाकटिक = पु० शकटेन चरति टञ्। शकटेन गन्तरि।
शाकटीन = पु० शकटः परिमाणमस्य खञ्। विंशतितुलापरिमाणे हेमच०।
शाकतरु = पु० शाकाख्यः तरुः। (सेगुण) वृक्षे शब्दच०। शाकवृक्षादयोऽप्यत्र।
शाकपत्त्र = पु० शाकस्येव पत्त्रमस्य। शिग्रुवृक्षे राजनि०।
शाकबालेय = पु० वलये हितम् ढक् शाकप्रधानो बालेयः। ब्रह्मयष्टिकायाम् शब्दच०।
शाकबिल्व = पु० शाकोऽपि बिल्य इव। वार्त्ताकौ जटा० स्वार्थे क। तत्रैव त्रिका०।
शाकम्भरी = स्त्री शाकैर्विभर्त्ति भृ–स्वच् मुम् च। “भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः। शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि” देवीमा० निरुक्तायाम् १ दुर्गायाम्। २ रोमकान्तर्गतशाकम्भरनगर्य्यां न० तत्र भवं छ। शाकम्भरीय लवणभेदे न० “शाकम्भरीयं कथितं गडाख्यं रोमकं तथा! गडाख्यं लघु वातघ्नमत्युष्णं भेदि पित्तलम्। तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि च” भावप्र०।
शाकयोग्य = पु० शाके तद्भक्षणे योग्ब्रः। धन्याके राजनि०।
शाकराज = पु० शाकेषु राजते अच्, शाकानां वा राजा टच् समा०। वास्तूकशाके राजनि०।
शाकल = पु० ब० व० शकलेन ऋषिणा प्रोक्तमधीयते अण्। १ शकलर्षिप्रोक्तकल्पादिग्रन्थाध्येतृषु। तेषां संघोऽङ्को घोषो वा पुनरण् वुन् वा। शाकल शाकलक वा। १ तत्समूहे २ तदङ्के। ३ तद्धोषे च पु०। अङ्कः परस्परा सम्बन्धः” सि० कौ०।
शाकलिक = त्रि० शकलस्येदं ठक् कात्या० वार्त्ति०। शकलसम्बन्धिनि पक्षे अण् शाकल तत्रार्थे।
शाकवीर = पु० शाकेषु वोरः वीर्य्याधायकत्वात्। १ वास्तूकशाके त्रिका०।
शाकशाकट = न० शाकस्य क्षेत्रं शाकटच्। शाकक्षेत्रे। शाकटिनच् शाकशाकटिन अत्रार्थे हेमच०।
शाकश्रेष्ठ = पु० शाकेषु श्रेष्ठः। १ वास्तूकशाके शब्दर०। २ जीवन्त्यां ३ वार्त्ताकौ स्त्री हेमच०।
शाकाङ्ग = न० शाकस्य तद्भणस्याङ्गमुपयोगि। १ मरिचे २डोडीक्षुपे राजनि०।
शाकाम्ल = न० शाकमेवाम्लम्। वृक्षाम्ले राजनि०।
शाकाम्लभेदन = न० शाकरूपम् अम्ल भिनत्ति भिद–ल्यु। १ चुक्रे (चुकोपालङ्ग) राजनि०।
शाकालाबु = स्त्री शाकप्रधानालाबुः। अलाबुभेदे राजालाबु वृक्षे राजनि०।
शाकाष्टका = स्त्री शाकेन कर्त्तव्या अष्टका। गौणफाल्गुनकृष्णाष्टम्याम् अष्टकाशब्दे ५१६ पृ० दृश्यम्।
शाकिनी = स्त्री शाकमस्त्यस्याः उत्पद्यत्वेन इनि। १ शाकभवनयोग्यायां मूमौ गृहवाटिकायाम् २ देवीसहचरीभेदे च। “डाकिनी योगिनी चैव खेचरी शाकिनी तथा। दिक्षु पूज्या इमा देव्यः सुसिद्धिफलदायिकाः” कात्या० कल्प०। कण्ठदेशस्थे विशुद्धाख्ये चक्रे स्थितायां ३ देवीशक्तौ च “विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुते। सदाशिवं शाकिनीञ्च विन्यसेत् पूर्ववत्ततः” तन्त्रसा०।
शाकुण = पु० शक–वा० उणन्। परतापके शब्दमा०।
शाकुन = पु० शकुनं शुभाशुभसूचकं निमित्तमधिकृत्य कृतो ग्रन्थः अण्। शकुनज्ञानसाधने ग्रन्थे (काकचरित)। “शुभाशुभज्ञानविनिर्णयार्थो हेतुर्नृणां यः शकुनः स उक्तः। गतिस्वरालोकनभावचेष्टां संकीर्त्तयामोद्विपदादिकानाम्। लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकर्म्मा। नापायकूपे पतति प्रसर्पन् शास्त्रं हि दिव्या दृगतीन्द्रियेषु” वसन्ताजिः।
शाकुनिक = पु० शकुनेन पक्षिवधादिना जीवति ठञ्। पक्षिथातके अमरः।
शाकुन्तलेय = पु० शकुन्तलाया अपत्यं ढक्। दुष्मन्तात्मजे शकुन्तलाभजे भरते नृपे जटा०।
शाक्त = त्रि० शक्तिर्दवताऽस्य अण्। तन्त्रोक्ते शक्तिदेवतोपासके तस्य प्रशंसा मुण्डमालात० २ पटले उक्ता “स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परः प्रियः। सौराणां गाणपत्यानां वैष्णवानां तथैव च। शैवान्ते चैव शाक्तश्च क्रमशः क्रमशः प्रिये!” “शाक्ता एव द्विजाः मर्वे न शैवा न च वैष्णवाः। उपासते यतो देवीं गायत्रीं परमाक्षराम्” निर्वाणत० २ पटले। “अस्याश्चाराधनं कृत्वा नान्यस्याराधनं चरेत्। अन्यस्य स्मरणाद्देवि! योगिनी शापमालभेत्” गन्घर्वत०। “तर्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया। एष एव कुशः शाक्तो न दर्भो वनसम्भवः” श्यामार०।
शाक्तीक = पु० शक्तिः प्रहरणमस्य ईकक्। शक्त्या योद्धरि अमरः।
शाक्य = पु० शक–थञ् तत्र साधुः यत्। बुद्धे। शाक्यशब्दनिरुक्तिरन्यथोक्ता यथा
“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे। तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः” भरतधृतवचनम्। इयमत्राख्यायिका पितृशप्ताः केचिदिक्ष्वाकुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवासाः शाक्या इति ख्यातिमापन्नाः।
शाक्यमुनि = पु० शाक्यो मुनिः। बुद्धभेदे अमरः!
शाक्यसिंह = पु० शाक्यवंशे सिंह इव। बुद्धभेदे अमरः।
शाक्र = त्रि० शक्रस्येद स देवताऽस्य वा अण्। १ इन्द्रसम्बन्धिनि २ इन्द्रदेवताके हविरादौ। स्त्रियां ङीप्। शक्रस्तत्तुल्यपराक्रमः अस्त्यस्या अण्। ३ शक्रतुल्यपराक्रमायां दुर्गायाञ्च “इन्द्राणी इन्द्रजननी शाक्री शक्रपराक्रमा” देवीपु०।
शाक्वर = पु० शक–ष्वरप् स्वार्थे अण्। वृषे हेमच०।
शाख = व्याप्तौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। शाखति अशाखोत्।
शाख = पु० शाख–अच्। कृत्तिकापुत्रे स्कन्दानुजे १ कुमारानुचरगणभेदे “अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत। तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः” मत्स्यपु० ५ अ०। २ ग्रन्थपरिच्छेदे सर्गस्थानीवे ग्रन्थांशभेदे शब्दच०। वृक्षस्यांशभेदे (डाल) स्त्री अमरः। ३ पक्षान्तरे ४ राहौ ५ वेदैकदेशे च स्त्री मेदि०। ६ अन्तिके विश्वः। ७ देहांशभेदे च।
शाखाकण्ट = पु० शाखाव्यापी कण्टः कण्टको यस्य। स्नुही वृक्षे राजनि०।
शाखानगर = न० शाखेव नगरम्। मूलनगरसमीपस्थे क्षदपुरे अमरः। शाखापुरादयोऽप्यत्र
शाखापित्त = पु० शाखासु पित्तं यतः। पाणिपादादिदेहशाखादाहे राजनि०।
शाखामृग = पुंस्त्री० शाखास्थो मृगः पशुः। वानरे अमरः। स्त्रियां ङीष्।
शाखाम्ला = स्त्री शाखास्वप्यम्ला। वृक्षाम्ले राजनि०।
शाखारण्ड = पु० शाखायां वेदशाखायां रण्डः तद्विहितकर्मानाचरणात्। स्वशाखात्यागेनापरशाखोक्तकर्मकर्त्तरि हेमच०।
शाखाल = पु० शाखाः बाहुल्येन सन्त्यस्य लच्। वानीरवृक्षे राजनि०।
शाखाशिफा = स्त्री शाखारूढा शिफा मूलम् शाक०। वटादीनां शाखाजाते १ मूले अमरः। २ शिफामारभ्य शाखा युतायां गुडूच्यादिलतायाम् भरतः।
शाखिन् = पु० शाखाऽस्त्यस्य इनि। १ वृक्षे अमरः। २ वेदैकदेशवति, ३ नृपभेदे, ४ म्लेच्छभेदे च मेदि०।
शाखोट = पु० शाख–व्याप्तौ ओटन् (श्याडा) वृक्षे त्रिका० स्वार्थे क। तत्रैव।
शाङ्खिक = पुंस्त्री० शङ्खस्तद्विकारबलयनिर्माणं शिल्पमस्य ठञ्। जातिभेदे (शा~खारी) अमरः स्त्रियां ङीष्।
शाङ्गुष्ठा = स्त्री श्यति शो–क शः अङ्गुष्ठ इव यस्याः। गुञ्जायां रत्नमा०।
शाट = पु० शट–थञ्। वस्त्रे अमरः। स्त्रीत्वमपि गौरा० ङीष्।
शाटक = पु० न० शट–ण्वुल्। वस्त्रे अमरः स्त्रीत्वमपि टाप्।
शाट्यायन = पु० १ मुनिभेदे, तेन प्रोक्तम् अण्। २ प्रकृतहोमकर्मणि वैगुण्यसमाधनार्थं विहिते होमभेदे न० भवदवः।
शाठ्य = न० शठस्य भावः ष्यञ्। शठतायाम्।
शाड = श्लाघायां भ्वा० आ० सक० सेट्। शाडते अशाडिष्ट ऋदित् चङिन ह्रस्वः।
शाण = न० शणेन निर्वृत्तम् अण्। शणसूत्रनिर्मिते १ वस्त्रादौ शण–दाने (तेजने) घञ्। (कष्टिपाथर) २ कषपाषाणे ३ अस्त्रादीनां निकषणे तीक्ष्णकरणयन्त्रभेदे मेदि० ४ करपत्रे (करात) विश्वः। ५ माषचतुष्कमाने भावप्र०।
शाणाजीव = पु० शाणमाजीवति आ + जीव–अण्। अस्त्रतीक्ष्णताकारके शिल्पिनि हेमच०।
शाणि = पु० शण–इण्। १ पट्टवृक्षे शब्दच०। शणेन निर्वृत्ता इञ् वा ङीप्। २ शणनिर्मिते पट्टिकावस्त्रे ३ सच्छिद्रवस्त्रे च हेमच० ४ हस्तकटाक्षादिसूचनायां शब्दर०। ५ वस्त्रमण्डपे (ता~वु) मेदि०।
शाणित = त्रि० शण–दाने (तेजने) णिच्–क्त। तीक्ष्णीकृते।
शाणीर = न० शण–बा० ईरण्। शोणनदमध्यस्थतले विश्वः।
शाण्डिल्य = त्रि० शण्डिलस्यापत्यम् यञ्। गोत्रप्रवर्त्तके भक्तिशास्त्रकारके १ मुनिभेदे मेदि०। भक्तिशब्दे तन्मतं दिग्मात्रं दर्शितम्। तत्प्रियत्वात् २ बिल्ये अमरः ३ वह्निभेदे च मेदि०।
शात = न० शो–क्त। १ सुखे २ तद्वति त्रि० अमरः। ३ छिन्ने ४ कृशे त्रि० विश्वः। ५ दुर्बले ६ निशिते च त्रि० मेदि०। ७ धूस्तूरे पु० अमरः।
शातकुम्भ = न० शतकुम्भे गिरौ भवः अण्। १ हिरण्ये अमरः २ धूस्तूरे ३ करवीरे च पु० मेदि०।
शातकौम्भ = न० शतकुम्भे भवम् अण् द्विपदवृद्धिः। १ हिरण्थे २ धूस्तूरे च द्विरूपकोषः।
शातन = न० शो–णिच्–तङ् च ल्युट्। १ तनूकरणे २ विनाशते च “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्” इति अधिकरणमाला।
शातपत्त्रक = पु० शतपत्त्रमिव हायति कै–क स्वार्थे अण्। चन्द्रप्रकाशे शब्दच०।
शातभीरु = पु० शाता दुर्बलाः पान्वा भीरवो यस्याः ५ ब०। १ मल्लिकाभेदे रत्नमाला।
शातमान = त्रि० शतमानेन क्रीतम अण्। शतमानेन क्रीते सि० कौ०।
शातला = स्त्री शातं कार्श्यं लाति ला–क। (चामकषा) वृक्षे भरतः।
शातातप = पु० स्मृतिकारके मुनिभेदे। तेन प्रोक्तं छ। शातातपीय तत्प्रोक्ते कर्मविपाकग्रन्थे।
शात्रव = पु० शत्रुरेव स्वार्थेऽण्। १ रिपौ अमरः। तस्य भावः तेषां संघो बा अण्। २ वैरे ३ रिपुसमूहे च न०।
शाद = पु० शद–घञ्। १ कर्दमे २ हरिततृणे च अमरः।
शादहरित = पु० शादेन हरितस्तद्वर्णयुक्तः। शाद्वले देशे अमरः
शाद्वल = पु० शादाः सन्त्यत्र ड्वलच्। बहुलहरिततृणयुक्ते देशे अमरः।
शान = तेजने भ्वा० उभ० सक० सेट् स्वार्थे सन्। शीशांसति ते अशीशांसीत् अशीशांसिष्ट।
शान = पु० शान–अच् शो निशाने इत्युक्तेरनित्यः सन्। अस्त्रादीनां तीक्ष्णताकारके यन्त्रभेदे भरतः।
शानी = स्त्री शान–इन् ङीप्। इन्द्रवारुण्यां शब्दच०
शान्त = त्रि० शम–क्त। १ शमयुक्ते २ अभियुक्ते च शमणिच्–क्त नि०। ३ शान्तिं गमिते त्रि०। ४ निर्वेदस्थायि० भावके रसभेदे पु० मेदि०। ५ लोमपादराजकन्यायाम्, ऋष्यशृङ्गपत्न्यां ६ शमीभेदे च स्त्री राजनि०। शान्तरसनिरूपणं सा० द० ३ प० यथा “शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः। कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः। अनित्यत्वादिनाऽशेषवस्तु- निःसारता तु या। परमात्मस्वरूपं वा तस्यालम्बनमिष्यते।। पुण्याश्रमहरिक्षेत्रतीर्थरभ्यवनादयः। महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः। रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः। निर्वेदहर्षस्मरणमतिभूतदयादयः। निरहङ्काररूपत्वाद्दयावीरादिरेष नो”। दयावीरादौ हि जीमूतवाहनादौ अन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्त्तित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो म दृश्यते। शान्तस्तु सर्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रान्तर्भावमर्हति। अतश्च नागानन्दे शान्तरप्रधानत्वमपास्तम्”। ननु “न यत्र दुःखं न सुखं न चिन्ता ब द्बेषरागौ न च काचिदिच्छा। रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रमाणः” इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मरूपापत्तिलक्षणायां प्रादुर्भावात् तत्र सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते। “युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च न विरुद्धा”। यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य वैषायिकसुखपरत्वान्न विरोधः। उक्तं हि “यच्च कामसुखं लोके यच्च दिव्यं महासुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्। सर्वाकारमहङ्काररहितत्वं व्रजन्ति चेत्। अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा”। आदिशब्दात् धर्मबीरदानवीरदेवताविषयरतिप्रभृतयः”।
शान्तनव = पु० शान्तनोरपत्यम् अण्। भीष्मे “भीष्मः शान्तनव” इति तत्तर्पणमन्त्रः।
शान्तनु = पु० द्वापरयुगभवे चन्द्रवंश्ये प्रतीपराजपुत्रे नृपभेदे
शान्तम् = अव्य० शान्ति + बा० डमु। निवारणे मेदि०।
शान्ति = स्त्री शम–क्तिन्। १ कामक्रोधादिजये २ विषयेभ्यो मनसो निवाइणे अमरः। ३ उपद्रवनिवारणे ४ निवारणे च “यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु। या तुष्टिर्जायते चित्ते सा शान्तिः कथ्यते बुधैः” पद्मपु० क्रियायो उक्ते ५ सन्तोषभेदे ६ दुर्गायाम् “सर्वज्ञा सर्ववेत्तृत्वात् शान्तित्वाच्छान्तिरुच्यते” देवीपु०। ७ पूजाहोमजपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौःस्थ्यदुःस्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तौ च “यथा शस्त्रप्रहाराणां कवचं विनिवारकम्। तथा दैवोपघातानां शान्तिर्भवति वारणम्” मलमासधृतवाक्यम्। सा च मलमासेऽपि कार्य्या नैमित्तिकत्वात् “नैमित्तिकानि काम्यानि निपतन्ति यथा यथा। तथा तथैव कार्य्याणि न कालस्तु विधीयते” इति मल० त० वाक्यात्। अद्भुतादिशान्तिश्च हेमाद्रिशान्तिकाण्डे शान्तिमयूस्रादौ दृश्या।
शान्तिक = त्रि० शान्तये हितं ठक्। शान्तिसाधने होमादौ तत्करणमुर्हूर्त्तादिकं मु० चि० उक्तं पी० ध० यथा “क्षिप्रघ्रुवान्त्यचरमैत्रमघासु शस्तं स्याच्छान्तिकञ्च सह मङ्गलपौष्टिकाभ्याम्। खेऽर्के विधौ सुखगते तनुगे गुरौ, नोमौद्यादिदुष्टसमये, शुभदं निमित्ते”। “अथ शान्तिकपौष्टिकादिकृत्येषु मुहूर्त्तं वसन्ततिलकेनाह। क्षिप्रेति क्षिप्रादोनि मघान्तानि प्रसिद्धानि तेषु पौष्टिकं मङ्गलं विनायकशान्त्यादि शान्तिकं दुष्टफलदमूलवक्षत्राद्युत्पन्नशान्त्यादि एतानि कर्माणि कार्य्याणि उक्तञ्च दीपिकायाम्। “मित्रादित्यमघोत्तराशतभिषक्स्वातीविरञ्च्यच्युतस्वर्गाधीश्वरपूज्यपौष्णरविषु स्फीते तुषारत्विषि। रिक्तां पर्व विहाय सौम्यदिवसे शस्ते नृणां भूबये सर्वैः शान्तिकपौष्टिकं निगदितं गर्गादिभिर्बिश्चयात्” अथ लग्नशुद्धिः तत्रार्के सूर्य्ये खे दशमे सति विधौ चन्द्रे सुखगते चतुर्थस्थे गुरौ तनुगे लम्बस्थे सति शान्त्यादिकं कर्म कार्य्यं उक्तञ्च रत्नमालाथाम्। “पूर्णे चन्द्रे वेश्म४गेऽर्केऽम्बर १० स्थे लग्ने जीवे, वाक्पतेर्वासरे च। श्रीमत्यायुष्याणि कार्य्याणि कार्य्याणीति” नोतच्छान्तिकादि मौद्ये गुरुशुक्रयोरस्तादिके बाल्यबार्द्धकसिंहस्यगुर्वादिरूपेदुष्टसमयेऽपि न शुभदम्। तथा निमित्ते केत्वाद्युत्पातदर्शने सति शुभदं उक्तञ्च दीपिकायाम्। शान्तिकर्माणि कुर्वीतरोगे नैमित्तिके तथा। गुरुभार्गवभौद्येऽपि दोषस्तत्र न विद्यते”। उक्तञ्चैतत् “यतोऽस्तीदं शान्तिकं नैमित्ति कम् “अनिमित्तकृता शान्तिर्निमित्तायोपजायते इति स्मरणात्। तत्र निमित्ते संगरूपे केत्वाद्युत्पातान्तरदर्शनरूपे च भवति नैमित्तिकं तच्च बहुदिनव्यापके गुरुशुक्रास्तादिदोषेऽप्यवश्यं विधेयं यतो जन्मान्तरीयदुरदुष्टसूचकमिदं निमित्तमुत्पन्नं तस्य शान्त्या निरासादशुभादृष्टस्यापि निरासः। बहुदिनप्राप्ये निर्दूषणे काले क्रियमाणं शान्तिकं किञ्चिद्दूरदुष्टज्ञापकं यद्यपि भवति तथापि तावद्भिर्दिनैर्दुरदुष्टस्य प्राबल्याद् दुःखप्राप्तिः यथाल्पोऽप्यग्निरल्पेनैव जलेन शान्तो भवति तथा सकलनगरदाहको मनुष्यैर्बहुभिर्युगपद् गृहीतजलपूर्णघटैरेकदेशनिर्वापितोऽपि सकलोऽग्निर्ननिर्वाप्यते इत्यर्थः सर्वथा मौद्यादिदोषं विनैव यथा कथञ्चित्कथितप्रकारेण दिनशुद्धिमङ्गीकृत्य शान्तिकाद्यवश्यं विधेयम्”।
शाप = पु० शप–घञ्। (अनिष्टं भूयादित्येवम्) १ आक्रोश रूपे २ शपथे च मेदि०।
शापास्त्र = पु० शाप एवास्त्रं यस्य। मुनौ त्रिका०।
शाब्दबोध = पु० शब्देन निर्वृत्तः अण् कर्म०। अन्वयबोधे शब्दज्ञानजन्ये पदार्थस्मृतिद्बारके ज्ञानभेदे न्यायमतम्। शाब्दत्वं त्वनुभवत्वव्याप्यं जातिभेदः तद्बोधप्रकारादि भाषा० उक्तं यथा “पदज्ञानन्तु करणं द्वारं तत्र पदार्षधीः। शाब्दबोधः फलं तत्र शक्तिधोः सहकारिणी। लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः। आसत्तियोग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते”। भाषा० सि० मु० विवृतमेतत् यथा “शाब्दबोधप्रकारं दर्शयति। पदज्ञानन्त्विते। न तु ज्ञायमानं पदं करणम् पदाभावेऽपि मौनिश्लोकादौ शाब्दवोधात्। पदार्थधीरिति। पदजन्यपदार्थस्मरणं व्यापारः। अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शब्दबोधापत्तेः। तत्रापि वृत्त्या पदजन्यत्वं बोध्यम्। अन्यथा घटादिपदात् समवायसम्बन्धेन यत्राकाशस्मरणं जायते तत्राकाशस्यापि शाब्दमोधापत्तेः। वृत्तिः शक्तिलक्षणान्यतरः सम्बन्घः। अत्रैव शक्तिज्ञानस्योषयोगः। पूर्वं शक्तिग्रहाभावे पदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः। पदज्ञानस्य सम्बन्धिज्ञानविधयार्थस्मारकत्वम्। शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः। सा चास्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा। आधुनिके नाम्नि शक्तिरस्त्येव। “एकादशेऽहनि पिता नाम कुर्य्यात्” इतीश्वरेच्छायाः सत्त्वात्। आधुनिके तु सङ्केते न शक्तिरिति सम्प्रदायः। नघ्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव। तेन आधुनिकसङ्केतेऽपि शक्तिरस्तीति वदन्ति”।
शाब्दिक = पु० शब्दं शब्दसाघुताज्ञापकं शास्त्रं वेत्त्यधीते वा ठक्। ष्याकरणशास्त्रभिज्ञे।
शामित्र = न० शम–णिच् इत्रच्। १ पशुबन्धने। शमितुः कर्म–अण्। यज्ञार्थपशुहननकर्त्तृभावे २ तद्धनने च।
शामीन = न० शम–ईनञ्। १ भस्मनि २ स्रुचि स्त्री ङीष् सि० कौ०
शाम्बरी = स्त्री शम्बरेण निर्वृत्ता अण् ङीप्। मायायाम् इन्द्रजालादौ अमरः।
शाम्बविक = त्रि० शम्बूः पण्यमस्य ठक्। शाङ्खिके (शा~खारी) जटा०।
शाम्बु(म्बू)क = पु० श(म्बु)म्बुक + स्वार्थे अण्। शम्बुके (शामुक) भरतः।
शाम्भव = पु० शम्भोरयम् अण्। १ गुग्गुलौ २ कर्पूरे ३ शिवमल्लिकायां राजनि०। ४ विषभेदे शब्दच० ५ शम्भुपुत्रे पु० ६ देवदारुणि च न० र जवि० ७ शिवसम्बन्धिनि ८ तदुपासके च त्रि०। ९ दुर्गायां स्त्री “शाम्भवी कुपिता तस्येति” तन्त्रम्।
शा(सा)यक = पु० शो (सो) वा–ण्वुल्। १ वाणे खङ्गे च जटा०
शार = दौर्वल्ये अद० चु० उम० सक० सेट्। शारयति–ते अशशारत् त।
शार = न० शार–अच्, शृ–घञ् वा। १ कर्वूरवर्णे २ तद्वति त्रि० अमरः ३ वायौ पु० अमरः ४ अक्षोपकरणे मेदि०।
शारङ्ग = पुंस्त्री० शारं कर्वुरमङ्गं यस्य शक०। १ चातकपक्षिणि २ हरिणे ३ गजे ४ भृङ्गे ५ मयूरे च। रायमुकुटः जातित्वात् स्त्रियां ङीष्। ६ हिंस्रे ७ वाद्ययन्त्रभेदे स्त्री ङीप् शब्दार्थचि०।
शारद = न० शरदि भवम्–ऋत्वण्। १ श्वेतपद्मे राजनि०। २ कासे ३ बकुले ४ हरिन्मुद्गे च पु० राजनि०। ५ शरद्भवमात्रे त्रि० स्त्रियां ङीप्। शारदं श्वेतपद्ममस्त्यस्याः अच्। ५ सरस्वत्यां स्त्री त्रिका०। ७ नूतने ८ अप्रतिभे त्रि० मेदि०। ९शालीने त्रि० विश्वः। १० दुर्गायां स्त्री टाप् “शारत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः। शारदा सा समाख्याता पीठे लोके च नामतः” ति० त०। ११ वानरभेदे शब्दर०। १२ तोयपिप्पल्यां १३ सप्तच्छदे स्त्री मेदि० ङीप् एवं १४ कोजागरपुर्णिमायां स्त्री शब्दरत्ना० शरत्कालोने पूजादौ त्रि० स्त्रियां ङीप्। “शारदी चण्डिकापूजा त्रिविधा परिकीर्त्तिता। सात्त्विकी राजसी चैव तामसी चेति तां शृणु” भविष्यपु०।
शारदिक = न० शरदि भवं श्राद्धं रोगो वा ठञ्। शरत्काले भवे १ श्राद्धे २तत्कालजे रोगे पु०
शारदीय = त्रि० शरदि भवः छण्। १ शरत्काले कर्त्तव्ये उत्सवादौ तथाभूतायां दुर्गापूजायां स्त्री “अदूरे जगदम्बायाः शारदीयो महोत्सवः”। “शारदीया महापूजा चतुःकर्ममयो शुभा” ति० त०।
शारि(री) = स्त्री शॄ–इञ् वा ङीप्। १ पाशकादिगुटिकायां २ अक्षोपकरणे च मेदि०। ३ पक्षिभेदे च “शारीं चरन्तीं सखि! भारयेति” नैषधम्। ४ युद्धार्थगजपर्थ्याणे ५ व्यवहारभेदे मेदि०। ६ कपटे धरणिः। स्वार्थे क। पक्षिभेदे वीणावादने च हेमच०।
शारिफल = पु० न० शारेः फलमिवाधारः। शारिफलके पाशकक्रीडासाधने २ द्रव्ये (छक) अमरः स्वार्थे क। तत्रैव।
शारिवा = स्त्री शारिरिव वनति वन–ड। श्यामालतायाम् अमरः। “एकं वै शारिवामूलं सर्वव्रणविशोषणम्” वैद्य०।
शारिशृङ्खला = स्त्री शारेः शृङ्खलेव। पाशकभेदे तद्भेदाश्च “चुञ्चुरी तिन्तिडी द्यूतं पञ्चमी शारिशृङ्खला। नय पीठी चाष्टकाक्षो नयः स्याज्जयपुत्रकः। एते पाशकभेदाः स्युर्जयकोलाहलोऽपि च” शब्दर०।
शारीर = त्रि० शरीरस्येदम् अण्। १ देहसम्बद्धे सुखदुःखादौ तत्सोढमस्य पुनः अण्। २ वृषे पु० मेदि०। शरीरमात्मत्वेनाभिमन्यते अण्। ३ जीवे। स्वार्थे क। तत्रार्थे। शारीरं जीवं दुःखं वा अधिकृत्य कृतो ग्रन्थः कन्। व्यासकृते वेदान्तसूत्रे चिकित्साङ्गे सुश्रुतग्रन्थाद्येकदेशे च शारीरञ्च दुःखं रोगादिकं यथोक्तं विष्णुपु० ६५ अ०। “आध्यात्मिकोऽपि द्विविधः शारीरो मानसस्तथा। शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः। शिरोरोग प्रतिश्यायज्वरशूलभगन्दरैः। गुल्मार्शःश्वयपुश्वास छर्द्यादिभिरनेकधा। तथाक्षिरोगातिसारकुष्ठाङ्गामयसंज्ञकैः। भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि” सुश्रुतान्तर्गतशारीरकस्थानञ्च तत्र दृश्यम्।
शारीरिक = त्रि० शरीरे भवः ठक्। देहजाते दुःखादौ।
शारुक = त्रि० शॄ–उकञ्। हिंसके।
शार्कर = त्रि० शर्करा अस्त्यस्य अण्। १ शर्करायुक्ते देशे शर्कराया विकारः अण्। २ फाणिते ३ दुग्यफेणे च पु० मेदि०। शर्करीछन्दोऽस्य अण्। शर्करीछन्दोयुक्ते ४ मन्त्रादौ।
शार्ङ्ग = त्रि० शृङ्गस्य विकारः अण्। १ शृङ्गजाते पदार्थे। २ विष्णुधनुषि ३ धनुर्मात्रे च पु० मेदि० ४ आर्द्रके न० राजनि०।
शार्ङ्गिन् = पु० शार्ङ्गः अस्त्यस्य इनि। १ विष्णौ अमरः। २ धन्विमात्रे त्रि०।
शार्दूल = पुंस्त्री० शॄ–जलञ् दुकच। १ व्याथ्रभेदे अमरः। २ पशुभेदे ३ शरभे ४ राक्षसभेदे च मेदि० उत्तरपदस्थः। ५ श्रेष्ठार्थे अमरः। ६ पक्षिभेदे धरणिः ७ चित्रके राजनि०। स्त्रियां सर्वत्र जातित्वे ङीष्।
शार्दूलललित = न० अष्टादशाक्षरपादके छन्दोभेदे तल्लक्षणं यथा “सः सो जः सतसा दिनेशऋतुभिः शार्दूत्रललितम” छन्दोम०।
शार्दूलविक्रीडित = न० ऊमविंशत्यक्षरपादके छन्दोनेदे तक्वक्षणं यथा “सूर्य्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्” छन्दोम०।
शार्वर = न० शवर्य्या इदं शैषिश्चोऽण्। १ अत्यन्ततमसि। २ घातुके च त्रि० मेदि०। ३ रात्रिसम्बन्धिनि त्रि०। “शार्वरस्य तमसो निषिद्धये” किरा० भवार्थे तु कालाङ् ठञ्” शार्वरिक इत्येव रात्रिभवे।
शाल = कथने भ्वा० आत्म० सक० सेट् चङि न ह्रस्वः। शालते अशालिष्ट।
शाल = पु० शल–घञ्। १ मत्स्यभेदे २ प्राकारे स्वनामख्याते ३ वृक्षभेदे अमरः। ४ बृक्षमात्रे राजनि० दन्त्यादिस्तु वृक्षमात्रे “रसालः सालः समदृश्यतामुना” इति नैषधम। ५नदभेदे शब्दच०। ६ शालिवाहननृपे विश्वः।
शालग्राम = पु० शालानां वृक्षाणां ग्रामः समहो यत्र। १ पर्वतभेदे तत्र जातः अण्। तत्र जाते २ विष्णोर्मूर्त्तिभेदे गण्डकशब्दे २५११ पृ० दर्शिते गण्डक्या एकदेशस्थ लभेदजाते ३ विष्ण्वादिदेवचक्रयुक्तशिलाभेदे च तदुत्पत्तिर्लक्षणभेदेन तन्नामभेदाश्च यथा “कीटयोनिं प्रपद्येथा” इति गण्डक्याः सुरान् प्ततिशापे “तेन कर्मविपाकेन जडा कृष्णा नदी भयेति” देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधानायोक्तं यथा “शृणु ब्रह्मन्! महादेव! शृणु देव! गजानन!। मद्गणो ब्राह्मणौ ग्राहमातङ्गौ शापतोऽत्र वै। भविष्यतस्तयोर्मक्षं मविष्यामि कलेवरम्। शीर्णं भविष्यति यदा तन्मेदोमज्जसंभवाः पाषाणान्तर्गताः कीटा वज्राख्याः प्रभविष्यथ” इति “अद्यैव गण्डकी पुण्या गङ्गातुल्या महानदी। गण्डक्यां गिरिराजस्य दक्षिणे दशयोजनम्। विस्तोर्णं तन्महाक्षेत्रं पुण्यशेत्रं महीतले। चक्रतीर्थमिति ख्यातं त्रिषु लोकेषु विश्रुतम्। शालग्रामगता देवा देवो द्वारावतीं गतः। उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः। सर्वदेवप्रीति करा भुक्तिमुक्तिप्रदायिनः। भवन्त्वस्यां तु पाषाणामेतदन्तर्गता सुराः। प्रार्थितं स्वं विना सर्वे वज्रकीटा भवन्त्विति। अनेनैव तु गण्डक्याः पुत्रत्वं भवतामपि। मविष्यति तदन्तश्च चिह्नं तद्दैवतोद्भवम्। विज्ञाय येऽर्चविष्यन्ति प्रीषतां सा च देवता” इति विष्णूक्तौ ब्रह्मणा तल्लक्षणस्य प्रश्ने विष्णूक्तिर्यथा “स्योयवर्णा शिला पूज्या ब्राह्मणाद्यैः सुखाप्तस्ये। स्रिग्धा शिला मन्त्रसिद्धिं रूक्षाऽसिद्धिं करोति च। मेचका कोर्त्तिहा धौताङ्गारवत् सा यशोहरा। पाण्डुरूपार्थशमनि मलिना पापधीकरी। पीता पुत्रफलं दद्यारवर्णा सुतान् हरेत्। नीला संदिशते लक्ष्मीं धूम्राभा हरते मतिम्। रोगप्रदा रक्तवर्णा सिन्दूराभा महा कलिम्। दारिद्र्यकारिणी वक्रा समा सर्वार्थसाधिका। स्थूला निहन्ति चैवायुः सूक्ष्मा स्वल्पमतिं हरेत्। पूजाफलं लाञ्छितया निष्फला लाञ्छनं विना। कपिला चित्तवैकल्यं नेत्रयोगञ्च कर्वुरा। भग्ना भङ्गकरोज्ञेया बहुचक्रापमानदा। लक्षणान्तरहीना च देवचक्रा वियोगदा। वृहन्मुखी कलत्रघ्नी वृहच्चक्रा सुतान् हरेत्। संलग्नचक्रा त्वसुखं बद्धचक्रा महागदम्। भग्नचक्रा तु दारिद्र्यं सर्वनाशं त्वधोमुखी। कुष्ठादिकं व्यालमुखी विषमा विविधापदः। विकृताबर्त्तनाभिश्च विकारान् कुरुते वहून्। वंशच्छेदो गृहस्थानां नारसिंह्यां प्रजायते। रेखार्त्ता दुःखदात्री च यथा सूक्ष्मा तथा सुखम्। यथा स्निग्धा तथा लक्ष्मीस्तद्विभेदानतः शृणु। लक्ष्मोहरिः १ स विज्ञेयो यत्र पद्मं सचक्रकम्। केवला वनमाला च गृहस्थानामभीष्टदा। वासुदेवः २ स विज्ञेयो यद्द्वारे चक्रयुग्मकम्। निरन्तरं समं चापि स श्वेतः पापनाशनः। सङ्कर्षणः ३ स विज्ञेयः प्राक्पश्चाच्चक्रयुग्मकम्। संलग्नपूर्वभागस्थं महारत्नं सुशोभनम्। प्रद्युम्नः ४ सूक्ष्मचक्रं स्याच्छिद्रं दीर्घं सुविस्तरम्। सुस्थिरान्वबेहिश्छिद्रः पीत इष्टप्रदायकः। अनिरुद्धस्तु ५ नीलाभो वर्तुलश्चातिशोभनः। रेखाद्वयं तु तद्द्वारि पृष्ठं पद्मेन लाञ्छितम्। केशवः६ स तु विज्ञेयस्त्वेकं वा द्वयमेव वा। प्राग्वा पश्चाच्च चक्रं स्यात् चतुष्काणः स भाग्यकृत्। नारायणः ७ श्यामवर्णो नाभौ चक्रं तथोन्नतम्। दीर्घरेखासमायुक्तं दक्षिणे शुषिरं पृथु। हरिरूपा ८ शिला सा स्यात् यथा ऊर्द्धं सुखं भवेत्। हरिवद् दृश्यते द्वारं भुक्तिमुक्तिप्रदा तु सा। परमेष्ठी ९ स विज्ञेयः पद्मचक्रान्वितस्तु यः। यिल्वाकृतिश्च शुक्राभः पृष्ठे च शुषिरं महत्। विष्णुस्तु १० कृष्णवर्णः स्यात् स्थूलचक्रे सुशोभो। द्वारोपरि तथा रेखा दृश्यते मध्यदेशतः। नारसिंहस्तु ११ कपिलः पृथुचक्रो वृहन्मुखः। त्रयो वा पञ्च चा यत्र बिन्दवो गृहिणां न सन्। कपिलनारसिंहस्तु १२ गुडलाक्षानिभो भवेत्। स्थूलचक्रद्वयं मध्ये द्वारे रेखा सुशोभना। महानृसिंहो १३ विज्ञेयः पूर्वोक्तैर्लक्षणैर्युतः। रेस्याश्च केशराकारा मुखं दीर्थं भयानकम्। लक्ष्मीनृसिहो १४ विज्ञेयश्चतुश्चक्रः सबिन्दुकः। पूर्वोक्तलंक्षणैर्युक्तो वनमालाविभूषितः। वराहोऽसौ१५ शक्तिलिङ्गे चक्रे च विषमे तथा। इन्द्रलीलनिभः स्थूलस्त्रिरखाला- ञ्छिती भवेत्। पृथ्वेवराहनाम्नी १६ सा या वराहाकृतिः शिला। आभुग्ना चैव रेखैका गतराज्यप्रदायिका। मत्स्याख्या १७ सा शिला ज्ञेया बिन्दुत्रय विभूषिता। कांस्यद्वारा स्वर्णनिभा दीर्घा सा भुक्ति० मुक्तिदा। कूर्माख्या १८ तु शिला पृष्ठे वर्तुला चोन्नता भवेत्। हरितं वर्णमायाता कौस्तुभेन च चिह्निता। शिलाकूर्म १९ स विज्ञेयः कूर्माकारस्तु यो भवेत्। चक्राङ्किता तथा वृत्ता पूजिता सा पदप्रदा। हयग्रीवो २०ऽङ्कुशाकारो रेखा चक्रसमीपगा। बहुबिन्दुसमायुक्तं पृष्ठं नीरदनीलभम्। ज्ञेयः सौम्यहयग्रीवो २१ हयग्रीवासमा शिला। दीर्घया लेखया युक्ता रेखा वा तादृशी भवेत्। हयशीर्षः २२ स विज्ञेयो मुखं यस्य हयाकृति। पद्माकृति भवेद्वापि साक्षमालं शिरस्तथा। वैकण्ठ २३ स्तिलवर्णाभश्चक्रमेकं तथा ध्वजम्। द्वारापरि तथा रेखा पूज्याकारा सुशोभना। श्रोधरस्तु २४ तथा देवश्चिह्नितो वनमालया। कदम्बकुसुमाकारो रेखा पञ्चकभूषितः। वामनः २५ स तु विज्ञेयो योऽतिह्रखश्च वर्तुलः। अतसीकुसुमप्रख्या बिन्दुनोपरिशोमितः। टधिवामननामा २६ तु जर्ग्घाधश्चक्रसंयुतः। महाद्युतिरतिह्रस्यः सुभिक्षक्षेमदायकः। सुदर्शन २७ स्तथा देवः श्यामवर्णो महाद्युतिः। वामपार्श्वे तथा चक्रं रेखैकैव तु दक्षिणे। सहस्रार्जुननामा २८ऽसौ नानारेखामयो भवेत्। चक्राकारा यन्त्रपङ्क्तिः स नष्टद्रव्यदायकः। स्थूलदामोदरो २९ यस्य मध्ये चक्रं प्रतिष्ठितम्। दूर्वाभो द्वारसंकीर्णः पीतरेखो धनप्रदः। राधादामोदरो ३० ज्ञेय ऊर्द्ध्वाधश्चक्रवद्बिलम्। नातिदीर्घमुखं मध्ये लम्बरेखा स भोगदः। दामोदरः २१ स विज्ञेयो यश्चक्रद्वयलाञ्छितः। सूक्ष्मं भवेच्चावयवं पूजितः सुखदः सदा। अनन्तो ३२ बहुवर्णः स्यान्नागभोगेन चिह्नितः। अनेकचक्रसंमिन्नः सर्वकामफलप्रदः। पुरुषोत्तमनामा ३३ऽसौ यस्य दिक्षुविदिक्षु च। ऊर्द्ध्वान्यास्यानि दृश्यन्ते पुरुपार्थफलप्रदः। योगेश्वरः ३४ स विज्ञेयो लिङ्गं यस्य शिरोगतम्। ब्रह्महत्यादिपापानां नाशको योगसि द्धिदः। पद्मनाभ ३५ स्तथा रक्तः पङ्कजच्छत्रसंयुतः। तुलस्या पूजितो नित्यं दरिद्रस्त्वोश्वरोभयेत्। रश्मि जाली हिरण्याक्ष ३६ श्चन्द्राभः स्फटकोपमः। अथ वा जायते नानास्वर्णरेखाभिरन्वितः। गरुड ३७ स तु विज्ञेया मध्ये पक्षद्वयान्विते। सुदीर्धा दृश्यते रेखा स सर्पविषनाशकः। जनार्दनः ३८ स विज्ञेयः केवलानि स्फुटानि च। यस्योदरे तु चक्राणि चत्वारि पितृतृप्तिकृत्। लक्ष्मीनारायणो ३९ ज्ञेयो वनमालाङ्कितोदरः। सूक्ष्मद्वारश्चतुश्चकौ भुक्तिमुक्तिप्रदायकः। हृशीकेशः ४० सविज्ञेयो योऽर्द्ध्वंचन्द्राकृतिर्भवेत्। तमभ्यर्च्य लभेत् स्वर्गं विषयांश्च समोहितान्। लक्ष्मीनरहरि ४१ र्ज्ञेयः कृष्णवर्णः सबिन्दुकः। वामपार्श्वे समे चक्रे गृहस्थार्भाष्टदायकः। त्रिविक्रमस्तु ४२ विज्ञेयः श्यामवर्णो महाद्युतिः। वामपार्श्वे चक्रयुग्ममेकरेखा तु दक्षिणे। कृष्णो ४३ ज्ञेयः शिला कृष्णा सचक्रा वा विचक्रिका। प्रदक्षिणावर्त्तकृतवनमालाविभूषिता। चतुर्मुखः ४४ स विज्ञेयो द्वे चक्रे मध्यदेशतः। चतस्रः पार्श्वगा रेखा वेदशास्त्रागमप्रदः” मेरुत०। शिवादिशिलाभेदास्तत्रैवोक्ता यथा शिवोक्तिः “शालग्रामा मतस्वरूपाः शृणु तेषान्तु लक्षणम्। यत्सेवनाद्भवेदिष्टमिह लाके परत्र च। शिवनाभः १ स विज्ञेयः सलिङ्गाकारतां गतः। स्वयम्भुलिङ्गाकृतिमान् मन्त्रसिद्धिविधायकः। त्र्यम्चकः २ स तु विज्ञेया विन्दूत्तरविभूषितः। शूलाकारा तथा रेखा गतपुंस्त्वप्रदायकः। धूर्जाटिः ३ स तु विज्ञेयो यत्र रेखा जटासमा। तिस्रो यत्र प्रदृश्यले सोऽर्चिता ज्ञानदायकः। शम्भुभ्तु ४ पाण्डुरा ज्ञेयो विन्दुः कृष्णस्तु मस्तके। बिल्वममाणस्तेजस्वी पूजितः स्त्री २ शङ्करः। ईश्वरः ५ स तु विज्ञेयो रक्ता विन्दुस्तु मस्तके। एकचक्रो द्विचक्रो वाभ्यन्तरेऽपश्च गोष्पदम्। मृत्युञ्जयः ६ स विज्ञेयस्त्वपमृत्युविनाशकः। अधश्चक्रं तदूर्द्धञ्च श्वेता रेखा त्रिशूलवान्। चन्द्रशेखर ७ नामाऽसावर्द्धचन्द्राकृतिस्तु के। मध्ये चक्रद्वयं तस्य सेवनाद्रोगनाशनम्। रुद्रः ८ स एव विज्ञेयः कपिलो मूर्ध्नि लक्षितः। चक्रमध्ये भवेद्रेखा मारयेद्रिपुसन्ततिम्”। “शालग्रामानथा वक्ष्ये शक्तिकीटसमुद्गवान्। येषां पूजनतो देवी भवानी सुप्रसीदति। श्रीविद्या १ सा तले चक्रमूर्द्ध्वे छत्रं प्रवृश्यते। बाह्ये घण्टाङ्कितो मूर्द्धा स्निग्धा श्यामाखिलेष्टदा। महाकाली २ तु सा ज्ञेया योनिचिह्नसमन्विता। द्विच्छिद्राढ्या सर्वशिला त्रिकोणेनाङ्किता च या। यदायुधाकृतिश्चोर्द्ध्वं तां देवीं तत्र निर्दिशेत्। देवीशिला सचक्रा या दक्षमार्गेण तां यजेत्। सार्चिता वाममार्गण लोकद्वयसुखावहा। या चक्ररहिता देवीशिलांतां वामतोऽर्चयेत्”। “सौरी शिला दुर्लभैव प्रायः कलियुगे पुनः। स्फटिकाभा भवेत् सा तु धर्मं नित्यं विमुञ्चति। गणेशः स तु विज्ञेयः स्वल्पशुण्डाङ्कितो भवेत्। शुण्डाकारा शिला वापि गजाननसमापि वा। यस्या मध्ये महच्चक्रं सूक्ष्मचक्रञ्च यद्दिशि। सा शिला तस्य दिक्पस्य सेव्या यद्दिशि राज्यदा। अर्द्धचन्द्राकृतिर्यत्र दृश्यते शकलैवम्। सा तु चन्द्रशिला त्र्यस्रयुक्ता भौमशिला मता। वाणाकारेण चिह्नेन ज्ञेया बुधशिला सुराः!। दीर्घेण चतुरस्रेण युक्ता गुरुशिला मता। पञ्चकोणा तु शुक्रस्य चापाकारा शनेर्मता। सर्पाकारा तु राहोः स्यात् केतोस्तु ध्वजरूपिणी” मेरुत०। तुलसीं प्रति भगवदुक्तिः “अहञ्च शैलरूपी च गण्डकीतीरसन्निधौ। अधिष्ठानं करिष्यामि भारते तव शाषतः। वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै। तच्छिकाकुहरे चक्रं करिष्यन्ति मदीयकम्। एकद्वारे चतुरक्रं वनमासाविभूषितम्। नवीननीरदाकारं लक्ष्मीनारायणामिधम् १। एकद्वारे चतुश्चक्रं नवीननीरदोपमम्। लक्ष्मीजनार्द्दनं २ ज्ञेयं रहितं वनमालया। द्वारद्वये चतुरक्रं शोष्पदेन समन्वितम्। रघुनाथाभिधं ३ ज्ञेयं वेष्टित्तं वनमालया। अतिक्षुद्रं द्विचक्रन्तु नवीननीरदोपमम्। दधिवासनं ४ विज्ञेयं गृहिणाञ्च सुखप्रदम्। अतिक्षुद्रं द्विचक्रञ्च वनमालाविभूषितम्। श्रीधरं देवि! विज्ञेयं श्रीपदं गृहिणां सदा। स्थूलञ्च वर्त्तुलाकारं रहितं वनमालया। द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदरामिधम् ६। मध्यभं बर्तुलाकारं द्विचक्रं बाणविक्षतम्। बलरामाभिधं ८ ज्ञेयं शरतूणसमन्वितम्। स्थूलं चतुर्दशचक्रं नवीनजलदप्रभम्। अनन्ताख्यकं ९ विज्ञेयं चतुर्वर्गफलप्रदम्। मध्यमं सप्तचक्रञ्च छत्रतूणसमन्वितम्। राजराजेश्वरं १० ज्ञेयं राजसम्पत्करं नृणाम्। चक्राकारं द्विचक्रञ्च सश्रीकं जलदप्रभम्। सगोष्पदं मध्यमञ्च विज्ञेयं मधुसूदनम् ११। सुदर्शनं १२ चैकचक्रं गुप्तचक्रं गदाधरम् १३। द्विचक्रं हयवक्त्रभं हयग्रीवं १४ प्रकीर्त्तितम्। अतीव विस्तृतास्यञ्च द्विचक्रं विकटं सति!। नरसिंहाभिधं १५ ज्ञेयं सद्यो वैराग्यदं नृणाम्। द्विचक्रं विस्तृतास्यञ्च वनमालासमग्वितन्। लक्ष्मीनृसिंहं १६ विज्ञेयं गृहिणां सुखदं सदा। द्वारदेशे द्विचक्रञ्च सश्रीकञ्च समं स्फुटम्। वासुदेवञ्च १७ विज्ञेयं सर्वकामफलप्रदम्। प्रद्यु- म्नं १८ सूक्ष्मचक्रञ्च नवीननीरदप्रभम्। शुषिरे छिद्र बहुलं गृहिणाञ्च सुखप्रदम्। द्वे चक्रे चैकलग्ने तु पृष्टे यत्र तु पुष्कलम्। सङ्कर्षणन्तु १९ विज्ञेयं सुखदं गृहिणां सदा। अनिरुद्धञ्च २० पीताभं वर्तुलमतिशोभनम्। सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः” ब्रह्मवै० प्र० १९ अ०। “शालग्रामशिलाद्वारगतलग्नद्विचक्रधृक। शुक्लाभो वासुदेवाख्यः १ सोऽव्यात् यः श्रीगदाधरः। लग्नद्विचक्रोरक्ताभः पूर्वभागे तु पुष्कलः। सङ्कर्षणो २ऽथ प्रद्युम्नः ३ सूक्ष्मचक्रस्तु पीतकः। सुदीर्घशुषिरच्छिद्रः सोऽनिरुद्धस्तु ४ वर्त्तुलः। नीलोद्वारि त्रिरेखश्च अथ नारायणो ५ऽसितः। मध्ये गदाकृती रेखा नाभिचक्रमहोन्नतः। पृथुचक्रो नृसिंहो (६)ऽथ कपिलोऽव्यात् त्रिविन्दुकः। अथ वा पञ्चबिन्दुस्तत्पूजनं ब्रह्मचारिणाम्। वराहः ७ शुभलिङ्गोऽव्यात् विषमस्थद्विचक्रकः। नीलस्त्रिरेखः स्थूलोऽथ कूर्ममूर्त्तिः ८ सबिन्दुमान्। कृष्णः स वत्तुलावर्त्तः पातु चोन्नतपृष्ठकः। श्रीधरः ९ पञ्चरेखोऽव्यात् वनमाली गदान्वितः। वामनो १० वर्त्तुलो ह्रखः वामचक्रः सुरेश्वरः। नानावर्णोऽनेकमूर्त्तिर्नागभोगी त्वनन्तकः ११। स्थूला दामोदरो १२ नीलो मध्येचक्रः स नीलकः। संकीर्णद्वारकः सोऽव्यादथ ब्रह्मा १३ सुलोहितः। सदीर्घरेखशुषिर एकचक्राम्बुजः पृथुः। पृथुच्छिद्रः स्थूलचक्रः कृष्णो विष्णुस्तु १४ बिन्दुमान्। हयग्रीवो १५ऽङ्कुशाकारः पञ्चरेखः सकौस्तुभः। वैकुण्ठो १६ मणिरत्नाभः एकचक्राम्बुजोऽसितः। मत्स्यो १७ दीर्घाम्बुजाकारो द्वाररेखश्च पातु वः। वामचक्रो द्वाररेखः श्यामो वोऽव्यात् त्रिविक्रमः १८। एकेन लक्षितो योऽव्यात् गदाधरी सुदर्शनः १९। एकद्वारे चतुश्चक्रं वनमालाविभूषितम्। स्वर्णरेखासमायुक्तं गोष्पदेन विराजितम्। कदम्बकुमुमाकारं लक्ष्मीनारायणं विदुः” गरुड पु० ४५ अ० पुराणान्तरेष्वपि लक्षणान्तराणि उक्तानि दृश्यानि। तत्र लक्षणभेदस्तु विकल्पार्थः। वराहपु० भूमिं प्रति वराहोक्तिः “गृहे लिङ्गद्वयं नार्च्यं शालग्रामद्वयं तथा। द्वेचक्रे द्वारकायास्तु नार्च्यं सूर्य्यद्वयं तथा। शालग्रामशिला भग्ना पूजनीया सचक्रिका। खण्डिता स्फुटिता वाऽपि शालग्रामशिला शुभा। शालपामो न स्प्रष्टघ्यो हीनवर्णैर्वसुन्धरे!। स्त्रीशुद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः। सोहात् यः संस्पृशेत् शूद्रो योषिद्वापि कदाचन। स पतेन्नरके घोरे यावदाहूतसंश्ववम्। यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे!। दूरादेवास्पृशन् पूजां कारयेत् सुसमाहितः”। तत्पूजने तत्स्पर्शे च स्त्राणां नाधिकर “न जातुचित् स्त्रियाः कार्यं शालग्रामस्य पूजनम्। भर्तृदीनाऽथ सुभगा सर्वलाकहितैषया। मेहात् स्पृशेत्तु महिला जन्मशीलगुणान्विता। हित्वा पुण्यलमूहं तु सत्वरं नरकं व्रजेत्” ब्रह्मवै० पा० २० अ०। “अभक्ष्यं शिवनिर्माल्य पत्रं पुष्प फलं जलम्। शालग्रामशिलास्पर्शात् पावनं तत् भवेत् सदा”।
“दद्यात् भक्ताय यो देवि! शालग्रामशिलां नरः। सुवर्णसहितां, पृथ्वी सपर्वतवनान्विता। ससमुद्रा भवेद्दत्ता सत्पात्रे च वसुन्धरे!। शामग्रामशिलायास्तु मुल्यमुद्घाटयेत् क्वचित्। विक्रेता क्रयकर्त्ता वा नरके वै पतेत् ध्रुवम्” वराहपु०। तस्याकारादिभेदे फलभेदो यथा “छत्राकारे भवेद्राज्यं वर्तुल च लभेत् श्रियम्। दुःखञ्च शकटाकारे शूलाभे मरणं भवेत्। विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च। लग्नचक्रे भवेद्धानिर्विदीर्णे मरणं ध्रुवम्”। तत्स्पर्शेन मिथ्यादिव्यादिकरणादौ दोषो यथा “शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु च। स याति कूर्मदंष्ट्रञ्च यावद्वै ब्रह्मणो वयः। शालग्रामशिलां धृत्वा स्वीकारं योन पालयेत्। स प्रयात्यसिपत्रञ्च लक्षमन्वन्तरावधि। तुलसीपत्रविच्छेदं शालग्रामे करोति यः। तस्य जन्मान्तरे कान्ते! स्त्रीविश्लेषो भविष्यति। शालग्रामञ्च तलसीं शङ्खञ्चैकत्र एव च। यो रक्षति स च ज्ञानी स भवेत् श्रीहरिप्रियः” ब्रह्मवै० प्र० १९० अ०। “शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्। कलेर्दशसहस्नान्ते याति त्यक्त्वा हरेः पदम्” ब्रह्मवै० प्र० ६ अ०। “शालग्रामाः समाः पूज्याः समेषु द्वितयं न हि। विषमा नैव पूज्याः स्युरेकैव विषमेष्वपि” पद्मपु० पा० २० अ०। “शालग्रामशिलारूपी यत्र तिष्ठति केशवः। तत्र देवाऽसुरा यक्षा भुवनानि चतुर्दश” पद्मपु०। “अत्र सर्वसान्निध्यादत्र तेषां पूजा प्रतीयते तत्रावाहनविसर्जने न स्तः “शालग्रामे स्थावरे वा नावाहनविसर्जने” इति राघवभट्टधृतवाक्यात्” दीक्षा० रघु०। ४ क्षेत्रभेदे न० तन्नामकारणं वराहपु० उक्तं यथा “अथ दीर्षेण कालेन स (शालङ्कायनः) मुनिः संशितव्रतः। तप्यमानो यथान्यायं पश्यते शालमुत्तमम्। विश्राम कुरुते तत्र दूष्टुकामोऽथ मां (हरिम्) मुनिः। मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत्। ततः पूर्वेण पार्श्वन तस्य शालस्य सुन्दरि!। वैशाखमासद्बादश्यां मद्दर्शनमुपागतः। दृष्ट्वा मां तत्र स मुनिस्तपस्वी संशितव्रतः। तुष्टाव वैदिकैः सूक्तैः प्रणम्य च पुतम्पुनः। ततोऽहं स्तूयमानो वै ऋषिमुख्येन सुन्दरि!। प्राप्तोऽस्मि परमां प्रीतिं तमवोचं ततो मुनिम्। अत्राश्रमे महाभाग! स्थित्वा त्वं तपसां निधे!। पुत्रेण परमप्रीतो मत्क्षेत्रे मत्समो भव। अन्यच्च गुह्यं वक्ष्यामि शालङ्कायन! तच्छृणु। तव प्रोत्या प्रवक्ष्यामि येनैतत् क्षेत्रमुत्तमम्। शालग्राममिति ख्यातं तन्निबोध मुने! शुभम्। योऽयं वृक्षस्त्वया दृष्टः सोऽहमेव म संशयः” वराहपु०।
शालग्रामगिरि = पु० पर्वतभेदे वराहपु० “कथयिष्यामि ते गुह्यं शालग्राममिति श्रुतम्। तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः। शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति। अहं तत्रैव तिष्ठामि शिलारूपेण नित्यदा। तस्मिन् शिलाः समग्रास्तु मत्स्वरूपा न संशयः। पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः। लिङ्गरूपेण तु हरस्तत्र देवालये गिरौ। शिवनामाः शिलास्तत्र चक्रनाभास्तथा शिलाः। सोमेश्वराधिष्ठितस्तु शिवरूपो गिरिः स्मृतः। शालग्रामगिरिर्विष्णुरहं सोमेश्वराभिधः” वराहपु०।
शालङ्कायन = पृ० ऋषिभेदे शालग्रामशब्दे दृश्यम्।
शा(सा)लज = पु० शा(सा)लात् जायते जन–ड। सर्जरसे (धुना)शब्दर०।
शालनिर्य्यास = पु० ६ त०। सर्जरसे (धुना) रत्नमा०।
शालपर्णी = स्त्री शालस्येव पर्णान्यस्याः ङीष्। (शालपानी) वृक्षभेदे राजनि०। “शालपर्णी गरच्छर्द्दिज्वरश्वासातिसारजित्। शोषदोषत्रयहरी वृंहण्युक्ता रसायनी। तिक्ता विषहरी स्वादुः क्षतकासक्रमिप्रणुत्” भावप्र०।
शालभञ्जिका = स्त्री शालेन भज्यते निर्मीयते भन्ज–ण्वुल्। १ काष्ठनिर्मितपुत्तलिकायां, २ वेश्यायाञ्च जटा०।
शालव = पु० शालः तन्निर्यास इव वलति वहिर्गच्छति बल–ड। लोध्रे शब्दर०।
शालवेष्ट = पु० शालस्य वेष्ट इव। सर्जरसे (धुना) त्रिका०।
शालसार = पु० शालस्य सारः। १ हिङ्गनि शालेषु सारः। वृक्षश्रेष्ठे विश्वः।
शाला = स्त्री शाल–अच्। १ गृहे अमरः। वृक्षस्य २ स्कन्दस्थशाखायाञ्च। ३ गृहकैदेशे (चाल) मेदि०।
शालाङ्क = पु० पाणिनौ मुनौ जटा०।
शालाजिर = पु० न० शालस्याजिरमिवाकारेऽस्त्यस्य अच्। यवासे हेमच०।
शालाञ्चि = पु० शाल इवाञ्चति अन्च–इन्। शाकभेदे (शाञ्च्य) शब्दच०।
शालातुरीय = पु० शालातुरे भवः। तद्ग्रामवासिनि पाणिनिमुनौ जटा० शालोत्तरीय इति पाठान्तरम्।
शालानी = स्त्री शालमानयति आ + नी–ड गौरा० ङीष्। विदार्य्याम् शब्दच०।
शालामृग = पुंस्त्री० शालायां गृहे मृग इव। शृगाले हारा०। स्त्रियां ङीष्।
शालावृक = पुंस्त्री० शालायां गृहे, शाखायां वा वृक इव वा। १ कुक्कुरे २ शृगाले अमरः। ३ विडाले ४ मृगे राजनि० ५ वानरे च शब्दच०। सर्वत्र स्त्रियां ङीष्।
शालि = पु० शल + इञ्। कलमादिधान्ये, २ षष्ठिकादिधान्ये, अमरः। ३ गन्धमार्ज्जारे च मेदि०। शालिभेदादिकं “कण्डनेन विना शुक्लाः हेमन्ताः शालयः स्मृताः” इत्यादि भावप्र० उक्तम्। धान्यशब्दे दृश्यम्।
शालिका = स्त्री शालिरिव कायति कै–क। विदार्य्याम्।
शालिञ्च = पु० शालिं चमति चम–ड पृषो० मुम्। शाकभेदे शब्दर०
शालिनीकरणम् = अशालीनः शालीनः लज्जितः क्रियतेऽनेन श लीन + च्वि–कृ–करणे ल्युट्। तिरस्कारे त्रिका०।
शालिपर्णी = स्त्री शालेरिव पर्णान्यस्याः ङीप्। माषपर्ण्याम् राजनि०।
शालिपिष्ट = न० शालेः पिष्टमिव शुभ्रत्वात्। स्फटिके त्रिका०
शालिवाहन = पु० विक्रमादित्यं हत्वा शकाव्दप्रवर्त्तके नृपभेदे शककर्त्तृशब्दे दृश्यम्।
शालिहोत्र = पुंस्त्री० शालयो हूयन्तेऽत्र हु–ष्ट्रन्। १ घोटके त्रिका० स्त्रियां ङीष्। २ अश्वशास्त्रप्रवर्त्तके नृपभेदे पु० राजनि०।
शाली = स्त्री शाल–अच् गौरा० ङीष्। कृष्णजीरके राजनि०
शालीन = त्रि० शालामर्हति स्य। १ धृष्टे अलज्जे, अमरः। २ मिश्रेयायां स्त्री राजनि०।
शालु = न० शाल–उण्। १ शालूके शब्दर०। २ कषायद्रव्ये, ३ चोरनामगन्धद्रव्ये च मेदि०। ४ भेके पु० ५ गृहे हेमच०।
शालु(लू)क = न० शाल–उकञ्। कुमुदादिमले शब्दर०। ऊकञ्। तत्रार्थे अमरः। २ जातोफले राजनि०।
शालूर = पुंस्त्रो शाल–ऊरच्। १ भेके अमरः स्त्रियां ङीष्।
शालेय = पु० शालायां भवः ढक्। १ मधुरिकायाम् अमरः। २ मिश्रेयायां स्त्री राजनि० टाप्।
शालोत्तर = पु० ग्रामभेदे।
शालोत्तरीय = पु० शालोत्तरे ग्रामे भवः छ। पाणिनिमुनौ जटा०।
शाल्मल = पु० शाल–मलच्। (शिमुल) १ वृक्षे शब्दर० २ तच्चिह्नितद्वीपभेदे च विष्णुपु० “शाल्मस्येश्वरोधीरो वपुष्मा~स्तत्सुतान् शृणु। तेषान्तु नामसञ्चारैः सप्त वर्षाणि तानि वै। श्वेतोऽत्र हरितश्चैव जीमूतो लोहितस्तथा। वैद्युतो मानसश्चैव सुप्रभश्च महामुने!। शाल्मलेन समुद्रोऽसौ द्वीपेनेक्षुरसोदकः। विस्तरोद्विगुणेनायं सर्वतः संवृतः स्थितः। तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रसाभिव्यञ्जकास्ते तु तथा सप्तैव निम्नगाः। कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः। द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः। कङ्कस्तु पञ्चमः षष्ठो महिषः सप्तमस्तथा। कुमुद्वान् पर्वतवरः सरिन्नामानि मे शृणु। योनितो या वितृष्णा च चन्द्रा शुक्ला विमोचनी। निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः। श्वेतञ्च लोहितञ्चैव जीमूत हरितं तथा। वैद्युतं मानसञ्चैव सुप्रभं नाम सप्तभम्। सप्तैतानि तु वर्षाणि चातुवर्ण्ययुतानि वै। शाल्मलेऽपि च ये वर्णा वसन्त्येते महामुने!। कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव यजन्ति तम। भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम्। वायुभूत मखश्रेष्ठैर्यज्विनो यज्ञसंस्थितिम्। देवानामत्र सान्निध्यमत्रैव सुमनोरमे। शाल्मलिश्च महावृक्षो नाम निर्वृतिकारकः। एष द्वीपः समुद्रेण सुरोदेन समावृतः”।
शाल्मलि(ली) = पुं स्त्री० शाल–मलिच् वा स्त्रोत्वे वा ङीप्। (शिमुल) १ वृक्षे २ मोचरसे हेमच०। शाल्मलिगुणादिकं भावप्र० उक्तं यथा “शाल्मली शीतला स्वच्छा रसे पाके रसायनी। शेष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित्। शाल्मलीपुष्पशाकन्तु धृतसैन्धवसाधितम्। प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः। रसे पाके च मधुरं कषायं शातलं गुरु। कफपित्तास्रजित् ग्राहि वातलं च प्रकोर्त्तितम्। ३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणः पीड्यन्ते नरकशब्दे दृश्यम्।
शाल्मलिक = पु० शाल्मलिरिव कायति कै–क। रोहितवृक्षे राजनि०।
शाल्मलीकन्द = पु० ६ त०। तद्वृक्षमूले राजनि०।
शाल्मलीफल = पु० शाल्मल्या इव फलमस्य। तेजःफलवृक्षे राजनि०।
शाल्मलीवेष्ट = पु० शाल्भलीं वेष्टयति वेष्ट–अण्। शाल्मलीनिर्य्यासे मोचरमे रत्नमा०। ण्वुल्। तत्रैव।
शाल्व = पु० शाल–व। १ देशभेदे हेमच०। तस्य २ मृपे च भारते दृश्यम्।
शाल्वण = पु० “काकोल्यादिः स वातघ्नः सर्वाम्लद्रव्यसंयुतः। सानुपोदकमांसस्तु सर्वाम्लैश्च समन्वितः। स चोष्णः स्पष्ट लवणः शाल्वणः परिकीर्त्तितः” सुश्रुतोक्ते ओषधभेदे।
शाव = पु० शव–घञ्। १ शिशौ शब्दर०। स्वार्थे क। तत्रैव शवस्येदम् अण्। २ शवसम्बद्धे त्रि० “त्रिरात्रं शावमाशौचम्” इति स्मृतिः।
शावर = पु० शावयति विकारयति शव–णिच् अरन्। १ पापे २ अपराधे ३ लोध्रद्रुमे च मेदि०। शवरेण प्रोक्तमण्। ४ शबरस्वामिकृते मीमांसाभाष्ये। शवरस्येदम् अण्। ५ शवरसम्बन्धिनि त्रि०।
शावरभेदाक्ष = न० शावरभेदस्याक्षीव षच्समा० स्वार्थे अण्। ताम्रे हेमच० तस्य तत्तुल्यरक्तवर्णत्वात्तथात्वम्।
शावरी = स्त्री शवरस्य प्रिया अण् ङीप्। १ शूकशिम्ब्यां मेदि०। २ विद्याभेदे तन्त्रसा०।
शाश्वत = त्रि० शथद् भवः अण्। सतते नित्ये अमरः स्त्रियां ङीष्।
शाष्कुल = त्रि० शष्कुलमिव मांसं भक्ष्यमस्य अण्। मांसाशिनि हेमच०।
शाष्कुलिक = न० शष्कुलीनां सङ्घः ठञ्। शष्कुलीसमूहे अमरः।
शास = आशीर्वादे अदा० आत्म० सक० सेट् क्त्वा वेट्। पायेणाङ् पूर्वः। आशास्ते आशासिष्ट “इद कविभ्यः पू० र्वेभ्योनमोवाकं प्रशास्महे” उत्तरचरितोक्तेरन्यपूर्वोऽपि।
शास = शासने अदा० पर० द्विक० सेट् क्त्वा वेट्। शास्ति अशासत्
शासन = न० शास–ल्युट्। निकृष्टस्य हितसाधनादौ १ प्रवर्त्तने २ राजदत्तभूमौ ३ राजलेख्यभेदे ४ शास्तौ च मेदि०।
शासनहर = पु० शाससं हरति हृ–अच्। आज्ञाहारके दूते।
शासितृ = त्रि० शाम–तृच् इट्। शासगकर्त्तरि।
शास्तृ = त्रि० शास–तृच् इडभावः। १ शासनकर्त्तरि त्रिका०। २ बुद्धे अमरः ३ उपाध्याये ४ नृपे ५ पितरि संक्षिप्तसा०।
शास्त्र = न० शिष्यतेऽनेन शास–ष्ट्रत्। १ हितामुशासने ग्रन्थे शास्त्रं च वेदमूलकं सद्भिरादरणीयं नान्यत् यथोक्तं “अतो वेदविरुर्द्धार्थशास्त्रोक्तं कर्म संत्यजेत्। स्वबुद्धिरचितैः शास्त्रै। प्रतार्य्येह च व्रालिशान्। विध्नन्ति श्रे- यसो मार्गं लोकनाशाय केवलम्। निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्द्विजान्। तेन ते निरयं यान्ति ह्यसच्छास्त्रनिषेवणात्। श्रुतिस्मृतिसदाचारविहितं कर्म शाश्वतम्। स्वं स्वं धर्मं प्रयत्नेन श्रेयोऽर्थीह समाचरेत्। स्वबुद्धिरचितैः शास्त्रैर्मोहयित्वा जनं नराः। तेन ते निरयं यान्ति युगानां सप्तविशतिम्” पद्मपु० १७ अ०। “पुराणं भारतं वेदधर्मशास्त्राणि यानि च। आयुषः क्षपणायैव धर्मतश्चेन्न चाचरेत्। पुत्रदारादिसंसारः पुंसां संमूढचेतसाम्। विदुषां शास्त्रसम्भारः सद्योगाभ्यासविघ्नकृत्। इदं ज्ञेयमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति। अपि वर्षशतेनापि शास्त्रान्तं नाधिगच्छति। विज्ञायाक्षरतन्मात्रं जीवितुञ्चापि सञ्चलन्। विहाय शास्त्रजालानि पारलौकिकमाचरेत्। पण्डितोऽपि हि मूर्खोऽसौ शक्तियुक्तोऽप्यशक्तिकः। यः संसारान्न चात्मानं समुत्तारयितुं क्षमाः” वह्निपु०। तामसशब्दे ३२७१ पृ० दृश्यम्। “बहुशास्त्रालोकनेऽपि सारादानं षट्पदवत्” सांख्यप्र० सू०
शास्त्रकृत् = पु० शास्त्रं करोति कृ–क्विप्। मन्वादिषु ऋषिषु त्रिका०।
शास्त्रगत = पु० शास्त्रे गत इव। प्रधटाविदि त्रि०।
शास्त्रचारण = पु० शास्त्रं चारयति प्रचारयति चर–णिच्ल्यु। शास्त्रोक्ताचरणप्रचारकर्त्तरि शब्दर०।
शास्त्रतत्त्वज्ञ = त्रि० शास्त्रतत्त्वं जानाति ज्ञा–क। १ शास्त्रतात्पर्य्यवेत्तरि २ ज्योतिषज्ञे शब्दर०।
शास्त्रदर्शिन् = त्रि० दृश–णिनि ६ त०। शास्त्रज्ञे शब्दर०। शास्त्रविदादयोऽप्यत्र।
शास्त्रशिल्पिन् = त्रि० शास्त्रं तज्ज्ञानं शिल्पमिवाऽस्त्यस्य इनि। १ शास्त्रज्ञानोपजीविनि २ काश्मीरदेशे पु० त्रिका०।
शास्त्रिन् = त्रि० शास्त्रं वेत्त्यधीते वा इनि। शास्त्रज्ञे।
शास्त्रीय = त्रि० शास्त्रेण विहितः छ। शास्त्राक्ते धर्मादौ।
शास्य = त्रि० शास–ण्यत्। अनुशासनीये शिष्यादौ।
***