शत = न० एक० व० शो–डतच्। १ स्वनामख्यातसख्यायाम् २ बहुसंख्यायां ३ तत्संख्याते च। स्वार्थे क। तत्रैव न० शतवाचकशब्दाश्च धार्त्तराष्ट्रः१ शतभिषा तारा२ पुरुषायुषम्३ रावणाङ्गुलिः४ पद्मदलं५ इन्द्रयज्ञः६ अब्धियोजनम्७” कविकल्पलता।
शतक = त्रि० शतं परिमाणमस्य लन्। १ शतसंख्यायुक्ते।
शतकुम्भ = पु० शतं कुम्भायत्र। स्वर्णस्वनिपर्वतभेदे भरतः।
शतकोटि = पु० शतं कोटयोऽग्राणि यस्य। १ वज्रे अमरः। शतगुणिता कोटिः शाक०। २ शतगुणितकोटिसंख्यायां स्त्री।
शतक्रतु = पु० शतं क्रतवोऽस्य। इन्द्रे अमरः।
शतग्रन्थि = स्त्रा शतं ग्रन्थयोऽस्य। दूर्वायाम् राजनि०।
शतघ्नी = स्त्री शतं हन्ति हन–टक्। १ अस्त्रभेदे “अयःकण्टकसंछन्ना शतघ्नी महती शिला” विजयरक्षितः। २ वृश्चिकाल्यां ३ करञ्जे च मेदि०।
शततम = त्रि० शतस्य पूरणः तमप्। शतसंख्यापूरणे।
शततारा = स्त्री शतगुणिता ताराः शाक०। शतभिषानक्षत्रे।
शतदन्तिका = स्त्री शतं दन्ता इव सन्त्यस्य ठन्। नागदन्त्याम् राजनि०।
शतद्रु = पु० शतधा द्रवति–द्रु–कु नि०। नदीभेदे तन्नामनिरु क्तिर्यथा “शोके बुद्धिं तदा चक्रे नचैकत्र व्यतिष्ठत। सोऽगच्छत् पर्वतांश्चैव सरितश्च सरांसि च। दृष्ट्वा स (वसिष्ठः) पुनरेवर्षिर्नर्दी हैमवतीं तदा। चण्डग्राहवतीं भीमां तस्याः स्रोतस्यपातयत्। सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा। शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता। ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना। मर्त्तुं न शक्याभीत्युक्त्वा पुनरेवाश्रमं ययौ” भा० आ० १७७ अ०।
शतधा = स्त्री शतं ग्रन्थीन् धत्ते धा–क १ दूर्वायाम्। शत + प्रकारे धाच्। २ शतप्रकारे अव्य०।
शतधामन् = पु० शतं धामानि यस्य। विष्णौ जटा०।
शतधार = पु० शतं धारा अग्राणि यस्य। १ षज्रे त्रिका०। २ शतधारायुक्ते त्रि० “वसोः पवित्रमसि शतधारम्” यर्जुर्वेदः १३। ४९।
शतधृति = पु० शतं धृतयोऽस्य। १ इन्द्रे २ ब्रह्मणि मेदि० ३ स्वर्गे च विश्वः।
शतपत्त्र = न० शतं बहूनि पत्त्राणि सुमस्थदलान्यस्य। १ पद्मे अमरः। २ मयूरे ३ सारसखगे ४ दार्वाघटखगे मेदि० ५ राजकीरे हेमच०।
शतपत्त्री = स्त्री शतं पत्त्राणि दलान्यस्याः ङीप्। (सेओति) पुष्पवृक्षभेदे। स्वार्थे क। तत्रैव।
शतपथ = पु० शतं पन्थानो यत्र अच्समा०। यजुर्वेदीयब्राह्मणात्मकग्रन्थभेदे।
शतपथिक = त्रि० शतपथं वेत्त्यधीते वा ठन्। शतपथब्राह्मणात्मकग्रन्थाध्यायिनि।
शतपद = न० शतं पदानि यत्र। ज्योतिष्योक्ते नक्षत्रपादानुसारेण नामकरणोपयोगिप्रथमवर्णसूचके १ चक्रभेदे चक्रशब्दे २८१७ पृ० दृश्यम्। शतं पादाः यस्याः षाद्भावः समा० ङीष् पद्भावः। शतपदी २ कीटभेदे (काण्डाइ) स्त्री अमरः। ३ शतमूल्यां राजनि०।
शतपद्म = न० शतदलयुक्तं पद्मम्। १ शतदलकमले २ श्वेतपद्मं च रत्नमा०।
शतपर्वन् = यु० शतं पर्वाणि ग्रन्थयो यस्य। १ वंशे अमरः २ इक्षुभेदे च “शतपर्वा भवेत् किञ्चित् कोशकारगुणान्वितः। विशेषात् किञ्चिदुष्णश्च सक्षारः पवनापहः” भावप्र०। ३ कटुकायां राजनि०। ४ वचायां ५ दूर्वायां च स्त्री ६ भार्ग्यां मेदि०। ७ कोजागरपूर्णिमायां शब्दरत्ना०। कप्। तासु मेदि० ८ यवे शब्दर०।
शतपाद् = स्त्री शतं पादा अस्याः पाद्भावः। कीटभेदे (काण्डाइ) जटा०।
शतपादिका = स्त्री शतं पादा मूलान्यस्याः कप्। १ काकोल्यां जटा०। २ जलौकायां च शब्दर०।
शतपुष्पा = स्त्री शतं पुष्पाणि यस्याः। (सुल्फा) १ शाकभेदे (मौरी) २ क्षुपभेदे च। कष्। तत्रैव। “शतपुष्पा कदुः स्निग्धा तिक्तोष्णा कफवातकृत्। रुच्यावस्तिहिता नेत्र्या बद्धविट् कृमिशुक्रहृत्। संग्राहिशीतला तिक्ता दाहनुत् वातला लघुः” भावप्र०। किरातार्जनीयग्रन्थकारके भारविकवौ पु० त्रिका०।
शतप्रसूना = स्त्री शतं प्रसूनानि यस्याः। (सुल्फा) शाके राजनि०।
शतप्रास = पु० शतं प्रासा इव फलानि यस्य। करवीरक्षे अमरः
शतभिषज् = स्त्री शतं भिषज इव ताराः यत्र। शततारात्मके अश्विन्यादिषु चतुर्विंशे नक्षत्रे। शतभिषाप्यत्र स्त्री
शतभीरु = स्त्री शतं बहवो वियोगिनो भीरवो यस्याः ५ त०। मल्लिकायाम् अमरः तद्दर्शने हि बहुवियोगिनां कामोद्दीपनात् ततो भीरुत्वम।
शतमख = पु० शतं मखा यज्ञा यस्य। १ इन्द्रे हलायुधः। २ पेचके च।
शतमन्यु = पु० शतं मन्यवो यज्ञा यस्य शते दैत्यंषु मन्युः क्रोधो वा यस्य। १ इन्द्रे अमरः। २ पेचके च।
शतमान = पु० न० शतेन मीयते मि–ल्युट्। १ रूप्यपले २ आढके २ तत्परिमिते च अमरः।
शतमारिन् = पु० शतं मारयति मृ–णिच्–णिनि। विशिष्टचिकित्सके।
शतमुखी = पु० शतं मुखानि यस्याः ङीष्। १ संमार्जत्यां २ शतमुखयुक्ते त्रि०।
शतमूला = स्त्री शतं मूलान्यस्याः टाप्। १ दूर्वायां २ स्वनामख्यातायां लतायाञ्च ङीवन्तः अमरः।
शतयष्टिक = पु० शतं यष्टयो गुच्छा यस्य। शतगुच्छके हारभेदे अमरः।
शतरुद्रीय = न० शतं रुद्रानधिकृत्य कृतो ग्रन्थः छ। १६ अ० यजुर्वेदोक्ते “नमस्ते रुद्र! मन्यव इत्यादिके रुद्राध्याये।
शतरूपा = स्त्री शत रूपाण्यस्याः। १ व्रह्मणः पत्न्यां २ तत्कन्यायां सावित्र्यां च “ततः संजपतस्तस्य भित्त्वा देहमकल्मषम्। स्त्रारूपमर्द्धमकरोदर्द्धं पुरुषरूपवत्। शतरूपा च सा ख्याता सावित्री च निगद्यते। सरस्वत्यथ गायत्री व्रह्माणी च परन्तप। दृष्ट्वा तां व्यथितस्तावत् कामवाणार्दितो विभुः। उपयेमे स विश्वात्मा शतरूपामनिन्दिताम्। ततः कालेन महता ततः पुत्रोऽभवन्मनुः। खायम्भुव इति ख्यातः स विराडिति नः श्रुतम्” मात्स्ये ३ अ०।
शतवीर्य्या = स्त्री शतं वीर्य्याणि यस्या ५ ब०। १ श्वेतदूर्वायाम् २ शतावर्य्यां ३ कपिलद्राक्षायां च राजनि०।
शतवेधिन् = पु० शतं विधति विध–णिनि। अम्लवेतसे अमरः
शतसहस्र = न० शतगुणितं सहस्रं शाक०। लक्षसंख्यायाम्।
शतसाहस्र = त्रि० शतं सहस्राणि परिमाणमस्य अण् उत्तरपदवृद्धिः। लक्षसंख्याते।
शतह्नदा = स्त्री शतं ह्रादाः शब्दायस्याः पृषो० ह्रस्वः। १ विद्युति अमरः। २ वज्रे मेदि० ३ दक्षकन्याभेदे वह्निपु०
शताक्षी = स्त्री शतमक्षीणीव पुष्पाण्यस्याः षच् समा० ङीष्। १ रात्रौ २ शतपुष्पायाम्। शब्दच० ३ दुर्गायाञ्च “भूयश्च शतवार्षिक्यामनाबृष्ट्यामनम्भसि। मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा। ततः शतेन नेत्राणां निरीक्षिप्यामि यन्मुनीन्। कीर्त्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः” देबीमाहात्म्ये।
शताङ्ग = पु० शतमङ्गान्यवयवायस्य। १ रथे अमरः २ तिनिसवृक्षे च राजनि०।
शतानन्द = पु० शतमानन्दयति अण्। गोतमपुत्रे अहल्यागर्भजे १ मुनिभेदे। स च जनकराजपुरोहितः। ३ देवकीनन्दने मेदि० ४ ब्रह्मणि हेमच० ५ विष्णुरथे त्रिका०। ६ शतजनानन्दके त्रि०।
शतानीक = पु० शतमनीकानि यस्य। १ व्यासशिष्ये मुनिभेदे २ चन्द्रवंश्ये नृपभेदे मेदि०। ३ सुदासराजपुत्रे भाग० ९ १२ अ०।
शतार = न० शतमराण्यस्य। वज्रे त्रिका०।
शतारुस् = न० शतं अरूंषि यत्र। कुष्ठभेदे “रक्तं श्यावं सदाहार्त्ति शतारुः स्याद् बहुव्रणम्” भावप्र०।
शतायुस् = त्रि० शतमायुर्वर्षकालोऽस्य। शतवर्षमितवयस्के “शतायुर्वै पुरुषः” श्रुतिः।
शतावरी = स्त्री शतमावृणोति आ + वृ–अच् गौरा० ङीष्। १ शतमूल्याम् अमरः। “शतावरी गुरुः शीता तिक्ता {??} रसायनी। मेधाग्यिपुष्टिदा स्निग्धा नेत्र्या गुल्मातिसारजित्। शुक्रस्तन्यकरी बल्या वातपित्तास्रशोथजित्” भावप्र०। २ इन्द्रभार्य्यायां शब्दच०। ३ शट्यां त्रिका०।
शतावर्त्त = पु० शतमावर्त्ता यस्य। विष्णौ हेमच०। शतधा वर्त्तते णिनि। तत्रैव। शतावर्त्तिन्।
शताह्वा = स्त्री शतं शतमूली शतपुष्पा वेति आह्वा यस्याः मध्यपदलोपः। १ शतमूल्यां राजनि० २ शतपुष्पायाञ्च जटा०
शतिक = त्रि० शतेन क्रीतः, तस्य विकारः तस्येदं वा ठन्। १ शतेन क्रीते पदार्थे। २ तद्विकारे ३ तत्सम्बन्धिनि च। शतमस्मै वृद्धिः आयः लाभः शुलकम् उपदा वा दीयते ठन्। ४ वृद्ध्यादिरूपण शतदानसम्प्रदाने। पक्षे यत् शत्य तत्रार्थे।
शत्य = त्रि० शतेन क्रीतः शतिकशब्दवत् यत्। शतसंख्यातद्रव्येण क्रीतादौ शतिकशब्दार्थे।
शत्त्रु = पु० शद–त्रुन्। १ रिपौ राज्ञां २ विषयानन्तरस्थे नृपे अमरः ३ ज्योतिषोक्ते लग्नावधिकषष्ठस्थाने ४ कामादिषु च। ५ शातके त्रि०।
शत्त्रुघ्न = पु० शत्रून् हन्ति हन–क। दशरथात्मजे सुमित्रागर्भजेलक्ष्मणानुजे २ रिपुनाशके त्रि०।
शद = शातने शीर्णतायां भ्वा० पर० अक० अनिट् ऌदित्। शीयते अशदत्। शत्स्यति
शद = गतौ भ्वा० षर० सार्वधातुके आत्म० सक० अनिट्। शीयते
शद = पु० शद–अच्। फलभूलादौ सिद्धान्तकौ०।
शद्रि = पु० शद–क्रि। १ मेघे २ जिष्णौ मेदिनी० ३ गजे उणा०
शद्रु = त्रि० शद–क्रु १ पतनककर्त्तरि २ गन्तरि च।
शनकावलि(ली) = स्त्री शनैः कायति कै–क पृषो० तेषामावलिर्यत्र वा ङीप्। गजपिप्पल्यां शब्दच०।
शनपर्णी = स्त्री शणस्येव पर्णान्यस्याः पृषो० णस्य नः। कटुक्याम् शब्दच०।
शनि = पु० शा–अनि किच्च। १ सूर्य्यपुत्रे छायागर्भजाते ग्रहभेदे “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुःसमोस्थिरश्च। क्रुरः प्रतीचीतुवरोऽतिवृद्धोऽकरः क्षितीट् दीर्घसुनीललौहम्”। नील० ताज०। “मन्दोऽलसः कपिलकुन्तलदीर्घगात्रः स्थूलद्विजः परुषरोमकचोनिलात्मा” वृहज्जा०। २ तत्स्वामिकदिने च “शनौ बन्ध्यां विजानीयात्” ज्यो० त०।
शनिवार = पु० शनिस्वामिकोवारः। सूर्य्यादिवारमध्ये सप्तमेवारे।
शनैश्चर = पु० शनैश्चरति चर–अच्। शनिग्रहे तस्य ग्रहाणां मध्ये सर्वोपरिकक्षस्थितत्वात् बहुफालेनैकैकराशिभोगात् भृदुगतित्वम्।
शनैस् = अव्य० शण–डैसि पृषो० नुक् च। मन्दे २ अशैघ्य्रे च अमरः।
शन्स = हिंसायां स्तुतौ कथने च भ्वा० पर० सक० सेट् क्त्वा वेट्। शंसति अशंसीत्।
शप = आक्रोशे वा भ्वा० पक्षे दिवा० उभ० सक० अनिट्। शपति ते शप्यति ते अशाप्सीत्।
शपथ = पु० शप–अथन्। सत्यताकरणाय दिव्यभेदकरणे यथा एतत् यदि मिथ्या स्यात् तदा मे एतदनिष्टं स्यादित्यादि
शपन = पु० शप–ल्युट्। १ शपथे अमरः। २ गालौ त्रिका०।
शप्त = त्रि० शप–क्त। १ अभिशापग्रस्ते २ उलपाख्ये तृणभेदे पु० शब्दच०।
शफ = न० शम–अच् पृषो० पस्य फः। १ गवादीनां खुरे २ वृक्षमूले च मेदि०।
शफर = पुंस्त्री० शफं राति रा–क। (पु~टी) मत्स्यभेदे अमरः स्त्रियां ङीष्।
शफराधिप = पु० ६ त०। इल्लिसमत्स्ये त्रिका०।
शब्द = शब्दकरणे अ० चु० उभ० सक० सेट्। शब्दयति ते अशशब्दत् त।
शब्द = पु० शब्द–घञ्। १ ध्वन्यात्मके २ वर्णात्मके च श्रोत्रेन्द्रियग्राह्ये आकाशस्थे गुणभेदे।
शब्दग्रह = पु० शब्दं गृह्वाति ग्रह–अच्। १ श्रोत्रेन्द्रिये घञर्थे अप् ६ त०। २ शब्दज्ञाने।
शब्दतन्मात्र = न० कर्म०। सांख्यमतसिद्धे आकाशकारणे सूक्ष्मभूतभेदे तन्मात्रशब्दे ३२२९ पृ० दृश्यम्।
शब्दन = त्रि० शब्द–ल्यु। शब्दकारके अमरः।
शब्दब्रह्मन् = न० शब्दात्मर्क ब्रह्म। १ वेदात्मके २ स्फोटात्मके च नित्थे शब्दरूपे ब्रह्मणि।
शब्दभेदिन् = पु० शब्दानुसारेण भिनत्ति लक्ष्यम् भिद–णिनि। १ वाणभेदे २ अर्जुने त्रिका०।
शब्दवेधिन् = पु० शब्दानुसारेण विधति लक्ष्यं विध–णिनि। १ वाणभेदे २ अर्जुने च धंनञ्जयः।
शब्दशक्ति = स्त्री ६ त०। शब्दानामर्थावबोधकतारूपे अभिघालक्षणादौ वृत्तिरूपे सामर्थ्ये।
शब्दाधिष्ठान = न० ६ त०। कर्णे हेमच०।
शब्दानुशासन = न० अनुशिष्यतेऽनेन अनु + शास–ल्युट् ६ त०। शब्दसाधुताज्ञापक व्याकरणे। “अथ शब्दानुशासनम्” महाभाष्यम्।
शब्दालङ्कार = पु० शब्दमात्रकृतोऽलङ्कारः। अलङ्कारशास्त्रप्रसिद्धेऽनुप्रासादौ अलङ्कारे। अलङ्कारशब्दे तद्भेदादिकं दृश्यम्।
शब्दित = त्रि० शब्द–क्त। आहूते।
शम = शान्तौ अक० शान्तीकरणे सक० दि० शमा० पर० सेट्। शाम्यति इरित् अशमत्–अशमीत्। उदित् क्त्वा वेट्। शान्तः। शमयति शामवति।
शम = आलोचने चु० उम० सक० सेट्। शामयति ते शमयति ते अशीशमत् त।
शम = पु० शम–घञ्। १ शान्तौ अन्तरिन्द्रिवदमने अमरः। २ मोक्षे त्रिका० ३ पाणौ रामाश्रमः। ३ उपचारे राजनि०।
शमथ = पु० शम–अथच्। १ शान्तौ अमरः। २ मन्त्रिणि मेदि०।
शमन = पु० शमयति शम–णिच्–ल्यु। लोकार्ना पुण्यापुण्यफलदातृत्वेन दण्डकारके १ यमे अमरः। शम–णिच्भावे ल्युट्। २ शान्तीकरणे न०। ३ यज्ञार्थपशुधाते अमरः ४ चर्वणे धरणिः ५ हिंसायां हेमच० ६ मृगभेदे शब्दच०।
शमनस्वसृ = स्त्री ६ त०। यमुनायाम् अमरः।
शमल = न० शम–कलच्। १ विष्ठायाम् अमरः। २ पापे संक्षिप्त०
शमि(मी) = स्त्री शम–इन् वा ङीप्। (शा~व) १ वृक्षभेदे “शमी तिक्ता कटुः शीता कषाया रेचनी सघुः। कम्पकासश्रमश्वासकुष्टार्शःकृमिजित् स्मृता” मावप्र०। २ शिम्बायाच्च (शु~टि) हेमच०। ३ बाङ्खजौ मेदि०।
शमिन् = त्रि० शाम्यति शम–णिनि। शान्ये।
शमीक = पु० शम–बा० ईक। मुनिभेदे।
शमीगर्भ = पु० शमीगर्भ आधारत्वेनास्त्यस्य अच्। १ वह्नौ २ विप्रे च शब्दच०।
शमीधान्य = न० शमी शिग्यैव धान्यम्। शिम्बात्मके माधमुद्गादौ धान्ये अमरः। “शमीजाः शिम्बिजाः शिम्बा तराः सूप्याश्च वैदलाः। वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः। पातलाः कफपित्तघ्ना बद्वमूत्रमला हिमाः। ऋते सुद्गमसृराभ्यामन्ये त्वाध्मानकारकाः”। सुद्गमसूरसोरनाष्मानदारित्वमन्यवैदलापेक्षया न तु सर्वता एतयोरपि किञ्चिदाध्मानकारित्वदर्शनात्” भावप्र० “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते। परतो वातकृद्रूणं ध्रायेणाभिननं गुरु। यवगोधूममाषाश्च तिलाश्चाभिनया हिताः। पुराणाविरसारूक्षा न तथार्धकरा कताः” राक्षवसुभः।
शमीपत्त्री = स्त्री शम्या इव पत्त्रमस्याः ङीप्। सज्जादुलतायां जटा०।
शमीर = पु० अल्पा शमी अल्पार्थे र “क्वचित् स्वार्धिधा अपि प्रत्ययाः प्रकृतितो लिञ्जवचनान्यतिवर्त्तन्ते” इति भाष्योक्तेः पुंस्त्वम्। क्षुद्रायां शभ्याम् अमरः।
शम्पा = स्त्री शं पाति पा–क। विद्युति अमरः।
शम्पाक = पु० शं शिवं पाके फले वा यस्य। १ आरग्बधे अमरः। २ विपाके ३ यावके च हेमच०।
शम्ब = गतौ भ्वा० पर० सक० सेट्। शम्बति अशम्बीत्।
शम्ब = पु० शम्ब–अच्। १ वज्रे २ मूसलाग्रस्थितलौहे मेदि०। २ लौहकाञ्च्यां हेलच०। ४ अनुलोमकर्षणे भरतः। ५ दरिद्रे च संक्षिप्तसा० ६ भाग्यबति त्रि० रामाश्रमः।
शम्बर = न० शम्ब–अरन्। १ जले २ धने ३ व्रते रत्नमा०। ४ चित्रे च ५ बौद्धव्रतभेदे हेमच०। ६ मृगभेदे ७ दैत्यभेदे पु० मेदि० ८ मत्स्यभेदे ९ पर्वतभेदे १० जिनभेदे पु० विश्वः। ११ युद्धे पु० १२ श्रेष्ठे त्रि० धरणिः १३ चित्रकवृक्षे १४ लोध्रे १५ अर्जुनवृक्षे च पु० राजनि०।
शम्बरकन्द = पु० शम्बरः श्रेष्ठः कन्दो यस्य। वाराहीकन्दे राजनि०।
शम्बरचन्दन = न० ६ त०। शम्बरपर्वतजाते चन्दनभेदे रालनि०
शम्बरसूदन = पु० शम्बरमसुरं सूदयति हिनस्ति चु० सूदल्यु। कामदेवे हला० तद्वननकथा हरिवं० १६३। १६४ अ० दृश्या।
शम्बरारि = पु० ६ त०। कामदेवे अमरः। शम्बररिप्वादयोऽप्यत्र।
शम्बरी = स्त्री शम्बरं जलं बाहुल्येनास्त्यस्था अच् गौरा० ङीष्। १ आखुपर्ण्यां मेदि०। २ मायायां शब्दर०!
शम्बल = पु० न० शम्ब–कलच्। १ कूले २ प्राथेये ३ मत्सरे च मेदि०
शम्बाकृत = त्रि० शम्बं कृष्टमप्यनुलोममाकृष्यते शम्ब + कर्षणार्थे डाच् + कृ–क्त। अनुलोमेन द्विरावृत्ते कृष्टे क्षेत्रे अमरः।
शम्बु(म्बू) = पुंस्त्री० शम्ब–उन् कूवा। १ जलशुक्तौ (शामुक) हेमच० स्वार्थे क। तत्रार्थे। संज्ञायां कन्। गजकुम्भान्तभागे च। रामायणप्रसिद्धे शूद्रतापसे, शङ्खे हेमच० दैत्यभेदे च पु०।
शम्भ = त्रि० शमस्त्यस्य शम् + भ। कल्याणयुक्ते।
शम्भल = पु० शम्भं कल्याणदायकं तीर्थं लाति–ला क। १ ग्रामभेदे यत्र कल्की भविष्यति तस्मिन्। २ कुट्टिन्यां स्त्री अमरः गौरा० ङीष्।
शम्भु = पु० शम् + मू–डु। १ महादेले अमरः। २ ब्रह्मणि ३ वृद्धे मेदि० ४ विष्णौ हला० ५ सिद्धे शब्दर०। ६ श्वेतार्के शब्दर०
शम्भुतनय = पु० ६ त०। १ गणेशे २ कार्त्तिकेये च शब्दमा० शम्भुसुतादयोऽप्यत्र।
शम्भुप्रिया = स्त्री ६ त०। १ आमलक्यां हेमच० २ दुर्गायाञ्च।
शम्भुवल्लभ = न० ६ त०। १ श्वेतपद्मे राजनि० २ महादेवप्रिये च
शम्या = स्त्री शम–यत् टाप्। १ युगकीलके अमरः। २ दक्षहस्तदत्ततालभेदे संगीतदा०।
शय = पु० शी–अच्। १ हस्ते अमरः। २ सर्पे ३ शय्यायां मेदि० ४ निद्रायां ५ पणे च विश्वः।
शयथ = पु० शो–अथच्। १ अजगरसर्पे २ मृत्यौ ३ निद्राशीले त्रि० हेमच०। ४ वराहे ५ मत्स्ये च पुंस्त्री० संक्षिप्तसारः।
शयन = न० शी–ल्युट्। १ निद्रायां २ शय्यायाम् अमरः ३ मैथुने च मेदि०। देवभेदे शयनकालभेदादि वामनपु० १६ अ० उक्तं यथा “मिथुना भगते सूर्ये शुक्लपक्षे तपोधन!। एकादश्यां जगत्स्वामिशयनं परिकल्पयेत्। शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम्। कृत्वोपवीतकञ्चैव सम्यक् संपू च द्विजान्। अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः। लब्ध्वा पीताम्बरधरं स्वस्ति निद्रां समानयेत्। त्रयीदश्यां ततः कामः स्वपते शयने शुभे। कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते। चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले। सुवर्णपङ्कजकृते सुखास्तीर्णोपधानके। पौर्णमास्यामुमानाथः स्वपते चर्मसंस्तरे। वैयाघ्रे च जटाभारं सभुद्ग्रथ्यान्यचर्मणा। ततो दिवाकरे राशिं संप्रयाति च कर्कटम्। ततोऽमराणां रजनी भवते दक्षिणायनम्। ब्रह्मा प्रतिपदि तथा नीलोत्पलदलेऽनघ!। तल्पे स्वपिति देवानां दर्शयन् मार्गमुत्तमम्। विश्वकर्मा द्वितीयायां तृतीयायां गिरेः सुता। विनायकश्चतुर्थान्तु पञ्चम्यामपि धर्मराट्। षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः। कात्यायनी तथाष्टम्यां नवम्यां कमलालया। दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः। एकादश्यान्तु कृष्णायां साध्या ब्रह्मन् स्वपन्ति हि। एष क्रमस्ते सदितो निशायां शयने मुने!। स्वपत्सु तेषु देवेषु प्रावृट्कालः समाययौ”। अथ लोकानां शयनप्रकारादि प्रदर्श्यते “उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च। भृत्यैः परिवृतो भुक्त्वा नानितृप्तोऽथ संविशेत्। शुचिं देशं विविक्तन्तु गोमयेन तु लेपयेत्। प्रागुदक्प्रवणं चैव संखपेत सदा बुधः। प्राक्शिराश्च स्वपेन्नित्यं तथा वै दक्षिणाशिराः। स्वपेदुदक्शिरा नैव तथा प्रत्यक्शिरा न च। न चान्तर्द्धानहीने तु न तिर्य्यक च कदाचन। शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे। महादेवगृहे चापि मातृवेश्मनि न स्वपेत्। न यक्ष नागायतने स्कन्दस्यायतने तथा। दर्भेषु च विना दीक्षां न स्वपेच्च कथञ्चन। धान्यगेहे च विप्राणां गुरूणाञ्च तथोपरि। नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिखस्तथा। दिने सन्धौ न नग्नञ्च नोत्तरापरमस्तकः। नाकाशे पर्वते शून्ये न च चैत्यद्रुमे तथा। न तु द्वारेऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः। पालाशे शयने नैव बहुदारुकृते न च। न दग्धे विद्युता चैव वह्निप्लुष्टे जले तथा। न स्वपेत् सन्ध्ययोर्नित्यं न शिवस्यासने कटे। एवं स्वपन् नरो नित्यं सुखस्येह परत्र भाक्। व्यत्यये च भवेद्दुःखी मृतो नरकमश्नुते” वह्निपु०। सति सूर्य्ये शय्या न पातनीया सूर्य्योदयात् पूर्वमुत्तोलनीयेत्याह स्मृतिः “भास्करादृष्टशय्यानि नित्याग्निसलिलानि च। सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम्। आसनं वसनं शय्या जायापत्यं कमण्डलुः। आत्मनः शुचिरेतानि न परेषां कदाचन”। न कदाचन इत्यनुमतिं विना अन्यथाऽऽतिथ्यानुपपत्तेः रघु०। व्यासः “शुचौ देशे विविक्ते तु गोमयेनोपलिप्तके। प्रागुदक्प्रवणे चैव संविशेत्तु सदा बुधः। माङ्गल्यं पूर्णकुम्भञ्च शिरस्थाने निधापयेत्। वैदिकैर्गारुडैर्मन्त्रैरक्षां कृत्वा स्वपेत्ततः”। गर्गः “स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणाशिराः। प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः” मार्कण्डेयपु० “प्राक्शिरःशयने विद्यात् धनमायुश्च दक्षिणे। पश्चिमे प्रबलां चिन्तां हानिं मृथ्रं तथोत्तरे” तथा “नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि” मार्कण्डेयपु० “शृन्यागारे श्मशाने च एकवृक्षे चतुष्कये। महादेवगृहे चापि शर्करालोष्ट्रपांशुषु। धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि। न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम्।” नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः। नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा”। न स्वपेदित्यर्थः आ० त०। “भुक्त्वा च विधिवन्मन्त्रैर्द्विजो भुक्त्वाऽबशिष्टकम्। ससुहृद्बान्धवजनः स्वपेत् शुष्कपदो निशि। नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च। न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित्। न शीर्णायान्तु खद्वायां शून्यागारे न चैव हि। नापि वंश्ये च पालाशे शयने वा कदाचन” कौर्मपु० १८ अ० “कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही। गच्छेत् शय्यां सयन्त्राञ्च अथवा दारुनिर्मिताम्। शाल्मलस्य कदम्बस्य नीपमन्दारकस्य च। किंशुकस्य वटस्याथ तथा कुशमयस्य च। आरोहणात् भवेत् पापं तस्मात्तेषु न च स्वपत्। प्ररोह शय्यां सूत्रेवा अर्पणे परमेश्वरि!। न शुक्रे नापवित्रे च न तृणे न च भूतले। तूलिकायां तग्रा वस्त्रे शय्या- भावे स्वपेद् गृही। स्वपेन्न पट्टवस्त्रे च कलङ्की कम्बलेषु च” मत्स्यपु० ४४ प०। “श्वासानष्टौ ससुत्तानस्तान् द्वि१६ पार्श्वे च दक्षिणे। ततस्तद्द्विगुणान्३२ वामे पश्चात् स्वप्यात् यथासुखम्। वामदिशायामनलो नाभे रूर्द्ध्वोऽस्ति जन्तूनाम्। तस्मात्तु वामपार्श्वे शयीत भुक्त प्रपाकार्थम्” भावप्र०।
शयनीय = न० शी–आधारे अनीयर्। शय्यायाम् स्वार्थे क। तत्रैव।
शयनैकादशी = स्त्री ६ त०। आषाढशुक्लैकादश्याम्।
शयालु = त्रि० शी–आलुच्। निद्राशीले अमरः। २ अजगरे, ३ कुक्कुरे च पु० हारा०।
शयित = त्रि० शो–कर्त्तरि क्त। १ निद्रिते। भावे–क्त। नि द्रायां न०।
शयु = पु० शी–उ। १ अजगरे सर्पे अमरः। उनन्। शयुनोऽप्यत्र उणादिको०।
शय्या = स्त्री शी–आधारे क्यष्। १ खट्वायाम् अमरः। भावे क्यप्। २ शयने ३ गुम्फने मेदि०। “त्रिदोषशमनी खद्वा तूलौ वातकफापहा। भूशय्या वृंहणी वृष्या काष्ठपट्टी तु वातला”। “भूशय्या वातलातीव रूक्षा पित्तास्वनाशिनी। सुशय्याशयनं हृद्यं पुष्टिनिद्राधृतिप्रदम्। श्रमानिलहरं वृष्यं विपरीत मतोऽन्यथा” भावप्र०। तद्वमनविधानं यथा “कृतपादावशौचश्च भुक्त्वा सायं ततो गृही। गच्छेत् शय्यामस्फुटितामेव दारुमयीं नृप!। नाविशालां न वै भग्नां नासमां मलिनां न च। न च जन्तुमयीं शय्यामधिगच्छेदनास्तृताम्”। विष्णुपु० ३ अशे ११ अ०।
शर = न० शॄ–अच्। १ जले २ वाणे ३ दधिदुग्धाग्रसारे पु० मेदि० ४ इषुसाधने तृणभेदे पु०। “भद्रमुञ्जः शरो वाणस्तेजनश्चक्षुवेष्टनः। मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः। नुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा। दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित्। दोषत्रयहरं वृष्यं मेखलासूपयुज्यते” भावप्र०। भावे अप्। ५ हिंसायाम्।
शरकाण्ड = पु० ६ त०। १ शरस्तम्बे २ तन्निमित्तकवाणे च।
शरज = न० शरात् दधिदुग्धपारात् जायते जन–ड। १ हैयङ्गवीने हेमच० शरवणे जाते २ कार्त्तिकेये पु०। अग्नि कुमारशब्दे ५४ पृ० दृश्यम्।
शरजन्मन् = पु० शरवणे जन्म यस्य। कार्त्तिकेये अमरः।
शरट = पु० शॄ–अटन्। १ कृकलासे अमरः २ कुसुम्भशाके च भरतः
शरण = न० शॄ–ल्युट्। १ गृहे २ रक्षके अमरः। ३ रक्षणे ४ बधे मेदि०। ५ घातके शब्दच०। ६ प्रसारण्यां स्त्री शब्दर० टाप्।
शरणागत = त्रि० शरणमागतः आ + गम–क्त। शरणापन्ने।
शरणापन्न = त्रि० शरणमापन्नः आ + पद क्त। शरणमागते।
शरणार्थिन् = त्रि० शरणमर्थयते अर्थ–णिनि। शरणकामे।
श(स)रणि(णी) = स्त्री शॄ(सृ)–अनि वा ङीप्। १ पथि, पङ्क्टौ मेदि० २ प्रसारर्ण्यां शब्दर०। ३ जयन्त्याञ्च स्त्री शब्दर०। ४ पृथ्व्याम् अजयः।
शरण्ड = पु० जॄ–अण्डच्। १ खगे कामुके शब्दरत्ना०। २ धूर्त्ते ३ धरदे ४ भूषणभेदे मेदि०। ५ चतुष्पदि संक्षिप्तसा०।
शरण्य = त्रि० शरणाय साधुः यत्। १ शरणागतत्राणकरणषोम्ये २ दुर्गायां स्त्री। “विषाम्निभयघोरेषु शरणं स्मरणाद् यतः। शरण्या तेन सा देवी पुराणे परिपठ्यते” देवीपु०।
शरण्यु = पु० शॄ–अन्थु। १ मेघे २ वाते च विश्वः।
शरत्कामिन् = पु० शरदि कामयते कम–णिनि। कुक्कुरे शब्दर०
शरत्पद्म = न० शरदिव शुभ्रं पद्मम्। श्वेतपद्मे राजनि०।
शरत्पर्वम् = न० ७ त०। कोजागरपूर्णिमानिमित्तोत्सवे जटा०।
शरद् = स्त्री घृ–अदि। १ वत्सरे, २ आश्विरकार्त्तिकमासात्मके णृतौ च अमरः। तद्वारिगुणा भावप्र० उक्ता यथा “वर्षसु नाभसं वारि सेवेतौद्भिदमेव वा। सर्वं शरदि हेमन्ते तडागं सारसन्तु वा”। शारदं चानभिष्यन्दि लघु तत् परिकीर्त्तितम्। हैमन्तिकजलं स्निग्धं बल्यं वृष्यं हितं धृस” राजव०। तत्रोत्तरवायुसेवनं हितं यथा “वसन्ते दक्षिणो वातो भवेत् वर्षासु पश्चिमः। उत्तरः शारदे काले पूर्षो हेमन्तशैशिरे” राजनि०। ऋतुशब्दे हृ० दृश्यम्। “शरदृतुश्च वैद्यकमते भाद्राश्विनमासात्भयः। तत्र वर्णनीयानि चन्द्रपटुता जलशुष्कता अगस्त्यः हंसः वृषः” कविकल्प०।
शरधि = पु० शरा धीयन्तेऽत्र धा–आधारे कि। तूणे हेमच०
शरपुङ्खा = स्त्री शरस्येव पुङ्खो यस्याः। नीलीधृक्षाकृतौ काण्डपुङ्खावृक्षे “शरपुङ्खा यकृत्प्लीहगुल्मव्रणविषापहा। तिक्ता कषाया कासास्नज्वरश्वासहरी लघुः” भावप्र०।
शरभ = पु० शृ–अभच्। “अष्टपादूर्द्धनयन ऊर्द्ध्वपादचतुष्टयः” इत्युक्तलक्षणे १ मृगभेदे अमरः। २ करभे, ३ वानरभेदे अमरः। ३ उष्ट्रे च जटा०। ४ शिशुपालपुत्रभेदे भा० आश्व० ८३ अ०। ५ दानबभेदे मा० आ० ६५ अ०। “अष्टपादूर्द्धनयनः शरभो वनगोचरः। तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम्। तं मुनिः शरभ- ञ्चक्रे वलोत्कटमरिन्दमम्। ततः स शरभो वन्यो मुनेः शरभमग्रतः। दृष्ट्वा बलिनमत्युग्रं द्रुतं सम्प्राद्रवद्वनात्। स एवं शरभस्थाने संन्यस्तो मुनिना तदा। मुनेः पार्श्वगतो नित्यं शरभः सुखमाप्तवान्। ततः शरभसन्त्रस्ताः सर्वे मृगगणास्तदा। दिशः सम्प्राद्रवन् राजन्! भयाज्जीवितकाङ्क्षिणः। शरभोऽप्यतिसंहृष्टो नित्यं प्राणिवधे रतः। फलमूलाशनं कर्त्तुं नैच्छत् स पिशिताशनः। ततो रुधिरतर्षेण वलिना शरभोऽन्वितः। इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः। ततस्तेन तपःशक्त्या विदिती ज्ञानचक्षुषा। विज्ञाय स महाप्राज्ञो मुनिःश्वानं तमुक्तवान्। श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः। व्याघ्रान्नागो मदपदुर्नागः सिंहत्वमागतः। सिंहस्त्वं वलमापन्नो भूयः शरभतां गतः। मया स्नेहपरीतेन विसृष्टो नकुलान्वयः। यस्मादेवमपापं मां पाप! हिंसितुमिच्छसि। तस्मात् श्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि। ततो मुनिजनद्वेष्टा दुष्टात्मा प्राकृतोऽबुधः। ऋषिणा शरमः शप्तस्तद्रूपं पुनराप्तवान्” भा० शा० ११७ अ०।
शरभू = षु० शरे शरवणे भवति भू–क्विप्। कार्त्तिकेये हेमच०
शरमय = त्रि० शरस्य विकारः मयट्। शरजाते प्रदार्थे।
श(स)रयु(यू) = स्त्री शॄ–(सृ)–अयु वा ऊङ्। अयोध्यानगरीनिम्नवाहिन्यां नद्याम्। तस्यां भवः अण् नि०। सा (शा) रव तत्र भवे त्रि० अमरः।
श(स)रल = त्रि० शॄ(सृ)–अलच्। १ सुगमे, २ अकुटिलचित्ते (सरल) ३ वृक्षभेदे च।
शरवणोद्भव = पु० शरवणम् उद्भवः उत्पत्तिस्थानमस्य। कात्तिकेये।
शरव्य = न० शरवे वाणशिक्षायै हितं शरु + यत्। लक्ष्ये, शरेण वेधनायोद्देश्ये अमरः।
शराटि(डिं)(लि) = स्त्री शरमनलक्ष्य अटति अट–इन् पृषोटस्य डो लो वा। (शराल) पक्षिभेदे अमरः।
शराभ्यास = पु० ६ त०। वाणमोचनशिक्षायान् अमरः।
शरारु = त्रि० शॄ–आरु। हिंस्रे अमरः।
शरारोप = पु० शराः आरोप्यन्तेऽत्र आ + रुह–णिच्। अण् धनुषि जष्टा०
शराव = पु० शरं दध्यादिसारमवति अव–अण्। १ मृण्मये पात्रभेदे, (शरा) अमरः। २ कुडवद्वयपरिमाणे च वैद्यकम्।
शरावती = स्त्री शराः अन्त्यस्याम् मतुप् यस्य वः पूर्वदीर्घश्च। नदीभेदे अमरः।
शराश्रय = पु० ६ त०। तूणे हेमच०।
शरासन = पु० शराः अस्यन्तेऽनेन अस–ल्युट्। १ धनुषि अमरः। शराणामासनम्। २ तूणे च।
शरिमन् = पु० शॄ–उणा० इमनिच्। प्रसवे सि० कौ०
शरी = स्त्री शीर्य्यते शृ–ई। एरकातृणे भावप्र०।
शरीर = न० शॄ–ईरन्। प्रतिक्षणं क्षीयमाणे १ देहे। तस्य अङ्गप्रत्यङ्गभेदा भावप्र० उक्ता यथा “गर्भाशयगबं शुक्रमार्त्तवं जीवसंज्ञकः। प्रकृतिः सविकारा च तत् सर्वं गर्भसंज्ञकम्। कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः। भवेत्तदा स मुनिभिः शरीरीति निगद्यते”। अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः। “तस्य त्वङ्गान्यु पाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः। मस्तकादभि धीयन्वे शिष्याः! शृणुत यत्नतः। आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः। तस्यान्तर्मस्तुलुङ्गं च ललाटं भ्रूयुगन्तथा। नेत्रद्वयं तयोरन्तर्वर्त्तेते द्वे कनीनिके। दृष्टिद्बयं कृष्णगोलौ श्वैतभागौ च वर्त्मनो। पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छष्कुलीद्वयम्। पालिद्वयं कषोलो च नासिका च प्रकीर्त्तिता। ओष्ठाधरौ च सृकिण्यौ मुखं तालु हनुद्वयम्। दन्ताश्च दन्तवेष्टाश्च रसना चिवुकङ्गलः। द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा बिधार्यते। तृतीयं बाहुयुगलं तदुपाङ्गान्यथ ब्रुवे। तत्रोपरिगतौ स्कन्घौ प्रगण्डौ भवतस्त्वधः। कफोनियुम्भं तदधः प्रकोष्ठयुगलन्तथा। मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश। नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः। चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ ब्रुवे। स्तनौ पुंसस्तथा मार्य्या विशेष उभयोरयम्। यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ। गर्भवत्थाः प्रसूतायास्तविव क्षीरपूरितौ। हृदयं पुण्डरोकेण सदृशं स्यादधोमुखम्। जाग्रतस्तद्विकसति स्वपतस्तु निमीलति। आशयस्तत्तु जीवस्य चेतनास्थामगुत्तमम्। अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि”। चेतनास्थानमुत्तममित्यस्याभिप्रायः “केशलोमनखाग्रं च मलं, द्रव्यगुणैर्विना” इत्युक्तवता चरकेण प्तकलं शरोरं चेतनास्थानमुक्तम् तदपेक्षया हृदयं विशेषतश्चेतनास्थानमिति “कक्षयोर्वक्षसः सन्धी जत्रुणी समुदाहृते कक्षे उभे समाख्याते तयोः स्यातां च वङ्क्षणौ। उदरं पञ्चमञ्चाङ्गं षष्ठं पार्श्वद्वयं मतम्। सपृष्ठवंशं तु तथा समस्तं सप्तमं स्मृतम्। उपाङ्गानि च कथ्यन्ते तानि जानोहि यत्नतः। शोणिताज्जायते प्लीहा बामतो हृदयादधः। रक्तवाहिसिराणां स मूलं ख्यातो मह र्षिभिः। हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेनजः। अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तुरञ्जजपित्तस्य स्थानं शोणितजं मतम्। अधस्तु दक्षिणेभागे हृदयात् क्लोम तिष्ठति। जलवाहिसिरामूलं तृष्णाच्छादनकृन्मतम्”। क्लोम तिलकम् एतत्तु वातरक्तजम्। अत्र वृद्ववाग्भटः “रक्तादनिलसंसक्तात्कालीयकसमुद्भव” इति “मेदःशोणितयोः साराद्बुक्वयोर्युगलं भवेत्। तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः। उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः। अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्दिशेत्। उन्दुकश्च कटी चाषि त्रिकं वस्तिश्च वङ्क्षणौ। कण्डराणां प्ररोहः स्थात् स्थानं तद् वीर्य्यमूत्रयोः। स एव गर्भस्याधानं कुर्य्याद्वर्भाशये स्त्रियाः। शङ्खनाभ्याकृतिर्य्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता। तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता। वृषणौ भवतः सारात्कफासृग्भ्यां च मेदसाम्। वीर्य्यवाहिसिराधारौ तौ मतौ पौरुषावहौ। गुदस्य मानं सर्वस्य सार्द्धं स्याच्चतुरङ्गुलम्। तत्र स्युर्वस्तवस्तिस्रः शङ्खाबर्त्तनिभास्तु ताः। प्रवाहिणी भवेत् पूर्वा सार्द्धाङ्गुलमिता मता। उत्सर्जनी तु तदघः सा सार्द्धाङ्गुलसम्मिता। तस्याघः सञ्चरणी स्यादेकाङ्गुलसमा मता। अर्द्धाङ्गुलप्रमाण तु बुधैर्गुदमुखं मतम्। मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः। पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ च योषितः। तयोःककुन्दरे स्नातां सक्थिनी त्वङ्गमष्टमम्। तदुपाङ्गानि च ब्रूमो जानुनो पिण्डिकाद्वयम्। जङ्घे द्वे घुण्डिके पार्ष्णीतले च प्रपदे तथा। षादावङ्गुलथस्तत्र दश तासां नस्वा दश”।
शरीरक = पु० शरीरं कायति आत्मत्वेनाभिमन्यते कै–क। जीवे। स्वार्थे वुञ्। शारीरकोऽप्यत्र।
शरीरज = पु० शरीरात् जायते जन–ड। १ रोगे २ कामदेवे ३ पुत्रे च धरणिः। ४ देहजातमात्रे त्रि०।
शरीरावरण = न० शरीरमावृणोति आ + वृ–युच्। देहव्यापिनि १ चर्मणि राजनि०। २ देहावरके त्रि०। ल्युट्। ३ देहाच्छादने न०।
शरीरिन् = पु० शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इनि। जीवे जटा०।
शरु = पु० शॄ–उन्। १ क्रोधे २ वज्रे मेदि०। ३ वाणे हेमच०। ४ आयुधे च संक्षिप्तसा०।
शरेष्ट = पु० शॄणाति कामिनं शॄ–अच् शरः कामः तस्य इष्ट इष–क्त। आम्रे जटा०।
शर्करक = पु० शर्करायाः रसः अण् वृद्ध्यभावः शर्करः रस इव कायति मधुरत्वात् कै–क। मधुरजम्बीरे राजनि०।
शर्करजा = स्त्री शर्करात् जायते जन–ड। सिताखण्डे राजनि०
शर्करा = स्त्री शॄ–करन् कस्य नेत्त्वम्। १ खण्डविकारे (चिनि) अमरः। २ उपलखण्डे ३ कर्परखण्डे च (खापरा) मेदि०। शर्कराः सन्तस्य मतुप् तस्य लुक्। ४ बहुशर्करायुते देशे अमरः। ५ रोगभेदे अश्मरीशब्दे ४९५ पृ० दृश्यम्। ६ शकले च मेदि०। शर्कराभेद गुणा राजनि० उक्ता यथा “स्निग्धा पण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके चक्षुष्या बलवर्द्धनी सुमधुरा रूक्षा च वंशेक्षुजा। वृष्या तृप्तिबलप्रदा श्रमहरा श्यामेक्षुजा शीतला स्निग्धा कान्ति करीरसालजनिता रक्तेक्षुजा पित्तजित्” “यावनाली हिमोत्पन्ना हिमाली हिमशर्करा। क्षुद्रशर्करिका क्षुद्रा गुडजा जलबिन्दुजा। हिमजा शर्करा गौल्या सोक्ता० तिक्ताऽतिपिच्छला। वातघ्नी सारिका रुच्या दाहपित्तास्रदायिनी। “शीतजान्याकर्करजा माध्वी च मधुशर्करा। माक्षिका० शर्करा प्रोक्ता सिताखण्डश्च खण्डकः। सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः। कुष्ठव्रणकफश्वासहिक्कापित्तास्नदोषनुत्। यवासशर्करा त्वन्या सुधामोदकमोदकः। तवराजः खण्डसारः खण्डजा खण्डमोदकः”। “मत्स्यण्डीकाः खण्डसिता गुणश्रेष्ठा यथोत्तरम्। विमलाः शीतलाः स्निग्धाः गुर्व्यः स्वादुतराः सराः। वृष्यास्तृषाक्षत क्षोणरक्तपित्तानिलापहाः। मत्स्यण्डी ग्राहिणी बल्या कषाया वातजित् गुरुः। खण्डं गुरु सरं रुच्यं वातघ्नं वलपुष्टिदम्। सितोपला सरा गुर्वी वातघ्नी न कफप्रदा”। पय्यापथ्यविवेकः “शर्करा ज्वरपित्तासृङ्मूर्च्छा च्छर्दितृषापहा। तृष्णाघ्नस्ववराजस्तु ज्वरदाहास्रपित्तनुत्। लसिका फाणितगुडखण्डमत्स्यण्डिकासिताः। निर्मला लषवो ज्ञेयाः शीतवीर्य्या यथोत्तरम्। यथा यथैषां वेमल्यं भवेच्छैत्यं तथा तथा” राजवल्लभः। “खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता। सिता सुमधुरा रुच्या वातपित्तास्रदाहजित्। मूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी। भवेन्मधुसिता शीता रक्तपित्तहरो गुरुः। छर्द्यतीसारतृडदाहरक्तकृत्तुवरा हिमा। यथा यथैषां नैर्मल्यं मधुरत्वं यथा तथा। स्नेहलाघव शेत्यानि रसत्वञ्च तथः तथा” भावप्र० गुणग्रन्थे।
शर्कराचल = पु० दानार्थं कल्पिते शर्कराकृते पर्वते। तद्विधिः हेमा० दा० पद्मपुराणे उक्तो यथा “अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम्। यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा। अष्टभिः शर्करामारै रुत्तमः स्यान्महाचलः। चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधरः स्मृतः। भारेण बार्द्धभारेण कुर्य्याद् यः स्वल्पवित्तवान्। विष्कम्भपर्वतान् कुर्य्यात् तुरीयांशेन मानवः। धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम्। मेरोरुपरि तद्वच्च स्थाप्य हेमतरुत्रयम्। मन्दारः पारिजातश्च तृतीयः कल्पपादपः। एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत्। हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः। निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले। मन्दारे कामदेवश्च प्रत्यग्वक्त्रः सदा भवेत्। गन्धमादनशृङ्गे च धनदः स्यादुदङ्मुखः। प्राङ्मुखो वेदमूर्त्तिश्च हंसः स्याद्विपुलाचले। हैमी सुपार्श्वे सुरभी दक्षिणाभिमुखी भवेत्। धान्यपर्वतवत् सर्वमावाहनमखादिकम्”।
शर्कराधेनु = स्त्री दानार्थं कल्पिते शर्कराकृते धेन्वाकारे स्तूपभेदे हेमा० दा० स्कन्दपुराणोक्तस्तद्विधिर्यथा “तद्वच्च शर्कराधेनुं राजन्! कुर्य्यात् यथार्थतः। अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे। धेनुः शर्करया राजन्! सदा भारचतुष्टयम्। उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकः। तदर्द्धं मध्यमा प्रोक्ता चतुर्थांशेन कन्यसा। तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन मानवः। अथ वा धेनुतः कुर्य्यादष्टांशेन तु वत्सकम्। स्वशक्त्या कारयेद्धेनुं यथात्मानं न पीडयेत्। सर्ववीजानि संस्थाप्य चतुर्दिक्षु समन्ततः। सौवर्णमुखशृङ्गाणि मौक्तिकैर्नयनानि च। गुडेन च मुखं कार्य्यं जिह्वा पिष्टमयी तथा। कम्बलं पट्टसूत्रेण घण्टाभरणभूषिता। इक्षुपादा रौप्यखुरा नवनीतमयस्तना। प्रशस्तपत्रश्रवणा सितचामरभूषिता। पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता। कांस्योपदोहना सम्यक् गन्धपुष्पेः समन्विता। ईदृक् विधानसंयुक्तां वस्त्रैराच्छादितां तथा। गन्धपुष्पैरलंकृत्य ब्राह्मणाय निवेदयेत्”।
शर्करार्बुद = पु० रोगभेदे तल्लक्षणं भावप्र० उक्तं यथा “प्राप्य मांसं सिराः स्नायुं मेदः श्लेष्मा तथानिलः। ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिवसानिभम्। स्रवत्यास्रावमत्यर्थं तत्र वृर्द्धि गतोऽनिकः। मांसं विशोप्य ग्रथितां शर्करां जनयत्यतः। दुर्गन्धक्लिंन्नमत्यर्थं नानावर्णं ततः सिराः। स्ववन्ति सहसा रक्तं तं विन्द्याच्छर्करार्बुदम्”। शर्करा बालुकातुल्या” भावप्र०।
शर्करावत् = त्रि० शर्कराः सन्त्यस्मिन् मतुप् मस्य वः। बहुशर्करायुक्तदेशे।
शर्करासप्तमी = स्त्री वैशाखशुक्लपक्षसप्तम्याम्। तद्विधानं मत्स्यपु० ७२ अ० उक्तं यथा “शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनोम्। आयुरारोग्यमैश्वर्त्यं यथानन्तं प्रजायते। माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः। प्रातःस्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः। स्यण्डिले पद्मभालिख्य कुङ्कुमेन सकर्णिकम्। तस्मै नमः सवित्रे तु गन्धपुष्पं निवेदयेत्” इत्यादि।
शर्करोदक = न० शर्करामिश्रितमुदकम्। (चिनिर पाना) शर्करामिश्रिते जले तत्करणप्रकारगुणादिकं भावप्र० उक्तं यथा “जलेन शीतलेनैव घोलिता शुभ्रशर्करा। एलालवङ्गकर्पूरमरिचैश्च समन्विता। शर्करोककनाम्नैतत् प्रसिद्धं विदुषां मतम्। शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम्। बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम्। मूर्च्छाच्छर्दितृषादाह ज्वरशान्तिकरंपरम्” भावप्र०
शर्करिक = त्रि० शर्कराः सन्त्यस्य ठक्। बहुशर्करायुक्तदेशे इलच्। शर्करिल–तत्रैव उभयत्रामरः।
शर्द्ध = पु० शृध–थञ्। अपानवायूत्सर्गे। ल्युट्। तत्रैव न०।
शर्द्धञ्जह = पु० शर्द्धमपानवायूत्सर्गं जहाति हा–खश् मुम्च। माषे। तद्भोजने हि अपानवायुर्निःसरतीति तस्य तथात्वम्।
शर्ब = हिंसायां गतौ च भ्वा० पर० सक० सेट्। शर्बति अशर्बीत्।
शर्मद = त्रि० शर्म ददाति दा–क। १ सुखदायके २ विष्णौ पु० विष्णुसं०।
शर्मन् = शॄ–मनिन्। १ सुखे २ तद्वति त्रि० ३ ब्राह्मणोपाधौ पु०। “शर्मा देवश्च विप्रस्य वर्मा त्राता च भूभजः। भृतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्” यमः। “शर्मान्तं ब्राह्मणस्य स्थात् वर्मान्तं क्षत्त्रियस्य तु। धनान्तञ्चैव वैश्यस्य दासान्तं चान्त्यजन्मनः” शातातपः।
शर्मरा = स्त्री शर्म–राति रा–क। १ दारुहरिद्रायां २ वस्त्रभेदे पु० धरणिः ३ सुखदायके त्रि०।
शर्य्या = स्त्री शॄ–यत्। रात्रौ वाचस्पतिः।
शर्य्याति = पु० वैवस्वतमनोः पुत्रभेदे।
शर्व = हिसे भवा० पर० सक० सेट्। शर्वति अशर्वीत्।
शर्व = पु० शर्व–अच्। १ महादेवे हेमच०। २ विष्णौ विष्णुस०।
शर्वर = पु० शर्व–अरन्। १ कामदेवे २ तमसि न० उणादि०। ३ सन्ध्यायाञ्च संक्षिप्तसा० ४ स्त्रियां मेदि०।
शर्वरी = स्त्री शॄ–वनिप् ङीप् वनो र च। १ रात्रौ अमरः। शर्वरीशश्चन्द्रः। २ हरिद्रायां विश्वः।
शर्वला = स्त्री शर्व–घञ् शर्वं लाति ला–क। तोमरास्त्रे हेमच०।
शर्वाणी = स्त्री शर्वस्य पत्नी ङीष् आनुक् च। गवान्यां हेमच०
शल = चालने भ्वा० आत्म० सक० सेट्। शलते अशलिष्ट। अशलिढ्व(ध्व)म् शेले
शल = गतौ भ्वा० पर० सक० सेट्। शलति अशालीत्। ज्वलादि० शलः शालः।
शल = श्लाघायां चु० आत्म० सक० सेट्। शालयते अशीशलत।
शल = वेगे भ्वा० पर० सक० सेट्। शलति अशालीत्।
शल = न० शल–अच्। १ शल्लकीलोम्नि (सजारुका~टा) अमरः २ शृङ्गिणि ३ क्षेत्रभेदे ४ ब्रह्मणि च पु० मेदि० ५ कुन्तास्त्रे त्रिका० ६ उष्ट्रे पुंस्त्री० हेमच० स्त्रियां ङीष्।
शलक = पु० शल–वुन्। (माकड्सा) कोटभेदे त्रिका०।
शलङ = पु० शल–अङ्गच्। १ लोकपाले २ लवणभेदे उणादि०।
शलभ = पु० शल–अभच्। कीटभेदे षतङ्गे अमरः।
शलल = न० स्त्री शल–कलच्। शल्लकीलोम्नि (सजारुका~टा) अमरः। स्त्रोत्वे गौरा० ङीष्।
शलाका = स्त्री शल–आकन्। १ शल्ये २ मदनवृक्षे (मयना) ३ शारिकायां ४ शल्लक्यां ५ शरे मेदि० ६ आलेख्यतूलिकायां हेमच०। ७ अस्थ्नि च शब्दच०। सुश्रुतोक्ते शृकाद्युद्वारणार्थे यन्त्रभेदे शस्त्रशब्दे दृश्यम्।
शलाकापरि = अव्य० अव्ययी०। शलाकासाघनक्रीडायां पराजये
शलाकापुरुष = पु० हेमचन्दोक्ते वौद्धानां त्रिषष्टिदेवपुरुषभेदे
शलाटु = त्रि० शल–आटु। १ अपक्वफले अमरः। २ मूलभेदे उणादि० ३ बिल्वे च पु० राजनि०।
शलालु = पु० शल–आलुच्। सुगन्धिद्रव्यभेदे सि० कौ०।
शलालुक = त्रि० शलालुना क्रीतं ष्ठन्। शलालुद्रव्येण क्रीते पदार्थे स्त्रियां ङीष्।
शल्क = न० शल–क कस्य नेत्त्वम्। १ खण्डे २ वृक्षयल्कले अमरः। ३मत्स्यत्वचि च (आ~स) कोषान्तरम्।
शल्कल = न० शल–कलन् कस्य नेत्त्वम्। १ मत्स्यवल्कले २ वृक्षत्वचि च सि० कौ०
शल्कलिन् = पु० शल्कलमस्त्यस्य इनि। मत्स्यं शब्दर०
शल्किन् = पु० शल्कमस्त्यस्य इनि। मत्स्ये हेमच०।
शल्पदा = स्त्री शल–अच् तादृशं पदं मूलं यस्याः। मेदायामोषधौ राजनि०।
शल्भ = प्रर्शसायां भ्वा० आ० सक० सेट्। शल्भते असल्भिष्ट।
श(शा)ल्मलि = पु० शल–मलच् स्वार्थे इन् इञ् वा। शाल्मलिवृक्षे (शिमुल) द्विरूपकीषः स्त्रीत्वमपि तत्र ना ङीप् तत्रार्थे।
शल्य = न० शल–यत्। १ वाणे २ तोमरे ३ क्ष्वेडे मेदि० ४ वंशकविकायां विश्वः। ५ दुःसहे ६ दुर्वाक्ये शब्दर० ७ पापे त्रिका० “शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोष्ट्रबालनखपूयास्रावान्तर्गर्भशल्योद्धारणार्थं यन्त्रशस्त्राक्षाराग्निप्रणिधानं व्रणविनिश्चयार्थञ्च” सुश्रुतोक्ते ८ चिकित्साङ्गे यन्त्रभेदे ९ अस्थ्नि ज्यो० त०। वास्तुभूमिस्थ शल्यज्ञानं प्रश्नाक्षरेण यथा भवति तथोक्तं ज्यो० व० “सुनिश्चितां मन्दिरभूमिमादौ निखाय तोयावधि यत्नतस्ताम्। कुर्य्याद्विशल्यामथ वा नृमानं खात्वाथ वा प्रश्नवशाद्विधिज्ञः। दूर्वाप्रवालाक्षतपुष्पपाणिः शुचिः शुचिं दैवविदं समेत्य। पृच्छेद्विनीतो मधुरस्वरेण शल्यस्य तत्त्वं भवने तदीशः। ततः प्रश्नादिमो वर्णः सन्धार्य्यो यत्नतोऽथ वा। क्रमात् पुष्पापगादेवफलामां ब्राह्मणादिवः। प्रणवो धरणी धारिणी करौ तदनन्तरम्। न भूत्यै नम इत्येष मन्त्रो वह्निप्रियात्मकः” वह्निप्रिया स्वाहा “मन्त्रेणानेन कठिनीमभिमन्त्र्य विभाजयेत्। नवधा सदनक्षेत्रं तया पश्चाद्विलेखयेत्। वकचत एहाः शपया नव चेत् प्रश्नाक्षराणि जायन्ते। प्रागादिकोष्ठनवके वर्णास्ते शल्यमाख्यान्ति। प्रश्ने वकारः पुरतो नरास्थि ब्रवीति शल्यं मरकप्रदायि। क्षौणीशदण्डोरगहेतुमृत्युप्रदं ककारः खरशल्यमग्नौ। याम्यं चकारः प्लवगास्थिवेश्म प्रभोर्विनाशं प्रकरोति शल्यम्। रक्षोदिशि श्वास्थि गृहस्थितानां महद्भयं बक्ति सुनिश्चितं तः। एः पाशिदिश्यस्थि शिशोर्ब्रवीति मृत्युं प्रवासाद् मृहमेव शल्यम्। होवायुकोणे नररूपमस्थि दारिद्र्यमित्रक्षयकृद्विधत्ते। धनपदिशि शकारः प्राह विप्रास्थि वित्तक्षयकृदथ पकारो वक्ति ऋक्षास्थि शम्भौ। तदिह कुलविगाशं गोधनानाञ्च हानिं वितरति गृहनाथस्यापि गुप्तस्य देवैः। यो मध्यभागे भसितं कपालं कालायसं चाह कुलक्षयाय। यत्नादपास्यान्यधुना प्रमाणं सर्वत्र तथ्यं कथयामि शल्ये। चन्द्ररक्षोजलेशाने शल्यं सार्द्धकरे कटौ। वह्न्यन्तककुबेरेषु पुरुषे मध्यवातयोः”। देवीपु० “पुरुषाधःस्थितं शल्य न गृहे दोषदं भवेत्। प्रासादे दोषदं शल्यं भवेत् यावज्जलान्तकम्। गृहांरम्भेऽतिकण्डूतिः स्याम्यङ्गे यदि जायते। शल्यं त्वपनयेत्तत्र प्रासादे भवनेऽपि बा”। १० मदनवृक्षे ११ श्वाविधि च पु० अमरः १२ नकुलमातुल मद्राधिपे नृपभेदे पु०१३ सीम्नि १४ शलाकायां पु० हेमच० १५ बिल्ववृक्षे पु० १६ मत्स्यभेदे राजनि०। १७ शस्त्रभेदे पु० त्रिका०।
शल्यक = पु० शल्य इव कायति कै–क। १ मदनवृक्षे (मयना) शब्दच०। २ शल्लकीखगे च पुंस्त्री० स्त्रियां ङीष् राजनि०।
शल्यलोमन् = न० शल्यमिव लोम। शल्लकीलोम्नि राजनि०।
शल्यारि = पु० ६ त०। शल्यनृपहन्तरि युधिष्ठिरे तद्धननकथा भा० शल्य० दृश्या।
शल्ल = गतौ भ्वा० पर० सक० सेट्। शल्लति अशल्लीत्।
शल्ल = न० शल्ल–अच्। १ त्वचि २ भेकै पु० शब्दच०। स्वार्थे क त्वचि न०। ३ शोणवृक्षे पु० जटा०। (सजारु) ४ पक्षिभेः स्त्री गौरा० ङीष्। सा च ५ गजभक्ष्यावृक्षे अमरः।
शल्लकीद्रव = पु० शल्लक्याद्रव इव स्वादुत्वात्। सिह्लके जटा०
शल्व = पु० शल–व। शाल्वदेशे उणा०।
शव = विकारे गतौ च भ्वा० पर० सक० सेट्। शवति० अशावीत् अशवीत्।
शव = पु० न० शव–अच्। मृतदेहे गतप्राणे १ देहे अमरः। २ जले पु० मेदि०।
शवकाम्य = म० शवः काम्यो यस्य। कुक्कुरे शब्दर०।
शवयान = न० शववाहनं यानम् शाक०। मृतदेहवाहनार्थे तल्पे हारा०।
शवर = न० शव–अरन्। १ म्लेच्छजातिभेदे अमरः। २ पानीये २ शिवे च पु० मेदि० ३ तत्पत्न्यां स्त्रो ङीष्। ४ शास्त्रभेदे ५ हस्ते पु० उणादिको० मीमांसाभास्यकारके ६ विद्वद्भेदे।
शवरथ = पु० शववाहनार्थं रथः शाक०। शववाहनार्थे याने शब्दर०।
शवरलोध्र = पु० शवरप्रियः लोध्रः। श्येतलोध्रे रत्नमा०।
शवरालय = पु० ६ त०। शवरावासस्थामे अमरः।
शवल = पु० शव–कलन्। १ कर्वूरवर्णे २ तद्वति त्रि० अमरः। ३ तद्वर्णवत्यां धेनौ स्त्री अमरः।
शवसान = पु० शव–आनच् सुक्च्। पथिके सि० कौ०।
शश = प्लुतगतौ भ्वा० पर० सक० सेट्। शशस्ति। अशाशीत् अशशीत्
शश = पुं स्त्री० शश–अच्। पशुभेदे (खरगोश) अमरः। स्वार्थे क। तत्रैव। “शशः शीतो लघुर्ग्राही रूक्षः स्वादुः सदा हितः वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः। ज्वर तिसारशोषाम्रश्वासामयहरश्चसः” भावप्र०। श्राद्धे तन्मांस दाने फलभेदः श्रा० त० उक्तो यथा “ऐणरौरव वाराहशाशैर्मांसैर्यथाक्रमम्। मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः” तन्मासं विष्णवे देयं यथोक्तं “मार्गं मांसं तथा छागं शाशं समनुषज्यते। एतानि मे प्रियाणि स्युः प्रपद्यानि वसुन्धरे!”। वराहपु० २ चन्द्राङ्करूपेमृगे धरणिः। ३ बोले ४ लोध्रे ५ नरभेदे मेदि०। तल्लक्षणं यथा “मृदुवचनसुशीसः कोमलाङ्गः सुकेशः सकलगुणनिधानं सत्यवादी शशोऽयम्” रतिम०।
शशक = पुंस्त्री० शश–स्वार्थे क। (स्वरगोश) पञ्चनस्येषु भक्ष्ये पशुभेदे “शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः। भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनुः।
शशधर = पु० शशं मृगभेदं धरति धृ–अच्। १ चन्द्रे २ कर्पूरे च अमरः। भृ–क्विप् शशभृदादयोऽप्यत्र।
शशलाञ्छन = पु० शशः मृगभेदो लाञ्छनं वस्य। १ चन्द्रे २ कपूरे च शशाङ्कादयोऽप्यत्र।
शशबिन्दु = पु० १ राजभेदे २ विष्णौ च मेदि०।
शशशिम्बिका = स्त्री शश इव शिम्बी तया कायति कै–क। जीवन्त्यां राजनि०।
शशस्थली = स्त्री शशवासयोम्या स्यली। अन्तर्वेद्यां गङ्गायमुनयोर्मध्यस्ये देशभेदे त्रिका०।
शशाण्डुलि = स्त्री अडि–उलि ६ त० वा ङीप्। कर्कटीभेदे रा० जनि०। “शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता मधुरा कफापहा। पाके तु साऽम्ना मधुरा विदाहकृत् कफे तु शुष्का रुचिकृच्च दीपनी” राजनि०।
शशाद = पु० शशमत्ति अद- अण्। श्येनविहगे राजनि०। ल्यु। तत्रैव।
शशिकला = स्त्री ६ त०। १ चन्द्रस्य षोडशभागे “गुरुनिघनमनुलघुरिह शशिकला” छन्दोभ० उक्तलक्षणे २ पञ्चदशाक्षरपादके छन्दोभेदे।
शशिकान्त = न० शशी कान्तो यस्य। १ कुमुदे २ चन्द्रकान्तमणौ पु० राजनि०।
शशिन् = पु० शशोऽस्त्यस्य इनि। १ चन्द्रे २ कर्पूरे च शब्दमा०।
शशिप्रभ = न० शशिना प्रभा स्येव वा प्रभा यस्य। १ कुसदे। २ मुक्तायां राजनि०। ६ त० ३ ज्योत्स्नायां जटा०।
शशिभूषण = पु० शशी भूषणं यस्य। १ महादेवे शशिमण्डनादयोऽप्यत्र।
शशिलेखा = स्त्री शशिनो रेखा रस्य लः। १ चन्द्रकलायां शशिनो लेखेव अमूतास्पदत्वात्। २ गुडूच्यां मेदि०। “म्रौ मो यौ चेत् भवेतां सप्ताष्टकैश्चन्द्रलेखा” छन्दोम० उक्तलक्षणे ३ पञ्चदशाक्षरपादके छन्दोभेदे।
शशिवाटिका = स्त्री शशिनो वाटाव इवार्थे कन्। पुनर्नवायां राजनि०।
शशिशेखर = पु० शशी शेखरं यस्य। महादेवे हला० शशिमर्द्धादयोऽप्यत्र।
शशोर्ण्ण = न० ६ त०। शशस्य लोम्नि अमरः।
शश्वत् = अव्य० शश–वति। १ नैरन्तर्य्ये २ पुनःपुनरित्यर्थे च अमरः।
शष = वधे भ्वा० पर० सक० सेट्। शषति अशाषीत् अशषीत्।
शष्कुल = पु० शष–कुलच् कस्य नेत्त्वम्। (डहरकरमचा) १ वृक्षे २ अपूपभेदे स्त्री शब्दच० गौरा० ङीष्। ३ कर्णरन्ध्रे “अवलम्बितकर्णशष्कुली” नैष०। ४ मत्स्यभेदे च भावप्र० दन्त्यमध्योऽप्ययमत्रार्थे।
शष्प = न० शष–पक्। १ बालतृणे घासे अमरः २ प्रतिभाक्षये पु० मेदि०।
शस = बधे भ्वा० पर० सक० सेट् उदित् क्त्वा बेट्। शसति। अशासीत् अशसीत्।
शस = आशिषि भ्वा० आत्म० सक० इदित् सेट्। प्रायेश्चाङ्पूर्वः। आशंसते आशंसिष्ट।
शस = स्वप्ते अदा० पर० अक० सेट् इदित्। शंस्ति अशंशत्।
शसन = न० शस–बधे ल्युट्। यज्ञार्थं पशुहनने।
शस्त = न० शन्स–क्त। १ कल्याणे २ तद्ववि अमरः। ३ लुते ४ प्रशस्ते च त्रि० मेदि०। ५ देहे न० त्रिका० संज्ञायां कन्। ६ अङ्गुलित्राणे शब्दच०!
शस्त्र = न० शस–ष्ट्रन्। १ लौहे २ खङ्गादौ अस्त्रै च हेमच० स्वार्थे क। तत्रैव। तत्र मुक्तमस्त्रममुक्तं शस्त्रमिति भेदः शंस–तन्। ३ प्रगीते मन्त्रभेदे चिकित्साङ्गशस्त्राणां श्चक्षणादि सुश्रुतोक्तं यथा “अथातःशस्त्रावचारणीयमध्यायं व्याख्यास्यामः विंशतिः शस्त्राणि। तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीकुशपत्राटीमुखशरारीमुखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रक्वडिशदन्तशङ्क्केषण्य इति। तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च। वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधाराणि छेदने भेदने च। सूचीकुशपत्राटीमुखशरारीमुखान्तर्मुखत्रिकूचेकानि विस्नावणे। कुठारीकाव्रीहिमुखारावेतसपत्रकाणि घ्यधने सूची च। वडिशो दन्तशङ्कुश्चाहरणे। एषण्येषणे आनुलोभ्ये च। सूच्यः सेवने इत्यष्टविधे कर्मण्युपयोगः शस्त्रार्णा व्याख्यातः। तेषामथ यथायोगग्रहणसमासोपायः कर्मसु वक्ष्यते। तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्भेदनान्येवं सर्वाणि। वृद्धिपत्रं मण्डलाग्रञ्च किञ्चिदुत्तानपाणिना लेखने बहुशोऽवत्तार्व्यं वृन्ताग्रे विस्रावणानि विशेषेण बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजपुत्राणाञ्च त्रिकूर्चकेन विस्रावयेत्। तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखम्। कुठारीकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुष्ठविष्टब्धयाभिहन्यात्। आराकरपत्रैषण्यो मूले। शेषाणिं तु यथायोगं गृह्णीयात्। तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः। तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते। वडिशो दन्तशङ्कुश्चानताग्रे तीक्ष्णकण्टकप्रथमयवसन्तमुखे। एषणी गण्डूपदाकारमुखी। प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका। दशाङ्गुला शरारीमुखी सा कर्त्तरीति कथ्यते। शेषाणि तु षडङ्गलानि। तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राण्यकरालानि चेति शस्त्रसम्पत्। तत्र वक्रं कुण्ठं खण्डं खरधारमतिस्थूलमत्यल्पमतिदीर्घमतिह्रस्वमित्यष्टौ शस्त्रदोषाः। अतो विपरीतगुणमाददीतान्यत्र करपत्रात्तद्धि ञ्चरधारमस्थिच्छेदनार्थम्। तत्र घारा भेदनानां मासूरी। लेखनानामर्द्धमासूरी। व्यधनानां विस्नावणानाञ्च कैशिकी। छेदनानामर्द्धकैशिकीति। तेषां पायना त्रिविधा क्षारोदकतैलेषु तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु। उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु। तेषां निशाणार्थं श्लक्ष्णशिला माषवर्ण्णा। धारासंस्यापनार्थं शालमलोफलकमिति”। भवति चात्र “यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम्। सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत्”। अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति। “शिशृनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादि चतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्। आहार्य्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत्। विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम्। ये स्युर्मुखगता रोगानेत्रवर्त्मगताश्च ये। गोजीशेफालिकाशाकपत्रैर्विस्वावयेत्तु तान्। एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः। शस्त्राण्येतानि मतिमान् शुद्धशेक्यायसानि तु। कारयेत्करणैः प्राप्तं कर्मारं कर्मकोविदम्। प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः। तस्मात्परिचयः कार्य्यः शस्त्राणामादितः सदा”।
शस्त्रकोषतरु = पु० शस्त्रकोषस्य हितस्तरुः। महापिण्डीवृक्षे राजनि०।
शस्त्रजीविन् = पु० शस्त्रेण जीवति जीव–णिनि। शस्त्रव्यापारेण युद्धादिना वृत्तिसति हेमच०।
शस्त्रपाणि = पु० शस्त्रं पाणौ यस्य। १ शस्त्रधारके २ आततायिभेदे च “शस्त्रपाणिर्धनापहः” इति स्मृतिः।
शस्त्रमार्ज्ज = पु० शस्त्रं मार्ष्टि मृज–अण् (शिकलकर) शस्त्रमार्ज्जनकरे शिल्पिभेदे अमरः।
शस्त्रहत = त्रि० ३ त०। १ शस्त्रघातेन मृते “पक्षिपत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः। पतनानशनप्रायैर्वज्राग्नि विषबन्धनैः। मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः” देवीपु० परिभाषिते २ खगादिहते च। तस्याशौचादि शुद्धित० उक्तं यथा “शस्त्रघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते। अशौचं प्राकृतं तत्र सर्ववर्णेषु नित्यशः” व्याघ्रः “क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा। आसप्ताहात् त्रिरात्रं स्यात् दशरात्रमतःपरम्”। अत्र शस्त्रघातपरं क्षतेतरशस्त्रघातपरं पारिभाषिकशस्त्रषातपरञ्च। न च शास्त्रीयव्यवहारेऽन्तरङ्गत्वेन पारिभाषिकस्यैव ग्रहणं युक्तमितिवाच्यम् श्राद्धे पारिभाषिकापरिभाषिकशस्त्रघातग्रहणवदत्रापि तथा युक्तत्वात् पारिभाषिकत्वादेव न प्रकरणनियमः” शु० त० रघु०।
शस्त्रहतचतुर्दशी = स्त्री शस्त्रहतोद्देश्यकश्राद्धाङ्गं चतुर्दशी। गौणाश्विनकृष्णपक्षचतुर्दश्यां तत्र कर्त्तव्यं आद्धवि० दर्शितं यथा “अथ शस्त्रहतचतुर्दशी। विष्णुः युद्धहतानां श्राद्धकर्मणि चतुर्दशी प्रशस्ता”। शस्त्रयुद्धहतानामेवेति न नियमार्थम् ब्रह्मपुराणे “प्रायाऽनशनशस्त्राग्निबिषोद्वन्धनिनां तथा। चतुर्दश्यां तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः” प्रायोमहापथगमनम्। वायुपुराणे “युवानस्तु गृहे यस्य मृतास्तेषान्तु दापयेत्। शस्त्रेण च हता ये वै तेषां दद्याच्चतुर्दशीम्”। युवान एव पुत्रादयो मृता इत्यर्थः। मरीचिः “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम्। चतुदैश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता”। ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती तेषां, ये च ब्राह्मणैर्हताः” इति ब्रह्मपुराणवचनात् न तु कृतव्राह्मणाघातस्य पतितत्वात्। अन्येषाम् अशस्त्रादिहतानाम् एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकलकृष्णपक्षसाधारणम् पित्रादीनामेय पार्वणविधिप्रकरणात् पार्वणविधिना कार्य्यं “सपि- ण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते। तत्र तत्र त्रयं कुर्य्याद्वर्जयित्वा मृताहनि” इति शङ्खवचनाच्च। मनु “अन्येषान्तु विगर्हिता” इति श्रवणात् कथं त्रैपुरुषिकपार्वणविधिः न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यत एव यस्य द्वौ शस्त्रहतौ एको वा तेनापि द्वैपुरुषिकैकपुरुषिकमेव पार्वणं कर्त्तव्यं यथा मनुः “पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पितामहः। पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम्” तथा हारोतः “पितामहोऽपि जीवेद्वै पितर्य्येव समापयेत्”। नन्वेकोद्दिष्टमात्रं श्रूयते यथाह गार्म्यः “सपिण्डीकरणादूर्द्ध्वं मृते कृष्णचतुर्दशीम्। प्रतिसंवत्सरादन्यदेकोद्दिष्टं न कारयेत्” यमः “सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते। एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” भविष्यपुराणे “समत्वमागतस्यापि पितुः शस्त्रहतस्य च। चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टं न पार्वणम्। चतुर्दश्यां तु यत् श्राद्धं सपिण्डीकरणे कृते। एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” उच्यते। एषां वचनानाममूलत्वात् समूलत्वेऽपि पार्वणाशक्तविषयकाण्येवैतानि विष्णादिवचनेषु पार्वणावगतेः। भ्रात्रादीबान्तु शस्त्रहतावाम् एकोद्दिष्टविधिना कार्य्यम्। “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये। तेषामपि च देय स्यादेकोद्दिष्टं न पार्वणम्” इत्यापस्तम्बवचने पार्वणनिषेधात् तच्च न सकलकृष्णपक्षसाधारणं विष्ण्वादिवचने श्राद्धशब्दस्य पार्वणवरत्वोक्तेः। किन्त्वाश्विनमासीयकृष्णपक्षविपयम्। ब्रह्मपुराणे “प्रायामशनेत्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभिधायाश्विने “तर्पणीयाश्चतुर्दश्यां लुप्तपिण्डोदकक्रियाः” इति पुनरभिधानं तच्छस्त्रहतभ्रात्रादिविषयम् अतएव तत्रैव “अमाबास्यार्या पितरः पूज्या नान्दीमुखा अपीति” वृद्धप्रपिताम हादीनामपि श्राद्धं दर्शितम्। इयञ्च चतुर्दश्यामशस्त्रहतश्राद्धनिन्दा आश्विनमासीयकृष्णयपक्षश्राद्धादिकल्पव्यतिरिक्तमामान्यकृष्णपक्षविहितश्राद्धकाम्यश्राद्धविघया प्रकरणभेदेन श्राद्धकर्मभेदात् सामान्यविशेषन्यायाच्च इतरथा चतुर्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दास्यात् अतएव “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीमिति” भनुवचनेऽपि चतुर्दशीवर्जनं पक्षश्राद्धादिव्यतिरिक्तविषयम्। ननु शस्त्रादिहतानां श्राद्धनिषेधः श्रूयते यथा छागलेयः “शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रि सरीसृपैः। आत्यनस्त्यागिनाञ्चैव श्राद्धमेषां न कारयेत्”। सत्यं बुद्धिपूर्वकमृतानामेव। प्रमादमृतानाञ्च श्राद्धादिकमाह अङ्गिराः “अथ कश्चित् प्रभादेन म्रियतेऽग्न्युदकादिभिः। अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया”। अबुद्धिपूर्वकमपि शृङ्ग्यादिमिः क्रीडां कुर्वतां मृतानां न कर्त्तव्यम्। ब्रह्मपुराणे “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः। आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः”। परिहर्त्तव्यः श्राद्धादौ। शास्त्रानुमत्या बुद्धिपूर्वकमृतानामपि कर्त्तव्यम्। गर्ग्यः “नष्टशौचस्मृतिर्लुप्तप्रत्याख्यतभिषक्क्रियः। आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः। तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः। तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमिष्यते”। एवं क्रीडाव्यतिरेकेणाऽवुद्धिपूर्वमृताः शास्त्रानुमत्या च बुद्धिपूर्वकमृता अपि श्राद्धार्हाः। कथम् लुप्तपिण्डोदकत्वम् इति चेद्गौणमिति ब्रूमः बुद्धिपूर्वकमृते पिण्डोदकक्रियालोपात्”।
शस्त्राभ्यास = पु० ६ त०। शस्त्रप्रयोगशिक्षायां त्रिका०।
शस्त्रायस = शस्त्रयोग्यमयः अच्समा०। लोहभेदे (इष्पात) राजनि०।
शस्त्रिन् = त्रि० शस्त्रमस्त्यस्य इनि। शस्त्रविशिष्टे।
शस्त्री = स्त्री स्वल्पं शस्त्रं ङीप्। छुरिकाथाम् मेदि०।
शस्प = न० शस–प। बालतृणे घासे अमरे पाठान्तरम्।
शस्य = न० शस–यत्। वृक्षादीनां फले “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते” इत्युक्ते क्षेत्रस्थे धान्यादौ च अस्य दन्त्यादित्वमपि नवशस्यसम्भोगनक्षत्राणि ज्यो० त० उक्तानि यथा “अनुराधा मृगशिरो रेवती चोत्तरा त्रयम। हस्ता चित्रा यघा पुष्या श्रवणा च पुनर्वसुः। रोहिणी नवशस्यादिनवद्रव्याशनादिषु। प्रशस्तं नवपीठादिसम्भोगे ग्रहविद्वदेत्”।
शस्यध्वंसिन् = पु० शस्यं ध्वंसयति ध्वन्स–णिच्–णिनि। १ तुन्नवृक्षे (तु~द) शब्दच० २ शस्यनाशके त्रि०।
शस्यमञ्जरी = स्त्री ६ त०। अभिनवथान्यादिशीर्षे अमरः।
शस्यशूक = न० धान्यादेः शीर्षे अमरः।
शस्यसम्बर = पु० शस्यं संवृणोति सम् + बृ–अच्। सालवृक्षे अमरः।
शस्यारु = पु० शस्यमृच्छति ऋ–उण्। क्षुद्रशमीवृक्षे शब्दच०।
***