व्यंशक = पु० विशिष्टोऽंशोऽवयवोऽस्य। पर्वते त्रिका०।

व्यंसक = पु० विगतोऽंसः स्कन्धो यस्य कप्। १ धूर्त्ते हेमच० २ स्कन्धशून्ये। “मयूरव्यंसकादयश्च” पाणिनिसूत्रम्।

व्यंसित = त्रि० वि + अंस–क्त। १ वञ्चिते २ प्रतारिते त्रिका०।

व्यक्त = त्रि० वि + अन्ज–क्त। १ स्फुटे २ प्रकाशिते मेदि०। ३ प्राज्ञे अमरः। ४ स्थूले “व्यक्ताव्यक्तज्ञविज्ञानात्” सा० का०। ५ विष्णौ पु० विष्णुम०।

व्यक्तदृष्टार्थ = पु० व्यक्तं स्फुटं दृष्टोऽर्थो येन। साक्षाद्द्रष्टरि साक्षिणि त्रिका०।

व्यक्तरूप = पु० व्यक्तानि स्थूलानि भूतान्येव रूपं यस्य। विष्णौ विष्णुस०। तस्य विवाड्रूपेण सर्वभूतात्मकत्वात्तथात्वम्।

व्यक्ति = स्त्री वि + अन्ज–क्तिन्। १ प्रकाशे क्तिच्। २ जने हेम०। पृथगात्मतारूपे एकैकविशेषे च अमरः। अभिव्यक्तिशब्दे दृश्यम्।

व्यग्र = त्रि० विगतमग्रं यस्य। १ व्याकुले २ व्यासक्ते च अमरः। विशिष्टमग्रं यस्य। ३ विष्णौ पु० विष्णुस०।

व्यङ्ग = न० विगतं विकलं वाङ्गं प्रादि कर्म०। १ विकलाङ्गे विगतमङ्गं यस्य। २ अङ्गहीने त्रि० ३ भेके पुंस्त्री० मेदि० स्त्रियां ङीष्। ४ मुखरोगभेदे तन्निदानादि माधवनिदाने उक्तं यथा “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः। मुखमागम्य सहसा मण्डलं विसृजत्यतः। नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत्”।

व्यङ्ग्य = त्रि० वि + अन्ज–ण्यत्। १ व्यञ्जनया वृत्त्या बोध्येऽर्थे “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः। व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” सा० द०। २ प्रकाश्ये च।

व्यच = व्याजे अक० सम्बन्धे सक० तु० कु० पर० सेट्। विचति अविचीत् विध्याच विविचतुः व्यचाः।

व्यजन = न० वि + अज–ल्युट् न व्यादेशः। तालवृन्तके अमरः। “मूर्च्छादाहतृषाधर्मश्रमनुत् व्यजनानिलः। तालव्यजनजो वायुस्त्रिदोषशमनो लघुः। वंशव्यजनजो वायु रूक्षाष्णो वातपित्तकृत्। वेत्रवस्त्रकेकिपुच्छव्यजनोत्थस्त्रिदोषहृत्। बालव्यजनजो वायुर्मक्षिकादिनिवारकः। तेजस्करोऽसौ विज्ञेयो विद्वद्भिर्भिषजां वरैः” राजव०।

व्यञ्जक = पु० वि + अन्ज–णिच्–ण्वुल्। १ हृद्गतभावादिप्रकाशके अभिगये अमरः। २ व्यञ्जनयार्थबोधके शब्दे च सा० द० व्यञ्जनशब्दे दृश्यम्। ३ प्रकाशकमात्रे त्रि०।

व्यञ्जन = न० विशेषेणाज्यते वि + अन्ज–ल्युट १ सूपशाकादौ ओदनभोजनोपकरणे राजनि०। “व्यञ्जनं शाकमत्स्याद्यं हृद्यं वृष्यञ्च पुष्टिदम्। द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः। तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत्” राजव०। वि + अन्ज–णिच्–ल्युट्। २ चिह्ने ३ श्मश्रुणि ४ अवयवे ५ दिने मेदि०। ६ उपस्थे ७ अर्द्धमात्राकालेनीच्चार्य्ये हल्वर्णे च धरणिः “व्यञ्जनं चार्द्धमात्रकम्” शिक्षा०। ८ अलङ्कारप्रसिद्धे शब्दस्य वृत्तिभेदे च युच्। ९ उक्तार्थे स्त्री “विरतास्रभिधाद्यासु ययार्थो बोध्यतेऽपरः। सा वृत्तिर्व्वञ्जना नाम शब्दस्यार्थादिकस्य च। अभिधासक्षणामूलाशब्दस्य व्यञ्जना द्विधा” सा० द०। तत्र अभिधामूला तच्छब्दे २९० पृ० दृश्या। “लक्षणामूलामाह “लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम्। यया प्रत्याय्यते सा स्याद् व्यञ्जना लक्षणाश्रया”। (गङ्कायां घोषः) इत्यादौ जलमयाद्यर्थबोधनादभिधायां विरतायां तदाद्यर्थबोधनाच्च लक्षणायां विरतायां यथा शीतत्वपावनत्वाष्द्यविशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना। एवं शाब्दीं व्यञ्जनामुक्त्वाऽऽर्थीं व्यञ्जनामाह “वक्तृबोद्धवाक्यानाकन्यसन्निधिवाच्ययोः। प्रस्तावदेशकालानां कालोञ्चेष्टादिकस्य च। वैशिष्ट्यादन्यमर्थं या बोधयेत् साऽर्थलम्भवा”। व्यञ्जनेति सम्बध्यते। तत्र वक्तृवाक्यवोस्तावद्देशकालवैशिष्ट्ये यथा मम “कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः अमीराः। केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य”। अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्यया प्रेष्यताम्” इति सखीं प्रति कयाचित् द्योत्यते। बोद्ध्वव्यवैशिष्ट्ये यथा “निःशेषषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्धी तवेयं तनुः। मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे वाषीं आतुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्”। अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया लक्ष्यम्। तस्य च रन्तुमिति व्यङ्गां प्रतिपाद्यदूतावैशिष्ट्याद्बोध्यते। अ{??} सिणीपत्तम्मि रेहै बलाआ। {??} णपरिठ्ठि{??} सं{??}। {??} वेम विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतः स्थानमेतदिति कयापि सन्निहितप्रच्छन्नकासुकं प्रत्युच्यते। अत्रैव स्थाननिर्जनत्व व्यङ्गार्थ वैशिष्ट्यं प्रयो जनम्। “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते”। इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो ज्ञातव्याः। एतद्वौशिष्ट्य यथा “गुरुपरन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि! सुरभिसलयेऽसौ”। अत्र नैष्यति अपि तु एव्यत्येवेति काक्वा व्यज्यते। चेष्टावैशिष्ट्ये यथा “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्”। अत्र सन्ध्या सङ्केतकाल इति पद्मनिमीलनादिचेष्टया कयाचित् द्योत्यते। एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोध्यम्। “त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता”। अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः। तत्र वाच्यार्थस्य व्यञ्जना यथा “काली मघुः” इत्यादि। लक्ष्यार्थस्य यथा “निःशेषच्युतचन्दनम्” इत्यादि। व्यङ्ग्यार्थस्य यथा “उअ णिच्चमेत्यादि”। प्रकृतिप्रत्ययव्यञ्जनत्वन्तु प्रपञ्चयिष्यते “शब्दोबोध्यो व्यनक्त्यर्थं शब्दोऽप्यर्थान्तराचयः। एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता”। यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्षते अर्थोऽपि शब्द, तदेकस्य व्यङ्जकत्वे अन्यस्य सहकारिताऽवश्यमङ्गीकार्य्या। “अभिधादित्रयोप्राधिवैशिष्ट्यात्त्रिविधो मतः। शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा”। अभिधोपाधिको वाचकः। लक्षणोपाधिको लक्षकः। व्यञ्जनोपाधिको व्यञ्जकः” सा० द० २

व्यञ्जित = त्रि० वि + अन्ज–णिच्–क्त। १ प्रकाशिते “अव्यञ्जितहर्षलक्षणः” कुमारः। २ व्यञ्जनावृत्त्या बोधितेऽर्थे च।

व्यडम्बक = पु० डवि–ण्वुल् विशेषेण न डम्बकः। एरण्डवृक्षे अमरः।

व्यतिकर = पु० वि + अति–कॄ–अप्। व्यतिसम्बन्धे २ व्यसमे च मेदि०।

व्यतिक्रम = पु० वि + अति + क्रम–घञ् न वृद्धिः। १ विपर्य्यये “विवाहे च व्यतिक्रमः” उ० त०। २ विशेषतोऽतिक्रमे च।

व्यतिरिक्त = त्रि० वि + अति + रिच–क्त। भिन्ने “न वृक्षवृत्तिव्यतिरिक्तसाथनम्” इति अमारः।

व्यतिरेक = पु० वि + अति + रिच–घञ्। १ विशेषेण अतिक्रमे ३ अभावे ४ विनेवर्थे ५ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम्। न्यायोक्ते ६ तदसत्त्वे तदसत्त्वरूपे कारणताजाहके पदार्थभेदे काव्याभावव्यापकीभूताभावप्रतियोगित्वरूपे व्याप्तभेदे च।

व्यतिरेकिन् = न० वि + अति + रिच–घिमुण्। न्यायोक्ते बा- ध्याभावव्यापकीभूताभावपतियागित्वरूपव्याप्तिहेतुके १ अनुमानभेदे “तच्चानुमानं त्रिविधं केवलान्वयिकवलव्यतितेक्यन्वयव्यतिरेकिभेदात्” चिन्तामणिः। यथा पृथिवी इतरभिन्ना गन्धवत्त्वात् इत्यादि। व्यतिरेकिदृष्टान्तश्च यन्नैवं तन्नैवमित्यादि। २ अतिक्रामके च स्त्रिया ङीप्।

व्यतिषक्त = त्रि० वि + अति + सन्ज–क्त। १ मिलिते २ ग्रथिते च

व्यतिषङ्ग = पु० वि + अति + सन्ज–घञ्। परस्परमेलने।

व्यति(ती)हार = पु० वि + अति + हृ–घञ् वा दीर्घः। परीवर्त्ते हेमच०। २ परस्परैकजातीयक्रियाकरणे।

व्यतीत = त्रि० वि + अति + इण्–क्त। अताते “व्यतीतकालस्त्वहमभ्युपेतः” इति रघुः।

व्यतीपात = पु० वि + अति + पत–घञ् दीर्घः। १ महोत्पातभेदे २ अपमाने मेदि० विष्कम्भादिषु मध्ये ३ योगभेदे ज्यो० त० “श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तके। यद्यमा रविवारेण व्यतीपातः स उच्यते” वृद्धममूक्ते ४ तिथ्यादियोगभेदे च पातशब्दे ४२९७ पृ० दर्शिते रसि० उक्ते क्रान्तिसाव्यात्मके यागवियोगरूपे ५ वाह्नभेदे

“व्यतीपातत्रयं धारं गण्डान्तत्रितय तथा। एतद् भसन्धित्रितयं सवकर्मसु वर्जयेत्” सू० सि० “व्यतीपातानां त्रयं योगवियोगात्मको क्रान्तिलाम्बरूपौ द्वौ व्यतीपातौ विषुवत्सन्निधौ क्रान्तिसाम्यान्तरेण व्यतीपातस्तबोरेव भेदः न पृथक्। पश्चाङ्गान्तर्गतयोगान्तर्गत व्यतीपातश्चेति त्रयम्” रङ्ग०। भविष्यपु० “चतुर्दश्यां यदा योगो व्यतीपातेन चार्द्रया। तदा पुण्यतमः कालो देवानामपि दुर्लभः। तदा यः स्नाति गङ्गायां भक्त्या तत् फलमाप्नुयात्। यत्र तत्र विपन्नो हि मङ्गामरणजन्तु सः” प्रा० त० उक्ते ६ तिथ्यादियोगभेदे। “निरंशं दिवसं विष्टिं व्यतीपातञ्च वैधृतिम्। केन्द्रं वापि शुभैर्हीनं पापाहमपि वजयेत्। परिघस्य त्यजेदर्द्धं शुभकर्म ततःपरम्। गण्डव्याघातयोः षट् च नव हषणवज्रयोः। वैधृति व्यतीपातौ च समस्तं परिवर्जयेत्”। अस्य प्रतिप्रसवमाह भीमपराक्रमे “न विष्कम्भो न वा गण्डो न व्यताषातवैधृती। चन्द्रताराबले प्राप्ते दोषागच्छन्त्यसंमुखा। नवम्यङ्गारको विष्टिः शनैचरदिनं तथा। व्यतीपातो न दुष्येच्च यस्यार्को दक्षिणे स्थितः। यदि विष्टिव्यतापाता दिन वाप्यशुभं उवेत्। हन्यतेऽमृतयीगेन भास्करेण तमो यथा” ज्यो० त०।

व्यत्यय = पु० वि + अति + इण्–अच्। १ व्यतिक्रमे २ विषर्य्यये च अमरः।

व्यत्यास = पु० वि + अति + अस–घञ्। विपर्य्यये अमरः।

व्यथ = भये चलने दुःस्यानुभवे च भ्वा० आत्म० अक० सेट्। व्यथते अव्यथिष्ट मित् घटा०। व्यथयति पित् अङ् व्यथा।

व्यथा = स्त्री व्यथ–भावे अङ्। १ पीडायाम् २ दुःखे च अमरः।

व्यध = ताडने दि० पर० सक० अनिट्। विध्यति अव्यात्सीत्। विव्याद विविधतुः।

व्यध = पु० व्यध–अच्। १ वेधे अमरः भावे अप्। २ छिद्रीकरणे ३ भेदने च।

व्यध्व = पु० विरुद्धः अध्वा अच्समा०। कुपथे अमरः।

व्यप = क्षये चुरा० उभ० सक० सेट्। व्यापयति–ते अविव्यपत्–त।

व्यपदेश = पु० वि + अप + दिश–घञ्। १ कथने २ संज्ञायां त्रिका०। ३ कापट्ये हेमच०। ४ मुख्यव्यवहारे च।

व्यपदेशिन् = त्रि० निमित्तसद्भावाद् विशिष्टोऽपदेशा मुख्यो व्यवहारोऽस्यास्ति इनि। मुख्यव्यवहारविषये पदार्थे “व्यपदेशिवदेकस्मिन्” व्या० प०। व्यपदेशेन तुल्यं पर्त्तते इति वति। कार्य्यं प्रति एकास्मन्नसहायेऽपि तत् कार्य्यं कर्त्तव्यमिति तदर्थः।

व्यपरोपण = न० वि + अप + रुह–णिच्–ल्युट् हस्य पः। १ छेदने २ उत्पाटने।

व्यपरोपित = त्रि० वि + अप + रुह–णिच्–क्त हस्य पः। १ छिन्ने २ उत्पाटिते च।

व्यपाकृति = स्त्री वि + अप + आ + कृ–क्तिन्। १ निराकरणे २ अस्वीकारे ३ निह्नवे च।

व्यपाश्रय = पु० वि + अप + आ श्रि–अच्। आश्रये।

व्यपेक्षा = स्त्रा वि + अप + ईक्ष–अ। अपेक्षायां व्याकरणोक्ते अवयपार्थापेक्षणे च।

व्यभिचार = पु० वि + अभि + चर–घञ्। १ निन्दिताचारे २ स्त्रियाः परपुरुषसंर्गे ३ पुंसश्च परस्त्रासङ्गमे न्यायादिप्रसिद्धे ४ हेतुदोषभेदे च। हेतुदोषभेदश्च अनैकान्तरूपः। “साधारणासाधारणानुपसंहारिणामप्यतमत्व च अनैकान्तिकत्वम्” सि० मु० “आद्यः लाधारणस्तु स्यादन्योऽलाधारणो मतः। तथैवानुपसंहारी त्रिधा नैकान्तिको भवेत्” माषा०। “साधारणः साध्यवदनन्यवृत्तिर्हेतुः। तेन च व्याप्तिग्रहप्रतिबन्धः क्रियते। असाधारणः साध्यासमानाधिकरणो हेतुः। तेन साध्यसामानाथिकरण्यग्रहः प्रतिबध्यते। सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभावसाधका अत्र तु हेतुरेवेति विशषः। साध्याभावसाधक एव साध्यसाधकत्वेन उपन्यस्त इत्यशक्तिविशेषोपस्थापकत्वाच्च विशेषः। सत्प्रतिपक्षः साध्याभापव्याव्यवान् पक्षः। अमृहाताप्रामाण्यकसाध्यवाप्यवत्त्वेनोप- स्थितिकालीनसाध्याभावव्याप्यवत्त्वेनोपस्थितिविषयस्तथा इत्यन्ये। अत्र च परस्पराभावव्याप्यवत्ताज्ञानात् परस्परानुमितिप्रतिवन्धः फलम्” सि० मु०। मणिकृता तु साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभावन्मात्रवृत्त्यन्यत्वम्” अनैकान्तिकत्वमिति लक्षितम्।

व्यभिचारिन् = पु० वि + अभि + चर–णिनि। १ अलङ्कारोक्ते रसप्रादुर्भवाङ्गे निर्वेदादौ सञ्चारिभावे तल्लक्षणभेदादिकं सा० द० उक्तं यथा “विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः। स्थायिन्युनग्ननिरंग्नास्त्रयस्त्रिंशत्तु तद्भिदाः। निर्वेदावेगदैन्यश्रममदजडता औग्र्यमौहौ विबोधः स्वप्नाषस्मारगर्वामरणमलसतामर्षनिद्राव हित्थाः। ओत्सुक्योन्मादशङ्का स्मृतिमतिसहिता व्याधिसन्त्रासलज्जा हर्मासूयाविषादाः सधृतिचपलता ग्लानिचि न्तावितर्काः” इति विभज्य लक्षिता यथा “तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः १ स्वावमानना। दैन्यचिन्ताश्रुनिश्वासवैवर्ण्योच्छसितादिकृत्। आवेगः २ सम्भ्रमस्तत्र वर्षजे पीडिताङ्गता। उत्पातजे स्रस्तताङ्गे धूमाद्याकुलताग्निजे। राजविद्रवजादेस्तु शस्त्रनागादियोजनम्। गजादेःस्तम्भकम्पादिः पांश्वाद्याकुलतानिलात्। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्। दौर्गत्याद्यैरनौजस्यं दैन्यं ३ मलिन तादिकृत्। खेदोरत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ४। सम्मोहानन्दसम्भेदो मदो ५ मद्योपयोगजः। अमुना चोत्तमः शेते मध्या हसति गायति। अधमप्रकृतिश्चापि परुषं वक्ति रोदिति। अप्रतिपत्तिर्जडता ६ स्यादिष्टानिष्टदर्शनश्रुतिभिः। अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र। शौर्य्यापराधादिभवं मवेच्चण्डत्वमुग्रता ७। तत्र स्वेदा शिरःकम्पतर्जनाताडनादयः। मोहो ८ विचित्तता भीतिदुःखावेगानुचिन्तनैः। घूर्णनामात्रपतनभ्रमणादर्शनादिकृत्। निद्रापगमहेतुभ्यो विबोध ९ श्चेतनागमः। जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्। स्वप्नो १० निद्रामुपेतस्य विषयानुभवस्तु यः। कोपावेगभयग्लानिसुखदुःखादिकारकः। मनःक्षेपस्त्वपस्मारो ११ ग्रहाद्याकेशनादिन्नः। भूपातकम्पप्रस्वेदफेनलालादिकारकः। गर्वो १२ मदः प्रभावश्रीविद्यासत्कुलतादिजः। अवज्ञासविलालाङ्गदर्शनाविनयादिकृत्। शराद्यैर्मरणं १३ जीवत्यागोऽङ्गपतनादिकृत्। आलस्यं १४ श्रमगर्भाद्यैर्जाड्यं जृम्भाक्षुतादिकृत्। निन्दाक्षेपापमानादेरमर्षो १५ऽभिनिविष्टता। नेत्ररागशिरःकम्पभ्रू भङ्गोत्तर्जनादिकृत्। चेतः- सम्मीलनं निद्रा १६ श्रमक्लममदादिजम्। जृम्भाक्षिमीलनोच्छासगात्रभङ्गादिकारकम्। भयनीरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था १७। व्यापारान्तरसक्त्यन्यथाभाषणविलोकनादिकरी। इष्टानवाप्ते रौत्सुक्यं १८ कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत्। चित्तसम्मोह उन्मादः १९ कामशोकभयादिभिः। अस्थानहासरुदितगीतप्रलपनादिकृत्। परक्रौर्य्यात्मदोषाद्यैः शङ्का २०ऽनर्थस्य तर्कणम्। वैवर्ण्यकम्पवैस्वर्य्यपार्श्वालोकास्यशोषकृत्। सदृशज्ञानचिन्ताद्यैंर्भ्रूसमुन्नमनादिकृत्। स्मृतिः २१ पूर्वानुभूतार्थविषयज्ञानमुच्यते। नीतिमार्गानुसृत्यादेरर्थनिर्द्धारणं मतिः २२। स्मेरता धृतिसन्तोषौ बहुमानश्च तद्भवाः। व्याधि २३ र्ज्वरादिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत्। निर्घातविद्युदुल्कादैस्त्रासः २४ कम्पादिकारकः। धार्ष्ट्याभावो व्रीडा २५ वदनानमनादिकृद् दुराचारात्। हर्ष २६ स्त्विष्टाव्याप्तेर्मनःप्रसादाऽश्रुगद्गदादिकरः। असूया २७ऽन्यगुणर्द्धीनामौद्धत्यादसहिष्णुता। दोषोद्वोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्। उपायाभावजन्मा तु विषादः २८ सत्त्वसङ्क्षयः। निःश्वासोच्छासहृत्तापसहायान्वेषणादिकृत्। ज्ञानाभीष्टागमाद्यैस्तु सम्पूर्णस्पृहता धृतिः २९। सौहित्यवचनोल्लाससहासप्रतिभादिकृत्। मात्सर्य्यद्वेषरागादेश्चापल्यं ३० त्वनवस्थितिः। तत्र भत्र्सनपारुष्यस्वच्छन्दाचरणादयः। रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा। ग्लानि ३१ र्गिष्प्राणताकम्पकार्श्यानुत्साहतादिकृत्। ध्यानं चिन्ता ३२ हितानाप्तेः शून्यताश्वासतापकृत्। तर्को ३३ विचारः सन्देहाद् भ्रूशिरोऽङ्गुलिनर्त्तकः। रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः। शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः। शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः। इत्याद्यन्यत्समुन्नेयं स्वयम्भावितबुद्धिभिः”। न्यायोक्ते २ व्यभिचाररूपदोषवति हेतुपदार्थे च। ३ परपुरुषगामिन्यां स्त्रियां स्त्री ङीप्। “हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम्। परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम्”। “सोमः शौचं ददौ तासां गन्धर्वश्च शुभां गिरम्। पावकः सर्वभक्षत्वं मेध्या वै योषितो ह्यतः” इति तु स्त्रीसामान्यविषयम्। “व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते। गर्भभर्तृवधे तासां तथा महति पातके” गरुडे ९५ अ०। तस्याः परित्यागादि हेतुमाह हारीतः “गर्भिणीमधोवर्णगां शिष्यसुतगामिनीं पापव्यसनासक्तां धनधान्यक्षयकरीं वर्जयेत्”। यमः “स्वच्छन्दगा हि या नारी तस्यास्त्यागो विधीयते। न चैव स्त्रीवधः कार्य्यो न चैवाङ्गवियोजनम्”। वृहस्पतिः “हीनव र्णोपभुक्ता या त्याज्या बध्यापि वा भवेत्”। विशेषयति मिताक्षरायां स्मृतिः “ब्राह्मणक्षत्रियविशां भार्य्याः शूद्रेण सङ्गताः। अप्रजास्ताविशुद्ध्यन्ति प्रायश्चित्तेन नेतराः”। एतत् बलात्कारविषयम् उद्वा० त०।

व्यय = गतौ त्यागे अद० चु० उभ० सक० सेट्। व्यवयति ते अवव्ययत् त।

व्यय = गतौ भ्वा० उभ० सक० सेट्। व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस)।

व्यय = नादे चु० उभ० सक० सेट्। व्याययति ते अविव्ययत् त।

व्यय = पु० वि + इण–अच्। १ विगमे २ धनादेस्त्यागे शब्दर०। ज्योतिषोक्ते लग्नात् ३ द्वादशस्थाने च ज्यो० त०।

व्यर्थ = त्रि० विगतोऽर्थः प्रयोजनं वाऽस्य। १ निष्पयोजने २ विफले जटा० ३ अर्थशून्ये च।

व्यलीक = न० वि + अल–ईकक्। १ अकार्य्ये २ वैलक्ष्ये मेदि० ३ अपराधे हेमच० ४ अप्रिये ५ अनृते च अमरः। ६ तद्वति त्रि०। ७ प्रतारणायां हला० ८ गतिविपर्य्यये भरतः।

व्यवकलन = न० वि + अव–कल–ल्युट्। १ वियोजने हेमच० २ विगमने ३ हीनतासम्पादने च “व्यवकलनमार्गेऽसि। कुशला” लीला०।

व्यवकलित = त्रि० वि + अव + कल–क्त। वियोजित।

व्यवच्छिन्न = त्रि० वि + अव + छिद–क्त। १ छिन्ने २ विशेषि त्रिका०।

व्यवच्छेद = पु० वि + अव + छिद–घञ्। १ पृथक्करणे २ विशेषकरणे ३ मोचने च ४ वाणमुक्तौ हेमच०।

व्यवधा = स्त्री वि + अव + धा–अ। व्यवधाने अमरः।

व्यवधान = न० वि + अव + धा–ल्युट्। १ तिरोधाने २ द्रव्या न्तरेण द्रव्यान्तरस्याच्छादने च हेमच०।

व्यवधायक = त्रि० वि + अव + धा–ण्वुलु। १ व्यवधानकर्त्तरि २ आच्छादके च

व्यवधि = पु० वि + अव + धा–कि। व्यवधाने शब्दच०।

व्यवसाय = पु० वि + अव + सो–घञ्। १ उद्यमे “मरणव्यवमायबुद्धिम्” कुमारः। ३ उपजीविकायाम् ३ अनुष्ठाने ४ अवधारणे च “व्यवसायात्मिका बुद्धिः” गीता। ५ विष्णौ विष्णुस०।

व्यवस्था = स्त्री वि + अव + स्था–ङ। १ शास्त्रविहितस्य विषयान्तरपरिहारेण विपयविशिषे स्थापने २ शास्त्रमर्य्यादाया

व्यवस्थान = न० वि + अव + स्था–ल्युट्। १ व्यवस्थायाम्। कर्त्तरि ल्यु। २ विष्णौ पु० विष्णुस०।

व्यवस्थित = त्रि० वि + अव + स्था–क्त। विषयान्तरपरिहारेण विषयविशेषे अवस्थिते १ शास्त्रविहिते पदार्थे २ अवस्थितमात्रे च।

व्यवस्थितविभाषा = स्त्री कर्म०। व्याकरणोक्ते विषयान्तर परिहारेण विषयविशेषेऽवस्थितरूपे विकल्पे।

व्यवहर्तृ = त्रि० वि + अव + हृ–तृच्। व्यवहारकर्त्तरि।

व्यवहार = पु० वि + अव + हृ–घञ्। १ अर्थविशेषवाधनाय शब्दविशेषप्रयोगे २ ऋणादानादिष्वष्टादशसु विवादेषु ३ सहासनभोजनादौ च विवादरूपव्यवहारलक्षणं वीर० मि० उक्तं यथा “अथ कोऽयं व्यवहारः प्रमाणतर्कोप्रष्टव्यः पक्षप्रतिपक्षपरिग्रहः इति चेन्न वादादेरपि तत्त्वापत्तेः। लिखितादिः प्रमाणविशेषः परिगृह्यत इति चेत् तत्रापि तत्प्रवृत्त्यविरोधात्। अनुमानाद्यवहिर्भावाच्च तेषामव्यावर्त्तकत्वात्। अतएवान्यविरोधेन स्वसम्बन्धितया कथनमित्यपि परास्तम्। प्रमाणान्तर्भावेण स्वरूपनिरूपणानौचित्याच्च कथनादेर्व्यवहारपदवाच्यत्वे “व्यवहारान्नृपः पश्येदित्याद्यनन्वयाच्च। उच्यते। ऋणादानादिलौकिकार्थविमया कथैव व्यवहारः। कथाव्यपदेशाभावस्तु शास्त्रीयपदार्थाविषयत्वात् अधिकरणादिव्यपदेशो यथा वैदिकार्थविषयककथायान्तथात्वव्यवहारव्यपदेशः। अतएव यथायथं हेत्वाभासनिग्रहस्थानादियोजनमपि युक्तम्। तच्च तत्र तत्र प्रदशयिष्यते। चतुष्पात्त्वमपि तस्य तदविरोध्येवेत्युपपादयिष्यते। यत् तु गोपालेन तत्त्वनिर्णयेषु कथात्वाद्वादत्वमेवास्येति मिश्रमतत्वेनोपन्यस्य जयभङ्गफलकत्वात् स्थापनावसानत्वाच्च जल्पएवायमिति तन्निरस्तम्। तस्यैकविधत्वमयुक्तम्। शङ्कातत्त्वाभियोगभेदेन उभयरूपत्वस्यैव युक्तत्वात्। वैतण्डिकस्य व्यवहारायोग्यत्वादस्य वितण्डत्वम्परमसम्मवि। अन्यविरोधेन स्वसम्बन्धितया कथनमिति विज्ञानयोगिवचोऽप्येवं सति नायुक्तम्। न च पश्येदित्यनन्वयः निर्णयार्थकथनतया सर्वनिबन्धृभिस्तद्व्याख्यानात्। “स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्” याज्ञवल्क्यवचनं यद्यपि व्यवहारपदान्यृणादानादीनि सामान्येन लक्षयति तथापि व्यवहारसामान्यलक्षणमपि समानसम्बन्धिसंबेद्यतया ततः प्रतीयते। तस्याह्ययमर्थः स्मृत्याचारादिधर्मप्रमाणातिक्रान्तरीत्याऽन्यैरभिभूतः पुरुषो- राजादिभ्यो व्यवहारदर्शिभ्यो यद्यावैदयति तर्हि तदाऽऽवेद्यमानञ्चतुष्पाद्व्यवहारस्य पदं विषयः। हीति प्रसिद्धमृणादानादिलक्ष्यत्वेन मन्वाद्युक्तमुपक्षिप्तमिति। एवञ्चाधर्षितस्यार्थित्वमाधर्षकस्य प्रत्यर्थित्वन्तयोर्विवादश्च व्यवहार इति प्रतीयते। इदमेव च मिताक्षरायामन्यविरोधेनेत्यादिना निष्कृष्टमुक्तम्। अन्यविरोधेनेत्थनुक्ते प्रश्नोत्तरादिरूपेण स्वसम्बन्धिकथनमपि व्यवहारः स्यात्। स्वसम्बन्धितयेत्यनुक्ते एकसम्बन्धितया साक्षिणा कथनमन्यविरोधि भवत्येवेत्यस्याप्यर्थित्वापत्तिरतः स्वसम्बन्धितयेति। इदं चोत्तरचतुष्टयेऽप्यनुगतम्। न च सम्प्रतिपत्तावव्याप्तिः तत्रापि साध्यतया वादिना निर्दिष्टस्य सिद्धतया निर्देशे तद्विरोघपर्य्यवसानात् अन्यथोत्तरत्वभङ्गप्रसङ्गात्। यत्रापि द्वावपि भाषावादिनौ तत्रापि परस्परविरोधावश्यम्भावान्नाव्याप्तिः। इदं चाग्रे व्यक्तीभविष्यति। यच्च कात्यायनेनोक्तम् “प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे। साध्यमूलस्तु यो वादो व्यवहारः स उच्यते” इति एतच्च व्यवहारहेतुव्यवहारस्वरूपोक्तिपरतया, माधवीयपारिजातादिष्वेवं व्याख्यातम् “विहिताच रणनिषिद्धवर्जनादिप्रयत्नसाध्ये धर्माख्ये वस्तुनि विच्छिन्ने विप्लुते सतीति व्यवहारहेतुरुक्तः धर्मावर्मविप्लवस्यैव व्यवहारहेतुत्वात्। तथा च नारदः “मनुः प्रजापतिर्यस्मिन् काले राज्यमबूभुजत्। धर्मैकतानाः पुरुषास्तदासन् सत्यवादिनः। तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः। नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्त्तते” इति। वृहस्पतिरपि “धर्मप्रधानाः पुरुषाः पूर्वमासन्न हिंसकाः। लोभद्वेषाभिभूतानां व्यवहारः प्रवर्त्तते” इति। न्यायेत्यादिना व्यवहारस्वरूवमुक्तम्। तत्र माधवीयव्याख्यानम्। न्यायः शिष्टसम्प्रतिपन्नं लौकिकमाचरणं तस्य विस्तरः इदं युक्तमिदमयुक्तमिति उपपत्तिपुरः सरो निर्णयः। तस्मिन् विषयभूते तत्प्रवर्त्तकोऽर्थिप्रत्यर्थिनोः साध्यमूलःसाध्यमृणादानादिपदं तन्मूलस्तद्विषयको यो विवादः स व्यवहार इति। मदमरत्ने तु न्यथिः प्रमाणन्तस्य विस्तरः प्रवृत्तिर्यत्र तस्मिन् विषय इति। स्मध्यमूलेतादि तुल्यम्। मदनरत्नाकरस्मृतिचन्द्रिकाकल्पतरुकारैः सर्वमेवेदं वचनं व्यवहास्यरूपपरतयापि व्याख्यातम्। प्रयत्नसाध्ये कष्टसाध्ये पराभिभवेन स्वेच्छय। भोक्तुमशक्ये गृह- क्षेत्रादौ सति न्यायः प्रमाणं विस्तार्य्यते प्रपञ्च्यते यस्मिन् तस्मिन् धर्माधिकरण सदसि साध्यमूलेत्यादि पूर्ववत्। तेनापि प्रागुक्तमेव विवक्षितमतस्तत्रत्यपदकृत्ये नातीव यतितव्यम्। वयन्तु सर्वं सप्तम्यन्तसामानाधिकरण्येन व्याचक्ष्महे! विहितानुष्ठानादिगोचरप्रयत्नसाध्ये धर्माख्ये न्यायविस्तरे नीयतेऽर्थोऽनेनेति न्यायः प्रमाणं श्रुतिस्मृत्यादि विस्तार्य्यते प्रवर्त्ततेऽस्मिन श्रुत्य दिप्रमेय इत्यर्थः। विच्छिन्ने प्रमाणापरिज्ञानतात्पर्य्यानवधारणादिना दुज्ञेये सति। यद्वा। धर्म आख्यायतेऽनेनेति धर्माख्यो धर्मप्रतिपादक इति वापत्। न्यायविस्तरे प्रमाणसमूहे श्रुतिस्मृत्यादौ प्रमादादिना विच्छिन्ने लुप्तप्राये सति साध्यमूलेत्यादि गतार्थमिति। हारोतः “स्वधर्मस्य यथा प्राप्तिः परधर्मस्य वर्जनम्। न्यायेन क्रियते यत् तु व्यवहारः स उच्यत” इति। न्यायेन प्रमाणेन। एतस्यापि पूर्वोक्त एव तात्पर्य्यम्”। तन्निरुक्तिर्मेदाश्च तत्र दर्शिता यथा “निरुक्तिमपि व्यवहारपदस्याऽमुमेवार्थमुपलक्षयति। सा च कात्यायनेनोक्ता “विना नार्थेन सन्दहो हरणं हार उच्यते। नानासन्देहहरणाद् व्यवहार इति स्मृत” इति। अथ व्यवहारभेदानाह नारदः “सोत्तरोनुत्तरश्चेति स विज्ञेयो द्विलक्षणः। सोत्तरोऽभ्यधिको यत्र विलेखपूर्वकः पणः” इति। यदि पराजयेऽह तदा पराजयदण्डाभ्यधिकमेतावद्राज्ञे दास्यामीति यत्र लेखनपूर्वक प्रतिज्ञ यते स सात्तर इत्यर्यः। तद्रहिताऽनुत्तर इत्यर्थादुक्तं भवति। स एव त्रयादशप्रकारनिवन्धनानवान्तरभेदानुद्दिश्य विवृतवान् यथा “चतुष्पाश्च चतुःस्थानश्चतुःसाधन एव च। चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्तितः। त्रियोनिर्द्ध्यभियोगश्च द्विद्वारोद्विगतिस्तथा। अष्टाङ्गोऽष्टादशपदः शतश खस्तथैव च। धर्मश्च व्यवहारश्च चरित्रं राजशासनम्! चतुष्पाद् व्यवहारोऽयमुत्तरः पूर्वबाधकः। तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु। चरित्रं तु स्वीकरणे राजाज्ञायान्तु शासनम्। साम्याद्युपायसाध्यत्वाच्चतुःसाधन उच्यते। चतुर्णामपि वर्णानां रक्षणाच्च चतुर्हितः। कर्त्तृनथो साक्षिणश्च सभ्यान् राजानमेव च। व्याप्नोति तादृशो यस्माच्चतुर्व्यापी ततः स्मृतः। धर्मस्यार्थस्य यशलोलोकपङक्तेस्तथैव च। चतुर्णाङ्कर णादेव चतुःकारी प्रकीर्त्तितः। कामात् क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात् प्रवर्त्तते। त्रियोनिः कीर्त्यते तेन त्रयमेतद्विवादकृत्। द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः। शङ्काऽसतान्तु संसर्गात्तत्वं होडाभिदर्शनात्। पक्षद्वयाभिसम्बन्धात् द्विगतिः समुदाहृतः। पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरः। भूतच्छलानुसारित्वात् द्विगतिः समुदाहृतः। भूतन्तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम्। राजा १ सपुरुषः सभ्यः २ शास्त्रं ३ गणकलेखकौ ४ ५। हिरण्य ६ मग्नि ७ रुदक ८ मष्टाङ्गः समुदाहृतः। ऋणादानं १ ह्युपनिधिः २ सम्भूयोत्थान ३ मेव च। दत्तस्य पुनरादान ४ मशुश्रूषा ५ भ्युपेत्य च। येतनस्यानपाकर्म ६ तथैवास्वामिविक्रयः ७। विक्रीयासम्प्रदानं ८ च क्रीत्वानुशय ९ एव च। समयस्यानपाकम १० विवादः क्षेत्रज ११ स्तथा। स्त्रीपुंसयोश्च सम्बन्धो १२ दायभागो १३ऽथ साहसः १४। वाक्पारुष्यं १५ तथैवोक्तं दण्डपारुष्य १६ मेव च। द्यूत १७ म्प्रकीर्णक १८ ञ्चैवे त्यष्टादशपदः स्मृतः। क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते” इति।

व्यवहारपद = न० ६ त०। व्यवहारविषये।

व्यवहारमातृका = स्त्री व्यवहारस्य विवादनिर्णयस्य मातेव पोषकत्वात् परिच्छेदकत्वाद्वा इवार्थे कन्। व्यवहारनिर्णयार्थं प्राड्विवाकादिकार्य्ये क्रियासमुदाये “व्यवहारान्नृपः पश्येत्” इत्युक्तो व्यवहारः सोऽयमित्थं चतुष्याच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः “तत्र प्रत्यर्थिनोऽग्रतो लेख्यम्” इति भाषापादः प्रथमः। “श्रुतार्थस्योत्तरं लेख्यम्” इत्युत्तरपादो द्वितीयः। “ततोऽर्थो लेखयेत्सद्य” इति क्रियापादस्तृतीयः। “तत्सिद्धौ सिद्धिमाप्नोति” इति साध्यसिद्धिपादश्चतुर्थः। यथोक्तम् “परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु। वाक्यान्न्यायाद्व्यवस्थानं व्यवहार उदाहृतः। भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः। आक्षिप्तश्चतुरंशस्तु चतुष्पादभिधीयत” इति। सम्प्रति प्रत्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्य सिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वमेव। उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानात् व्यवहर्तृसम्बन्धाभावाच्च न व्यवहारपादत्वमिति स्थितम् इति व्यवहारमातृका। एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना क्वचित् व्यवहारविशेषे कञ्चिद्विशेषं दर्शयितुमाह” मिता०।

व्यवहारिक = त्रि० व्यवहारः प्रयोजनतयाऽस्त्यस्य ठन्। १ व्यवहारयोग्ये लोकप्रसिद्धे घटपटादौ स्त्रियां ङीप्। २ इङ्गदवृक्षे ३ लोकयात्रायां ४ सम्मार्ज्जर्न्या स्त्री मेदि०।

व्यवहारिकसत्ता = स्त्री कर्म०। १ व्यवहारोपयिके सत्त्वे वेदान्तकल्पिते ब्रह्मभिन्नपदार्थमात्रस्य वस्तुतोऽसत्त्वेऽपि व्यवहारयोग्ये सत्त्वे येन घटादि व्याह्रियते। तत्कार्य्यकरणोपयोगित्वेन कल्पिते घटादेरर्थक्रियाकारित्वलक्षणे २ सत्त्वे च।

व्यवहार्य्य = त्रि० वि + अव + हृ–ण्यत्। इदमित्थमेवेत्येवंरूपेण १ व्यवहारविषये येन सह भोजनादिकमेकपङ्क्तौ क्रियते २ तस्मिंश्च जने।

व्यवहित = त्रि० वि + अव + धा–क्त। व्यवधानवति पदार्थे।

व्यवाय = पु० वि + अव + इण–घञ्। १ ग्राम्यधर्मे मैथुने अमरः। २ अन्तर्द्धाने च ३ तेजास न० मेदि०। ४ शुद्धौ पु० जटा०।

व्यवायिन् = त्रि० वि + अव + इण–णिनि। ग्राम्यधर्मकारके स्त्रियां ङीप्।

व्यसन = न० वि + अस–ल्युट्। १ विपत्तौ २ भ्रंशे कामजाते कोपजाते च स्त्रीभोगमद्यपानादौ ३ दोषे ४ दैवादिकृते उपद्रवे च ५ पापे ६ निष्फलाद्यमे मेदि०। “व्यसनान्याह मनुः कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्व त्मनैव तु। मृगया १ क्षो २ दिवास्वप्नः ३ परीवाद ४ स्त्रियो ५ मदः ६। “तौर्य्यत्रिकं ७। ८। ९ वृथाढ्या १० च कामजो दशकोगणः। पैशुन्यं १ साहसं २ द्रोह ३ ईर्षा ४ऽसूया ५ र्थदूषणम् ६। बाग्दण्डजञ्च पारुष्यं ७। ८ क्राधजोऽपि गणोऽष्टकः”। तौर्य्यत्रिकं नृत्यगोतवाद्यानि त्रीणीति दश। पैशु न्यमविज्ञातपरदोषाविष्करणम्। साहसं साधोर्बन्धनादिना निग्रहः। द्रोहो जिघांसा। ईर्षा अन्यगुणासहिष्णुता। असूया परगुणेष दोषाविष्करणम्। अर्थदषणम् अर्थानामपहरणं देयानामदानञ्च” मल० रघु०।

व्यसनार्त्त = त्रि० व्यवसनेनार्त्तः। २ दैवाद्युपद्रवयुक्ते।

व्यसनिन् = त्रि० व्यसनमस्यास्ति इनि। १ व्यसनयुक्ते कामजादिमद्यपानादिरूपदोषयुक्ते २ दैवाद्युपद्रुते च हेमच०।

व्यसु = त्रि० विगताः असवो यस्य। १ मृते “शेषे जातो भवेद्व्यसुः” ज्योतिषम्।

व्यस्त = त्रि० वि + अस–क्त। १ व्याकुले २ व्याप्ते मेदि० ३ विभक्ते च “व्यस्तरात्रिंदिवस्य ते” कुमारः। ४ विपरीते “एतद्व्यस्तं महाघोरम्” ति० त०। “व्यस्तविधिर्विलोमे” लीला० ५ ससुदितपदार्थमध्ये एकैकस्मिन्। “एते व्यस्ता समस्ता वा” विश्वामित्रः। ६ समस्तभिन्ने च भावे क्त। ७ व्यतिक्रमे त्रि०

व्याकरण = पु० व्याक्रियन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपाद्यन्ते शब्दा येन वि + आ + कृ–करणे ल्युट्! वेदाङ्गे शब्दसाधुतावोधके १ शास्त्रभेदे वेदान्तोक्ते नामरूपाभ्यां २ जगतोविकाशने च

“अथ व्याकरणं वक्ष्ये कात्यायन! समासतः। सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे। सुप्तिङ्न्तं पदं ख्यातं सुपः सप्त विभक्तयः। स्वोजसः प्रथमा प्रोक्ता सा प्रातिपदिकार्थके। सम्बोधने च लिङ्गादावुक्ते कर्मणिकर्त्तरि। अर्थवत् प्रातिपदिकं धातुप्रत्ययवर्ज्जितम्। अमौट्शसो द्वितीया स्यात् तत्कर्म क्रियते च यत्। द्वितीया कर्मणि प्रोक्ता उक्तानुक्ताविभेदतः। टाभ्याभिसस्तृतीया स्यात् करणे कर्त्तरीरिता। येन क्रियते तत्करणं तत्कर्त्ता यः करोति सः। ङेभ्यांभ्यसश्चतुर्थी स्यात् सम्प्रदाने च कारके। यस्मैदित्सा धारयते रोचते सम्प्रदानकम्। पञ्चमी स्यात् ङसिभ्यांभ्योह्यपादाने च कारके। यतोऽपैति समादत्ते अपादानं भयं यतः। ङसोसामश्च षष्ठी स्यात् स्वामिसम्बन्ध उख्यते। ङ्योस् सुपश्च सप्तमी स्यात् सा चाधिकरणे भवेत्। आधारश्चाधिकरणं रक्षार्थानां प्रयोगतः। ईप्सितं चानीप्सितं यत्तदपादानकं स्मृतम्। पञ्चमी पर्य्युपाङ् योग इतरर्त्तेन्यदिङ्मुखे। एनब्योगे द्वितीया स्यात् कर्मप्रवचनीयकैः। लक्षणवीप्सेत्थंभूतेऽभिर्भागे च परिप्रती। अनुस्तेषु सहार्थे च हीनेऽनूपौ च कीर्त्ततौ। द्वितीया च चतुर्थी स्याच्चेष्टायां गतिकर्मणि। अप्राणेहि विमक्ती द्वेमन्यकर्मण्यनादरे। नमःस्वस्तिस्वधास्वाहालंवषट्योग ईरिता। चतुर्थी चैव तादर्थ्ये तुमर्थाद्भाववाचिनः। तृतीया सहयोगे स्यात् कुत्सितेऽङ्गे विशेषणे। काले भावे सप्तमी स्यादेतैर्योगे च षष्ठ्यपि। स्वामीश्वराधिपतिभिः साक्षिदायादसूतकैः। निर्द्धारणे द्वे विभक्ती षष्ठी हेतुप्रयोगके। स्मृत्यर्थकर्मणि तथा करोतेः प्रतियत्नके। हिंसार्थानां प्रयोगे च कृति कर्मणि कर्त्तरि। न कर्त्तृकर्मणोः षष्ठी निष्ठादौ प्रतिपादिता। द्विविधं प्रातिपदिकं प्रातिपदिकमज्झलम्। भुवादिम्यस्तिङो लः स्याल्लकारा दश वै स्मृताः। तिप्तसन्तयः प्रथमो मध्यः सिप्थस्थास उत्तमः। मिब्वस्मसः परस्मै तु पदानाञ्चात्मनेपदम्। तामातामन्तां प्रथमो मध्यख्यासाथांध्वं तथा। उत्तम इर्वहिमही ङितः कर्त्तरि धातुतः। नाम्नि प्रयुज्यमानेऽपि प्रथमः पुरुषो भवेत्। मध्यमो युस्मदि प्रोक्त उत्तमः पुरुषोऽस्मदि। भुवाद्या धातवः प्रोक्ताः सनाद्यन्तास्तु धातवः। लडीरितो वर्तमाने स्मेनातीते च धातुतः। भूतानद्यतने लिट् च लिङाशिषि च धातुतः। विध्यादावेवानुमतौ लिङ्विधिर्मन्त्रणे भवेत्। निमन्त्रणाधीष्ट संप्रश्न प्रार्थनेषु तथाऽऽशिषि। लिडतीते परोक्षे स्याल्लङ्लुङ्, ऌट् ऌङ् भविष्यति। स्यादद्यतने ऌट् च भविष्यति च धातुतः। धातोरॢङ्क्रियातिपत्तौ लिङर्थे लोट् प्रकीर्त्तितः। कृतस्त्रिष्वपि वर्तन्ते भावे कर्मणि कर्त्तरि। शतृ शानच् तव्यण्यद् यदनीयर् क्य तृचादयः” गारुडे २०९ अ०।

व्याकुल = त्रि० वि + आ + कुल–क। रोगादिना इतिकर्त्तव्यतानिश्चयविहीने अमरः।

व्याकृत = त्रि० वि + आ + कृ–क्त। १ प्रकाशिते २ नामरूपाभ्यां प्रकटीकृते।

व्याकृति = स्त्री वि + आ + कृ–क्तिन्। १ भङ्गौ हला० २ प्रकाशने। करणे क्तिन्। ३ व्याकरणे च। श व्याक्रिया तत्रार्थे “व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता” हरिका०

व्याकोश(ष) = त्रि० वि + आ + कुश(ष) अच् व्यागतः कोशा(षा)त् प्रा० स० वा। १ प्रफुल्ले अमरः “व्याकोशे(षे)न्दीवराक्षी” इति तन्त्रम्।

व्याख्या = स्त्री वि + आ + ख्या–अच्। विवरणात्मके शब्दसमूहरूपे १ ग्रन्थभेदे २ कथने च।

व्याख्यात = त्रि० वि + आ + ख्या–क्त। १ कथिते २ विवृते च।

व्याघात = त्रि० वि + आ + हन–घञ्। १ अन्तराये २ प्रहारे मेदि० ३ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०५ पृ० दृश्यम्। ४ प्रतिबन्धे “व्याघातावधिराशङ्का” कुसुञ्जलिः। विष्कम्भादिसप्तविंशतियोगमध्ये ५ त्रयोदशे योगे च।

व्याघ्र = पुंस्त्री० वि + आ + घ्ना–क। १ जन्तुभेदे अमरः स्त्रियां ङीष्। २ रक्तैरण्डे ३ करञ्जे च पु० मेदि०।

व्याघ्रदल = पु० व्याघ्रस्तत्पाद इव दलमस्य। एरण्डवृक्षे शब्दच०।

व्याघ्रनख = न० व्याघ्रस्य नखोऽस्त्यस्य आकारे अच्। १ नखीनामगन्धद्रव्ये अमरः। व्याघ्रस्य नख इव दला० न्यस्य। २ स्नुहीवृक्षे शब्द च०। ३ कन्दभेदे। ४ नखक्षते च मेदि० ६ त०। ५ व्याघ्रस्य नखे।

व्याघ्रनायक = पुंस्त्री० व्याघ्रं नयति स्थानान्तरं प्रापयति पश्चात् क्राशनेन नी–ण्वुल्। शृगाले (फेउ) राजनि० तस्य पश्चात्क्रोशनेन व्याघ्रस्य स्थानान्तरप्रापकत्वेन तधात्वं स्त्रियां ङीष्।

व्याघ्रपाद(द्) = पु० व्याघ्रस्य पादैव मूलमस्य वा अन्त्यलोपः। १ विकङ्कतवृक्षे अमरः। २ मुनिभेदे च ३ विकङ्कटवृक्षे राजनि०।

व्याघ्रपुच्छ = पु० व्याघ्रस्य पुच्छैव दलमस्य। १ एरण्डवृक्षे अमरः। ६ त०। २ व्यघ्रलाङ्गूले च।

व्याघ्राट = पुंस्त्री० व्यघ्र इवाटति अट–अच्। भरद्वाजखगे अमरः स्त्रियां ङीष्।

व्याघ्रादनी = स्त्री व्याघ्रेणाद्यते अद–ल्युट् ङीप्। त्रिवृतायाम् अमरः।

व्याघ्रास्य = पुंस्त्री० व्याघ्रस्येवास्यं यस्य। विडाले शब्दच०। स्त्रियां टाप्।

व्याघ्री = स्त्री व्याघ्रस्तन्नखाकारः कण्टकोऽस्त्यस्याः अच् गौरा० ङीष्। १ कण्ठकारिकायाम् अमरः। जातौ ङीष्। २ व्याघ्रयोषिति।

व्याज = पु० वि + अज + घञ् वीभावाभावः। १ कपटे बञ्चनाफले २ असत्यव्यवहारे कारणान्तरेण ३ प्रवृत्तस्य कारणान्तरत्वेनोद्भावनरूपे अपदेशे च अमरः।

व्याजनिन्दा = स्त्री ३ त०। १ कपटनिन्दायाम् २ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम्।

व्याजस्तुति = स्त्री० ३ त०। १ कपटस्तुतौ २ अर्थालङ्कारभेदे च अलङ्कारशब्दे दृश्यम्।

व्याजोक्ति = स्त्री ३ त०। १ छलेनोक्तौ २ अर्थालङ्कारभेदे च अलङ्कारशब्दे ४०४ पृ० दृश्यम्।

व्याड = पु० वि + आ + अड–अच्। १ मांसभक्षके व्याघ्रादौ पशौ २ सर्पे अमरः। ३ इन्द्रे शब्दच०। ४ वञ्चके त्रि० रायमु०।

व्याडायुध = न० व्याडस्य व्याघ्रस्यायुधं नख इवास्त्यम्य अच्। व्याघ्रनखाख्ये गन्धद्रव्ये अमरः।

व्याडि = पु० व्याकरणस्य संग्रहाख्यग्रन्थकारके १ कोषकारके च ३ मुनिभेदे त्रिका०।

व्यात्युक्षी = स्त्री वि + अति + उक्ष–भावे व्यतिरारे णच् स्वार्थे अण् ङीप्। परस्परसेचनरूपे जलक्रीडाभेदे।

व्यादिश = पु० वि + आ + दिश–क। १ विष्णौ विष्णुस० २ विशेषेण आदेशके त्रि०।

व्याध = पुंस्त्री० व्यध–ण। मृगहिंसके क्षत्रियात् सर्वस्विपत्न्यां जाते १ सङ्कीर्णजातिभेदे पुंस्त्री० स्त्रियां ङीष्। “नापितात् गोपकन्यायां सर्वस्वी तस्य योषिति। क्षत्त्राद् बभूव व्याधश्च बलवान् मृगहिंसकः” ब्रह्मवै० व्र० १० अ०। २ दुष्टे त्रि० मेदि०। भावे घञ्। ३ वेधने ४ पीडने च।

व्याधभीत = पुंस्त्री० व्याधाद्भीतः भी–क्त। मृगे शब्दच०। स्त्रियां ङीष्।

व्याधाम = पु० व्याधेन पीडनेन अमयति अम–णिच्–अच्। वज्रे हेमच०।

व्याधि = पु० वि + आ + धा–कि। १ रोगे व्याधिश्च योगान्तराय- भेदः चित्तविक्षेपशब्दे २९४१ पृ० दृश्यम्। २ कुष्ठरोगे अमरः। ३ कामकृते नायकयोरवस्थाभेदे सा० द०।

व्याधिघात = पु० व्याधिं हन्ति–हन–अण्। आरग्बधे (सोन्दाल) अमरः।

व्याधित = त्रि० व्याधिर्जातोऽस्य तार० इतच्। व्याधियुक्ते अमरः।

व्याधिहन्तृ = पु० व्याधिं हन्ति हन–तृच्। १ वाराहीकन्दे राजनि० २ रोगनाशके त्रि० स्त्रियां ङीप्।

व्याधु(धू)त = त्रि० वि + आ + धु–(धू)–क्त। कम्पिते शब्दर०।

व्यान = पु० वि + अन–घञ्। देहस्थे सर्वशरीरव्यापके प्राणादिमध्ये वायुभेदे “विष्वगननवान् वायुर्व्यान इत्यभिधीयते” वेदान्तमतम् “व्यानो व्यानयत्यन्नं सर्वव्याधिप्रकोपनः। महारजतसुप्रख्यो हानोपादानकारणम्। स चाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि। ध्राणे गलेस्फिगुद्देशे तिष्ठत्यत्र निरन्तरम्। स्कन्धयत्यधरं वक्त्रं गात्रनेत्रे प्रकोपनः” पदार्थादर्शः।

व्यापक = त्रि० विशेषेणाप्नोति वि + आप–ण्वुल्। १ अधिकदेशवृत्तौ “व्यापकत्वात् परापि स्यात्” भाषा०। न्यायोक्ते स्वाधिकरणवृत्त्यभावाप्रतियोगिनि च २ पदार्थे ३ तन्त्रोक्ते सर्वाङ्गसम्बन्धिनि न्यासभेदे पु० “अङ्गुलिव्यापकन्यासौ” तन्त्रसा०। ४ आच्छादके त्रि० अमरः।

व्यापन्न = त्रि० वि + आ + पद–क्त। १ मृते हेमच० २ विपद्युक्ते च अमरः।

व्यापाद = पु० वि + आ + पद–घञ्। १ द्रोहचिन्तने हेमच०।

व्यापादन = न० वि + आ + पद–णिच्–ल्युट्। १ मारणे हेमच० २ परानिष्टचिन्तने अमरः।

व्यापार = पु० वि + आ + पृ–घञ्। “व्यापारो भावना सैवोत्पादना सैव च क्रिया” हर्य्युक्तायां १ भावयितुः उत्पादनक्रियायाम्। बणिजो २ व्यवसाये च। करणजन्ये करणजन्यक्रियाजनके ३ पदार्थे यथा दात्ररूपकरणजन्यः तज्जन्यच्छेदजनकः छेद्यसंयोगादि एवमिन्द्रियस्य व्यापारः विषयसंयोगा। “विषयेन्द्रियसंयोगो व्यापारः सोऽपि षड्विधः” भाषा०। एवं यागादेः व्यापारः अदृष्टम्। व्यापारवत् कारणं करणमिति। “क्रियायाः परिनिष्पत्तिर्यड्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्” हरिकारिका।

व्यापारिन् = त्रि० व्यापारोऽस्त्यस्य इनि। १ व्यापारवति कर णादौ “न हि व्यापारेण व्यापारिणोऽन्यथा सिद्धि”। २ व्यवसायवति वणिग्जने पु०।

व्यापिन् = त्रि० वि + आप–णिनि। १ व्यापके स्त्रियां ङीप्। शवष्णौ पु० विष्णुस०।

व्यापृत = त्रि० वि + आ + पृ–क्त। १ व्यापारयुक्ते २ कर्मसचिवे हेमच०।

व्याप्त = त्रि० वि + आप + –क्त। १ पूर्णे हेमच०। २ समाक्रान्ते २ ख्याते च मेदि०। ४ स्थापिते ५ व्याप्तियुते च “समेन यदि नो व्याप्तः” उदयनाचार्य्यः।

व्याप्ति = स्त्री वि + आप–क्तिन्। १ ऐश्वर्य्यभेदे न्यायमते तद भाववति अविद्यमानत्वरूपे २ पदार्थे यथा वह्नेरभाववति जलादौ धूमो नास्तीति धूमादौ वह्नेर्व्याप्तिः। “व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः। अथ वा हेतुवन्निष्ठविरहाप्रतियोगिना। साध्येन हेतोरैकाधिरण्यं व्याप्तिरुच्यते” भाषा०। प्रमेयत्ववद्भिन्नस्याप्रसिद्धे द्वितीयलक्षणमुक्तम्। प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावप्रतियोगितानच्छेदकसाध्यतावच्छेदावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति द्वितीयलक्षणार्थः। व्याप्तिश्च द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च तत्रान्वयव्याप्तिः पूर्वोक्ता। “साध्याभावव्यापकत्वं हेत्वभावस्य यत् भवेत्” भाषा० उक्ता अपरा सा च साध्याभावव्यापकीभूताभावप्रतियोगितारूपा। तत्रान्वयव्याप्तिज्ञाने व्यभिचारज्ञानाभावः सहकारज्ञानञ्च कारणम्। व्यतिरेकव्याप्ति ज्ञाने च साध्याभावे हेत्वभावस्य सहचारज्ञानं व्यभिचारज्ञानभावश्च कारणम्। “व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा। हेतुर्व्याप्तिग्रहे, तर्कः क्वचिच्छङ्कानिवर्त्तकः। द्वैविध्यन्तु भवेत् व्याप्तेरन्वयव्यतिरेकतः” भाषा०। धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्निजन्यो न स्यादित्यादितर्केण व्यभिचारशङ्का निर्वर्त्त्यते इत्याकरे दृश्यम्। उपाधिस्तु व्यभिचारोन्नायकतया व्याप्तिज्ञानविघटकतया अनुमितिविरोधी उपाधिशब्दे १३४८ पृ० दृश्यम्।

व्याप्य = त्रि० वि + आप–ण्यत्। १ व्याप्ते २ अल्पदेशवृत्तौ “व्याप्यत्वादपराऽपि च” भाषा०। ३ अनुमितिसाधने लिङ्गे न० ४ साघनमात्रे ५ कुष्ठौषधौ च अमरः।

व्याम = पु० वि + अम–घञ्। तिर्य्यक्पार्श्वतो विस्तृतयोर्बाह्वोरन्तरालपरिमाणे हेमच०।

व्यायत = त्रि० वि + आ + यम–क्त। १ दीर्घे २ व्यापृते ३ दृढे ४ अतिशये च मेदि०। भावे–क्त। ५ दैर्घ्ये ६ आयामे च न० मेदि०।

व्यायाम = पु० वि + आ + यम–घञ्। १ श्रमे २ श्रमसाधने व्यापारे ३ पौरुषे ४ दुर्गसस्कारे ५ विषमे मेदि० ६ मल्लानां श्रम- कारके व्यापारे (कुस्ति) ७ व्यामपरिमाणे च हेमच०।

व्यायोग = पु० वि + आ + युज–घञ्। दृश्यकाव्यभेदे सा० द० तल्लक्षणमुक्तं यथा “ख्यातेतिवृत्तोव्यायोगः स्वल्पस्त्रोजनसंयुतः। हीनोगर्भविमर्षाभ्यां नरैर्बहुभिराश्रितः। एकाङ्कश्च भवेदस्त्रीनिमित्तसमरोदयः। कौशिकीवृत्तिरहितः प्रख्यातस्तत्र नायकः। राजर्षिरथवा दिव्यो भवेद्धोरोद्धतश्च सः। हास्यशृङ्गारशान्तेभ्य इतरेऽत्राङ्गिनोरसाः” यथा सौगन्धिकाहरणधनञ्जयविजयादि”।

व्याल = पुंस्त्री० वि + अड–घञ् डस्य लः। १ सर्पे २ हिंसकपशौ अमरः। स्त्रियां ङीष्। ३ दुष्टगजे च मेदि० ४ चित्रके व्याघ्रे पुंस्त्री० राजनि० स्त्रियां ङीष्। नृपे पु० ५ मथुरेशः। ६ शठे त्रि० अमरः ७ धूर्त्ते त्रि०।

व्यालगन्धा = स्त्री व्यालस्येव गन्धो लेशोऽस्याः। नाकुल्याम् राजनि०।

व्यालग्राह = पु० व्यालान् सर्पान् गृह्णाति ग्रह–अण्। (सापुडे) सर्पधारिणी भरतः। णिनि। अत्रैव शब्दर०। “व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्” शु० त० काशीख०।

व्यालजिह्वा = स्त्री व्यालस्य सर्पस्य जिह्वेव पत्रमस्याः। महा। समङ्गायाम् राजनि०।

व्यालदंष्ट्र = पु० व्यालस्य व्याघ्रस्य दंष्ट्रेव कण्ठकमस्य। गोक्षुरे राजनि०।

व्यालनख = पु० व्यालस्य व्याघ्रस्य नखैव। गन्धद्रव्यभेदे व्यालदलोऽप्यत्र।

व्यालपत्रा = स्त्री व्यालस्य पाद इव पत्त्रमस्याः। एवारो कर्कटीभेदे राजनि०।

व्यालम्ब = पु० विशेषेण आलम्बते वि + आ + लवि–अच्। १ रक्तैरण्डे वैद्यकम्। विशेषेण २ लम्बमने त्रि०।

व्यालायुध = न० व्यालस्य व्याघ्रस्यायुधं नख इव। १ नखीनामगन्धद्रव्ये मथुरेशः। २ व्यालनखाख्ये गन्धद्रव्ये पु० राजनि०

व्यावक्रोशी = स्त्री वि + अव + क्रुश–णच् स्वार्थे अण् ङीप्। परस्पराक्रोशे।

व्यावर्त्त = पु० विशेषेण आवर्त्तते वि + आ + वृत–अच्। नाभिकण्टके शब्दर०।

व्यावहारी = स्त्री वि + अव + हृ–णच् स्वार्थे अण् ङीप्। परस्परहरणे।

व्यावहासी = स्त्री वि + अव + हस–णच् स्वार्थेऽण् ङीप्। परस्परहसने।

व्यावृत्त = त्रि० वि + आ + वृत–क्त। १ वृते हेमच० २ निवृत्ते च “व्यावृत्तगतिरुद्याने” कुमारः।

व्यावृत्ति = स्त्री वि + आ + वृत–क्तिन्। निवारणे।

व्यास = पु० व्यस्यति वेदान् वि + अस–घञ्। १ पराशरसुते मुनिभेदे व्यासश्च नारायणस्य पञ्चकलावतारभेदः यथोक्तं ब्रह्मवै० पु० ४ अ० “व्यासः पुराणसूत्रञ्च पप्रच्छ बाल्मिकं यदा। मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम्। तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः। संप्राप निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम्। पुराणसूत्रं श्रुत्वा स व्यासः पञ्चकलोद्भवः। त्वां सिषेवे प्रदध्यौ च शतवर्षञ्च पुष्करे। तदा त्वत्तोवरं प्राप्य स कवीन्द्रो वभूव ह। तदी वेदविभागञ्च पुराणञ्च चकार ह”। स च कन्याकाले सत्यवत्यां पराशराज्जातः कालीनशब्दे १९९३ पृ० दृश्यम् वेदव्यासशब्दोक्तेषु मुनिभेदेषु च २ समासादिसमानार्थके विग्रहवाक्ये ४ विस्वारे अमरः वृत्तक्षेत्रस्य मध्यस्थरेखायाम् “व्यासे भनन्दाग्निहते” लीला० क्षेत्रशब्दे २४०१ पृ० दृश्यम्। “यएवं वाचयेद्विप्रा स ब्रह्मन्! व्यास उच्यते” इत्युक्ते ५ पुराणपाठके विप्रे च ६ मानभेदे शब्दर०।

व्यासक्त = त्रि० वि + आ + सन्ज–क्त। १ आसक्ते तत्परे २ संलग्ने च।

व्यासङ्ग = पु० वि + आ + सन्ज–घञ्। १ कार्य्यान्तरत्यागेनैकपरत्वे २ आसक्तौ च।

व्यासिद्ध = त्रि० वि + आ + सिध–क्त। १ राजाज्ञयावरुद्धे मेदि० २ निषिद्धे च।

व्याहत = त्रि० वि + आ + हन–क्त। व्याघातयुक्ते।

व्याहार = पु० वि + आ + हृ–घञ्। १ वाक्ये २ उक्तौ अमरः।

व्याहृति = स्त्री वि + आ + हृ–क्तिन्। १ उक्तौ २ भूर्भूवःस्वरादिषु सप्तषु भूर्भूवःस्वरादिलोकसप्तात्मकेषु मन्त्रभेदेषु च सप्त लोकाः पुनरेताः सप्त व्याहृतय एवेति योगियाज्ञवल्क्येन प्रतिपादितम् यदाह “भूराद्याश्चैव सत्यान्ता सप्त व्याहृतयस्तथा। लोकास्ता एव सप्तैते उपर्य्युपरिसंस्थिताः”। तथा “सप्त व्यहृतयः प्रोक्ताः पुरा य स्तु स्वयम्भुवा। ता एव सप्त छन्दांसि लोकाः सप्त प्रकीर्त्तिताः” यया च वासनया सप्त व्यहृतयः सप्त लोकाः सा च वासना योगियाज्ञवलक्येनैव निरुक्त्या विविच्य प्रतिपादिताः यदाह “भवन्ति चास्मिन् भूतानि स्थावराणि चराणि च। तस्माद्भूरिति विंज्ञेया प्रथमा व्याहृतिः स्मृता। भवन्ति भूयो भूतानि उपभोगक्षये पुनः। कल्पान्ते उपभागाय भुवस्तस्मात् प्रकीर्त्तिता। शीतोष्णवृष्टितेजांसि जायन्ते तानि वै सदा। आलयः सुकृतीनाञ्च स्वर्लोकः स उदाहृतः। अधरोत्तरलोकेभ्या महांस्तु परिपालितः। हृदयं सर्वलोकानां महस्तेन निगद्यते। कल्पदाहप्रलीनास्तु प्राणिनस्तु पुनः पुनः। जायन्ते तु पुनः सर्गे जनस्तेन निगद्यते। सन- काद्यास्तपःसिद्धा ये चान्ये ब्रह्मणः सुताः। अधिकार निवृत्ताश्च तिष्ठन्त्यस्मिंस्ततस्तपः। सत्यन्तु सप्तमो लोको ब्रह्मणस्तदनन्तरम्। सर्वेषाञ्चैव लोकानां मूर्ध्नि सतिष्ठते सदा। ज्ञानकर्मसु निष्ठानां तथा सत्यस्य भाषणात्। प्राप्यते चोपभोगार्थं प्राप्य न च्यवते पुनः। तत्सत्यं सप्तमो लोकस्तस्मादूर्द्ध्वं न विद्यते”।

व्युत्क्रम = पु० वि + उद् + क्रम–घञ्। १ क्रमवैपरीत्ये २ अतिक्रमे च हेमच०।

व्युत्थान = न० वि + उद् + स्था–ल्युट्। १ विराधकरणे २ स्वातिन्त्र्यकरणे मेदि० ३ प्रतिरोधने ४ योगशास्त्वाक्ते समाध्यवस्थाप्रच्यवे हेमच० ५ नृत्यभेदे शब्दच०। ६ विशेषेण उत्थाने च। वि + उद् + स्था–क्तिन्। व्युत्थितिरप्यत्र स्त्री।

व्युत्पत्ति = स्त्री वि + उद् + पद–क्तिन्। १ विशेषेण उत्पत्तौ शास्त्रजन्येशब्दार्थज्ञानादिसम्पाद्ये संस्कारभेदे ३ शब्दा० नामर्थावबोधकशक्तौ च।

व्युत्पन्न = त्रि० वि + उद् + पद–क्त। १ व्युत्पत्तियुक्ते शब्दे ततसंस्कारयुक्ते २ पुरुषे च। ३ विशेषेणोत्पन्ने च।

व्युदस्त = त्रि० वि + उद् + अस–क्त। निराकृते।

व्युदास = पु० वि + उद् + अस + घञ्। निराकरणे।

व्युष्ट = त्रि० वि + उष–क्त वा० इडभावः। १ दग्धे २ पर्युषिते ३ प्रभाते च ४ फले ५ दिवसे च न० हेमच०।

व्युष्टि = स्त्री वि + उष–क्तिन्। १ समृद्धौ २ स्तुतौ ३ फले च मेदि० व्युष्टित्रिरात्रं यागभेदः युक्तरोह्यादि।

व्यूढ = त्रि० वि + वह–क्त। १ निवेशनविशेषेण स्थापितेव्यूहयुक्ते सैन्यादौ “व्यूढां द्रुपदपुत्रेण” गीता। २ विन्यस्ते ३ सहते अमरः “व्यूढोरस्को वृषस्कन्धः” रघुः। ४ पृथुले त्रि० मेदि० ५ परिहिते ६ विवाहिते च त्रि० “व्यूढा काचन कन्यका” प्रबोधचन्द्रोदयः।

व्यूढकङ्कट = त्रि० व्यूढापरिहितः कङ्कटः वर्म येन। सन्नद्धकवचे अमरः।

व्यूत = त्रि० वि + वे–क्त। तन्तुभिर्ग्रथिते।

व्यूति = स्त्री वि + वे–क्तिन्। १ वस्त्रादिवपनकर्मणि २ तद्वेतने (वानि) पदार्थे अमरः।

व्यूह = पु० वि + जह–घञ्। १ समूहे २ निर्माणे च ३ सम्यकतर्के ४ देहे ५ सैन्ये ६ युद्धार्थं सैन्यसन्निवेशनविशेषे अमरः। “समग्रस्य तु सैन्यस्य विन्यासः स्थानभेदतः। स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम्। व्यूहभेदाश्च चत्वारो दण्डोभोगस्तु मण्डलम्। असंहतश्च निर्णीता नीतिसारादिसम्मताः। अन्येऽपि प्रकृतिव्यूहाः क्रौञ्च चक्रादयः क्वचित्। तिर्य्यग्वृत्तिश्च दण्डः स्याद् भोगोऽन्वावृत्तिरेव च। मण्डल सर्वतो वृत्तिः पृथग्वृत्तिरसं- हतः” शब्दर०। शुक्रनीतिसारे तद्भेदादिकमुक्तं यथा “नद्यद्रिवनदुर्गषु यत्र यत्र भयं भवेत्। सेनापतिस्तत्र यत्र तच्छेद् व्यूहकृतैर्वलैः। यायाद् व्यूहेन महता मकरेण पुरोभये। श्येनेनोभयपक्षेण सूच्या वा धीरवक्त्रया। पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसंज्ञकम्। सर्वतः सर्वतोभद्रं चक्रं व्यालमथापि वा। यथादेर्श कल्पयेद् वा शत्रुसेनाविभेदकम्। व्यूहरचनसङ्केतान् वाद्यभाषासमीरितान्। स्वसैनिकैर्विना कोऽपि न जःनीयात् तथाविधान्। नियोजयेच्च मतिमान् व्यूहान् नानाविधान् सदा। अश्वानाञ्च गजानाञ्च पदातीनां पृथक् पृथक्। उच्चैः संश्रावयेद् व्यूहसङ्केतान् सैनिकान् नृपः। वामदक्षिणसंस्थो वा मध्यस्थो वाऽग्रसंस्थितः। श्रुत्वा तान् सैनिकैः कार्य्यमनुशिष्टं यथा तथा। सम्मीलनं प्रसरणं परिभ्रमणमेव च। आकुञ्चनं तथा यानं प्रयाणमपयानकम्। पर्य्यायेण च साम्मुख्यं समुत्थानञ्च लुण्ठनम्। संस्थानं चाष्टदलचच्चक्रवद्गोलतुल्यकम्। सूचोतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा। पृथग्भवनमल्पाल्पैः पर्य्यायैः पङ्क्तिवेशनम्। शस्त्रास्त्रयोर्धारणञ्च सन्धानं लक्ष्यभेदनम्। मोक्षणञ्च तथाऽस्त्राणां शस्त्राणां परिधातनम्। द्राक् सन्धानं पुनः पातो ग्रहो मोक्षः पुनः पुनः। स्वगूहनं प्रतीघातः शस्त्रास्त्रपदविक्रमैः। द्वाभ्यां त्रिभिश्चतुर्भिर्वा पङ्क्तितो गमनं ततः। तथा प्राग्भवनं चापसरणं तूपसर्जनम्। अपसृत्यास्त्रसिद्ध्यर्थमुपसृत्य विमोक्षणम्। प्राग्भूत्वा मोचयेदस्त्रं व्यूहस्थः सैनिकः सदा। आसीनः स्याद्विमुक्तास्त्रः प्राग्वा चापसरेत् पुनः। प्रागासीनं तूपसृतो दृष्ट्वा स्वास्त्रं विमोचयेत्। एकैकशो द्विशो वापि सङ्घशो बोधितो यथा। क्रौञ्चानां खे गतिर्यादृक् पङ्क्तितः सम्प्रजायते। तादृक् सञ्चारयेत् क्रौञ्चव्यूहं देशबलं यथा। सूक्ष्मग्रीवं मध्यपुच्छं स्थूलपक्षन्तु पङ्क्तितः। वृहत्पक्षं मध्यगलपुच्छं श्येनं मुखे तनु। चतुष्पान्मकरो दीर्घस्थूलवक्त्रद्विरोष्ठकः। सूची सूक्ष्ममुखो दीर्घसमदण्डान्तरन्ध्रयुक्। चक्रव्यूहश्चैकमार्गो ह्यष्टधा कुण्डलीकृतः। चतुर्दिक्ष्वष्टपरिधिः सर्वतोभद्रसंज्ञकः। अमार्गश्चाष्टवलयी गोलकः सर्वतोमुखः। शकटः शकटाकारो व्यालो व्यालाकृतिः सदा। सैन्यमल्पं वृहद्वापि दृष्ट्वा मार्गं रण स्थलम्। व्यूहैर्व्यूहेन व्यूहाभ्यां सङ्करेणापि कल्पयेत”।

व्यूहपार्ष्णि = पु० ६ त०। युद्धार्थमवस्थानविशेषेण स्थितसैन्यानां पश्चाद्भागे अमरः।

व्यृद्धि = स्त्री विरुद्धा ऋद्धिः। विरुद्धसम्पत्तौ तत्रार्थे अव्ययो०। दुर्य्यवनम् यवनानां विरुद्धसम्पत्तौ सि० कौ०।

व्ये = स्यूनौ वृतौ च भ्वा० उभ० सक० अनिट यजा०। व्ययति ते अव्यासीत् अव्यास्त विव्याय विव्यतुः। क्तऊतः।

व्यो = अव्य० व्ये–डो। १ लौहे व्योकारः २ वीजे च

व्योकार = पु० व्यो + कृ–अण्। लौहकारके अमरः।

व्योमकेश = पु० व्योमैव केशो यस्य। शिवे महादेवे अमरः।

व्योमकेशिन् = पु० व्योमाकारः केशोऽस्त्यस्य इनि। महादेवे

व्योमचारिन् = पु० व्योम्नि चरति चर–णिनि। १ विहगे २ देवे ३ ग्रहनक्षत्रादौ च ४ आकाशगामिनि त्रि० व्योमचारिपुरं शौभनगरम्।

व्योमधूम = पु० व्योम्नः धूमैव नीलत्वात्। मेघे त्रिका०।

व्योमन् = न० व्ये–मनिन् पृषो०। १ आकाशे अमरः। २ अभ्रके (आव) राजनि०। ३ जले च ४ सूर्य्यार्च्चाश्रये मेदि०।

व्योममण्डल = न० व्याम मण्डलमिव। मण्डलाकारे १ आकाशे। व्योम्नो मण्डलमिव। २ पताकायाम् शब्दच०।

व्योममुद्गर = पु० व्योम्नोमुद्गर इव आथातहेतुत्वात्। गगनात् अकस्मादुत्थिते वायोर्निर्घाते हारा०।

व्योमयान = न० ७ त०। आकाशगमनयोग्ये वाहने विमाने अमरः।

व्योष = न० वि + उष–अच्। शुण्ठीमरीचपिष्पलीरूपे त्रिकटुनि अमरः।

व्रज = गतौ भ्वा० पर० सक० सेट्। व्रजति अव्राजीत्।

व्रज = संस्कारे गतौ च चु० उ० सक० सेट्। ब्राजयति ते अविव्रजत्।

व्रज = पु० व्रज–घञर्थे क। १ समूहे अमरः। २ गोष्ठे ३ पथि मेदि० मथुरासमीपस्थे देशभेदे च

मात्स्ये “व्रजमण्डलभूगोलं शेषनागफणाम्बरम्। कुमादाख्यं महाश्रेष्ठं सर्वेषां मध्यसंस्थितम्। तस्योपरिस्थितं लोकं सर्वस्थानं महाफलम्। कृष्णलीला विहारार्थमुच्चस्थानविराजितम्। चतुरष्टक ८४ क्रोशेन परिपूर्णविराजितम्। अस्य प्रदक्षिणां कुर्वन् धनधान्यसुखं लभेत्। दानार्च्चावासतो लोको विष्णुलोकमवाप्नुयात्। आवसन् म्रियते चेत्तु पुनर्जन्म न विद्यते। पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले। कृष्णेन निर्मितास्तीर्थाः सार्द्धद्वयसहस्रकाः”। तत्रादौ वनोपवन प्रतिवनाधिवनान्यष्टचत्वाविंशत् तानि चतुरष्टक्रोशपरिमाणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह। पाद्मे “वनानि द्वादशान्याहुर्यमुनोत्तरदक्षिणे। महावनं १ महाश्रेष्ठं वरं काम्यवनं २ शुभम्। कोकिलाख्यं तृतीयञ्च ३ तुर्य्यं तालवनं ४ तथा। पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६। नाम्ना छत्रवनं ७ श्रेष्टं स प्तमं परिकीर्त्तितम्। अष्टमं खदिरं ८ प्रोक्तं नवमं लीहजं वनम् ९। नाम्ना भद्रवर्न १० श्रेष्ठं दशमं बहुपुण्यदम्। एकादशं समाख्यातं बहुलावनसंज्ञकम् ११। नाम्ना विल्ववनं १२ श्रेष्ठं द्वादशं कामनाप्रदम्। इति द्वादशसंज्ञानि वनानि शुभदानि च”। द्वादशोपवनान्याह नाराहे “आदौ ब्रह्मवनं १ नाम द्वितीयं त्वप्स० रोवनम् २। तृतीयं विह्वलं ३ नाम कदम्बाख्यं ४ चतुर्थकम्। नाम्ना स्वर्णवनं ५ श्रेष्ठं पञ्चमं परिकीर्त्तितम्। सुरभीवननामा ६ पि षष्ठमाह्लादवर्द्धनम्। श्रेष्ठं प्रेमवनं ७ नाम सप्तमं शुभदं नृणाम्। मयूरवन नामा ८ पि चाष्टमं परिकीर्त्तितम्। मानेङ्गितवनं ९ श्रेष्ठं नवमं मानबर्द्धनम्। शेषशायिवनं १० श्रेष्ठं दशमं पापनाशनम्। एकादशं समाख्यातं नारदाख्यं ११ शुभोदितम्। द्वादशं परमानन्दवनं १२ सर्वार्थदायकम्। इति द्वादशसंज्ञानि वनान्युपवनानि च”। द्वादशप्रतिवनानि भविष्ये “आदौ रङ्गवनं १ श्रेष्ठं पुरसंज्ञाविराजितम्। वार्त्तावनं २ द्वितीयञ्च २ करहाटं ३ तृतीयकम्। चतुर्थं काम्यनामापि ४ वनं कामप्रदं नृणाम्। वनमञ्जननामापि ५ पञ्चमं स्त्रीशुभप्रदम्। नाम्ना कर्णवनं ६ श्रेष्ठं षष्ठं स्वप्नवरप्रदम्। कृष्णाक्षिपलकं ७ नाम वनं सप्तसमीरितम्। नन्दप्रेक्षणकृष्णाख्यं वनं नन्दन ८ मष्टमम्। वनमिन्द्रवनं ९ नाम नवमं कृष्णपूजितम्। शिक्षावनं १० शुभं प्रोक्तं दशमं नन्दभासितम्। चन्द्राबलीवनं ११ श्रेष्ठमेकादशमुदाहृतम्। नाम्ना लोहवनं १२ श्रेष्ठं द्वादशं शुभदं नृणाम्। इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे। इति द्वादशसंज्ञास्ते देवावासफलप्रष्टाः”। द्वादशाधिवनान्याह विष्णुपु० “मथुरा १ प्रयमं नाम राधाकुण्डं २ द्वितीयकम्। नन्दग्राम ३ स्तृतीयश्च गूढस्थानं ४ चतुर्थकम्। पञ्चमं ललिताग्रामं ५ वृषभानुपुर ६ ञ्च षट्। सप्तमं गोकुलं स्थान ७ मष्टमं बलदेवकम् ८। गोवर्द्धनवनं ९ श्रेष्ठं नवमं कामनाप्रदम्। वनं जाववटं १० नाम दशमं परिकीर्त्तितम्। मुख्यं वृन्दावनं ११ श्रेष्ठमेकादशं प्रकीर्त्तितम। सङ्केतवटकं १२ स्थानं वनं द्वादशं कीर्त्तितम्। इति द्वादशसज्ञानि वनान्यधिवनानि च। वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः। एषां नैव विलोकेन वनयात्रा च निष्फला एषाञ्च दर्शनेनैव वनयात्रा धुभप्रदा। आदौ लोलां यदा पश्येद्वनयात्रां ततश्चरेत्। सर्वान् कामानवाप्नोति विष्णुलोकमवाप्नुयात्। सर्वत्र विजयी भूयाद्वनयात्राप्रभावतः”।

व्रजनाथ = पु० ६ त०। श्रीकृष्णे व्रजपालादयोऽप्यत्र।

व्रजमोहन = पु० व्रजान् व्रजस्थान् माहयति मुह–णिच्–ल्यु। श्रीकृष्णे

व्रजवर = पु० व्रजानां तत्स्थानां वरः प्रार्थनोयः। श्रीकृष्णे।

व्रजवल्लभ = पु० ६ त०। श्रोकृष्णे।

व्रजाङ्गना = स्त्री ६ त०। व्रजस्य स्त्रियां गोप्याम्।

व्रज्या = स्त्री व्रज–क्यप्। १ पर्य्यटने २ गमने ३ जिगीषोर्युद्धार्थं प्रयाणे च अमरः।

व्रण = शब्दे भ्वा० पर० अक० सेट्। व्रणति अव्राणीत् अव्रणीत्।

व्रण = अङ्गक्षतौ अद० चु० उ० सक० सेट्। व्रणयति ते अवव्रणत् त

व्रण = पु० न० चु० व्रण–अच्। क्षते अमरः। तत्स्वरूपनिदानादि भावप्र० उक्तं यथा “व्रणो द्विधा परिज्ञेयो दोष जागन्तुभेदतः। दोषजो दुष्टदोषैः स्यादन्यः शस्त्रादिसम्भवः”। तत्र वातिकस्य लक्षणमाह “स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः। तद्युतः स्फुटितश्यावो व्रणो मारुतसम्भवः”। स्तब्धः अचलः। पैत्तिकमाह “तृष्णामोहज्वरक्लेददाहदुःखावदारणैः। व्रणं पित्तकृतं विद्यात् स्रावैर्मन्दैश्च पूतिकैः”। क्लेद आर्द्रता। दुःखं व्यथारूपम्। अवदारणं व्रणे विदारणवत् पीडा। श्लैष्मिकमाह “बहुपिच्छो गुरुः स्निग्वस्तिमितो मन्दवेदनः। पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफव्रणः”। बहुपिच्छः बहुपिच्छिलः। अल्प संक्लेद ईषदार्द्रः। रौधिरं द्वन्द्वजं सान्निपातिकमाह “रक्तो रक्तस्रुतीरक्ताद् द्वित्रिजः स्यात् तदन्वयः”। तदन्वयः द्वित्रिदोषलिङ्गसम्बन्धः। शुद्धव्रणलिङ्गमाह “जिह्वातलाभोऽतिमृदुः स्वस्थः स्निग्धोऽल्पवेदनः। सुव्यवस्थो निरास्रावः शुद्धव्रण इति स्मृतः। जिह्वातलाभः तलशब्दोऽत्र स्वरूपार्थः तेन जिह्वावद्रक्तः। सुव्यवस्थः उच्छूनतारहितः। दुष्टव्रणनिङ्गमाह “पूतिपूयादिदुष्टासृक्स्राव्यूतसङ्गी चिरस्थितिः। दुष्टव्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्य्ययः”। उत्सङ्गी कोटरवान्। अतिगन्धादिः आदिशब्देन स्राववेदनाविवर्णतादयः संगृह्यन्ते। संरोहिव्रणस्य लिङ्गमाह “कपोतवर्णप्रतिमा यस्यां तालोदवर्जिताः। स्थिराश्च पिडका- वन्तो रोहन्तीति तमादिशेत्”। कपोतवर्णप्रतिमः पाण्डुघूसरः। स्थिराः विदीर्णतारहिताः। पिडकावन्तः संरोहणार्था ये मांसाङ्कुरास्तद्युक्ताः। संरूढलिङ्गमाह “रूढवर्त्मानमग्रन्थिमशूलमरुजं व्रणम्। त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत्”। रूढवर्त्मानं संरूढस्रावमार्गम्। समतलं अनिम्नम्। सुखसाध्यत्वादिकमाह “त्वङ्मांसजः सुखे देशे तरुणस्यानुपदुवः। धीमतोऽभिनवः काले सुखे साध्यः सुखव्रणः”। सुखे देशे मर्मरहिते। अनुपद्रवः ज्वरतृष्णा श्वासकासारोचकादिरहितः। धीमतः पथ्यसेविनः। सुखे काले हेमन्ते शिशिरे च। “गुणैरन्थतरैरेभिर्हीनः कृच्छो व्रणः स्मृतः। सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो निरुपक्रमः”। एभिस्त्वङ्मांसजत्वादिभिः। निरुपमक्रमः अनुपक्रान्तः चिरमुपेक्षित इति यावत्। “वसामेदोऽथमज्जानं मस्तुलिङ्गञ्च यः स्रवेत्। आगन्तुजो व्रणः सि ध्येन्न सिध्येद्दोषसम्भवः”। मस्तुलिङ्गं मस्तुकाभ्यन्तरस्नेहः “कुष्ठिनां विषजुष्टानां शौषिणां मधुमेहिनाम्। व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणः”। अरिष्टमाह “दह्यन्ते चान्तरत्यर्थं वहिःशीताश्च ये ब्रणाः। दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः। प्राणमांसक्षयश्वासकासारोचकपीडिताः। प्रवृद्धपूयरुधिरा व्रणा ये चापि मर्मसु। क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः। चिकित्सेन्नैव तान् वैद्यः संरक्षन्नात्मनो यशः। मद्यागुर्वाज्यसुमनः पद्मचन्दनचम्पकैः। सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः”। मर्मसु पायुनाभिहृदयादिषु। सुमना जातिः। दिव्यगन्धाः पारिजातादिगन्धाः। अथागन्तुव्रणस्य निदानमाह “नानाधारामुखैः शस्त्रैर्नानास्थान निपातितैः। भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे”। नाना धारा मुखानि येषां तैः शस्त्रैः अर्द्धचन्द्र खङ्गभल्लकुन्तशूलशरादिभिः। नानाकृतयः षडाकृतयः। ता आकृतीराह “छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च। घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्”। तत्र छिन्नस्य लक्षणमाह “तिर्य्यक्किन्न ऋजुर्वापि यो व्रणस्त्वायतो भवेत्। गात्रस्य पातरं तद्धि छिन्नमित्यभिधीयत”। यो व्रणः तिर्य्यक्छिन्नः खड्गादिकृततिर्य्यक्छेदयुतः। ऋजुर्वापि अथवा खड्गादिकृतरक्तो व्रणः आयतः दीर्घः। आयत इति तिर्य्यक्छिन्नस्य ऋजोश्च विशेषणम्। गात्रस्य पातन गात्रस्यैकदेशस्य छेदेन पृथक्करणं वा छिन्नमित्यभिधीयते। भिन्नमाह “शक्तिकुन्तेषुखड्गाग्रविषाणैराशयो हतः। यत् किञ्चित् प्रसरेत्तद्धि भिन्नमित्यभिधीयते”। आशयः कोष्ठः। कोष्ठभेदस्य लक्षणमाह “स्थानान्यनग्निपक्वानां मूत्रस्य रुधिरस्य च। हृदुण्डुकः फुफुसश्च कोष्ठ इत्यभिधीयते। तस्मिन् भिन्ने रक्तपूर्णे ज्वरोदाहश्च जायते। मूत्रमार्गगुदास्येभ्यो रक्तं थ्राणाच्च गच्छति। मूर्च्छा श्वासस्तृषाध्मानमभक्तच्छन्द एव च। विण्मूत्रवातसङ्गश्च स्वेदश्यावोऽक्षिरक्तता। लोहगन्धि त्वमास्यस्य गात्रदौर्गन्ध्यमेव च। हृदि शूलं पार्श्वयोश्च विशेषश्चाभिधीयते”। तस्मिन् कोष्ठे। मिन्ने शक्त्यादिभिः। रक्तपूर्णे कोष्ठे तस्मादङ्गाद्भिन्नात् स्रुतेन रक्तेन पूर्णे वा ज्वरादयो जायन्ते। आमाशये पक्वाशये च रक्तपूर्णे लक्षणभेदमाह “आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि। आध्मानमतिमात्रञ्च शूलञ्च भृशदारुणम्। पक्वाशयगते रक्ते रुजा गौरवमेव च। अधःकाये विशेषेण शीतता च भवेदिह”। रुजाशूलम्। गौरवं पक्वाशये। अधःकाये नाभेरधोदेशे विशेषेण गौरवमित्यन्वयः। शीतता च भवेदिह इह नाभेरधोदेशे शीतता च स्यात् सा च व्याधिस्वभावात्। विद्धमाह “सूक्ष्मास्यशल्याभिहतं पदं गत्वाशयं विना। उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्”। आशयं विना कोष्ठं विना। उत्तुण्डितं अनिर्गतशल्यम्। निर्गतं वा निर्गतशल्यं वा। सशल्यस्य व्रणस्य लक्षणमाह। “श्यावं सशोथं पिडकायुतञ्च मुहुर्मुहुःशोणितवाहनञ्च। मृदूद्गतं बुद्बुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति”। मुहुर्मुहुःशोणितवाहनं यदा यदा शल्यं चलितं तदा तदा रुधिरं वहति। उद्गतं उत्थितमुखम्। कोष्ठस्थितस्य शल्यस्य लक्षणमाह “त्वचोऽतीत्य सिरादीनि भित्त्वाङ्गं परिहृत्य वा। कोष्ठे प्रतिष्ठितं शल्यं कुर्य्यादुक्तानुपद्रवान्”। त्वचः सप्तापि अतिक्रम्य उक्तानुपद्रवान् आटोपानाहौ व्रणमुखेनात्र पुरीषदर्शनञ्च। असाध्यस्य कोष्ठस्थरक्तस्य पुरोषस्य लक्षणमाह “कोष्ठान्तर्ल्लोहितं पाण्डु शीतपादकराननम्। शीतोच्छासं रक्तनेत्रमानद्धञ्च विवर्जयेत्”। आनद्धं आनाहवन्तम्। क्षतमाह “नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्विनम्। विषमं व्रणमङ्गे यत्तत् क्षतं परिकी- र्त्तितम्”। नातिच्छिन्नं नातिदीर्घघातम्। नातिभिन्नं नातिगम्भीरघातम्। उभयोश्छिन्नभिन्नयोः विषमं प्रणमङ्गे यत् यद्व्रणमङ्गवैषम्यकरम्। पिच्चितमाह “प्रहारपीडनाभ्यान्तु यदङ्गं पृथुतां गतम्। सास्थि तत् पिच्चितं विद्याद्रक्तमज्जपरिप्लुतम्”। प्रहारो मुद्गरादिना। पीडनं कपाटादिना। पृथुतां चिपिटताम्। घृष्टमाह “घर्षणादपि घाताद् वा यदङ्गं विगतत्वचम्। ऊष्मस्रावान्वितं तत् तु घृष्टमित्यभिधीयते। घर्षणात् कर्कशेष्टिकापाषाणादिभिः। मांस सिरास्नायुसन्ध्यस्थिमर्मसु क्षतेषु सामान्यलक्षणमाह “भ्रमः प्रलापः पतनं प्रगोहो विचेष्टनं ग्लानिरथोष्णता च। स्रस्ताङ्गता मूर्च्छनमूर्द्ध्ववातस्तीव्रा रुजो वातकृताश्च तास्ताः। मांसोदकाभं रुधिरञ्च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव। दशार्द्धसंख्येष्पथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम्”। पतनं भूमौ। विचेष्टनं विरुद्धं चेष्टनं हस्तपादादिप्रक्षेपणादिकम्। मूर्च्छनं इन्द्रियमोहः। प्रमोहो मनोमात्रमोहः। तीव्रा रुजो वातकृताश्च तास्ताः दण्डापतानकादयः। रुधिरञ्च ग च्छेत् मेहनभगगुदास्यघ्राणेध्यः स्रवेत्। सर्वेन्द्रियार्थो परमः इन्द्रियाणां कार्य्यनाशः। अथ मर्मसिरास्नायुसन्ध्यस्थ्नां विद्धानां पृथग्लक्षणमाह “सुरेन्द्रगोप प्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः। करोति रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु”। सुरेन्द्रगोपो वार्षिकोत्थितकीटविशेषः। (वीरबहुटी) इति लोके पुसिद्धः। प्रभूतं बहु। रोगान् शिरोभितापान्धताक्षवकादीन्। विद्धासु शरादिना। क्षतान् खड्गादिना। “कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजा च। चिराद् व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं वदन्ति। कौब्ज्यं विद्धस्याङ्गस्य वक्रता। तुमुला महती”। “शोथातिवृद्धिस्तुमुलारुजश्च बलक्षयः सर्वत एव शोथः। क्षतेषु सन्धिष्वचलाबलेषु स्यात् सन्धिकर्मोपरमश्च लिङ्गम्”। सर्वत एव शोथः सर्वसन्धीन् व्याप्य शोथः। उपरमः नाशः। “घोरारुजो यस्य निशादिनेषु सर्वास्ववस्थासु न चैति शान्तिम्। भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं प्रवक्ति”। सर्वास्वरस्थासु शयनासनादिकासु। विदितार्थसूत्रेः ज्ञातशल्यतन्त्रः। अथ ममेषिरादि विद्धलिङ्गानि पृथगभिधाय सर्मसिरादीनां विद्धानां पृ- थक्लिङ्गान्थतिदेशेनाह “यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वपि ताडितेषु”। यथास्वं सिरादीनां विद्धानाम् एतानि लिङ्गानि पृथगुक्तानि लिङ्गानि चकारात् भ्रमप्रलापादीनि च। मर्मस्विव सिरादिषु ताडितेषु विद्धेषु विभावयेत् जानीयात्। सर्वव्रणानामुपद्रवानाह “विसर्पः पक्षघातश्च सिरास्तम्भाऽपतानकः। मोहोन्मादौ ब्रणे पीडा ज्वरस्तृष्णाहनुग्रहः। कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः। षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः”। अथाग्निदग्धस्य निदानमाह “तत्राग्निर्द्विविधो ज्ञेवः स्नेहरूक्षप्रभेदतः। स्नेहस्तत्र तु तैलादि रूक्षं लौहादिकथ्यते”। अग्निदग्धं चतुर्विधमाह “अग्निदग्धं चतुर्द्धा स्यात् प्लुष्टं दुर्दग्धमेव च। सम्यग्दग्धं तथातीव्रदग्धञ्च परिकीर्त्तितम्”। तेषां लक्षणभाह “यद्विवर्णमतिप्लुष्टं तत्प्लुष्टमभिधीयते। तीव्रदाहो व्यथावन्तो यत्र स्फोटा भवन्ति हि। चिरेण ते प्रशाम्यन्ति तद्दुर्दग्धमुदाहृतम्। ताम्रवर्णमगम्भीरं दाहपीडासमन्वितम्। सुसस्थितञ्च कथितं सम्यगदग्धं भिषग्वरैः। त्वङ्मांसं यत्र दग्धं स्याद्विश्लेषो वपुषस्तथा। सिरास्नाय्वस्थिसन्धीनां तं वदन्त्यतिदग्धकम्। अत्यर्थं वेदनादाहो ज्वरस्तृण्मूर्च्छया सह। स्याद् व्रुणस्तु चिराद् रोहेत् रूढो याति विवर्णताम्”। दुष्टव्रणनाडी व्रणशब्दयोस्तद्भेदौ दृश्यौ। व्रणशब्दनिरुक्तिः सुश्रुते उक्ता यथा “वृणोति यस्माद्रूढोऽपि व्रणवांस्तु न नश्यति। आदेहधारणात्तस्मात् व्रण इत्युच्यते बुधैः”। सुश्रुतोक्ता विशेषाः द्विव्रणशब्दे व्रणास्रावशब्दे च दृश्याः।

व्रणकृत् = पु० व्रणं करोति कृ–क्विप्। १ मल्लातके रत्नमा०। २ व्रणकारके त्रि०।

व्रणद्विष् = पु० व्रणं द्वेष्टि द्विष–क्विप्। १ ब्राह्मणयष्टिकायाम् २ व्रणघातके त्रि०।

व्रणशोथ = पु० ६ त०। व्रणस्य स्फीतताकारके रोगभेदे तल्लक्षणादि भावप्र० उक्तं यथा “पृथक् समस्तदोषोत्था रक्तजागन्तुजौ तथा। व्रणशोथाः षडेते स्युः संयुक्ताः शोथलक्षणैः” शीथलक्षणैः पूर्वोक्तैः। विशिष्टं रूपमाह “विषमं पच्यते वातात् पित्तोत्थश्चाचिरञ्चिरम्। कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवौ”। अपक्वस्य व्रणशोथस्य लक्षणमाह “मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता। मन्दवेदनया चाऽपि शोथस्यासस्य लक्षणम्”। तस्य पच्यमानस्य लक्षणमाह “द- ह्यते दहनेनेव क्षारेणेव प्रपच्यते। पिपीलिकागणेनेव दश्यते छिद्यते तथा। भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते। पीड्यते पाणिनेवान्तःसूचीभिरिव तुद्यते। ऊषचोषी विवर्णः स्यादङ्गुल्येवावपीड्यते। आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत्। न गच्छेदाततः शोथो भवेदाध्मातवस्तिवत्। ज्वरस्तृष्णाऽरुचिश्चैतत् पच्यमानस्य लक्षणम्”। छिद्यते द्विधा क्रियत इव। भिद्यते विदार्य्यत इव। ऊषोदाहः। चोषः पार्श्वस्थाग्निनेव सन्तापः ताभ्यां युक्तः आततः त्वक्सङ्कोचरहितः वस्तिर्मूत्राशयश्चर्मपुटो वा। पक्वस्य लक्षणमाह “वेदनोपशमः शोथो लोहितोऽल्पो न चोन्नतः। प्रादुर्भावो वलीनाञ्च तोदः कण्डूर्मुहुर्मुहुः। उपद्रवाणां प्रथमो निम्नता स्फुटनन्त्वचाम्। वस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङ्गुलिपीडिते। पूयश्च पीडयेदेकमन्तमन्ते च पी डिते। बुभुक्षा व्रणशोथस्य भवेत् पक्वस्य लक्षणम्”। वेदनोपशमः दाहादिदुःखोपशमः। अल्पलोहित इत्यन्वयः। न चोन्नतः पच्यमानापेक्षया। उपद्रवाणा ज्वरादीनाम्। निम्नता स्वरूपतोऽङ्गुलिपीडनाद्वा अवनतत्वम्। स्फुटनम् किञ्चिद्विदारणम्। वस्ताविवेत्यादि शोथेऽङ्गुलीपीडिते सति अङ्गुलिपीडितदेशादन्यदेशे अम्बुसञ्चारः किञ्चित्। वस्तौ चर्मपुटके। एवम् अन्यैकदेशे पीडिते एक मन्तमपरमन्तमापूर्य पीडयति। एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्ध माह “ऋतेऽनिलान्नोष्म विना न पित्तं पाकः कफञ्चापि विना न पूयः। तस्माद्धि सर्वे परिपाककाले पचन्ति शोथास्त्रिभिरेव दोषैः”। पचन्ति पाकं प्राप्नुवन्ति। एवशब्दोऽत्राप्यर्थः अव्ययानामनेकार्थत्वात्। पाके मतान्तरमाह “कालान्तरे नाभ्युदितन्तु पित्तं कृत्वा वशे वातकफौ प्रसह्य पचत्यतः शोणितमेष पाको मतः परेषां विदषां द्वितीयः”। वशे कृत्वा हीनीकृत्य शोणितं कर्म पूर्वत्र कफात् पूयोऽत्र शोणितात् पूय इति भेदः। गम्भीरपाके शोथे पाकज्ञानार्थलक्षणान्तरमाह सुश्रुतः “कफजेषु च शोथेषु गम्भीरं पाकमेत्यसृक्। पक्वलिङ्गं ततः स्पष्टं यतः स्याच्छोथशीतता। त्वक्सावर्ण्यं रुजोऽल्पत्वं घनस्पर्शत्वमश्मवत्”। कफजेषु च शोथेषु गम्भीरमसृक् पाकमेति तत्र कथं पाकज्ञानमित्याह तत्र ततः कारणात् पक्वलिङ्गं स्पष्टम्। यतः पच्यमानावस्थान्तर्गतरागदाहव्यथाघनान्तरे शोथ शीतादयो भवन्ति। घनस्पर्शत्वं स्पर्शे व्यथायुतत्वम्। अनिर्हतस्य पूयस्य दीषमाह “कक्षं समासाद्य यथैव वह्निर्वातरितः सन्दहति प्रसह्य। तथैव पूवोह्यविनि सृतस्तु मांसं सिराः स्नायुमपीह खादेत्”। कक्षं तृणवनम्। शोथस्यामपक्वलक्षणज्ञानाज्ञाने भिषजां गुणदोषावाह “आमं विदह्यमानञ्च सम्यक्पक्वन्तु यो मिषक्। जानीयात् स भवेद् वैद्यः शेंषास्तस्करवृत्तयः”। विदह्यमानं विपच्यमानम्। तस्करवृत्तयः तेषां तस्कराणामिव द्रव्यलाभमात्रप्रयोजनं भवति। न तु धर्मयशोमैत्रीलाभः “यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते। श्वपचाविव विज्ञेयौ तावनिश्चित्यकारिणौ”।

व्रणास्राव = पु० ६ त०। सुश्रुतोक्ते व्रणस्य पूयादिक्षरणे। तद्विज्ञानं च तत्रोक्तं यथा “अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः। “त्वङ्मांससिरास्नःय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणस्थानानि। अत्र सर्वव्रणसन्निवेशः। तत्राद्यैकवास्तुसन्निवेशो त्वग्भेदी व्रणः सूप्रचरः शेषाः स्वयमवदीर्य्यमाणा दुरुपचाराः। तन्नायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः। शेषास्तु विकृताकृतयो दुरुपक्रमा भवन्ति। सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः। अनात्मनामज्ञैश्चोपक्रान्ताः प्रवृद्धत्वाद्दोषाणाम्। तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिपूर्णः पूतिपूयस्राय्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशोथपिडकोपद्रुतोऽत्यर्थं दुष्टशीणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि। तस्य दोषोच्छ्रायेण षट्त्वं विभज्य यथास्वं प्रतीकारे प्रयतेत। अत ऊर्द्ध्वं सर्वास्रावान् वक्ष्यामः। तत्र वृष्टासु छिन्नासु वा त्वक्षु स्फोटेषु भिन्नेषु विदारितेषु वा सलिलप्रकाशो भवत्यास्नावः किञ्चिद्विस्रः पीतावभासश्च। मांसगतः सर्पिः प्रकाशः सान्द्रः श्वेतः पिच्छिलश्च। सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडी भिरिव तोयागमनं पूयस्यास्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलन्वो श्यावोऽवश्यायप्रतिमश्च। स्नायुगतः स्निग्धो घनः सिंहाणकप्रतिमः सरक्तश्च। अस्थिगतोऽस्थून्यभिहते स्फुटिते मिन्ने दोषावदारिते वा दोषाव- क्षितत्वादस्थिनिःसारं शुक्तिधौतमिवाभाति। आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च। सन्धिगतश्च पीड्यमानो न प्रवर्त्तते आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति। आस्रावश्चात्र पिच्छिलोऽवलम्बी सफेनपूयरुधिरोन्मथितश्च। कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि स्रवति। मर्मगतस्त्वगादिष्ववरुद्धत्वान्नाच्यते। तत्र त्वगादिगतानामास्रावाणां यथाक्रमं पारुष्यश्यावावश्यायदधिसस्तुक्षारोदकमांसधावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति। पित्ताद्गोमेदोगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि। पित्तवद्रक्तादतिविस्रत्वञ्च। कफान्नवनीतकासीसमज्जपिष्टतिलनारिकेलोदकवराहवसासन्निमत्वानि। सन्निपातात्तिलनारिकेलोदकेर्वारुकरसकाञ्जिकवसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति। “श्लोकौ चात्र भवतः। पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः। क्षारोदकनिमः स्रावो वर्ज्यो रक्ताशयात्स्रवन्। आमाशयात्कलायाम्भोनिभश्च त्रिकसन्धिजः। स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक्”। अत ऊर्द्ध्वं सर्वव्रणवेदना वक्ष्यामः। तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपणचुम्चुमायननिर्दहनावभञ्जनस्थोटनविदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणपूरणस्तम्भनस्वप्नावकुञ्चनाङ्गुशिकाः सम्भवन्ति। अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात्। ऊपचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसक्तिवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात्। पित्तवद्रक्तसमुत्थं जानीयात्। कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात्। यत्र सर्वासां वेदनानां समुत्पत्तिस्तं सान्निपातिकमिति। अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्यामः। भस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजौक्तः। नीलः पीतो हरितः श्यावः कृष्णो रक्तः कपिल इति रक्तपित्तसमुत्थयोः। श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य। सर्ववर्णोपेतः सान्निपातिकस्य इति। भवति चात्र “न केवलं व्रणेषूक्तो वेदनावर्णसंग्रहः। सर्वशोथविकारेषु व्रणवल्लक्षयेद्भिषक्”।

व्रणह = पु० व्रणं हन्ति हन–ड। १ एरण्डवृक्षे २ गुडूच्याम् वी शब्दच०।

व्रणाश = पु० व्रणमश्नाति अश–अण्। १ वोले गन्धरसे २ अगख्यवृक्षे च राजनि०।

***