वेर = न० अज–रन् बीभावः। १ देहे २ वार्त्ताकौ ३ कुङ्कुमे च अमरः। संज्ञायां कन्। ४ कर्चूरे हारा०।

वेल = चालने भ्वा० पर० सक० सेट्। वेलति अवेलीत्। ऋदित् चङि न ह्रस्वः।

वेल = कालोपदेशे अ० चु० उ० अक० सेट्। वेलयति ते अविवेसत् त।

वेल = न० वेल–अच्। १ उपवने हेमच०। २ काले समये ३ मर्य्यादायां ४ समुद्रकूले च स्त्री “वेलामूले विभावरी परिहीणा” भट्टिः। ५ होरात्मके कालभेदे “चतुर्विंशति वेलाभिरहोरात्रं प्रचक्षते” अग्निपु०। ६ समुद्रजलवि कारे ७ अक्लिष्टमरणे ८ खगे ९ ईश्वरभोजने च मेदि० अस्योष्ट्यादित्वमित्यन्ये अत्रार्थे।

वेलाकूल = न० तामलिप्तदेशे त्रिका०।

वेल्ल = चालने भ्वा० पर० सक० सेट् ऋदित् अङि न ह्रस्वः। वेल्लति अवेल्लीत्।

वेल्ल = पु० न० वेल्ल–अच्। १ विडङ्गे अमरः। घञ्। २ चलने पु०

वेल्लज = पु० वेल्ल–अच्–तथाभूतः सन् जायते जन–ड। मरिचे अमरः।

वेल्लन = न० वेल्ल–ल्युट्। १ अश्वादेर्भूमौ लुण्ठने २ काष्ठनिर्भिते पदार्थे (वेलुत) भावप्र० ३ मालादूर्वायां स्त्री राजनि०।

वेल्लन्तर = पु० वेल्लं तरति तॄ–अच्। वीरतरो “वेल्लन्तरोज तति वीरतरुः प्रसिद्धः श्वेतासितारुणविलोहितनील- पुष्पः। स्याज्जातितुल्यकुसुमः शमिसूक्ष्मपत्रः स्यात्कण्ठकी च जलदेशज एष वृक्षः। वेल्लन्तरो रसे पाके तिक्तस्तृष्णाकफापहः। मूत्राघाताश्मजित् ग्राही योनि मूत्रानिलार्त्तिहृत्” भावप्र०।

वेल्लहल = पु० वेल्लं ह्वलयति ह्वल–अच्–पृषो०। केलिनागरे जटा०।

वेल्लि = स्त्री वेल्ल–इन्। लतायां शब्दर०।

वेल्लित = न० वेल्ल–भावे क्त। १ गमने मेदि०। कर्त्तरि क्त। २ कम्पिते ३ कुटिले च त्रि० अमरः।

वेल्लि(ल्ली) = स्त्री वेल्ल–इन् वा ङीप्। लतायाम् शब्दच०। संज्ञायां कन् वेल्लका। (वेलसुठ) वृक्षे शब्दच०।

वेवी = कान्तौ गतौ व्याप्तौ क्षेपे भोजने च सक० प्रजनने अक० अदा० आत्म० सेट् जक्षादि० वैदिक एवायम्। वेवीते अवेविष्ट। अस्य क्वचिदपि गुणवृद्धी न स्तः।

वेश = पु० विश–घञ्। अलङ्कारादिना कृतरूपान्तरे १ नेपथ्ये च कर्मणि अमरः। २ वेश्यागृहे ३ गृहमात्रे मेदि० ४ प्रवेशे

वेशधारिन् = पु० वेशं धारयति धृ–णिनि। छलेन रूपान्तरधारिणि १ छद्मतपस्विप्रभृतौ शब्दच०। २ वेशकारके नटादौ च।

वेशन्त = पु० विश–झच्। १ क्षुद्रसरोवरे अमरः। २ अग्नौ उणादि०।

वेशर = पु० वेशं राति रा–क। अश्वतरे त्रिका०।

वेश्मन् = न० विश–मनिन्। गृहे अमरः।

वेश्मभू = स्त्री ६ त०। गृहकरणयोग्ये स्थाने अमरः।

वेश्य = न० विश–ण्यत् वेशाय हितं वा यत्। १ वेश्यालये मेदि० २ पाठायाम् (आकनादि) ३ वारयोषिति च स्त्री अमरः। “पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता। तृतीये वृषली ज्ञेया चतुर्थे पुंश्चली स्मृता। वेश्या च पञ्चमे षष्ठे जुङ्गी च सप्तमेऽष्टमे। तत ऊर्द्ध्वं महावेश्या साऽस्पृश्या सर्वजातिषु। यो द्विजः कुलटां गच्छे वृषलीं पुंश्चलीमपि। जुङ्गीं वेश्यां महावेश्यामवटोदं प्रयाति सः। शताव्दं कुलटागामी धृष्टागामी चतुर्यु षम्। षड्गुणं पुश्चलीगामी वेश्यागामी गुणाष्टकम्। जुङ्गीगामो दशगुणं बसेत्तत्र न संशयः। महावेश्या गामुकश्च ततः शतगुणं वसेत्। तदेव सर्वगामो चेत्येवमाह पितामहः। तत्रैव यातनां भुङ्क्ते यमदूतेन ताडिः त तित्तिरिः कुलटागामी धृष्टागामी च वायसः। काकिलः पुं श्चसीगामो वेश्यानामी वृकस्तथा। जुङ्गी गाना शूकरश्च सप्तजन्मस भारते। महावेश्यामामुकश्च जायते शाल्मलिस्त्ररुः” ब्रह्मवै० प्र० ख० २८ अ

वेष = पु० विष–अच् घञ् वा। भूषणादिना १ रूपान्तरकरणे २ वेश्याजनालये च भरतः।

वेषण = पु० विष–करणे ल्युट्। १ कासमर्दे (कालकासुन्दे) हारा०। २ धन्याकवृक्षे स्त्री रत्नमा०।

वेष्ट = वेष्टने भ्वा० आत्म० स क० सेट्। वेष्टते अवेष्टिष्ट। चङि तु अवि(व)वेष्टत् त।

वेष्ट = पु० वेष्ट–घञ् अच् वा। १ वेष्टने २ श्रीयेष्टे राजनि० ३ वृक्षनिर्यासे च (आटा) वैद्यकम्।

वेष्टक = न० वेष्ट–ण्वुल्। (पागडी) १ उष्णीषे शब्दर०। २ कुष्माण्डे राजनि०। ३ प्राचीरे पु० हेमच०। ४ वेष्टनकारके त्रि०।

वेष्टन = न० वेष्ट–करणे ल्युट्। १ कर्णशष्कुल्याम् २ उष्णीषे २ मुकुटे च ४ गुग्गुलौ शब्दच०। भावे ल्युट्। ५ वृतौ मेदि०।

वेष्टवंश = पु० वेष्ट–अच् कर्म०। (वेडवा~श) वंशभेदे शब्दच०।

वेष्टसार = पु० वेष्टस्य सारः। श्रीवेष्टे राजनि०।

वेष्टित = त्रि० वेष्ट–क्त। प्राचोरादिना १ आवृते अमरः। २ रुद्धे ४ लासके ५ करणान्तरे न० मेदि०।

वेस = गतौ भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। वेसति अवेसीत्।

वेसन = न० वेस–ल्युट्। “दालयश्चणकानान्तु निस्तुषा यन्त्रपेषिताः। तच्चूर्णं वेसनं प्रोक्तम्” इत्युक्ते १ चणकादिद्विदलचूर्णे २ गमने च।

वेसर = पु० वेस–अरन्। अश्वतरे हेमच०।

वेसवार = पु० वेसं वारयति वृ–अच्। (वाटना) पिष्टधन्याकसर्षपादौ अमरः। “निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम्। कृष्णमरिचसंयुक्तं वेसवार इति स्मृतम्” इत्युक्ते २ भक्ष्यभेदे अस्य गुणाः “वेसवारो गुरुः स्निग्धो बलोपचयवर्द्धनंः” राजवल्लभः। अस्य शमध्यत्वं षमध्यत्वं वा रायमुकुट आह।

वेह = यत्ने भ्वा० आत्म० अक० सेट् चङि न ह्रस्वः। वेहते अवेहिष्ट।

वेहत् = स्त्री वि + हन अति नलापः। गर्भोपघातिन्यां स्त्रियाम् अमरः। जात्मा समासे परनि०। गोवेहत् सि० कौ०

वेहार = पु० वि + हृ–घञ् पृषो०। स्वनामख्याते देशभेदे

वेह्ल = गतौ भ्वा० पर० सक० सेट्। वेह्लति अवेह्लीत् चङि न ह्रस्वः

वै = शोषे भ्वा० पर० सक० सेट् अनिट्। वायति अवासीत्। ओदित् निष्ठातस्य नः। वानः निर्वाणः।

वै = अव्य० वा–डै। १ पादपूरणे २ अनुनये ३ सम्बोधने अमरः।

वैकक्ष = न० विशेषेण कक्षति व्याप्नोति अण्। तिर्य्यक्कक्षावलम्बिनि हारभेदे हेमच०। वुन्। वैकक्षक उरसि अपवीताकारेण धृते माल्यभेदे अमरः।

वैकङ्कत = पु० विकङ्कत + स्वार्थेऽण्। (वै~चि) १ वृक्षभेदे। तस्येदमण्। २ विकङ्कतसम्बन्धिनि त्रि०।

वैकल्पिक = त्रि० विकल्पेन प्राप्तः तत्र भवो वाठक्। १ पक्षप्राप्ते २ पक्षभवे च।

वैकल्य = न० विकलस्य भावः ष्यञ्। विकलत्वे।

वैकुण्ठ = पु० विकुण्ठायां भवः अण् विविधा कुण्ठा माया यस्य स्वार्थेऽण्वा। १ विष्णौ २ इन्द्रे मेदि०। ३ सितार्जके राजनि० “चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः। विकुण्टायामसौ जज्ञे दैवतैः सह” विष्णुपु० “विविधा कुण्ठा गतेः प्रतिहतिस्तस्याः कर्त्ता इति वैकुण्ठः। जगदारम्भे विशिष्टानि भूतानि परस्परं संश्लेषयन् तेषां गतिं प्रत्यबघ्नादिति वा वैकुण्ठः। “माया संश्लेषिताभूमिरद्भिर्व्योम्ना च वायुना। वायुश्च तेजसा सार्द्धं बैकुण्ठत्वं ततो मम” भा० शान्तिप०। विष्णुस० भा०। “कुण्ठं जडञ्च विश्वौघं विशिष्टञ्च करोति या। विकुण्ठां प्रकृतिं वेदाश्चत्वारश्च वदन्ति ताम्। गुणाश्रयेन भगवान् तस्यां जातः स्वसृष्टये। परिपूर्णतमं तेन वैकण्ठञ्च विदुर्बुधाः”। ४ विष्णुधामभेदे “उपरिष्टात् क्षितेरष्टौ कोठयः सत्यमीरितम्। सत्यादुपरि वैकुण्ठो योजनानां प्रमाणतः। भूर्लोकात् परिसंख्यातः कोटिरष्टादश प्रभो!। यत्रास्ते श्रीपतिः साक्षात् सर्वेषामभयप्रदः” पद्मपु० स्व० ६ अ०।

वैकृत = न० विकृतस्य भावः अण्। १ विकारे २ वीभत्सरसे तदा लम्बनमांसशोणितादौ विकृतित आगतः अण्। ३ विकृतितो जाते त्रि० “वैकृतास्तु तथा देवाः”।

वैक्रान्त = न० स्वार्थे अण्। मणिभेदे विक्रान्तशब्दे दृश्यम्।

वैखरी = स्त्री विशेषेण खं राति रा–क स्वार्थे अण्। अर्थबोधके कण्ठादिषूच्चार्य्यमाणे वर्णात्मके शब्दविशेषे। वर्णशब्दे ४८५० पृ० दृश्यम्।

वैखानस = पु० वि + खन–ड अन–असुन् कर्म० स्वार्थे अण्। वानप्रस्थे तापसभेदे “वैखानसेभ्यः श्रुतरामवार्त्ताः” भट्टिः

वैगुण्य = न० विगतो विरुद्धो वा गुणोऽस्य तस्य भावः ष्यञ्। यत्र यदुचितं तस्य १ रूपान्तरतापादने २ अन्यायत्वे ३ असम्पन्नत्वे च।

वैचित्र्य = न० विचित्रस्य भावः ष्यञ्। १ नानारूपत्वे २ विलक्षणत्वे च।

वैजयन्त = पु० विजयते वि + जि–झ स्वार्थे अण्। १ इन्द्रप्रासादे अमरः। २ इन्द्रे मेदि०। ३ गृहे शब्दच०। ४ इन्द्रध्वजे मेदि०। ५ अग्निमन्थवृक्षे राजनि० ६ पताकायाम् स्त्री अमरः। ७ वैजन्तीवृक्षे च स्त्री मेदि०।

वैजिक = न० वीजेन निर्वृत्तं ठक्। १ शिग्रुतैले मेदि०। वीजाय हितम् स्वार्थे ठक् वा। २ कारणे। ३ आत्मनि शब्दमा० तस्येदं वीजादागतं वा ठञ्। ४ सद्योजाताङ्कुरे मेदि० ५ वीजसम्बन्धिनि त्रि०।

वैज्ञानिक = पु० विज्ञानाय साधु ठक्। १ निपुणे अमरः। वि ज्ञानमधिकृत्य कृतो ग्रन्थः ठक्। २ बौद्धागमे ३ तदध्येतरि ४ तत्सम्बन्धिनि च त्रि०।

वैडालव्रत = न० विडालस्येदम् अण् तदिव व्रतम् “यस्य धर्म्मध्वजो नित्यं शक्रध्वज इवोच्छ्रितः। प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम्” इत्युक्ते प्रकाशेन धर्म्माचरणेन गुप्तपापाचारे।

वैडालव्रतिक = पु० वैडालव्रतमस्त्यस्य ठन्। छलेन धर्मचारिणि छद्मतापसे त्रिका०। इनि। वैडालव्रतिन् तत्रार्थे “छद्मना चरितं तच्च व्रतं रक्षसि गच्छति। अलिङ्गी लिङ्गवेशेन यो लिङ्गमुपजीवति। स लिङ्गिनां हरेत् पापं तिर्य्यग्योनौ च जायते”। वैडालव्रतिनः पापाः सर्वधर्मविनाशकाः। सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम्” कूर्मपु० ५ अ०।

वैणव = न० वेणूनां फलम् अण्, तस्य न लुप् तस्येदं वा अण्। १ वेणुफले वेणुयवे अमरः। २ वेणुसम्बन्धिनि त्रि० स्त्रियां ङीप्।

वैणविक = त्रि० वेणोर्विकारः अण् वैणवं वेणुवाद्यं शिल्पमस्य ठक्। वंशीवादके अमरः।

वैणिक = त्रि० वीणा तद्वादनं शिल्पमस्य ठक्। वीणावादके अमरः।

वैणुक = न० वेणोर्विकारः ठक्। १ गजचालनार्थे लौहमुखे वंशदण्डे अमरः। वेणुस्तद्वादनं शिल्यमस्य ठक्। २ वेणुवादके त्रि० शब्दच०।

वैण्य(न्य) = पु० वेण(न)स्यापत्यम् यञ्। १ वेणसुते पृथुनामवे नृपभेदे जटा०।

वैतंसिक = त्रि० वितंसेन मृगंपक्ष्यादिबन्धनोपायेन चरति ठक् मांसविक्रयोपजीवके व्याधे अमरः।

वैतनिक = त्रि० वेतनेन जीवति ठक्। वेतनोपजीवके कर्मकरे भृत्यादो अमरः।

वैतरणि(णी) = स्त्री वितरणेन दानेन लङ्घ्यते अण् ङीप् वा पृषो० ह्रस्वः। यमद्वारस्थे नदीभेदे “नदी वैतरणी नाम दुर्गन्धा रुधिरावहा। उष्णतोया महावेगा अस्थिकेशतरङ्गिणी” प्रा० वि० जमदग्निः। तस्या उतपत्त्यादि कालिकापु० १८ अ० उक्तं यथा

“शनैश्चरोऽपि भूतेशमासाद्यान्तर्हितस्तदा। वाष्पवृष्टिं दुराधर्षामवजग्राह मायया। यदा स नाशकत् वाष्पान् सन्धारयितुमर्कजः। तदा महागिरौ क्षिप्ता वाष्पास्ते जलधारके। लोकालोकस्य निकटेजलधाराह्वयो गिरिः। पुष्करद्वोपपृष्ठस्थस्तोयसागरपश्चिमे। स तु सर्वप्रमाणेन मेरुपर्वतसन्निभः। तस्मिन् विन्यस्तवान् वाष्पान् न धर्त्तुं क्षम ईशितुः। विदीर्णस्तैस्तु वाष्पोघैर्मग्नमध्योऽभवद्दुतम्। ते वाष्पाः पर्वतं भित्त्वा विविशुस्तोयसागरम्। सागरोऽपि ग्रहीतुं तान्न शशाक खरानति। ततस्तु सागरं मध्ये भित्त्वा वाष्पाः समागताः। तोयधेः प्राग्भवां वेलां स्पर्शमात्राद्बिभेद ताम्। विभिद्यं वेलां ते वाष्पाः पुस्करद्वीपमध्यगाः। नदी वैतरणी भूत्वा पूर्वसागरगाऽभवत्। जलधारस्य वेगेन संसर्गात् सागरस्य च। अवाप्य सौम्यतां किञ्चिद् वाष्पास्ते नाभिदन् क्षितिम्। तद्वाष्पव्याकुला पृथ्वी विदीर्णा स्यान्न चेच्छनिः। अवजग्राह तान् वाष्पान् सोऽपि कृष्णोऽभवद्धठात्। शनैश्चरेण तं वोढुमसमर्थेन लोतकैः। क्षिप्तैर्विदारितः सोऽसौ जलधारो महागिरिः। विभिद्य पर्वतं शम्भोर्वाष्पास्ते सागरं ययुः। वैवस्वतपुरद्वारे योजनद्वयविस्तृता। अद्यापि तिष्ठत्यापगा हरलोतकसम्भवा। भित्त्वा वेलां ततः पृथ्वीं विभिद्याशु तरङ्गिणीम्। चक्रुर्वैतरणीं नाम्न पूर्वसागरगामिनीम्। नानायानविमानेन न द्रौण्या स्यन्दनेन च। तर्त्तुंशक्या सा तु नदी तप्ततोया विभीषणा। दुःखेन तां तु पृथिवी बिभर्त्ति महताधुना। सदा चोर्द्ध्वगतैर्वाष्पैर्विक्षिपन्ति नभश्चरान्। तस्या उपरि नो यान्ति देवा अपि भयाद्धरात्। यमद्वारं समावृत्य योजन द्वयविस्तृता। निम्नं वहति संपूर्णा भीषयन्ती जगत्त्रयम्” २ पितृकन्याभेदे “अयज्वानश्च यज्वानः पितरो ब्रह्मणः स्मृताः। अग्निष्वात्ता बर्हिषदो द्विधा तेर्षा व्यवस्थितिः। तेभ्यः स्वधा, स्वधा जज्ञे मेनां वैतरणीं तथा” कूर्म्मपु० १२ अ०। वितरत्यनया तॄ–करणे ल्युट् ङीप्। आसन्न मृत्युकाले दातव्यायां ३ गवि च “आसन्नमृत्युना देया गौः सवत्सा च पूर्ववत्। तदभावे च गौरेका नरकोद्धारणाय वे। तदा यदि न शक्नोति दातुं वैतरणीञ्च गाम्। शक्तोऽन्योऽरुक् तदा दत्त्वा श्रेयो दद्यान्मृतस्य च”। पूर्ववत् हेमशृङ्गादिना अत्र मृतस्य सेति चकारश्रवणात् एकादशाहेऽपि वैतरणीदानाचारः” शु० त० रघु०। “यमद्वारे महाघोरे तप्ता वैतरणी नदी। ताञ्च तर्त्तुं ददाम्येनां कृष्णां वैतरणीञ्च गाम्” शु० त०।

वैतस = पु० वेतस एव स्वार्थे अण्। अम्लवेतसे जटा०।

वैतानिक = पु० वितानस्यायम् ठक्। १ श्रौतविधिनाऽग्निस्था- पने २ वितानसम्बन्धिनि च “दाहादूर्द्ध्वमशौचं स्यात् यस्य वैतानिको विधिः” स्मृतिः। वितानशब्दे ४८९९ दृश्यम्।

वैतालिक = त्रि० विविधस्तालः मङ्गलगीतादिशब्दस्तेन व्यव हरति ठक्। मङ्गलस्तुत्यादिभिः राज्ञां प्रवोधकारके मागधादौ अमरः।

वैतालीय = पु० मात्रावृत्तभेदे। “षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः। न समाऽत्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः” वृ० र०।

वैदग्ध = न० स्त्री विदग्धस्य चतुरस्य भावः अण् वा स्त्रोत्वं पक्षे ङीप्। १ चातुर्य्ये २ भङ्गो च। ष्यञ्। वैदग्ध्यमप्यत्र न०

वैदर्भ = पु० विदर्भाणां जनपदानां राजा अण्। १ विदर्भदेशाधिपे २ वाक्यस्य कौटिल्ये न० “माधुर्य्यव्यञ्जकैर्वर्णै रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्मी रीतिरुच्यते” इत्युक्ते ३ काव्यचरनाभेदे स्त्री सा० द० ङीप्। विदर्भे भवा अण्। ४ नलराजपत्न्यां दमयन्त्याम् स्त्री ङीप्। ५ अगस्त्यपत्न्यां ६ श्रीकृष्णमहिषीभेदे च स्त्री हरिव०।

वैदल = न० विदलस्य विकारः अण्। १ भिक्षुकस्य भिक्षापात्र भेदे अमरः। २ पिष्टकभेदे पु० शब्दच०।

वैदिक = पु० वेदं वेत्त्यधीते वा ठञ्। १ वेदज्ञे ब्राह्मणे वेदेषु विहितः ठक्। २ वेदोक्ते कर्मणि त्रि०। स्त्रियां ङीप् “वेदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोगतः” तन्त्रम्।

वैदुष्य = न० विदुषो भावः विद्वस + ष्यञ् सम्प्र०। पाण्डित्ये।

वैदूर्य्य = न० विदूरे गिरौ भवः ष्यञ्। कृष्णपीतवर्णे विडालनेत्रतुल्य वर्णे मणिभेदे केतुरत्ने (लसुनिया) राजनि०। “मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम्। मणिरत्नं सरं शीतं कषायं स्वादु लेखनम्। चाक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम्” राजवल्लभः। तच्छायालक्षणं यथा “एकं वेणुपलाशकोमलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा च्छायया। यद्गात्रं गुरुतां दधाति नितरां स्निग्धन्तु दोषोज्वितं वैदुर्य्यं विशदं वदन्ति सुधियः स्वच्छञ्च तच्छोभनम्। तस्य कुलक्षणं यथा “विच्छायं मृच्छिलागर्भं लघु रूक्षञ्च सक्षतम्। सत्रासं परुषं कृष्णं वैदूर्य्यं दूरतो नयेत्”। तत्परीक्षा यथा। “घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि। स्फुटं प्रदर्शयेदेतद्विअदूर्य्यं जात्यमुच्यते”। राजनि० “वैदूर्य्यपुष्परागाणां कर्केतभीष्मके वदे। परीक्षां ब्रह्मणा प्रोक्तां व्यासेन कथितां द्विज!। कल्पान्तकालक्षुभिताम्बुराशिनिर्ह्रादकल्पाद्दितिक्षस्य नादात्। वैदूर्य्यमुत्पन्नमनेकवर्णं शोभाभिरामं द्यूतिवर्णवीजम्। अविदूरे विदूरस्य गिरेरुत्तङ्गरोधसः। कामभूतिकसीमानमनु तस्याकरोऽभवत्। तस्य नादसमुत्थत्वादाकरः सुमहागुणः। अभूदुत्तरितो लोके लोकत्रयविभूषणः। तस्यैव दानवपतेर्निनदानुरूपप्रावृट्पयोदरवदर्शितचारुरूपाः। वैदूर्य्यरत्नमणयो विविधावभासास्तस्मात् स्फुलिङ्गनिवहा इव संबभूवुः। पद्मरागमुपादाय मणिवर्णा हि ये क्षितौ। सर्वांस्तान् वर्णः शोभाभिर्वैदूर्यमनुगच्छति। तेषां प्रधानं शिखिकण्ठनीलं यद्वा भवेद्वेणुदलप्रकाशम्। चाषाग्रपक्षप्रतिमश्रियो ये न ते प्रशस्ता मणिशास्त्रविद्भिः। गुणवान् वैदूर्य्यमणिर्योजयति स्वामिनं वरभाग्यै। दोषैर्युक्तोदोषैस्तस्माद् यत्नात्परीक्षेत। गिरिकाचशिशुपालौ काचस्फटिकाश्च भूमिनिर्भिन्नाः। वैदूर्य्यमणेरेते विजातयः सन्निभाः सन्ति। लिक्षाभावात् काचं लघुभावाच्छैशुपालकं विद्यात्। गिरिकाचमदीप्तित्वात् स्फटिकं वर्णोज्ज्वलत्वेन। यदिन्द्रनीलस्य महागुणस्य सुवर्णसंख्याकलितस्य मूल्यम्। तदेव वैदूर्य्यमणेः प्रदिष्टं पलद्वयोन्मापितं गौरवस्य। जात्यस्य सर्वेऽपि मणेस्तु यादृक् विजातयः सन्ति समानवर्णाः। तथापि नानाकरणानुमेयभेदप्रकारः परमः प्रदिष्टः। सुखोपलक्ष्यश्च सदा विचार्य्यो ह्ययं प्रभेदो विदुषा नवेन। स्नेहप्रभेदो लघुता मृदुत्वं विजातिलिङ्गं खलु सार्वजन्यम्। कुशलाकुशलैः प्रयुज्यमानाः प्रतिवद्धाः प्रतिसत्क्रिया प्रयोगैः। गुणदोषसमुद्भवं लभन्ते मणयोऽर्थान्तरमूल्यमेव मिन्नाः। क्रमशः समतीतवर्त्तमानाः प्रतिवद्धा मणिबन्धकेन यस्मात्। यदि नाम भवन्ति दाषहीना मणयः षड्गुणमाप्नुवन्ति मूल्यम्। आकरान् समतीतानामुदधेस्तीरसन्निधौ। मूल्यमेतत् खनीनान्तु न सर्वत्र महीतले। सुवर्णो मनुना यस्तु प्रोक्तः षोडशमाषकः। तस्य सप्ततिमोभागः संज्ञारूपं करिष्यति। शाणश्चतुमांषमानो माषकः पञ्चकृष्णलः। पलस्य दशमोभागो धरणः परिकीर्त्तितः। इति मानविधिः प्रोक्तो रत्नानां मूल्यनिश्चये”। गारुडे ७३ अ०। “सितञ्च धूम्रसङ्काशमीषत्कृष्णसितं भवेत्। वैदूर्व्यनाम तद्रत्नं रत्नविद्भिरुदाहृतम्। ब्रह्मक्षत्रियविट्शूद्रजातिभेदाश्चतुर्विधाः। सितनीलो भवेद्विपः सितरक्तस्तु वाहुजः। पीतनीलस्तु वैश्यः स्यात् नील एव हि शूदूकः”। अथ गुणाः “मार्ज्जारनयनप्रख्यं रसोनप्र- तिमं हि वा। कलिलं निर्मलं व्यङ्गं वैदूर्य्यं देवभूषणम्। सुतारं घनमत्यच्छं कलिलं व्यङ्गमेव च। वैदूर्य्याणां समाख्याता एते पञ्च महागुणाः”। “उद्गिरन्निव दीप्तिं योऽसौ सुतार इतीर्य्यते। प्रमाणतोऽल्पं गुरु यद् घनमित्यभिधीयते। कलङ्कादिविहीनं तदत्यच्छमिति कीर्त्तितम्। ब्रह्मशस्त्रकलाकारश्चञ्चलो यत्र दृश्यते। कलिलं नाम तद्राज्ञः सर्वसम्पत्तिकारकम्। विश्लिष्टाङ्गन्तु वैदूर्य्यं व्यङ्गमित्यभिधीयते। कर्करं कर्कशं त्रासः कलङ्का देह इत्यपि। एते पञ्च महादोषा वैदूर्य्याणामुदीरिताः। शर्करायुक्तमिव यत् प्रतिभाति च कर्करम्। स्पर्शेऽपि यत्तज्ज्ञेय च कर्कशं बन्धुनाशनम्। भिन्नभ्रान्तिकरस्त्रासः स कुर्य्यात् कुलसंक्षयम्। बिरुद्धवर्णो यस्याङ्के कलङ्कः क्षयकारकः। मलदिग्ध इवाभाति देहो देहविनाशनः। जयति यदि सुवर्णत्यागहीनो यदा वा बहुविधमणिहारी भूपति र्वा यति र्वा। दधदपि धृतदोषं जातु वैदूर्य्यरत्नं प्रतिहतफलरूपः पातमेष्यत्यवश्यम्”। युक्तिकल्पतरुः।

वैदेह = पु० विशेषेण देह उपचयो यस्य स्वार्थे प्रज्ञाद्यण विदेहे भवः अण् वा। १ वणिग्जने मरतः। शूद्रात् वैश्यजाते २ जातिभेदे पुंस्त्री० मेदि० स्त्रियां ङीष्। ठक्। वैदेहिकोऽपि वणिजि। विदेहानां राजा अण्। ३ विदेहराजे जनके नृपे।

वैदेही = स्त्री विदेहेषु मिथिलादेशेषु भवा अण्। १ सीतायाम् जनकात्मजायाम् २ हरिद्रायाम् ३पिप्पल्यां ४ वणिक् स्त्रियाञ्च मेदि०।

वैद्य = पु० विद्याऽस्त्यस्य अण्। १ पण्डिते “नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्” दायभा०। २ भिषजि अमरः। तदुपकारके ३ वासकवृक्षे च शब्दच०। वैद्योत्पत्तिश्च “वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति। वैद्यवीर्य्येण शूद्रायां बभूवुर्बहवो जनाः। ते च ग्रामगुणज्ञाश्च मन्त्रोषधिपरायणाः। तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो भुवि”। शौनक उवाच “कथं ब्राह्मणपत्न्यान्तु सूर्य्यपुत्रोऽश्विनीसुतः। अहो केन विपाकेन वीर्य्याधानं चकार सः”। सौतिरुवाच “गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः। ददर्श कामुकीं कान्तः पुष्पोद्याने मनोहरे। तया निवारितो यत्नात् बलेन बलवान् सुरः। अतीव सुन्दरीं दृष्ट्वा वीर्य्यातानं चकार सः। द्रुतं तत्याज गर्भं सा पुष्पाद्याने ममोरमे सद्यो बभूव पुत्रश्च तप्तकाञ्चनसन्निमः। सपुत्रा स्वामिनो गेहं जगाम व्रीडिता तदा। स्वामिनं कथयामास यस्माद्दैवादिसङ्कटम्। विप्रोरोषेण तत्याज तञ्च पुत्रं स्वकामिनीम्। सरिद् बभूव योगेन सा च गोदावरी स्मृता। पुत्रं चिकित्साशास्त्रञ्च पाठयामास यत्नतः। नानाशिल्पञ्च शस्त्रञ्च स्वयं स रविनन्दनः। विप्रश्च ज्योतिर्गणनात् वेदनाच्च निरन्तरम्। वेदधर्मपरित्यक्तो बभूव गणको भुवि”। ब्रह्मवै० पु० १० अ०। नरकभोगान्ते वैद्यजन्म यथा “यः करोत्यपहारञ्च देव ब्राह्मणयोर्धनम्। पातयित्वा स्वपुरुषान् दश पूर्वान् दशा परान्। स्वयं याति च धूमान्धं धूमध्वान्तसमन्वितम्। धूमक्लिष्टो धूमभोगी वसेत्तत्र चतुर्युगम्। ततो मूषिकजातिश्च शतजन्मानि भारते। ततो नानाविधाः पक्षिजातयः कृमिजातयः। ततो नानाविधाः वृक्षजातयश्च ततो नरः। भार्य्याहीनो वंशहीनः शवरो व्याधिसंयुतः। ततो भवेत् स्वर्णकारः स सुवर्णवणिक् ततः। ततो जवनसेवी च ब्राह्मणो गणकस्ततः। विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः”। “लाक्षालोहादिव्यापारी रसादिविक्रयी च यः। सयाति नागवेष्टञ्च सर्पैर्वेष्टित एव च। वसेत् सलोममानाव्द तत्रैव नागदंशितः। ततो भवेत् स गणकी वैद्यश्च सप्तजन्मसु। गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः”। ब्रह्मवै० पु० २८ अ०। राजवैद्यस्य लक्षणं यथा “परं पारङ्गतो यः स्यादष्टाङ्गे तु चिकित्सिते। अनाहार्य्यः स वैद्यः स्याद्धर्मात्मा च कुलोद्गतः। प्राणावार्य्यः स विज्ञेयो वचनं तस्य भूभुजः। राजन्! राज्ञा सदा कार्य्यं यथाकार्य्यं पृथग्जनैः”। मात्स्ये १८९ अ०। “चिकित्सां कुरुते यस्तु स चिकित्सक उच्यते। स च यादृक् समीचीनस्तादृशोऽपि निगद्यते। तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती। लघुहस्तः शुचिः शूरः स्वच्छोपस्करभेषजः। प्रत्युत्पन्नमतिर्धीमान् व्यवसायी प्रियंवदः। सत्यधर्मपरोयश्च वैद्य ईदृक् प्रशस्यते”। दृष्टकर्मा दृष्टा परेण कृता चिकित्सा येन सः। स्वयं कृती स्वयं चिकित्साकुशलः। लघुहस्तः सिद्धिमद्धस्तः। निषिद्धवैद्यो यथा “कुचेलः कर्कशः स्तब्धः ग्रामीणः स्वयमागतः। पञ्च वैद्या न पूज्यन्ते धन्वन्तरिसमा अपि”। वर्कशः अपियवादी। स्तब्धः साभिमानः। ग्रामीणः व्यवहाराचतुरः। अथ वैद्यस्य कर्म आह “व्याधेस्तत्त्व- परिज्ञानं वेदनायाश्च निग्रहः। एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः” भावप्र० “सत्यत्रेताद्वापरेषु युगेषु ब्राह्मणाः किल। ब्रह्मक्षत्रियविट्शूद्रकन्यका उपयेमिरे। तत्र वैश्यसुतायां ये जज्ञिरे तनया अमी। सर्वे ते मुनयः ख्याता वेदवेदाङ्गपारगाः। तेषां मुख्योऽमृताचार्य्यस्तस्थावम्बाकुले हि यत्। अम्बष्ठ इत्यसाव्क्तस्ततो जाति प्रवर्त्तनाद्। परे सर्वेऽपि चाम्बष्ठा वैश्याब्राह्मणसम्भवाः। जननीतो जनुर्लब्धा यज्जाता वेदसंस्कृतैः। अम्बष्ठास्तेन ते सर्वे द्विजा वैद्याः प्रकीर्त्तिताः। अथ रुक् प्रतिकारित्वाद्भिषजस्ते प्रकीर्त्तिताः। सत्ये वैद्याः पितुस्तुल्यास्त्रेतायाञ्च तथा स्मृताः। द्वापरे क्षत्रवत् प्रोक्ताः कलौ वैश्योपमाः स्मृताः” कुलच०। आयुर्वेदशब्दे दृश्यम्।

वैद्यक = न० वैद्यं चिकित्सकमधिकृत्य कृतो ग्रन्थः कन्। आयुर्वेदे “ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः। विचिन्त्य तेषामर्थञ्चैवायुर्वेदं चकार सः। कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः। स्वतन्त्रां संहितां तस्माद् भास्करश्च चकार सः। भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम्। प्रददौ पाठयामास ते चक्रुः संहितास्ततः। तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च। व्याधिप्रणाशवीजानि साध्वि! मत्तो निशामय। धनन्तरिर्दिवोदासः काशीराजस्तथाश्विनौ। नकुलः सहदेवार्की च्यवो जनको बुधः। जाबालो जाजलिः पैलः कवथोऽगस्त्य एव च एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः। चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोरमम्। धन्वन्तरिश्च भववांश्चकार प्रथमे सति!। चिकित्सादर्पणं नाम दिवोदासश्चकार सः। चिकित्साकौनुदीं दिव्यां काशीराजश्चकार सः। चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ। तन्त्रं वैद्यक सर्वस्वं नकुलश्च चकार सः। चकार सहदेवश्च व्याधिसिन्धुविमर्दनम्। ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः। च्यवनो जीवदानञ्च चकार भगवानृषिः। चकार जनको योगी वैद्यसन्देहमञ्जनम्। सर्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम्। वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः। पैलो निदानं कवथस्तन्त्रं सर्वधरं परम्। द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः। चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडश। व्याधिप्रणाशवीजानि वलाधानकराणि च। मथित्वा ज्ञानमन्थानैरायुर्वेदपयोनिधिम्। ततस्तन्त्राण्युदहरन् नवनीतानि कोविदाः। एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम्। आयुर्वेदसर्ववीजं सर्वं जानामि सुन्दरि!” ब्रह्मवै० पु० १६ अ०।

वैद्यनाथ = पु० देशविशेषे “करवीरे महालक्ष्मीरुमा देवी विनायके। अरोगा वैद्यनाथे तु महाकाले महेश्वरो” मात्स्ये। “वैद्यनाथं समारभ्य भुवनेशान्तगं शिवे!। तावदङ्गाभिधो देशो यात्रायां न हि दुष्यति” शक्तिसङ्गमतन्त्रे ७ प०। २ भैरवविशेषे “हार्दपीठं वैद्यनाथे वैद्यनाथस्तु भैरवः। देवता जयदुर्गाख्या नेपाले जानुनी मम” तन्त्रचूडा०। ३ शिवलिङ्गभेदे “हरिद्रानमरे यत्र वैद्यनाथो महेश्वरः। तत्राक्षयो विल्ववृक्षः स्वर्णवृक्षः उदाहृतः” वृहद्धर्मपु० ११ अ०। “झारखण्डे वैद्यनाथो वक्रेश्वरस्तथैव च। वीरभूमौ सिद्धिनाथो राढे च तारकेश्वरः” इति महालिङ्गेश्वरतन्त्रे।

वैद्यबन्धु = पु० ६ त०। आरग्बधवृक्षं शब्दर०।

वैद्यमातृ = स्त्री वैद्यस्य मातेव। १ वासके अमरः तस्य वैद्यजीविकाप्रयोजकरोगशान्तिकरत्वेन तत्पीषकत्वात् तन्मातृतुल्यत्वम्।

वैद्यसिंही = स्त्री वैद्यस्य सिंहीव। वासकवृक्षे शब्द च०।

वैद्या = स्त्री वैद्यः पाल्यत्वेनास्त्यस्याः अच्। काकोल्याम् शब्दच०।

वैध = त्रि० विधित आगतः अण्। विधिप्रतिपाद्ये।

वैधहिंसा = स्त्री कर्म०। वेदविहितहिंसायाम् “या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे। अहिंसामेव तां विद्यात् वेदात् धर्मो हि निर्बभौ” मनुः। अत्र नियतेत्युपादानात् नित्ये पश्विष्ट्यादौ हिंसाया अहिंसात्वं न तु काम्येऽपीति सम्प्रदायविदः। पिष्टपशुमीमांसायाञ्च तथैवोक्तं “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथा” मनुना सङ्गे कामनायां पिष्टपशूनामेव विधानात्। विशेषतः कलौ “मांसदानं तथा श्राद्धे” “अश्वालम्भं गवालम्भम्” इति च कलिवर्ज्येषूक्तेः काम्यबलिदानादि निषेधः। हिसाया अनर्थसाधनत्वेऽपि वैधहिंसाया अर्थसाधनत्वम् वैद्यकोक्तसंस्कारभेदेन विषस्येवेति बोध्यम्। ति० त० मतभेदेन च वैधहिंसा उभयरूपत्वं निरूपितं यथा “मा हिंस्यात् सर्वाभूतानि” इत्यत्र सर्वशब्दस्य व्यापकार्थपरतया एतद्विधिमनुलङ्घ्य “वायव्यं श्वेतमालभेत्” इत्यादिविधेर्विषयाप्राप्तेरगत्या वैधातिरिक्त- विषयत्वं सर्वा सर्वाणि छन्दसि वेत्यनेन तत्पद सिद्धम्। यदपि नानादर्शनटीकाकृद्भिर्वाचस्पतिमिश्रैस्तत्त्वकौमुद्यामभिहितं “न च मा हिंस्यात् सर्वा भूतानि” इति सामान्यशास्त्रं विशेषशास्त्रेण “अग्नीषोमीयं पशुमालभेत” इत्यनेन बाध्यते इति वाच्यं विरोधाभावात् विरोधे हि बलीयसा दुर्बलं बाध्यते। न चास्ति विरोधः भिन्नविषयत्वात्। तथा हि मा हिंस्यादिति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते न पुनरक्रत्वर्थत्वमपि। अग्नीषोमीयं पशुमालभेतेत्यनेन तु पशुहिंसायाः क्रत्वर्थत्वमुच्यते न त्वनर्थहेतुभावस्तथा सति वाक्यभेदप्रसङ्गात्। न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिदस्ति विरोधः। हिंसा हि पुरुषस्य दोषमावक्ष्यति क्रतोश्चोपकरिष्यतीत्यन्तेन, तदपि सांख्यनये। मीमांसकमते तु विरोध एव तथा हि गुरुनये न खलु सर्वभूतहिंसाभावविषयकं कार्य्यम् इति निषेधविध्यर्थस्य बाधं विना अग्नीषोमीयपश्वालम्मनविषयकं कार्य्यमिति भावविध्यर्थ उपपद्यते। भट्टनये तु अङ्गे यथा तथास्तु। न च मुख्यपशुयागे पुरुषार्थपशुहिंसनस्यार्थसाधनत्वमनर्थसाधनत्वञ्चोपपद्यते विरोधात्। वस्तुतस्तु अङ्गेऽपि विरोधोऽस्त्येव कुतो? विधेरेष स्वभावो यत् स्वविषयस्य साक्षात् परम्परया वा पुरुषार्थसाधनत्वमवगमयति अन्यथाऽङ्गानां प्रधानोपकारकत्वमपि नाङ्गोक्रियेत। अर्थसाधनत्वं बलवदनिष्टामनूबन्धीष्टसाधनत्वम् अनर्थसाधनत्वं बलवदनिष्टसाधनत्वं न चानयोरेकत्र समावेश इति। अतएवोक्तं “तस्माद्यज्ञे बधोऽबधः” इति। नन्वेवं “श्येनेनाभिचरन् यजेत” इत्यत्र श्येनस्य शत्रुबधरूपेष्टसाध वमवगतम “अभिचारो मूलकर्म च” इति मनूना उपपातकगणमध्य पाठादनिष्टसावनत्वमवगतम्। तदेतत् कथमुपपद्यतामिति चेन्मैवं “आततायिनमायान्तं हन्यादेवाविचारयन्” इत्येक० वाक्यतया आततायिस्थले इष्टसाधनत्वम् अनाततायिस्थले तूपपातकत्वेन बलवदनिष्टसाधनत्वमित्यविरोध इति गुरुचरणाः”।

वैधात्र = पु० विधातुरपत्यम् अण्। सनत्कुमारादौ १ मुनिभेदे अमरः। २ व्राह्यां (वामनहाटि) स्त्री राजनि०।

वैधृति = पु० विगता धृतिर्यस्मात् पृषो० वृद्धिः। विष्कम्भादिषु मध्ये १ अन्तिमे योगे। सूर्य्यचन्द्रयोः क्रान्तिसास्येनानीते अशुभसूचके २ वह्निभेदे तत्र वैधृतशब्दोऽपि यथोक्तं सू० सि० “एकायनगतौ स्यातां सूर्य्यावन्द्रमसौ यदा। तद्युते मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः”। पातशब्दे ४३८९ पृ० विस्तरा दृश्यः। उपयमशब्दे १२६५ पृ० दृश्यम्।

वैधेय = त्रि० विधीयतेऽसौ वि + धा–यत् ततः स्वार्थे अण्। मूर्खे अमरः।

वैधर्म्य = न० विरुद्धो धर्मो यस्य तस्य भावः ष्यञ्। १ विरुद्धध। र्मत्वे २ अन्यलक्षणे च।

वैधव्य = न० विधवाया भावः ष्यञ्। पतिविरहे “नववैधव्यमसह्यवेदनम्” इति कुमारः।

वैनतेय = पु० विनतायाः अपत्यं ढक्। १ गरुडे अमरः २ अरुणे च मत्स्यपु०।

वैनयिक = त्रि० विनये रतः ठक्। शास्त्रज्ञानादिना विनयरते हेमच०।

वैनायिक = पु० विनायं खण्डनमधिकृत्य कृतो ग्रन्थः ठक्। १ वौद्धागमे त्रिका० उपचारात् २ तदभिज्ञे त्रि०।

वैनाशिक = पु० विनाशमधिकृत्य कृतो ग्रन्थः ठक्। सर्वेषां क्षणभङ्गुरताप्रतिपादके १ बौद्धागमे २ तदभिज्ञे त्रि०। विनाशाय हितम् ठक्। ज्यातिषोक्ते षङ्गाडीचक्रस्थे जन्मनक्षत्रावधित्रयोविंशे ३ नक्षत्रे ४ क्षणिके ५ परतन्त्रे च त्रि० ६ उर्णनाभे पु० मेदि०।

वैनीतक = पु० न०। विशेषेण नीतं नयनं तेन कायति कै–क स्वार्थ अण्। परम्परया वाहने शिविकादौ अमरः।

वैपरीत्य = न० विपरीतस्य भावः ष्यञ्। १ विपर्य्यये हेमच०। २ लज्जालौ लतायां स्त्री राजनि०।

वैभव = न० विभोर्भावः अण्। १ विभुत्वे २ विभूतौ।

वैभ्राज = न० विभ्राज इदम् अण्। देवोद्यानभेदे त्रिका०। तच्च मेरोः पश्चिमविष्कम्भविपुलपर्वतस्थं विपुलशब्दे ४९१२ पृ० दृश्यम्।

वैमात्र = पु० विमातुरपत्यम् अण्। १ सापत्ने भ्रातरि अमर २ तथाभूतभगिन्यां स्त्री ङीप्।

वैमात्रेय = पु० विमातुरपत्यं ढक्। १ सापत्ने भ्रातरि अमरः २ तथामूतभगिन्यां स्त्री ङीप्।

वैमुख्य = न० विमुखस्य भावः ष्यञ्। विमुखत्वे।

वैमेय = पु० वि + मि–यत् स्वार्थे अण्। विनिमये हेमच०।

वैयधिकरण्य = न० व्यधिकरणस्य भावः ष्यञ्। असमानाधिकरणत्वे।

वैयाकरण = त्रि० व्याकरणं वेत्त्यधीते वा अण्। व्याकरणाभिज्ञे।

वैयाघ्र = पु० व्याघ्रचमणा फरिवृतो रथः अण्। व्याघ्रचर्म्मपरिवृते रथे अमरः।

वैयाघ्रपद्य = पु० व्याघ्रपदस्यापत्यं यञ। गोत्रकारके मुनिभेद “वैयात्रपद्यगात्रायेति” भीष्मतपेणमन्त्रः।

वैयात्य = न० वियातस्य भावः ष्यञ्। निर्लज्जत्वे “वैयात्यं सुरतेष्वपि” माघः।

वैयासकि = पु० व्यासस्यापत्यम् इञ् कुक्च। व्यासस्यापत्ये शुक्रदेवे।

वैयासिकी = स्त्री व्यासेन प्राक्ता ठञ् ङीप्। व्यासप्रणीतायां संहितायाम्।

वैर = न० वीरस्य भावः अण्। विरोधे विद्वेषे अमरः। “वैरं पञ्चसमुत्थानं मुनिभिः परिकीर्त्तितम्। स्त्रोकृतं वास्तुजं वाग्ज ससापत्नापराधजम्”। तत्र स्त्रोकृत कृष्णचेदिपयोः। वास्तुजं कुरुपाण्डवयोः। वाग्जं द्रोणद्रुपदयोः। सापत्नं नैसगिकमहिनकुलयोः। अपराधजं पूजनीब्रह्मदत्तयोः।

वैरकर = त्रि० वैरं करोति कृ–ट। विरोघकारके।

वैरक्त्य = न० विरक्तस्य भावः ष्यञ्। विरागे।

वैरङ्गिक = त्रि० विरङ्गं विरागं नित्यमर्हति ठञ्। विरागार्हे हेमच०। वैरागिक तत्रार्थे सि० कौ०।

वैरनिर्यातन = न० वैरस्य वैरकृतापकारस्य निर्यातनम् निर + यत–णिच् ल्युट्। वैरकृतापकारप्रतीकारे अमरः।

वैरप्रतीकार = पु० ६ त०। वैरकृतापकारस्य तुल्यरूपापकारकरणेन तस्य शोधने वैरप्रतिक्रियाप्यत्र स्त्री।

वैरशुद्धि = स्त्री ६ त०। वैरप्रतीकारे अमरः।

वैराग्य = न० विरागस्य भावः ष्यञ। विषयवासनाराहित्ये ऐहिकामुष्मिकविषयरागराहित्ये च। वैराग्यस्य मोक्षहेतुत्वादि विवेकचूडामणौ दर्शितं यथा “मोक्षस्य हेतुः प्रथमो निगद्यते वैराग्यमत्यन्तमनित्यवस्तुषुं ततः शमश्चापि दमस्तितिक्षा न्यासः प्रसक्ताखिलकर्मणां भृशम्। ततः श्रुतिस्तन्मननं सतत्त्वध्यानं चिरं नित्यनिरन्तरं मुनेः। ततो विकल्पं परमेत्य विद्वानिहैव निर्वाणमुखं समृच्छति। यद्बाद्धव्यं तवेदाणिमात्मानात्मविवेचनम्। तदुच्यते मया सम्यक् श्रुत्वात्मन्यवधारय। मज्जास्थिमेदःपलरक्तचर्मत्वगाह्वयैर्धातुभिरेभिरन्वितम्। पादोरुवक्षोभुजपृष्ठमस्तकैरङ्गैरुपाङ्गैरुपयुक्तमेतत्। अहं ममेति प्रथितं शरीरं मोहास्पदं स्थूलमितीर्य्यते बुधेः। नभोनभस्वद्दहनाम्बुमूमयः सूक्ष्माणि भूताति भवन्ति तानि। परस्परांशैर्मिलितानि भूत्वा स्थूलानि च स्थूलशरीरहेतवः। मात्रास्तदीया विषया भवन्ति शब्दादयः पञ्च सुखाय भोक्तुः। य एषु मूढा विषयेषु बद्ध्वा रागोरुपाशेन सुदुर्दमेन। आयान्ति निर्य्यान्त्यध ऊर्द्ध्वमुच्चैः स्वकर्मदूतेन जवेन नीताः। शब्दादिभिः पञ्चभिरेव पञ्च पञ्चत्वमापुः स्व गुणेन बद्धाः। कुरङ्गमातङ्गपतङ्गमीनभृङ्गा, नरः पञ्चभिरञ्चितः किम्?। दोषेण तीव्रा विषयः कृष्णसर्पविषादपि। विषं निहन्ति भोक्तारं द्रष्टारं चक्षुषाप्ययम्। विषयाशा महापाशात् यो विमुक्तः सुदुस्त्यजात्। स एव कल्पते मुक्त्यै नान्यः षट्शास्त्रवेद्यपि। आपातवैराग्यवतो मुमुक्षून् भवाब्धिपारं प्रतियातुमुद्यतान्। आशाग्रहो मज्जयतेऽन्तराले निगृह्य कण्ठे विनिवर्त्य वेगात्। विषयाख्यग्रहो येन सुविरक्त्यसिना हतः। स गच्छति भवाम्भाधेः पारं प्रत्यूहवर्जितः। विषमविषयमार्गैर्गच्छतो नष्टबुद्धेः प्रतिपदमभियातो मृत्यु रप्येष सिद्धिः। हितसुजनगुरूक्त्या गच्छतः स्वस्य युक्त्या प्रभवति फलसिद्धिः सत्यमित्येव विद्धि। मोक्षस्य काङ्क्षा यदि वै तवास्ति त्यजातिदूराद्विषयान् विषं यथा। पीयूषवत्तोषदयाक्षमार्जवप्रशान्तिदान्तीर्भज नित्यमादरात्”।

वैराट = त्रि० विराटस्येदम् अण्। १ विराटसम्बन्धिनि। वीर इ वाटति अट–अच् स्वार्थे अण्। २ इन्द्रगोपकीटे हेमच०।

वैरातङ्क = पु० वीरस्य अर्जुनस्यातङ्कायै शङ्कायै साधु–अण्। अर्जुनवृक्षे राजनि०।

वैरानुबन्धिन् = त्रि० वैरं विद्वेषमनुबध्नाति णिनि। १ विद्वेषा नुरूपकारके २ वैरानुगते च।

वैरिन् = त्रि० वैरमस्त्यस्य इनि। शत्रौ अमरः।

वैरूप्य = न० विरूपस्य भावः ष्यञ्। १ विरूपत्वे २ अननुरूपत्वे ३ अयथाभावे ४ वस्तुनोविकारभेदे च।

वैरोच(न)नि = पु० विरोचनस्यापत्यम् शिवाद्यण् इञ् वा। १ अग्निपुत्रे २ सूर्य्यपुत्रे ३ वलिराजपुत्रे दानवभदे च ४ बुद्धभेदे ५ सिद्धगणे शब्दर०।

वैलक्षण्य = न० विलक्षणस्य भावः ष्यञ्। विलक्षणत्वे वैशिष्ट्ये

वैलक्ष्य = न० विलक्षस्य भावः ष्यञ्। १ लज्जायाम् अमरः २ स्वभाववैलक्षण्ये च “वैलक्ष्यहेतोर्गतिमेतदीयाम्” नैष०।

वै(ब)वधिक = त्रि० वी(ब)वधेन धान्यादिसंग्रहेण व्यवहरति ठक्। वार्त्तावहे नैगमे (दोकानि) अमरः।

वैवर्ण्य = न० विवर्णस्य भावः ष्यञ्। विवर्णत्वे मालिन्ये।

वैवस्वत = पु० विवस्वतोऽपत्यम् तस्येदं वा अण। १ यमे अमर२ अग्नौ ३ रुद्रभेदे च जटा०। ४ तत्सम्बन्धिनि त्रि० “वैवस्वतकरक्रिया” इत्युद्भटः। ५ दक्षिणदिशि स्त्री ङीप्। ६ सप्तमे मनुभेदे “मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः। सप्तमो वर्त्तमानोऽयस्तदपत्यानि मे शृणु!। इक्ष्वाकुर्न भसश्चैव धृष्टः शर्यातिरेव च। नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते। वृषणश्च पृषध्रश्च दशमो बसुमान् स्मृतः। मनोर्वैवस्वतस्यैते दश पुत्राः परन्तप!। आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणाः। अश्विनी वृषभो राजन्! इन्द्रस्तेषां पुरन्दरः। कश्यपोऽत्रिर्वशिष्ठश्च विश्वामित्रश्च गोतमः। यमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः। अत्रापि भगवज्जन्म कश्यपाददितेरभूत्। आदित्यानामवरजो विष्णुर्वामनरूपधृक्। संक्षेपतो मयोक्तानि सप्त मन्वन्तराणि ते” भाग० ८ १२ अ०।

वैवाहिक = त्रि० विवाहाय हितं साधु बा ठक्। १ विवाहयोग्ये “वैवाहिकीं तिथिं पृष्टाः” इति कुमारः। २ विवाहेन सम्बद्धे कन्यापुत्रयोः श्वशुरे ३ विवाहसम्ब न्धिनि च त्रि० “पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया” स्मृतिः।

वैशम्पायन = पु० व्यासशिष्ये भारतवक्तरि मुनिभेदे। स च व्यासादिष्टः जनमेजयाय भारतं श्रावितवान् यथोक्तं भा० आ० १ अ० “जनमेजयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः। शशास शिष्यमासीनं वैशम्पायनमन्तिके। स सदस्यैः सहासीनः श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनःपुनः”। स च यजुर्वेदे तस्य शिष्यः यथाह “अथ शिष्यान् प्रजग्राह चतुरो वेदपारगान्। जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च। पैलं तेषां चतुर्थञ्च पञ्चमं मां महामुमिः। ऋग्वेदश्रावकं पैलं जग्राह स महामुने!। यजुर्वेदप्रवक्तारं वैशम्पायनमेव च” कौर्मपु० ४९ अ०।

वैशस = न० विशसस्य भावः स्वार्थे वा अण्। १ हिंसने २ हिंसके च।

वैशाख = पु० विशाखानक्षत्रयुक्ता पौर्णमासी वैशाखी सा यत्र मासे पुनः अण्। स्वनामख्याते चैत्रतो द्वितीये १ चान्द्रमासे २ गुरुवर्षभेदे च कार्त्तिकशब्दे १९४९ पृ० दृश्यम्। चान्द्रवैशाखलक्षणं तु मेषस्थरव्याव्धशुल्कप्रतिपदादिदर्शान्तत्रिंशत्तिथित्वम्। मेषस्थरविके ३ सौरतन्मासे “तुलामकरमेषेषु प्रातःस्नानं विधीयते। हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम्”। तन्मासस्य ४ पौर्णमास्यां स्त्री ङीप्। विशाखा प्रयोजनमस्य अञ्। ५ मन्थानदण्डे पु० ६ धनुर्द्धराणामवस्थानभेदे न० अमरः।

वैशिक = पु० वेशे वेश्यालये उपचारात् वेश्यायां प्रसृतः ठक्। वश्याभिषक्ते नायकभेदे रसम०।

वैशिष्टा = न० विशिष्टस्य भावः ष्यञ्। विशेष्यविशेषण- सम्बन्धिनि विशिष्टबुद्धिनियामके १ सम्बन्धे २ भेदे च।

वैशेषिक = न० विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः ठञ्। कणादप्रणीते १ शास्त्रभेदे। तदधीते अण्। २ काणादशास्त्राभिज्ञे त्रि०। तस्येदम् अण्। ३ काणादशास्त्रसम्बन्धिनि त्रि०।

वैशेष्य = न० विशेषस्य भावः ष्यञ्। १ वैशिष्ट्ये २ भेदे च “वैशेष्यात्तद्वादः” शा० सू०।

वैश्य = पुंस्त्री विशति उपभुङ्क्ते विश–क्विप् स्वार्थे ष्यञ्। वर्णभेदे ब्रह्मण ऊरुजाते जातिभेदे अमरः स्त्रियां टाप्। “विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः। वेदाध्य० यनसम्पन्नः स वैश्य इति सज्ञितः” पद्मपु० स्व० २६ अ०।

वैश्यवृत्ति = स्त्री ६ त०। कृषिवाणिज्यादौ “वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम्। वार्त्तायां नित्ययुक्तः स्यात् पशूनाञ्चैव रक्षणे। प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून्। ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः। न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति। वैश्ये चेच्छति नान्येन रक्षितव्याः कथञ्चन। मणिमुक्तप्रवालानां लोहानां तान्तवस्य च। गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम्। वीजानामुप्तिविच्च स्यात् क्षेत्रदोषगुणस्य च। मानयोगञ्च जानीयात् तुलायोगांश्च सर्वशः। सारासारञ्च भाण्डानां देशानाञ्च गुणागुणान्। लाभालाभञ्च पण्यानां पशूनां परिवर्द्धनम्। भृत्यानाञ्च भृतिं विद्याद् भाषाश्च विविधानृणाम्। दूव्याणां स्थानयोगांश्च क्रयविक्रयमेव च। धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम्। दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः” मनुः। “वैश्यस्य च प्रव क्ष्यामि यो धर्मो वेदसम्मतः। दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः। पालयेच्च पशून् वैश्यः पितृवद्धर्ममर्जयन्। विकर्म तद्भवेदन्यत् कर्म यत् स समाचरेत्। रक्षया स हि तेषां वै महत् सुखमवाप्नुयात्। प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः। ब्राह्मणेभ्यश्च राज्ञे च सर्वाः परिददे प्रजाः। तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम्। षण्णामेका पिबेद्धेनुं शताच्च मिथुनं भवेत्। लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे। शस्यानां सर्ववीजानि एषा सांवत्सरी भृतिः” पाद्मस्व० २६ अ०।

वैश्रवण = पु० विश्रवसोऽपत्यम् अण् विश्रवणादेशः। कुवेरे अमरः।

वैश्रवणालय = पु० ६ त०। १ वटवृक्षे हेमच० २ कुवेरपुर्य्याञ्च। वैश्रवणावासादयोऽप्यत्र।

वैश्वदेव = पु० विश्वेभ्यो देवेभ्यो देयो बलिः अण्। वैश्वदेवो द्देशेन दीयमाने बलौ।

वैश्वानर = पु० विश्वेषां नराणामयम् कुक्षिस्थत्वात् अण् पूर्वदीर्घः। १ वह्नौ २ चित्रकवृक्षे। ३ चेतने च विश्वानरस्यापत्यमण्। अग्निलोकाधिपे ४ वह्नौ काशीख० १० अ० तत्कथा दृश्या। सर्वदेहाभिमानिनि ५ सर्वात्मयांमिनि परमेश्वरे तदुपासनप्रकारः छान्दो० ६ प्र० दर्शितो यथा “एष वैरयिरात्मा वैश्वानरः” इत्युपक्रमे “तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेव’ प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति” “तान् यथोक्तवैश्वानरदर्शनवतो ह उवाच। एतेयूयं वै खल्वित्यनर्थकौ यूयं पृथगिवापृथक् सन्तमिममेकं वैश्वानरं विद्वांसोऽन्नमत्थ परिच्छिन्नात्मबुद्ध्या एतद्धस्तिदर्शन इव जात्यन्धाः। यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्द्धादिभिर्विशिष्टमेवं प्रादेशमात्रं प्रादेशैर्द्युमूर्द्धादिभिः पृथिवीपादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्रम्। मुखादिषु वा करणेष्वकर्तृत्वेन मीयत इति प्रादेशमात्रः। द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः। प्रकर्षेण शास्त्रेणादिश्यन्त इति प्रादेशा द्युलोकादय एव तत्परिमाणः प्रादेशमात्रः। शाखान्तरे तु “मूर्द्धादिश्चिवुकप्रतिष्ठः” इति प्रादेशमात्रं कल्पयन्ति। इह तु न तथाभिप्रेतः। “तस्य ह वा एतस्यात्मनः” इत्याद्युपसंहारात्। प्रत्यगात्मतयाऽभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति पुण्यपापानुरूपां गतिम। सर्वात्मैष ईश्वरो वैश्वानरो” विश्वो नर एव वा सर्वात्मत्वात्। विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरः। तमेवमुपास्ते यः सोऽदन्नमन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति। वैश्वानरवित् सर्वात्मा सन्नन्नमत्ति। न यथाज्ञः पिण्डमात्राभिमानः सन्नित्यर्थः”।

वैषम्य = न० विषमस्य भावः ष्यञ्। विषमत्वे वैलक्षण्ये।

वैषयिक = त्रि० विषयेण निर्वृत्तः ठक्। विषयर्निवृत्ते सुखादौ

वैष्टुत = न० विष्टुत्या निर्वृत्तम् अण्। १ होमभस्मनि हेमच०। २ विष्टुतिसाध्ये यागादौ त्रि०।

वैष्ट्र = न० विष–ष्ट्रन् णिच्च। १ पिष्टपे उणादि० २ स्वर्गे ३ वायौ ४ विष्णौ च संक्षिप्रसा०।

वैष्णव = त्रि० विष्णुर्देवताऽस्य तस्येदं वा अण्। १ विष्णूपासके २ विष्णुसम्बन्धिनि च स्त्रियां ङीप्। ३ वैष्णव्यां शक्तौ “वैष्णवो समरे चैनम्” देवीमा०। “गायत्री वैष्णवी ह्येषा” स्मृतिः। ४ विष्णुधामनि न०। विष्णुमधिकृत्य कृतो ग्रन्थः अण्। ५ महापुराणभेदे न० विष्णुपुराणशब्दे ४९३६ पृ० दृश्यम्।

वैसारिण = पुंस्त्री० विसरति वि + सृ–णिनि स्वार्थे अण्। मत्स्ये अमरः स्त्रियां जातित्वात् ङीष्।

वैहार्य्य = त्रि० विहारं परिहासमर्हति ष्यञ्। परिहासार्हे श्यालकादौ “यथा बालेषु नारीषु वैहार्य्येषु तक्षैव च। सङ्करेषु निपातेषु तथापद्व्यसनेषु च। अनृतं नोक्तपूर्वं मे” भा० उ० १२१ अ०।

वैहासिक = पु० विहासेऽभिरतस्तं करोति वा ठक्। नाटकादौ प्रसिद्धे शृङ्गाररसनायकसहचरे १ विदूषके हेमच० (भांड) इति २ ख्याते लोके च।

वोड्र = पुंस्त्री० वा–बा० उड्र। १ गोनससर्पे (वोडासाप) विक्रमादि०। २ मत्स्यभेदे मेदि०। स्त्रियां जातित्वात् ङीष्। सा च ३ पलचतुर्थांशे (वुडि) मेदि०।

वोढु = पु० वह–तुन्। मुनिभेदे “वोढुः पञ्चशिकस्तथा” तर्पणमन्त्रः।

वोढृ = त्रि० वह–तृच्। १ वाहके २ स्थानान्तरप्रापके “भागीरथी निर्झरशीकरार्णा वोढा” कुमारः। ३ पाणिग्राहके पु० “पिण्डदा वोढुरेव ते” स्मृतिः। ४ भारवाहके ५ मूढे च त्रि० शब्दच०। ६ वृषभे पु० राजनि०। ७ सुते पु० मेदि०।

वोद = त्रि० अवसिक्तमुदकं यत्र पा० ब० उदकस्योदादेशः अवस्यातोलोपः। आर्द्रे त्रिका०।

वोदाल = पुंस्त्री० वोद आर्द्रः सन्नलति अल–अच्। मत्स्यभेदे (वोओयाल) शब्दर० स्त्रियां ङीष्।

वोरक = पु० अवनतं लेखनकाले उरो यस्य प्रा० ब० कप् अवस्यातो लोपः पृषो० सलोपः। लेखके त्रिका०।

वोरट = पु० वोइति रटन्ति भृङ्गा अत्र रट–घञर्थे क। कुन्दवृक्षे त्रिका०।

वोरव = पु० वा–उर वोरं वाति वा–क। (वोरो) धान्यभेदे “वोरवस्तु बुधैः प्रोक्तस्त्रिदोषस्य प्रकोपणः। मधुरश्चाल्पपाकश्च व्रीहिः पित्तकरो गुरुः” राभवल्लभ०।

वोल = पु० वा–उलच्। गन्धरसे गन्धद्रव्यभेदे। “वोलस्तु कटुतिक्तोष्णः कषायो रक्तदोषनुत्। कफपित्तामयान् हन्ति प्रदरादिरुजापहः” राजवल्लभः। स्वार्थे क। तत्रार्थे पु० अमरः।

वोल्लाह = पुंस्त्री० श्वेतकेशरलाङ्गूलयुते अश्वे हेमच०।

वोशि = स्त्री उभयचरशब्दे १३६३ पृ० दर्शिते जन्मकाले सूर्य्यात् द्वितीयस्थे विचन्द्रग्रहे। तदपेक्षया द्वादशस्थे तु वेशी।

वौषट् = अव्य० वह–डौषट्। देवोद्देशेन हविस्त्यागे अमरः।

***