वृश = वृतौ दिवा० पर० सक० सेट्। वृश्यति अवृशत् अवर्शीत् पुषादिरवमित्येके तेन अवृशदित्येव।
वृश = पु० वृश–क। १ वासकवृक्षे भरतः। २ उन्दूरे पुंस्त्री० शब्दच० स्त्रियां ङीष्। ३ ओषधिभेदे स्त्री उणादि०।
वृश्चिक = पु० व्रश्च–किकन्। (विछा) १ कीटभेदे राजनि०। कीटशब्दे दृश्यम्। २ शुककीटे (शुयापोका) अमरः। मेषादितः ३ अष्टमे राशौ ज्या० ४ ओषधिभेदे मेदि०। ५ मदनवृक्षे ६ कर्कटे ७ गोमयकीटे च भरतः। ८ नालिके संक्षिप्तसारः। घृश्चिकराशिश्च २१६०० कलात्मकस्य राशिचक्रस्य १२६० कलोपरि १८०० कलात्मकः विशाखाशेषपादानुराधाज्येष्ठानक्षत्रात्मकः स च शीर्षोदयः श्वेतवणः जलराशिः उत्तरदिक्पतिः कफप्रकृतिः जलमयः बहुपुत्रः बहुस्त्रीसङ्गः चिक्वणवर्णः विप्रवर्णः सौम्यः अङ्गनारूपः समराशिः स्थिरः पुष्करसंज्ञः सरीसृपजातिः ग्राम्यः” वृहज्जातके दृश्यम्।
वृश्चिकप्रिया = स्त्री वृश्चिकस्य शुककीटस्य प्रिया। पूतिकायाम् शब्दच०।
वृश्चिककर्णी = स्त्री वृश्चिकस्य कर्ण इव पत्रं यस्याः। आखुकर्ण्याम् राजनि०।
वृश्चिका = स्त्री वृश्चिकः तद्विषमस्त्यस्या अच्। (विछाती) क्षुपभेदे राजनि०।
वृश्चिकाली = स्त्री वृश्चिक इवालति पर्य्याप्नोति स्पर्शने वेदनायै अच् गौरा० ङीष्। (विछाती) क्षुपभेदे रत्नमा०।
वृश्चिपत्त्री = स्त्री वृश्चिक इव पत्रं विषाक्तमस्य पृषो० कलोपः ङीप्। वृश्चिकाल्याम रत्नमा०।
वृश्चीर = पु० व्रश्च–कीरच्। श्वेतपुनर्नवायाम् रत्नमा०।
वृष = सेचने सक० भ्वा० पर० प्रजननसामर्थ्ये ऐश्वर्य्ये अक० सेट्। वर्षात अवर्षीत्। उदित् क्त्वा वेट्।
वृष = प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा० आत्म० सक० सेट्। वर्षयते अवीवृषत–अववर्षत।
वृष = पु० वृष–क। १ वृषभे पुङ्गवे अमरः २ मेषादितो द्वितीये राशौ ज्ये० त०। ३ पुरुषभेदे ४ एकादशमनुकालीने ५ इन्द्रे ६ धर्मे गरुडपु० ८१ अ०। ७ शृङ्गिमात्रे ८ मूषिके ९ शुक्रयुक्ते १० वास्तुस्थानभेदे ११ वासकवृक्षे मेदि०। १२ शत्रौ जटा०। १३ कामे १४ बलयुक्ते त्रि० विश्वः १५ ऋषभनामौषधौ राजनि०। १६ मयूरपिच्छे १७ श्रीकृष्णे च त्रिका०। वृषराशिश्च २१६०० कलात्मकस्य राशिचक्रस्य १८०० कलोपरि १८०० कलात्मकः। कृत्तिकाशेषत्रिपादरोहिणीमृगाद्यार्द्धात्मकः स च सौम्यः अङ्गना समः स्थिरः पुष्क रसंज्ञः चतुष्पाद् निशासु ग्राम्यः दिवारण्यः ह्रस्वः दक्षिणदिगीशः रात्रिसंज्ञः पृष्ठोदयः शीतस्वभावः वातप्रकृतिः सुन्दरभूस्वामी श्वेतवर्णः वैश्यजातिः महा० शब्दकरः मध्यमस्त्रोसङ्गः मध्यमप्रजश्च” वृहज्जा० मूलं दृश्यम्। पुरुषविशेषलक्षणञ्च “बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी वृषो ना” रतिम० उक्तम्। १८ अरिष्टासुरे स हि वृषाकारेण वृन्दावने गोहनने प्रवृत्तः कृष्णेन हतः। तत्कथा हरिव० ७८ अ०। वृषस्य शुभाशुभलक्षणं गोलक्षणशब्दे २७१८ पृष्ठादौ दर्शितम्। वृषादि० आद्युदात्तः।
वृषकर्णी = स्त्री वृष इव सुदर्शनः कर्णोऽस्या ङीप्। (सुदर्शन गुलुञ्च) ख्यातायां लतायाम रत्नमा०।
वृषगन्धा = स्त्री वृषस्य गन्धो लेशो यत्र। वस्तान्त्र्यां राजनि०।
वृषण = पु० वृष–क्यु। १ अण्डकोषे अमरः। २ वीर्य्यान्विते त्रि०। “स्थूललिङ्गो दरिद्रः स्यात् दुःख्येकवृषणोभवेत्। विषमे स्त्रीचपलो वै नृपः स्यात् वृषणे समे प्रलम्बवृषणोऽल्पायुर्निर्द्रव्यो मणिभिर्भवेत्” गरुडपु० ६३ अ०।
वृषणश्व = पु० कर्म० शक०। सामर्थ्ययुक्ते इन्द्राश्वे त्रिका०।
वृषण्वत् = त्रि० वृषत् + मतुप् मस्य वः न नलोपः णत्वम। वर्षणयुते स्त्रियां ङीप्।
वृषण्वसु = त्रि० वृषा वसु यस्य न नलोपः णत्वम्। इन्द्रस्योपकरणे रथादौ जटा०।
वृषदंशक = पुंस्त्री० वृषान् मूषिकान् दशति दन्श–ण्वुल्। विडाले अमरः स्त्रियां ङीष्।
वृषध्वज = पु० वृषो वृषभो मूषिको धर्मोवा ध्वजो यस्य। १ शिवे अमरः वृषकेतनादयोऽप्यत्र। २ हेरम्बे ३ पुण्यकर्मयुते च विश्वः।
वृषध्वाङ्क्षी = स्त्री वृषो बलवान् धाङ्क्षः काको यस्याः ५ त०। गौरा० ङीष्। नागरमुस्तायाम्।
वृषन् = पु० वृष–कनिन्। १ इन्द्रे २ कर्णे ३ दुःखे ४ वेदनाज्ञाने मेदि०। ५ वृषे ६ अश्वे च हेमच०।
वृषनाशन = पु० वृषान् मूषिकान् नाशयति नश–णिच् ल्यु। १ विडङ्गे शब्दमा०। २ अरिष्टरूपवृषनाशके श्रीकृष्णे हरिव० ७८ अ०।
वृषपर्णी = स्त्री वृषस्य मूषिकस्य कर्णैव पर्णमस्याः। (उन्दूरकाणी) १ आखुकर्ण्याम् रत्नमा०। २ सुदर्शनीवृक्षे राजनि०।
वृषपर्वन् = पु० वृषे पर्व उत्सवो यस्य। १ शिवे २ दैत्यभेदे च। वृषं बलकरं पर्व यस्य। ३ भृङ्गारवृक्षे ४ केशरौ च विश्वः।
वृषभ = पु० वृष–अभच् किच्च। १ वृषे २ श्रेष्ठे ३ वैदर्भीरीतिभेदे मेदि०। ४ जिनभेदे हेमच०। ५ कर्णच्छिद्रे ६ ऋषभनामौषधे च उणादि०।
वृषभगति = पु० वृषभेण गतिरस्य। शिवे हारा० वृषभयानादयोऽप्यत्र।
वृषभध्वज = पु० वृषभो ध्वजोऽस्य। शिवे वृषभकेतनादयोऽप्यत्र
वृषभाक्षी = स्त्री वृषभस्य अक्षीव पुष्पमस्याः षच् समा० ङीष्। इन्द्ररारुपयाम् राजनि०।
वृषभानु(न) = पु० राधिकायाः पितरि। ब्रह्मवै० ज० १७ अ०।
वृषभानु(न)सुता = स्त्री ६ त०। राधिकायाम्।
वृषभासा = स्त्री वृष्णा इन्द्रेण भासते भास–अच्। अमरावत्यां त्रिका०।
वृषल = पु० वृष–कलच्। १ शूद्रे २ गृञ्जने ३ घोटके ४ चन्द्रगुप्ते नृपे च मेदि०। ५ अधार्मिके जटा०।
वृषली = स्त्री “पितुर्गेहे च नारी रजः पश्यत्यसंस्कृता। भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता” इत्युक्तायां पितृगृंहे दृष्टरजस्कायामनूढायां १ कन्यायाम्। वृषल + भार्य्यायां जातौ वा ङीष्। २ वृषलजातिस्त्रियां ३ तद्भार्य्यायाञ्च। “ब्रह्महा वृषलीपतिः” इति “वृषलीफेनपीतस्य” इति च मनुः।
वृषलोचन = पु० वृषस्येव लोचन यस्य। १ मूषिके। ६ त०। २ वृषनेत्रे न०। ६ ब०। ३ वृषतुल्यनेत्रे त्रि०।
वृषवाहन = पु० वृषो वाहनमस्य। शिवे वृषभवाहवादयोऽप्यत्र
वृषशत्रु = पु० ६ त०। श्रीकृष्णे त्रिका० वृषान्तकादथोऽप्यत्र
वृषस्यन्ती = स्त्री वृषेण जम्भनमिच्छति वृष + जाभार्थे क्यच् सूक् च शतृ–ङीप्। कामुक्याम् अमरः “लक्ष्मणं सा वृषस्यन्ती” भट्टिः।
वृषा = स्त्री वृषः मूषिकस्तदाकरः पर्णेऽस्याः अच्। १ मूषिकपर्ण्याम् अमरः। २ कपिकच्छ्वां हेमच०।
वृषाकपायी = स्त्री वृषाकपेः पत्नी ङीष् ऐङ् च। १ लक्ष्म्यां २ गौर्य्याम् अमरः। ३ स्वाहायां ४ शच्यां ५ जीवन्त्यां ६ शतावर्य्याञ्च मेदि०।
वृषाकपि = पु० वृषं घर्मं न कम्पयति न + कपि–इन् नलोपः। १ महादेवे २ विष्णौ ३ अग्नौ मेदि० ४ इन्द्रे क्षीरस्वामी।
वृषाकर = पु० वृषस्य सामर्थ्यस्याकरः। माषे राजनि०।
वृषाङ्क = पु० वृषः अङ्कोऽस्य। १ शिवे २ भल्लातके ३ षण्डे च ४ साधौ पुण्यवति च मेदि०।
वृषाहार = पुंस्त्री० वृषो मूषिक आहारो यस्य। विडाले हारा०
वृ(बृ)षि(षी) = स्त्री वर्ग्यादित्वे ब्रुवन्तोऽस्यां सीदन्ति सदडट् ब्रुवः बृ आदेशः ङीप् पृषो० अन्तःस्थादित्वे वृषकि वा ङीप्। व्रतिनां कुशमयासनभेदे अमरः।
वृषोत्सर्ग = पु० उत् + सृज–घञ् ६ त०। मृताद्युद्देशेन तत्पुत्रादिभिः क्रियमाणे विधानेन वृषस्य त्यागे तद्विधिर्यथा शु० त० “कालविवेके अग्निपु० “एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः। प्रेतलोकं परित्यज्यस्वर्कलोकं स गच्छति। आद्यश्राद्धे त्रिपक्षे वा षष्ठे मासि च वत्सरे। वृषोत्सर्गश्च कर्त्तव्यो यावन्न स्यात् सपिण्डता। सपिण्डीकरणादूर्द्ध्वं कालोऽन्यः शास्त्रचोदितः”। यस्य प्रेतस्येति सामान्यश्रुतेः पितृभिन्नस्यापि वृषोत्सर्गः प्रतीयते। त्रिपक्षोऽत्र चान्द्रः श्राद्धे तथादर्शनात् श्राद्धप्रदीपे जातु० “ऊर्द्ध्वं त्रिपक्षात् यत् श्राद्धं मृताहन्येव तद्भवेत्”। अत्र पूर्वमृततिथिमादाय त्रिपक्षगणना मासिकानां मृततिथौ विधानात् त्रिपक्षश्राद्धमपि मृताहे कार्य्यम्। अत्र वत्सर इत्युपादानात् विष्णुधर्म्मोत्तरीये मृताह इति पदं पूर्णसंवत्सरमृततिथिपरम्। तद्यथा वृषोत्सर्गमधिकृत्य विष्णुः “विषुवद्वितये चैव मृताहे बान्धवस्य च। मृताही यस्य यस्मिन् वा तस्मिन्नहनि कारयेत्” यस्य बान्धवस्य पित्रादेर्यस्मिन्नहनि मृताहः तत्तिथौ कर्त्तव्यमित्यर्थः। (तत्तिथिश्च प्रथमादिकला ह्रासवृद्ध्यन्यतरक्रियया सजातीयतिथिस्तेन त्रिपक्षश्राद्धे पक्षान्तरत्वेऽपि न क्षतिः)। छन्दोगप० “वृषोत्सर्गविधिं व्याख्यास्यामः “कार्तिक्यां पौर्णमास्यां रेवत्याश्वयुज्यां दशाहे गते संवत्सरेऽतीते वा”। अत्र मृततिथिमादाय वत्सरगणना दशाहवदित्यविरोधः। एकादशाह इति आद्यश्राद्ध इति च अशौचान्तद्वितीयदिनपरम्। अशोचान्तात् द्वितीयेऽह्नीत्युपक्रमे “वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा” मत्स्यपु० एकवाक्यत्वात्। प्रेतवृषोत्सर्गे वृद्धिश्राद्धं न कार्य्यम् “नार्वाक् संवत्सरात् वृद्धिर्वृषोत्सर्गे विधीयते। सपिण्डीकरणादूर्द्ध्वं वृद्धिश्राद्धं विधीयते” उशनोवचनात्। वृषलक्षणमाह कर्मप्र० कात्या० “अव्यङ्गो जीववत्सायाः पयस्विन्याः सुतो बली। एकवर्णो द्विवर्णो वा यो वा स्यादष्टकासुतः। यूथादुच्चतरो यस्तु समो वा नीच एव वा। सप्तावरान् सप्त परानुत्सृष्टस्तारयेद्वृषः”। अष्टकासुतः अष्टकातिथिषु जातः “वृष एव स मोक्तव्यो न सन्धार्य्यो गृहे वसन्” मत्स्यपु०। वत्सतरोर्विशेषति कात्या० “अग्रतो लोहिता पत्नी पार्श्वाभ्यां नीलपाण्डरे। पृष्ठतश्च भवेत् कृष्णा वृषभस्य च मोक्षणे। चतस्रो वत्सिका भद्रा द्वे वा सम्भवतोऽपि वा। वत्सं सर्वाङ्गसंपूर्णं कन्या सा वत्सिका भवेत्” देवीपु० उ०। अत्र सम्भवत इत्युक्त्या एकयापि वत्सतर्य्या वृषोत्सर्गः सिध्यति। “अङ्कित्वोत्सृज्यते पूर्वं गाश्चालङ्कृत्य सर्वतः। तप्तेन वामतश्चक्रं याम्ये शूलं समालिखेत्। धातुना हेमतारेण आयसेनाथवाऽङ्कयेत्” देवीपु०। प्रेतोद्देश्यकवृषोत्सर्गस्तु मलमासादावपि कर्त्तव्यः “अशौचान्तोऽपि कर्त्तव्य वृषोत्सर्गादिकं बुधैः। मलिम्लुचादिदोषस्तु न ग्राह्यस्तत्र कश्चन” शु० त० धृतवाक्यात्। कालमाधवीये कालादर्शे च मलमासे कर्त्तव्यतानिषेधमुपक्रम्य प्रवृत्तं यथा “आश्रम स्वीकृतिः काम्यवृषोत्सर्गश्च निष्क्रयः”। अत्र काम्येति विशेषणात् नित्यस्य न निषेधः “अशौचान्तात् द्वितीयेऽह्नि यस्य नोत्सृज्यते वृषः। न तस्य निष्कृतिर्दृष्टा दत्तैः श्राद्धशतरपि” इत्युक्तेस्तस्य नित्यत्वम् चन्दनधेनुशब्दे दृश्यम्।
वृष्टि = स्त्री वृष–क्तिन्। १ वर्षणे अमरः। कर्मणि क्तिन्। मेघादिभिः २ सिच्यमाने जले। तत्कारणं यथा “ब्रुवन्तु परमार्थञ्च किमिन्द्राद्वृष्टिरेव च। सूर्य्याद्वि- जायते तोयं तोयात् शस्यानि शाखिनः। तेभ्योऽन्नानि फलान्येव तेभ्यो जीवन्ति जीविनः। सूर्य्यग्रस्तञ्च नीरञ्च काले तस्मात् समुद्भवः। सूर्य्यो मेघादयः सर्वे विधात्रा ते नियोजिताः। यत्राव्दे यो जलधरो गजश्च सागरोमरुत्। शस्याधिपो नृपो मन्त्री विधात्रा ते निरूपिताः। जलाढकानां सस्यानां तृणानाञ्च निरूपितम्। अव्देऽव्देऽस्त्येव तत् सर्वं कल्पे कल्पे युगे युगे। हस्ती समुद्रादादाय करेण जलमीप्सितम्। दद्याद्वनाय तद्दद्याद्वातेन प्रेरितो घनः। स्थाने स्थाने पृथिव्याञ्च काले काले यथोचितम्। ईश्वरेच्छयावि० र्भूतं पूर्णं तत्प्रतिवन्धकम्। भूतं भव्यं भविष्यञ्च महत् क्षुद्रञ्च मध्यमम्। धात्रा निरूपितं कर्म केन तात! निवार्य्यते” ब्रह्मवै० जन्म० २१ अ०। “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजा” गीता। आसंन्नवृष्टिसूचकानि यथा “मयूराः स्तनयित्नूनां शब्देन हृषिता मुहुः। केकायन्ति प्रतिबने सततं वृष्टिसूचकाः। मेघोत्सुकानां मधुरश्चातकानां मनोहरः। श्रूयतामतिमत्तानां वृष्टिसन्निधिसूचकः। गगने शक्रचापेन कृतं साम्प्रतमास्पदम्। धारासारशरैस्तापं छेत्तुं प्रति यथोद्गतः” कालिकापु० १५ अ०।
वृष्टिघ्नी = स्त्री वृष्टिं हन्ति कारणत्वेन जहाति हन–क ङीप्। सूक्ष्मैलायाम् शब्दच०।
वृष्टिजीवन = त्रि० वृष्टिः वृष्टिजलमेव जीवनं पालनोपायो यस्य। १ वृष्टिजलमात्राजीविनि चातके। २ देवमातृके देशे हेमच०।
वृष्टिभू = पु० वृष्टौ तदुपलक्षिते काले भवति भू–क्विप्। १ भेके हारा०। २ वृष्टिभवे त्रि०।
वृष्टिवैकृत = न० ६ त०। उपद्रवसूचके वृष्टिविकारे यथोक्तं वृ० स० ४६ अ० “दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम्। रोगो ह्यनृतुभवायां नृपवधोऽनभ्रजातायाम्। शीतोष्णविप र्यामे नो सम्यगृतुषु च सम्प्रवृत्तेषु। षणमासाद्राष्ट्रभयं रिगभयं दैवजनित च। अन्यतौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम्। रक्ते शस्त्रोद्योगो मसिस्थिवसादिभिर्मरकः। धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्मयं विद्यात्। अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम्। उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ सस्यानामीतिसञ्जननम्। क्षीरघृत- क्षौद्राणां दध्नो रुधिरोष्णयोर्वा वर्षे। देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम्। यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा। देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम्। व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथ वा रात्रौ। प्राच्यामपरस्यां वा तदा भवत् क्षुद्भयं सुमहत्। सूर्य्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टिविकारकाले। धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम्”।
वृष्णि = पु० वृष–नि किच्च। १ यादवर्वश्ये नृपभेदे शब्दच०। २ श्रीकृष्णे ३ मेथे अमरः। ४ चण्डे ५ पाषण्डे च त्रि० शब्दर०।
वृष्णिगर्भ = पु० वृष्णिः यादवकुलं गर्भो यस्य। श्रीकृष्णे हारा०
वृष्य = पु० वृषाय हितो यत् वृष–क्यप् वा। १ माषे हेमच०। २ शुक्रवृद्धिकारके त्रि० भावप्र०। ३ वाजीकरणे न० ४ आमलक्यां ५ शतावर्य्यां ५ ऋषभनामौषधौ च स्त्री राजनि०। ७ ऋद्धितामौषधौ रत्नमा०।
वृष्यकन्दा = स्त्री वृष्यः शुक्रवर्द्धकः कन्दो यस्याः। विदार्य्याम् राजनि०।
वृष्यगन्धिका = स्त्री वृष्यः शुक्रवर्द्धको गन्धो यस्याः कप् अत इत्त्वम्। अतिवलायाम् राजनि०। कवभावे वृष्यगन्धा वृद्धदारके स्त्री शब्दच०।
वृष्यवल्ली = स्त्री कर्म०। १ विदार्य्याम् राजनि०। स्वार्थे क ह्रस्वः। वृष्यवल्लिका तत्रैव स्त्री।
वृह = दोप्तौ वा चु० उभ० सक० पक्षे भ्वा० पर० इदित्। वृंहयति ते अववृंहत् त। वृंहति अवृंहीत्।
वृह = वृद्धौ शब्दे च अक० भ्वा० पर० सक० सेट्। वर्हति इरित् अवृहत् अवर्हीत्।
वृह = ध्वनौ हस्तिध्वनौ वृद्धौ च भ्वा० पर० पर० अक० सेट्। इदित्। वृंहति अवृंहीत्
वृह = वृद्धौ भ्वा० पर० सक० सेट्। वर्हति अवर्हीत्।
वृह = उद्यमे तु० पर० अक० वेट्। वृहति। अवर्हीत्–अवृक्षत्।
वृह = वृद्धौ भ्वा० आत्म० सक० सेट् इदित्। वृंहते अवृंहिष्ट।
वृहच्चञ्चु = पु० वृहतो चञ्चुरिव मञ्जरी यस्य। महाचञ्चुशाके राजनि०।
वृहच्चित्त = पु० वृहत् उदारं चित्तं यस्मात् ५ ब० यस्य वा ६ व०। १ फलपूरे शब्दचि०। २ उदारचित्तयुते त्रि०।
वृहच्छल्क = पु० वृहत् शल्कोऽस्य। चिङ्कटमत्स्ये जटा०।
वृहत् = त्रि० तु० वृह–अति। महति अमरः स्त्रियां गौरा० ङीष्।
वृहती = स्त्री वृहत् + गौरा० ङीष्। १ महत्यां स्त्रियां २ क्षुद्रवार्त्ताक्याम् राजनि०। ३ वारिधान्यां ४ वाचि ५ कण्टिकारिकायाम् मेदि०। ६ नवाक्षरपादके छन्दोभेदे वृ० र०। संज्ञायां कन् ह्रस्वः। उत्तरीयवस्त्रे स्त्री अमरः।
वृहतीपति = पु० वृहतीनां वाचां पतिः। वृहस्पतौ हेमच०।
वृहत्कन्द = पु० वृहत् कन्दो यस्य। १ गृञ्जने रत्नमा०। २ विष्णुकन्दे च राजनि०।
वृहत्काश = पु० कर्म०। (खागडा) तृणभेदे हारा०।
वृहत्कालशाक = पु० कर्म०। (वडकालकासुन्दे) शाकभेदे त्रिका०।
वृहत्कुक्षि = पु० वृहत् कुक्षिर्यस्य। तुन्दिले (भु~डे) अमरः।
वृहत्ताल = पु० कर्म०। हिन्ताले राजनि०।
वृहत्तिक्ता = स्त्री कर्म०। पाठायाम् (आकनादि) राजनि०।
वृहत्तृण = पु० वृहत्तृणं यत्र। वंशे शब्दच०।
वृहत्त्वच् = पु० वृहती त्वक् यस्य। (छातियान) वृक्षे रचमा०
वृहत्पत्र = पु० वृहत् पत्त्रमस्य। १ हस्तिकन्दे (हातिकान्दा) राजनि०। २ त्रिपर्णिकायां स्त्री राजनि०।
वृहत्पाटलि = पु० चु० पट–अलि कर्म०। धुस्तूरवृक्षे त्रिका०।
वृहत्पाद = त्रि० वृहत् पादो मूलमस्य। वटवृक्षे शब्दच०।
वृहत्पालिन् = पु० वृहतः पालयति पाल–णिनि। वनजीरके राजनि०।
वृहत्पीलु = पु० कर्म०। महापीलौ राजनि०।
वृहत्फला = स्त्री वृहत् फलं यस्याः। १ कटुतुम्ब्याम् २ माहेन्द्रवारुण्यां ३ कुष्माण्ड्यां ४ महाजम्ब्वां च राजनि०।
वृहत्साम = न० कर्म०। “त्वामिद्धि हवामाहे” इत्यस्यामृचि गीयमाने साम्नि “वृहत्साम तथा साम्नाम्” गीता।
वृहदङ्ग = पुंस्त्री० वृहदङ्गमस्य। गजे शब्दच० स्त्रियां ङीष्।
वृहदम्ल = पु० कर्म०। (कामराङ्गा) वृक्षे शब्दच०।
वृहदेला = स्त्री कर्म०। स्थूलैलायाम् राजनि०।
वृहद्गुह = पु० कारूषदेशे त्रिका०। स च हिमालयस्य पश्चाद्दक्षिणस्यां मालवदेशसन्निकृष्टः।
वृहद्गोल = न० कर्म०। (तरमुज) लताफले शब्दच०।
वृहद्दल = व० वृहत् दलमस्य। १ पट्टिकालोध्रे २ हिन्ताले च राजनि०।
वृहद्धल = न० कर्म०। महालाङ्गले त्रिका०।
वृहद्भानु = पु० वृहद्भानुः किरणो यस्य। १ अग्नौ २ चित्रकवृक्षे च अमरः।
वृहद्रथ = पु० वृहत् रथोऽस्य। १ इन्द्रे २ यज्ञपात्रभेदे ३ सामभेदे च।
वृहद्राविन् = पु० वृहत् रौति–रु–णिनि। क्षुद्रोलूके राजनि०।
वृहद्वल्क = पु० वृहत् वल्कमस्य। पट्टिकालोध्रे राजवल्लभः।
वृहद्वात = पु० वृहत् वातो धातुभेदो यस्मात् ५ ब०। (देधान) वृक्षे रत्नमाला।
वृहद्वारुणी = स्त्री कर्म०। महेन्द्रवारुण्याम् राजान०।
वृहद्वीज = पु० वृहत् वीजमस्य। आम्रातके शब्दच०।
वृहन्नल = पु० वृहत् नलो यस्य। महापोटगले मेदि०।
वृहन्नला(डा) = पुंस्त्री० वृहत् नलो यस्य वा लस्य डः। अजुने हेमच० विराटपर्वणि तत्कथा दृश्या।
वृहस्पति = पु० वृहत्याः वाचः पतिः पृषो० नि०। १ जीवे देवाचार्य्ये अमरः २ ग्रहभेदे सू० सि० खगोलशब्दे तत्कक्षादिमानं तद्रूपादि च ग्रहयज्ञशब्दे द्वश्यम्। वृहस्पतिना च वौद्धधर्मः प्रवर्त्तितो यथाक्तं मत्स्यपु० २४ अ० “ततो वृहस्पतिः शक्रमकरोद्बलदर्पितम्। ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा। गत्वाथ मोहयामास रजिपुत्रान् वृहस्पतिः। जिनधर्मं समास्थाय वेदवाह्यं स वेदवित्। वेदत्रयी परिभ्रष्टांश्चकार धिषणाधिपः। वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान्। जघान शक्रो वज्रेण सर्वधर्मवहिष्कृतान्”। वृहस्पतिसवः यज्ञभेदः।
वॄ = वरणे क्र्या० प्वा० उभ० सक० सेट्। वृणाति वृणीते अवारीत् अवरिष्ट–अवरीष्ट अवूर्त्त। ववरतुः।
वे = स्यूतौ भ्वा० उभ० यजा० सक० अनिट्। वयति ते अवासीत् अवास्त वा वयादेशः उवाय ऊयतुः ऊवतुः।
वेग = पु० विज–घञ्। १ प्रवाहे हेमच०। २ जवे अमरः ३ महाकालफले मेदि० ४ रेतसि हेमच०। ५ मूत्रविष्ठादिनिः सारणयत्ने ६ न्यायोक्ते संस्कारभेदे च “स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः”। “क्षितिर्जलं तथा तेजः पवनो मन एव च। परापरत्वमूर्तत्वक्रियावेगाश्रया अमी” भाषा० तस्य क्षित्यादिगुणतोक्ता। “स्वभावतः प्रवृत्तानां मलादीनां जिजीविषुः। न वेगं धारयेद्धीरः कामादीनाञ्च धारयेत्” राजनि०।
वेगसर = पुंस्त्री० वेगेन सरति सृ–ट। वेगगामिहये १ अश्वतरे हेमच०। स्त्रियां ङीष्। २ वेगगामिमात्रे त्रि० स्त्रियां ङीप्।
वेगिन् = पु० वेग + अस्त्यर्थे इनि। १ श्येनविहगे राजनि०। २ वेगवति त्रि० अमरः स्त्रियां ङीप्।
वेचा = स्त्री विच–पृथक्त्वे अच्। वेतने हला०।
वेजानी = स्त्री विज–अच् तमानयति आ–नी–ड गौरा० ङीष् सोमराज्याम् शब्दच०।
वेड = न० विड–अच्। १ सान्द्रनिश्छिद्रबन्धने हेमच० २ नौकायां स्त्री हेमच०।
वेडमिका = स्त्री रोटिकामेदे भावप्र० कृतान्नशब्दे दृश्यम्।
वेण = विशामने वाद्यादाने गतौ ज्ञाने चिन्तयाञ्च भ्वा० उभ० सक० सेट्। वेणति ते। अवेणीत् अवेणिष्ट। ऋदित् चङि न ह्रस्वः।
वेण = पु० वेण–अच्। १ वर्णसङ्करजातिभेदे “वैदेहकेन त्व म्बष्ट्यामुत्पन्नो वेण उच्यते” मनुः। २ पृथूराजपितरि नृपभेदे “सत्पुत्रेण तु जातेन वेणोऽपि ३ नदीभेदे स्त्री। त्रिदिवं ययौ” विष्णुपु०। दन्त्यान्तत्वमस्येत्यन्ये।
वेणि(णी) = स्त्री वेण–इन् वा ङीप्। १ केशरचनाभेदे अमरः २ जलसमूहे जटा०। ३ तत्प्रवाहे हेमच०। ४ देवताडवृक्षे अमरः। ५ नदीभेदे तदुत्पत्तिकथा पद्मोत्तर० १५६ अ०। ६ गङ्गायमुनासरस्वतीमेलनस्थाने च। प्रयागशब्दे दृश्यम्।
वेणीर = पु० वेण–ईरन्। अरिष्टवृक्षे (निम) शब्दच०।
वेणु = पु० वेण–उण्। १ वंशे अमरः। २ तद्विकारे वंशीवाद्ये च शब्दच०। “मा पूरय वेणुम्” इत्युद्भटः। ३ नृपमेदे मेदि०।
वेणुक = न० वेणुरिव वेणोर्विकारो वा कन्। तोत्त्रे हेमच०। (पाचनवाडि)।
वेणुकर्कर = पु० वेणुरिव कर्करः। करवीरवृक्षे त्रिका०।
वेणुज = पु० वेणुतो जायते जन–ड। १ वेणुजाते यवाकारे तण्डुले राजनि०। २ वंशजाते दण्डादौ त्रि०।
वेणुध्म = पु० वेणुं वंशीं धमति ध्मा–क। वेणुवादके अमरः।
वेणुन = न० वेण–उनन्। मरिचे रत्नमा०।
वेणुपत्त्री = स्त्री वेणोरिव पत्त्रमस्याः। वंशपत्त्रीवृक्षे रत्नमा०।
वेणुयव = पु० वेणुजातो यव इव। १ वंशजाते २ तण्डुलाकारे पदार्थे राजनि०।
वेणुवाद = त्रि० वेणुं वादयति वद–णिच्–अण्। वेणुवादके ण्वुल्। वेणुवादक तत्रैव त्रि०।
वेणुवीज = न० ६ त०। वेणुजाते यवाकारे पदार्थे राजनि०।
वेतन = न० अज–तनन् वीभावः। १ कृतकर्मणोमृतौ अमरः। मृतिशब्दे दृश्यम्। २ जीवनोपाये हेमच०।
वेतनानपाकर्म्मन् = न० ६ त०। व्यवहारभेदे यत्स्वरूपादिकं वीरमि० उक्तं यथा नारदः “भृतानां वेतनस्योक्तो दानादानविधिक्रमः। वेतनस्यानपाकर्म तद्विवादपदं स्मृतम्”। येतनं कर्ममूल्यं तस्यानपाकर्म भृत्याय समर्पणं समर्पितस्य वा परावर्त्तनन्। तत्र समर्पणे विशेषमाह स एव “भृत्याय वेतनं दद्यात् कर्मस्त्वामी यथाक्रमम्। आदौ मध्येऽवसाने तु कमणो यद्विनिश्चितम्”। तुभ्यमेतावदहं दास्यामीति यद्वेतनं परिमाणतो निश्चितं तत्त्रिधा विभज्य कर्मण आदिमध्यान्तेषु त्रिषु कालेष्वन्यतमकाले वा दद्यादित्यर्थः। एतच्चैतावद्वेतनं दास्यामीति भाषायाः सत्त्वे। असत्त्वे त्वाह स एव “भृतावनिश्चितायां तु दशभागमवाप्नुयुः। लाभं गोवीर्य्यशस्यानां वणिग्गोपकृषीबलाः” इति। दशभागं दशमम्भागङ्गोवीर्य्यं पाल्यमानगवादिभवम्पयोदध्यादि। यदि कर्मस्वामी भृत्याय दशमम्भागन्न प्रयच्छति तदाऽसौ राज्ञा दाप्य इत्याह याज्ञवल्क्यः “दाप्यस्तु दशमम्भागं वाणिज्यपशुशस्यतः। अनिश्चित्य भृतिं यस्तु कारयेत् स महीक्षिता” इति। यस्तु स्यामी वेतनपरिच्छेदमकृत्वैव भृत्यं कर्म कारयति स तस्माद् वाणिज्यपशुशस्यलक्षणात् कर्मणः सकाशाद् यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीय इत्यर्थः। यत् तु “त्रिभागं पञ्चभागं वा गृह्णीयात् सीरवाहकः” इति वृहस्पतिवचनं तद्बह्वायाससाध्याकृष्टक्षेत्रविषयम्। व्यवस्थितविकल्पश्चायम्। कथमत्र व्यवस्थेत्याकाङ्क्षायामाह स एव “भक्ताच्छादभृतः सीरी भागं गृह्णीत पञ्चमम्। जातशस्यात्त्रिभागं तु प्रगृह्णीयादथाऽभृतः” इति। अशनाच्छादनाभ्यां भृतः कृषीयलो लाङ्गलविकृष्टक्षेत्रजातशस्यात् पञ्चमम्भागं गृह्णीयात्। ताभ्यामभृतस्तु तृतीयं भागमित्यर्थः। अथ वा यत्रैतावद्दास्यामीति नास्ति परिभाषा तत्र वृद्धमनूक्तं द्रष्टव्यम् “समुद्रयानकुशला देशकालार्थदर्शिनः। नियच्छेयुर्भृतिं यान्तु सा स्यात् प्रागकृता तदा” इति। एतावद्दास्यामीति परिभाषितेऽपि क्वचित्ततो न्यूनमपि स्वामिमात्रपरिकल्पितं देयं कचित्ततोऽधिकमपि देयमित्थाह याज्ञवल्क्यः “देशं कालञ्च योऽतीयाल्लाभं कुर्य्याच्च योऽन्यथा। तत्र स्यात् स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके” इति। यो भृत्यः स्वाम्यनुज्ञां विना स्वातन्त्र्येण वाणिज्यादिकर्मणः फलसाधकत्वापादकं देशं कालं चातिक्रामति लाभं वा बहुतरं व्यस्तेन स्वल्पं करोति तस्मै पूर्वपरिभाषितभृतिमध्ये स्वामी स्वेच्छानुसारेण किञ्चिद् दद्यात्। यस्तु स्वातन्त्र्येण बहुलाभं करोति तस्मै परिभाषितमूल्यादधिकं किञ्चिद्देयं स्वामिना पारितोषिकमित्यर्थः। अनेकभृत्यसाध्यकर्मणि वेतनार्पणप्रकारमाह स एव “यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम्। उभयोरप्यसाध्यं चेत् साध्ये कुर्य्याद् यथाश्रुतम्” इति। उभयोरपीत्यपिना बहूनां ग्रहणम् अस्मिन् गृहादौ कृते भवतामेतावद्वास्यामीति परिमाषिते द्विबहुभिरारब्धं कर्म यदि व्याध्यादिव- शान्न समापितं तदा तेषु यो यावत् कर्म करोति तस्मै तत्कर्मानुसारेण मध्यस्थपरिकल्पितं वेतनं देयम्। न तु साम्येन दानन्न च परिसमाप्त्यभावाददानम्। यदि तैः समापितं तदा यथा परिभाशितं देयन्न तु प्रत्येकं कृत्स्नं दातव्यं नापि कर्मानुसारेण परिकल्प्य दातव्यमित्यर्थः। यस्तु वेतनं गृहीत्वा समर्थोऽपि न कर्म करोति तं प्रत्याह वृहस्पतिः “गृहीतवेतनः कर्म न करोति यदा भृतः। समर्थश्चेद्दमन्दाप्यो द्विगुणं तच्च वेतनम्” इति। दमं शक्त्यनुसारेण राज्ञा दाप्यः। गृहीतञ्च वेतनं द्वैगुण्येन स्वामिने दद्यादित्यर्थः। नारदोऽपि “भृतिं गृहीत्वाऽकुर्वाणो द्विगुणां भृतिमावहेद्” इति। याज्ञवल्क्योऽपि “गृहीतवेतनः कर्मत्यजन् द्विगुणमावहेद्” इति। अस्मिन्नेव विषये यावता वेतनेन भृत्यत्वमङ्गीकृतं तावदेव स्वामिने देयन्न तु राज्ञे दण्डमित्यर्थः। यद्वाङ्गीकृतां भृतिं दत्त्वा वलात्कारयितव्य इत्याह नारदः “कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं वलाद्” इति। प्रतिश्रुत्येति प्रारम्भस्याप्युपलक्षणार्थम् अतएव कात्यायनः “कर्मारम्भं तु यः कृत्वा सिद्धिन्नैव तु कारयेत्। बलात्कारयितव्योऽसावकुर्वन् दण्डमर्हति” इति। कियद् द्रव्यं दण्ड्य इत्यपेक्षायामाहतुर्वृद्ध मनुवृहस्पती “प्रतिश्रुत्थ न कुर्य्याद् यः स कार्यः स्याद् बलादपि। स चेन्न कुर्य्यात् तत्कर्म प्राप्तुयाद् द्विशतं दमम्” इति। द्विशतं कार्षापणद्विशतमित्यर्थः। यत् तु मनुवचनम् “भृतोऽनार्त्तो न कुर्य्याद् यो दर्पात् कर्म यथोदितम्। स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम्” इति। तदल्पदण्डत्वाद्भागासिद्धिविषयमिति स्मृतिचन्द्रिकायाम्। अर्द्ध्वन्यूनकर्मकरणविषयमिति मदनरत्ने। किञ्चिन्न्यूनकर्मकरणे त्वाह स एव “यथोक्तमार्त्तः सुस्थो वा यस्तत्कर्म न कारयेत्। न तस्य वेतनं देयमल्पोनस्यापि कर्मणः” इति। सुस्थो वा कर्म कारयेदिति वदता सुस्थेऽपि स्वयं कर्तृत्वनियमो नास्तीति दर्शयति। आर्त्तो यदि आर्त्युपशमानन्तरं स्वाङ्गीकृतं कर्म करोति तदार्त्ते दीर्घकालतया कालक्षेपेऽपि भृत्यदोषाभावाद्वेतनमसौ निर्विवादं सभत इत्याह स एव “आर्त्तस्तु कुर्य्यात् सुस्थः सन् यथाभाषितमादितः। सुदीर्घस्यापि कालस्य तल्लमेतैव वेतनम्” आदितः आदौ यथामाषितं यथाप्रतिज्ञातं तथा कुर्य्यादित्यर्थः। सुदीर्षस्यापि कालस्य अत्ययेऽप्रीति शेषः। यस्तु कालविशेषावधिकं कर्म प्रतिज्ञाय तत्कालापूर्त्तावेव कर्म त्यजति तं प्रत्याह नारदः “कालेऽपूर्णे त्यजन् कर्म भृतर्नाशमवाप्नुयाद्”। अत्र दण्डमप्याह विष्णुः भृतकश्चापूर्णे काले त्यजन् सकलमेव मूल्यञ्जह्यात् राज्ञे च पणशतं दद्यादिति”। मूल्यं वेतनम्। स्वामिदोषात्त्यागे तु यावति काले कर्म कृतं तत्कालानुसारेण कल्पितं वेतनं लभत इत्याह नारदः “स्वामिदोषादपक्रामन् यावत् कृतमवाप्नुयाद्” इति। स्वामिदोषो विनापराधं निष्ठुरभाषणादिः। अत्र दण्डमप्याह विष्णुः “स्वामो चद्भृतकमपूर्णे काले जह्यात् तस्य सर्वमेव मूल्यं दद्यात् पण्यञ्च राजन्यत्र भृतादाषादिति”। स्वामिद्रव्यस्य भृत्यदोषेण नाशे यत् कर्त्तव्यं तदाह स एव। “तद्दाषेण यद्विनश्येत्तत् स्वामिने देयमन्यत्र दैवोपथातादिति”। दैवोपघातोराजकृतस्याप्युपलक्षणम। स्वामिने देयं मूल्यद्वारेणेति शेषः। अत्र दोषविशेषः। द्विशेषमाह वृहन्मनुः “प्रामादान्नाशितं दाप्यः समं द्वि र्द्रोहनाशितम्” इति। प्रमादान्नाशितमनबधाननाशितं सममेव दद्यात्। द्रोहनाशितं तीव्रप्रयत्नादिना द्रोहेण नाशितं द्विर्दाप्यो द्विगुणं दाप्य इत्यथः। भृत्यदोषाभावे यदन्यत एव नष्टं तन्न देयमित्याह स एव “न तु दाप्यो हतञ्चौरैर्दग्धमूढं जलेन वेति”। ऊढं नीतम्। यस्तु वाहको वाह्यं द्रव्यं प्रज्ञाहीनात्वादिना स्वदोषेण नाशयति तं प्रत्याह नारदः “भाण्डं व्यसनमागच्छेद्यदि वाहकदोषतः। दाप्यो यत्तत्र नश्येत्तु दैवराजकृतादृते” इति। भाण्डं वहनीयं द्रव्यं सक्तुकादि व्यसनं नाशम्। अत्र भाण्डवाहकयोर्ग्रहर्णबलीवर्दकृषीबलयोरुपलक्षणमिति मदनरत्ने। अत्रापि “प्रमादान्नाशितं दाप्यः समं द्विर्द्रोहनाशितमिति” वृद्धमनूक्तोविशेषोऽवगन्तव्यः। यस्तु वाहकः स्वदोषण प्रस्थानविघ्नं करोति स द्विगुणां भृति दाप्य इत्याह कात्यायनः “विघ्न यो वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम्” इति। विघ्नं करोतीति शेषः। वाहकग्रहणं प्रदर्शनार्थं न तु विवाक्षतन्तेनायुधीयादेर्युद्धविघ्नकारिणीऽप्येतदिति मन्तव्यम्। अतएव नारदः “द्विगुणां तु भृतिं दाप्यः प्रस्थाने विघ्नमाचरन्” इति सामान्येनोक्तवान्। याज्ञवल्क्योऽपि “प्रस्थानविघ्नकृच्चैव पदाप्यो द्विगुणां भृतिम्” इति। एतच्च भृत्यान्तरसम्पादनकालासम्भवविषयम्। अङ्गीकृतकर्मकरणस्यापि यदा सहा- यान्तरालाभेन प्रस्थानविघ्नापादकत्वं तदा त्वाह स एव “प्रकान्ते सप्तमम्मागञ्चतुर्थं पथि सन्त्यजन्। भृतिमर्ङ्घपथे सर्वां प्रदाप्यस्त्याजकोऽपि च” इति। प्रक्रान्ते कर्मणि स्वाङ्गीकृतं कर्म त्यजन् मृत्यो भृतेः सप्तमम्भागं दाप्यः। गमने प्रारब्धे पथि त्यजन् भृतेश्चतुर्थं भागम्। अर्द्ध्वपथे त्यजन् सर्वां भृतिमित्यर्थः। त्याजकोऽपि चेत्यस्यायमर्थः गमनारम्भानन्तरं स्वामी यदि त्याजयति तदा पूर्वोक्तक्रमेण भृयाय सप्तमभागादिकं दापनीय इति। एतच्चाव्याधितादिविषयम् व्याधितस्यापराधाभावात्। यच्च स्वामिना त्याजने च तुर्थभागदापनमुक्तं तदविक्रीतभाण्डस्वामिबिषयम्। विक्रातभाण्डस्वामिना यत् कर्त्तव्यं तदाह वृहन्मनुः “पथि विक्रीय तद्भाण्डंबणिक् भृत्यं त्यजेद् यदि। अथ तस्यापि देयं स्याद् भृतेरर्द्ध्वं कभेत सः” इति। पथि भाण्डस्य चौरादिभिः प्रतिरोधे राजादिभिरपहृते स्वामिनः कर्त्तव्यमाह कात्यायनः “यदा च पथि यद्भाण्डमारुद्ध्येत ह्रियेत वा। यावानध्वा गतस्तेन प्राप्नुयात् तावतो धनम्” इति। तेन भारवाहकस्वीकृतेन यानादिना। भाण्डनेतारं प्रत्याह नारदः “अनयन्भाटयित्वा तु भाण्डयन् यानवाहनम्। दाप्यो भृतिचतुर्भागं सर्वामर्द्ध्वपथे त्यजन्” इति। यानं शकटादि वाहनम् अश्वादि। अयमर्थः यो यानादिना भाण्डनयनं कर्तुं परकीयं यानादिकं भाटयित्वा प्रापणादिकार्योपाधिकं परिक्रयं कृत्वा तन्न नयति स यानस्वामिने परिकल्पितस्य भाटकस्य चतुर्थाऽंशं दाप्यः। यस्तु तन्नीत्वाऽर्द्धमार्गे त्यजति स सर्वां भृतिं दाप्य इति। यस्तु शकटादिकं भाटयित्वा तमेवोपकारशून्यमादाय देशान्तरं गच्छति भाटकं च न प्रयच्छति तं घ्नत्याह वृद्धमनुः “यो भाटयित्वा शकटं नीत्वा वाऽन्यत्र गच्छति। भाटं म दद्याद् दाप्यः स्यादनूढस्यापि भाटकम्” इति। अनूढस्यापि अकृतोपकारस्यापीत्यर्थः। यस्तु कृते कृत्ये समनन्तरं वाहनादेः समर्पणं न करोति तस्य समर्पणपर्य्यन्तभाटकदानमाह कात्यायनः “हस्त्र्यश्वगोखरोष्ट्रादीन् गृहीत्वा भाटकेन मः। नार्पयेत् कृतकृत्यः संस्तावद्दाप्यः स भाटकम्। गृह वार्यापणादीनि गृहीत्वा भाटकेन यः। स्वामिने नार्पयेद् यावत्तावद्दाप्यः स भाटकम्” इति। वारिशब्देन तदाधारभूतं पात्रं लक्ष्यते। नार्पयेत् कृतकृत्यः सन्नित्यनुषङ्गः। परभूमौ गृहनिर्माणाय भाटकदातारं प्रत्याह नारदः “परभूमौ गृहं कृत्वा स्तोमं दत्त्वा वसेत् तु यः। स तद्गृहीत्वा निर्गच्छेत् तृणकाष्ठेष्टकादिकम्” इति। स्तोमम्भाटकं स्तोमाप्रदानेऽप्याह स एव “स्तोमाद्विना वसित्वा तु परभूमावनिश्चितम्। निर्गच्छंस्तृणकाष्ठानि न गृह्णीयात् कथञ्चन। यान्येव तृणकाष्ठानि त्विष्टका विनिवेशिताः। विनिर्गच्छंस्तु तत् सर्वं भूमिखामिनि येदयेद्” इति। स्वामिने निवेदयेदित्यर्थः। अनिश्चितमिति वदता तृणकाष्ठादिग्रहणाग्रहणपरिभाषाविहीनविषयमेतदिति दर्शितम्। परिभाषाविषये तु यथा परिभाषितं कर्त्तव्यम्। भाटके गृहीतानां जलपात्रादीनां भङ्गे नाशे च विशेषमाह स एव “स्तोमवाहीनि भाण्डानि पूर्णकालान्युपानयेत्। गृहीतुराहरेद्भग्नं नष्टञ्चान्यत्र संप्लवात्” इति। स्तोमवाहीनि भाटकगृहीतानि पूर्वपरिभाषितभाटकानि तत्स्वामिनं प्रापयेदिति पूर्वार्द्धार्थः। भग्नमेकदेशेन विकृतं नष्टम् कात्स्न्येन विकृतम्। संप्लवः परस्परसङ्घर्षः तद्भिन्नप्रकारेण यद्भग्नन्नष्टञ्च तद्भाटकगृहीतुर्भवति। संप्लवेन तु यद्भग्नन्नष्टञ्च तद्भाटकदात्रा पूर्ववत् कृत्वा मूल्यद्वारेण वा देयमित्यर्थः। व्याधितस्य भृत्यस्य स्वामिना पथि त्यागे दण्डमाह कात्यायनः “त्यजेत् पथि सहायं यः श्रान्तं रोगार्त्तमेव वा। प्राप्नुयात् साहसं पूर्वं ग्रामे त्र्यहमपालयन्” इति। स्वाम्यनुज्ञातेन भृत्येनापराधे कृते सोऽपराधः स्वामिन एवेत्याह वृहस्पतिः “प्रभुणा विनियुक्तः मन् भृतको विदधाति यत्। तदर्थमशुभं कर्म स्वामी तत्रापराध्नुयाद्” इति। स्वामी कृतकर्मणे भृतकाय यदि न वेतनं ददाति तदाऽसौ राज्ञा दापनीयः इत्याह स एव “कृते कर्मणि यः स्वामी न दद्याद्वेतनं भृते। राज्ञा दापयितव्यः स्याद् वेतनञ्चानुरूपतः” इति। वेश्यातदुपभोक्तृविषये नारद आह “शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत्। अनिच्छन् शुल्कदातापि शुल्कहानिमवाप्नुयात्” इति। एतदव्याधितादिविषयम्। व्याधितादिविषये त्वाह वृह० स्पतिः “व्याधिता सश्रमव्यथा राजकार्यपरायणा। आभन्त्रिता च नागच्छेदवाच्या बडवा स्मृता” इति। आमन्त्रिता आहूता। वडवा दासी तद्ग्रहणमत्र पण्यस्त्रीप्रदर्शनार्थम्। उपभोक्तारं प्रत्याह नारदः “अप्रयच्छन्नथो शुल्कमनुभूय पुमान् स्त्रियम्। अक्रमेण तु सङ्गच्छेद घातदन्तनखादिभिः। अयोनौ यः समाक्रा- मेद् बहुभिर्वापि वासयेत्। शुल्कं सोऽष्टगुणं दाष्यो विनयं तावदेव तु” इति। वेश्यायास्त्वपराधे दण्डादिकं मत्स्यपुराणे दर्शितम् “गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति। तां दमं दापयेद्दद्यादितरस्यापि भाटकम्” इति। इतरस्य दत्तशुल्कस्य। तत्रैव विशेषान्तर मुक्तम् “अन्यमुदिश्य वेश्यां यो नयेदन्यस्य कारणात्। तस्य दण्डो भवेद्राज्ञः सुवर्णस्य च माषकम्। नीत्वा भोगन्न यो दद्याद् दाप्यो द्विगुणवेतनम्। राज्ञश्च द्विगुणं दण्डं तथा धर्मो न हीयते। बहूनां व्रजतामेकां सर्वे तद् द्विगुणं धनम्। तस्यै दद्युः पृथक् राज्ञे दण्डञ्च द्विगुणम्परम्” इति। अत्र निर्णेतॄनाह नारदः “वेश्याःप्रधाना यास्तत्र कामुकास्तद्गृहोषिताः। तत्समुत्थेषु कार्य्येषु निर्णयं संशये विदुः” इति।
वेतस = पु० अज–असुन् तुक् च वीभावः। (वेत) वृक्षभेदे अमरः। स्त्रीत्वमपि शब्दच० तत्र गौरा० ङीष्।
वेतसाम्ल = पु० वेतस एव अम्लः। अम्लवेतसे जटा०।
वेतस्वत् = त्रि० वेतसाः सन्त्यत्र भूम्ना वेतस + ड्व्तुप्। बहु० वेतसयुक्ते देशे अमरः।
वेताल = पु० अज–विच् वीभावः तल–घञ् कर्म०। १ मल्लविशेषे २ भूताधिष्ठितशवभेदे अमरः ३ शिवानुचरे भैरवभेदे कालिकापु०। ४ द्वारपाले च शब्दर०।
वेतालभट्ट = पु० विक्रमादित्यसभास्थे नवरत्नान्तर्गते कविभेदे
वेत्तृ = त्रि० विद–घृच्। १ ज्ञातरि २ वोढरि ३ लब्धरि च राजनि०
वेत्र = पु० अज–त्रल् वीभावः। (वेत) वेतसवृक्षे राजनि०।
वेत्रकीय = त्रि० वेत्र + छ–कुक्च। १ वेत्रसमूहे २ तद्युक्तदेशादौ च सि० कौ०।
वेत्रधर = पु० वेत्रं धरति धृ–अच्। १ द्वारपाले हला० २ वेत्रयष्टिधारमात्रे त्रि०।
वेत्र(त्रा)वती = स्त्री वेत्रा बाहुल्येन सन्त्यस्याः मतुप् मस्य वः वा दीर्घः। १ मालवदेशस्थे नदीभेदे “शरावती वेत्रवती चन्द्रभागा सरस्वती”। २ वृत्तासुरमातरि वराहपु०।
वेत्रासन = न० वेत्रनिर्मितमासनम्। वेत्रनिर्मिते आसने (मोड)
वेत्रासुर = पु० सिन्धुद्वीपात्मजेऽसुरभेदे वराहपु०।
वेथ = वाचने भ्वा० आत्म० द्वि० सेट् ऋदित् चङि न ह्रस्वः। वेथते अवेथिष्ट।
वेद = पु० विद–अच् घञ् वा। १ विष्णौ विष्णुसं०। २ ज्ञाने ३ शास्त्रज्ञाने तत्साधने धर्मब्रह्मप्रतिपादके मन्त्रब्रह्मा० णत्मिके ग्रन्तह्भेदे ४ शास्त्रोक्ते चरित्रे च मेदि०। ५ यज्ञाङ्गे नानार्थमा० ६ कुशमुष्टिकृते पदार्थभेदे “वेदं कृत्वा वेदिं कुर्य्यात्” श्रुतिः येदयति विद–अच् णिच्–अच् विद–अच् वा। ७ ज्ञापके ८ ज्ञारि च त्रि० “वेदोऽसि येन त्वं देव! वेद देवेभ्यो वेदोऽभवस्तेन मह्यं येदो भूयाः” यजु० २। २१ “पत्नी वेदं प्रमुञ्चति वेदोऽसीति “हे कुशमुष्टिनिर्मितपदार्थ! त्वं वेदोऽसि ऋगाद्यात्मकोऽसि यद्वा वेत्तीति वेदः ज्ञातासि। देवेभ्यो देवानां वेदोऽभवः ज्ञापकोऽभूः” कर्क०। तल्लक्षणञ्च अपौरुषं वाक्यं वेद इति मीमांसकाः। पौरुषेयत्वे पूर्वपक्षं दूषयित्वाऽपौरुषेयत्वं माधवेनोपन्यस्य समर्थितं यथा “समयबलेन सम्यक्परोक्षानुभसाधनं वेद इति” वेदलक्षणस्य मन्वादिस्मृत्यादावतिव्याप्तिमाशङ्क्य “अपौरुषेषत्वे सतीति विशेषणाददोष इति चेत् वेदस्यापि परमेश्वरनिर्मितत्वेन पौरुषेयत्वात् शरीरधारिजीवनिर्मितत्वाभावादपौरुनेयत्वमिति चेत् “सहस्रशीर्षा पुरुषः” इत्यादिश्रुतिभिरीश्वरस्यापि शरीरित्वात्। कर्मफलरूपशरीरधारिजीवनिर्मितत्वाभावमात्रेणापौरुषेत्वं विवक्षितमिति चेत् न जीवविशेषैरग्निबाय्वादित्यैर्वेदानामुत्पादितत्वात्। “ऋग्धेद एवाग्नेरुजायत, यजुर्वेदो वायोः, सामवेद आदित्यादिति श्रुतेः” (ईश्वरस्याग्न्यादिप्रेरकत्वेन निर्मातृत्वं द्रष्टव्यम्)। ततः मन्त्रब्राह्मणात्मकत्वं वेदलक्षणमुक्त्वा “मन्त्रब्राह्मणयोर्वेदनामधेयम्” इत्यापस्तम्बवचनं प्रमाणतयोपन्यस्तं ततश्च मन्त्रलक्षणमुक्त्वा तदितरत् ब्राह्मणमित्युक्तम्। तत्रैवोत्तरत्र नन्वेवमपि वेदस्य पौरुषेयत्वेन विप्रलम्भकवाक्यवदप्रामाण्यं स्यात् पौरुषेयत्वं च १ पादे पूर्वपक्षत्वेन जैमिनिरसूत्रयत् यथा “वेदांश्चैके सन्निकर्षं पुरुषाख्येति” सू० “एके वादिनो वेदान् प्रति सन्निकर्षं मन्थन्ते। यथा रघुवंशादयः कालिदासप्रणीता इदानीन्तनास्तथा वेदोऽपि न तु वेदा अनादयः अतएव वेदकर्त्तृत्वेन पुरुषा आख्यायन्ते वैयासिकं भारतं बाल्मीकीयं रामायणमित्यत्र यथा भारतादिकर्तृत्वेन व्यासादय आख्यायन्ते तथा काठकं कौथुमं तैत्तिरीयमित्येवं तत्तद्वेदशास्याकर्तृत्वेन कमदीनामाख्यातत्वात् वेदाः पौरुषेयाः। ननु नित्यानामेव सतां वेदानामुपाध्यायसम्प्रदायप्रवर्त्तकत्वेन कठकादिसमाख्या स्यादित्याशङ्क्य युक्त्यन्तरं सूत्रयति अनित्यदर्शनाच्चेति” सू० अनित्याजननमरणवन्तो ववंरादयो वेदार्थाः श्रूयन्ते “ववरः प्रावहणिरकामयत” कुसुजविन्दु औद्धालकिरकामयतेति” तथा सति वयरादिभ्यः पूर्वमभावादनित्यावेदाः। विमतं वेदवाक्यं पौरुषेयं वाक्यत्वात् कालिदासादिवाक्यवत् इत्यनुमानसूचकश्चकारः” इति पूर्वपक्षे सिद्धान्तयति। “उक्तं तु शब्दपूर्वत्वम्” सू० “तुशब्दो वेदानामनित्यत्वं वारयति। शब्दस्य वेदरूपस्य कठादिपुरुषेभ्यः पूर्वत्वमनादित्वम् प्राचीनैश्च सूत्रैरुक्तम्। “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इत्यत्र औत्पत्तिकशब्देन सर्वेषां शब्दानां वेदानां तदर्थानां तदुभयसम्बन्धान च नित्यत्वं प्रतिज्ञाय उत्तराभ्यां शब्दाधिकरणवाक्याधिकरणाभ्यामुपपादितम। का तर्हि काठकाद्याख्याया गतिरित्याशङ्क्य संप्रदायप्रवर्त्तनात् सेयमुपपद्यते” इत्युत्तरसूत्रयति “आख्याः प्रवचनादिति” सू० “अस्त्वियमाख्ययिकायागतिः (इयं प्रवचनरूपा संप्रदायप्रवर्त्तनेत्यर्थः”) पवराद्यनित्यदर्शनं यदुक्तं तस्य किमित्युत्तरमित्याशङ्कायामाह “परं तु श्रुतिसामान्यमात्रम्” सू० यत्परं ववरादिकं तत् तच्छब्दसामान्यमेव। न तु मनुष्यो ववरनामकोऽत्र विवक्षितः ववरध्वनियुक्तप्रवहणस्त्रभावस्य वायोरत्र वक्तुंशक्यत्वात्। पूर्वपक्षोक्तस्य वाक्यत्व हेतोः पराहतेः। तस्मान्नास्ति वेदस्य पौरुषेयत्वम्। अत्र संग्राहकश्लोकौ “पौरुषेयं न वा तेदवाक्यं स्यात् पौरुषेयता। काठकादिसमाख्यानात् वाक्यत्वाच्चान्यवाक्यवत्। समाख्यानं प्रवचनात् वाक्यत्वं तु पराहतम्। तत्कर्त्मनुपलम्भेन स्यात्ततोऽपौरुषेयता”। ननु भगवता वादरायणेन वेदस्य ब्रह्मकार्य्यत्वं सूत्रितं “शास्त्रयोनित्वादिति”। ऋग्वेदादिशास्त्रकारणत्वात् ब्रह्म सर्वज्ञमिति सूत्रार्थः (तदेतस्य महाभूतस्य निःश्वसितं यदृग्वेदोयजुर्वेद इत्यादि” श्रुतिः “अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा” स्मृतिश्चात्र मूलम्) वाढं नैतावता पौरुषेयत्वं भवति मनुष्यनिर्मितत्वाभावात्। ईदृशमपौरुषेयत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवस्रित्यत्वं वादरायणेनैव देवताधिकरणे सूत्रितम् “अतएव च नित्यत्वमिति”। वेदा० प० पौरुषेयत्वापौरुषेयत्वे अन्यथा निरुक्ते “यथा ननु क्षणिकत्वाभावेऽपि वियदादिवदादिमत्त्वेन परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव सिद्धान्तोभज्येतेति चेन्न न तावत्पुरुषेणोकार्य्यमाणत्वं पौरुषेयत्वं गुरुमतेऽपि पौरुषेतत्वापत्तेः (पाठ्यमान वेदानामिति शेषः) नापि पुरुषाधीनोत्पत्तिमत्त्वं पौरुषेयत्वं नैयायिकामिमतपौरुषेयत्वानुमानेऽस्मादादीनां सिद्धसाधनापत्तेः किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्ध वेदसमानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणषिषयत्वं पौरुषेयत्वं वेदस्य, भारतादीनान्तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमितितेषां पौरुषेयत्वम्”। शब्दचिन्तामणिकृता तु वेदलक्षणमन्यथा निरुच्य पौरुषेषत्वमीदृशमेव समर्थितं यथा “अथ येदः पौरुषेयो वाक्यत्वात् भारतादिवत् इति चेत् कोवेद अनुगतधर्माभावेन तस्य शाखासु नानार्थत्वात् तथा हि न मुख्यवेदप्रयोगविषयो येदः मुख्यार्थाकथनात् नापि शाखासमुदायः तस्य वेदनिरूप्यत्वात् समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेः। नापि स्वर्गकामो यजेतेत्यादिवाक्यं स्मृतिभारतादेरपि तथात्वात्” इत्यादिवेदलक्षणे पूर्वपक्षमुक्त्वा पौरुषेयत्वसाध्ये तमाह “पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वा अध्यापकाध्येतृधीजन्यत्वेन सिद्धसाधनात् स्वतन्त्रपुरुषप्रणीतजातीयत्वं यदि साध्यं तदाद्यभारते स्मृतौ च वाक्यत्वमनैकान्तिकम्” इत्यादिना। अत्रोत्तरमुक्तं यथा “शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वेदत्वम्। ईश्वरप्रमाया अजन्यत्वात् वेदार्घस्यानुमानविषयत्वेऽप्यनुमानादेर्वेदोपजीवकतया स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात् वेदादर्थं प्रतीत्यैव तत्प्रणयनात्” (अग्निर्हिमस्य भेषजमित्यादिवेदवाक्यसंग्रहाय सत्यन्तं लक्षणाप्रविष्टं सत्यन्तं तु अदृष्टार्थकताबाहुल्यज्ञापनार्थमिति वोध्यम्)। मथुरानाथेनैतद्विवृतं तत्र दृश्यम्। साध्यं च पौरुषेयत्वं सजातीतोच्चारणानपेक्षोच्चरितजातीयत्वमिति निर्णीतमधिकं तत्र दृश्यम्। येदाश्च चत्वारः तेषां शाखाविभागश्चरणव्यूहे उक्तः तत्र ऋग्वेदशाखाविभागः ऋग्वेदशब्दे १४११ पृ० दर्शितः। “यजुर्वेदस्य मडशीतिर्भेदा भवन्ति। तत्र चरकार्णा द्वादश भेदा भवन्ति। चरकाः १ आह्वरका २ कठाः ३ प्राच्यकठाः ४ कपिष्ठलकठाः ५ औपमन्यवाः ६ आष्टककठाः ७ चारायणीयाः ८ पारायणीयाः ९ वार्त्तान्तवेयाः १० श्वेताश्वतराः ११ (श्वेताश्वेततरा इति वा पाठः)। मैत्रायणीयाः १२ श्चेति। तत्र मैत्रायणीयानां सप्त मेदा मवन्ति। मानवाः १ दन्दुभाः २ चैवेयाः ३ वाराहाः ४ हा- रिद्रवेयाः ५ श्यामाः ६ श्यामारणीया ७ श्चेति। तेषामध्ययनम् अष्टौ यजुःसहस्राण्यधीत्य शाखापारो भवति। तान्येव द्विगुणान्यधीत्य पदपारो भवति। तान्येव त्रिगुणान्यधोत्य क्रमपारो भवति। षडङ्गान्यधीत्य षडङ्गविद्भवति। शिक्षा १ कल्पो २ व्याकरणं ३ निरुक्तं ४ छन्दो ५ ज्योतिष ६ मित्यङ्गानि। तत्र प्राच्योदीच्यां नैरृत्यां निरृत्यः। तत्र वाजसनेयानां सप्तदश भेदा भवन्ति। जाबालाः १ औधेषाः २ काण्वाः ३ माध्यन्दिनाः ४ शातातपीयाः ५ तापायनीयाः ६ कापालाः ७ पौण्ड्रवत्साः ८ आपटिकाः ९ पामावटिकाः १० (परमावटिकापि पाठः)। पाराशरीयाः ११ वैनेयाः १३ औथेयाः १४ गालवाः १५ वैजवापाः १६ कात्यायनीयाश्च १७। प्रतिपदमनुपदं छन्दो भाषा धर्मो मीमांसा न्यायस्तर्क इत्युपाङ्गानि। उपज्योतिषम्। साङ्गलक्षणम्। प्रतिज्ञानवाक्यम। परिसख्याचरणम्। श्राद्धकल्पः। प्रवराध्यायश्च। शस्त्रम्। क्रतुः। संख्यानः। आगमः। यज्ञपार्श्व्हः होत्रकम्। (पारष्यानुहोत्रकमपि पाठः)। पशवः। उक्थानि। कूर्मलक्षणमित्यष्टादशपरिशिष्टानि। द्वे सहस्रे शते न्यूने मन्त्रे वाजसनेयके। इत्युक्त परिसंख्यातमेतत् सकलं शुक्रियम्। ग्रन्धाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम्। आदावारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्वकम्। वेदमध्याय एतेषां होमान्ते तु समारभेत्”। तत्र तैत्तिरीयकाणां द्विभेदा भवन्ति। ओक्ष्याः १ (खमध्योऽपि पाठः)। खाण्डियाश्चेति २। तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति। आपस्तम्बी १ पौधायनी २ सत्याषाढी ३ हिरण्यकेशी ४ औधेयाश्चेति ५ (ओधेयी च पाठः)। तत्र कठानान्तूपगानविशषाः। चमुश्चत्वारिंशत्युपग्रन्थाः। मन्त्रब्राह्मणयोर्वदृस्त्रिवणी यस्म पठ्यते। यजुर्वेदः स विज्ञेयः शेषाः साखान्तराः स्मृता”। सामवेदस्य किल सहस्रभेद आसीत्। अमध्यायेष्वधीयानास्ते शतक्रतुवज्रेणाभिहताः प्रनष्टाः। तेषां प्रवक्ष्याम्यासुरायणीया वासुरणीया वार्त्तान्सवेयाः प्राञ्जला ऋग्वर्णभेदः प्राचीनयोग्या ज्ञानयोग्या राणायनीश्चति तत्र राणायनीयानां नव भेदाः भवन्ति। राणायनीयाः शाठ्यानीयाः पारायाणीयाः सात्वलाः। (सत्वमुद्भवा इति वा पाठः)। मौद्गलाः (इति तु भाष्ये नास्ति)। खल्वलाः। महाखल्वलाः लाङ्गलाः। कौथुमाः जैमिनीयाश्चेति। तेषामध्ययनम् अष्टौ सामसहस्राणि सामानि च चतुर्दश अष्टौ शतानि दशेति दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्य। एतत् सामगणं स्मृतम्। अथर्थवेदस्य नव भेदा भवन्ति। पैप्पलाः १। दान्ताः २। प्रदान्ताः ३। स्नाताः ४। स्नौता। ५। ब्रह्मदाबलाः ६। शौनकी ७ देवदर्शती ८। चरणविद्या ९ श्चेति। (दाता प्रदाता औता ब्रह्मदीपशी वेदशी इति भाष्ये नामान्तरम) तेषामध्ययनं पञ्च कल्पानि भवन्ति। नक्षत्रकल्पोविधानकल्पो विधिविधानकल्पः संहिता शान्तिकल्पश्चेति। सर्वेषामेव वेदानामुपवेदा भवन्ति। ऋग्वेदस्यायुर्वेदः। यजुर्वेदस्य धनुर्वेद उपवेदः। सामवेदस्य गान्धर्ववेद उपवेदः। अथर्ववेदस्य शस्त्रशास्त्राणि भवन्ति”। “यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः। वैशाम्पायननामासौ व्यासशिष्यश्चकार वै। शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात्। याज्ञवल्क्यस्तु तस्याभूद् ब्रह्मरातसुतो द्विजः। शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा। ऋषिर्योऽद्य महामेरोः समाजे नो गमिष्यति। तस्य वै सप्तरात्रन्तु ब्रह्महत्या भविष्यति। पूर्वमेव मुनिगणैः समयोऽयं कृतो द्विज!। वैशम्पायन एकस्तु तं व्यतिक्रःन्तवांस्ततः। स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमधातयत्। सशिष्यानाह भोः शिष्याः ब्रह्महत्यापहं व्रतम्। चरध्वं मत्कृते सर्वे न विचार्य्यमिदं तथा। अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्! द्विजैः। क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम्। ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामतिम्। मुच्यतां यत् त्वयाऽधीतं मत्तो विप्रावमन्य च। निस्तेजसो वदस्वैतान् यस्त्वं ब्राह्मणपुङ्गवान्। तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा। याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम्। ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज!”। श्रीपराशर उवाच “इत्युक्त्वा रुधिराक्तानि सरूपाणि यजूंषि सः। छर्दयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः। यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज। जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः। ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तुयैः। चरकाध्वर्य्यवस्ते तु चरणान्मुनिसत्तम!। याज्ञवल्क्योऽपि मैत्रेय! प्राणायामपरायणः तुष्टाय प्रयतः सूर्य्यं यजूंष्यभिलषंस्ततः”। श्रीयाज्ञवलक्य उवाच “नमः सवित्रे द्वाराय मुक्तेरमिततेजसे। ऋग्यजुःसामभूताय त्रयीधामवते नमः”। श्रीपराशर उवाच “इत्येवमादिभिस्तेन स्तूयमानः स्तवै रविः। बाजिरूपधरः प्राह व्रियताम भिवाञ्छितम्। याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवाकरम्। यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ” श्रीपराशर उवाच “एवमुक्तो ददौ तस्यै यजूंषि भग वान् रविः। अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः। यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम!। वाजिनस्ते समाख्याताः सूर्य्योऽश्वः सोऽभ्यपद्यत। शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम्। काण्वाद्याः सुमहाभाग! याज्ञवल्क्यप्रवर्त्तिताः” विष्णु पु० ३ अशे ५ अ०। ञ्जामवेद्रस्य संहिता यथा “सामवेदतरोः शाखा व्यासशिष्यः स जैमिनिः। क्रमेण येन मैत्रेय! विभेद शृणु तन्मम। सुमन्तुस्तस्य पुत्रोऽभूत् सुत्वानप्यस्य वै सुतः। अधीतवन्तावेकैकां संहितां तौ महामुनी। साहस्रं संहिताभेदं सुकर्मा तत्सुतस्ततः। चकार तञ्च तच्छिव्यौ जगृहाते महाव्रतौ। हिरण्य। कौशल्यः पौष्यञ्जिश्च द्विजोत्तमः। उदीच्याः सामगाः शिष्यास्तस्य पञ्चशताः स्मृताः। हिमण्यनाभात्तावत्यः संहिता वै द्विजोत्तम!। गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः। लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा। पौष्यञ्जिशिष्यास्तद्भेल्लैः संहिता बहुलीकृताः। हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः। प्रोवाच कृतिनामासौ शिष्येभ्यः सुमहामतिः। तैश्चापि सामवेदोऽसौ शाणाभिर्बहुलीकृतः”। अथर्ववेदस्य संहिता यथा। अथर्वणामघोवक्ष्ये संहितानां समुच्चयम्। अथर्ववेदा स मुनिः सुमन्तुरमितद्युतिः। शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा। कृत्वा तु वेददर्शाय तथा पथ्याय दत्तवान्। वेददर्शस्य शिष्यास्तु मोदो ब्रह्मवलिस्तथा। शौल्कायनिः पिप्पलादस्तथान्यो मुनिसत्तमः। पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विज संहिताः। जाजलिः कुमुदादिश्च तृतीयः शौनको द्विज। शौनकस्तद्द्विधा कृत्वा ददावेकान्तु बभ्रवे। द्वितीयां संहितां प्रादात् सैन्धवायनसंज्ञिने। सैन्धवो मुञ्जकेशश्च भिन्दन् वेदं द्विधा पुनः। नक्षत्रकल्पो वेदानां संहितानां तथैव च। चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्च पञ्चमः। श्रेष्ठाश्चाथर्वणामेते संहितानां विकल्पकाः”। विष्णुपु० ३ अशे ६ अ०। हेमाद्रि दा० ख० देवीपु० ७ य० वेदविभागोन्यथोक्तो यथ “किं वेदरूपं मामयं उपाङ्गसंख्याभेदतः। अङ्गानि चैव वेदानां तन्त्रो ब्रूहि सनातन!”। ब्रह्मोवाच “ओंकारप्रभवा पदा गायत्री वेदसम्भवा। षडङ्गास्ते समाख्याता सहोपाङ्गास्तथैव च। छन्दोलक्षणसंयुक्ता मातकागर्भजाः स्मृताः। एकएव भवेद्वेदश्चतुर्वेदः पुन कतः। शाखार्थमल्पयुक्तानां ग्रहणायातिविस्तरात्। संविभक्ता मया वत्स! ऋग्यजुःगामाथर्वकाः। तत्र भेदास्तु ऋग्वेदे दश चैव प्रकीर्त्तिताः। आस्तयाः साङ्ख्य चर्चाश्च आवका चर्चकास्तथा। आरणीयावक्रमाषाः षट्क्रमाःषडनुक्रमाः। दण्डाश्चेति समामेन पुनरेकैव पारणा। शाखाश्च त्रिविधा भूष! शाकला–याष्क–मा० ण्डुकाः। तेषामध्ययनं प्रोक्तं मण्डलानि च सप्ततिः। चर्च्चानां वरसङ्ख्या तु चतुर्विंशच्छतानि च। ऋचां दश सहस्राणि ऋचां पञ्च शतानि च। ऋचामशीतिः पादश्च एतत् पारणमुच्यते। ऋग्वेदे तु भवेत्संख्या यजुर्वेदस्य श्रूयताम्। षडशीतिर्विभेदेन मया भिन्नाः शिवाज्ञया। दशधा चरकास्तत्र क्वरकाहारिद्रवीयाः, कठाः प्राच्यकठश्चैव कपिष्ठलकठास्तथा। नारायणीयाः श्वेताश्च श्वेताश्वतरमैत्रायणाः। पुनः सप्त विभेदेन मैत्रायण्यः प्रकीर्त्तिताः। मानवा दुन्दुभा वाराहाः छागेया हारिद्रवीयाः, श्यामाः श्यामायनीयाश्च तेषामध्ययनमुच्यते। अष्टादश सहस्राणि पाठा वेदविदोऽविदन्। द्विगुणं पदपारीयास्त्रिगुणं क्रमपारगाः। षडङ्गानि यदाधीते स षडङ्गविदुच्यते। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषम्। षडङ्गानि भवन्त्येतान् उपाङ्गानि शृणुष्व भोः। प्रतिपदमनुपदं छन्दो भाषासमन्वितम्। मीमांसा–न्यायतर्कश्च उपाङ्गाः परिकीर्त्तिताः। परिशिष्टाश्च संख्याता अष्टादश शृणुष्व तान्”। यूपलक्षणं छागलक्षणं प्रतिष्ठानुवाकसङ्ख्या चरणव्यूह–श्राद्ध–कल्पसूक्तानि परिषदमृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छशास्त्रं क्रतुसंख्या निगमा यज्ञपार्श्वहोतकम्। व्रतं प्रसवोत्थानकूर्मलक्षणसंयुतम्। कथिताः परिशिष्टास्तु द्व्यूनविंशतिसंख्यया। कठानां पुनर्य्यान्याहुश्रत्वारिंशच्चतुर्युतान्। प्राच्योदीच्या निरुह्याश्च वाजमपेयास्तु पञ्च च। दशभेदविभिन्नाश्च द्रष्टव्या मुनिपुङ्गव। जबालाबौधेयाःकाण्वामाध्यन्दिनाश्व शापेयाः। सुपायिनः कपालाख्याः पौण्ड्रवः रसारविकाः। परमारविकाः पाराशरा ऋद्ध्याबौधायनीयाः। अयोध्या अयोधेयाश्च तेषामध्ययनानि च। द्विसहह्रे शतन्यूने वेदे वाजसनेयके। ऋग्गणीयं प्रसंख्यातस्ततोऽन्यानि यजूंषि च”। एतत्प्रमाणं यजुषां हि केवलम् “सखिलं सक्रियं परिसंख्यातं ब्राह्मणम्। चतुर्गुणन्तु जानीयात्तैत्तिरौया द्विधा पुनः। ऋचेयाः खाण्डिकेयाश्च खण्डिकाः पञ्चधा पुनः। कालेया बौधायनीया हिरण्यकेशास्तथैव च। भारद्वाजापस्तम्बाश्च तेषां भेदाः प्रकीर्त्तिताः। अध्ययनं सौप्तिकञ्चैव प्रवचनीयं तथापरम्। सामवेदस्तु विस्तीर्णः सहस्रभेदशः पुरा। अनध्यायेष्वधीयानाः तदा इन्द्रेण धीमता। वज्रेण निहताः शेषांस्तान्वक्ष्ये शृणु सत्तम!। राणायनीयाः वौथुमास्तत्र भेदान् पुनः शृणु। राणायनीयाः सप्तैव सुग्राह्यास्तपतांवर। कालवेया महाकालवेयालाङ्गलवैद्युताः। कौथुमानामपि सप्त असुरावानरायणाः। प्रजालावैनभृत्याश्च परियोग्याः परिकायणाः। अध्ययनमपि तेषान्तु यथावत् कथितं शृणु। अष्टौ सामसहस्राणि सामानि च चतुर्दश। अष्टौ शतानि नवतीः दश सवालखिल्यकाः। ससुपर्णाश्च प्रख्याश्च एतं सामगणं विदुः। अथो अथर्व्ववेदस्य नव भेदा भवन्ति हि। पिप्पलादा वर्त्मदाश्च भूतायनाः कातयस्तथा। जज्वला ब्रह्मवेदाश्च शोनकी कनखी तथा। वेदऋषिश्चौरविद्या तेषामध्ययनं शृणु”। पञ्चकल्पा भवन्ति “नक्षत्रकल्पोवैतानः संहिताविधिः आङ्गिरसम्। शान्तिकल्पश्च अथर्वणो भवन्ति ह। ऋग्वेदस्यात्रेयं गोत्रं वासुदेवं विदुर्बुधाः। काश्यपञ्च यजुर्वेदं रुद्रदेवन्तु तं विदुः। सामवेदोऽपि गोत्रेण भारद्वाजः पुरन्दरम्। अधिदेवं विजानीयात् वैतानन्तु अथर्वणः”।
वेदगर्भ = पु० वेदोगर्भे यस्य। सर्ववेदस्य प्रथमं स्मर्त्तरि १ हिरण्यगर्भे २ विप्रे च हेमच०। ३ विष्णौ विष्णुस०।
वेदन = न० विद–ल्युट्। १ ज्ञाने २ सुखदुःखाद्यनुभवे ३ विवाहे च “वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने” इति मनुः। युच्। वेदनापि उक्तार्थेषु स्त्री। मा स वेद्धमते स्कन्ध पञ्चकान्तर्गतस्कन्धभेदे बौद्धशब्दे दृश्यम्
वेदनिन्दक = पु० ६ त०। १ नास्तिके २ बौद्धे च।
वेदपारग = पु० वेदानां पारमन्तं सीमां गच्छति गम–ड। समस्तवेदाध्ययिनि।
वेदमातृ = स्त्री ६ त० गायत्र्यां मन्त्रभेदे तस्याः स्वमात्रपाठेन वेदरक्षकत्वात्तथात्वम्।
वेदवत् = पु० वेदाऽभ्यस्यत्वेनास्त्यस्य मतुप् मस्य वः। १ वेदा- भ्यासरते द्विजे। २ कुशध्वजराजकन्यायां सीतादिरूपेणाभिर्भूतायां स्त्री। “कृते युगे वेदवती कुशध्वजसुता शुभा। त्रेतायां रामपत्नी सा सीतेति जनकात्मजा। तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा। त्रिहायणीति सा प्रोक्ता विद्यमाना युगत्रये” ब्रह्मवै० प्र० १२ अ०।
वेदवास = पु० ६ त०। ब्राह्मणे तस्य तत्पाठतदुक्ताचाराश्रयत्वात् तथात्वम् वेदावासादयोऽप्यत्र।
वेदविद् = पु० वेदं वेत्ति विद–क्विप्। १ विष्णौ विष्णुस० २ वेदज्ञे त्रि०।
वेदव्यास = पु० वेदान् व्यस्यति विभिन्नशाखत्वेन पृथक् करोति वि + अस–अण्। पराशरपुत्रे सत्यवतीगर्भजे १ मुनिभेदे तथा भूतेषु अन्येषु २ मुनिषु च। युगभेदे तद्भेदाश्च विष्णुपु० ३ अं ३ अ० उक्ता यथा पराशर उवाच “यस्मिन् मन्वन्तरे व्यासा ये ये तांस्तान् निबोध मे। यथा च भेदः शाखानां व्यासेन क्रियते मुने!। अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः। विअवस्वतेऽन्तरे त्वस्मिन् द्वापरेषु पुनःपुनः। वेदव्यासा व्यतीता ये अष्टविंशतिसत्तमाः। चतुर्द्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः। द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा १। द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः २। तृतीये चोशना ३ व्यासश्चतुर्थे तु वृहस्पतिः ४। सविता ५ पञ्चमे व्यासो मृत्युः ६ षष्ठे स्मृतः प्रभुः। सप्तमे च तथैवेन्द्रो ७ वसिष्ठ ८ श्चाष्टमे स्मृतः। सारस्वत ९ श्च नवमे त्रिधामा १० दशमे स्मृतः। एकादशे च त्रिवृषो ११ भरद्वाज १२ स्ततःपरम्। त्रयोदशे चान्तरीक्षो १३ धर्म्मी १४ चापि चतुर्दशे। त्रय्यारुणः १५ पञ्चदशे षोडशे तु धनङ्गयः १६। कृतञ्जयः १७ सप्तदशे ऋणज्यो १८ऽष्टादशे स्मृतः। ततो व्यासो भरद्वाजो १९ भरद्वाजात्तु गौतमः २०। गोतमादुत्तरं व्यासो हर्य्यात्मा २१ योऽभिधीयते। अथ हर्य्यात्मनो वेणः स्मृतो वाजश्रवास्तु २२ यः। सोमो मुख्यायनस्तस्मात् तृणविन्दु २३ रिति स्मृतः। ऋक्षोऽभूद्भार्गवस्तस्मात् वाल्मीकि २४ र्योऽभिधीयते। तस्मादस्मत् पिता शक्तिः २५ व्यासस्तस्मादहं २६ (पराशरः) मुने!। जातूकर्णो २७ऽभवन्मत्तः (पराशरादनन्तरम्) कृष्णद्वैपायन २८ स्ततः। (ततो जातूकर्णात्परम अष्टाविंशतिमे युगे) “अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः। एकोवेदश्चतुर्द्धा तु तेः कृतो द्वापरादिषु। भविष्ये द्वापरे चैव द्रोणिर्व्यासो भविष्यति। व्यतीते मम पुत्रेऽस्मिन् कृष्णद्वैपायने मुने”!
वेदस् = पु० विद–असुन्। व त्तरि जातव दाः विश्ववेदाः।
वेदाङ्ग = न० वेदस्याङ्गमिव। “शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः। ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु” इत्युक्तेषु शिक्षादिषु षट्सु शास्त्रेषु। तेषामङ्गविशेषरूपत्वं शिक्षायामुक्तं यथा “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते। ज्योतिषामयमं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते”।
वेदादि = पु० वेदस्यादिरिव तत्पाठे प्रथमोचार्य्यमारत्वात्। प्रणवे
वेदाधिप = पु० ६ त०। “ऋग्वेदाधिपतिर्जीवो यजुर्वेदाधिपो भृगुः। सामवेदाधिपो भौमः शशिजोऽथर्ववेदपः” इत्युक्तेषु जीवादिषु २ विष्णौ च विष्णुस०।
वेदान्त = पु० ६ त०। वेदशिरोभागे ब्रह्मप्रतिपादके उपनिषद्रूपे १ ग्रन्थभेदे तदुपकारके २ शारीरकसूत्रभाष्यादौ च उत्तरामीमांसाशब्दे १०९७ पृ० दृश्यम्। शारीरकसूत्रञ्च बहुभिसाचार्य्यैः स्वस्वमतानुसारेण व्याख्यातं तत्र रामानुजपूर्णंप्रज्ञशब्दयोस्तत्तन्मतं प्रदर्शितं शाङ्करमतानुसारि मतस्य सिद्धान्तविन्दुप्रदर्शितस्य सङ्क्षेपोऽत्र प्रदर्श्यते “वेदान्तिमते सामान्यतः द्विवध एव पदार्थः दृग्दृश्यश्च तत्रैव सर्वपदार्थान्तर्भावात्। तत्र दृक्पदार्थ आत्मा। स च सर्वदैकरूपोऽप्यौपाधिकभेदात् त्रिविधः ईश्वरः जीवः साक्षी चेति। तत्र कारणीभूताज्ञानो पाधिरीश्वरः। अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानोपहितो जावः। जीवेश्वरानुगतसर्वानुसंधातृ चैतन्यं साक्षी। तत्रेश्वरोऽपि त्रिविधः स्वोपाधिभूताविद्यावृत्तिसत्त्वादिगुणत्रयभेदेन विष्णुब्रह्मरुद्रभेदात्। तत्र कारणीभूतसत्त्वगुणावच्छिन्नो विष्णुः पालयिता। तथा रज उपहितो ब्रह्मा स्रष्टा। हिरण्यगर्भस्तु महाभूतकारणत्वाभावान्न ब्रह्मा। तथापि स्थूलभूतस्रष्टृत्वेन क्वचिद् ब्रह्मेत्युपचर्य्यते। तथा तम उपहितो रुद्रः संहर्त्ता। एवञ्चैकस्यैव तस्य चतुर्भुजचतुर्मुखाद्याः पुमाकाराः श्रीभारतीभवान्याद्याश्च स्त्र्याकारा मत्स्यकूर्मादयोऽप्यवतारा लीलयैवाविर्भवन्ति। तथा जीवोऽपि त्रिविधः स्वोपाधिजाग्रदाद्यवस्थात्रयभेदेन विश्वतैजसप्राज्ञभेदात्। तत्राविद्यान्तःकरणस्थूलशरीरावच्छिन्नो जाग्रदभिमानी विश्वः। स एव स्थूलशरीराभिमानरहित उपाधिद्वयोपहितः स्वप्नावस्थाभिमानी तैजसः। अयमेव शरीरद्वयान्तःकरणो, षाधिरहितोऽन्तःकरणसंस्कारावच्छिन्नोऽविढ्यामात्रोपहितः सुषुप्त्यवस्थाभिमानी प्राज्ञः। साक्षी तु सर्वानुसन्धाता सर्वानुगतस्तुरीयाख्य एकविध एव। अविद्यातत्कर्मात्मकप्रपञ्चो दृश्यपदार्थः तस्यापारमार्थिकत्वेऽपि व्यवहारिकत्वाभ्युपगमान्न स्वप्नादिवदतात्त्विकत्वम्। दृश्योऽपि त्रिविधः अव्याकृतमूर्त्तामूर्त्तभेदात्। तत्र चिदाभाससहिताऽविद्या मूर्त्तामूर्त्तप्रपञ्चस्थूलवीजशक्तिरनादिरव्याकृतमित्युच्यते। इयञ्चाव्याकृताख्याऽविद्येश्वरोपाधिः। सा च स्वयं जडाप्यजडेन चिदाभासेनोज्वलिता पूर्वपूर्वसंस्कारजीवकर्मभ्यां प्रयुक्ता सती शब्दस्पर्शरूपरसगन्धाश्रयाण्याकाशवायुतेजोजलपृथिव्यात्मकानि पञ्च सृक्ष्ममहाभूतानि जनयति। तत्र पूर्वपूर्वभूतभावापन्नाया एवाविद्याया उत्तरोत्तरभूतं प्रतिकारणत्वात् पूर्वपूर्वभूतगुणानामुत्तरोत्तरभूतेष्वनुप्रवेशाद्भूतानामेकैकवृद्धीभूतगुणशालित्वं तथा चाकाशस्य शब्दो गुणः, वायोः शब्दस्पर्शौ, तेजसः शब्दस्पर्शरूपाणि, जल तानि रसश्च, पृथिव्यास्तानि गन्धश्चेति। आकाशस्यैव दिग्व्यवहारजनकत्वेन दिशो न पृथक् पदार्थता। कामस्य चिज्जडसम्बन्धरूपतया तदाधाराविद्यात्मकतया च म पार्थक्यम्। तानि च सूक्ष्माणि पञ्च भूतानि अमूर्त्ताख्यानि कारणाभेदाच्च सत्त्वरजस्तमोगुणात्मकानि सत्त्वरजोऽंशप्राधान्येन ज्ञानक्रियाशक्त्यात्मकमेकं स्वच्छद्रव्यं चित्ररूपमिव मिलित्वा जनयन्ति। तच्च समस्तं द्रव्यं ज्ञानशक्तिप्राधान्येऽन्तःकरणं तदपि द्विविधं मगोबुद्धिभेदात्’ चतुर्विधं मनोबुद्ध्यहङ्कारचित्तभेदादित्यन्ये। तदेव क्रियाशक्तिप्राधान्ये प्राणः। स च पञ्चधा प्राणादिभेदात्। एवमेकैकभूतेभ्योज्ञानक्रियाशक्तिमेदात् प्रत्येकं ज्ञानकर्मेन्द्रियद्वयं जायते। यथाकाशात् श्रोत्रवाचौ, वायोण्वक् पाणी, तेजसश्चक्षुःपादौ, अद्भ्यो रसनापायू, पृथिव्या ध्राणोपस्थौ चोत्पद्येते। तत्र शब्दस्पर्शरूपरसगन्धग्राहकाणि श्रोत्रत्वक्चक्षुःरसनाघ्राणाख्यागि पञ्च ज्ञानेन्द्रियाणि वचनादानगतिविसर्गानन्दजनकानि वाक्पाणिपादपायूपस्थाख्यानि पञ्च कमेन्द्रियाणि! एतच्च सर्वं मिसित्वा सप्तदशकं लिङ्गशरीरम्। तच्च ज्ञानशक्तिप्राधान्येन समष्टौ हिरण्यगर्भ इति क्रियाशक्तिप्राधान्येन समष्टौ सूत्रमिति चोच्यते। अयं भूर्त्तपदार्थः कार्य्यत्वात्। मुमष्टिव्यष्टिजीवोपाधिसूक्ष्मभूतानि तु भोगायतनं शरीरं भोग्यविषयञ्चान्तरेण भोगं जनयितुमसमर्थानीति जीवकर्मप्रयक्तानि तानि स्थौल्यार्थं पञ्चोकृतानि म० वन्ति। तथा हि सर्वाणि भूतानि स्वस्वार्द्धांशे स्वेतरभूतानां चतुर्णामष्टमांशैश्चतुर्भिर्थोजनात् सर्वाण्येव पञ्चात्मकानि। स्वस्वांशाधिक्याच्चाकाशादिव्यवहारः। तानि च पञ्चीकृतानि महाभूतानि मूर्त्ताख्यानि मिलित्वैकं कार्य्यमिन्द्रियाणामधिष्ठानं जनयन्ति। तदेव स्थूलशरीर मित्युच्यते। तत्र सत्त्वप्रधानं दैवं शरीरं रजःप्रधानं मानवं तमःप्रधानं तिर्य्यगादिस्थावरान्तानाम्। सर्वेषां देहानां पाञ्चभौतिकत्वेऽपि चित्रे रूपाणामिव भूतानां क्वचिन्न्यूनातिरेको न विरुद्ध्यते। विषया अपिं चतुर्दशभुवनाख्या षटादयश्च सत्त्वरजस्तमोऽंशतारतम्येन तेभ्य एव भूतेभ्यो जायन्ते। एतच्च सर्वं ब्रह्माण्डं विराडिति चोच्यते। सर्वं च सृष्टिप्रलयादिकं स्वप्नसृष्टि प्रलयवदवास्तवमपि अनादिवासनादार्ढ्यात् व्यवहारक्षममिति मायिकत्वेऽपि न तुच्छत्वप्रसङ्गः”। अन्यदाकरे दृश्यम्।
वेदान्तिन् = त्रि० वेदान्तो ज्ञेयत्वेनास्त्यस्य इनि। वेदान्तशास्त्रज्ञे जटा०।
वेदाभ्यास = पु० ६ त०। “वेदस्वीकरणं पूर्बं विचारोऽभ्यसनं जपः। तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा” इत्युक्तेषु वेदपाठविचारानुशीलनतन्मन्त्रजपपाठनेषु।
वेदि = न० विद + इन्। १ अम्बष्ठायाम् (आकनादि) २ परिष्कृतायां मूमौ स्त्री अमरः वा ङीप्। “मध्येन सा वेदिविलग्नमध्या” कुमारः। ३ पण्डिते पु० ४ अङ्गुलिमुद्रायां स्त्री मेदि०। ५ गृहस्थितपिण्डाकारमृत्तिकास्तूपे च “प्राग्द्वारवेदिविनिवेशितपूर्णकुम्भः” रघुः। ६ भूमिस्थे देशभेदे यथा अन्तर्वेदि उत्तरवेदिः दक्षिणवेदिरित्यादि। वेदिश्च डमरुकाकारपिण्डिकावती पशुवन्धनार्थं होमीयद्रव्यासादानार्थं वा कृतसंस्कारा परिष्कृता चतुरस्रादिरूपा भूमिः। तुलादानाद्यङ्गमण्डपस्थवेदिलक्षणं हेमा० दा० उक्तं यथा “मध्यगोत्तमयोर्वेदी मण्डपस्य त्रिभागतः। चतुर्थांशोच्छ्रितिस्तस्यास्त्रिसप्तपञ्चतोऽपि वा। नवैकादशहारा वा इष्टकाभिः प्रकल्पयेत्”। वैदिककर्माङ्गवेदिलक्षणादिकं कात्या० श्रौ० २। ६। १ सूत्रादौ उक्तं यथा “अपरेणाहवनीयं वेदिं खनति” कात्या० श्रौ० “त्र्यङ्गुलखाताम्” सू० “त्र्यङ्गलं ख्यातमस्याः” कर्क०। “व्याममात्रां पश्चात्” सू० “अपरस्यां दिशि तिर्य्यक्प्रमाणेन चतुररत्रिमात्रां कर्कः। “त्र्यरत्निं प्राचीम्” सू० “त्र्यरत्निं प्राचीम् पूर्वापरायतां दीर्घाम्। पुरस्तात् (पूर्वपार्श्वे) तिर्य्यक्प्रमाणं यद्यपि नोक्तम्। तथाप्यरत्नि यात्मक- मेव दर्शनात् कर्कः। “अपरिमितां वा” सू० “अस्मिन् सूत्र ग्रन्थे द्वावेवापरिमितशब्दौ श्रुतिवाक्यानुसरणादपरिमाणवाचिनौ अपरिमिता वा अपरिमितेष्टका वेति च। अन्थे तु अपरिमितं प्रमाणाद्भूय इत्युक्तत्वात् पूर्व्वोक्त परिमाणादतिशयेनाधिकपरिमाणवाचकः” कर्क० “प्राक् प्रवणामुदग्वा” सू० “प्रवन्तेऽस्मिनापोऽनेन वेति प्रबणं नीचम् प्रवर्त्तते वा वनमुदकमस्मिन्निति तदेव निम्नम्” कर्क०। “मध्यसंगृहीताम्” सू० “तत्साधनप्रकारश्च परिशिष्टे उक्तः “आनीय रज्जुं पूर्वार्द्धात् पश्चार्द्धं यावदेव तु। द्विगुणीकृत्य तां रज्जुमत्वे तस्यास्तु शङ्गुकौ। भ्रामयत्तेन मानेन तया रज्ज्वाष्टभागया। वा पृथुत्वतुरीयेण भागेनालिख्यसंग्रहाविति” क्वचित् “वेदिश्रोण्यंसयोर्मध्ये तया रज्ज्वाष्टभागयेति पाठ” कर्क० “अग्निमभितोऽंसौ” सू० “अंसौ आग्नेयैशानकाणा आहवनीयमुभयतो भवतः अंसयोर्मध्ये आहबनीयो भवतीत्यर्थः अतोऽंसावपि वेदे रेवावयवौ श्रोणिवत् खननस्तरणादयश्च वेदिसम्बद्धाः संस्कारास्तयोरपि प्रवर्त्तत्वे। षडरत्निं रज्जुं मित्वा द्वितीयारत्न्यन्ते लक्षणं श्रोणदकुतार्थम् ततोऽरत्नेश्चतुर्थे भागे लक्षणमाकर्षणार्थम तृतीथारत्न्यन्ते प्राच्यन्ताङ्कनार्थम् ततश्चतुर्थभागोने(ऽरत्नौ) असाङ्कनार्थम् ततः सार्द्धेऽरत्नौ पाश इति अयं च पाशोऽविपर्य्यामेन साधनोपायः विपर्यासपक्षे तु षडरत्निं रज्जुमभयतः पाशौ कृत्वा प्रथमं सार्द्धारत्न्यन्ते असाङ्कनार्थम् ततोऽर्धारत्नौ श्रौण्यङ्कनार्थम् ततोऽरत्नेश्चतुर्थे भागे आकर्षणाथम् अरत्नित्रये च प्राच्यान्ताङ्कनार्थमिति। अपरिमितपक्षाश्रयणे च प्राचीप्रमाणं पुरस्तात्तिर्य्यक्प्रमाणं च तुल्यम् पश्चात्तिर्य्यकप्रमाणं प्राचीप्रमाणं तृतीयभागेनाधिकमिति युक्त्या कल्पनीयम्। तत्र च प्राचीप्रमाणां रज्जुंद्विगुणां कृत्वा रज्जोर्मूलात् पुरस्तात्तिर्य्यक्प्रमाणा सर्द्धे मूलरज्जोश्चान्तिमचतु भागस्यादौ आकर्षणार्थं लक्षणमिति”। अथ खननप्रमाणे पक्षान्तरमाह “आमूलच्छेदनादोषधीमाम्” सू० “प्राक् प्रवणामुदग्व त्यणात्। सूत्रान्मण्डूकप्लुतिन्यायेन वाशब्दोऽत्रानुवर्त्तते अध्याह्रियते वा। अस्मिन् पञ्च एव विशेषमाह” कर्क० “ओषधीतां मूलान्युच्छेत्तवै ब्रूयात्” सू० “इमं प्रैषमध्वर्य्युरग्नीधं प्रति व्रयात्। मूलानि च भूमिमध्ये दूरमपि यावत् प्रसरन्ति तावत्पर्य्यन्तम्” कर्क०। “आहार्य्यपुरीष राकामस्य” सू० “प्रागनुमार्जनाद्वेदेः सकाशाद्वेदि। पुरीषमप- श्चार्य्यान्यत् पुरीषमानीय वेदिमध्ये प्रक्षेपणीयम् एतच्च पुरुषार्थम् प्रणयने कांस्यादिवत् अतश्च विकृतौ न भवति। निष्कामेणापि वेदिः पुरीषवत्येव कार्य्या वेदिपुरीषं तत्रेव तिष्ठति न ततो निष्काश्यते वचनाभावात्। खाता वेदिः नाद्भिः श्लक्ष्णोकरणाया किन्तु पांशुलैव कार्य्या” कर्कः। “वेदिं परिसमुह्य वितृतीयेऽग्नीदुत्तरत उत्करं करोति” सू० “अन्वाहार्य्याधिश्रयणानन्तरं प्रथमं वेदिमानमध्वंर्युः करोति यथोक्तम् “ततोऽग्नीद्दर्भैर्वेदि मध्यपतितं तृणपुरीषादिकमपसार्य्य वेदेरुत्तरतः परिसमूह नापसारितस्य तृणपुरीषादुत्करं राशिं करोति उत्कीर्य्यत इत्युत्करः। वितृतीयं च वेदेः प्रकृतत्वात्तदीयमेव गार्हपत्याहवनीयान्तरालं वितृतीयं च शुल्वकृतोक्तम् गार्हपत्याहवनीययोरन्तरं षोढा सप्तधा वागन्तुसमं त्रेधा विभज्यापरवितृतीयलक्षणेन दक्षिणायम्य तस्मिन्नग्निं विपर्य्यस्योत्तरत उत्कर इत्येकः प्रकारः। अपि वान्तर त्रिभागोनया रज्ज्वा पूर्वार्द्धे समचतुरस्रं कृत्वा श्रोण्यामग्निविपर्य्यसोत्तरांस उत्कर इति विपर्य्यासश्चैवम् पूर्वतृतीयलक्षणेनोत्तरत आयम्येति प्रथमे प्रकारे गार्हपत्याहवनीययोरन्तरत्रिभागोनया रज्ज्वापरार्द्धे समचतुरस्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्कर इति द्वितीय प्रकारः। चात्वालोत्कराबन्तरेण सञ्चरः सन्निहितो हि चात्वालोत्करः पूर्ववितृतीये भवतीति” कर्क०। तत्करण प्रकारस्तत्रत्यपद्धतौ दृश्यः।
वेदिका = स्त्री वेदिरिव इवार्थे कन्। मङ्गलकर्मार्थं गृहद्वारादौ चतुरम्लादिमृत्तिकास्तूपाकारेण निर्मिते भूखण्डे वितर्द्दौ अमरः।
वेदिजा = स्त्री वेद्या होमवेदितो जायते जन–ड। द्रौपद्याम् हेमच०।
वेदितृ = त्रि० विद–तृच् इट् च। ज्ञातरि हेमच०।
वेदिन् = पु० विद–णिनि। १ पण्डिते शब्दर०। २ हिरण्यगर्भे च। ३ ज्ञातरि त्रि० स्त्रियां ङीप्।
वेध = पु० विध–घञ्। (वे~दा) १ वेधने २ उन्माने (चाडा) “परिधिनवमभागः शृकधान्येषु वेधः” इति लीला०। विवाहादौ वर्ज्ये नक्षत्रविशेषस्थितहभेदकृतसंसर्गे च उपयमशब्दे ज्यो० त० च दृश्यम् “वेधं सर्वत्र वर्जयेत्”।
वेधक = पु० विध–ण्वुल्। १ कर्चूरे त्रिका०। २ अम्लवेतसे ३ धन्याके न० राजनि० ४ वेधकर्त्तरि त्रि०।
वेधनी = स्त्री विध्यतेऽनया विध–ल्युट् ङीप्। (भोमरी) १ मणिरत्नादिवेधकारणे अस्त्रभेदे। स्वार्थे क। तत्रार्थे २ मेथिकायां ३ हस्तिकर्णबेधनास्त्रे त्रिकाण्डशेषः।
वेधमुख्य = पु० ७ त०। १ कर्चूरे राजनि०। संज्ञायां क। २ ह। रद्रावृक्षे अमरः।
वेधस् = पु० वि + धा–असुन् गुणः। १ हिरण्यगर्भे जगत्स्रष्टरि २ विष्णौ अमरः। ३ सूर्य्ये ४ श्वेतार्कवृक्षे शब्दच०। ५ पण्डिते विश्वः ६ सूर्य्यवश्ये नृपभेदे वह्निपु०।
वेधित = त्रि० वेधो जातोऽस्य तार० इतच्। १ विद्धे २ छिद्रिते अमरा।
वेधिनी = स्त्री विध–णिनि। १ जलौकायाम् (जोंक) शब्दर०। २ मेथिकायां राजनि०।
वेन्ना = स्त्री वन–न उपधाया इच्च। नदीभेदे “विनदीं पिञ्जलां वेन्नां(णाम्)तुङ्गवेन्नां(णां) महानदीम्” भा० भी० ९ अ०।
वेप = कम्पने भ्वा० आत्म० सक० सेट्। वेषते अवेपिष्ट। ऋदित् चङि न ह्रस्वः। ष्ट्वित्। वेपथुः।
वेपथु = पु० वेप–अथुच्। कम्पे अमरः।
वेपन = पु० वेप–ल्युट्। कम्पने शब्दच०।
वेपस् = ब० वेप–असुन्। अनवद्ये उणादिकोषः।
वेम = पु० वे–मन् न आत्वम्। वापदण्डे शब्दच०। मनिन् न आत्। वेमन् अत्रैवार्थे पु० न० अमरः।
***