विस = न० वि + षो–क। मृणाले अमरः। वादित्वमित्यन्ये
विस = उत्सर्गे दि० पर० सक० सेट्। विणति ष्णवेसीत्।
विसंवाद = पु० वि + सम + वद–घञ्। १ विप्रलम्भे अमरः। २ वञ्चने अन्यथा स्थितस्य वस्तुनोऽन्यथा कथनादौ च।
विसकुसुम = न० विसयुक्तं कुसुमम्। पद्मे राजनि०।
विसङ्कट = पु० विशिष्टः सङ्कटो यस्मात्। १ सिंहे शब्दच० २ इङ्गुदीवृक्षे च राजनि०।
विसनाभि = स्त्री विसं नाभिरिव यस्याः। १ पद्मिन्याम् २ पद्म० समूहे च त्रिका०।
विसर = पु० वि + सृ–अप्। १ समूहे अमरः। २ विस्तार च मेदि०
विसर्ग = पु० वि + सृज–घञ्। १ दाने २ त्यागे ३ मलत्यागे ४ विसर्जनीयाख्ये ५ वर्णभेदे ६ सूर्य्यस्यायनभेदे ७ मोक्षे हला०। ८ प्रलये ९ विशेषसृष्टौ शब्दरला० “विश्वसर्गविसर्गादिनवलक्षणलक्षितमिति” श्रीधरः।
विसर्जन = न० वि + सृज–ल्युट्। १ दाने अमरः २ त्यागे च। वि + सृज–णिच् ल्युट्। ३ प्रेरणे मेदि०।
वि(वी)सर्प = पु० वि + सृप–घञ् वा दीर्घः। रोगभेदे तल्लक्षणादि भावप्र० उक्तं यथा तत्र विसर्पविप्रकृष्टनिदानं संख्यां निरुक्तिञ्चाह “लवणाम्लकटूष्णादिसेवनाद्दोषकोपतः। विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात्” आदिशब्दाच्चरकोक्तहरितशाकभण्डाकीप्रभृतीनां ग्रहणम्। सप्तधात्वं विवृणोति “वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः। चात्वारः एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः। आग्नेयो वातपित्ताभ्यां ग्रन्थिस्थः कफवातजः। यस्तु कर्दमको थोरः स पित्तकफसम्भवः”। विसर्पदोषदूष्याणि संगृह्याह “रक्तं लसीकात्वङ्मांसं दूष्यं दोषास्त्रयो मलाः। विसर्पाणां समुत्पत्तौ हेतवः सप्त धातवः”। त्रयो मलाः वातपित्तकफाः दोषा दूषका इत्यर्थः। अन्यथा दोषामला इत्यत्र पुनरुक्तिदोषो लगिष्यते। वातिकस्य लक्षणमाह “तत्र वातात्परीसर्पो वातज्वरसमव्यथः। शोफस्फुरणनिस्तोदभेदायामार्तिहर्षवान्”। परीसर्पो विसर्पः। वातज्वरसमव्यथः शिरोहृद्गात्रोदरशूलादियुक्तः। भेदः विदारणेनेव व्यथा। आयामः आकर्षणेन व्यथा। पैत्तिकमाह “पित्ताद् द्रुतगतिः पित्तज्वरलिङ्गोऽतिलोहितः”। द्रुवगतिः शीथ्रप्रसरणशीलः। अथ श्लैष्मिकमाह “कफात्कण्डूयुतः स्निग्धः कफज्वरसमानरुक्”। सान्निपातिकमाह “सन्निपातसमुत्थश्च सर्वरूपसमन्वितः”। वातपैत्तिकमाह “वातपित्ताज्ज्वरच्छर्दिमूर्च्छातीसारतृड्भ्रमैः। अस्थिभेदोऽग्निमदनतमसारोचकैर्युतः। करोति सर्वमङ्गञ्च दीप्ताङ्गारावकीर्णवत्। यं यं देशं विसर्पश्च विसर्पति भवेत् स सः। शीताङ्गारासितो वीतो रक्तो वा सूपचीयते। अग्निदग्ध इव स्फाटः शीघ्रगत्वाद् द्रुतञ्च सः। मर्मानुसारी वीसर्पः स्याद्वातातिवन्तुस्ततः। व्यथेताङ्गं हरेत् संज्ञां निद्राञ्च श्वासमीरयेत्। हिध्माञ्च स गतोऽवस्थामीदृशीं लभते नरः। कचिच्छर्माऽरतिग्रस्तो भूमिशय्यासनादिषु। चेष्टमानस्ततः क्लिष्टो मनो देहसमुद्भवाम्। दुःप्रबोधोऽश्रुते निद्रां सोऽग्निवीसर्प उच्यते”। स्फोटः सूपचीयत इत्यन्वयः। “मर्मानुसारी उदरहृदयानुसारी हरेत् विसर्प इत्यन्वयः हिघ्मां हिक्काम् ईरयेत् उपर्य्युपरि प्रेरयेत्। मनोदेहसमुद्भवां निद्रां मरणरूपाम्। अश्नुते प्राप्नोति। वातश्चैष्मिकं ग्रन्थिविसर्पमाह “कफेन रुद्धः पवनो भित्त्वा तं बहुधा कफम्। रक्तञ्च वृद्धरक्तस्य त्वक्सिरास्नायुमांसगम्। दूषयित्वा तु दीर्घार्युवृत्तस्थूलखरात्मनाम्। ग्रन्थीनां कुरुते मालां रक्तानां तीव्ररुग्ज्वराम्। श्वासकासातिसारांश्च शोषहिक्कावमिभ्रमैः। मोहवैवर्ण्यमूर्च्छाङ्गमङ्काग्निसदनैर्युतः। इत्ययं ग्रन्थिवीसर्पो वातश्लेष्मप्रकोपजः”। कफेन स्वहेतुदुष्टेन पवनोऽपि स्वहेतुदुष्टः। तेनायं वातश्लैष्मिकः। तं कफं बहुधा भित्त्वा रक्तं वा दूषययित्वेत्यन्वयः। त्वगादिकमिति रक्तस्य विशेषणम्। अथ पित्तश्लैष्मिकं कर्दमाख्यं विसर्पमाह “कफपित्तज्वरस्तम्मनिद्रातन्द्राशिरोरुजाः। अङ्गावसादविक्षेपप्रलापारोचकम्रमाः। मूर्च्छाग्नि हानिर्भेदोऽस्थ्नां पिपासेन्द्रियगोरवा। आगोपवेशनं लेपः स्रोतसाञ्च विसर्पति। प्रायेणामाशयं गृह्णन्नेकदेशं न चातिरुक्। पोडकैरवकीर्णोऽतिपीतलोहितपाण्डुरैः। न्विग्धोऽसितो मेचकाभो मलिनः शोफवान् गुरुः। गम्भीरपाकः प्राज्योष्मा स्पृष्टः क्लिन्नोऽवदीर्य्यते। पङ्कत्वक्शीर्णमांसश्च स्पृष्टस्नायुसिरागणः। शवगन्धी च वीसर्पः कर्दमाख्यमुशन्ति तम्”। स च सर्पति एकदेशमित्यन्वयः। सीडकैः पीडाकारिभिः। अवकीर्णः व्याप्तः। असितः कणः। मेचकः रूक्षकृष्णः। प्राज्योष्मा प्रचुरोष्मा। स्पृष्टः क्लिन्नोऽवदीर्य्यते। स्पृष्टः सन्नार्द्रो भवति विदीर्य्यते। पङ्कत्वक् कर्दमवर्णत्वक् यत्र सः। शीर्णमांसः गलितमासः। अत एव स्पृष्टस्नायुसिरागणः। सान्निपातिवकाह “सन्निपातसमुत्थस्तु सर्वरूपसमन्वितः”। अथ क्षतजं विसर्पमाह “बाह्यहेतोः क्षतात् क्रुद्धः सरक्तं पित्तमीरयन्। विसर्पं मारुतः कुर्य्यात् कुलात्यसदृशैश्चितम्। स्फोटैः शोथज्वररुजादाहाद्यं श्यावशोणितम्”। वाह्यहेतोः शस्त्रषहारव्यालदन्तनखाद्यागन्तुहेतोः। श्यावशोणितं कृष्णवर्णरक्तम्। उपद्रवानाह “ज्वरातिसारौ वमथुस्त्वग्मांसदरणक्लम्भः। अरोचकविपाकौ च विसर्पाणामुपद्रवाः”। साध्यत्वादिकमाह “सिद्ध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति। पित्तात्मकोऽञ्जनवपुश्च भवेदसाध्यः कृच्छ्राश्च मर्मसु भवन्ति हि सर्व एव”।
विसर्पण = न० वि + सृप–ल्युट्। प्रसारे अमरः।
विसल = न० विस–कलच्। पल्लवे त्रिका०।
विसार = पुंस्त्री० विसरति सर्पति वि + सृ–ण। मत्स्ये अमरः स्त्रियां ङीष्।
विसारिन् = त्रि० वि + सृ–णिनि। १ प्रसरणशीले २ मत्स्ये पु० ३ माषपर्ण्यां स्त्री राजनि० ङीप्।
विसिनी = स्त्री विसानां समूहः तद्युक्तो देशो वा इनि। १ पद्मसमूहे २ पद्मलतायाञ्च ३ मृणाले राजनि०।
विसूचिका = स्त्री विशिष्टा सूचीव इवार्थे कन्। रोगभेदे तस्य निरुक्तिर्यथा “सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः। यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते। तस्य निदानमाह “न तां परिमिताहारा लभन्ते विदितागमाः। मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः। विदितागमा ज्ञातायुर्वेदाः। तस्यालक्षणमाह “मूर्च्छातिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः। वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः”। उद्वेष्टनं हस्तपादयोः, शिरसोभेदः शिरः शूलम्। तस्या उपद्रवानाह “निद्रानाशोऽरतिः कम्पो भूत्राघातो विसंज्ञता। अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः। अमी उपद्रवा घोराः अमी निद्रानाशादय उपद्रवाः सर्वेषामेव रोगाणां घोराः भयङ्कराः। विसूच्याः पञ्चदारुणाः विसूच्यास्तु पञ्चामि यदि स्युस्तदा दारुणाः प्राणभयङ्कराः। तस्या अरिष्टमाह “यः श्यावदन्तोष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः। क्षामस्वरः सर्वविमुक्तसन्धिर्मासान्नरःसोऽपुनरागमाय”। सर्वविमुक्तसन्धिः सर्वे विमुक्ताः शिथिलीभूताः सन्धयो यस्य सः” भावप्र०।
विसृत = त्रि० वि + सृ–क्त। विस्तीर्णे अमरः।
विसृत्वर = त्रि० वि + सृ–क्ष्वरप्। प्रसरणशीले अमरः। स्त्रियां ङीष्।
विसृमर = त्रि० वि + सृ–क्मरप्। विसरणशीले अमरः।
विसृष्ट = त्रि० वि + सृज–क्त। १ प्रेरिते “रघवे विसृष्टः” इति रघुः। २ विक्षिप्ते जटा० शत्यक्तो च।
विस्त = पु० न० विस–उत्सर्गे क्त नि० न इट्। १ स्वर्णकर्षे २ अशीतिरत्तिकापरिमाणे च अमरः।
विस्तर = पु० वि + स्तॄ–अप्। १ शब्दसमूहे अमरः। २ वाक्यसङ्घे ३ विस्तारे ४ प्रणये ५ समूहे च। आधारे अप्। ६ पीठे शब्दरत्ना०।
विस्तार = पु० वि + स्तृ–संज्ञायां कर्त्तरि घञ्। १ विटपे भावे घञ्। २ विस्तीर्णतायाम् समासवाक्यस्थे ३ पदसमूहे च अमरः। ४ स्तम्बे मेदि०।
विस्तीर्ण = त्रि० वि + स्तॄ–क्त। १ विपुले २ विस्तारयुक्ते ३ विशाले च जटा०।
विस्तीर्णपर्ण = न० विस्तीर्णानि पर्णान्यस्य। मानके कन्दभेदे शब्दच०।
विस्तृत = त्रि० वि + स्तृ–क्त। विस्तारयुक्ते।
विस्फुलिङ्ग = पु० विस्फुरति वि + स्फुर–डु तादृशं लिङ्गमस्य। १ वह्निकणे २ विषभेदे च हेमच०।
विस्फोट = पु० विस्फोटयति वि + स्फुट–णिच्–अच्। (विषफोडा) व्रणभेदे स्वार्थे क। स्फोटकमेदे “विस्फोटकभयापहा” शीतलास्तोत्रम्। तद्रोगनिदानादि भावप्र० उक्तं यथा “तत्र विस्फोटस्य विप्रकृष्टं निदानपूर्विकां संप्राप्तिमाह “कट्वम्लतीक्ष्णोष्णविदाहिरूक्षक्षारैरजीर्णाध्यशनातपैश्च। तथर्तुदोषेण विपर्य्ययेण कुप्यन्ति दोषाः पवनादयस्तु। त्वचमाश्रित्य ते रक्तं मांसास्थीनि प्रदुष्य च। घोरान् कुर्वन्ति विस्फोटान् सर्वान् ज्वरपुरःसरान्”। ऋतुदोषेण ऋतुहेतुकशीतोष्णादीनामतियोगेन। विपर्य्ययेण अतूचिताहारविहारवैपरीत्येन। त्वचमाश्रित्य त्वचि विस्थोटान् कुर्वन्तीत्यर्थः। ज्वरपुरःसरान् ज्वरपूर्वान्। पूर्वरूपमाह “अग्निदग्धा इव स्फोटवः सज्वरा रक्तपित्तजाः। क्वचित् सर्वत्र वा देहे विस्फाटा इति ते स्मृताः”। रक्तपित्तजाः एतेन सर्वेषु विस्फोटकेषु रक्तपित्तयोः प्रधानकारणत्वम् यथा शूलेषु वातस्य, तथा वातानुगतिरपि बोद्धव्या। तथा च भोजः “यदा रक्तञ्च पित्तञ्च वातेनानुगतं त्वचि। अग्निदग्धनिभान् स्फोटान् कुरुतः सर्वदेहगान्”। अथ वातिकमाह “शिरोरुक्शूलभूयिष्ठं ज्वरतृट्पर्ववेदनम्। सकृष्णवर्णता चेति वातविस्फोटलक्षणम्”। शूलं तोदरूपम्। अथ पैत्तिकमाह “ज्वरदाहरुजापाकस्रावतृष्णासमन्वितम्। षीतलोहितवर्णञ्च पित्तविस्फोटलक्षणम्”। श्लैष्मिकमाह “छर्धारोचकजाड्यानि कण्डूकाठिन्यपाण्डुताः। यस्मिन्नरुक् चिरात् पाकः स विस्फोटः कफात्मकः। जांव्यम् जडस्वमङ्गा- नाम्। कफपैत्तिकमाह “कण्डूर्दाहो ज्वरश्छर्दिरेतैश्च कफपैत्तिकः”। अथ वातपित्तजमाह “वातपित्तकृतोयस्तु तत्र स्यात्तीव्रवेदना”। वातश्लैष्मिकमाह “कण्डूस्तैमित्यगुरुभिर्जानीयात् कफवातिकम्”। सान्निपातिकमाह “मध्ये निम्नोन्नतान्तश्च कठिनः स्वल्पपाकवान्। दाहरागतृषामोहच्छर्दिमूर्च्छारुजाज्वराः। प्रलापो वेपथुर्मूर्च्छा सोऽसाध्यश्च त्रिडोषजः”। मोहो विपरीतं ज्ञानम् मूर्च्छा सर्वथा ज्ञानशून्यता। रक्तजमाह “वेदितव्याश्च रक्तेन पैत्तिकेन च हेतुना। गुञ्जाफलसमा रक्ता रक्तस्रावा विदाहिनः। न ते सिद्धिं समायान्ति सिद्धैर्योगिशतैरपि”। पैत्तिकेन हेतुना पित्तस्य हेतुना कष्ट्वादिनारक्तपित्तस्य तुल्यत्वात् सिद्धैर्योगिशतैरपि ते सिद्धिं न स मायान्ति। विस्फोटकभेदानाह “एते चाष्टविधा वाह्या आन्तरोऽपि भवेदयम्। तस्मिन्नन्तर्व्यथा तीव्रा ज्वर युक्ताभिजायते। यस्मिन् वहिर्गते स्वास्थ्यं न वातस्य वहिर्गतिः। तत्र वातिकविस्फोटक्रिया कार्य्या विजानता” एतेषामुपद्रवानाह “तृट्श्वासमांससङ्कोचदाहहि क्कामदज्वराः। विसर्पमर्मसंरोधास्तेषामुक्ता उपद्रवाः”। मांससङ्कोचः मांसस्य शठितम्। मर्मसंरोधो मर्मव्यथा। तेषां विस्फोटानां केचिदुपद्रवाणां लक्षणान्तरं पठन्ति “हिक्काश्वासाऽरुचिस्तृष्णा साङ्गमर्द्दा हृदिव्यथा। विसर्पज्वरहृञ्जासाः विस्फाटानामुपद्रवाः”। साध्यत्वादिकमाह “एकष्टोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः। सर्वरूपान्वितो घोरो ह्यसाध्यो भूर्य्युपद्रवः”। २ कुष्ठभेदे “स्फोटाः श्यावारुणाभासा विस्फोटास्तु तनुत्वचः” भावप्र०।
विस्मय = पु० वि + स्मि–अच्। १ आश्चर्य्ये अमरः। २ अद्भुतस्थायिभावके रसभेदे सा० द०। “विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः” सा० द०। ३ दर्पे मेदि० ४ सन्देहे शब्दर०
विस्मयान्धित = त्रि० ६ त०। १ विस्मययुक्ते २ आश्चर्य्ययुक्ते च अमरः।
विस्मापन = पु० वि + स्मि–णिच्–अच–आत् वा पुक् च ल्यु। १ कुहके २ कामदेवे च। ३ गन्धर्वपुरे न० मेदि०। आदभावे विस्मायनमप्यत्र।
विस्मित = पु० वि + स्मि–क्त। विस्मययुक्ते।
विस्मृत = त्रि० वि + स्मृ–क्त। स्मरणाविषये अमरः।
विस्मृति = स्त्री वि + स्मृ–क्तिन्। स्मरणाभावे।
विस्र = न० विस–रक्। आमगन्धौ १ चिताधूमादौ २ अपक्वमांसगन्धे भरतः। ३ आमगन्धे च
विस्रंस = पु० वि + स्वन्स–भावे–घञ्। १ पतने २ क्षरणे च।
विस्रगन्धा = स्त्री विस्रो गन्धोऽस्याः। हपुषायाम् राजनि०।
विस्रगन्धि = पु० विस्रस्येव गन्धोऽस्य इत्समा०। हरिताले हेमच०।
विस्रम्भ = पु० वि + स्रन्भ–घञ्। १ विश्वासे २ प्रत्यये ३ परिचये च अमरः।
विस्रम्भिन् = त्रि० वि + स्रन्भ–णिनि। १ विश्वासयुक्ते २ प्रणयिनि च।
विस्रसा = स्त्री वि + स्रन्स–क। जरायाम् अमरः।
विस्रा = स्त्री विस्रमामगन्धोऽस्त्यस्याः अच्। हपुषायाम् राजनि०।
विहग = पुंस्त्री० विहायसा गच्छति गम–ड नि०। १ पक्षिणि अमरः स्त्रियां ङीष्। २ बाणे ३ सूर्य्ये ४ चन्द्रे ५ मेथे च पु० शब्दरत्ना०। ६ सूर्य्यादिग्रहे पु० धरणिः।
विहङ्गम = पुंस्त्री० विहायसा गच्छति गम–खच् नि०। पक्षिणि अमरः स्त्रियां ङीष्। २ भारयष्टौ स्त्री (वा~क) शब्दच०।
विहङ्गराज = पु० ६ त० अच् समा०। गरुडे हला० “विहङ्गराजाङ्गरुहैरिवायतैः” माघः।
विहनन = न० विहन्यते वि + हन–ल्युट्। १ तुलपिञ्जुले २ विघ्नं ३ हिंसायाञ्च मेदि०।
विहर = पु० वि + हृ–अप्। विहारे ल्युट्। विहरण तत्रैव न०।
विहसित = न० वि + हस–क्त। मध्यमहास्ये अमरः।
विहस्त = त्रि० विगतो हस्तो हस्तावलम्बनं यस्य। १ व्याकले अमरः। २ पण्डिते मेदि० ३ पण्डे च पु० शब्दच०। प्रा० ६ ब०। ४ हस्तशून्ये त्रि०।
विहा = अव्य० वि + हा–आ। स्वर्गे सि० कौ०।
विहापित = न० वि + हा–णिच् क्त। दामे अमरः।
विहायस् = पु० न० वि + हय–असुन् नि० वृद्धिः। १ आकाशे २ पक्षिणि पु० अमरः। स्वार्थे अच्। विहायसमप्याकाशे न० खगे पु०। आदन्तमव्ययम् आकाशे हेमच०।
विहार = पु० वि + हृ–घञ्। क्रीडार्थं पादाभ्यां १ गमने अमरः २ भ्रमणे ३ स्कन्धे ४ लीलायां ५ वौद्धदेवालये मेदि० ६ वैजन्ते च शब्दमा० ७ विन्दुरेखकखगे पुंस्त्री० शब्दच०।
विहित = त्रि० वि + धा–क्त। १ कृते विधिना २ बोधिते च।
विहीन = त्रि० वि + हा–क्त। १ त्यक्ते २ वर्जिते च।
विहृत = न० वि + हृ–भावे क्त। १ विहारे २ स्त्रीणां चेष्टाभेदे हेमचन्द्रे “लीलाविलासो विच्छित्तिर्विव्धोकः किलकिञ्चि तम्। मोट्टायितं कुट्टमितं ललितं विहृतं तथा। विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश” विहृतमित्येव पाठः” सा० द० स्त्रीणां सात्त्विकस्वाभाविकालङ्कारमध्ये पिकृतमित्येव पठित्वा “वक्तव्यकालेऽप्य- वचो व्राडया विकृतं मतमिति” लक्षितम् विकृतशब्दे ४८९१ पृ० दशितेन उज्ज्वलमणिवाक्येन लक्षितविकृतस्य तुल्यार्थत्वात् अतस्तत्र विकृतमित्येव पाठो युक्तः।
विहेठन = न० वि + हेठ–भावे ल्युट्। १ हिंसायां २ मर्दने ३ विडम्बगे मेदि० ४ विबाधायां त्रिका०।
विह्वल = त्रि० वि + ह्वल–अच्। १ भयादिना व्याकुले अमरः। २ विलीने च हेमच०।
वी = कान्तौ जनने च अक० गतो व्याप्तो क्षेपे भोजने च सक० अदा० पर० अनिट्। येति अवैषीत्।
वीक = पु० अज–कक् व्यादेशः। १ वायौ २ खगे च उज्ज्वल०। ३ मनसि संक्षिप्तसा०।
वी(वि)काश = पु० वि + काश–घञ् वा दीर्घः। १ रहसि २ प्रकाशे च अमरः।
वीक्षण = न० वि + ईक्ष–करणे ल्युट्। १ नेत्रे। भावे ल्युट्। २ दर्शने।
वीङ्खा = स्त्री वि + इखि–अच्। १ शूकशिम्ब्याम्। भावे अ। २ गतिभेदे ३ नृत्ये ४ अश्वगतिभेदे ५ सन्धो वः शब्दच०।
वीचि(ची) = पुंस्त्री० वे–डीचि स्त्रीत्वे वा ङीप्। १ तरङ्गे अमरः २ अवकाशे ३ सुखे मेदि०। ४ अल्पे हेमच०। ५ किरणे च जटाध०।
वीचितरङ्ग = पु० वोचे रव तरङ्गो यत्र। वीचितो यथा उत्तरोत्तर तरङ्गजननमेवं स्वजन्यजन्यादिरूपेण प्रसारिविषये न्यायभेदे न्यायशब्दे ४१६८ पृ० दृश्यम्।
वीचिमालिन् = पु० वोचोनां मालाऽस्त्यस्य इनि। समुद्रे हेमच०।
वीज = व्यजने अद० चुरा० उभय० सक० सेट्। वीजयति तं अविवीजत्–त। “वीज्यते स हि सन्तप्तः” इति कुमारः।
वीज = न० वी–क्विप् जन–ड कर्म०। १ कारणे २ शुक्रे अमरः। ३ अङ्कुरे ४ तत्त्वावधाने मेदि०। ५ मज्जनि राजनि०। ६ अव्यक्तगणितभेदे “पूर्वं प्राक्तं व्यक्तमव्यक्तवीजं प्रायः प्रश्नानो विना व्यक्तयुक्त्या। ज्ञातुं शक्या मन्दधीमिर्नितान्तं यस्मात्तस्याद् वच्मि वीजक्रियाञ्च। ७ मन्त्रमेदे तन्द्रसा०। “वीजग्ने भातरेतत् त्रिपुरहरवधु! त्रिः कृत य जपन्ति” कर्पूरस्तवः। ७ वान्यादः फलादौ च।
वीजक = पु० वीजेन कायति कै–क। १ मातुलङ्गके जटा० २ पीतसारं (विजयासार) भावप्र०।
वीजकृत् = न० वीजं शुक्रवृद्धिं करोति कृ–क्विप्। वाजी करणे राजनि०।
वीजकोश = पु० वीजानां कीश इवाधारः। १ पद्मवीजाधारे वराटके अमरः।
वीजगर्भ = पु० वीजानि गर्मे यस्य। पटोले राजनि०।
वीजगुप्ति = स्त्री वीजाना गुप्तिर्यस्याम्। शिम्ब्याम् राजनि०।
वीजन = न० वीज–भावे ल्युट्। १ व्यजने। करणे ल्युट्। २ चामरादौ ३ वस्तुनि पु० ४ चक्रवाके ५ जीवञ्जीवविहगे च पुंस्त्री० सारस्वतः। स्त्रियां ङीष्।
वीजपादप = पु० वीजप्रधानः पादपः। १ भल्लातकवृक्षे राजनि० वीजजातः पादपः शा० त०। २ वीजजाते वीजप्रराहिवृक्षे च।
वीजपुष्प = न० वीजात् पुष्पं यस्य। १ मरुपके २ मदनवृक्षे च मेदि०।
वीजपूर = पु० पूर्य्यते पूर + घञ् ३ त०। (टावा लेवु) जम्बोर भेदे वाजपूर्णोऽप्यत्र। “वीजपूरफलं स्वादु रमेऽम्लं दोपनं लघु। रक्तपित्तहरं कण्ठजिह्वाहृदयशोधकम्। श्वासकासारुचिहरं हृद्यं तृष्णाहरं स्मृतम्”। तद्भेदमधुककंटी गुणा यथा “वीजपूरोऽपरः प्रोक्तामधुरा मधुमर्कटी। मधुककीटका स्वाद्वी रोचनी शीतला गुरुः। रक्तपित्तक्षयश्वासकासहिक्काभ्रमापहा” भावप्र०।
वीजपेशिका = स्त्री वीजस्य शुक्रस्य पेशिकेव। अण्डकोषे राजनि०।
वीजफलक = पु० वीजानि फले यस्य कप्। वीजपूरे जम्बीरे राजनि०।
वीजमातृक = स्त्री वीजानां मातेव इवार्थे कन्। पद्मवीजे हारा०।
वीजरत्न = न० वीजं रत्नमिवास्य। माषकलाये हेमच०।
वीजरुह = पु० वीजन रोहति रुह–क। वीजमात्रजाते धान्यादौ “कुरण्ट्याद्या अग्रवीजा मूलजास्तूपलादयः। पर्वयोनय इक्ष्वाद्या स्कन्दजाः शल्लकीमुखाः। शाल्यादवो वीजरुहाः संमूच्छंजास्तृणादयः। स्युर्वनस्पतिकयस्य षडेते मूलजातयः” हेमच०।
वीजरेचन = न० वीजं रेचयति रिच–णिच्–ल्यु। वीजेषु मध्ये रेचके जयपालवीजे राजनि०।
वीजवपन = न० वीजानि उप्यन्तेऽत्र वप–आधारे ल्युट्। १ क्षेत्रे। भावे ल्युट्। २ वीजस्य उत्पादनार्थं क्षेत्रे क्षपणे च। तद्दिनादि दीपिकायामुक्तं यथा “पूर्वाग्नियाम्यफणिपित्र्यशिवान्यभषु रिक्ताष्टमीविगतचन्द्रतिथिं विहाय। द्व्यङ्गालिगोसमुदये विकजार्किपारे शस्तेन्दुयोगकरणेषु हलप्रवाहः। हलप्रवाहवद्वोजवपनस्य विधिः स्मृतः। चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनुजोदये। हेमवारि विलिप्तस्य वीजस्योन्नयतः शुचिः। इस चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत्। कृत्वा चान्योन्यप्रात्साहं नर्त्तको हृष्टमानसः।। प्राङ्मुखः कवसं गृह्म इमं मन्त्र मुदीरयेत्। त्वं वै वसुन्धरे! सीते बहुपुष्पफलप्रदे। नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु!। रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकास्तु भवन्त्वग्र्या धान्येन च धनेन च”। “उप्त्वा वीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह”। पराशरः “वैशाखे वपन श्रेष्ठं मध्यमं रोहिणीरवौ। अतः परस्मिन्नधम न जातु श्रावणे शुभम्”। कृषिशब्देऽधिकं दृश्यम्। ज्योतिषे “पूर्वभाद्रपदामूलं रोक्षिण्युत्तरफल्गुनी। विशाखा शतभिषा वाथ धान्यादिरोपणे वरा। सदोप्त्वा रजनीं नीलीं पुत्रवित्तैर्वियुज्यते। स्वयजाते पुनस्ते द्वे पालयन् नैव दुष्यति। आरामे गृहमध्ये वा मोहात् सर्षपमावपन्। परामवं रिपुर्याति ससाधनधनक्षयम्। निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता। कोविदारश्च सर्वत्र सर्वं निघ्नन्ति मङ्गलम्”। निशा हरिद्रा कोविदारको रक्तकाञ्चनः। “हेमाम्भसा वृक्षवीजं स्नातो मन्त्रेण रोपयेत्। वसुधेति सुशीतेति पुण्यदेति धरेति च। ममस्ते शुभगे! नित्यं द्रुमोऽयं वर्द्धतामिति” ज्यो० त० “एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना वीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः। रामेन्द्वाग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिताद्भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत् सन्ति च” सु० चि०। “एतेष्विति। श्रुतिःश्रवणः वारुणं शततारका अदितिः पुनर्वसुः विशाखा प्रसिद्धा एतैरुडुभिर्नक्षत्रैर्विनैतषु पूर्वोक्तनक्षत्रेषु भूलमघाघ्रुवमृदुक्षिप्रधनिष्ठास्वातीषु पञ्चदशनक्षत्रेषु वीजोप्तिर्वीजवपनं शुमम्। उक्तञ्च रत्नमालायाम् “हस्तात्त्रिपुष्योत्तररोहिणीषु चित्रानुराधामृगरेवतीषु। स्वातौ धनिष्ठासु मघासु मूले वीजाप्तिरुत्कृष्टफलप्रदिष्टा”। वसिष्ठेनाप्येतावन्त्येव नक्षत्राण्युक्तानि “धातृद्वये कौणपपैत्रपुष्ये हस्तत्रये त्र्युत्तरमैत्रभेषु। पौष्णे धनिष्ठास्मथ वाश्विनीभे बीजोप्तिरुत्कृष्टफलप्रदा स्यादिति”। कौणपो मूलं नारदेनाप्युक्तानि “मृदुध्रुवक्षिप्रभेषु पितृवायुवसूडुषु। समूलभेषु वीजोप्तिरत्युत्कृष्टफलप्रदा”। कश्यपेनापि “वसुवायुभनैर्क्रत्यक्षिप्रध्रुवमृदूडुषु। सीतां स्मृत्वाथ वीजोप्तिरत्युत्कृष्टफलप्रदा”। अत्र मघा नोक्ता। अथ भौमो मङ्गुलवारो निषिद्धः अर्थात् सूर्यचन्द्रबुधगुरुशुक्रशनीनां वारेषु वीजोप्तिः शुवा। अत्र विनायागे द्वितीया द्वामेन्द्रश्रुतिवारुणेषु कुजे वीजोप्तिव्येवहारतत्त्वे उक्तत्वात् नेष्टा कृषिरित्यतो नकारोऽत्रानुवर्त्तते तेन वीजोप्तिर्नेष्टेत्यर्थः। अत्र कालविशेषनिषेधो राजमार्त्तण्डे “रवौ रौद्राद्यपादस्थे भूमेः संजायते रजः। तस्माद्दिनत्रयं तत्र वीजवापं परित्यजेत्” इति। अथ वीजोप्तौ फणिचक्रमुच्यते। अगुभतो न विद्यन्ते गावः किरणा यस्यासावगुः यस्य स्वरूपाभावः तस्य कुतस्तरां किरणाः तादृशोऽगूराहुस्तस्य भं नक्षत्रं तस्मादित्यर्थः। राह्वधिष्ठितनक्षत्रादष्टौ भानि असदसमीचीनानि ततस्त्रीणि शुभानि तत एकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं ततस्त्रीणि शुभानि ततोऽप्येकमशुभं ततस्त्रीणि शुभानि ततश्चत्वार्यशुभानि। एवं वीजोप्तौ सप्तविंशतिनक्षत्राणां शुभाशुभत्वमुक्तं उक्तञ्च नारदेन “भवेद्भ त्रितयं मूर्घ्नि धान्यनाशाय राहुभात्। गले त्रयं कज्जलाय वृद्ध्यै द्वादश चोदरे। निस्तण्डुलत्वं लाङ्गूले भ चतुष्टयमीरितम्। नाशो बहिःपञ्चके स्याद्वीजोप्ता विति चिन्तयेदिति। राहुर्यास्मिन् ऋक्षेऽस्ति तस्मान्नक्षत्र त्रयं मूर्घ्नि मस्तके स्थाप्यं धान्यनाशकरं भवति। ततस्त्रयं गले ख्याप्यं कज्जलाय श्यामिकासंपादकं स्यात्। ततो द्वादश भानि बहिर्नक्षत्ररहितानि उदरे स्थाप्यानि तानि धान्यवृद्धये स्युः ततो नक्षत्रचतुष्टयं पुच्छे निस्तण्डुलत्वकरं स्यात् ततोऽवशिष्टं बहिर्नक्षजपञ्चकं धान्यनाशकरं स्यात्। रत्नमालायानपि “मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्थात् पुच्छे च चतुष्टयं बहिरतो भानां स्थितं पञ्चकम्। क्ष्वेडं कज्जलमन्नवृद्धिरधिकानिस्तण्डुलत्वं क्रमात् स्यादीतिप्रभवं भयं च फणिभाद्वीजाप्तिकाले स्फुटम्” इति। अत्र केचित् फणिभात् सूर्यनक्षत्रादिति व्याचख्युस्तत्र युक्तिः “सूर्यभादुरगः स्थाप्यः” इति स्वरोदयवाक्यैकवाक्यभावात्। तत्र नारदवाक्ये साक्षाद्राहुभादित्युक्तत्वात् “राहुधिष्ण्याव समारभ्य धिष्ण्येष्वष्टसु निष्फलमिति” कश्यपोक्तेश्च। “सूर्यभादुरगः स्थाप्यः” इति तु स्वरोदयवचनं देशभेदव्यवस्थितम्। बीजवापने लग्नशुद्धिमाह वसिष्ठः “भवरिपुसहजे पापैस्त्रिकोणकेन्द्रस्थितैश्च शुभैः। कथितेषु च धिष्ण्येष्वपि शुभलग्ने बीजवापनं कार्यमिति” पी० धा०।
वीजवृक्ष = पु० वीजमात्राज्जातो वृक्षः। असनवृक्षे राजनि०।
वीजसञ्चय = पु० वीजानां वपनयोग्यधान्थादीनां सञ्चयः संप्रहः सम् + चि–अच। वपनयोग्यधान्थादिसंग्रहे। “हस्ताचित्रादितिस्वातिरेवत्यां श्रवणद्वये। स्थिरे लग्ने गुरौ शुक्रे वीजं धार्य्यं ज्ञवासरे। माधे वा फाल्गुने वापि सर्ववीजानि सञ्चयेत्। शोषयेत्तापयेद्रौद्रे रात्रौ चोपनिधापयेत्। ततश्च पुटिकां बद्ध्वा शोषयेच्च पुनःपुनः। स्थापयेच्च प्रयत्नेन यथा भूमिञ्च न स्पृशेत्। दीपाग्निना च संस्पृष्टं वृष्ट्या चोपहतञ्च यत्। वर्जनीयं तथा वीजं यत् स्यात् कीटसमन्वितम्” ज्यो० त०।
वीजसू = पु० वीजं सूते सू–क्विप्। पृथिव्याम् हेमच०।
वीजस्थापन = ६ त०। धान्यादिस्थापने तन्मुहूर्त्तादिकं ज्यो० त० उक्तम् “याम्याग्निरुद्राहिविशाखपूर्वमाहेन्द्रपित्र्येतरभैः शुभाहे। धान्यादिसंस्थापनमेष शस्तं मृगस्थिरद्व्यङ्गगृहोदयेषु। सौम्यादितिमघाज्येष्ठात्र्युत्तरेषु च कारयेत्। मीने लग्ने शुभे चन्द्रे निधने क्रूरवर्जिते। क्षेप्तव्यं कोष्ठके धान्यं गर्गो वदति सर्वदा”।
वीजाकृत = त्रि० वीजेन सह कृष्टम् डाच् + कृ–क्त। वीजेन मह कृष्टे क्षेत्रे।
वीजाम्ल = न० वीजेनाम्लमिव। वृक्षाम्ले राजनि०।
वीजिन् = पु० वीजमस्त्यस्य इनि। १ उत्पादके पितरि हेमच० २ वीजविशिष्टे त्रि० स्त्रियां ङीप्।
वीजोदक = न० वोजमिव कठिनत्वादुदकं यत्र। करकायां त्रिका०।
वीज्य = त्रि० विशेषेण इज्यः वि + यज–क्यप् वा। कुलीने अमरः
वीटि(टी) = स्त्री वि + इट–इन् वा ङीप्। (पानेर वीडा) सज्जितताम्बूले। स्वार्थे क। वीटिका तत्रैव। “कञ्चुलिकाग्रन्थो च “तद्वीटिकासंस्पृशि” सा० द०।
वीणा = स्त्री अज–नक् वीभावः पृषो० णत्वम्। स्वनामख्याते १ वाद्यभेदे अमरः। वाद्यशब्दे दृश्यम्। २ विद्युति मेदि०
वीणादण्ड = पु० ६ त०। वीणावाद्यस्थितालावूपरिस्थे काष्ठदण्डे अमरः।
वीणावाद = त्रि० वीणां वादयति वद–णिच्–अण्। वीणावादके अमरः।
वीत = न० वि–इण्–क्त। १ युद्धासमर्थे हस्त्यश्वादिसैन्ये अमरः २ अङ्कुशकर्मणि मेदि०। ३ न्यायाद्युक्ते अनुमानभेदे च। अवीतशब्दे ४६५ पृ० दृश्यम्। ४ शान्ते ५ गते च त्रि० हेमच०।
वीतंम = पु० वि + तनस्–घञ् दीर्घः। १ मृगपक्षिणां बन्धमोपकरणे दामप्रभृतौ अमरः। २ तेषां विश्वासहेतुप्रावरणे मेदि०।
वीतन = पु० विशिष्टं तनोति तन–अच पृषो० दीर्घः। कृकपार्श्वद्वये “कृकस्तु कन्धरा मध्यं कृकपार्श्वौ तु वीतनौ” हेमच०।
वीतशोक = पु० पु० वीतः विगतः शोको यस्मात् यस्य वा। १ अशोकवृक्षे शब्दच०। २ शोकहीने त्रि०।
वीति = स्त्री वी–क्तिन्। १ गतौ २ दीप्तौ ३ भोजने ४ प्रजनने ५ धारणे च मेदि०।
वीतिहोत्र = पु० वीतवे पुरोडाशादिभक्षणाय हूयन्ते देवा अत्र हु–आधारे त्रल्। १ वह्नौ अमरः २ सूर्य्ये मेदि०।
वीथि(थी) = स्त्री विथ–इन् वा ङीप्। १ पङक्तौ २ श्नेणौ ३ गृहाङ्गे ४ वर्त्मनि ५ दृश्यकाव्यभेदे च मेदि०। तल्लक्षणादि सा० द० ६ प० उक्तं यथा “वीथ्यामेको भवेदङ्कः कश्चिदेकोऽत्र कल्प्यते। आकाशभाषितैरुक्तैश्चित्रां प्रत्युक्तिमाश्रितः। सूचयेद् भूरिशृङ्गारं किञ्चिदन्यान् रसानपि। मुखनिर्वहणे सन्धी अर्थप्रकृतयोऽखिलाः”। कश्चिदित्युत्तमो मध्यमोऽधमो वा। शृङ्गारबहुलत्वाच्चास्याः कैशिकीवृत्तिवहुलत्वम्। “अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः। उद्घात्यकावलगिते प्रपञ्चस्त्रिगतं छलम्। वाक्केल्यधिवले गण्डमवस्यन्दितनालिके। असत्प्रलापव्याहारमृदवानि च तानि तु”। तत्रोद्घात्यकावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते “मिथो वाक्यसमुद्भूतः प्रपञ्चो हास्यकृन्मतः”। यथा विक्रमोर्वश्याम्। वडभीस्थविदूषकचेट्योरन्योन्यवचनम् “त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः”। यथा तत्रैव राजा “सर्वक्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी। रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया”। नेपथ्ये तत्रैव प्रतिशब्दः। राजा कथं दृष्टेत्याह। अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् “नटादित्रितयविषयमेवेदमिति” कश्चित् “प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य छलनाच्छलम्” यथा वेण्यां “भीमार्जुनौ” “कर्त्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी राजा दुःशासनादेगु रुरनुजशतस्याङ्गराजस्य मित्रम्। कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः क्वास्ते दुर्य्योधनोऽसौ कथयतु न रुषा द्रष्टुमभ्यागतौ स्वः” “अन्ये त्वाहुश्छलं किञ्चित् कार्य्यमुद्दिस्य कम्यचित्। उदीर्य्यते यद्वचनं वञ्चना हास्यरोषकृत्”। “वाक्केलिर्हास्यसम्बन्धो द्वित्रिप्रत्युक्तिती भवेत्”। द्वित्रीत्युपलक्षणं यथा “मिक्षो! मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यञ्चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह। वेश्याप्यर्थरुचिः कुतस्तव धनं द्यूतेन चौर्य्येण वा चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्त कान्या गतिः”। “केचित् प्रक्रान्तवाक्यस्य साकाङ्क्ष स्यैव निर्वृत्तिर्वाक्केलिरित्याहुः”। अन्ये च “अनेकस्व प्रश्नस्यैकमुतरम्”। “अन्यान्यवाक्याधिक्योक्तिः स्पर्द्धयाधिवलं मतम्”। यथा मम प्रभावत्यां वज्रनाभः “अस्य यक्षः क्षणेनैव निर्मथ्य गदयानया। लीलयोन्मूलयिष्यामि भुवतद्वयभद्य वः”। प्रद्युम्नः। अरेरे असुरापसद! अलममुना बहुपलापेन मम खलु “अद्य प्रचण्डभुजदण्डसमर्पितोरुकोदण्डनिर्गलितकाण्डसमूहपातैः। आस्तां समस्तदितिजक्षतजोक्षितेयं क्षोणिः क्षणेन पिशिताशनलोभनीया”। “गण्डं प्रस्तुतसम्बन्धि भिन्नार्थं सत्वरं वचः”। यथा वेण्यां “राजा” अध्यासितुं तव चिराज्जघनस्थलस्य पर्य्याप्तमेव करभोरु! ममोरुयुग्मम्”। अनन्तरं प्रविश्य कञ्चुकी। “देव भग्नं भग्नमित्यादि”। अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम्। “व्याख्यानं खरसोक्तस्यान्यथावस्यन्दितं भवेत्”। यथा छलितरामे सीता। जाद काल्लं क्खु अओञ्झाए गन्तव्वं तहिं सो राआ विणएण पणयिदव्यो। लवः। अथ किमावाभ्यां राजोपजीविभ्यां भवितव्यं। सीता। जाद सो तुह्माणं पिदा। लवः। किमावयोः षुपतिः पिता। सीता। साशङ्कं मा अण्णधा संकधं ण क्खु तुह्माणं सअलाए ज्जेव पुहवी ए त्ति”। “प्रहेलिकैव हास्येन युक्ता भवति नालिका”। संवरणकार्य्युत्तरं प्रहेलिका। यथा रत्नावल्यां “सुसङ्गता “सहि जस्म कदे तुमं। णंचित्तफलअस्म”। अत्र त्वं रज्ञः कृते आगतेत्यर्थः संवृतः। “असत्प्रलापो यद्वाक्यमसाबद्धं तथोत्तरम्। अगृह्वतोऽपि मूर्खस्य पुरो यच्च हितं वचः”। तत्राद्यं यथा मम प्रभावत्याम् प्रद्युम्नः सहकारवल्लीमवलीक्य सानन्दम्” अहो सा कथमिहैव। “अलिकुलमञ्जुलकेशी परिमलबहुला रसावहा तन्वी। किशलयपेशलपाणिः कोकिलकल भाविणी प्रियतमा मे”। एवमसम्बद्धोत्तरेऽपि। तृतीयं यथा वेण्यां दुर्य्योधनं प्रति गान्धारीवाक्यम्। “व्याहारो यत्परस्यार्थे हास्यलोभकरं वधः”। यथा मालविकाग्निमित्रे। लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति। “विदूषकः। मा दाव उपदेशमुद्धा गमिस्पसि इत्युपक्रमे गणदासः। विदूषकं प्रति आर्य्य! उच्यतां यस्त्वया क्रमभेदो लचितः। विदूषकः। प {??} पकारनोतिगा इमार लाङ्घदा। मालविका “स्ययते” (तत्र इति पाठान्तरम्) इत्यादिना नायकस्थ विशुद्धनायिकादर्शनप्रयुक्तेन हासलोभकादिणा वचसा व्याहारः। “दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत्”। क्रमेण यथा “प्रियजीवितता क्रौर्य्यं निःस्नेहत्वं कृतघ्नता। भूयस्तद्दर्शनादेव ममैते गुणतां गता। तस्यास्तद्रूपसौन्दर्य्यं भूषितं यौवनश्रिया। सुखैकतायनं जातं दुःखायैव ममाधुना”। इति चाङ्गानि नाटकादिषु सम्भवन्त्यपि वीथ्यामवश्यंविधेयानि। विस्पष्टतया नाटकादिषु विनिविष्टान्यपीहोदाहृतानि नानारसानाञ्चात्र मालारूपतया स्थितत्वाद्वीथीयम्” सा० द० ६ प०।
वीथ्यङ्ग = पु० वीथ्या इवाङ्गमस्य। १ दृश्यकाव्यभेदे। ६ त०। २ तदङ्गे वीथिशब्दे दृश्यम्।
वीध्र = त्रि० वि–इन्ध–रक्। १ निर्मले २ नभसि ३ वायौ ४ अग्नौ संक्षिप्तसा०।
वीनाह = पु० वि–नह घञ् दीर्घः। कूपादिमुखबन्धनसाधने (पाट) ख्याते पदार्थे अमरः।
वीप्सा = स्त्री वि + आप–सन्–अच ईत्–अ अभ्यासलोपश्च। व्याप्तौ
वीब = शौर्य्ये अद० चु० आत्म० अक० सेट्। वीवयते अविबोबत।
वीभ = शौर्य्यहेतुके उद्यमे विकत्थने च भ्वा० अक० सेट्। ऋदित् चङि न ह्रस्वः। वीभते अवीभिष्ट।
वीर = न० वीर–अच्। १ शृङ्गिणि २ नडे मेदि० ३ गरिचे ४ पद्ममूले ५ काञ्चिके ६ उशीरे ७ आरूके राजनि०। ८ शौर्य्यविशिष्टे शूरे त्रि० अमरः। ९ जिने १० नटे पु० हेमच०। ११ विष्णौ पु० विष्णुस०। तन्त्रोक्ते १२ कुलाचारयुते त्रि० कुलाचारशब्दे पृ० दृश्यम्। १३ तण्डुलीये १४ वराहकन्दे १५ लताकरञ्जे १६ करवीरे १७ अर्जुने पु० राजनि० १८ यज्ञाग्नौ भरतः वीरहा। १९ उत्तरे २० सुभटे च मेदि०। २१ श्रेष्ठे त्रि० हेमच०। २२ पत्यौ २३ पुत्रे च “अवीरा निष्पति सुता” अमरः। २३ रसभेदे “उत्तमप्रकृतिर्वीर उत्साहस्थायिभावकः। महेन्द्रदैवतो हेमवर्णोऽयं समदाहृतः। आलम्बनविभावास्तु विजेतव्यादयो मताः। विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः। अनुभावास्तु तत्र स्युः सहायान्वेषणादयः। सञ्चारिणस्तु धृतिमतिगर्वस्मृतितर्करोमञ्चाः। स च दानधर्मयुद्धैर्दयथा च समन्वितश्चतुर्द्धा स्यात्”। स च वीरः। दानवीरो धर्मवीरा दयावीरो भुद्धवीरश्चेति चतुर्विधः” सा० द० ३ प०।
वीरक = पु० कि + ईर–ण्वुल्। करवीरे राजनि०।
वीरण = वि + ईर्–ल्यु। उशीर (वेणारमूल) शब्दच०।
वीरतर = न० वि + ईर–अच् ततः वीर + वा तरप्। १ वीरणे अमरः। २ शूरतरे च।
वीरतरु = पु० वि + ईर–अच् कर्म०। १ अर्जुनवृक्षे अमरः। २ कोकिलाक्षे ३ भल्लातके (भेला) ४ विल्वभेदे च राजनि० वीरवृक्षादयोऽप्यत्र।
वीरपत्नी = स्त्री वीरः पतिर्यस्याः वा नुक् ङीप् च। वीरभार्य्यायाम् अमरः। पक्षे वीरपति तत्रार्थे।
वीरपत्रा = स्त्री वोरयति वीर–अच् तथाभूत पत्त्रं यस्याः। विजयायाम् भङ्गे राजनि०।
वीरपान(ण) = न० वीराणां पानं वा णत्वम्। युद्धाय युद्धखेदापनुत्तये वा सुरापानादौ अमरः!
वीरभद्र = पु० वीरो भद्रोऽस्य। १ अश्वमेधीयेऽश्वे २ वीरेषु भद्रे ३ वीरणे मेदि०। ४ शिवगणभेदे तदुत्पत्तिकथा काशीख० ८९ अ०। “महावीरोऽपि रे भद्र! मम सर्वगणेष्विह। वीरभद्राख्यया हि त्वं प्रथितिं परमां व्रज। कुरु मे सत्वरं कर्म दक्षयज्ञक्षयं नय”। स्वार्थे क। वीरभदूक वीरणे जटा०।
वीरभार्य्या = स्त्री ६ त०। वीरपत्न्याम् अमरः।
वीरमातृ = स्त्री ६ त०। वीरस्य जनन्याम् अमरः।
वीररजस् = न० वीर इव रजः रक्तत्वात्। सिन्दूरे राजनि०।
वीररेणु = पु० वीरयति वीरो रेणुर्धूलिमर्दनं यस्य। भीमसेने त्रिका०।
वीरवत् = त्रि० वीरोऽस्त्यस्य षतुप् मस्य वः। १ वीरयुते स्त्रियां ङीप्। “वीरवती न भूमिः” भट्टिः। सा च २ मांसराहिण्टां भावप्र०।
वीरवत्सा = स्त्री वीरो वत्सो यस्याः। वीरमातरि जटा०।
वीरबाहु = पु० विष्णौ विष्णुस०।
वीरविप्लावक = पु० “वीरविप्लावको जृह्वन् धनैः शूद्रसमाहृतैः” हेमच० उक्ते शूद्रगृहीतधनेन होमकर्त्तरि।
वीरवृक्ष = पु० नित्यकर्म०। १ भल्लातकवृक्षे अमरः। २ अर्जुनवृक्षं हेमच० ३ विल्वभेदे। राजनि०। (देधान) ४ धान्यभेदे रत्नमाला।
वीरसू = स्त्री वीरं सूते सू + क्विप्। वीरमातरि अमरः।
वीरसेन = पु० वीरा सेना यस्व। १ नलराजजनके नृपभेदे भा० व० ५३ अ०। २ आस्यकवृक्षे न० राजनि०।
वीरहन् = पु० वीरयति शौर्य्यान्वितं करोति वीर + णिच् अच्। वीरी यज्ञाग्निस्तं हतवान् हन–क्विप्। नष्टाग्नो विप्रे अमरः। २ विष्णौ विष्णुस०।
वीरा = स्त्री वि + ईर–अच्, वीर–अच् वा वीर + अस्त्यर्थे अच् वा। १ मुरानामगन्धद्रव्ये २ क्षीरकोकोल्याम् ३ आमलक्याम्। ४ एलवालुकायां ५ पतिपुत्रवत्यां स्त्रियां ६ रम्भायां ७ विदार्य्याम् ८ दुग्धिकायाम् ९ क्षीरविदार्य्यां १० मलप्वां मेदि०। ११ काकोल्यां १२ महाशतावर्य्यां १३ घृतकुमार्य्याम् १४ ब्राह्म्याम् १५ अतिविषायां १६ मदिरायाञ्च राजनि०। १७ शिंशपावृक्षे (शिशु) रत्नमा०।
वीराम्ल = पु० वीरयति शौर्य्यान्वितं करोति वीर + णिच्–अच् कर्म०। अम्लवेतसे राजनि०।
वीराशंसन = न० वीरैराशस्यतेऽत्र आ + शन्स–आधारे ल्युट्। भयङ्करे युद्धक्षेत्रे अमरः।
वीरासन = न० वीरस्येवासनम् “एकपादमथैकस्मिन् विन्यसेदूरुसंस्थितम्। इतरस्मिन् तथा पश्चात् वीरासनमिति स्मृतम्” इत्युक्ते आसनभेदे तन्त्रम्। २ भित्त्याद्यनवलम्बनेन स्थितौ “रात्रौ वीरासनं वसेत्” मनुव्या० कुल्लू०।
वीरुध्(धा) = स्त्री वि + रुध–क्विप् दीर्घः वा टाप्। विस्ततायां लतायाम् अमरः।
वीरेश्वर = त्रि० ६ त०। १ वीरपतौ काशीस्थे २ शिवलिङ्गभेदे पु० तदाविर्भवकधा काशीख० ८२ अ० दृश्या।
वीरोज्झ = पु० वीरो यज्ञाग्निस्तमुज्झति यथाकालमननुष्ठानेन उज्झ–अण्। प्रातःसायं हीमाकर्त्तरि हेमच०।
वीरोपजीविक = पु० वीरः यज्ञाग्निस्तत्साध्यमग्निहोत्रादि उपजीविका यस्य। दम्भार्थमग्निहोत्रानुष्ठायिनि हेमच०
वीर्य्य = न० वीर–यत्, वीरस्य भावो यत् वा। १ देहस्थे चरमधातौ शुक्रे २ पराक्रमे ३ बले ४ प्रभावे अमरः। ५ तेजसि मेदि० ६ दीप्तौ ७ द्रव्यनिष्ठे रसविपाकादि शक्तिरूपे प्रभावभेदे सुश्रुतः “वीर्य्यं प्रधानमिति कस्मात्तद्वशेनौषधकमनिष्पत्तेः। इहौषधकर्माण्यूर्द्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्निदीपनप्रपीडनलेखनवृंहणरसायनवाजीकरणश्वयथुकरणविलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्य्यप्राधान्याद्भवन्ति। तच्च वीर्य्यं द्विविधमुष्णं शीतं चाग्निषोमीयत्वाज्जगतः। केचिदष्टविधमाहुरुष्णं शीतं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीष्णं चेत्येतानि वी र्य्याणि स्वबलगुणोत् कर्षाद्रसमामभूयात्मकर्म कुर्वन्ति यथा तावन्महत् पञ्चमूलं कषायं तिक्तानुरसं वातं शमयेदुष्ण वीर्य्यत्वात् तथा कुलत्थः कषायकटुकत्वात्, पलाण्डुः स्नेह भावाच्च मधुरश्चेक्षुरसो वातं वर्द्धयति शीतवीर्य्यत्वात्। कटुच्चा पिष्पली पित्तं शमयति मृदुशीतवीर्य्यत्वादम्लमाम- मलकं लवणं सैन्धवञ्च। तिक्ता काकमाची पित्तं वर्द्धयत्युष्णवीर्य्यत्वान्मधुरा मत्स्याश्च। कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात्। अम्लं कपित्थं श्लेष्माणं शमयति रूक्षवीर्य्यत्वान्मधुरं क्षौद्रञ्च। तदेतन्निदर्शनमात्रमुक्तम्। भवन्ति चात्र ये रसावातशमना भवन्ति यदि तेषु वै। रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम्। ये रसाः पित्तशममा भवन्ति यदि तेषु वै। तैक्ष्योष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः। ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै। स्नेहगौरवशैत्यानि बलासं वर्द्धयन्ति ते”। “तस्माद्वीर्य्यं प्रधानमिति”। द्रव्यगतवीर्य्यं रसाद्यनुगुणशक्तिविशेषरूपम् तच्च चिन्त्याचिन्त्यक्रियाहेतुत्वेन द्विविधम्। तत्र चिन्त्यक्रियाहेतुः प्रभावापरचर्य्यायो द्रव्याणां रसाद्यनुरूपकार्य्यकरणशक्तिः यथोक्तं “भूतप्रभावातिशयो द्रव्ये पाके रसे स्थितः। चिन्त्याचिन्त्यक्रियाहेतुर्वीर्य्यं धन्वन्तरेर्मतम्” अक्रद०। भावप्र० वीर्य्यप्रभावयोर्भेद उक्तो यथा “द्रव्ये रसो गुणो वीर्य्यं विपाकः शक्तिरेव च। पदार्थाः पञ्च निष्ठन्ति स्वं स्वं कुर्वन्ति कर्म च” इति सामान्यतः द्रव्यगतान् पञ्च पदार्थानुक्त्वा रसगुणानुक्त्रा च “उष्णशीतगुणोत्कर्षात् बुधैर्वीर्य्यं द्विधा स्मृतम्। यत् सर्वमग्निषोमीयं दृश्यते भुवनत्रयम्” वाग्भट्टोक्तलक्त्वा च “विपाकञ्च दर्शयित्वा प्रभावो लक्षितो यथा “रसादिसाम्ये यत्कर्म विशिष्टं तत्प्रभावजम्। दन्ती रसाद्यैस्तुल्यापि चित्रकस्य विरेचनी। मधूकस्य च मृद्वीका घृतं क्षीरस्य दीपनम्। प्रभावस्तु यथा धात्री लकुचस्य रसादिभिः। समापि कुरुते दोषत्रितयस्य विनाशनम्। कचित्तु केवलं द्रव्यं कर्म कुर्य्यात् प्रभावतः। ज्वरं हन्ति शिरोबद्धा सहदेवीजटा यथा”। तथा नानौषधियोगे फलं प्रति स्वभाव एवाश्रयणीयो न तु तत्र रसादिहेतुविचारः कर्त्तव्यः यत आह सुश्रुतः “अमी सामान्यचिन्त्यानि प्रसिद्धानि स्वभावदः। आगमेनोपयोज्यानि भेषजानि विचक्षणैः। प्रत्कीतक्षणफलाः प्रसिद्धाश्च स्वभावतः। नौषधीहेतुर्भिषजा परीक्ष्येत कदाचन। विरुद्धगुणसंयोगे भूयसाल्पं हि जायते। रसं विपाकस्तौ वीर्य्यं प्रभावस्तान् व्यापीहति” इत्यन्तेन रसगुणवीर्य्य विवाञ्चकवीर्य्यप्रभावस्वरूपाण्युक्तानि। अतस्तयोर्भेदो युक्तः।
वीर्य्यवत् = त्रि० वीर्य्यमस्त्यस्य मतुप् मस्य वः। १ बलवति शन्दच० २ वीर्य्ययुक्ते च वीर्य्यवन्त्यौपधानीव” कुमारः।
वीहार = पु० विह्रियतेऽत्र वि + हृ–आधारे घञ् दीर्घः। १ बुद्धमन्दिरे शब्दच०।
वुग = योगे भ्वा० पर० पक० सेट् इदित्। वुङ्गति अवुङ्गीत्।
वुट = क्षये चुरा० उभ० सक० सेट् इदित्। वुण्टयति अवुवृण्टत् त
वृ = आवरणे चु० उभ० सक० सेट्। वारयति ते अवीवरत् त।
वृ = सेवायां क्र्या० आ० सक० सेट्। वृणीते “वृणते हि विमृष्यकारिणम्” किरा०। अवरीष्ट अवरिष्ट अवृत।
वृ = वरणे भ्वा० उभ० सक० सेट्। वरति ते अवारीत् अवरि(री)ष्ट
वृ = वरणे स्वादि० क्र्या० च उभ० सक० सेट्। वृणोति वृणुत वृणाति वृणीते अवारीत् अवरिष्ट अवरीष्ट अवृत।
वृंहित = न० वृहि–क्त। करिगर्जने अमरः।
वृक = आदाने भ्वा० आत्म० सक० सेट्। वर्कते अवर्किष्ट।
वृक = पु० वृक–क। १ कुक्कुराकारे हरिणघातके व्याघ्रभेदे। (घोघ) २ काके उणादि०। ३ वकवृक्षे शब्दच०। ४ शृगाले हारा०। ५ क्षत्रिये पुंस्त्री० ६ अनेकद्रवजन्ये धूपे ७ सरसद्रवे रत्नमा० उदरस्थे ८ वह्निभेदे वृकोदरः। ९ अम्बष्ठायां स्त्री वा गौरा० ङीष्। सर्वत्र जातौ स्त्रियां ङीष्।
वृकदंश = पुंस्त्री० वृकं दशति दन्श–अच्। १ कुक्कुरे हेमच०। स्त्रियां ङीष्।
वृकधूप = पु० वृक्यते वृक–घञर्ये क कर्म०। नानाद्रव्यमिश्रिते दशाङ्गादौ धूपे अमरः। २ सरलद्रवे च (टारपिन्) अमरः
वृकधूर्त्त = पुंस्त्री० वृक इव धूर्त्तः। शृगाले हारा० स्त्रियां ङीष्।
वृकाक्षी = पु० वृकस्येवाक्षि पुष्पमस्य षच् समा० ङीष्। त्रिवृति (तओडि) रत्नमा०।
वृकाराति = पु० ६ त०। कुक्कुरे राजनि० वृकरिप्वादयोऽप्यत्र।
वृकोदर = पु० वृकनामाग्निरुदरे यस्य। “यस्य तोक्ष्णो वृको नाम जठरे हव्यवाहनः। मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः” मत्स्यपु० ६५ अ० उक्ते भीमे “नृपमूचे वचनं वृकोदरः” किरा०।
वृक्ण = त्रि० व्रश्च–क्त। छिन्ने अमरः।
वृक्ष = वरणे भ्वा० आत्म० सक० सेट्। वृक्षने अवृक्षिष्ट।
वृक्ष = पु० व्रश्च–क्स। व्रश्चनेऽपि जायमाने द्रुमे। ह्रस्वार्थे कन्। वृक्षक ह्रस्ववृक्षे।
वृक्षचर = पुंस्त्री० वृक्षे चरति चर–ट। वानरे धनञ्जयः स्त्रियां ङीष्।
वृक्षच्छाय = न० ६ त०। बहूनां वृक्षाणां छायायाम्।
वृक्षधूप = पु० वृक्षोऽपि धूपस्तत्साधनम्। सरलद्रुमे राजनि०।
वृक्षनाथ = पु० ६ त०। वटवृक्षे शब्दर०।
वृक्षपाक = पु० वृक्षस्य पाकः शिशुरिव जटिलत्वात्। वटवृक्षे शब्दच०।
वृक्षभवन = न० ७ त०। वृक्षस्थे कोटरे शब्दरत्नाबली।
वृक्षभक्षा = स्त्री वृक्षो भक्षो वेष्टकत्वात् भोजनीय इव यस्याः। वन्दायम् (परगाछ) भावप्र०।
वृक्षभेदिन् = पु० वृक्षं भिनत्ति भिद–णिनि। वृक्षभेदके १ अस्त्रभेदे अमरः। २ टङ्के हेमच०।
वृक्षमृद्भू = पु० वृक्षस्य मृदि भूमौ भवति भू–क्विप्। जलवेतसे शब्दच०।
वृक्षरुहा = स्त्री वृक्षे रोहति रुह–क। १ वन्दायाम् अमरः २ अमृतस्रवायाञ्च राजनि०।
वृक्षवाटिका = स्त्री वृक्षैर्वाटीव संवृतत्वात् इवार्थे कन्। अमात्यगणिकोपसेव्ये गृहसमीपस्थे उपवने अमरः।
वृक्षादन = पु० वृक्षमत्ति भिनत्ति अद–ल्यु। १ कुठारास्त्रे (नेहालि) अमरः। वृक्षान्तरमत्ति भिनत्ति। २ अश्वत्थवृक्षे ३ मधुच्छत्रे ४ कुठारे च गेदि०। ५ पियाले धरणिः। ६ वृक्षविदारके त्रि० ७ वन्दायां स्त्री गौरा० ङीष्।
वृक्षाम्ल = न० वृक्षजातमम्लम्। (तेतुल) १ वृक्षजाताऽम्लप्रधाने वृक्षे अमरः। २ चुक्राम्ले च। “वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम्। पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु। अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत्। तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित्” भावप्र०।
वृक्षार्हा = स्त्री० वृक्षेषु अर्हा पूज्या। महामेदायां राजनि०।
वृक्षाश्रयिन् = पु० वृक्षमाश्रयति आ + श्रि–इनि। १ खगे २ क्षुद्रोलूके राजनि०।
वृक्षोत्पल = पु० वृक्षे उत्पलमिव। कर्णिकारवृक्षे रत्नमा०।
वृच = वृतौ रु० पर० सक० सेट्। वृणक्ति। अवर्चीत्। ईदित् निष्ठा अनिट् वृक्तः।
वृज = त्यागे अदा० आत्म० सक० सेट् ईदित्। वृङ्क्ते अवृञ्जिष्ट नेदिदप्ययम्। वृक्ते अवर्जिष्ट ईदित् निष्ठा अनिट् वृक्तः।
वृज = त्यागे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। वर्जयति ते वर्जति। अववर्जत्–अवीवृजत्। अवर्जीत् ईदित्। वर्जितः भ्वा० निष्ठा अनिट्। वृक्तः।
वृज = वृतौ, त्यागे च रु० पर० सक० सेट्। वृणक्ति। अवर्जीत्। ईदित् निष्ठा अनिट्। वृक्तः।
वृजन = न० वृज्यतेऽत्र वृज–क्यु। १ पापे उणादि० २ आकाशे सि० कौ०। ३ केशे पु० ४ कुटिले त्रि० उणादि०।
वृजिन = न० वृज–इलच् किच्च। १ पापे अमरः। २ भुग्ने त्रि० हेमच०। ३ केशे पु० ४ कुटले त्रि० मेदि०।
वृण = भक्षर्ण तना० उभ० सक० सट्। वृणोति वर्णोति वृणुते अवर्णीत् अवर्णिष्ट। उदित् क्त्वा वेट्।
वृत = दीप्तौ चु० उभ० सक० सेट्। वर्त्तयति ते अवीवृतत् त अयवर्त्तत् त।
वृत = पर्त्तने भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक० सेट्। वर्त्तते। अवृतत् अवर्त्तिष्ट ऌटि ऌङि च पर० नेट् वर्त्स्यति वर्त्तिष्यते। सनि च तथा विवर्त्तिषते, विवृत्सति। उदित् क्त्वा वेट्।
वृत = संभक्तौ, वरणे च दि० आत्म० सक० सेट्। वृत्यते अवर्त्तिष्ट। उदित् क्त्वा वेट्।
वृत् = त्रि० वृत + भूते–क्विप्। वृत्ते अतीते “वृत् वृतादि” पा० धातुपाठः।
वृत = त्रि० वृ–क्त। १ प्रार्थिते २ वर्त्तुले ३ कर्मादौ प्रार्थनादिना कृतनियोगे ४ स्वीकृते च अमरः।
वृतपत्रा = स्त्री वृतम् आवृतं पत्रं यस्याः। पुत्रदात्र्यां लतायां राजनि०।
वृति = स्त्री वृ–क्तिन्। वेष्टने (वेड) “वृतिञ्च तत्र कुर्व्वीत” याज्ञ०
वृतिङ्कर = पु० वृतिङ्करोति कृ–खच्। विकङ्कते (वैचि) शब्दच०
वृत्त = न० वृत–भावे क्त। “गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः। प्रवर्त्तनं हितानाञ्च तत्सर्वं वृत्तमुच्यते” इत्युक्ते १ चरित्रभेदे २ पद्यभेदे “पद्यं चतुष्पदो तच्च वृत्तं जातिरिति द्विधा। वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्। सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा छन्दा० ३ वृत्तौ च। वृत–कर्त्तरि क्त। ४ अतीते ५ दृढे ६ वर्चुले ७ कृतावरणे च त्रि० भरतः। ८ अधीते ९ मृते मेदि० १० जाते च त्रि० ११ कूर्मे पु० राजनि०। १२ रेणुकायां १३ प्रियङ्गौ १४ रोहिण्यां १५ झिञ्झिरिष्टलतायां स्त्री राजनि०। तत्र वर्त्तुलाकारवस्तु यथा “वृत्तानि बाहुनारङ्ग स्कन्धधम्मिल्लमोदकाः। रथ ङ्गलावकककुत्कुम्भकुम्भाण्डकादयः। कर्णपाशभुजापाशाकृष्टचापघटाननम्। मुद्रिकापरिखायोगपट्टहाराङ्गदादयः” कविकल्प० १६ गोलाकारे क्षेत्रभेदे न० लीला० क्षेत्रशब्दे २४०० पृ० दृश्यम्।
वृत्तगन्धि = न० वृत्तस्य पद्यभेदस्य इव गन्धो लेशोऽत्र इत् समा०। “भवत्युत्कालिकाप्रायं समासाढ्यं दृढाक्षरम्। वृत्तैकदेशसम्बन्धात् वृत्तगन्धि पुनःस्मृतम्” इत्युक्ते गद्यभेदे
वृत्ततण्डुल = पु० वृत्तो वर्त्तुलस्तण्डुलोऽस्य। यावनाले राजनि०
वृत्तनिष्पाविका = स्त्री वृत्ता वर्त्तुला निष्पाविका। नखनिष्पाव्याम् राजनि०।
वृत्तपर्की = स्त्री वृत्तानि पर्णान्यस्याः ङीप्। १ महाशणपुष्पिकायाम् २ पाठायाञ्च (आकनादि) राजनि०।
वृत्तपुष्प = पु० वृत्तानि वर्त्तुलानि पुष्पाण्यस्य। १ शिरीषवृक्षे २ कदम्बे ३ वाणीरे ४ कुब्जके ५ मुद्गरे च राजनि०।
वृत्तफल = न० वृत्तं फलमस्य। १ मरीचे २ दाडिमे ३ वदरे च। ४ वःर्त्ताक्याम् ५ आमलक्याञ्च स्त्री टाष् राजनि०।
वृत्तमल्लिका = स्त्री वृत्ता मल्लिकेव। १ श्वेतार्के २ मोदिन्यां लतायां च राजनि०।
वृत्तवीज = पु० वृत्तानि वीजान्यस्य। १ मिण्डायाम् २ आडक्याम् स्त्री राजनि०।
वृत्तस्थ = त्रि० वृत्ते गुरुपूजादौ चरित्रे तिष्ठति स्था–क। वृत्तशब्दोकगुरुपूजादिचारेत्ररते।
वृत्तान्त = पु० वृत्तो जातोऽन्तोनिर्णयो यस्मात्। १ संवादे २ वाचिकसंदेशे च अमरः। २ प्रक्रियायां ३ कात्स्न्ये ४ प्रस्तावे च मेदि०। ५ अवसरे ६ भावे ७ एकान्ते च विश्व०।
वृत्ति = स्त्री० वृत–क्तिन्। १ वर्त्तने २ स्थितौ ३ विवरणे च मेदि०। करणे क्तिन् ४ जीविकायाम् अमरः। ५ कौशिकीसात्त्वतीभारत्यारभट्याख्ये नाटकरचनामैदे “शृङ्गारे कौशिकी, वीरे सात्त्वत्यारभटी पुनः। रसे रौद्रे च पीभत्से वृत्तिः सर्वत्र भारती। चतस्रो वृत्तयो ह्येताः सर्वनाढ्यस्य मातृकाः” सा० द०। ६ वेदान्तोक्ते अन्तःकरणादेः परिणामभेदे च। अन्तःकरणवृत्तिस्यारूपप्रयोजनादिकं वेदा० प० दर्शितं यथा तडागोदकं छिद्रानिर्गत्य यथा कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्केणाद्याकारं भवति तथा तैजसमप्यन्तःकरणं चक्षुरादि द्वारा घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते स एव परिणामो वृत्तिरित्युच्यते। अनुमित्यादिस्थले तु अन्मःकरणस्य स वह्न्यादिदेशगमनं वह्यादेश्चक्षुराद्यसन्निकर्षात्” १प०। इन्द्रियजन्यवृत्तिश्च आवरणभङ्गार्था सम्बन्धार्था इति मतद्वैधं यथोक्तं तत्रैव ७ प०। “सा चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथा हि अविद्योपहितचैतन्यस्य जीवत्वपक्षे थठाढ्यषिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सवेदा घटभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापद वाच्यमभ्युपगन्तव्यम्। एव सति न सर्वदा घटादेर्भामप्रसङ्गः। अनावृतचैतन्तस्यैव भानप्रयोजकत्वात् तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं तद्भासकस्य तदनिवर्त्तकत्वास् नापि वृत्त्युपहितचैतन्थं परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवत्तिविशेपस्य तदुपहितचैतसास्य वा आवरणभञ्जकत्वमित्यावरणा मिभवार्धा वृत्तिरित्युच्यते। सम्बन्धार्षा कृत्तिरित्यपर मतम्। तत्राविद्योपाधिकोजीवोऽपरिच्छन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्यपरोक्षवृत्तिविरहदशायां न घटादिमवभासयति घटादिना समं तस्य सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तु भासयति तदो सम्यन्धसत्त्वात”। अतएवोक्तं “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्लुतो घटम्। तत्राज्ञानं धिया नश्येत् आभासात्तु घटः स्फुरेत्” इदञ्च प्रथमताभिप्रायम् अन्तःकरणवृलीनां भेदादिकं पातञ्जलादिदर्शितप्रन्तःकरणशब्दे १९५ पृ० दृश्यम्। “ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” ये० सा०। विप्रस्य जीविक रूपवृत्तिहरणे दोषो यथा “स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः। स कृतघ्न इति ज्ञेयः फलं तत् शृणु भूमिप!। यावन्तोरेणवः सिक्ता विप्राणां नेत्रविन्दुभिः। तावद्वर्षसहस्रञ्च घृतपाके स तिष्ठति। तप्ताङ्गारश्च तद्भक्ष्यं पानञ्च तप्तमूत्रकम्। तप्ताङ्गारे च शयनं ताड्यते यमकिङ्करैः। तदन्ते च महापापी विष्ठायां जायते कृमिः। षष्टिवर्षसहस्राणि देवमानेन भारते। ततो भूमिविहीनश्च प्रजाहीनश्च मानवः। दरिद्रः कृपणी रोगी शूद्रो निन्द्यस्ततः शुचिः” ब्रह्मवै० प्र० ४९ अ०।
वृत्तिकर्षित = त्रि० वृत्त्या कर्षितः। १ विषमस्थे २ अल्पमात्र वृत्तिके च।
वृत्तिस्थ = त्रि० वृत्तौ तिष्ठति स्था–क। १ सत्सर्मानुष्ठायिनि २ सरटे पु० स्त्री राजनि० स्त्रियां ङीष्।
वृत्र = पु० वृत–रक्। १ अन्धकारे २ रिपौ त्वष्टृपुत्रे ३ दानवभेदे ४ मेघे ५ पर्वतभेदे मेदि०। ६ इन्द्रे विश्वः। ७ शब्दे वि० कौ०
वृत्रद्विष् = पु० ६ त०। इन्द्रे हेमच०। वृत्ररिप्वादयोऽप्यत्र।
वृत्रहन् = पु० वृत्तं हतवान् हन–क्विप्। इन्द्रे अमरः।
वृथा = अव्य० वृ–थाल् किच्च। निरर्थके अमरः।
वृथादान = न० कर्म०। १ निष्फलदाने स्मृतिप्रदर्शिते देवपित्राद्यर्थमिन्नेषु कार्य्येषु २ दानभेदे च। “देवपितृविहीनं यदीश्वरेर्भ्यः स्वदोषतः। दत्त्वामुकीर्त्त नाच्चैव वेदाग्निव्रतत्यागिने। अन्थायोपार्जितं दाक व्यर्थं ब्रह्महणे तथा। गुरवेऽनृतवक्त्राय स्तेनाय पतिताय च। कृतघ्नाय च यद्दत्तं सर्वदा ब्रह्मविद्विषे। याजकाय च सर्वस्य वृषल्याःपतये तथा। परिचारकाय नृत्याव सर्वत्र पिशुनाय च। इत्येतानि तु राजेन्द्र! वृथादानानि षोडश” वह्निपु०। “न्यायमार्गेण यदृत्तं तत्मप्तविधमपि पुनर्नापहर्त्तव्यं थत् पुनरन्थायेन दत्तं तददत्तं षोडशप्रकारमपि पत्याहर्त्तव्यमेव इत्यर्थादुक्तं भवति। नारदेन च दत्तं सप्तविध–प्रोक्तमदत्तं षोडशात्मकम्” इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतं यथा “पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः। स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः। अदत्तन्तु भयक्रोधशोकवेगरुजांन्वितैः। तथोत्कोचपरिहासव्यत्यास च्छलयोगतः। वालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितम्। कर्त्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत्। अपात्रे पात्रमित्युक्ते कार्य्ये वा धर्मसंहिते। यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतम्” मिता० अदत्तशब्दे दृश्यम्।
वृथामांस = न० वृथाभूतं मांसम् शा० क०। देवाद्यनुद्देशेन हतपशूनां मांसे।
वृद्ध = न० वृध–क्त। १ शैलजनामगन्धद्रव्ये अमरः। २ वृद्धदारके वृक्षे पु० राजनि०। ३ वृद्धियुक्ते त्रि० ४ गतयौवने वृद्धावस्थायुक्ते। बाल्यादिवयःकालभेदश्च भावप्र० उक्तो यथा “बाल्यादेरवधिमाह मुश्रुतः “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा। ऊनषोडशवर्षस्तु नरो बालो निगद्यते। त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशो तथान्नभुक्। दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम्। तदुत्तरं स्यादन्नाशो एवं बालस्त्रिधा मतः। मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः। चतुर्धा मध्यमं प्राहुर्युवा द्धात्रिंशतो मतः। चत्वारिंशत् समा यावत्तिष्ठेद्वीर्य्यादिपूरितः। ततः क्रमेण क्षीणः स्याद् यावद् भवति सप्तति”। वीर्व्यादीत्यादिशब्देन रसादिसर्वधात्विन्द्रिययलोत्साहा उच्यन्ते। क्षीणः सवधात्विन्द्रियबलोत्साहैर्हीनः “ततस्तु सप्ततेरुर्द्ध्वं क्षीणधातुरसादिकः। क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने। बलोपलितखालित्ययुक्तः कर्मसु चाक्षमः। कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः। बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमेऽधिकम्। बार्द्धक्ये वर्द्धते वायुर्विचार्व्यैतदुपक्रमेत्”। उपक्रमेत् चिकित्सेत्। तन्त्रान्तरे तु “बलवृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ। षुद्धिः कर्मेन्द्रियं चतो जीवितं दशतो ह्रसेत्”। ५ पण्डिते पु० मेदि०।
वृद्धकाक = पु० कर्म०। द्रोणकाके हेमच०।
वृद्धगङ्गा = स्त्री कर्म०। नदीभेदे “अस्ति नाटकशैले तु सरोमानससन्निभम्। यत्र सार्द्धं शैलपुत्र्या जलक्रीडां सदा हरः। कुरुते नरशार्दूल! स्वर्णपङ्कजशीभिते। तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम्। अवतीर्णं प्रयात्येप दक्षिणं सागरं प्रति। तस्य पश्चिमभागे तु नदो दिक्करिकाह्वया। दिग्गजाः क्षेत्रसंजाताः तेन दिक्करिका स्मृता। मध्यभागात् सृता या तु शङ्करेणावतारिता। वृद्धगङ्गाह्वया सा तु गङ्गोव फलदायिनी। या निःसृता पूर्वभागात् तस्माद्गिरिचरात् नदी। स्वर्णग्रीवेति विख्याता सा गङ्गासदृशी फले” कालिकापु० ८२ अ०।
वृद्धदारक = पु० वृद्धं दारयति दृ–णिच्–ण्वुल्। वीरताडवृक्षे अण्। वृद्धदार तत्रार्थे राजवल्लभः। “रसायनो वृद्धदारः शोथवातामवातजित्”।
वृद्धदारु = न० वृद्धं दारयति दृ–णिच्–उण्। वृद्धदारकवृक्षे राजनि० “वृद्धदारुद्वयं गौल्यं पिच्छिलं कफधातनुत्। वल्यं कासाममेदोघ्नं द्वितीयं स्वल्पवीर्य्यदम्” राजनि०
वृद्धनाभि = त्रि० वृद्धा नाभिरस्य। (गा~ड) वृहन्नाभियुक्ते अमसः।
वृद्धप्रपितामह = पु० वृद्धः प्रपितामहात् राज०। प्रवितामहजनके।
वृद्धप्रमातामह = पु० वृद्धः प्रमातामहात् राज०। प्रमातामहस्य पितरि।
वृद्धबला = स्त्री वृद्धं बलं यस्याः ५ ब०। महासमङ्गायाम् राजनि०। तस्याबलवृद्धिकरत्वात्तथात्वम्।
वृद्धविभीतक = पु० वृद्धः विभीतक इव। आम्र तके शब्द मा०
वृद्धश्रवस् = पु० वृद्धेभ्यः शृणोति श्रु–असुन्, वृद्धेषु श्रवो यशा यस्येति वा। इन्द्रे अमरः।
वृद्धसूत्रक = न० कर्म० संज्ञायां कन्। इन्द्रतूले (वुडिरसुता) हारा०।
वृद्धा = स्त्री वृध–क्त। १ गतयौवनायां स्त्रियाम्। २ अङ्गु शब्दच०। ३ महाश्रावणिकायां राजनि०। स्त्रीणां वयःकालविभागो यथा “आषोडशाद् भवद्वाला तरुणी त्रिंशता मता। पञ्च पञ्चाशतः प्रौढा वृद्धा भवति तत्परम्” इति कालिदासः। “बालेति गीयते नारी यावद्वर्षाणि षोडश। ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि। तदूर्द्ध्वमधिरुढा स्यात् पञ्चाशद्वत्सरावधि। वृद्धा तत्परको ज्ञेया सुरतोत्सववर्जिता” भावप्र०। तस्याः सम्भोगे दोषो यथा “बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी। घ्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत्। निदाघशरदोर्बाला प्रौढा वर्र्षावसन्तयोः। हेमन्ते शिशिरे योग्या न वृद्ध्वा क्वापि शस्यते। नार्वाक् तु षोडशाद्वर्षात् सप्तत्याः परतो न च। आयुष्कामो नरः स्त्रीभिः संभोगं कर्तुमर्हति। पञ्चपञ्चाशतो नारी सप्तसप्ततिकः पुमान्। द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात्” राजवल्लभः। “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। प्रभाते मैथनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यनीतिसारः
वृद्धि = स्त्री वृद्ध–क्तिन्। १ समृद्दौ २ अभ्युदये मेदि० ३ सम्पत्तौ ४ समूहे च। वृध–कर्त्तरि क्तिच्। ५ औषधिविशेषे ऋद्धिशब्दे १४४७ पृ० तल्लक्षणादि दृश्यम्। (कोरन्द) ६ रोगविशेषे तन्निदानादि भावप्र० उक्तं यथा “तत्र वृद्धेर्निदानं संख्याञ्चाह “दोषास्रमेदोमूत्रान्त्रेः संवृद्धिः सप्तधा गदः। मुत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलः। वृद्धिं करोति कोषस्थः फलकोषाभिवाहिनीम्। छद्ध्वा रुद्धगतिर्वायुर्धमनीः मुष्कगामिनीः। तत्र वातिकमाह “वातपूर्णदृतिप्रख्यो रूक्षो वातादहतुरुक्”। अहेतुरुक् अत्रेषदर्थे नञ्। तेन स्वल्पादपि विप्रकृष्टात् कारणात् रुक् पीडा यत्र सः। अथ पैत्तिकमाह “पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपावकात्”। दाहः अभ्यन्तरः ऊष्मा वहिस्तप्तता। अथ श्लौष्मकमाह “कफाच्छीतो गुरुःस्निग्धः कण्डूमान् कठितोऽल्परुक्”। अथ रक्तजमाह “कृष्णस्फाटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः”। कृष्णस्फोटावृत इति पैत्तिकोद्भवः। मेदोजमाह “कफवन्मेदसो वृद्धिर्मृदुस्तालफलोपमः”। नीलवर्त्तुलः। मूत्रजमाह “मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः। अम्भोभिः पूर्णदतिवत् क्षोभं याति सरुङ् मृदुः। मूत्रकृच्छ्रमधः कुर्य्यात् सञ्चलन् फलकोषयोः”। सञ्चलन् फलकोषयोरधः मूत्रकृच्छ्रं मूत्रेण व्यथां कुर्यादित्यर्थः। अथान्त्रवृद्धिसाह “वातकोपिभिराहारैः शीततोयावगाहनैः। धारणेरणभाराध्वविषमाङ्गप्रवर्त्तनैः। क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा। पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्। कुर्य्याद् वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा”। धारणम् उपस्थितस्य येमस्य। ईरणम् अनुपस्थितस्य वेगस्य प्रेरणम्। विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनम्। अन्यानि क्षोभणानि बलवद्विग्रहकठारधनुराकर्षणादीनि तैः क्षोमितः सन्दुष्य सञ्चालितः पवनः यदा क्षुद्रान्त्रावयवं विगुणीकृत्य स्वनिवेशादधो नयेत्। तदावङ्क्षणसन्धिस्थः अन्त्रवृद्धिरोगः। तस्यावस्थामाह। “उपेक्ष्यमाणस्य मरुद्विवृद्धिमाधानरुक् स्तम्भमतोव कुर्य्यात्। प्रपीडितोऽन्तःस्वनवान प्रयाति प्रध्मापयन्नेति पुनश्च मुष्कम्”। तत्राध्मानमुदरे रुग् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्युक्तां कुर्य्यादित्यिर्थः। भोजोऽप्याह “अन्त्रं विगुणमादाय वातो नयति वङ्क्षणम्। वङ्क्षणात् तद्रुजायुक्तं फलकोषं प्रपद्यते” इति। स मुष्कवृद्धिरोगः अन्तः उदरे प्रध्मापयन् आगमनमार्गं मिरुद्धं कुर्वन् एति आयाति। अथासाध्यमाह स कीदृक् स्यादित्याकाङ्क्षयामाह “यस्यान्त्रावयवाश्लेषो मुष्कयोर्वातसञ्चयात्। अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः”। वातवृद्धिपमाकृतिरिति योऽन्त्रवृद्धिरोगः साऽसाध्या वातवृद्धिसमाकृतिः”। अन्त्रवृद्धिशब्दे २०८ पृ० सुश्रुताक्तं दृश्यम् नीतिक्षयादि त्रिवर्गान्तर्गते ७ वर्गघटकुपदार्थे “क्षयः स्थानञ्च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्” अमरः। “कृषिर्वाणक् पथोदुर्गं सेतुःकुञ्जरबन्धतम्। कत्यःकरवतादान सैन्यानाञ्च विनाशनम्”। एतेषामष्टानामन्यतमस्य क्षयं स्थान वृद्धिश्चेत्यर्थः। ८ कलान्तरे (सुद) वृद्धिस्वरूपभेदादिकं वीरमि० उक्तं यथा नारदः “वृद्धिश्चतुर्विधा प्रोक्ता ग्रञ्चधाऽन्यैः प्रकीर्त्तिता। षड्विधाऽन्यैः समाख्याता तत्त्वतस्तां निवाधत” इति। षड्विधा मे इति क्वचित् पाठः तत्र मे मते। तान् प्रकारान् स एवाह “कायिका १ कालिका २ चैव चक्रवृद्धि ३ रतोऽपरा। कारिता ४ सशिखा ५ वृद्धिर्भोगलाभ ६ स्तथैव चेति”। एतेषां स्वरूपगाह “कायिका कर्मसंयुक्ता मासग्राह्या तु कालिका। वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता। प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता। गृहात्तोषः फलं क्षेत्राद् भ गलाभः प्रकीर्त्तितः” इति। कायिका कर्मसंयुक्ता यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवाहनादिकं कर्स वृद्धित्वेन परिकल्पितं तत्र सा कायिकेत्यर्थः। तथा च व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृतेति”। मदनरत्ने तु भोग्याधितया स्थापितस्य यो दोहनवाहनादिकर्मरूपैर्मोगस्ततफलिका या वृद्धिः सा कायिकेत्युक्तम्। मासग्राह्या तु कालिका प्रतिमासं लभ्या या वृद्धिः सा कालिकेत्यर्थः। “प्रतिसासं स्रवन्ती या वृद्धिः सा कालिका मतेति” नारदवचनात्। वृद्धेर्वृद्धिश्चक्रवृद्द्धिः। वृद्धेरपि प्रतिमासं मूलभावेन पुनर्वृद्धिरित्यर्थः। “वृद्धेरपि पुनर्वृद्धिश्चकवृद्धिरुदाहृतेति” नारदवचनात्। कारिता ऋणिना कृता। ऋणिनाऽधमर्णेन स्वेच्छया कृता वृद्धिः कारितेत्यर्थः। “वृद्धिः सा कारिता नाम यर्णिकेन स्वयं कृतेति” नारदवचनात्। अधमर्णकारितैव वृद्धिर्देया नोत्तमर्णकारिता तथा च वृहस्पतिः “ऋणिकेन तु या वृद्धिरधिका सम्प्रकल्पिता। आपत्कालकृता नित्यं दातव्या सा तु का- रिता। अन्यथा कारिता वृद्धिर्न दातव्या कथञ्चनेति”। उत्तमर्णप्रलोमनार्थम् आपत्कल शास्त्रोक्तादधिका स्वयं कुल्पिता कारिता या सा सुद्धिर्दातव्या न पुनरनेवंविधा धनिकेन कारिता दातव्येत्यर्थः। “प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता”। प्रतिदिनलभ्यात्मशिखासादृश्याच्छिस्वावृद्धिरिति व्यपदिश्यत इत्यर्थः। किंपुनः शिखासादृश्यं वृद्धेरित्याकाङ्क्षायां वृहस्पतिरेवाह “शिखेव वर्द्धते नित्यं शिरश्छेदान्निवर्त्तते। मूले दत्ते तथैवैषा शिखावृद्धिस्तु सा स्मृतेति”। प्रत्यहं गृह्यत इति अ धर्मणप्रतिश्रुतदिनसंख्यया वृद्धिग्रहणकालोपलक्षणम्। तथा च कात्यायनः “प्रतिकालन्ददात्येव शिखावृद्धिस्तु सा स्मृतेति”। “गृहात्तोषः फल क्षत्राद् भोगलाभः प्रकीर्त्तितः”। बन्धकीकृताद् गृहान्निवासादिजनितः सन्तोषः। क्षेत्रात् शस्यादिफलञ्च भोगलाभाख्यो वृद्धिप्र कार इत्यर्थः। गृहक्षेत्रग्रहणं स्थावरात्मकभोग्याधेरुपसक्षणार्थम्। अतएव कात्यायनः “काधेर्भोगस्त्व शेषो यो वृद्धये पारकल्पितः। प्रयोगे यत्र चैवं स्यादाविभोगः स उच्यते” इति। यस्मिन् ऋणादानप्रयोगे स्वावराधित्वेन परिकल्पिता या वृद्धिस्तत्र सा वृद्धिराधिभोग इत्युच्यते इत्यर्थः। अपरार्कादौ “गृहात् स्तोमः शदः क्षेत्रादिति पाठः”। स्तोमो भाटक इति कल्पतरौ। शदः शस्यादिफलम्। वृद्धेः परिमाणं दर्शयति मनुः “वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्द्धिनीम्। अशीतिभागं गृह्णीयात् मासाद्वार्धुषिकः शते” इति। निष्कशते प्रयुक्ते मासस्य सपादनिष्कपरिमितां वृद्धिं वार्धुषिको वृद्ध्यर्थं गृह्णीयादित्यर्थः। एतत्सबन्धकविष यम्। अतएव याज्ञवल्क्यः “अशीतिभागो वृद्धिः स्यान्मासिमासि सवन्धके। वर्णक्रमाच्छत द्वित्रिचतुःपञ्चकमन्यथेति”। सबन्धके पयुक्तस्य द्रव्यस्याशीतितमो भागो वृद्धिः पणशते प्रयुक्ते सपादः पणः प्रतिमास बर्द्धत इत्यर्थः। अन्यथा बन्धकराहित्ये वर्णक्रमात् ब्राह्मणादिवर्णक्रमेण द्वित्रिचतुःपञ्चक शतन्धर्म्य भवति। द्वौ वा त्रयो वा चत्वारो वा इति द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिचतुःपञ्चकं शतम्। “तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कन्। तथा चायमर्थः। बन्धकरहिते पणशतं प्रति प्रतिमासं ब्राह्मणात् पणदृय क्षत्रियात् पणत्रयं वैश्यात् पणचतुष्टयं शूद्रात् पणपञ्चक ग्राह्यम्। यत् तु मनुनोक्तम्। “द्विकं शतं वा गृह्णीयात् सतान्धर्ममनुस्मरन्निति” तद्व्यवस्थितविकल्पविषयम्। अतएव व्यासः “सबन्धे भाग आशीतः षाष्टभागः सलग्नके। निराधाने द्विकशतं मासलाभ उदाहृतः” इति। सबन्धे आधिसहिते। आशीतः अशीततमः। षाष्टः षष्टितमः। लग्नकः प्रतिभूः। निराधाने बन्धकरहिते। आधानग्रहणं प्रतिभुवोरप्युपलक्षणम्। कल्पतरौ साष्टभाग इति पठित्वा सलग्नके अशीततमो भागः स्वकीयाष्टमसहितो मासवृद्धिरित्युक्तम् “द्विकन्त्रिकञ्चतुष्कञ्च पञ्चकञ्च शतं समम्। मासस्य वृद्धिं गृह्णोयाद् वर्णानामनुपूर्वशः” इति। द्विकं द्वौ वृद्धिर्दीयते यस्मिन्मूलधने तत् तथा। एवं त्रिकाद्यपि सममात्रं प्राप्य नाधिकम्। विष्णुरपि “अथोत्तमर्णेऽधमर्णकादयथादत्तमर्थं गृह्णीयात्। द्विकन्त्रिकञ्चतुष्कं पञ्चकं शत वर्णानुक्रमेण प्रतिभासमिति”। धमर्णविशेषेऽप्याह याज्ञवल्क्यः “कान्तारगास्तु दशकं सामुद्रा विंशकं शतमिति”। ऋण गृहीत्वा कान्तारं महावनन्तद्गच्छन्तोति कान्तारगा दुर्गस्थलगन्तारो वस्त्रादिक्रयकारिणः पणशतस्य दशकं प्रतिमासं दशपणान् दद्युरित्युत्तरवाक्यस्थस्यानुपङ्गः। समुद्रन्तरन्तीति सामुद्राः समुद्रगन्तारः प्रतिमासं विंशकं शतं दद्युरित्यर्थः। कारितायान्तु न नियम इत्याह स एव “दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिष्विति”। सर्वे त्र ह्मणादयोऽधमर्णाः सबन्धकेऽबन्धके वा सर्वासु जातिषूत्तमर्णभूतासु स्वयमङ्गीकृतां वृद्धिं दद्युरित्यर्थः। द्रव्यविशेषे वृद्धिविशेषषाह स एव “सन्ततिस्तु पशुस्त्राणां रसस्याष्टगुणा परा। वस्त्रधान्यहिरण्यानाञ्चतुस्त्रिद्विगुणा परेति”। पशुस्त्रोणां महिषीस्त्रोप्रभृतोनां वृद्ध्यर्थं प्रयुक्तानान्तदीया सन्ततिरेव वृद्धिः। रसस्य वृतादरष्टगुणा। वस्त्राणाञ्चतुर्गुणा घान्यानान्त्रगुणा। हिरण्यानां द्विगुणा परेति प्रत्येकं सम्बन्ध्यते। परा परमा। अतःपरमधिका वृद्धिर्नास्तीत्यर्थः। न च गवादीनाम् ऋणत्वेन दानन्न सम्भवतीति वाच्यम्। तत्पोषणाद्यशक्तस्य तत्पुष्टिसन्तत्याद्यर्षिनो दानसम्भवात्। ग्रहणन्तु क्षीरवाहनसेवार्थिनः। वृहस्पतिरपि “हिरण्ये द्विमुणा वृद्धिस्त्रिगुणा वस्त्रकुष्यके। धान्ये चतुगुणा प्रोक्ता शदवाह्यलवेषु च। उक्ता पञ्चगुणा शाके वीजेक्षौ षड्गुणा स्मृता। लवणस्त्रेहमद्येषु वृद्धिरष्टगुणा मता। गुडे मघुनि चैवोक्ता प्रयुक्ते चिरकालिके” इति। कुप्यं त्रपुसीसकादिकम्। शदः क्षेत्रफलम्। तच्च गोवलीवर्दन्यायाद्धान्यव्यतिरिक्तं पुष्पमूलफलादिकम्। “वाह्योऽश्वादिः। लवो मेषोर्णाचमरीकेशादिः। अत्र चिरकालशब्देन प्रतिश्रुतायाः अशीतिभागायाः वृद्धेर्यस्मिन् समये द्वैगुण्यादिप्रापकत्वंसम्भवति। ततोऽधिकः काला गृह्यते। यत् तु “धान्ये शदे लवे वाह्ये इत्यादिमनुनोक्तं तत्प्रत्यर्पणसमये समृद्धाधमर्णविषयम्। षाड्गुण्यनिषेधपरमिति मदनरत्ने। यत् तु वसिष्ठवचनम् “द्विगुणं हिरण्यं त्रिगुणं धान्य धान्येनैव रसा व्याख्याताः। पुष्पमलफलानि च तुलाधृतमष्टगुणमिति” तत्त्रिगुणमेव धान्यादिक दातव्यमिति यत्र देशे स्थिति स्तद्विषयम्। दरिद्राधमर्णविषय वा एवमन्यत्रापि न्यूनाधिकपरमवृद्धिप्रतिपादकानि वचनानि देशविशेषविषयतया दरिद्रादिविषयतया वा व्यवस्थापनीयानि। व्यासोऽपि “वदन्त्यष्टगुणान् काले मद्यस्नेहरसासवानिति” स्नेहस्तैलादिः। रसः क्षीरादिः। कात्यायनोऽपि “तैलानाञ्चैव सर्वेषां मद्यानां मधुसर्पिषाम्। वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य चेति”। विष्णुरपि “हिरण्यस्य द्विगुणा वृद्धिस्त्रिगुणा वस्त्रस्य धान्यस्य चतुर्गुणा रसस्याष्टगुणा सन्ततिः स्त्रीपशूनामिति”। व्यासोऽपि “शाकपाषाणवीजेक्षौ षड्गुणा परिकीर्त्तिते” ति। वसिष्ठोऽपि “वज्रशुक्तिप्रबालानां हेम्नश्च रजतस्य च। द्विगुणा त्विष्यते वृद्धिः कृतकालानुसारिणीति”। शुक्तिशब्देनात्र मुक्ताफलं लक्ष्यते वज्रसाहचर्य्यात्। अतएव कात्यायनः “मणिमुक्ताप्रबालानां सुवर्णरजतस्य च। तिष्ठतो द्विगुणा वृद्धिः फलकैटाविकस्य चेति”। कैटङ्कीटोद्भवम् पट्टसूत्रादि। ओविक कम्बलादिकम्। वसिष्ठाऽपि “ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च। त्रिगुणा तिष्ठतो वृद्धिः कालाच्चिरकृतस्य तु” इति। रीतिरारकूटम्। देशभेदेन परां वृद्धिं दर्शयति नारदः “ऋणानां सार्वभौमोऽयं विधिर्वृद्धिकरः स्मृतः। देशाचारस्थितिस्त्वन्या यत्रर्णमवतिष्ठते। द्विगुणं त्रिगुणञ्चैव तथान्यणि श्चतुर्गुणम्। तथाष्टगुणमन्यास्मन् तत् तु देशेऽवतिष्ठते” इति। यत्र वृद्धिविशेषो न श्रूयते तत्र द्विगुणैव ग्राह्यत्याह विष्णुः “अनुक्तानां द्विगुणेति” अयञ्च द्वैगुण्यादिरूपो वृद्ध्युपरमः सकृत्प्रयोगे सकृदा हरणे वेदितव्यः तथा च मनुः “कुसीदवृद्धिर्द्वैगुण्यन्नात्येति सकृदाहितेति”। उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धि कुसीदवृद्धिर्द्वैगुण्यन्नत्येति नातिक्रामति। यदि सकृदाहिता सकृत् प्रयुक्ता पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणेन तस्मिन्नेव वा पुरुषेरेकसेकाभ्यां प्रयोगान्तरकरणे द्वैगुण्यमतिक्रम्य पूर्ववद्वर्द्धत एवेत्यर्थः। द्वैगुण्यग्रहणं त्रैगुण्यादीनामुपलक्षणम्। सकृदाहृतेति पाठे यदि प्रतिमासं प्रतिबत्सरं वा न गृह्यते किन्तु सकृद् गृह्यते तदा द्वैगुण्यन्नातिक्रामतीत्यर्थः। गौतमोऽपि “चिरस्थाने द्वैगुण्यं प्रयोगस्येति”। प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमः चिरस्थान इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो भवतीति सूचितम्। उक्तस्य वृद्ध्यु परमस्य क्वचिद् द्रव्यविशेषेऽपवादमाह वृहस्पतिः “तृणकाष्ठोष्टकासूत्रकिण्वचर्मास्थिवर्मणाम्। हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते”। किण्वं सुराद्रव्यापादानकारणभतो मलविशेषः चर्म शरादिनिवारकफलकः वर्म कवचम्। हेतिरायुधम्। पुष्पफलयोर्वृद्धेरनिवृत्तिः प्रतिदानवेलायामत्य न्तसमर्थाधमर्णविषया देशविशेषविषया वा वेदितव्या। अन्यथा त्रिगुणवृद्धिप्रतिपादकव्यासवचनविरोधः स्यात्। विष्णुरपि “किण्वकार्पाससूत्रवर्मचर्मायुधेष्टकाङ्गाराणामक्षयेति”। कार्पासे तु षड्गुणवृद्धिविधायकव्यासवचनविरोधः पूर्ववत्परिहरणीयः। वसिष्ठोऽपि “दन्तचर्मास्थिशृङ्गाणां मृण्मयानान्तथैव च। अक्षया वृद्धिरेतेषां पुष्पमूलफलस्य च” इति। अक्षया मूलप्रतिपाद नाभावे शतगुणापि वर्द्धत एवेत्यर्थः। शिखावृद्ध्यादीनामनुपरसमाह वृहस्पतिः “शिखावृद्धिङ्कायिकाञ्च भोगलाभं तथैव च। धनी तावत् समादद्याद् यावन् मूलन्न शोचितम्”। न शोधितन्न प्रतिदत्तमृणिकेनेत्यर्थः क्वचिदनङ्गीकृतापि वृद्धिर्भवतीत्याह विष्णुः “यो गृहोत्वा ऋणं पूर्णं श्वा दास्यामीति सामकम्। न दद्याल्लाभतः पश्चात्तदह्नाद् वृद्धिमाप्नुयात्” इति श्व इति प्रतिश्रुतस्य प्रतिदानकालावधेरुपलक्षणम्। सममेव सामकम् अवृद्धिकमिति यावत्। योऽमुकस्मिन् दिने सममेवाह त्वदीयं धनं पूर्णं समग्रं दास्यामोति प्रतिज्ञाय ऋणं गृहीत्वा पश्चाल्लोभाद्विलम्बं कुर्य्यात् सोऽवधिदिनमारभ्य वृद्धिं दद्यादित्यर्थः। कालावध्यनङ्गीकारेण गृहीतस्य धनस्य षण्मासादूर्ध्वं वृद्धिर्भवतीत्याह नारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित्। अना- कारितमप्यूर्द्ध्वं वत्सरार्द्धाद्विवर्द्धते” इति। अनाकारिता अनङ्गीकृता। प्रोतिदत्तानां प्रतियाचनप्रतिदानदिनानिर्देशशून्यानामिति शेषः। अनाकारितेत्यादेरयमर्थः। वृद्धिमकृत्वा गृहीतमपि षण्मासादूर्द्ध्व प्रीतिदत्त वृद्धिं प्राप्नोतीति। प्रतियाचितस्य प्रीतिदत्तस्याऽदाने वृद्धिविशेषमाह कात्यायनः “प्रीतिदत्तन्न वर्द्धेत यावन्न प्रतियाचितम्। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति। पञ्चकं पञ्चाधिकम् प्रतियाचनदिनमारभ्य पणशतस्य पणपञ्चकं प्रतिमासं वर्द्धते इत्यर्थः। याचितकं गृहीत्वा अप्रतिदत्त्वैव देशान्तरगमने विशषमाह कात्यायनः “यो याचितकमादाय तमदत्त्वा दिशं व्रजेत्। ऊर्द्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात्” इति। एतच्चाप्रतियाचितविषयम्। प्रतियाचिते याचितकमदत्त्वा यदि देशान्तरङ्गच्छति तदा विशेषमाह स एव “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत्। ऊर्द्ध्वं मासत्रयाक्षस्य तद्धनं वृद्धिमाप्नुयात्” इति। कृतो द्धारं याचितकं गृहीत्वा याचितोऽप्यदत्त्वेत्यन्वयः। देशान्तरगमनाभावे तु याचितकालमारभ्य याचितकस्य वृद्धिविशेषसाह स एव “स्वदेशेऽपि स्थितो यस्तु न दद्यात् याचितः क्वचित्। तं ततो कारितां वृद्धिमनिच्छन्तञ्च दापयेत्” इति। ततः प्रतियाचनकालादारभ्येत्यर्थः। एतत्कञ्चिदवधिमपरिकल्प्य याचञाप्राप्ते ज्ञेयम्। अवधिं स्वीकृत्य तदतिक्रमे त्वतिक्रमदिनमारभ्य तद्धनस्य वृद्धिर्ज्ञेया। “तदह्नाद् वृद्धिमाप्नुयादिति” न्यायसाम्यात्। गृहीतपण्यो मूल्यमदत्त्वा देशान्तरगमने वृद्धिविशेषमाह स एव “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात्तद्धनं वृद्धिमाप्नुयात्” इति। एतच्चापतियाचितविषयम्। प्रतियाचने त्वेतस्य निक्षिप्तवृद्धिशेषयाश्च तद्दिनमारभ्य प्रतिमासं शते पञ्चकं वर्द्धत इत्यप्याह स एव “निःक्षिप्तं वृद्धिशेषञ्च क्रयविक्रय एव च। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतम्” इति। नन्वकृतायां वृद्धौ परिमाणविशेषस्यानुक्तेः किं परिमाणं ग्राह्यमिति चेत्। अशीतिभागो वृद्धिः स्या दित्यादि याज्ञवल्क्याद्युक्तपरिमाणं ग्राह्यमिति ब्रूमः। अतएव विष्णुः “वृद्धिं दद्युर्वत्सरातिक्रमे यथामिहितामिति”। वत्सरातिक्रम इति यत्र यदतिक्रमे वृद्धिरुक्ता तस्योपलक्षणम्। यथाभिहितां धर्मशास्त्र इति शेषः। धर्मशास्त्रे यथोक्तां तथाविधामित्यर्थः। ननु यथाभि- हितामित्यस्यार्थिप्रत्यर्थिनोरन्यतरेण मध्यस्थेन वामिहितां दद्यादित्यर्थः कस्मान्न भवति अतिप्रसङ्गापत्तेः। “कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति। कुसीदपथमाहुस्तं पञ्चकं शतमर्हतीति मनूक्तेश्च। अस्यार्थः। शास्त्रविधिनियमितशास्त्रकृतवृद्ध्यनुसारी यो वृद्धिग्रहणं लोकिकानां समाचारः तस्मादधिका वृद्धिरुत्तमर्णादेरकृतवृद्धौ न सिद्ध्यति यतः सा व्यतिरिक्ताधर्मशास्त्रवाह्या। अतएव कुसीदपथमाहुस्तन्न धर्मपथमिति। पञ्चकं शतमहतोति प्रतियाचितविषयमिति स्मृतिचन्द्रिकायाम्। पूर्वोक्ताच्छास्त्रानुसारादधिकाऽधसर्णेनाकृता वृद्धिर्न सिध्यति। यतः कुसीदपथमाहुस्तम्। यदा तु व्यवहारावष्टम्भादुत्तमर्णोऽधिकमधमर्णेनाकारितं लाभमिच्छति तदा ब्राह्मणे पञ्चकं शतं ग्रहीतु मर्हति न ततोऽधिकसधमर्णाकारितमित्यर्थमाह रत्नाकरः अकृतवृद्धेरपवादमाह नारदः “पण्यमूल्यं भृतिन्यासो दण्डो यश्च प्रकल्पितः। वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः” इति। पण्यस्य वस्त्रादेर्मूल्यम्। भृतिर्वेतनम्। न्यासो निक्षेपः। वृथादानं वेश्यादिभ्यः प्रतिश्रुतम्। आक्षिकपणो द्यूतद्रव्यम्। अविवक्षिताः। अत्र पण्यमूल्यस्य वृद्धेरभावोक्तिः प्रवासप्रतियाचनयोरभावे वेदितव्या अन्यथा पूर्वोक्तकात्यायनवचनेन विरोधः स्यात्। न्यासस्य च वृद्ध्यभाववचनं प्रतियाचनाभावे “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च यथास्थिते। सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयं कृतम्” इति संवर्त्तवाक्ये यथास्थितमिति विशेषणोपादानाद् व्यक्त्यन्यथाकरणाभावे च ज्ञातव्यम्। तथा च निक्षिप्तं वृद्धिशेषञ्चेत्यादि पूर्वोक्तकात्यायनवचनविरोधो न। कात्यायनोऽपि “वर्मशस्यासवद्यूते पण्यमूले च सर्वदा। स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च” इति। सर्वदेत्यनेन प्रतियाचनादेः परस्तादपि वृद्धिरकृता नास्तीत्युक्तम्। यद्यपि सर्वदेति सर्वशेषत्वात् पण्यमूल्येऽपि प्रतियाचनादेः परस्तादकृतवृद्ध्युपरमः प्रतिभाति। तथापि पूर्वोक्तकात्यायनवचनविरोधात् न तच्छेषता सर्वदेत्यस्य। एवञ्च पूर्वोक्त एव परिहारः। एवं वर्सणोऽपि वृद्ध्यभावोक्तिः प्रतियाचनाभावे तथा च न तच्छेषतापि। एवञ्च न पूर्वोक्ताक्षयवृद्धिप्रतिपादकवसिष्ठादिवचमविरोधः। अन्यत्रापि वृद्ध्यभावं व्यास आह “प्रातिभाव्यम्भुक्तरन्धमगृही- तञ्च दित्सतः। न वर्धते प्रयत्नस्य दमः शुल्कं प्रतिश्रु तम्” इति। भुक्तबन्धमित्यनेन स्थापितस्य गुप्ताधेर्वस्त्रालङ्कारादेरुपभोगे वृद्धिर्नभवतीत्युक्तम्। अतएव गौतमः “भुक्ताधिर्न वर्द्धते वस्त्रालङ्कारादिरिति” अगृहीतञ्च दित्सतः प्रतिदातुमिच्छोरधमर्णादुत्तमर्णोवृद्धिलोभादिवशान्न यदा गृह्णाति तदा तस्य कृतापि वृद्धिस्तद्दिनादारभ्य न देयेत्यर्थः। तथा च याज्ञवल्क्यः “दीयमानं न गृह्णाति प्रयुक्तं यत् स्वकन्धनम्। मध्यस्थस्थापितं तत्स्याद् वर्द्धते न ततःपरम्” इति। मध्यस्थस्थापितमिति विशेषणेनाधमर्णो यदि स्वनिकटे स्थापयति तदा भवत्येव वृद्धिरिति”। ९ शैलेयगन्धद्रव्ये पु०। १० धने च राजनि०।
वृद्धिका = स्त्री वृद्धि + स्वार्थे क। वृद्धिनामकौषधे शब्दच०।
वृद्धिजीविका = स्त्री वृद्धिस्तद्रूपा जीविका। ऋणदानादिषु प्रयुक्तथनेभ्यो ल भरूपजीविकायाम्।
वृद्धिश्राद्ध = वृद्ध्यै अभ्युदयाय श्राद्धम्। पुत्रादीनां संस्काराङ्गे पार्वणविधिके नान्दीश्राद्धे नान्दीश्राद्धशब्दे दृश्यम्
वृद्धोक्ष = पु० कर्म० अच् समा०। जरद्गवे अमरः।
वृद्ध्याजीव = त्रि० वृद्धिम् अधमर्णतः प्रयुक्तद्रव्याधिकलाभमाजीवति आ + जीव–अण्। बार्द्धुषिके अमरः।
वृध = दीप्तौ चु० उभ० अक० सेट्। वर्द्धयति ते अवीवृधत् त अववर्द्धत् त।
वृध = वृद्धौ भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक० सेट वृता०। वर्द्धते ऋदित् अवृधत् अवर्द्धिष्ट वृतवत् वतर्स्यति वर्द्धिष्यते। उदित् क्त्वा वेट्।
वृधसान = पुंस्त्री० वृष–आन असुक् च। मनुष्ये सि० कौ०। स्त्रियां ङीष्।
वृधसानु = पु० वृध–आनु असुक् च। १ पुरुषे २ पत्रे ३ कृतौ च उणादि०।
वृन्त = न० वृ–क्त नि० मुम् च। (वा~टा)फलपत्रादिबन्धने अमरः
वृन्ताक = पुंस्त्री० वृन्तमकति अक–अण्। वार्त्ताकौ शब्दच०। स्त्री राजनि० स्त्रीत्वे गौरा० ङीष्।
वृन्तिता = स्त्री वृन्तं जातमस्याः तार० इतच्। कटुकायां शब्दच०
वृन्द = न० वृत्यते वृणुते वा–वृण–वृत वा दन् नि०। १ समूहे अमरः। २ दशार्वुदसंख्यायां ज्योति० ३ केदारकन्यायां ४ तुलस्यां स्त्री शब्दच०। ५ राधिकायां स्त्री वृन्दावनम्।
वृन्दार = त्रि० वृन्दमृच्छति ऋ–अण्। मनोहरे शब्दच०।
वृन्दारक = पु० वृन्देन कायति कै–क। १ देवे अमरः। स्वार्थे क। २ मुख्ये ३ मनोहरे च त्रि० ४ यूथपतौ पु० व्याडिः।
वृन्दावन = स्त्री वृन्दायाः तपस्यार्थं तत्क्रीडार्थं वा वनम् शा० त०। मथुरासन्निकृष्टे वैष्णवे १ तीर्थभेदे गोलोकस्थे धामभेदे च “कमालांशा तस्य (केदारस्य) कन्या नाम्ना वृन्दा तपस्विनीत्युपक्रमे “वृन्दा यत्र तपस्तेपे तत्तु वृन्दावनं स्मृतम्। वृन्दयात्र कृता क्रीडा तेन वा मुनिपुङ्गव!। राधाषोडशनाम्नां च वृन्दा नाम श्रुतौ श्रुतम्। तस्याः क्रीडा वनं रम्यं तेन वृन्दावनं स्मृतम्” ब्रह्मवै० जन्म० १७ अ०। “नित्यं वृन्दावनं धाम ब्रह्माण्डोपरि संस्थितम्। पूर्णब्रह्मसुखैश्वर्य्यं नित्यमानन्दमव्ययम्। वैकुण्ठादि तदंशांशं स्वयं वृन्दावनं भुवि। गोलोकैश्वर्य्यञ्च यत्किञ्चित् गोकुले तत् प्रकीर्त्तितम्। वैकुण्ठादिवैभवं यत् द्वारकायां प्रकाशयेत्। यद्ब्रह्म परमैश्वर्य्यं नित्यं वृन्दावनाश्रयम्। तस्मात् त्रैलोक्यमध्ये तु पृथ्वी धन्येति विश्रुता। यत् स्यान्माथुरकं धाम विष्णोरेकान्त वल्लभम्। स्वस्थानमधिकं नाम धेयं माथुरमण्डलम्। निगूढं परमं स्थानं पुर्य्यभ्यन्तरसंस्थितम्। सहस्रपत्रकमलाकारं माथुरमण्डलम्। विष्णुचक्रं परिभ्रामद्धाम वैष्णवमद्भुतम्। कर्णिकापत्रविस्तारं रहस्यक्रममीरितम्। प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात्। भद्र १ श्री २ लौह ३ भाण्डीर ४ महा ५ ताल ६ खदीरकाः ७। बहुलं ८ कुमुदं ९ काम्यं १० मधु ११ वृन्दावनं १२ तथा। द्वादशैता वने संख्याः कालिन्द्याः सप्त पश्चिमे। पूर्वे पञ्च वनं प्रोक्तं तत्रास्ति गुह्यमुत्तमम्। महावनं गोकुलाख्य रम्यं मधुवनं तथा। पूर्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे। अन्यच्चोपवनं प्रोक्तं कृष्णक्रीडारसस्थ लम्। कदम्बखण्डिकं नन्दवनं नन्दीश्वरं तथा नन्दनानन्दखण्डञ्च पालाशाशोककेतकम्। सुगन्धिमादः कैलममृतं मोजनस्थलम्। सुखप्रसाधनं वत्सहरण शेषशायनम्। श्यामपूश्च दधिग्रामं चक्रभानुपुरं तथा सङ्कितं विपदञ्चैव बालक्रीडञ्च धूषरम्। केमुद्रुमं खरोवीरमुत्सुकञ्चापि नन्दनम्। इत्थमेव वने संख्यास्त्रिं शच्चोपवने स्मृता। पूर्वोक्तं द्वादशारण्यं प्रधानं वनमुत्तमम्। तत्रोत्तरे चतुर्थञ्च वनञ्च समुदाहृतम्। नाना विधरसक्रीडानानालीलामयस्थलम्। दलविस्पष्ट विस्ताररहस्यक्रममीरितम्। सहस्रपत्रकमलं गोकुलाख्यं महत् पदम्। तत्रोपरि स्वर्णपीठे मणिमण्डप मण्डितम्। तत्र तत्र क्रमाद्दिक्षु विदिक्षु दलमीरितम्। यद्दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम्। तस्मिन् दने महापीठं निगमागमदुर्गमम्। योगीन्द्रैरपि दुष्प्रापं सर्वात्मा यत्र गोकुले। द्वितीयं दलमाग्नेयं तद्रहस्य द्विधा तथा। निकुञ्जककुटोवीरकुटीरौ तद्दले स्थितौ। पूर्वदलं तृतीयं यत् प्रधानं स्थानमुच्यते। गङ्गादिसर्वतीर्थानां स्पर्शाच्छतगुणं भवेत्। चतुर्थदलमैशान्यां सिद्धपीठेप्सितप्रदम्। कामयन्नूतना गोपी तत्र कृष्णातिं लभेत्। वस्त्रालङ्कारहरणं तद्दले समुदाहृतम्। उत्तरे पञ्चमं प्रोक्तं दलं सर्वदलोत्तमम्। द्वादशादित्यमत्रैव दलञ्च कर्णिकासमम्। वायव्यन्तु दलं षष्ठं तत्र कालीह्रदः स्मृतं। दलोत्तमोत्तमञ्चैव प्रधानस्थानमुच्यते। सर्वोत्तमदलं श्रेष्ठं पश्चिमे सप्तमं दलम्। यज्ञपत्नोगणानाञ्च तदीप्सितवरप्रदम्। अधासुरस्य निर्वाणं चक्रे त्रिदशदर्शितम्। ब्रह्ममोहनमत्रैव दलं ब्रह्महृदावहम्। नैरृत्यान्तु दलं प्रोक्तमष्टमं व्योमघातनम्। शङ्खचूडबधस्तत्र नानाकेलिरसस्थलम। श्रुतमष्टदलं प्रोक्तं वृन्दारण्यान्तरस्थितम्। श्रीमद्वृन्दावनं धन्यं यमुनायाः प्रदक्षिणम्। शिवलिङ्गमधिष्ठाता वृष्टो गापीश्वराभिधः। तद्वाह्ये षोडशदलं श्रिया पूर्णं तदोरितम्। सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथाक्रमम्। महत् पदं महद्धाम प्रधानं षोडशं दलम्। प्रथमैकदलं श्रेष्ठं माहात्म्यं कर्णिकासमम्। तस्मिन् मधुवनं प्राक्तं तत्र प्रादुरभूत् स्वयम्। चतुर्भुजो महाविष्णुः सर्वकारणकारणम्। तत्राथिष्ठिततद्देवं मुनिश्रेष्ठ! सनातनम्। दलं द्वितीयमाख्यातं किञ्चिल्लीलारसस्थलम्। खदिरारण्यमत्रैव दलञ्च समुदाहृतम्। सर्वश्रेष्ठदलं प्रोक्तं माहात्म्यं कर्णिकासमम्। तत्र गोवर्द्धने रम्ये नित्यानन्दरसाश्रये। कर्णिकायां महालीला तल्लीलारससागरे। यत्र कृष्णो नित्यवन्दाकाननस्य पतिर्भवेत्। कृष्णो गोविन्दतां प्राप्तः किमन्यैर्बहुभाषितैः। दलं तृतीयमाख्यातं सर्वश्रेष्ठोत्तमोत्तमम्। चतुर्थदलमाख्यातं महाद्भुतरसस्थलम्। हरिर्यस्य पतिः साक्षान्नित्यं गोवर्द्धनं स्वयम्। कदम्बखण्डी तत्रैव पूर्णानन्दरसाश्रयः। स्निग्धं हृद्यं प्रियं रम्यं दलञ्च समुदाहृतम्। नन्दीश्वरदलं रम्यं तत्र नन्दालयः स्मृतः। क र्णकादलमाहात्म्यं पञ्चमं दलमुच्यते। अधिष्ठातात्र गोपाला धेनुपालस्ततः परम्। दलं षष्ठं यदाख्यातं तत्र नन्दवनं स्मृतम्। सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्त्तितम्। दलाष्टमं तालवनं तत्र धेनुवधः स्मृतः। नवमं कुमुदारण्यं दलं रम्यं प्रकीर्त्तितम्। काम्यारण्यं दलं हृद्यं दशमं सर्वकारणम्। ब्रह्मपसादनं तत्र विष्णुवृन्दं प्रदर्शितम्। कृष्णक्रीडारसस्थानं प्रधानं दलमुच्यते। दलमेकादशं प्रोक्तं भक्तानुग्रहकारणम्। निर्वाणं सेतुबन्धस्य नानारसमयस्थलस्। भाण्डीरं द्वादशदलं वनं रम्यं मनोहरम्। कृष्णक्रोडारसस्तत्र श्रीदामादिभिरावृतः। त्रयेदशदलं श्रेष्ठं तत्र भद्रवनं स्मृतम्। चतृर्दशदलं प्रोक्तं सर्वसिद्धि प्रदं स्थलम्। श्रीवनं तत्र रुचिरं सर्वैश्वर्य्यस्य कारणम्। कृष्णलीलामयदलं श्रीकीर्त्तिकान्तिवर्द्धनम्। पञ्चदशं दलं श्रेष्ठं तत्र लौहवनं स्मृतम्। कथितं षोडशदलं माहात्म्यं कर्णिकासमम्। महावनं तत्र गीतं तत्रास्ति गुह्यमुत्तमम्। बालक्रीडारसस्तत्र वत्सपालैः समावृतः। पूतनादिबधस्तत्र यमलार्जुनभञ्जनम्। अधिष्ठाता तत्र बालगोपालः पञ्चमाव्दिकः। नाम्ना दामोदरः प्रोक्तः प्रेमानन्दरसार्णवः। दलं प्रसिद्धमाख्यातं सर्वश्रेष्ठदलोत्तमम्। कृष्णक्रीडा च किञ्जल्के विहारदलमुच्यते। सिद्धिप्रधानं किञ्जल्कं दलञ्च समुदाहृतम्” पद्मपु० पा० ख०
वृन्दिष्ठ = त्रि० अतिशयेन वृन्दारको मुख्यः इष्ठन् वृन्दादेशः। अतिशयमुख्ये “वृन्दिष्ठमार्च्चीत् वसुधाधिपानाम्” इति भट्टिः। ईयसुन् वृन्दीयानप्यत्र त्रि० स्त्रियां ङीप्।
***