विप = क्षेपे चु० उभ० सक० सेट्। वेपयति–ते अवीविपत् त।

विपक्त्रिम = त्रि० विपाकेन निर्वृत्तः वि + पच–क्त्रि मपच्। विपाकाधीनजाते “विपक्त्रिमज्ञानगतिर्मनस्वी” भट्टिः।

विपक्ष = त्रि० विरुद्धः पक्षो यस्य। १ शत्रौ अमरः। २ प्रतिकूलपक्षावलम्बिनि च। विरुद्धः पक्षः प्रा० स०। ३ प्रतिकूले पक्षे विवादे अर्थिसमल्लिखितपक्षस्य विरुद्धे ४ पक्षे च।

विपञ्ची = स्त्री वि + पचि–अच् गौरा० ङीष्। १ वीणायाम् अमरः। २ केलौ मेदि०। स्वार्थे क ह्रस्वः। विपञ्चिका तत्रैव।

विपण = पु० वि + पण–घञर्थे क। विक्रये अमरः।

विपणि(णी) = पुंस्त्री० वि + पण–इन् स्त्रीत्वपक्षे वा ङीप्। १ पण्यविक्रयशालायाम् (हाटचाला) २ हट्टे च अमरः। क्रये मेदि०।

विपणिन् = पु० वि + पण–बा० इनि। विक्रेतरि वणिजि जटा०

विपत्ति = स्त्री वि + पद–क्तिन्। आपदि अमरः। २ नाशे ३ यातनायाञ्च मेदि०। “यस्मिन् राशौ गते भानौ विपत्तिं यान्ति मानवाः” म० त०।

विपथ = पु० विरुद्धः पन्थाः अचसमा०। निन्दितमार्गे अमरः

विपद्(दा) = स्त्री वि + पद–सम्प० क्विप् वा टाप्। १ विपत्तौ ज्यो० उक्ते जन्मतारातः तृतीयद्वादशैकविंशतिसंख्याक नक्षत्रे च “विपत्तारे गुडंदद्यात्” ज्यो० त०।

विपन्न = त्रि० वि + पद–क्त। १ विपद्युक्ते मेदि० २ नष्टे च शब्दच०। ३ सर्पे पुंस्त्री० मेदि० स्त्रियां ङीष्।

विपरीत = त्रि० वि + परि + इण–क्त। १ प्रतिकूले जटा०। २ त्यक्तक्रमे च ३ कामुक्यां स्त्री ४ नारीणां पुरुषायितरसणे नं “महाकालेन च समं विपरीतरतातुराम्” कर्पूरस्तवः। “पादमेकमूरौ कृत्वा द्वितीयं कटिसंस्थितम। नारीपु रमते कामी विपरीतस्तु बन्धक” रतिम० उक्ते ५ रतिबन्धभेदे। संज्ञायां कम्। “पादमेकमूरा कत्वा द्वितीयं स्कन्धसंस्थितम्। कामिनीं कामयेत् कामी बन्धः स्यात् विपरीतकः” स्मरदीपिकोक्ते रतिमन्धभेदे।

विपर्णक = पु० विगतानि पर्णान्यस्य कप्। १ पुष्पप्रधाने पलाशवृक्षे शब्दच०। २ अल्पपत्त्रके त्रि०।

विपर्य्यय = पु० वि + परि + इण–अच्। व्यतिक्रमे। २ अतस्मिंस्तद्बुद्धौ च। पात० उक्ते ३ चित्तवृत्तिभेदे “विपर्य्ययो मिथ्याज्ञानमतत्प्रतिष्ठम्” पात० सू०।

“संशयस्यापि विपर्य्यत्वमतद्रूपप्रतिष्ठानत्वात् तस्य तद्धर्मिकभावाभावगोचरतया एकांशे अतद्रूपप्रतिष्ठत्वान पायात्। स कस्मात् न प्रमाणम्?। यतः प्रमाणन बाध्यते भूतार्थविषयत्वात् प्रमाणस्य, तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्ठम्। तद्यथा द्विचन्द्रदर्शनं सद्विषययेणैकचन्द्रदर्शनेन बाध्यते” भा०। “स च पञ्चविधः अविद्याऽस्मितारागद्वेशामिनिवेशाः पञ्च क्लेशाः” पात० सू०। इति पञ्च विपर्य्याया। इत्यादि भा०।

विपर्य्यस्त = त्रि० वि + परि + अस–क्षेपे क्त। १ व्यतिक्रान्ते २ परावृत्ते च

विपर्य्यास = पु० वि + परि + अस–घञ्। १ वैपरीत्ये २ व्यतिक्रमे ३ उत्क्षेपे च। ४ विपर्य्यये भ्रान्तौ च।

विपल = न० विमक्तं फलं येन प्रा० ब०। फलषष्टिभागे कालभेदे। “लग्नदण्डपलं द्विघ्नं तत्संख्य क्रमतः पलम्। विपलं च रवेर्भोग्यमेवं कल्पनमस्तमे” ज्यो० त०।

विपश्चित् = पु० विप्रकृष्टं चेतति वि + प्र + चित–क्विप् पृषो०। पण्डिते अमरः।

विपाक = पु० वि + पच–भावे घञ्। १ पाके २ स्वेदे च। कर्मणि घञ्। २ कर्मफलपरिणामे जात्यायुर्भोगरूपे पदार्थे। “सति मूले तद्विपाको जात्यायुर्भोघाः” पात० सू० “सतसु क्लेशेषु (अविद्यादिषु) कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलोऽपि। यथैव तुषारनद्धाः शालितण्डुलाः अदग्धवीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषादग्धवीजमावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति नापनीतक्लेशो न प्रसंख्यानदग्धवीजभावो वेति। स च विपाकस्त्रिविधो जातिरायुर्भोगश्चेति” भा०।

विपाश्(शा) = स्त्री विगतः पाशो वशिष्ठस्य यस्याः। स्वनामख्याते नदीभेदे अमरः। विपाशयति विभुक्तपाशं वशिष्ठं करोति विपाश + णिच्–क्विप्। तत्रार्थे अमरः। तस्यास्तथात्वकथा भा० आ० १७७ अ०। “अथ पाशैस्तदात्मानं गाढं वद्ध्वा महामुनिः (वशिष्ठः) तस्या जले महानद्या निममज्ज सुदुःखितः। अथ छित्त्वा नदी पाशांस्तस्यारिबलसूदन!। स्थलस्थ तमृषि कृत्वा विपाशं समवासृजत्। उत्ततार ततः पाशैर्विमुक्तः स महानृषिः। विपाशेति च नामास्यानद्याश्चक्र महामुनः” “शतद्रोर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघ्नम्। जलं निर्मलं दीपनं पाचनञ्च प्रदत्ते बलं बुद्धिमेधायुषञ्च” राजनि०।

विपिन = न० वप–इनन् पृषो०। वने अमरः।

विपुल = त्रि० वि + पुल–विस्तारे क। १ विस्तीर्णे अमरः। २ अगार्धे ३ मेरुपश्चिमस्थे भूधरभेदे पु० मेदि० ४ मेरौ ५ हिमाचले च धरणिः। ६ आर्य्याछन्दोभेदे स्त्री। “सलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः। यस्यास्तां पिङ्गलनागा विपुलामिति समाख्याति” वृ० र०। विपुलाचलश्च मेरोर्विष्कम्मपर्वतभेदो यथोक्तम् विष्णुपु० “मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम्। इलावृतं महाभाग! चत्वार उपपर्वताः। विष्कम्भा रचिता मेरोर्योजनायुतसंस्थिताः। पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः। विपुलः पश्चिमे भाग सुपार्श्वश्च तथात्तरे” तत्र चिह्नवृक्षादिकं तत्राक्तं यथा “कदम्ब १ स्तेषु जम्बू २ श्च पिप्पलो ३ वट ४ एव च। एकादशशतायामाः पादपा गिरिकेतवः। वनं चैत्ररथं १ पूर्वं दक्षिणा गन्धमादनम् २। वैभ्राजं ३ पश्चिमे तद्वदुत्तरे नन्दनं ४ स्मृतम्। अरुणोदं १ महाभद्रं २ शशिमेदं ३ च मानसम्। सरांस्येव च चत्वारि देवभोग्यानि सर्वदा”। धान्यशैलशब्दे दर्शिते दानार्थं कल्पिते तिलमथे ७ तन्नामकपर्वते हेमा० दा०।

विपुलास्रव = स्त्री विपुल रसमास्रवात आ + स्रु–अच्। घृतकुमारीवृक्षे राजनि०।

विपूय = पु० वि + पू–करणे नि० क्यप्। मुञ्जे मुग्धबो०।

विप्र = पु० वप–रन् पृषो० अत इत्त्वम् वि + प्रा पूर्त्तो–क वा। १ ब्राह्मण अमरः “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यत। विद्यबयाति विप्रत्व त्रिभिः श्रोत्रियौच्यते” प्रा–वि० वाक्यम् २ अश्वत्थे राजनि० ३ विशेषेण पूरके त्रि०

विप्रकार = पु० वि + प्र + कृ–घञ्। १ अपकारे अमरः। २ तिरस्कारे हेमच०।

विप्रकाष्ठ = न० विशेषेण प्राति प्रा–क विप्रं पूरकं काष्ठं यस्य। तूलवृक्षे राजनि०।

विप्रकर्ष = पु० वि + प्र + कृष–घञ्। दूरत्वे हला०।

विप्रकृत = त्रि० वि + प्र + कृ–क्त। १ उपद्रुते, २ तिरस्कृते च “तस्मिन् विप्रकृताः काले” कुमारः।

विप्रकृष्ट = त्रि० वि + प्र + कृष–क्त। दूरस्थे हला०। स्वाथं क। तत्रैवार्थे अमरः।

विप्रचित्ति = पु० वि + प्र + चित–क्तिच्। दानवभेदे।

विप्रतिपत्ति = स्त्री वि + प्रति + पद–क्तिन्। १ विरोधे “पर० स्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु” स्मृतिः। २ संशयजनके वाक्ये “व्याहतमेकार्थकं विप्रतिपत्तिः” गौ० सू० व्याघातो विरोधोऽसहभाव इति। आत्माऽस्तीत्येव दर्शनं नास्त्यात्मेत्यपरः” वा० भ०। ३ विरुद्धकोटिद्वयोपस्थापके शब्दे च वादिना पर्वतो वह्निमान् प्रतिवादिना च पर्वतो वह्न्यभाववान् इति प्रतिज्ञाते मध्यस्थस्य पर्वतो वह्निमान् नवेति संशय उदेति अतस्तस्य संशयाधायकत्वात्तथात्वम्। स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्निमान्नवेति संशयापादकः। “विपरीतायां निन्दितायां च ४ प्रतिपत्तौ ५ विकृतावनूहे च “शब्देऽविप्रतिपत्तिः” कात्या० श्रौ० अप्रतिपत्तिरनूहः” प्रतिनिधिशब्दे ४४४३ पृ० दृश्यम्।

विप्रतिपन्न = त्रि० वि + प्रति + पद–क्त। १ संदेहयुक्ते २ कृतविरोधे च।

विप्रति(ती)सार = पु० वि + प्रति + सृ–घञ् वा दीर्थ। १ अनुतापे, अनुशये, २ रोषे च मेदि०।

विप्रयुक्त = त्रि० विप्र + युज–क्त। १ वियुक्ते, २ विरहिणि च

विप्रयोग = पु० वि + प्र + युज–घञ्। १ विप्रलम्भे अमरः २ विरोधे ३ विसंवादे ४ वियोगे च। ५ रागिणोर्विच्छेदे।

विप्रलब्ध = त्रि० वि + प्र + लभ–क्त। वञ्चिते, हेमच० “प्रियः कृत्वाऽपि सङ्केतं यस्या नायाति सन्निधिम्। विप्रलब्धेति सा ज्ञेया” सा० द० उक्तलक्षणे नायिकाभेदे स्त्री।

विप्रलम्भ = पु० वि + प्र + लभ–घञ् मुम् च। १ विसंवादे, २ वञ्चने, ३ विरहे च अमरः। “यूनोरयुक्तयोर्भावो युक्तयोर्वाथ वा मिथः। अभीष्टालिङ्गनादीनामनवाप्तौ प्रहृव्यते। स विप्रलम्भो विज्ञेयः” उज्ज्वलमण्युक्ते ४ शृङ्गारावस्थाभेदे।

विप्रलाप = पु० वि + प्र + लप–घञ्। १ विरोधोक्तौ परस्परविरुद्धार्थककने अमरः। २ अनर्थकवाक्ये हेमच०।

विप्रलोभिन् = पु० विप्रलोभयति वि + प्र + लुभ + णिच्–णिनि। किंकिरातवृक्षे, अशोकवृक्षे। राजनि०।

विप्रश्निका = स्त्री विशेषेण प्रश्नायस्याः ५ ब० कप् अत इत्त्वम्। दैवज्ञाया स्त्रियाम् अमरः।

विप्रसात् = अव्य० विप्रस्याधीनं करोति विप्र + साति। विप्रस्याधीनतायाम्।

विप्रस्व = न० ६ त०। विप्रस्वामिके धने।

विप्रिय = पु० विरुद्धं प्रियं वि + प्री–क वा। १ अपराधे हेमच०। २ अप्रिये च “कृतवानसि विप्रियं न मे” कुमार प्रादि० ६ व०। विगतपिये त्रि०।

विप्रुष = स्त्री० ब० व० वि + प्रुष–क्विप्। १ विन्दुषु २ वेदपाठकाले मुखनिर्गतजलविन्दुषु अमरः। “मक्षिका विप्रुषच्छाया गौरश्वः सूर्य्यरश्मयः। रजो भूर्वायुरग्निश्च स्पर्शमेध्यानि निर्दिशेत्” शु० त०। आचमनकाले मुखनिःसृतानां तासां नोच्छिष्टदोषजनकता यथाह “नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽडं नयन्ति याः। दन्तवन् दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत्” कूर्म० उ० ३ अ०।

विप्रोषित = त्रि० वि + प्र + वस–क्त। गतप्रवासे।

विप्लव = पु० वि + प्लु–अप्। १ परनृपतिराष्ट्रादिता भये। २ राष्ट्रोपद्रव च अमरः।

विप्लाव = पु० वि + प्लु–घञ्। अश्वस्य १ गतिभेदे २ समन्तात् जलप्लावे च।

विप्लुत = त्रि० वि + प्लु–क्त। १ व्यसनयुक्ते हेमच० २ उपद्रुते च “अविप्लुतब्रह्मचर्य्यः” स्मृतिः

विफल = त्रि० विगत फलमस्य। १ निरर्थके २ फलरहिते च ३ केतक्यां स्त्री० राजनि०।

विबध = पु० विगतो बधो हननं गतिर्यस्मात्। संगृहीतधान्यतण्डुलादौ “निरुद्धविबधासारेति” ति माघः पृषो०। दीर्घः वीबध तत्रार्थे विश्वः।

विबन्ध = पु० विबन्धाति मलस् वि + बन्ध–अच्। मलबन्धकारके रोगभेदे अमरः।

विबुध = पु० वि + बुध–क। १ पण्डिते मेदि० २ देवे अमरः “विबुधसखः” भट्टिः। ३ चन्द्रे च हेमच०।

विभक्त = त्रि० वि + भज–क्त। १ पृथक्कृते २ विभिन्ने कृतविभागे च ३ भाव क्त। ३ विभागे ४ भेदे न०। “पञ्चमी विभक्ते” पा०। यस्य विभागः कृतः ५ तादृशे धने “अविभक्तं स्थावरं यत् सवषामेव तत् भवेत्। विभक्तं स्थावरं ग्राह्यं नान्योदर्य्यैः कथञ्चन” यमवचनम्। तदस्यास्ति अच्। येन धनस्य विभागःकृतस्तस्मिन् ६ जने तत्र। विभक्तधर्मादिकं दायभागादौ दर्शितं यथा “भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते। तद भावे विभक्तानां धर्मस्तेषां विवर्द्धते” “विभक्तानां स्वमात्रधनेन वैदिककरणातन्मात्रधर्मत्वेन तद्वृद्धिः” दाय० त० रघु०। “दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः। विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः। साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव च। विभक्ता भ्रातरः कुर्युर्नाविभक्ताः परस्परम्। येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वरिक्यतः। विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान्” नारदः “भ्रातृनामथ दम्पत्योः पितृः पुत्रस्य चैव हि। प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तद् भवेत्” याज्ञ०। “बन्धूनासविभक्तानां भोगं नैव प्रदापयेत्” कात्या “भ्रातॄणामविभक्तानामेको धर्म प्रवर्त्तते। विभागे सति धर्मोऽपि भवेत् तेषां पृथक् पृथक्” कात्या० “अविभक्ता विभक्ता वा कुर्युः श्राद्धञ्च दैविकम्। मघासु च तथान्यत्र नाधिकार पृथग् विना” श्रा० त० धृतवचनम्। “वहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः। सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येण चाविभक्तेन मर्वैरेव कृतं भवेत्” शु० त०। “अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः। एको ह्यनीशः सर्वत्र दानाधमनविक्रये” नारदः। “एतत् दुर्वृत्तपुरुषविक्रयविषयमिति” दाय० त० रघु०।

विभक्ति = स्त्री वि + भज–क्तिन्। १ विभागे “संख्यात्वव्याप्य सामान्ये शक्तिमान् प्रत्ययस्तु यः। सा विभक्तिर्द्विधा प्रोक्ता सुप् तिङ् चेति प्रभेदतः” श० श० प्र० उक्तलक्षणे २ प्रत्ययभेदे च। “सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु” “विशेष्यस्यैव यल्लिङ्गं विभक्तिवचने च। ये तानि सर्वाणि योज्यानि विशेषणपदेष्वपि” व्या० का०।

विभव = पु० वि + भू–अच्। १ धने २ मोक्षे सर्वमूर्त्तसंयोगरूपे ३ ऐश्वर्य्ये नेदि०। षष्टिसंवत्सरमध्ये “सुभिक्षं क्षेममारोग्यं सर्वे व्याधिविवर्जिताः। प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धराः। हृष्टाः पुष्टाः जनाः सर्वे विभवेऽवदे वरानने! इत्युक्तफलके ४ वर्णभेदे पु०।

विभा = स्त्री वि + भा–अचा १ किरणे हेमच० २ शोमायां ३ प्रकाशे च राजनि०।

विभाकर = पु० विभा प्रकाशं करोति कृ–अच्। १ सूर्य्ये २ अर्कवृक्ष च। ३ चित्रकवृक्षे अमरः ४ अग्नौ मेदि०।

विभाग = पु० वि + भज–भावे घञ्। १ भागे पूर्वस्वामिस्वत्वनाशोत्तरं तत्सम्बन्धाधोनजातस्वत्वस्य २ व्यञ्जले व्यापारभेदे दायभागादि। सामान्यधर्मयुतानां बहूनां परस्परविरुद्धतद्व्याप्यधर्म प्रकारेणा ५ प्रतिपादने श्रीकृष्णः। वैशेमिकोक्ते ४ गुणभेदे तल्लक्षणविभागादि कणा० सू०। वृ० दर्शितं यथा “एतेन विभागो व्याख्यातः” कणा० सू०। “विभागे संयोगोत्पत्तिप्रकारमतिदिशन्नाह संयोगवद्विमागोऽप्यन्यतरकर्मज १ उभयकर्मजो २ विभागजश्च ३ श्येनकर्मणास्थाणुश्येनविभागः १ संयुक्तवोर्मल्वयोर्मेप्रयोर्वा कर्मम्यां तदुभयविभागः २ सचायं कर्मोत्पत्त्यव्यहितचाणोत्पत्तिकः अपेक्षणीयान्तराभावात तदुक्तं “संयोगविमागयोरनपेक्षकारणं कर्म इति विभागे जननीये आश्रयः” सं- योगे च जननीये पूर्वसंयोगनाशश्चापेक्षणीय इति चेन्न स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षत्वस्य कर्मणो निरपेक्षत्वात्। विभागज ३ स्तु विभागो द्विविधः कारणमात्र विभागजकारणाकारणविभाग १ भदात् कारणाकारणविभागजकार्य्याकार्य्यविभाग २ भेदाच्च तत्र कारणमात्र विभागात् कारणाकारणावभागो यथा कपालद्वयविभागात् कपालाकाशविभागः १ कारणाकारणविभागाच्च कार्य्याकार्य्यविभागो २ यथाऽङ्गुलीतरुविभागाद्धस्ततरुविभागस्ततः शरीरतरुविभाग इति। ननु विभान एवन प्रमाणं संयोगाभाव एव विभागव्यवहारादिति चेन्न संयोगाभावोऽत्यन्ताभावश्चेत् गुणकर्मणोरपि विभागव्यवहारप्रसङ्गात् द्रव्ययोर्वर्त्तमानः संयोगात्यन्ताभावो विभक्तप्रत्ययहेतुरिति चेन्नाबयवायवविनोरपि प्रसङ्गात् अकार्य्यकारणभूतयोर्द्रव्ययोरिति चेत् यिन्ध्यहिमवतोरपि स्यात् भ्वत्येव तत्रेति चेन्न भ्रान्तस्य गुणकर्मणोरपि भावात् अभ्रान्तमधिकृत्य व्यवहारस्य चिन्त्यमानत्वात् संयोगविनाशा विभाग इति चेत् एकतरसंयोगिनाशेन नष्टे संयोगे तद्व्यवहारप्रसङ्गात् संयोगिनोर्विद्यमानयोरिति चेत् एकसंयोगनाशानन्तरं पुनः संयुक्तयोः कुवलामलकयोः संयोगदशायामपि विभक्तप्रत्ययप्रसङ्गात् यावत्संयोगनाशस्तथेति चिदेकसंयोगनाशे तदभावप्रसङ्गात् तत्र यावदर्थाभावात्। तस्मादस्ति विभागोऽर्था न्तरम् स च गुणः विरोधिगुणान्तरनाश्यः विरोधिनं समानाधिकरणं गुणमन्तरेण सत्याश्रये गुणनाशानुपपंत्तेः कमव संयोगनाशकं स्यादिति चेन्न विरोधिनो गुणस्य गुणनाशकत्वात्। किञ्च यत्राङ्गुलीहस्तभुजशरीराणां स्वस्वकर्मणा तरुसंयोगस्तत्राङ्गुलीमात्रे समुत्पन्नेन वर्मणाऽङ्गुलीतरुसंयोगनाशसम्भवेऽपि हस्ततरुमुजतरुशरीरतरुर्सयोगानामनाशप्रसङ्गात् हस्तादीनामक्रियत्वात् अङ्गुलीकर्मणश्च व्याधकरणत्वात् व्यधिकरणस्यापि कर्मणः संयोगनाशकत्वे क्वचिदप्युत्पन्नेन कर्मणा युगपदेव सर्वसंयोगनाशापत्तः। त्वन्मते तत्र का गतिरिति चेत् अङ्गुलो तरुविभागेन जनिती हस्ततरुविभागो हस्ततरुसंयोगनाशक इत्यभ्युपगमात्। व्यधिकरणेनाङ्गुलीकर्मणैव हस्ततरुसंयोगनाशोऽस्तु न चातिप्रसङ्गः आश्रयाश्रित परम्परासंयोगस्यैव व्यधिकरणकर्मनाष्ट्यत्वाभ्युपगमादिति सर्वज्ञेन यदुक्तं तदपि न युक्तं विरोधिनः समानाधिकरणस्यैव सर्वत्र नाशकत्वानुभवात् वाधकमन्यरेण तत्परित्यागामुपपत्तेः। शब्दविभागौ च विभागकाव्यौ तत्र विभागस्य शब्दासमबायिकारणत्वं न मृष्यामहे न हि वंशे पाट्यमाने दले च चरणयन्त्रणाबष्टब्धे दलान्तरे चोपरिकृष्यमाणे यः शब्दोजायते तत्र दलाकाशविभागादन्य दसमवायिकारणं पश्यामः। न च दवदह नदह्यमानस्फुटद्वेणुचीत्कारे विभागातिरिक्तमसमवायिकारणं पश्यामः। कारणाकारणविभागाच्च कार्य्याकार्य्यविभागमनुमन्यामहे कथमन्यथा स्वस्वकर्मजनिताङ्गुलीतरुसंयोगभुजतरुसंयोगशरीरतरुसंयोगानामङ्गुलीमात्रोत्पन्नकर्मणाऽङ्गुलीतरुविभागे सति अङ्गुलीतरुसंयोमनाशे सत्यपि हस्ततरुसंयोगादीनां नाशः तत्र हि विभागजविभागपरम्परैव तत्तत्संयोगनाशिकेत्युक्तत्वात् कारणद्वयविभागपूर्वके तु कारणाकारणविभागे न संप्रत्ययः यतोवंशदले यदुत्पन्नं कर्म तेन दलान्तरविभागवदाकाशादिविभागस्यापि जननसम्भवात् यावद्भिः समं तद्दलं संयुक्तमासीत् तावद्भिस्तत्कर्मणा विभागस्य दर्शनात् नह्यङ्गुल्य सुत्पन्नेन कर्मणाऽङ्गुल्यन्तरावभागवदाकाशादिदेशेभ्योऽपि विभागा न जन्यन्ते। कमकलदले चोत्पन्नेन कर्मणा दलान्तरविभागवदाकाशादिदेशेभ्यो वा न विभागा आरभ्यन्ते द्रव्यारम्भकसंयोगाविरोधिनः शतमपि विभामानेकं कर्मारमताम्। यत्तु कर्म द्रव्यारम्भकसंयोगविरोधिनं विभागमारभते न तत् द्रव्यारम्भकसयोगाविरोधिनमपि यच्च द्रव्यारम्भकसयोगाविरोधिनं तद् द्रव्यारम्भकसंयोविरोधिनमिति व्रूमः। कुत एतदिति चेत् कार्य्यवैचित्र्येण कारणवैचित्र्यस्यावश्यकत्वात्। ननु कर्मणि वैचित्र्यमावश्यकं तथाचैकं कर्म द्रव्यारम्भकसंयोगविरोधिनं विभागं जनयतु यथा विकसत् कमलकुद्मलादावपरञ्च द्रव्यारम्भकसंयोगविरोधिनमविरोधिनञ्चोभयमिति मैवं कार्य्यविरोधो हि कारणवैचित्र्यकल्पनामूलं स च विरोघः एकस्य द्रव्यारम्भकसंयोगप्रतिद्वणित्वेन अपरस्य तु तदप्रतिद्वन्द्वित्वेनेति तथैव वैचित्र्यस्यापि कल्पनौचित्यात् तच्चेदं वशदले वर्त्तमानं कर्म दलद्वयविभागमात्रं जनयति स च विभागोऽग्रे आकाशादिदेशाद्विभागं द्रव्यारम्भकसंयोगाप्रतिद्वन्द्विनं विभागमारभते तस्य च निरपेक्षस्य विभागजनने कर्मत्वापत्तिरिति द्रव्यनाशविशिष्टं कालमपेक्षते। ननु तदानीमपि कर्मैव तज्जनयतु अतीतकालत्वात् विभागजनने कर्मण स्वोत्पत्त्यमन्तर एव काले नत्वेवं विभागेन जनिते विभागान्तरे कर्म प्रदेशान्तरसंयोगमपि न जनयेत्, न संयोगजननं प्रतिकर्मणोऽनतीतकालत्वात् अन्यथा कर्म न नश्येदेव तस्योत्तरसंयोगमात्रनाश्यत्वात्। सोऽयं विभाग उत्तरसंयोग नाश्यः क्षणत्रयस्थायी क्वचिदाश्रयनाशनाश्यः तद्यथा तन्तोरवयवेऽंशौ कर्म तदनन्तरमंशुद्वयविभागस्तदैव तन्त्वन्तरे कर्म ततोऽंशुद्वयविभागेन न्त्वारम्भकसंयोगनाशस्तन्तुकर्मणा च विभागस्ततो द्रव्यारम्भकसंयोगनाशात्तन्तुकर्मणो नाशस्तन्नाशाच्च तन्त्वन्तरकर्मजन्यविभागनाशः। नन्वेवं तन्त्वन्तरोत्पन्नस्य कर्मणो न नाशः स्याद्विनाशकाभावात्, उत्तरसंयोगेन हि तन्नाश्येत विभागे च नष्टे नोत्तरसंयोग इति चेन्न तन्तौ यत् कर्मोत्पन्नं तेन यथा विनश्यदवस्थतन्तोर्विभागो जनितस्तथा तदंशोरपि विभागो जननीयः सोऽप्यारम्भकसंयोगविरोध्येव तेनांशुतन्तुविमागेन तन्त्वाकाशविभागस्ते न चोत्तरसयोगस्तेन ततः कर्मनाशः। यद्वायत्र तन्तौ यदा कर्म तदांशावपिं तदैव कर्म तच्च कर्मविनश्यदवस्थतन्तुतदवयवाकाशादिदेशाद्युगपदेव विभागानारभते सर्वेषां विभागानामारम्भकसंयोगविरोधित्वात् तथा च कारणसंशुरकारणञ्चाकाशादि तद्विभागात् कार्य्यस्य तन्तोरकार्य्येणाकाशादिना यो विभाग उत्पन्नस्तदन न्तरोत्पत्तिकेन संयोगेन तन्तुसमवेतस्य कर्मणो विनाश इति। क्वचिद्द्वाभ्यां तद् यथा तन्तुवीरणयोः संयोगे सति तन्त्ववयवेऽंशौ कर्म वीरणे च कर्मेत्येकः कालः अंशुकर्मणाऽंश्वन्तरविभागस्तेन च संयोगस्य तन्त्वारम्भकस्य विनाशः वीरणकर्मणा च तन्तुवीरणविभागस्तन्तुवीरणसंयोगनाशश्च तन्त्वारम्भकसंयोगनाशानन्तरं तन्तुनाशस्तन्तुवीरणसंयोगनाशानन्तरं वीरणस्य प्रदेशान्तरसंयोगस्ताभ्यामाश्रयनाशसंयोगाभ्यां विभागनाशः” उप० वृत्तिः। कर्मणि घञ्। ५ अंशे खण्डे च।

विभाज्य = त्रि० विमक्तुमर्हति वि + भज–अहांर्थे ण्टत्। विभागयोग्ये विभजनीये धनादौ। “कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा। शौर्य्यप्राप्तं तु यद्वित्तं विभाज्य तद्वृहस्पतिः”।

विभाण्डक = पु० ऋष्यशृङ्गर्षिपितरि मुनिभेदे रामा०।

विभाण्डी = स्त्री० विभाण्ड + गौरा० ङीष्। आवर्त्तकीलतायां राजनि०।

विभात = न० वि + भा–क्त। प्रभाते शब्दरत्ना०।

विभाव = पु० वि + भू–घञ्। १ परिचये कलङ्कारोक्ते रस- स्योद्दीपके २ आलम्बनादौ “रत्याद्युद्बोधकालोके विभावाः काव्यनाट्ययोः। आलम्बनोद्दीपनाख्यौ तस्य भेदाविमौ स्मृताः”। ये हि लोके रामादिगतरतिहासादीनामुद्बोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिमावा एभिरिति विमावा उच्यन्ते” सा० द० ३ प०। “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा” सा० ३ प०।

विभावना = स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०४ पृ० दृश्यम्।

विभावरी = स्त्री वि + भा–कनिप् ङीप् वनो र च। १ रात्रै अमरः। २ हरिद्रायां ३ कुट्टिन्याम् ४ वक्रयोषिति ५ विवादवस्त्रमुण्ड्यां मेदि०। ६ मुखरस्त्रियाम् शब्दर०। ७मेदावृक्षे च रत्नमा०।

विभावसु = विभायुक्ता वसवोऽस्य। १ सूर्य्ये २ अर्कवृक्षे ३ वह्नौ चित्रकवृक्षे अमरः। ५ चन्द्रे ६ हारभेदे च हेमच०।

विभाषा = स्त्री विरुद्धा भाषा वि + भाष्–अ वा। व्याकरणोक्ते पाक्षिकप्राप्तिफलके “नषेति विभाषा” इत्युक्तलक्षणे विकल्पविधाने।

विभिन्न = त्रि० वि + भद–क्त। १ प्रकाशिते २ विदलिते ३ विभक्ते च।

विभीतक = पु० विशेषेण भीत इव इवार्थे कन्। (वयडा) वृक्षे अमरः। “विभीतकं स्वादुपाकं कषायं कफपित्तनुत्। उष्णवीर्य्यं हिमस्पर्शं भेदनं कासनाशनम्। रूक्षं नेत्रहितं केश्यं कृमिवैस्वर्य्यनाशनम्। विभीतमज्जा तृट्छर्दि कफवातहरो लघुः। कषायो मदकृच्चाथ धात्री मज्जापि तद्गुणः” भावप्र०। काभावे विभीतोऽप्यत्र।

विभीषण = पु० विशेषेण भीषयते शत्रून् भी–णिच्–सुक् च ल्यु। १ रावणभ्रातरि राक्षसे रामा०। २ नलतृणे राजनि०। ३ भयकारके त्रि०।

विभीषिका = स्त्री वि + भी–णिच्–सुक् च धात्वर्थनिर्देशे ण्वुल्। भयप्रदर्शने

विभु = पु० वि + भू–डु। सर्वमूर्त्तसंयुक्ते १ कालादौ २ महादेवे ३ व्रह्मणि च मेदि०। ४ भृत्ये त्रिका०। ५ विष्णौ शब्दमा० ६ व्यापके ७ नित्ये ८ अर्हद्देवे हेमच०। ९ दृढे त्रि० अजयः। १० परममहत्त्वयुते सि० मुक्ता०।

विभूति = स्त्री वि + भू–क्तिन्। १ भस्मनि “अणिमा लघिमा प्राप्तिः प्रावाम्यं महिमा तथा। ईशित्वं च वशित्वञ्च तथा कामावसायिता” इत्युक्ते २ ऐश्वर्य्ये च। ऐश्वर्य्यशब्दे १५४९ पृ० दृश्यम्।

विभूषा = स्त्री वि + भूष–अ। १ शोभायां हेमच० २ भूषणे च।

विभ्रम = पु० वि + भ्रम–घञ्। १ स्त्रीणां शृङ्गाराङ्गे चेष्टाभेदे “विभ्रमस्त्वरयाऽकाले भूपास्थानविपर्य्ययः” इत्युक्ते २ त्वरया भूषास्थानवैपरीत्ये च “यश्चाप्सारो विभ्रममण्डनानाम्” कुमारः। विशेषेण ३ भ्रान्तौ मेदि० ४ शोभायां ५ सन्देहे हेमच०। ७ भ्रमणे शब्दरत्ना०। “चित्तवृत्त्यनवस्थानं शृङ्गारात् विभ्रमो भवेत्” उक्ते ८ शृङ्गाराच्चित्तवृत्त्यनवस्थाने। “क्रोधं स्मितञ्च कुसुमाभरणादि याचञा तद्वर्जनञ्च सहसैव विमण्डनञ्च। आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणोत्थितगतं वद विभ्रमं तत्” इत्युक्ते स्त्रीणां ९ चेष्टाभेदे च। अस्त्यर्थे अच्। १ वार्द्धक्यावस्थायां स्त्री शब्दरत्ना०।

विभ्राज् = त्रि० वि + भ्राज–क्विप्। भूषणादिना दीप्ते अमरः

विमत = त्रि० वि + मत–क्त। विरुद्धमतियुक्ते १ विषमे २ सन्दिग्वे च।

विमनस्(स्क) = त्रि० विक्षिप्तं मनो यस्य वा कप्। चिन्तादिना व्याकुलचित्ते अमरः।

विमर्द = पु० विमृद्यतेऽसौ वि + मृद–घञ्। (कालकासुन्दिया) १ वृक्षे रत्नमा०। संज्ञायां कन्। चक्रमर्दके राजनि०। भावे घञ्। ३ मर्दने ३ कुङ्कुमादिमर्दने च।

विमर्शन = न० वि + मृश–ल्युट्। १ परामर्शे न्यायोक्ते साध्यव्याप्यहेतुमत्त्वेन पक्षनिश्चये २ वितर्के च हेम०। घञ् विमर्श तत्रैवार्थे पु०।

विमर्ष = पु० वि + मृष–घञ्। १ विचारे जटा० २ नाटकाङ्गसन्धिभेदे च। स च “अन्तरैकार्थसम्बन्धः सन्धिरेकान्वये सति। मुखं प्रतिमुखं गर्भो विमर्ष उपसंहृतिः। इति पञ्चास्य भेदाः स्युः क्रमाल्लक्षणमुच्यते” इति विभज्य “यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः। शापाद्यैः सान्तरायश्च स विमर्ष इति स्मृतः” इति सा० द० लक्षितः। तदङ्गानि च तत्रोक्तानि यथा “अपवादोऽथ सम्फोटो व्यवसायोद्रवोद्युतिः। शक्तिःप्रसङ्गखेदश्च प्रतिषेधो विरोधनम्। प्ररोचना प्रहर्षे स्यादादानं छादनं तथा”।

विमल = त्रि० विगतो मलो यस्मात्। १ स्वच्छे निर्मले अमरः। विगतो मलो यस्याः ५ ब०। (चामकषा) २ सप्तलायाम् अमरः। जगन्नाथक्षेत्रस्थे ३ देवीभेदे स्त्री तन्त्रसा०। ४ दुर्गामूर्त्तिभेदे देवीपु०। ५ उपरसभेदे न० राजनि०। ६ जि?न}देवे पु० ७ चारुणि त्रि० शब्दर०। “चेतसा सत्त्वयुक्तेन दानं यद् विमलं स्मृतम्” गरुडपु० उक्ते ८ सात्त्टिके दानभेदे न०।

विमातृ = स्त्री विरुद्धा माता। मातृसपत्न्याम्। “मातुः पितुः कनीयांसं न नमेद्वयसाधिकः। नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमातरम्” म० त० स्मृतिः। तत्रैव स्मृत्यर्यसारे “स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः”। “यतः पत्युर्वयसा ताः स्त्रियो वृद्धाः अतः कनिष्ठा अपि अपि नमस्याः” म० त० रघु०

विमातृज = पु० विमातुर्जायते जन–ड। सापत्ने भ्रातरि अमरः।

विमान = पुंन० वि + मन–घञ् वि + मा–ल्युट् वा। १ देवयाने रथे अमरः। २ सार्वभौमगृहभेदे च ३ यानमात्रे ४ अश्वे पु० मेदि० ५ परिमाणे च न०।

विमार्ग = पु० विरुद्धो मार्गः। १ कुपथे २ निन्दिताचारे च।

विमुख = त्रि० विरुद्धमननुकूलं मुखमस्य। १ वहिर्मुखे २ निवृचे च

विमुद्र = त्रि० विगता मुद्रा मुकुलीभावो यस्य। १ विकशिते हेमच०। २ मुद्रारहिते च।

विम्ब = पुंन०। वी + बन मुमह्रस्वौ। १ दर्पणादौ भासमानप्रतिविम्बाश्रये २ कमण्डलौ च संक्षिप्तसा०। ३ सूर्य्यादिमण्डले अमरः। ४ कृकलासे पुंस्त्री० मेदि० स्त्रियां ङीष्। विम्बायाः फलम् अण् तस्य लुप्। ५ विम्बिकाफले न०।

विम्बजा = स्त्री विम्बं फलं जायतेऽस्याः जन–ड १ विम्बिकालतायां (तेलाकुचा) शब्दच०।

विम्बट = पु० विम्बमटति अट–अच् शक०। सर्षपे शब्दच०।

विम्बा(म्बी) = स्त्री विम्बमस्त्यस्याः अच् वा गौरा० ङीष्। (तेलाकुचा) १ लताभेदे शब्दर० “विम्बीफलं भ्वादु शातं गुरु पित्तास्रवातजित्। स्तम्भनं लेखनं रुच्य विबन्धाध्मानकारकम्” भावप्र०। स्वार्थे क कापि अत इत्त्वम तत्रार्थे। सूर्य्यदिमण्डले पु० न० नात इत्त्वम्।

वियत् = न० वि + यम–क्विप् मलोपे तुक्। आकाशे अमरः।

वियद्गङ्गा = स्त्री वियत्स्था गङ्गा शाक०। स्वर्गगङ्गायां मन्दाकिन्याम अमरः।

वियद्भूति = स्त्री वियतो भूतिरिव। अन्धकारे त्रिका०।

वियन्मणि = पु० वियतो मणिरिव प्रकाशकत्वात् भूषकत्वाद्वा द्युमणौ सूर्य्ये हारा०।

वियम = पु० वि + यम–घञ्। १ संयमे अमरः। २ दुःखे क्षीरस्वामी। पक्षे वृद्धिः। वियाम तत्रार्थे

वियात = त्रि० वि + या–क्त याति अच् वा। १ धृष्टे २ निर्लज्जे च अमरः। तस्य भावः ष्यञ्। वैयात्य निर्लज्जत्वे न० “वैयात्यंसुरतेष्वपि” माघः।

वियोग = पु० वि + यज–घञ्। १ विच्छेदे हेमच० ६ त० २ पक्षियोगे च गणितप्रसिद्धे ३ राश्योर्व्यवकलने च।

वियोगिन् = पु० वि + युज–घिनुण्। १ चक्रवाके पक्षिणि शब्दच०। २ विच्छेदवति। ३ पक्षियोगवति च त्रि०। स्त्रियां ङीप् “वियोगिनीमैक्षत दाडिमीमसौ” नैष०।

विरक्त = त्रि० वि + रन्ज–क्त। १ विच्छिन्ने २ अननुरक्ते ३ दुर्भगायां स्त्रियां स्त्री त्रिका०।

विरङ्ग = पु० वि + रन्ज–घञ्। कङ्गुष्ठे राजनि०।

विरचित = त्रि० वि + रच–क्त १ कृते २ निर्मिते च।

विरजस्तमस् = त्रि० विगते रसस्तमसी यतः। सत्त्वगुणप्रधाने अमरः।

विरजस्(स्का) = स्त्री विगतं रजो यस्याः वा कप्। १ गतार्त्त वायां स्त्रियाम् जटा०। २ रजोगुणहीने त्रि०।

विरजा = स्त्री विशेषेण रज्यतेऽत्र रन्ज–घञर्थे क। १ दूर्वायां हारा० गोलोकस्थे २ राधासखीभेदे तच्छापाज्जायमाने ३ नदीभेदे च ब्रह्मवै० ज० ख० ३५ अ०। ४ कपित्थानीवृक्षे रत्नमा०। ५ ययातिमातरि कूर्मपु० २० अ०। सा च नदी उत्कलदेशस्था जगन्नाथसन्निकृष्टा “उतकले नाभिदेशश्च विरजाक्षेत्र उचाते। विमलाऽत्र महादेवी जगन्नाथस्तु भैरवः” पीतनिर्णयः। तत्र मुण्डनोपवासौ न कार्य्यौ “मुण्डनं चोपवासंश्च सर्वतीर्थेष्वयं विधिः। वर्जयित्वा गयां गङ्गां विशार्ला विरजां तथा” प्रा० त०।

विरञ्च(ञ्चि) = पु० वि + रच–अच् इन् वा सुम् च। जगत्स्रष्टरि ब्रह्मणि हेम०।

विरण = न० विशिष्टो रणो मूलमस्य। उशीरे (वेणारमूल) शब्दर०।

विरत = त्रि० वि + रम–क्त। निवृत्ते।

विरति = स्त्री वि + रम–क्तिन्। १ निवृत्तौ २ विषयसेवासु व्यापाराभावे च अमरः।

विरल = त्रि० वि + रा–कलन्। १ अवकाशे २ विच्छिन्ने अमरः। ३ अनिविडे च। ४ दध्नि न० राजनि०।

विरलजानुक = त्रि० ६ त०। वक्रजानुके हेमच०।

विरलद्रवा = स्त्री ६ ब०। श्लक्ष्णायां यवाग्वां जटा०।

विरह = पु० वि + चु० रह–अच्। १ विच्छेदे २ अभावे शृङ्गाररसस्य विप्रलम्भाख्ये ३ अवस्थाभेदे च हेमच०।

विरहित = त्रि० वि + रह–क्त। १ त्यक्ते २ हीने च।

विरहिन् = त्रि० वि + रह णिनि। १ विरहयुते स्त्रियां ङीप्। सा च २ भृतौ शब्दमा०।

विरहोत्पण्ठिता = स्त्री “आगन्तु कृतचित्तोऽपि दैवान्नायाति यत्प्रियः। तदनागमदुःखार्त्ता विरहोन्कण्ठिता तु सा” सा० द० ३ प० लक्षिते नायिकाभेदे।

विराग = पु० नि + रन्ज–घञ्। १ रागाभाव। विगतो रागो यस्य। २ रागशून्ये त्रि०। “विधयेष्वतिसंरागो मानसो मल उच्यते। तेष्वेव तु विरागो हि नैर्मल्यं समुदाहृतम्” प्रा० त०। वैराग्यशब्दे दृश्यम्।

विराज् = पु० विशषेण राजते क्विप्। १ क्षत्रिये ब्रह्माण्डात्मकस्थूलदेहाभिमानिनि २ आदिपुरुषे ३ छन्दोभेदे च। वेदे द्वाभ्यामक्षराभ्यां गायत्र्यादीनां समष्टावधिकत्वे विराट् छन्दो भवति छन्दःशब्दे २९७८ पृ० कात्यायनवाक्यं दृश्यम्। “समष्टिरूपस्थूलशरीराभिमानी चेतनः विराट्संज्ञो वेदान्तादौ प्रसिद्धः तस्योत्पत्तिः तद्रूपञ्च भागवतादौ दृश्यम्। अच्। विराजोऽपि समष्टिस्थूलाभिमानिनि चेतने। ४ स्वायम्भवमनौ च। “ततः कालेन महता तस्य पुत्रोऽभवन्मनुः। स्वायम्भुव इति ख्यातः स विवाडितिः नः श्रुतम्” मत्स्यपु० ३ अ०। “मानवे तु स्वायम्भुवस्य विराट्पुत्रत्वमभिहितम्। यथा “द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी नाभ्यां स विराजमसृजत् प्रभुः। तपस्त्वप्त्वाऽसृजद् यन्तु स स्वयं पुरुषो विराट्। तं मां वित्तास्य सर्वस्य स्वष्टारं द्विजसत्तमाः!”।

विराट = पु० विशेषो राटो यत्र। १ देशभेदे, तद्देशाधिपे २ नृपे च। भा० विराटपर्वणि दृश्यम्।

विराध = पु० राक्षसभेदे। स च तुम्बुरुनामा गन्धवेः कुवेरशापात् राक्षमत्वमाप्तः रामेण मोचितः तत्कथा वह्निपु० “तुम्बुरुर्नाम गन्धर्वः प्रविष्टो राक्षसीं तनुम्। अभिशापादहं घोरं प्राप्तो वैश्रवणेन वै”।

विराधन = न० वि + राध–ल्युट्। पीडायाम्। शब्दर०।

विराम = पु० वि + रम–घञ्। १ अवसाने, २ विरतौ, ३ निवृत्तौ च जटा०। ४ मध्ये त्रिका० ५ व्याकरणोक्ते परवर्णाभावे च।

विराल = पुंस्त्री० वि + डल–घञ् डस्य रः। विडाले पशुभेदे अमरः स्त्रियां ङीष्।

विराव = पु० वि + रु–घञ्। १ शब्दे अमरः। पादि० ६ व०। २ विगतरवे त्रिका०।

विरिञ्च = पु० बि + रिच–अच् मुम् च। १ विष्णौ २ जगत्म्रष्टरि येधसि, ३ शिवे च शब्दर०। इन् विरिञ्चि तत्रैवार्थे अमरः।

विरुद्ध = त्रि० वि + रुध–क्त। विरोधयुक्ते २ हेत्वाभासभेदे “अनैकान्तो विरुद्धश्चेत्याद्रिना विभज्य “यः साध्यवति नैयास्ति स विरुद्ध उदाहृतः” भाषा० लक्षितः। “एवकारेण साध्यवत्त्वावच्छेदेन हेत्वभाव इति सूचितम् तथा च साध्यव्यापकाभावप्रतियागित्वं तदर्थः सि० मुक्ता०” गातम १ ४७ सू० अन्यथा लाक्षता यथा “सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः” “तं (सिद्धान्तं) विरुणद्धीति तद्विरोधी अभ्युपगतं सिद्धान्तं व्याहन्तीति। यथा सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् अपेतोऽप्यस्ति विनाशप्रतिषेधात् न नित्यो विकार उपपद्यते इत्येव हेतुव्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते। कथं? व्यक्तिरात्मलाभः अपायः प्रच्युतिः यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधी नीपपद्यते यत् व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति। नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभप्रच्युतेरुपपत्तिः। यद् आत्मलाभात् प्रच्यवते तदनित्यं दृष्टं यदस्ति न तदात्मलाभात् प्रच्यवते। अस्तित्वं चात्मलाभात् प्रच्युतिरिति तद्विरद्धा वेतौ न सह सम्भवतः। स चाय हेतुर्यत्सिद्धान्तमाश्रित्य प्रवर्त्तते तमेव व्याहन्तीति” वा० भा०। वृत्तौ त्विदमन्यथा व्याख्यातं यथा “क्रमप्राप्तं विरुद्धं लक्षयति सिद्धान्तमिति अत्र च सिद्धान्तं साध्यं प्रतिज्ञायां हि सिद्धस्य पक्षस्यान्ते साध्यमभिधीयते तथा च साध्यमभ्युपेत्य उद्दिश्य प्रयुक्तस्तद्विरोधी साध्याभावव्याप्त इति फलितार्थः। यथा वह्निमान् ह्रदत्वादिति। एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमिति प्रतिबन्धो दूषकतावीजम्। न च सत्प्रतिपक्षाविशेषः तत्र हेत्वन्तरं साध्याभावसाधकम्। इह तु हेतुरेव साध्याभावसाधकः साध्यसाधकत्वेन त्वयोपन्यस्त इत्यशक्तिविशेषोन्नायकत्वेन विशेषात्”। इदञ्च नासङ्कीर्णविरुद्धोदाहरणम् व्यमिचारादेः सत्त्वात्। किन्तु उपाधेयसङ्कुरेऽप्युपाधेरसङ्करादित्युक्तेरस्य दूषकतावीजसत्त्वाच्चोदाहरणत्वं वोध्यम्।

विरुद्धमतिकृत् = पु० “विपरीतार्थधीर्यस्मात् विरुद्धमतिन्मतम्” उक्ते काव्यदाषभेदे ३७६३ पृ० दृश्यम्।

विरूढ = त्रि० विशेषेण रोहति वि + रुह–क्त। १ जाते २ अङ्कुरिते च मेदि०।

विरूप = त्रि० विकृतं रूपमस्य। १ दुष्टरूपयुक्ते २ निन्दिते च। ५ पिप्पलीमूले न० राजनि०। ४ अतिविषाया, ५ दुरालभायाञ्च स्त्री० राजनि०।

विरूपाक्ष = पु० विरूपे विकटे अक्षिणी यस्य षच् समा०। १ महादेवे अमरः। २ विकटनेत्रे त्रि०।

विरूपिन् = त्रि० विकृतं रूपमस्यास्त्रि इनि। १ कुरूपे त्रिका०। २ जाहकजन्तौ पु० राजनि०।

विरेक = पु० वि + रिच–घञ्। १ मलादेरधोनिःसरणे, शब्दर०। २ अतिरेके च।

विरेचन = न० वि + रिच–णिच्–ल्युट्। १ मलादेर्निःसारणे, तद्विधिः भावप्र० उक्तो यथा “स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम्। अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः। मन्दाग्निं गौरवं कुर्य्याज्जनयेद् वा प्रवाहिकाम्। अथ वा पाचनैरामं वलासं परिपाचयेत्। ऋतौ वसन्ते शरदि देहशुद्धौ विरेचयेत्। अन्यदात्ययिके कार्य्ये शोधनं शीलयेद् बुधः”। आत्ययिके प्राणसङ्कटे। “पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा। उदरे च तथाध्माने कोष्ठशुद्धौ विशेषतः। दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः। शोधनैः शाधिता ये तु न तेषा पुनरुद्भवः। बालो वृद्धो मृशं स्निग्धः क्षतक्षीणो भयान्वितः। श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरो। नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी। शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता। जीर्णज्वरी गरव्याप्तो वातरोगी भगन्दरी। अर्शःपाण्डूदरग्रन्धि हृद्रोगारुचिपीडिताः। योनिरोगप्रमेहार्त्तो गुल्मप्लीहव्रणार्दितः। विद्रधिच्छर्दिविस्फोटविसू चीकुष्ठसंयुताः। कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः। प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः। शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः। बहुपित्तो मृदुः प्रोक्तो बहुश्लेष्मा च मध्यमः। वहुवातः क्रूरकोष्ठो दुर्विरेच्यः स कथ्यते। मृद्वी मात्रा मृदौ काष्ठे मध्यकोष्ठे च मध्यमा। क्रूरे तीक्ष्णा मता द्रव्यैर्मृदु मध्यमतीक्ष्णकैः। मृदुर्द्राक्षापयश्चञ्चुतैलैरपि। विरेच्यते। मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरेच्यते। क्रूरः स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः”। चञ्चुतैलम् एरण्डतैलम्। राजवृक्षः (वनवहेरा) हेमक्षीरी (चोक) दन्तीफलम् वृहद्दन्तीफलम् जयपालेति प्रसिद्धम् “मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तकः। वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका। द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्। पलार्द्धञ्च कषायाणां कनीयस्तु विरेचनम्। कल्कमोदकचूर्णानां कर्षमध्वाज्यलेहतः। कर्षद्वयं पलं वापि वयोरोगाद्यपेक्षया। पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिवेत्। त्रिफलाक्वाथगोमूत्रैः पिवेद्व्योषं कफार्दितः। त्रिवृत्सेन्धवशुण्ठीनां चूर्णमम्लैः पिवेन्नरः। वातार्दितो विरेकाय जाङ्गलानां रसेन वा। एस्ण्डतैलं त्रिफला- क्वाथेन द्विगुणेन वा। युक्तं पौतं पयोभिर्वा न चिरेण विरेच्यते”। शोघ्रमेव विरेच्यत इत्यर्थः “त्रिवृता कौटजं वीजं पिप्पलीविश्वभेषजम्। समृद्वीकारस क्षौद्रं वर्षाकाले विरेचनम्। त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्। द्राक्षाम्बुना सयष्ट्याह्वशीतलञ्च घनात्यये”। उदोच्याम्बाला घनात्यये शरदि। “पिप्पलीं नागरं सिन्धुं श्यामां त्रिवृतया सह। लिह्यात् क्षौद्रेण शिशिरे वसन्ते च विरेचनम्”। श्यामा (कृष्णासाण्ड) (त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम्। अभयामरिचं शुण्ठीविडङ्गामलकानि च। पिप्पली पिप्पलीमूल त्वक्पत्रं मुस्तमेव च। एतानि समभागानि दन्ती तु त्रिगुणा भवेत्। त्रिवृताष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा। भधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः। एकैकं भक्षयेत्प्रातः शीतञ्चानु पियेज्जलम्। तावद्विरेच्यते जन्तुर्यावदुष्णं न सेवते। पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा। विषमज्वरमन्दाग्निपाण्डुकास भगन्दरान्। पृष्ठपार्श्वोरुजघनजङ्घादररुजं जयेत्। स्नेहाभ्यङ्गञ्च रोषं च दिनमेकं सुधीस्त्र्यजेत्। सततं शीलनादेव पलितानि प्रणाशयेत्। अभया मोदका ह्येते रसायनपराः स्मृताः”। इति अभयादिमोदकः “पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी। सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः। निर्वातस्थो न वेगांश्च धारयेन्न शयीत च। शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिबेन्मुहुः। वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्। रेकात्तथा मलं पित्तं भेषजञ्च कफो व्रजेत्। दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक्। पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम्। विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते। तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धन्तु रेचयेत्। तेनास्योपद्रवा यान्ति दीप्ताग्नेर्लघुता भवेत्। विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च। शूलं कफातियोगः स्यान्मांसधारण सन्निभम्। मेदोनिभञ्जलाभासं रक्तञ्चापि विरेच्यते। तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः। मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु। सहकारत्वचः कल्को दध्रा सौवीरकेण वा। पिष्ट्वा नाभिप्रलेपेन हन्त्यतीसारमुल्वणम्। सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषैः कृतैः”। सौवीरं सन्धानम् “अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा। शालिमिः षष्टिकै- स्तुल्यैर्मसूरैर्वापि भोजयेत्। वर्त्तिकालावविकिरकपिञ्जलकतित्तिराः। चकोरक्रकराद्याश्च विष्किराः समुदाहृताः”। कपिञ्जल इति ख्यातो लोके कविशतित्तिरः। क्रकरः। (कराट) इति लोके। हरिणस्ताम्रवर्णः मृगः। “शीतः सग्राहिभिर्द्रव्यैः कुर्य्यात् संग्रहणं भिषक्। लाघवे मनसस्तुष्टावनुलोमङ्गतेऽनिले। सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि। इन्द्रियाणां बलं बुद्धेः प्रसादो वह्निदीप्तता। धातु स्थैर्य्यं वयस्थैर्य्यम्भवेद्रेचनसेवनात्। प्रतापसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्। व्यायामं मैथुनञ्चैव न सेवेत विरेचितः। शालिपष्टिकमुद्गाद्यैर्यवागूम्भोजयेत् कृताम्। जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम्। राजीवः पृषतश्चैव जङ्घालाः सरभादयः”। विरेचयति वि + रिच–णिच्–ल्यु। २ पीलुवृक्षे पु० राजनि०। २ भेदकमात्रे त्रि०। ण्वुल् विरेचक तत्रार्थे त्रि०।

विरेफ = पु० वि + रिफ–अच्। मदमात्रे धनञ्जयः। प्रादि० ब० २ रकारवर्णशून्ये त्रि०।

विरोक = पु० न० वि + रुच–घञ् चस्य कः। १ छिद्रे त्रिका०। २ सूर्य्यकिरणे पु० हेमच०।

विरोचन = पु० वि + रुच–युच्। १ सूर्य्ये २ अर्कवृक्षे अमरः। ३ बलिपितरि प्रह्लादतनयेऽसुरभेदे ४ चन्द्रे ५ वह्नौ च मेदि०। विरोचयति वि + रुच–णिच्–ल्यु। ६ रोहितकवृक्षे ७ श्योनाकवृक्षे ८ घृतकरञ्जे च पु० राजनि०। ९ रुचिकारके त्रि०।

विरोध = पु० वि + रुध–घञ्। १ वैरे २ विरुद्धतायाम् न्यायोक्ते साध्येनासामानाधिकरण्यरूपे ३ हेतुदोषे यथा वह्निमान् जलादित्यत्र जलरूपहेतोर्वह्निना सामानाधिकरण्यं नास्ति अतस्तस्य दुष्टत्वम्। ४ अर्थालङ्कारभेदे अलङ्कारशब्द ४०४ पृ० दृश्यम्। ५ विपरीतार्थकत्वे च। “विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्” जैमि० प्रभवादिषु “विषमस्थं जगत् सर्वं विरोधे भयसंप्लवम्। विकारः सर्वतोऽपायः इत्युक्तफलके ६ वर्षभेदे।

विरोधन = न० वि + रुध–ल्युट्। वैरे अमरः।

विरोधिन् = पु० वि + रुध–णिनि। १ रिपौ अमरः। पधि संवत्सरमध्ये “जायते मानुषे कष्टं विरोधिनि न संशयः” इत्युक्तलक्षणे २ वत्सरभेदे च। ३ विरोधकारके त्रि०।

विरोधाभास = पु० विरोधः इवाभासते आ + भास–अच्। अर्थालङ्कारभेदे अलङ्कारशब्दे ४०४ पृ० दृश्यम्।

विरोधोक्ति = स्त्री वरवचनविरोधिवचने अमरः।

विल = स्तृतौ तु० पर० सक० सेट्। विलति अवेलीत्।

विलक्ष = पु० वि + लक्ष–अच्। विस्मययुक्ते अमरः।

विलक्षण = त्रि० विशिष्टं लक्षणमस्य प्रा० ब०। १ विभिन्ने जटा० २ विशेषणयुक्तं च। ३ निष्प्रयोजनस्थितौ च न० भागुरिः ४ दानार्थं कल्पितकाञ्चनपुरुषमूर्त्तियुतशय्याभेदे स्त्री। “अशौचान्तात् द्वितीयेऽह्नि शय्या दद्यात् विलक्षणाम्। काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम्। संपूज्य द्विजदाम्पत्यं नानास्तरणभूषणैः” शु० त० मत्स्यपु०।

विलग्न = त्रि० विशेषेण लग्नं लवज–क्त तस्य नः जस्य गः। १ संलग्ने मेदि०। “मध्येन सा वेदि विलग्नमध्या” कुमा० २ मध्यभागे हेमच०। ३ कटौ अमरः। ४ उदितमेषादि राशौ च न० “गोचरे वा विलग्ने वा” इति ज्योतिषम्।

विलम्ब = पु० वि + लवि घञ्। विलम्बने अशीघ्रत्वे प्रतीक्षणीय काले २ प्रभवादिषु “तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत्। अर्घो भवति सामान्यो विलम्बे तु भयं महत्” ज्यो० त० उक्तलक्षणे वर्षभेदे।

विलम्बित = त्रि० वि + लवि–क्त। १ अशीघ्रे, २ मन्दे च विलम्बन्ते कण्ठकरचरणादयः प्रत्येकं प्रदर्शनाय स्वरविशेषज्ञानाय वा यत्र आधारे क्त। मध्यकालेन परिच्छेद्ये ३ नृत्ये ४ गीते च। ५ विलम्बयुते त्रि०। तत्र वेदपाठे कालभेदे विलम्बवृत्तिः साञ्जेनीक्ता यथा “द्रुतामध्यमने वृत्तिं प्रयोगार्थे तु मध्यमाम्। शिष्याणामुपरोधार्थे विलम्बितां समाचरेत्”।

विलम्भ = पु० वि + लभ–घञ् मुम्। अतिदाने अमरः।

विलय = पु० वि + ली–अच्। १ प्रलये शब्दर० २ नाशे च।

विलला = स्त्री० वि + लल–अच्। श्वेतबलायाम् रत्नमा०।

विलाप = पु० वि + लप–घञ्। परिदेवनोक्तौ अमरः।

विलाम = पु० वि + लस घञ्। “तत्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु” इत्युक्ते १ त्रीणां शृङ्गारचेष्टाविशेषे २ दीप्तौ च। “गतिस्थानासनादीनां मुखनेत्रादिकर्मणाम्। विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना” उक्ते स्त्रीणां

सात्त्विकभावभेदे सा० द० “यद्रुपं तदभेदेन स्वरूपेण विराजते। आकृत्यादिमिरन्यादृक् स तदेकात्मरूपकः। स विलासः स्वांश इति धत्ते भेद्द्वयं पुनः। स्वरूपमन्याकार यत्तस्य माति विलासतः। पायणात्मममं शक्त्या स विकासो निगद्यते” ४ भागवताभृतोक्ते पदार्थे

विलासिका = स्त्री उपरूपकरूपे नाटिकाभेदे “शृङ्गारबहुतैकाङ्का दशलास्याङ्गसंयुता। विद्रषह्वविटाभ्याञ्च पीठमर्देन भूषिता। हीना गर्भविमर्षाभ्यां सन्धिभ्य हीननायका। स्वल्पवृत्ता सुनेपथ्या विख्याता सा विलासिका” सा० द० ६ प०।

विलासिनी = स्त्री० विलासोऽस्त्यस्या भूम्ना इनि ङीप्। १ नार्य्यां राजनि०। २ वेश्यायां धरणिः। ३ भोगवति त्रि०। ४ सर्पे ५ कृष्णे ६ ह्नौ च पु० मेदि० ७ चन्द्रे ८ जरे, ९ महादेवे पु० शब्दर०।

विलीन = त्रि० वि लीं–क्त। १ प्राप्तद्रवीभावे घृतादौ, अमरः। २ विश्लिष्टे ३ नष्टे च।

विलेपन = न० विलिप्यतेऽनेन करणे ल्युट्। गात्रानुसेपनद्रव्यं १ पिष्ट २ घृष्टे वा चन्दनकुङ्कुमादौ। कर्मणि ल्युट् ङीप्। ३ यवाग्वां ४ सुवेशायां स्त्रियाञ्च स्त्री० मेदि०।

विलेप्य = पु० वि + लिप–यत्। १ यवाग्वाम् शब्दर०। २ विलेपनीये त्रि०।

विलोचन = न० वि + लुच–करणे ल्युट्। १ नेत्रे जटा०। भावे ल्युट्। २ दर्शने।

विलोडित = न० वि + लोड–क्त। १ तक्रे राजनि०। २ आलोडिते त्रि०।

विलोम = त्रि० विगतं लोम यत्र अच्समा०। १ विपरीते हेमच० २ अरघट्टके न० ३ सर्पे ४ कुक्कुरे पुंस्त्री० स्त्रियां ङीष् ५ वरुणे च पु० मेदि०। ६ व्यस्तत्रैराशिकफलज्ञापके क्रियाभेदे “व्यस्तविधिर्विलोमे” लीला०। ७ व्युत्क्रमान्विते यथा अकारादिहकारान्तवर्णानां व्युत् क्रमेण हकाराद्यकारान्ततया जपः। सप्तशतीप्रयोगमेदे मार्कण्डेय उवाचेत्यादिकस्य सावर्णिर्भविता मनुरित्यन्तस्य मालामन्त्रस्य व्युत्क्रमेण पाठः।

विलोमकर्म्मन् = कर्म०। विपरीतकर्मणि “छेदं गुणं गुर्ण छेदं वर्गं मूलं पदं कृतिम्। ऋणं स्वं स्वमृणं कुर्य्यात् दुश्ये राशिप्रसिद्धये” लीला० उक्ते व्यक्तराशेर्मानज्ञानार्थे क्रियाभेदे

विलोमजिह्व = पुंस्त्री० विलोमा विपरीता जिह्वा यस्य। गजे त्रिका० स्त्रियां ङीष्। तस्य तथात्वकथा भा० आनु० ८५ अ० यथा “इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम्। परीयुर्ज्वलनस्यार्थे न चाविन्दन् हुताशनम्। अथ तान् द्विरदः कश्चित् सुरेन्द्रद्विरदोपमः। अश्वथस्थोऽग्निरित्येवमाह देवान् भृगूद्वह!। शशाप ज्वलनः सर्वान् द्विरदान् क्रोधमूर्च्छत। प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह!”।

विलोमवर्ण = पु० विलोमजः स्मृत्यनुक्ततया व्युत्क्रमजो वर्णः। प्रतिलोमजाते उत्तमस्त्रियामधमवर्णेन जनिते सङ्कीर्णे वर्णे।

विलोमी = स्त्री विशिष्टं लोम केशो यस्याः ५ व० अच्समा० गौरा० ङीष्। आमलक्याम् मेदि०।

विलोल = त्रि० वि + लुल–अच्। १ चञ्चले २ विशेषसतृष्णे च।

विवर = न० वि + वृ–अच्। १ छिद्रे अमरः २ दोषे च मेदि०।

विवरण = न० वि + वृ–ल्युट्। १ व्याख्याने हला० व्याख्यानग्रन्थव्याख्याने २ ग्रन्थभेदे च। भा० भा० टीकापञ्चपादिकोपरि विवरणम्। पातञ्जलभाष्योपरि वाचस्पत्य विवरणम्। कैयटोपरि नागेशकृत विवरणमित्यादि।

विवरनालिका = स्त्री विवरयुक्तं नालमस्त्यस्याः ठन्। वेणौ (वा~श) त्रिका०।

विवर्ण = त्रि० विरुद्धो वर्णोऽस्य। १ अधमे २ नीचे च अमरः ३ मलिने च।

विवर्त्त = पु० वि + वृत–घञ्। १ नृत्ये २ समुदाये ३ अपवर्त्तने वेदान्तोक्ते कारणात् विषमसत्ताकतया उत्पद्यमाने ४ कार्य्ये च। यथा रङ्गात् रजतम् ब्रह्मणो जगत्। वेदान्तिभिः विवर्त्तवाद एवाश्रितः। न परिणामवादः।

विवश = त्रि० विगतो वश आयत्तता यस्य। १ अस्वतन्त्रे २ व्याकुले ३ अरिष्टबुद्धियुते मेदि०।

विवस्वत् = पु० वि + वस + क्विप् अस्त्यर्थे मतुप् मस्य वः। १ सूर्य्ये २ अर्कवृक्षे अमरः। ३ अरुणे शब्दर०। ४ देवे च मेदि०।

विवाक = पु० वि + वच–संज्ञायां कर्त्तरि घञ्। विवेचके प्राग्विवाकशब्दे पृ० दृश्यम्।

विवाद = पु० विरुद्धो वादः। “ऋणादिदायकलहे द्वयोर्बहुतरस्य वा। विवादो व्यवहारश्च” इत्युक्तलक्षणे व्यवहारे व्यवहारशब्दे दृश्यम्। २ कलहे च।

विवाह = पु० वि + वह–घञ्। दारपरिग्रहे तज्जनके व्यापारे च। उद्वाहशब्दे उपयमशब्दे च दृश्यम्। “भार्य्यात्वसम्पादकज्ञानं विवाहः” इति उद्वा० रघु०। भार्य्यात्वस्योपलक्षणतया निवेशः। तेन नान्योन्याश्रयः चरमसंस्कारो विजातीयसंस्कारो वा विवाहः” इत्यन्ये।

विवाहित = पु० विवाहो ज तोऽस्य तार० इतच्। जातविवाहे।

विवाह्य = त्रि० वि + वह–ण्यत्। १ विवाहयोग्ये २ विशेषेण वाह्ये च।

विविक्त = त्रि० वि + विच–क्त। १ निर्जने २ पवित्रे अमरः ३ असंयुक्ते च। ४ कर्त्तरि–क्त। ४ विवेकिनि त्रि० मेदि० ५ दुर्भगायां स्त्रियां स्त्री त्रिका०।

विविध = त्रि० विभिन्ना विधा यस्य। नानाप्रकारे।

विवीत = पु० विशिष्टं वीतं गवादिप्रचारस्थानं यत्र। प्रचुरतृणषासादियुक्ते देशे। “पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते” याज्ञवल्क्यस्मृतिव्याख्याने मिताक्षराकृत्।

विवृत = त्रि० वि + वृ–क्त। १ विस्तृते मेदि० २ व्याख्याते च। ३ क्षुद्ररुग्भेदे स्त्री मेदि०।

विवृताक्ष = पुंस्त्री० विवृते अक्षिणी यस्य षच्समा०। कुक्कुटे हेमच०। स्त्रियां जातित्वात् षित्त्वाच्च ङीष्।

विवृति = स्त्री वि + वृ–क्तिन्। १ विस्तारे मेदि० २ व्याख्याने च। “वाक्यस्य शेषाद्विवृतेर्वदन्ति” शक्तिग्राहकमानम्।

विवृत्त = त्रि० वि + वृत क्त। १ तिर्य्यक्चलिते २ प्रकटिते ३ क्षुद्ररोगभे स्त्री भावप्र०। “विवृत्तास्यां महादाहां पक्वोडुम्बरसन्निभाम्। विवृत्तामिति तां विद्यात् पित्तोत्थं परिमण्डलम्” परितः शोथवतामिति शेषः”।

विवेक = पु० वि + विच–घञ्। १ याथार्थ्येन वस्तुस्वरूपावधारणे २ प्रकृतिपुरुषयार्भदज्ञाने च जटा०। ३ अन्योन्यधर्मव्यावर्त्तनेन वस्तुस्वरूपावधारणे। विवेकचूतत्प्रकारो दृश्यः। ४ विचारे ५ जलद्रोण्याम् मेदि०। संज्ञायां कर्त्तरि घञ्। ६ विचारके च प्राड्विवेकः।

विवेकिन् = त्रि० वि + विच–ष्टिवृण्। विवेकशीले मैरववंश्ये देवमेनपुत्रभेदे पु० कालिपु० ९ अ०।

विवोढृ = पु० वि + वह–तृच्। १ जामातरि २ पत्थौ च हेमच०

विव्वोक = पु० वि + वा–कु तस्य ओकः स्थानम्। “गर्वाभिमानादिष्टेऽपि विव्वोकीऽनादरक्रिया” इत्युक्तलक्षणे स्त्रीर्णा शृङ्गारचेष्टाभेदे।

***