वितंस = पु० वि + तन्स–अच्। पक्षिणां बन्धनसाधने रज्जुप्रभृतौ भरतः।

वितण्डा = स्त्री वि + तडि–भावे अ। स्वपक्षाव्यवस्थापनेन परपक्षमात्रनिराकरणे कथाभेदे अमरः। २ कच्छीशाके लाह्वये ४ करव्यां मेदि० ५ दर्व्यां हारा०। वितण्डाकथालक्षगं गौ० सू० उक्तं यथा “स प्रतिपक्षस्यापनाहीनो वितण्डा” सू० “स जल्पो वितण्डा भवति किंविशेषणः। प्रतिपक्षस्यापनया हीनः। यौ तौ समानाधिकरणौ विरुद्धौ धर्मौ पक्षप्रतिपक्षावित्युक्तौ तयोरेकतरं वैतण्डिको न स्थापयतीति परपक्षप्रतिषेधेनैव प्रवर्त्तत इति। अस्तु तर्हि प्रतिपक्षहीनो वितण्डा यद्वै खलु तत्परप्रतिषेधलक्षणं वाक्यं स वैतण्डिकस्य पक्षः न ह्यसौ साध्यं कञ्चिदर्थं प्रतिज्ञाय स्थापयतीति तस्मात् यथान्यासमेवास्तु” वा० भा०। वृत्तौ तु सूत्रमन्यथा व्याख्यातं यथा “क्रमप्राप्तां वितण्डां लक्षयति स इति। यद्यपि तच्छब्देन जल्पो न परामर्ष्टुं शक्यते जल्पस्य स्थापनाद्वयवतः प्रतिपक्षस्थापनाहीनत्वस्य विरुद्धत्वात् तथापि स्थापनाद्वयवत्त्वं विहाय जल्पैकदेशः परामृश्यते प्रतिपक्षो द्वितीय पक्षः तथाच प्रतिपक्षस्थापनाहीना विजिगीषुकथा वितण्डेति। न च स्वस्य स्थापनीयाभावात् कथमियं कथा प्रवर्त्ततामिति वाच्यम् परपक्षखण्डनेन जयस्यैवोद्देश्यत्वात्। परे तु परपक्षखण्डनेनैव स्वपक्षस्वार्थादेव सिद्धिस्तत्साधनाभावेऽपि न प्रवृत्त्यनुसपत्तिरिति वदन्ति”।

वितथ = त्रि० वि + तन–क्थन्। मिथ्याभूते पदार्थे अमरः। स्वार्थे यत्। वितथ्य तत्रैव।

वितद्रु = स्त्री वि + तम–रु दान्तदेशः। पञ्जावदेशस्थेनदीभेदे उणादिको०

वितरण = न० वि + तॄ–ल्युट्। दाने अमरः।

वितर्क = पु० वि + तर्क–भावे अच्। १ सन्देहे २ ऊहे च मेदि०। ३ ज्ञानसूचके शब्दर०। ४ अर्थालङ्कारभेदे अलङ्कारशब्दे ४०३ पृ० दृश्यम्।

वितर्दि = स्त्री वि + तृद–इन् वा ङीप्। येदिकायाम् अमरः। पृषो० वितर्द्धिरप्यत्र स्त्री भरतः वा ङीप्।

वितल = न० विशेषेण तलम्। पातालभेदे शब्दर०। पातालशब्दे ४१९९ पृ० दृश्यम्। २ तलसून्ये त्रि०।

वितस्ति = पुंस्त्री० वि + तस–क्तिच्। द्वादशाङ्गकपरिमाणे विस्तृत स कनिष्ठामध्यङ्गुष्ठान्तपरिमाणे अमरः।

वितान = न० वि + तन–कर्मभावादौ घञ्। १ वृत्तिभेदे मेदि० २ अवसरे विश्वः। ३ यज्ञे ४ विस्तारे अमरः ५ चन्द्रातपे पुंन० ६ तुच्छे ७ मन्दे च त्रि० अमरः। ८ शून्ये त्रि० धरणिः। स्वार्थे क। चन्दातपे। संज्ञायां कन्। माडवृक्षे राजनि०। ९ आहनीयाद्यग्नीनां विस्तारे। वितानेन निर्वृत्तः ठक्। वैतानिक वितावसाध्ये अग्न्याधेयप्रभृतौ त्रि० “अग्न्याधेयप्रभृतीन्याह वैतानिकानि” आश्व० श्रौ० २ सू०। “वितानेषु भवानि वैतानिकानि वितानसाध्यानीत्यर्थः। वितानशब्दोऽत्र सूत्रे भाववचनोऽग्नीनां विस्तारवचनः” नारा०। वितायन्तेऽग्नयोऽस्मिन् वि + वन० आधारे घञ्। १० अग्निहोत्रादिकर्मणि। “अथैतस्य समाम्रायस्य विताने योगापत्तिं व्याख्यास्यामः” आ० गृ० १ सू०। “वितताः अग्नयो यस्मिन्निति श्रौतकर्मजातमग्निहोत्रादि वितानशब्देनोच्यते” नारा०। तत्र साधुठक्। वैतानिक अग्निहोत्रादि कर्मसाधने अग्नौ पु०। “वैतानिकेऽग्नौ कुर्वीत” मनुः।

वितानमूलक = न० वितानाय मूलमस्य कप्। उशीरे राजनि०।

वितुन्न = न० वि + तुद क्त। १ सुनिषण्णके अमरः संज्ञायां कन्। २ धान्यके ३ तुत्थे च न० अमरः। ४ भूम्यामलक्यां स्त्री राजनि०। संज्ञायां कन्। ५ तामलक्यां पु० अमरः।

वित्त = त्यामे अद० चु० उभ० सक० सेट्। वित्तयति ते अविवित्तत् त वित्तापयतीत्यपि।

वित्त = न० वित्त्यते त्यज्यते वित्त–घञ्। १ धने अमरः। विदक्त वा दस्य न नः। २ ख्याते, ३ विचारिते ४ ज्ञाते हेमच० ५ लब्धे च त्रि०।

वित्ति = स्त्री विद–क्तिन्। १ ज्ञाने २ लाभे ३ विचारे च मेदि०।

वित्तेश = पु० ६ त०। कुवेरे।

वित्सन = पु० विद–लाभे क्विप् तां सनोति सन–दाने अच् वृषभे शब्दच०।

विथ = याचने भ्वा० आ० द्विक० सेट् चङि न ह्रस्वः। येथते अवेथिष्ट।

विथुर = पु० विथ–उरच् किच्च। १ चौरे २ राक्षसे च उणा०।

विथ्या = स्त्री विथ–यत्। गोजिह्वायाम् शब्दच०।

विद = सुखाद्यनुभवे आख्याने, वादे च सक० वासे अल० चु० उभ० सेट्। वेदयति ते अवीविदत् त।

विद = लाभे तु० उभ० सक० अनिट् मुचादि। विन्दति ते। ऌदित् अविदत् अवित्त। विनेद विविदे। विन्नं वित्तम्।

विद = मीमांसे रुधा० आ० सक० अनिट्। विन्ते अवित्त।

विद = भावे, दिवा० आ० वक० विनिट्। विद्यते आवित्त।

विद = ज्ञाने अदा० पर० सक० सेट्। वेत्ति० वेद। अवेदीत्।

विद् = पु० विद–क्विप्। १ पण्डिते अमरः २ बुधग्रह च ज्यो०।

विद = पु० विद–क। १ पण्डिते अमरः २ बुधग्रह च ज्यो०।

विदंश = पु० विदश्यतेऽनेन वि + दन्श करणे घञ्। अवदंशे (चाटनि) राजनि०।

विदग्ध = त्रि० वि + दह–क्त। १ नागरे त्रिका० २ निपुणे राजनि० ३ पण्डिते च शब्दच०। ४ नायिकाभेदे स्त्री रसगञ्जरी। परकीयशब्दे ४२३३ पृ० दृश्यम्। ५ विशेषेण दग्धे त्रि०।

विदथ = पु० विदाकथच्। १ योगिनि, २ कृतिनि च मेदि०।

विदर = न० वि + दॄ–अच्। (फणिमनसा) वृक्षे शब्दर०। भावे अप् २ विदलीकरणे पु० शब्दर०। प्रा० ब०। ३ विगतभये त्रि०।

विदर्भ = पुंस्त्री० विगताः दर्भाः कुशायतः। देशभेदे कुण्डिननगरे (वडनागपुर)।

विदल = त्रि० विशेषेण दल्यते दल–घञर्थे क। १ द्विधाभूते २ दाडिमकल्के ३ वंशादिपात्रे ४ स्वर्णादेरवयवे च न०। ५ कलायादौ न० अमरभरतौ ६ रक्तकाञ्चने ७ पिष्टके न० शब्दच०। ८ त्रिवृति (तेओडि) स्त्री राजनि०। प्रा० ब०। ९ दलशून्ये त्रि०।

विदा = स्त्री विद–अङ्। १ ज्ञाने २ बुद्धौ च मेदि०।

विदादि = पु० अपत्यादौ “विदादिभ्योऽञ्” पा० अञ्प्रत्ययनिमित्ते शब्दगणे स च गणः पा० गणसूत्रे दृश्यः।

विदार = पु० वि + दृ–णिच् भावादी अच्। १ विदारणे २ जलोच्छ्वासे च मेदि०। ३ युद्धे हेमच०। ४ द्विधाकरणे।

विदारक = पु० वि + दॄ–णिच्–ण्वुल्। १ जलमध्यस्थतरुशिलादौ अमरः। २ विदारणकर्त्तरि त्रि० ३ शुष्कनदादेर्जलधारणयोग्ये गर्त्ते न० सर्वधरेः। ४ जलबन्धके शब्दर०।

विदारण = न० वि + दॄ णिच्–भावादौ ल्युट्। १ भेदने २ विडम्बे च मेदि०। ३ मारणे शब्दर०। ४ युद्धे पुंस्त्री० मेदि०। ५ कर्णिकारवृक्षे पु० शब्दच०।

विदारिणी = स्त्री वि + दॄ–णिनि ङीप्। काश्मर्य्याम् राजनि०

विदारी = स्त्री वि + दारि + कर्मणि अच् गौ० ङीष्। १ शालपर्ण्याम्। (शालपान) मेदि०। २ मूभिकुष्माण्डे च अमरः “विदारी वातपित्तघ्नी बल्या वृष्या रसायनी” राजव०। ३ कण्ठरोगभेदे भावप्र० “सदाहतोदं श्वयथुं सुताम्बमन्तर्गले पूतिविशीर्णमांसम्। पित्तेन विद्यात् वदने विदारीं पार्श्वे विशेषात् स तु येन शेते” स तु पुरुषो येन पार्श्वेन विशेषात् बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवतीत्यर्थः”।

विदारीगन्धा = स्त्री विदार्य्याः भूमिकूष्माण्डस्येव गन्धो यस्वाः। शालपर्ण्याम् (शालपान) अमरः।

विदारु = पु० वि + दॄ–उन्। १ क्रकचपादे २ क्रकलासे हेमच०।

विदाहिन् = न० वि + दह–णिनि। दाहजनकद्रव्ये।

विदित = त्रि० विद–क्त। १ ज्ञाते अमरः २ प्रार्थिते च मेदि० ३ कवौ पु० जटा०। भावे–क्त। ४ विख्यातौ ४ उपगमे शब्दच० ५ ज्ञाने च। तदस्यास्ति अच्। ६ ज्ञातरि त्रि०। “विदितः समाययाविति” किरा०।

विदिश् = स्त्री विगता दिशौ। दिशोर्मध्ये अग्निनिरृतिवाथ्वीशानकोणचतुष्टये अमरः।

विदु = पु० विद–कु। हस्तिकुम्भमध्यभागे अमरः।

विदुर = त्रि० विद–कुरच्। १ नागरे २ धीरे ३ कौरवाणां मन्त्रिणि दासीगर्भजाते धर्म्मावतारभेदे च मेदि० भा० आ० १०६ अ०। ४ ज्ञातरि च अमरः।

विदुल = पु० विद–कुलच्। १ वेतसे २ जलवेतसे मेदि० ३ गन्धरसे च रत्नमा०। ४ क्षत्रियभेदे भा० उ० १३२ अ०।

विदूर = न० विशिष्टं दूरम्। १ अतिदूरे २ तत्रस्थे पदार्थे त्रि०। “विदूरे केयूरे कुरु” इति सा० द० ३ परि०। ३ वैदूर्य्यमणिसम्भवस्थाने पु० “विदूरभूमिर्नवमेघशब्दात्” कुमारः।

विदूरज = न० विदूरे देशभेदे जायते जन–ड। वैदूर्य्यमणी।

विदूरथ = पु० १ द्वादशमनोः पुत्रभेदे २ पौरवे नृपभेदे विष्णुपु० ३२ अ०

विदूराद्रि = पु० विदूरे देशऽद्रिः पर्वतः। पर्वतभेदे। यत्र वैदूर्य्यमणिरुत्पद्यते।

विदूषक = पु० विदूषयति वि + द्रष–णिच्–ण्वुल्। १ शृङ्गाररससहायभदे २ परनिन्दके त्रि० मेदि०। “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः। भक्ता नर्मसु निपुणाः कुपितिबधूमानभञ्जनाः शुद्धाः। कुसुमवसन्ताद्यभिधाः कर्मवपुर्वेशभाषाद्यैः। हास्यकरः, कलहरतिर्विदूषकः स्यात् स्वकर्मज्ञः” सा० द० ३ व०।

विदेश = पु० विभिन्नो देशः। देशान्तरे “को विदेशः सविद्यानाम्” चाणक्यः।

विदेह = पु० विगतो देहः देहसम्बन्धो यस्य। १ जनकाख्ये नृपे “असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः। तं दृष्टा कुपितः प्राह प्रत्याख्यातोऽस्मि पार्थिव!। यस्मात् तस्मात् शपेयं त्वां विदेहस्त्व भविष्यसि” वह्निपु०। तदीये २ जनपदे च स च देशः मिथिकादेश इति ख्यातः। कूर्मविभागे वृ० स० १४ उक्तः। कूर्मविभागशब्दे दृश्यम्। २ तद्वं श्येनृप ब० व० च ३ कैवल्यमुक्तियुते ४ दहसम्बन्धसून्ये च त्रि० ४ मिथिलायां स्त्री हेमच०। ५ देहशून्ये देवे पात० सूत्रभाष्यादौ देवस्य विदेहत्वं समर्थितं यथा भवप्रत्ययो विदेहप्रकृतिलयानाम्” सू०। “स खल्वयं द्विविध उपायप्रत्ययो भवप्रत्ययश्च तत्रोपाय प्रत्ययो योगिनां भवति” भवप्रत्ययो विदेहप्रकृतिलयानाम्” विदेहानां देवानां भवप्रत्ययः ते हि स्वसंस्कारमात्रोपयो(भो)गेन चित्तेन कैवल्यपदमनुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति” भाष्यम्। “भवन्ति जायन्तेऽस्यां जन्तव इति भवोऽविद्या स खल्वयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः। तत्र तयोर्मध्ये उपायप्रत्ययो योगिनां मोक्षमाणानां भवति विशेषविधानेन शेषस्य मुमुक्षुसम्बन्धं निषेधति। केषां तर्हि भवप्रत्ययः। इत्यत्र सूत्रेणोत्तरम्। विदेहाश्च प्रकृतिलयाश्च तेषामित्यर्थः। तद् व्याचष्टे विदेहानां देवानां भवपत्ययः भूतेन्द्रियाणामन्यतममात्मत्वेन प्रतिपन्नानामुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमिन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषतया षाट्कौषिकशरीररहिताः विदेहाः ते हि संस्कारमात्रोपयोगेन चित्तेन कैवल्यपदमिवानुभवन्तः प्राप्नुवन्तः विदेहाः। अवृत्तिकत्वञ्च कैवल्येन सारूप्यम्। स्वाधिकारसंस्कारशेषता च वैरूप्यम्। संस्कारमात्रोपभोगेणेति क्वचित् पाठः तस्यार्थः संस्कारमात्रमेवोपभोगो यस्य न तु चित्तवृत्तिरित्यर्थः। प्राप्तावधयः संस्कारविपाकं तथाजातीयकमतिवाहयन्ति अतिक्रामन्ति पुनरपि संस्कारे विशन्ति तथा च वायु प्रोक्तं “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास्तु शतं पूर्णम्” विवरणम्। तेषां देवागां मध्ये यस्य विवेकसाक्षात्कारस्तस्य कैवल्यप्राप्तिः “योयो देवानां प्रत्यबुध्यत स विमुच्यते” इति श्रुतेः। मीमांसासिद्धे देहशून्ये ५ अचेतने मन्त्रात्मके देवे च। अविग्रहशब्दे ४५१ पृ० दृश्यम्।

विदेहकैवल्य = न० कर्म०। “न तस्य प्राणा ह्युत्क्रामन्ति इहैव समवलीयन्ते” श्रुत्युक्ते जीवन्मुक्तस्य देहपतनान्तरं निर्वाणमोक्षे। विदेहकैवल्यनिष्पत्तिप्रकारादि शा० सू० भाष्ययोरुक्त यथा “भोगेन त्वितरे क्षपयित्वा सम्पद्यते” सू०। अनारब्धाकार्य्ययोः पुण्यपापयोर्विद्यासामर्थ्यात् क्षय उक्तः इतरे त्वारब्धकार्य्ये पुण्यपापे उपभोगेन शपययित्वा ब्रह्म सम्पद्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पतस्ये” इति। “ब्रह्मैव सन् ब्रह्माप्येति” इति चैवमादिश्रुतिभ्यः। ननु सत्यपि सम्यगदर्शने यथा प्राग देहपाताद् भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृतमेव पश्चादप्यनुवर्त्तेत न, निमित्ताभावात् उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तं न च तादृशमस्ति किञ्चित् का रणम्। नन्वपरः कर्माशयोऽभिनवमुपभोगमारपूस्यते न० तस्य दग्धवीजत्वात्। मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपाते उपभोगान्तरमारभते तच्च मिथ्याज्ञाने सम्यग्दर्शनेन दग्धमिति साध्वेतत् आरब्धकार्य्यक्षये विदुषः कैवल्यम” भा०। तत्रैव ४ पादे च सू० भाष्ययोरुक्तं यथा “सम्पद्याविर्भवः स्वेनशब्दात्” सू० “एवमेवैष संप्रसादोऽआद्देहात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” श्रुतिर्विषयवाक्यं तत्र पूर्वपक्षं दर्शयित्वा सिद्धान्तितं भाष्यकृता यथा “केवलेनैवात्मनाविर्भवति न धर्मान्तरेणेति कुतः? स्वेन रूपेणाभिनिष्पद्यते इति स्वशब्दात्” भा०। “मुक्तः प्रतिज्ञानात्” सू०। “योऽत्राभिनिष्पद्यते इत्युक्तः स पूर्वबन्धविनिर्मुक्तः शुद्धेनैवात्मनावविष्ठते” कुतः? प्रतिज्ञानात्। “एतं त्वेव ते भूयोऽनुव्याख्यास्यामः” इति प्रतिज्ञातम् “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति चोर्पन्यस्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषः” इति (श्रुतिः) भा०। “अविभागेन दृष्टत्वात् सू०। “अविभक्त एव परणात्मना युक्तोऽभिनिष्पद्यते कुतः? दृष्टत्वात्” “यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति” एवं मुनेर्विजानतः आत्मा भवति गौतम!” इत्येवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च” भा०। विवेकचू० स्पष्टमुक्तं यथा “पाषाणवृक्षतृणधान्यकटाम्बराद्या दग्धा भवन्ति हि मृदेव यथा तथैव। देहेन्द्रियासुमनआदिसमस्त दृश्यम् ज्ञानाग्निदग्धमुपयाति परात्मभावम्। विलक्षणं यथा ध्वान्तं लीयते मानुतेजसि। तथैव सकर्ल दृश्यं प्रज्ञात्मनि विलीयते। षटे नष्टे तथा व्योष व्योमैव भवति स्फुटम्। तथैवोपाधिविलये ब्रह्मैव ब्रह्मवत् स्वयम्। क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले। संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः। एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम्। ब्रह्मभावं प्रपद्यैव यतिर्नावर्त्तते पुनः। सदात्मकत्वविज्ञानदन्पाऽविद्यादिवर्द्मण। अमुष्य ब्रह्मभूतत्वात् ब्रह्मणः कुत उद्भवः”। “विमुक्तश्च विमुच्यते” न तस्य प्राणाह्युत्क्रामन्ति इहैव समबलीयन्ते” इत्याद्या श्रुतश्चात्र प्रमाणम्।

विद्ध = त्रि० व्यध० क्त। १ छिद्रिते अमरः। २ क्षिप्ते ३ सदृशे ४ या धिते मेदि० ५ ताडिते च।

विद्धकर्ण = पु० विद्धः कर्ण इव पत्रमस्य। पाठायाम् (आकनादि) द्विरूपकोषः। स्त्रीत्वमपि तत्रैव अमरः। ङीप्। स्वार्थे क। तत्रार्थे स्त्री शब्दर०।

विद्यमान = पु० विद–शानच। १ वर्त्तमानकाले, २ तद्वृत्तौ पदार्थे० त्रि०।

विद्या = स्त्री विद–क्यप्। १ ज्ञाने। २ तत्त्वसाक्षात्कारे “विद्यया मृतमश्नुते” इति श्रुतिः। ३ दुर्गायां शब्दच० ४ गणिकारिकावृक्षे शब्दच०। तन्त्रोक्ते ५ देवीमन्त्रे च। “शतलक्षप्रजप्तापि तस्य विद्या न सिध्यतीति” श्यामास्तवः। ६ विद्याहेतौ शास्त्रे “अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः। धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश। आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः। अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः” प्रा० त० विष्णुपु०। विद्याभेदे देवताभेदाः हेमा० ब्र० विष्णुधर्मोत्तरे उक्ता यथा “ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः। सामवेदं तथा विष्णुः शम्भुश्चाथर्वणो भवेत्। शिक्षाप्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्त्तितः। सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः। छन्दो विष्णुस्तथैवाग्निर्ज्योतिषं भगवान् रविः। मीमांसा भगवान् सोमो न्यायमार्गः समीरणः। धर्मश्च धर्मशास्त्राणि पुराणञ्च तथा मनुः। इतिहासं प्रजाध्यक्षो धनुर्वेदः शतक्रतुः। आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः। कलावेदो महीदेवी नृत्यशास्त्रं महेश्वरः। सङ्कर्षणः पञ्चरात्रं रुद्रः पाशुपतं तथा। पातञ्जलमनन्तश्च सांख्यञ्च कपिलो मुनिः। अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रर्कार्त्तितः। कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः। अन्यानि यानि शास्त्राणि यत्कर्माणि प्रचक्षते। स एव देवता तस्य शास्त्रं कर्म च देववत्”। श्रुतौ तु विद्याभेदः द्विविधः पराऽपराभेदात् उक्तः। यया ब्रह्मावगमः सा परा “ययाऽक्षरमधिगम्यते सा परेतिश्रुतेः”। ऋग्वेदादिलक्षणा अपरा सा च अध्ययनाध्यापनरूपा।

विद्याचन(ण) = त्रि० विद्यया ख्यातः। विद्या + चन(ण) विद्यया विख्याते।

विद्याचुञ्चु = पु० विद्यया विख्यातः विद्या + चञ्चु। विद्यया ख्याते।

विद्यादल = पु० विद्यायै ज्ञानाय दल्वतेऽसौ। भूर्जवृक्षे शब्दच०

विद्यादान = ग० ६ त०। १ अध्यापने २ पुस्तकादिदाने च। “विद्यादानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन च भवतीति ज्यो० त० रघु०। तत्राध्यापनविधि० श्रुतौ यथा “योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छेत् स काको वान्थस्यिन् स्यात् श्रेयसो द्वारमपावृणुयात् अनध्यापने दोषश्चवणात् तस्यावशक्यत्वं गम्यते। “अष्टवर्षं मानवकमुपनयीत तमध्यापयीत” इत्यादिश्रुतौ च अध्यापनाविधिलाभः। व्याख्यानादिविधिलाभस्तु “अज्ञानतिमिरोऽपेठान् सन्देहपटलान्वितान्। निरामयान् यः कुरुते शास्त्राञ्जनशलाकया। इह कीर्त्तिं राजपूजां लभते सद्गतिं च सः” ज्यो० त०। तद्धेतुपुस्तकादिदानञ्चाग्रे वक्ष्यमाणप्रमाणात् तत्र ज्ञानरूपविद्यादानप्रकारः हेमा० दा० वह्निपु० उक्तो यथा “वाजपेयसहस्वस्य सम्यगिष्टस्य यत् फलम्। तत्फलं समवाप्नोति विद्यादानान्न संशयः। तस्वाद्देवालये नित्य धर्मशास्त्रस्य वा श्रुतेः। पठनं कारयेत् राजन्! यदीच्छेत् धर्ममात्मनः। गोमूहिरण्यवासांसि शयनान्यासनानि च। प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम!। धर्माधमौ न जानाति लोकोऽयं विद्यया विना। तस्मात् सदैव धर्मात्मन्! विद्यादानरतो भवेत्। वेदशास्त्ररहस्यज्ञो यदि नैव नृपोत्तम!। ततोऽज्ञानतमोऽन्धस्य कावस्था जगतो भवेत्। ब्रह्मादवः सुराः सर्वे ऋषयो दग्धकिल्विषाः। मनुष्याः पितरश्चैव विद्यादाने प्रतिष्ठिताः। चतुर्युगानां राजेन्द्र! एकसप्ततिसंख्यया। वेदशास्त्रप्रदः स्वर्गे पूज्यते सुरसत्तमैः। इत्युपक्रमे “दानं विशेसफलदं जगतीह नान्यद् विद्यां विहाय वदनाब्जकृताधिवासाम्। गोभूहिरण्यगजवाजिरथादि सर्वं तां यच्छतां किमिति भूप! भवेन्न दत्तम्”। तत्रैव नन्दिपु० “अध्यापयेच्छुभान् शिष्यानभिजातान् सुमेधसः। एवं विद्याप्रदानं हि सर्वदानोत्तमोत्तमम्। सर्वदा सर्ववर्णानामयं च प्लव उत्तमः। अनेन विधिना दत्त्वा विद्यां पुण्यपरो नरः”। स्वयंविद्यादानासामर्थ्ये आ० त० भविष्यपु० उक्तं यथा “अध्यापकस्य यो वृत्तिं दत्त्वाऽध्यापयति द्विजान्। किं न दत्तं भवेत्तेन धर्मकर्मार्थमिच्छता”। तद्धेतुभूतपुस्तकादिदानमपि विद्यादानं हेमा० दा० उक्तं यथा नन्दिपु० “विद्या च मुख्या दानानां गुरुतोऽस्य विधिं बुधः। श्रुत्वा विद्याञ्च विधिवत् शुद्धया भाविता ताना। सत्पात्रेभ्यश्च तां दद्यात् विशेषात् गुनाशालिषु। उप योग्यञ्च यद् यस्य तत्तस्य प्रतिपांदयेत्”। ततः पुस्तकलेखनप्रकारस्तद्दानविधिश्च विस्तरेणोक्तस्तत्र दृश्यः। विद्योपयोगिद्रव्यादिदानेऽपि विद्यादानं भवति यथोक्तं हेमा० दा० देवीपु० “आत्मवित्तानुसारेण विद्यादानं करोति यः। असाध्यं फलमाप्नोति आद्यतुल्यं न संशयः। स्त्री तथानेन विधिना विद्यादानफलं लभेत्। भर्त्रा चैवा ननुज्ञाता विधवा च तमुद्दिशेत्”। विधानमाह “विद्यार्थिने सदा दद्याद् वस्त्राभ्यङ्गञ्च भोजनम्। छत्रिका मुदकं दीपं यस्मात्तैलं विना म सः। लेखनीथटितं तीक्ष्णं मसीपात्रन्तु लेखनीम्। दत्त्वा तु लभते वत्स! विद्यादानमनुत्तमम्। पुस्तकस्तरणं दत्त्वा सुप्रमाणं सुशोभनम्। विद्यादानमवाप्नोति सूत्रवन्धञ्च बुद्धिमान्। यन्त्रकं त्वासनञ्चैव दण्डासनमथापि वा। विद्यावाचनशीलाय दत्तं भवति राज्यदम्। अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे। भूमिर्गृहञ्च क्षेत्रञ्च स्वर्गराज्यफलप्रदम्। यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्त्तयेत्। तस्यापि भवति स्वर्गस्तत्प्रभावान्न संशयः”। “येऽपि पत्रं मसीपात्रं लेखनीं सम्पुटादिकम्। दद्युः शास्त्राभियुक्ताय तेऽपि विद्याप्रदायिनाम्। यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो नराधिप!”। नन्दिपु० “विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य च। शिल्पानि शिक्षयेद् यस्तु पौण्डरीकफलं लभेत्। शिल्पभाण्डप्रदानेऽपि तद्विद्यादानजं फलम्। अहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम्। विद्यादानफलं प्रोक्तं नात्र कार्य्या विचारणा। पापवृत्तस्य च तथा दत्त्वा चैव परां मतिम्। विद्यादानफलं प्राप्य स्वर्गलोके महीयते। येन जीवति भाण्डेन तस्मै तद्भाण्डदायकः। सर्वकामसमृद्धश्च यज्ञस्य फलमश्नुते” विष्णुधर्मो०। तत्रैव स्कन्दपु० विद्यादानोपक्रमे “पुस्तकस्तरणं दत्त्वा सहस्रं तत्प्रमाणतः। तदासनं वितानं वा शिवलोके महीयते। यः श्रीपर्णसमुद्भूतं निम्नखातं सुलक्षणम्। दद्यात् सम्पुटकं कृत्वा चर्मणा वापि निर्मितम्। शिवज्ञानाभियुक्ताय तदध्ययनहेतुना। सुश्लक्ष्णं फलकं वापि विद्यादानफलं लभेत्। यः सौवर्णं सुसम्पूर्णं सर्वरत्नोपशोभितम्। सपिधानं समञ्जूषं विद्याकोशसमाश्रयम्। कारयेद्वापि रौप्येण ताम्रेण चतुरखकम्। कांव्यारकूटं लोहं वा दारुवंशादिनिर्मितम्। सकवायातिरक्तेन चर्मणाभिनवेन च। अन्तर्बहिश्च मठयेत् विद्यादाने नवं गृहम्। सुदृढं कटकोपेतं दृढस्तम्भनिवेशनम्। कुर्य्यात्तालकसंयुक्तं विद्यावर्त्तिकरण्डकम्। एवं वित्तानुसारेण कारयित्वा गृहं नृपः। विद्यासिंहासनं तत्र संपूज्य विधिवद्बुधः। तस्मिन् पुण्याहशब्देन विद्याकोशगृहं न्यसेत्। एवं यः शिवविद्यायाः कुर्य्यादायतनं शुभम्। स मुक्तः पातकैः सर्वैविद्यादानफलं लभेत्। विद्यामण्डलकं कृत्वा विद्याव्याख्यानमण्डपे। तत्राभ्यर्च्य शिवां विद्यां तद्व्याख्यां शृणुयात्ततः। सोऽपि याति शिवस्थ्यानं कार्यकालसमन्वितम्। अनेन विधिना ज्ञानं यः शृणोति प्रवक्तृतः। स साम्राज्यश्रियं सौख्यं देहान्ते मुक्तिमाप्नुयात्”। तत्रैव देवीपु० “तस्मात् सर्वप्रयत्नेन विद्या देया सदा नरैः। इहैव कीर्त्तिमाप्नोति मृतो याति परां गतिम्। यस्तु देव्या गृहे नित्यं विद्यादानं प्रवर्त्तयेत्। स भवेत् सर्वलोकानां पूज्यः पूज्यपदं व्रजेत्”। वराहपु० “लेखापयित्वा तच्छास्त्रं देयं गुणवते सदा। तपस्विने, धर्मरते प्रतिपालनतत्परे। वस्त्रयुग्मेन संवीतं पुस्तकं प्रतिपादयेत्। वाचकं पूजयेच्चापि वस्त्रालङ्कारभूषणैः। अनेनैव विधानेन विद्यादानफलं लभेत्”।

विद्याधन = न० विद्यया लब्धं धनम्। विद्यया लब्धे “उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्वकम्। विद्याधनन्तु तद्विद्यात्” इति, “शिष्यादार्त्विज्यतः प्राप्तं सन्दिग्धप्रश्ननिर्णयात्। अज्ञानसंशयोच्छेदाल्लब्धं प्राध्ययनात्तुयत्। विद्याधनन्तु तत् प्राहुः” इति “शिल्पिष्वपि हि धर्मोऽयम्” इत्युपक्रम्य “परं निरस्य वादेन विद्यया द्यूतपूर्वकम्”। विद्याधनं तु तद्विद्यादित्युक्ते च धने। विद्याधनविभागे विशेषः “विद्याधनं तु यद् यस्य तत्तस्यैव धमं भवेत। कुटुम्बं विभृयाद् भ्रातुर्यो विद्यामधिगच्छतः। भागो यवीयसां तत्र यदि विद्यानुपालिनः” दायमा०। दायतत्त्वे तु “भागं विद्याधनात्तस्मात् स लभेतेताश्रुतो सन्” इति पाठः। दायभा० नारदवाक्ये “देयं वैद्येन तद्धनम्” पाठः। “परभक्तोपयोगेन विद्या प्राप्ताऽन्यतस्तु या। तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते” दाय० त० कात्यायनः। “अन्यतः पितृमातृकुलव्यतिरिक्तात्” रघु०। “नाविद्यानां तु वैद्येन देयं विद्याधनात् कचित्। समविद्याधिकानां त देयं वैद्येन ताजम्” “कुले विनीतविद्यानां भ्रातणां पितृतोऽपि वा। शौर्य्यप्राप्तं तु यद्वित्तं तद्विभाज्य वृहस्पतिः” दायत०।

विद्याधर = पु० विद्यां मन्त्रादिकं धरति धृ–अच्। १ देवयोनिभेदे अमरः। २ विद्याधारके त्रि०।

विद्यारम्भ = पु० ६ त०। पञ्चमवर्षे शिशोः कर्त्तव्ये विद्याया आरम्भे तत्कालादि० ज्यो० त० उक्तं यथा “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने। षष्ठीं प्रतिपदञ्चैव वर्ज्जयित्वा तथाष्टमीम्। रिक्तां पञ्चदशीं चैव शौरिभौमदिनं तथा। एवं सुनिश्चिते काले विद्यारम्भं तु कारयेत्। पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सरस्वतीम्। स्वविद्यासूत्रकारांश्च स्वाञ्च विद्या विशेषतः” विष्णुध०। “लघुचरशिवमूलाधोमुखत्वष्टृपौष्णशशिषु च हरिबोधे शुक्रजीवार्कवारे। उदितवति च जीवे केन्द्रकोणेषु सौम्यैरपठनदिनवर्जं पाठयेत् पञ्चमेऽव्दे” दोपिका। “विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभास्करौ। मरणं शनिभौमाभ्यामविद्या। बुधसोमयोः” मदनपा०। “विद्यारम्भः सुरगुरुसितज्ञेष्वमीष्टार्थदायी कर्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र। नीहारांशौ भवति जडता पञ्चता भूमिपुत्रे छायासूनावपि च मुनयः कीर्त्तयन्त्येवमाद्याः” रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः। गुर्वर्केन्दूडुशुद्धौ च विद्यारम्भः प्रशस्यते”। “प्राङमुखो गुरुरासीनो वरुणाभिमुखं शिशुम्। अध्यापयेच्च प्रथमं द्विजाशीर्भिः समन्वितम्। वृहस्पतिः। तद्विधिः कृत्यतत्त्वे दृश्यः। अविद्या बुधसोमयोरिति धनुर्विद्याविषयम् यथोक्तं दोपिकायाम् “अदितिसुतयमार्कस्वातिचित्राग्निपैत्रध्रुवहरिवसुमूलाश्वीब्दुमाम्यान्त्यभेषु। विशनिशशिबुधाहे विष्णुबोधे विपौषे सुसमयतिथियोगे चापविद्याप्रदानम्” तत्राक्षरग्रहणे विद्यारम्भे च लग्नशुद्धिरावश्यकीत्याह” पी० धा० नृसिंहः “शुभाः पापाश्च रन्ध्रस्थाः सर्वे नेष्टाः सदा ग्रहाः। भ्रातृषष्ठावकर्मस्थाः पापाः सर्वे शुभावहाः। शुभाः केन्द्रत्रिकोणस्थाः धनभ्रातृगताः शुभाः। सर्वे लाभे प्रशस्ताः स्वुरक्षरग्रहणे शिशोः”। अक्षरग्रहणं विद्यापलक्षणम्” उभयत्रापि उत्तरायणस्यैव ग्राह्यता। “उदग्गते भास्यति पञ्चमेऽवदे” वसिष्ठोक्तेः।

विद्युत् = स्त्री विद्योतते वि + द्युत–क्विप्। १ तडिति अमरः २ सन्ध्यायाञ्च विगताद्युत् यस्य प्रा० व० ३ निष्प्रभे त्रि० मेदि०। विद्युतत घतुविधाः “अरिष्टनेमिपत्नीनामपत्यानाह षा- डश। बहुपुत्रस्य विदुषश्चतस्रा विद्युतः स्मृताः”। ताश्च “वाताय कपिला १ विद्युदातपाय हि लोहिता २। पीता ३ वर्षाय विज्ञेया दुर्भिक्षायासिता ४ भवेत्” ज्यो०। आन्तरिक्षोपद्रवविद्युत्कारणञ्च श्रींपतिबोक्तं यथा “निर्घातोल्काघनसुरधनुर्विद्युतश्च कुवायोः संदृश्यन्ते खनगरपरीवेषपूर्वास्तथान्ये” “सुजलजलधिमध्ये बाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्नात् विद्युतस्तत्स्फु सिङ्गाः”। तदग्निपातरूपवज्राग्निपातसम्भवकारण अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम्। वात्यावद् भ्रमदाषाते पतिकूलानुकूलयोः। वाथ्वोस्तत् पतति प्रायो ह्यकालप्राप्यवर्षणे। यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि। तत् त्रेधा पार्थिवं चाप्यं तैजसं तत्तदुत्थितम्। गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते”।

विद्युत्प्रिय = न० ६ त०। विद्युदाकर्षके कांस्ये धातौ हेमच०।

विद्युन्माला = स्त्री अष्टाक्षरपादके छन्दोभेदे। “मो मो गो गो विद्युन्माला” छन्दोम०।

विद्युन्मालिन् = पु० राक्षसभेदे भाग० १। ७ अ०। १ रामायणप्रसिद्धे २ राक्षसभेदे च।

विद्र = न० व्यध–रक् दान्तादेशः। छिद्रे शब्दच०।

विद्रधि = पु० वेत्त्यनेन विद् हृदयं रुणद्धि रुध–कि पृषो०। रोगभेदे। तल्लक्षणादि भावप्र० उक्तं यथा “तत्र विद्रधेः सम्प्राप्तिपूर्वकं सामान्यं लक्षणमाह। “त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः। दोमाः शोथं शनैर्घोरञ्जनयन्त्युच्छ्रिता भृशम्। महामूलं रुजावन्तं वृत्तं वाप्यथ वायतम्। स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः” अस्थिसमाश्रिता दोषा इति वक्ष्यमाणशोथांद् विद्रधेर्भेदार्थम्। यतो व्रणशोथे दोषाणामस्थिसमाश्रयनियमो नास्ति इति व्रणशोथात् दारुणम्। आयतन्दीर्घम्। षडविधत्व विवृणोति। “यथा दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा। षणां तेषां तुल्यमेव लक्षणं सम्प्रचक्षते” अथ विशिष्टानि लक्षणानि। तत्र वातिकस्य लक्षणमाह “कृष्णोऽरुखो वा विपमो भृशमत्यर्थवेदनः। चिरोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः” विषमो भृशम् क्षणमल्पः क्षणं महान्। चिरीत्थानप्रपाकः चिराद्विलम्बादुत्थानमुद्गतिः प्रपाकश्च यस्य स। अथ पैत्तिकमाह “पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान्। क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः”। अथ श्लैष्मिकमाह। “शरावदृशः पाण्डुः शीतः सिग्धोऽल्पवेदनः। चिरोत्थान प्रपाकश्च विद्रधिः कफमभवः। तनुपीतासिताश्चैषामास्नावाः कमशोमताः”। अथ सान्निपातिकमाह। नानावर्णरुजास्वावो घाटालो विषमो महान्। विषमं पच्यते वापि विद्रधिः सान्निपातिकः”। नाना अनेकविधाः वर्णाः कृष्णरक्तपाण्डुरूपाः। रुजा तोददाहकण्डादिरूपाः स्रवाः तनुपेतसिताः यस्य सः। घाटालः घाटाकोटिः सासास्तीनि घाटालः अत्युच्छ्रिताग्र इत्यर्थः। विषमः निम्नोन्नतः। विषम पच्यते चिराचिरगम्भीरोत्तानोर्द्धानूर्द्ध्वभेदेन विषमं यथा स्यात्तथा पच्यते। अथाभिघातजस्यागन्तोः विद्रधेः सम्प्राप्तिपूर्वकं लक्षणमाह। “तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणाम्। क्षतोष्मा वायुविसूतः सरक्तं, पित्तमीरयेत्। ज्वरस्तृषा च दाहश्च जायते तस्य देहिनः। आगन्तुर्विद्रधिर्ह्येषः पित्तविद्रधिलक्षणः”। तैस्तैर्भावैः काष्ठलोष्ट्रपाषाणादिभिः अभिहते यदा रक्तस्रावो भवति। तथाभिहते क्षते कृते वा अथ वा खड्गशूलादिभिः क्षते यथारक्तस्रावो भवति तथा क्षते कृते क्षतोष्मा। अत्र क्षतशब्देन हतमात्र उच्यते तेनाभिहतक्षतयोरुभयोरप्यूष्मा वायुना विसृतः अभिथातात् क्षते रक्तक्षयात् कुपितेन वायुना प्रसृतः। ईरयेत् कोपयेत्। अथ रक्तजमाह “कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः। पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते” अधिष्ठानविशेषेण लिङ्गविशेष वोधयितुमाभ्यन्तरान् विद्रधीनाह “आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन् परिचक्षते। गुर्वसात्म्यविरुद्वान्नशुष्कशाकाम्लभोजनाः। अतिव्यवायामवेगाघातात्युष्णविदाहिभिः। पृथक् सम्भूय वा दोषाः कुपिता गुलमरूपिणम्। वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्। गुद वास्तमुखे नाभ्या कुक्षा वङ्क्षणयोस्तथा। कक्षयोः प्लीह्नि यकृति हदि वा क्लोम्नि चाप्यथ। एषां लिङ्गानि जानीयाद्पाह्यविद्रविलक्षणैः” सम्भूय वा मिलित्वा वा। समुन्नद्ध सममन्तादुन्नतम्। स्थानविशेषेण रूपविशेषमाह “गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता। नाभ्यां हिक्कां जृम्भणे च कुक्षौ भारुतकोपनम्। कटिपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु बिद्रवो। कक्षयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावराधनम्। सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते। श्वासो यकृति हिक्का च क्लोग्नि पेपींयते पयः” स्रावमार्गमाह “नाभेरुपरिजाः पक्वा बान्त्यूर्द्ध्वमितरे त्वधः”। कक्षादिजाताः यान्ति स्रवन्ति ऊर्द्ध्वमातात्, इतरे वस्त्यादिजाः अघः गुदात्। नाभिजस्तूभाभ्यां मार्गाभ्याम्। तथा च हारीतः ऊर्द्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्त्ततेऽसृक्सहितो हि पूवः। अधः प्रभिन्नेषु तु पायुमार्गाद् द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु” अथ साध्यत्वादिकमाह “अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं न जीवति। हन्नाभिवस्तिवर्जषु तेषु भिन्नेषु वाह्यतः। जीवेत्कदाचित् पुरुषो नेतरेषु कदा च न”। हृन्नाभिवस्तिवर्जेषु प्लीहक्लोमादिजाः तेषु तथाभिन्नेषु न जीवेत् हृदादीनां मर्मत्वात्। अतएव भोजः “असाध्यो मर्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः। सन्निपातोत्थितोऽप्येवं पक्व एव हि वस्तिजः। त्वगजो नाभेरघोजश्च साध्यो यश्च समीपजः। अपक्वश्चैव पक्वश्च साध्यो नीपरि नाभितः। आध्मानं बद्वनिष्यन्दं छर्दिहिक्कातृषान्वितम्। रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम्” अथ वाह्यविद्रधोनां साध्यासाध्यत्वमाह “साध्या विद्रधयः पञ्च विवर्ज्यः सान्निपातिकः। आमपक्वविदग्धत्वं तेषां ज्ञेयञ्च शोथवत्” शोथवत् वक्ष्यमाणव्रणशोथवत्”।

विद्रधिनाशन = पु० विद्रधिं नाशयति नश–णिच्–ल्यु। शोभाञ्जने त्रिका०।

विद्र(द्रा)व = पु० विद्रु–अप् घञ् वा। १ पलायने अमरः २ क्षरणे च शब्दमा०।

विद्रुत = त्रि० वि + द्रु–क्त। १ प्राप्तद्रवे २ पलायिते च अमरः।

विद्रुम = पु० विशिष्टो द्रुमः। १ प्रवालरत्नहेतुवृक्षे मेदि०।

विद्रुमलता = स्त्री विद्रुमस्य लतेव। नलीनामगन्धद्रव्ये मेदि० स्वार्थे क अत इत्त्वम्। विद्रुमलतिका तत्रैव।

विद्वत्कल्प = त्रि० ईषदसमाप्तो विद्वान् विद्वस + कल्पप। ईषदूने विदुषि

विद्वत्तम = पु० अतिशयेन विद्वान् विद्वस् + तमप्। अतिपण्डिते तरप्। विद्वत्तरोऽप्यत्र।

विद्वद्देशीय = त्रि० ईषदससाप्तो विद्वान् विद्वस् + देशीयर्। विद्वत्कल्प

विद्वस् = त्रि० विद–क्वसु। १ प्राज्ञे स्त्रियां ङीप् सम्प्र० “विदुषी मूर्ध्वनि सा विभर्त्ति यान्” नैष०। २ पण्डिते पु० ३ आत्मज्ञानयुक्ते।

विद्विष् = पु० विशेषेण द्वेष्टि वि + द्विष–क्विप्। शत्रौ अमरः। क। विद्विषोऽप्यत्र।

विद्वेष = पु० वि + द्विष–घञ्। वैरिभावे शत्रुतायाम् अमरः।

विद्वेषण = न० वि + द्विष–णिच्–ल्युट्। तन्त्रोक्ते अभिचारकर्म भेदे येन शत्रूणां परस्परविद्वेषो भवति तस्मिन् व्यापारे। वि + द्विष ल्युट्। २ विद्वेषे।

विध = विधाने छिद्रकरणे छेदने च तु० पर० सक० सेट्। विधति। अवेधीत्

विध = पुंस्त्री विध क् अच् वा। १ विमाने २ गजभक्ष्यान्ने २ प्रकारे ४ वेधे ५ वृद्धौ रभसः ६ वेतने मेदि० ७ कर्मणि च स्त्री हेमच०। तत्रार्थे वेधने च स्त्री त्रिका०।

विधवा = स्त्री विगतो धवो यस्याः। मृतपतिकायां स्त्रियाम् अमरः। विधवाधर्माश्च शु० त० उक्ता यथा विष्णुस० “मृते भर्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा”। ब्रह्मचर्य्यं मैथुनवर्जनं ताम्बूलादिवर्जनञ्च यथाह प्रचेताः “ताम्बूलाभ्यञ्जनं चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्”। कभ्यञ्जनमायुर्वेदोक्तम्” रघु०। काशीख० विस्तरेण ४ अ० उक्ता यथा “अनुयाति न भर्त्तारं यदि दैवात् कदाचन। तथापि शीलं संरक्ष्यं शीलभङ्गात् पतत्यधः। तद्वैगुण्यादपि स्वर्गात् पतिः पतति नान्यथा। तस्याः पिता च माता च भ्रातृवर्गस्तथैव च। पत्यौ मृते च या योषिद्वैधव्यं पालयेत् क्वचित्। सा पुनः प्राप्य भर्त्तारं स्वर्गभोगान् समश्नुते। विधवाकवरीबन्धो भर्तृबन्धाय जायते। शिरसो वपनं तस्मात् कार्य्यं विधवया सदा। एकाहारः सदा कार्य्यो न द्वितीयः कदाचन। त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा। मासोपवासं कुर्य्याद् वा चान्द्रायणमथापि वा। कृच्छ्रं पराकं वा कुर्य्यात् तप्तकृच्छ्रमथापि वा। यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः। प्राणयात्रां प्रकुर्वीत यावत् प्राणः स्वयं व्रजेत्। पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम्। तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया। नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित्। गन्धद्रव्यस्य सम्भोगोनैव कार्य्यस्तया पुनः। प्रत्यहं तर्पणं कार्य्यं भर्तुः कुशतिलोदकैः। तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम्। विष्णोस्तु पूजनं कार्य्यं पतिसुद्ध्या न चान्यथा। पतिमेव सदा ध्यायेद्विष्णुरूपधरं परम्। यद् यदिष्टतमं लोके यच्च पत्युः समीहितम्। तत्तद्गुणवते देयं पतिप्रीणनकाम्यया। वैशाखे कार्त्तिके माघे विशेषनियमांश्चरेत्। स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः। वैशाखे जलकुम्भांश्च कार्त्तिके वृतदीपकाः। माघे तिलेन्धनोत्सर्गः स्वर्गलोके महीयते। प्रपा कार्य्या च वैशाखे देवे देया गलन्तिका। उपानद्व्यजनं चापि सूक्ष्मवासांसि चन्दनम्। सकर्पूरन्तु ताम्बूलं पुष्पदानं तथैव च। जलपात्राण्यनेकानि तथा पुष्पगृहाणि च। पानानि च विचित्राणि द्राक्षारम्भाफलानि च। देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति। ऊर्जे यवागूमश्नीयाटेकान्नमथ वा पुनः। वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत्। कार्त्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु। कार्त्तिके वर्जयेत् कांस्यं कार्त्तिके चापि सन्धितम्। कार्त्तिके मौननियमे घण्टां चारुं प्रदापयेत्। पत्रभोजी कांस्यपात्रं घृतं पूर्णं प्रयच्छति। भूमिशव्याव्रते देया शय्या श्लक्ष्णा सतूलिका। फलत्यागे फलं देयं रसत्यागे च तद्रसः। धान्यत्यागे च तद्धान्यमथ वा शालयः स्मृताः। धेनुं दद्यात् प्रयत्नेन सालङ्कारां सकाञ्चनाम्। एकतः सर्वदानानि दीपदानं तथैकतः। कार्त्तिके दीपदानस्य कलां नार्हन्ति षोडशीम्। किञ्चिदभ्युदिते सूर्य्ये माघस्नानं समाचरेत्। यथाशक्त्या च नियमान्माघे स्नानं समाचरेत्। पक्वान्नैर्भोजयेद्विप्रान् यतीनपि तपस्विनः। लड्डुकैः फाणितैश्चापि वटकेण्डरिकादिभिः। घृतपक्वंः समरिचैः शुचिकर्पूरवासितैः। गर्भे शर्करया पूर्णैर्नेत्रानन्दैः सुगन्धिभिः। शुष्केन्धनानां भारांश्च दद्याच्छीतापनुत्तये। कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम्। मञ्जिष्ठारूपवासांसि तथा तूलवतीं पटीम्। ऊर्णामयानि वासांसि यतिभ्योऽपि प्रदापयेत्। जातीफललवङ्गैश्च ताम्बूलानि वहून्यपि। कम्बलानि च चित्राणि निर्वातानि गृहाणि च। मृदुलाः पादरक्षाश्च सुगन्ध्युद्वर्त्तनानि च। घृतकम्बलपूजाभिर्महास्नानपुरःसरम्। संस्नाप्य शाम्भवं लिङ्गं पूजयेद् दृढभक्तितः। कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः। तूलवर्त्तिप्रदीपैश्च नैयेद्यैर्विविधैस्तथा। भर्तृस्वरूपो भगवान् प्रीयतामिति चोच्चरेत्। एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः। वैशाखान् कार्त्तिकान् माघानेवमेवातिवाहयेत्। नाधिरोहेदनड्वाहं प्राणैः कण्ठगतैरपि। कञ्चुकं न परीदध्याद्वासो न विकृत वसेत्। अपृष्ट्वातु सुतान् किञ्चिन्न कुर्य्याद् भर्तृतत्परा। एवं चर्य्यापरा नित्यं विधवापि शुभा मता। इति धर्मसमायुक्ता विधवापि पतिव्रता। पतिलोकानवाप्नोति न भवेत् क्वापि दुःखिता”। व्रह्मवै० ज० ख० ८३ अ० अश्चिद्विशेष उक्तो यथा “ब्राह्मणी पतिहीना या भयेन्निष्क्रामणी सदा। एकभक्ता दिनान्ते सा हविष्यान्नरता सदा। न धत्ते दिव्यवस्त्रञ्च गन्धद्रव्यं सुतिलकम्। स्रजञ्च चन्दनं चैव शङ्खं सिन्दूरभूषणम्। त्यक्त्वा मलिनवस्त्रा स्यात् नित्यं नारा- यणं स्मरेत्”। “पुत्रतुल्यञ्च पुरुषं सदा पश्यति धर्मतः। मिष्टान्न न च भुङ्क्ते मा न कुर्य्याद्विभव व्रजम्। एकादश्यां न भोक्तव्यं कृष्णजन्माष्टमीदिने। श्रीरामस्य नवम्याञ्च शिवरात्रौ पावित्रया। अधोरायाञ्च प्रेतायां चन्द्रसूर्य्योपरागयोः। भृष्टद्रव्यं परित्याज्यं भुज्यते परमेव च। ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिचाम्। सन्यासिनां च गोमाससुरातुल्यं श्रुतौ श्रुतम्। रक्तशाकं मसूरञ्च जम्बीरं पर्णमेव च। अलाबूर्वर्तुलाकारा वर्जनीया यतेरपि। पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम्। यानस्यारोहणं कृत्वा विधवा नरकं व्रजेत्। न कुर्य्यात् केशसंस्कार गात्रमस्कारमेव च। कशाषली जटारूपा न क्षौरं तीर्थकं विना। तैलाभ्यङ्गं न कुर्वीत न हि पश्यति दर्पणम्। मुखञ्च परपुंसां च यात्रा नृत्यं महोत्सवम्। नर्त्तकं गायकञ्चैव सुवेशं पुरुषं शुभम्”।

विधातृ = पु० वि + धा–तृच्। १ प्रजापतौ ब्रह्मणि अमरः। २ कामदेवे मेदि०। ३ मदिरायां राजनि०। ४ भृगुमुनिपुत्रभेदे भाग० ५ विधानकर्त्तरि त्रि० स्त्रियां ङीप् सा च ६ पिप्पल्यां शब्दर०। ७ अधर्मे पु० “द्वौ धाता च विधाता च पौराणौ जगतां पती। द्वौ शास्तारौ त्रिलोक्वेऽस्मिन् घर्माधर्मौ प्रकीर्त्तितौ” अग्निपु०।

विधातृभू = पु० विधातुर्भवति भू–क्विप्। १ नारदमुनौ त्रिका० २ मरीच्यादा च।

विधात्रायुम् = पु० विधातुरायुः प्रमाणं यस्मात्। सूर्य्ये शब्दच० सूर्य्यक्रियां विना वत्सरादिज्ञानासम्भवात् सूर्य्यस्य तथात्वम्। ६ त०। तस्य वयःकाले २ महाकल्पे च। तदायुःकालस आयुस्शब्दे ७९२ पृ० दृश्यः।

विधान = न० वि + धा ल्युट्। १ करणे २ कर्मणि। ३ विधौ, जटा० ३ गजभक्ष्यान्ने च हारा० वंज्ञायां कन्। अथायां म० शब्दर०।

विधानज्ञ = पु० विधानं जानाति ज्ञा–क। १ पण्डिते। २ विधिज्ञे त्रि०।

विधायक = त्रि० वि + धा–ण्वुल्। विधानकर्त्तरि।

विधि = पु० वि + धा–कि। १ गजत्स्रष्टरि ब्रह्मणि, ३ भाग्ये ३ क्रमे अमरः “चिकीर्माकृतिसाध्यत्वहेतुधीविषयो विधिशब्दश० उक्ते प्रवर्त्तनारूपे ४ नियोगे तज्जनके ५ वाक्ये हेमच०। ६ विष्णो हलाय० ७ कमणि त्रिका०। ८ मजमक्ष्यान्ने जटा०। ९ वैद्ये राजनि०। १० अप्राप्तप्रामकरूपे वाक्यभेदे, व्याकरणोक्ते ११ सूत्रभेदे। तत्र व्याकरणविघिर्निरूप्यते। “संज्ञा च परिभाषा च विधिर्नियम एव च। अतिदेशोऽधिकारश्च” षड्विधमूत्रलक्षणमित्युक्तेः। षट्विधिभेदाः तत्र “तुन्याप्य प्रयत्नं सवर्णम्” पा० सवर्णमंज्ञा परिभाषा तच्छब्दे ४२४९ पृ० उक्ता। अप्राप्तप्रापको विधिः यथा “अकः सवर्णे दीर्घः” पा० इत्यादि। अत्र सवर्णे परे पूर्वस्य दीर्घस्याप्राप्तेस्तत्प्रापकत्वात् तथात्वम्। स च द्विविधः वर्णाद्युत्पादकोऽभावरूपश्च। तत्र वर्णोत्पादक उक्तः अभावोऽपि द्विविधः लोपरूपो निषेधरूपश्च तत्र “लोपोऽभ्यासस्येति” पा० नाशरूपः। “नाभ्यस्ताच्छतुरित्यादौ” निषेधरूपः। सामान्यप्राप्तस्य विशेषावधारको नियमः यथा “रात्मस्यैव” पा० इत्यादि। अन्थधर्मस्याम्यत्रारोपणविधिरतिदेशविधिःयथा पुंवद्भावादिः। पूर्वसूत्रस्त्रपदादेरन्यत्रोपस्थितिरधिकारविधिः। स च त्रिविधः “सिंहावलोकितं चैव मण्डूकप्लुतमेव वा। गङ्गाप्रवाहवच्चापि ह्यधिकारस्त्रिधा मतः”। अधिकारशब्दे १२७ पृ० दृश्यम्। विधिश्च विनियोगरूपतया शब्दश० प्र० निरूपितो यथा “नेह कृत्यात्मकं विधानम्। आख्यातमात्रस्य तद्बोधसमर्थत्वात् किन्तु प्रवर्त्तकचिकीर्षायां यतप्रकारकज्ञानस्य हेतुत्वं स तथा, तादृशञ्च कृतिसाध्यत्वमिष्टसाधवत्वम् बलवदनिष्टाननुवन्धिवञ्च पत्येकमेय, यागपाकादिधर्मिकतन्निश्चयादेव यागादिधर्मिकचिकीर्षोत्पत्त्या तत्र प्रवृत्तेः। एवञ्च यजेतेत्यादौ यागः कृतिसाध्यः इष्टसाधनं बलवदनिष्टाननुबन्धी चेत्याकारको बोधः” अधिकं तत्र दृश्यम्। मीनांसकमते विधिस्वरूपभेदादिकं लौगाक्षिभास्करेण दर्शितं यथा “तत्राज्ञातार्थज्ञापको वेदभागो विधि। म च तादृशप्रयोजनवदर्थविधानेनार्थवान् तादृशं चार्थं प्रमाणान्तरेणप्रापुं विधत्ते। यथान्धिष्ठोत्रं जुहुयात् स्वर्गकाम इति विधिर्मानान्तरेणाप्राप्तस्थर्गप्रयोजनवद्धोमं विधत्ते। अग्निहोत्रहोमेन खर्गं भावयेदिति बाक्यार्थबोधः”। “यत्र कर्म मानान्तरेण प्राप्तं, तत्र तदुद्देशेन गुणमात्रं विघत्ते। यथा दध्ना जुहोतीत्यत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानं दध्ना होमं भावयेदिति। यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्तेः यथा सोमेन यजेतेत्यत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टविधानम्। सामपदे मत्वर्थलक्षणया सोमवता यागेनेष्टं भावयेदिति वाक्यार्थकोधः। न चाभर्वविधाने वाक्यभेदः प्रत्ये- कमुभयस्याविधानात्। न च ज्योतिष्टोमेन स्वर्गकामो यजेतति विपिप्राप्तोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावयेदिति, किं मत्वर्थलक्षणयेति वाच्यम्। तस्याधिकारंविधित्वेगोत्पत्तिविधित्वासम्भवात्। ननूद्भिदा यजेत पशुकाम इत्यत्रेव ज्यातिष्टोमेनेत्यत्रःप्युत्पत्यधिकारविधित्वमस्त्विति चेन्न, दृष्टान्ते उत्पत्तिबाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात्। किञ्च ज्योतिष्टोमेनेत्यस्योभयविधित्वे तेनैव यागस्तस्य फलसम्बन्धोऽपि बोधनीय इति सुदृढो वाक्यभेदस्तद्वरं सोमपदे मत्वर्फलक्षणया विशिष्टविधानम्। स च विधिश्चतुर्विधः उत्पात्तविधिर्विनियोगविधिः, अधिकारविधिः, प्रयोगविधिश्चेति। तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः। यथाग्निहोत्र जुहोतीति। अत्र च विधौ कर्मणः करणत्वेनान्वयः आग्नहोत्रहोमेनेष्टं भागयेदिति। ननु यागस्य द्वे रूपे द्रव्यं देवता च! तथाच रूपाश्रवणे अग्निद्वोत्रं जुहोतीति कथमुपत्तिविधिः अग्निहोत्रशब्दस्य तु तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न रूपाश्रवणेऽप्यश्योत्मत्तिविधित्वात्। अन्न्यथा रूपश्रवणाद्दध्ना जहोतीति अयमवोत्पत्तिविधिः स्यात्। तया चाग्निहात्र जहोतीति वाक्यमनर्थकं स्यात्। अङ्गप्रधानसम्बन्धवाधको विधिर्विनियोगविधिः। यथा दघ्ना जुहोतीति। स हि तृतीयया प्रतिपन्नाङ्गभावं दध्ना होमसम्बन्धं विवत्ते दध्ना हीमं भावयेदिति। गुणविघौ च धात्वर्थस्य साध्यत्वेनैवान्वयः। क्वचिदाश्रयत्वेनापि यथा दध्नन्द्रियकामस्य जुहुयादित्यत्र दधिकरणत्वेनेन्द्रियं भावयेत् तच्च किंनिष्ठमित्य काङायां सन्निधिप्राप्तहोम आश्रवत्वेनान्वेति। एतस्य विधेः सहकारिमूतानि षट्प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि। एतत्सहकृतेनानेन विधिनाङ्गत्वं परोदृशप्रवृत्तकृतिसाव्यत्वरूपं परार्थ्यापरपर्य्यायं ज्ञाप्यते” ततः तत्सहकाराणि श्रुत्यादीनि निरूपितानि तत्र दृश्यानि “तदेवं निरूपितानि सङ्क्षेपतः श्रुत्यादीनि षट् प्रमाणानि। एतत् सहकृतेन विनियोगविधिना समिदादिभिरुपक्रम्य “दर्शपूणमासाभ्यां यजेत” इत्येवं रूपेण यानि विनियाज्यन्ते तान्यङ्गानि द्विविधानि सिद्धरूपाणि, कियारूपाणि चेति। तत्र सिद्धानि जातिद्रव्यसङ्ख्यादीनि तानि च दृष्टार्थान्येव। क्रियारूपाणि च। द्वबिवानि। गुणकर्माणि प्रधानकर्माणि च। एता- न्येव सन्निपत्योपकारकाणि आरादुपकारकाणीति चोच्यते। कर्माङ्गद्रव्याद्युद्देशेन विधीयमानं कर्म सान्नपत्योपकारकम्। यथाऽवघातप्रोक्षणादि तच्च दृष्टार्थमदृष्टार्थं दृष्टादृष्टार्थं चेति। दृष्टार्थमवर्घातादि अदृष्टार्थं प्रोक्षणादि। दृष्टादृष्टार्थं पशुपुरोडाशादि। तद्धि द्रव्यत्यागांशेनैवादृष्टं देवतोद्देशेन च देवतास्मरणं दृष्टं करोति। द्रव्याद्यनुद्दिश्य केवलं विधीयमान कर्म त्वारादुपकारकम्। यथा प्रयाजादि। आरादुपकारकञ्च परमापूर्वोत्पत्तावेवोपयुज्यते। सन्निपत्योपकारकन्तु द्रव्यदेवतासंस्कारद्वारा यागस्वरूपेऽप्युपयुज्यते। इदमेव चाश्रयिकर्मेत्युच्यते। तदेवं निरूपितः सङ्खेपतो विनियोगविधिः। प्रयोगप्राशुभाववोधको विधिः प्रयागविधिः। स चाङ्गवाक्यैकतापन्नः प्रधानविधिरेव। स हि साङ्गं प्रधानमर्नुष्ठापयन्विलम्बे प्रमाणाभावादविलम्बापरपर्य्याय प्रयोगप्राशुभावं विधत्ते। न च तदविलम्बेऽपि प्रमाणाभाव इति वाच्यं विलम्बे ह्यङ्गप्रधानविध्येकवाक्यतावगततत्साहित्यानुपपत्तिः विकस्तेन कियमाणयोः पदार्थयोः इदमनेन सहकतमिति साहिन्यव्यवहाराभावात्। स चाविलन्वी नियते क्रम आश्रियमाणे भवति। अन्यथा हि किमेतदनन्तरमेतत् कर्त्तव्यमेददनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्ध्यर्थं नियतं क्रममपि पदार्थविशेषणतया विधत्ते। अतएवाङ्गानां क्रमबोधको विधिः प्रयोगविधिरित्यपि लक्षणम्”। “तदेवं संक्षेपतो निरूपितः षड्विध क्रमनिरूपणेन प्रयोगविधिः। कर्भजन्यफलस्वास्यबोधकोविधिरधिकारविधिः। कर्मजन्यफलखान्यं च कर्मसन्यफलभोक्तृत्वम्। स च यजेत स्वर्गकाम इत्यादिरूपः, र्गमुद्दिश्य यागं विदधतानेन स्वगकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते “यस्याहिताग्नेरग्निर्गृहान्दहेत्सोऽग्नयेऽणामवतेऽष्टाकपालं पुरोडाशं निर्वपेत” इत्यादिना दाहादौ निमित्ते कर्म विदघता निमित्तवत कर्मजन्यपापक्षयरूपफलस्वाम्यं प्रतिपाद्यते। एवम् “अहरहः सन्ध्यामुपासीत” इत्यादिना शचिविहितकालजीविनः सन्ध्योपासनाजन्यप्रत्यवायपरिहाररूपफलस्वाम्यं बोध्यते। तच्च फलस्वाम्यं तस्यैव योऽधिकारविशिष्टः। अधिकारश्च स एव यद्विधिवाक्ये पुरुषविशेषणत्वेन श्रूयते यथा काम्ये कर्मणि फलकामना। नैमित्तिके कर्मणि निमित्तनिश्चयः। नित्ये सन्ध्योपासनादौ शुचिविहितकालजीवित्वम् अतएव “राजा राजसूयेन स्वाराज्यकामोयजेत” इत्यनेन विषिवाठ्येन स्वाराज्यमुद्दिश्य राजसूयं विदधता न स्वराज्यकाममात्रस्य फलभोक्तृत्वं प्रतिपाद्यते किन्तु राज्ञः सत स्वाराज्यकामस्यैव राजसूयस्यापि अधिकारिविशेषणत्वेन श्रवणात्। किञ्चित् तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणं यथाध्ययनविधिसिद्धा विद्या क्रतुविधीनामर्थज्ञानापेक्षत्वेनाध्ययनविधिसिद्धार्थज्ञानवन्तप्रत्येव प्रवृत्तेः। एवमग्निसाध्यकर्मसु आधानसिद्धाग्निमता अग्निसाध्यकर्मणा। मग्न्यपेक्षत्वेन तद्विघीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तेः। एवं सामर्थ्यमपि आख्यातानामर्थं ब्रुवतां शक्ति सहकारिणोति न्यायात् समर्थं प्रत्येव विधिप्रवृत्तेः। तदेवं निरूपितो विधिः”। विधिरसायने च विधिभेदोऽन्यथा दर्शितो यथा “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसंख्येति गोयते” तत्तच्छब्दे विशेषो दृश्यः। १२ अर्थालङ्कारभेदे च। अलङ्कारशब्दे ४०३ पृ० दृश्यम्।

विधिज्ञ = त्रि० विधिं क्रमं जानाति ज्ञा–क। विधानक्रमज्ञे।

विधित्सा = स्त्री विधातुमिच्छा वि + धा–सन् भावे अ। विधागेच्छायाम्।

विधिदेशक = पु० विधिं विधानं दिशति दिश + ण्वुल्। विधिदर्शिनि १ मदस्ये अमरः २ गुरौ च।

विधिवत् = अव्य० विधिमर्हति विधि + वति। विध्यनुसारे

विधु = पु० व्यध–क। १ चन्द्रे २ कर्पूरे ३ विष्णौ मेदि०। ४ ब्रह्मणि शब्दर०। ५ शङ्करे ६ राक्षसे विश्वः। ७ वायौ ८ युधि च संक्षिप्नसा०।

विधुत = त्रि० वि + धु–क्त १ कम्पिते। २ त्यक्ते च अमरः।

विधुनन = न० वि + धु–णिच्–नुक्च। चालने जटा०।

विधुन्तुद = पु० विधुं तुदति तुद–खश् मुम्च। राहौ अमरः

विधुपिञ्जर = पु० विधोः पिञ्जर इव। १ खड्गे शब्दर०।

विधुर = त्रि० विगता धूर्यस्य अच्समा०। १ विश्लेष्टे अमरः। २ विकले च मेदि०। विगता धूः। ३ वैकल्ये ४ विश्लेषे च न० त्रिका०। ५ रमालायां स्त्री मेदि०।

विधुवन = न० वि + धु–ल्युट्। अम्पने अमरः।

विधूत = त्रि० वि + धू–क्त। १ कम्पिते २ थक्ते च हेमच०। “विधूतपापास्ते यान्ति” ब्रह्मलोकमनाजयम” स्मृतिः।

विधेय = त्रि० वि + धा–यत्। १ विधातं योग्ये २ वचनस्थे आ- यत्ते अमरः। ३ विधिना बोध्ये च। ४ उद्देश्यप्रकारतया ज्ञाययाने विलक्षणविषयतायुते पदार्थे यथा पर्वतो वह्निमानित्यादौ वह्निर्विधेयः। पचतीत्यादौ पाककृतिः आख्यातार्थस्य विधेयतयैव बोधस्याङ्गीकारात्। विधेयता तु विलक्षणविषयता अनुवाद्यभिन्ननिष्ठा “अनुवादमनुक्त्वा च न विधेयमुदीरयेत्” इति शाब्दिकनियमः। प्रत्यक्षादिप्रमितविशेष्यतावच्छेदकताभिन्ना विशेष्यतानिरूपिता च सेत्यन्ये।

विधेयाविमर्श = पु० विधेयस्याविमर्षो यत्र। अविमृष्टविधेयांशरूपे काव्यदोषभेदे दोषशब्दे ३७६३ पृ० तस्य स्वरूपादिकं दृश्यम्।

विध्याभास = पु० अर्थालङ्कारभेदे सा० द० अलङ्कारशब्दे ४०३ पृ० दृश्यम्।

विध्वंस = पु० वि + ध्वन्स घञ्। नाशे।

विनत = त्रि० वि + नम–क्त। १ प्रणते २ भुग्ने ३ शिक्षिते च मेदि०। गरुडमातरि ४ कश्यपपत्नोभेदे ५ पिटकाभेदे च स्त्री मेदि।

विनतासूनु = पु० ६ त०। १ अरुणे २ गरुडे च जटा०। विनतात्मजादयोऽप्युभयत्र।

विनद = पु० विशेषेण नदति नद–अच्। (छातियान) वृक्षे शब्दच०।

विनम्रक = न० विशेषेण नम्रमिव इवार्थे कन्। तगरपुष्पे राजनि०।

विनय = पु० वि + नी–भावे अच्। १ शिक्षायां। २ प्रणामे ३ अनुमये च मेदि०। वि + नी–कर्त्तरि अच्। ३ विनययुक्ते, जने, विनयश्च शास्त्रज्ञानजन्यसंस्कारनेदः इन्द्रियसंयमा वा। ४ निभृते, ५ क्षिप्ते, ६ जितेन्द्रिये च। ७ वणिग्जने पु० अमरः। ८ दण्डे व्यव० त०। ९ वाट्यालके स्त्री वेदि०।

विनयग्राहिन् = त्रि० विनयं शिक्षां गृह्णाति ग्रह णिनि। वचनस्थिते आयत्ते अमरः। स्त्रियां ङीप्।

विनयस्थ = त्रि० विनये तिष्ठति स्था–क। वचनग्राहिणि आयत्ते हेमच०।

विनशन = न० वि + नश–ल्युट्। १ विनाशे। विनश्यति पदर्शनं गच्छति सरस्वत्यत्र वि–नश + आधारे ल्युट्। २ कुरुक्षेत्रस्थे तीर्थभेदे त्रिका०। “हिमवद्विन्ध्ययोर्मध्यं यत् माग् विनशनादपि” मनुः। स च सरस्वत्यन्तर्धानदेश एव प्रभासतीर्थसन्निकृष्टनिषादपुरसमीपस्थः यथोक्तं भा० व० १३० अ०। “एषा सरस्वती रम्या दिव्या चोघवती गदी। एतद्विनशनं नाक सरस्यत्या विशाम्पते। द्वारं निपादरष्ट्रस्य येषां दोषात् सरस्वई। प्रविष्टा पृथिवीं वीर! मा निषादा हि मां विदुः”। “शुक्लपक्षसप्तम्या दीक्षा सरस्वतीविनशते” कात्या० श्री० २४। ५। ३०। “सरस्वतीविनशने सरस्वती समुद्रसङ्गमे प्रभासे मारस्वतसत्रार्थं दीक्षा भवति” कर्कः यत्र सरस्वत्यन्तर्भवति तद्विनशनमुच्यत इत्याग्नस्वामिनः। “सरस्वती नाम नदा प्रत्यक्स्रोता प्रवहात तस्याः प्राग परभागौ सर्वलोकप्रत्यक्षौ मध्यमस्तु मागो भूम्यन्तर्निमग्न प्रवहति नासौ केनाचद् दृश्यते तद्विनशनमुच्यत” इति लाट्या० १०। १५। १ माधवाचार्य्याः।

विनष्ट = त्रि० वि + नश–स्य। १ विनाशपतियागिनि २ पतिते च “विनष्टे वाप्यशरणे पितर्युपरतस्पृहे” नारदः। “विनष्टे पतिते” दायभा०।

विना = अव्य० वि + ना। १ वर्ज्जने २ अन्तरंणेत्यर्थे च। एतद्योगे २ द्वितीया तृतीया पञ्चमी च।

विनाकृत = त्रि० विनेति कृतम् विना + कृ–क्त। १ त्यक्ते २ रहिते च त्रिका०।

विनाडिका = स्त्री विभक्ता नाडिका यया। “दश गुर्वक्षरः प्राणः षड्भिः प्राणैर्विनाडिका। तत्पष्ट्या तु भवेन्नाडी” सू० सि० उक्ते दण्डषष्टिभागात्मके पलरूपे काले।

विनायक = पु० वि + नी–ण्वुल्। १ गणेशे २ बुद्धे अमरः ३ विघ्ने ४ गुरौ च। ६ त०। ५ गरुडे मेदि०। ६ गरुडपत्न्यां स्त्री शब्दमा० टाप् कापि अत इत्त्वम्। विनायकश्च कर्मविघ्नसिद्ध्यर्थमीश्वरेण नियुक्तः वेवभेदः यथोक्तं याज्ञवलक्येन “विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः। गणानामाधिपत्य च रुद्रेण ब्रह्मणा तथा” “कर्मणां पुरुषार्घसाधनानां विघ्नसिद्ध्यर्थं स्वरूपफलसाध नत्वविघातसिद्ध्यर्घं नियोजितो नियुक्तः” मिता०। तेनोपसृष्टस्य लक्षणान्याह म एव “तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत। स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डाःश्च पश्यति। कपायवासमश्चैव क्रव्यादांश्चाधिरोहति। अन्त्यजैर्गर्दमैरुष्ट्रैः सहैकत्रावतिष्ठति। व्रजत्यपि तथात्मानं मन्यतेऽनुगतं परैः” तस्य प्रत्यक्षलक्षणान्याह स एव “विसना विकलारम्भः संसीदत्यनिमित्ततः। तेनोपसृष्टो लभते न राज्यं राजनन्दनः। कुमारी न च भर्त्तारमपत्यं नर्भमकना। आचार्य्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा। वणिगलाभं न चाप्नोति कृषिञ्चापि कृषीवलः” तन्निवारणविघिश्च तत्रोक्तो दृश्यः। “विनायका विघ्नकारा महोग्राः” रक्षामन्त्रः।

विनारुहा = स्त्री विना मूलं विना रोहति रुह–क १ त्रिपर्णिकायां राजनि०।

विनाश = पु० वि + नश अञ्। १ ध्वंसे २ अदर्शने च।

विनाशोन्मुख = त्रि० विनाशाय उन्मुख उद्यतः। १ नष्टप्रावे २ पक्वे च अमरः।

वि(वी)नाह = पु० वि + नह–घञ वा उपसर्गदीर्घः। कूपमुखपिधाने शब्दच०।

विनिद्र = त्रि० विगता निद्रा यस्य। १ प्रकाशिते शब्दमा०। २ निद्राहीने च। तस्य भावः। त्वा विनिद्रत्व प्रबोधे न० हेमच०।

विनिपात = पु० वि + नि + पत–घञ्। १ निपाते २ दैवादिकृते व्यसने मेदि० ३ अपमाने च हेमच०।

विनिमय = पु० वि + नि + मि–अच्। परिवर्त्ते १ तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणे शब्दच०। २ बन्धक च शब्दमा०।

विनियोग = पु० वि + नि–युज–घञ्। क्रियासु प्रवर्त्तने “लनेनेदन्तु कर्त्तव्यं विनियोगः प्रकीर्त्तितः इत्युक्ते २ अनुष्टानक्रमविष्ठाने च “आर्षं छन्दश्च देवत्य विनियोगस्तथैव चेति” योगियाज्ञ०।

विनिर्भय = त्रि० विनिर्गतं भयं यस्मात्। १ भयशून्ये साध्यदेवगणभेदे पु० वह्निपु०।

विनीत = त्रि० वि + नी–क्त। १ विनययुक्ते २ कृतदण्डे ३ क्षिप्ते अमरः ४ अपनीते ५ निभृते च। ६ जितेन्द्रिये ७ हृते च मेदि०। ८ सुशिक्षिताश्वे अमरः। ९ मदनवृक्षे च पु० १० शिक्षितवृषादौ राजनि० ११ वणिजि पु० मेदि०।

विनीय = पु० वि + नी–क्यप्। १ कल्के २ पापे च ल्यप् शिक्षयित्वेत्याद्यर्थे अव्य०।

विनेतृ = त्रि० वि + नी–तृच्। १ शिक्षके २ नृपे पु० मेदि०।

विनेय = त्रि० वि + नी–यत्। १ शिक्षणीये २ प्राप्ये च।

विनोक्ति = स्त्री अर्थालङ्कारभेदे अलङ्कारशब्दे ४०३ पृ० दृश्यम्

विनोद = पु० वि + नुद–घञ्। १ कौतूहले हला०। २ क्रोडायां ३ खण्डने च। ४ गृहभेदे “दीर्घे त्रयोदशहस्ताः प्रमारतो द्वौ प्रथितौ। विनोद एष द्वाराणि त्रिंशत्कोष्ठद्वयं भवेत्” युक्तिक०।

विन्ध्य = पु० विध–यत पृषो० मुम् च। १ पर्वतभेदे अमरः। २ व्याधे च। ३ लवनीवृक्षे स्त्री मेदि०। ४ सूक्ष्मेलायां हेमच०। ५ आवन्त्ये नृपभेदे पु० अनुविन्ध्यशब्दे १८५ पृ० दृश्यम्।

विन्ध्यवासिना = स्त्री विन्ध्येऽचले वसति वस–णिनि ङीप्। यशोदागर्भजातायां दुर्गायाम्। “महस्राक्षोऽपि तां (यशोदागर्भजकन्याम्) गृह्य विन्ध्यं वेगाज्जगाम ह। तत्र गत्वा तथोवाच तिष्ठस्वात्र महावने। पूज्यमाना सुरैर्नाम्ना ख्याता त्वं बिन्ध्यवासिनी” वामनपु० ५१ अ०। “ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी” देवीपा०। २ व्याडिमुनौ पु० हेमच०। विन्ध्यस्थोऽप्यत्र जटा०।

विन्ध्याचल = पु० कर्म०। विन्ध्यपर्वते।

विन्ध्याटवी = स्त्री विन्ध्यस्था अटवी। विन्ध्यपर्वतस्थे वनभेदे।

विन्ध्यावली = स्त्री वाणासुरमातरि त्रिका०।

विन्न = त्रि० विद–कर्मणि क्त। १ विचारिते २ प्राप्ते अमरः। ३ ज्ञाते ४ स्थिते च विश्वः।

विन्याक = पु० वि + नि + अक–घञ्। विद्धवृक्षे (छातियान) शब्दच०।

विन्यास = पु० वि + नि + अस–घञ् १ स्थापने २ रचने तन्त्रोक्ते मन्त्राद्युच्चारणपूर्वकं हृदयादिषु अङ्गुल्यादीनां अर्पणभेदे च।

***