वालव = पु० वल–घञ् वालश्चलनं वाति गच्छति वा–क। तिथ्यर्द्धात्मके द्वितीये करणे ज्यो० त०।

वाल्क = न० वल्केन निर्वृत्तमण्। वलकजातेवस्त्रे। वाल्कल अप्यत्र न०

वाल्मिकि = पु० वल्मीके भवः इञ् पृषो०। रामायणग्रन्थकर्त्तरि मुनिभेदे द्विरूपको०।

वाल्मीक(कि) = पु० वल्मीके भवः अण् इञ् वा। भार्गवे प्राचेतसे मुनिभेदे जटा०।

वावदूक = त्रि० वद–यङ् लुक्–ऊकञ्। बहुवदनशीले वक्तरि अमरः।

वावय = पु० वय–यङ्लुक्–अच्। (वावुइ) तुलसीभेदे शब्दच०

वावृत = संभक्तौ द्रि० आत्म० सक० सेट् क्त्वा वेट्। वावृत्यते अवावर्त्तिष्ट। “ततो वावृत्त्यमाना सा” भट्टिः।

वावृत्त = त्रि० वावृत–क्त। कृतवरणे।

वाश = तिरश्चां शब्दे अक० आह्वाने सक० दि० आत्म० सेट् ऋदित् चङि न ह्रस्वः। वाश्यते अवाशिष्ट। “उद्वाश्यमानः पितरम्” भट्टिः।

वाशा = स्त्री वां कासनतिं श्यति शो–क। वासके शब्दर० स्वार्थे क ह्रस्वे अत इत्तत्त्वम्। वाशिका तत्रार्थे शब्दच०।

वाशिंत = न० वाश–भावे क्त। १ तिरश्चां शब्दे अमरः २ आह्वाने च।

वाशिता = स्त्री वाश–क्त। १ करिण्याम् २ स्त्रीमात्रे च अमरः

वा(सि)शिष्ठ = न० वशि(सि)ष्ठस्येदम् अण् तेन प्रोक्तं वा अण्। वशिष्ठप्रणीते १ उपपुराणभेदे २ योगशास्त्रभेदे च। ३ वशि(सि)ष्ठसम्बन्धिनि त्रि०। ४ गोमत्यां नद्यां स्त्री हेमच० ङीप्।

वाश्र = न० वाश–रक्। १ गृहे २ चतुष्पथे च। ३ दिवसे पु० मेदि०।

वाष्प(स्प) = पु० वा–प ष(सु)क् च। १ ऊष्मणि २ लोहे मेदि० ३ चक्षुर्जले च अमरः। संज्ञायां कन्। ४ मारिषशाके (नटिया) पुंस्त्री० शब्दर० वा गौ० ङीष्। वाष्पी + (स्पी)स्वार्थे क। वाष्पि(स्पि)काप्यत्र अमरः। “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः। मारिषो मधुरः शीतो विष्टम्भी पित्तकृद् गुरुः। वातश्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित्। रक्तमार्षो गुरुर्नादिसक्षारो मधुरः सरः। श्लेष्मलः कटुकः पाके स्वल्पदोष उदोरितः” भावप्र०।

वास = सुरभीकरणे अद० चु० उभ० सक० सेट्। वासयति ते अववासत् त।

वास = पु० वस–निवासे आच्छादने वा आधारकर्मादौ घञ्। १ गृहे २ वस्त्रे ३ अवस्थाने हेमच०। वास–अच्। ४ वासके शब्दर०। तत्रार्थे स्त्रीत्वमपि तत्र टाप्। ५ सुगन्धे च। स्थानभेदेऽवस्थाननिषेधी यथा “तस्मात् सङ्कीर्णवृत्तेषु वासो मम न रोचते। पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च। न तेषु च वसेत् प्राज्ञः श्रेयोऽर्थी पापपुद्धिपु। ये त्वेवमभिजानन्ति वृत्तेनाभिजनेन च। तेषु साधुषु व स्तव्यं सवासः श्रेयसे मतः” मात्स्ये २८ अ०। “धार्मिकैरावृते ग्रामे न व्याधिबहुले भृशम्। न शूद्रराज्ये निवसेत् न पाषण्डजनैर्वृते। हिमवद्बिन्ध्ययोर्मध्यं पूर्वपश्चिमयोः शुभम्। मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेत् द्विजः। अर्द्धक्रोशान्नदोकूलं वर्जयित्वा द्विजोत्तमः। नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ। न संवसेच्च पतितैर्न चण्डालैर्न पुक्कशैः। न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः” कूर्मपु० १५ अ०। “धनिनः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः। पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत्” चाणक्य

वासक = पु० वास–ण्वुल्। स्वनामख्याते वृक्षे “येन तेन प्रकारेण वासकः कासनाशकः” इति वैद्यकम् “वासकः कासहृत् स्वर्य्यः कफपित्तास्रनाशनः। तिक्तस्तवरको हृद्यो लघुः शीतस्तृडर्त्तिहृत। श्वासकाम ज्वरच्छर्दिमोहकुष्ठक्षयापहः” भावप्र०। २ गानाङ्गविशेषे यथा “मनोहरोऽथ कन्दर्पश्चारुनन्दन एव च। चत्वारो वासकाः प्रोक्ताः शङ्करेण स्वयं पुरा”। केषाञ्चिम्मते नामान्तरम्। “विनोदो वरदश्चैव नन्दः कुमुद एव च। चत्वारो वासकाः प्रोक्ता गीतवाद्यविशारदैः” सङ्गीतदा०।

वासकसज्जा = स्त्री “कुरुते मण्डनं या तु सज्जिते वासवेश्मनि। सा तु वासकसज्जा स्यात्” इत्युक्तलक्षणे नायिकाभेदे वाससज्जाप्यत्र सा० द०।

वासकर्णी = स्त्री वासं देववासं कर्णयत्यत्र कर्ण–आधारे अच् गौरा० ङीष्। यज्ञशालायाम् शब्दर०।

वासगृह = न० वासयोग्यं गृहम शाक०। मध्यगृहे अमरः।

वासत = पुंस्त्री० वास–अतच्। गर्दभे शब्दर०। स्त्रियां ङीष्।

वासतेयी = स्त्री वसतये हिता ढक्। १ रात्रौ त्रि०। २ वसतियोग्ये त्रि० “वनेषु वासतेयेषु” भट्टिः। स्त्रियां ङीप्।

वासन = न० वास–ल्युट्। १ सुरभीकरणे २ धूपने ३ वारिधान्याम् ४ वस्त्रे मेदि० ५ वासस्थाने शब्दर० ६ ज्ञान च धरणिः वस–णिच्–ल्युट्। ७ निक्षेपाधारे निक्षेपार्थे मुद्राङ्किते पात्रे च। “वासनस्थमनाख्याय समुद्रं यन्निधीयते” नारदः। “वासनं निक्षेपाधारभूतं सम्पुटादिकं समुद्रग्रन्थ्यादियुक्तम्” व्य० त० रघु०। वस–णिच् भावे ल्युट्। ८ क्षेपणे च।

वासना = स्त्री वासि–युच्। १ प्रत्याशायां २ ज्ञाने मेदि० ३ स्मृतिहेतौ संस्कारे जटा०। ४ सुरभीकरणे च। मिथ्याज्ञानजन्ये ५ संस्कारभेदे दोषशब्दार्थे। ६ आलयविज्ञानानामेकसत्तानवर्त्तिनां तत्तत्प्रवृत्तिविज्ञानजननशक्तौ बौद्धाः। ७ गणितशास्त्रप्रसिद्धे ग्रहस्पष्टीकरणाद्यु पयोगिनि संस्कारभेदे च।

वासन्त = पुंस्त्री० वसन्तस्येदम् वसन्ते भवः वा अण्। वसन्त प्रिये १ उष्ट्रे मेदि०। २ कोकिले च राजनि० स्त्रियां ङीष्। वसन्तभवे ३ मलयवायौ ४ मुद्गे त्रिका०। ५ कृष्णमुद्गे हेमच०। ६ मदनवृक्षे च शब्दर०। ७ तत्कालभवे त्रि०। स्त्रियां ङीप् सा च ८ यूथ्या ९ माधवीलतायां धरणिः। १० पाटलायां विश्वः ११ नवमल्लिकायां भावप्र०। “वासन्ती शीतला लघ्वी तिक्ता दोषत्रयास्रजित्” भावप्र०। १० वसन्तकाले कर्त्तव्यदुर्गापूजायाम्। भविस्यपु० “मीनराशिस्थिते सूय्ये शुक्लपक्षे नराघिप!। सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा” भविष्योत्तरे “चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये। पूजयेद्विधिवद् दुर्गां दशम्याञ्च विसजयेत्” कालकौमुद्यां ज बालिः “चेत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये। पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा। नानाविधैश्च बलिभिर्मेषादैर्दोषवर्जितैः। विचित्राभरणैः पार्थ! पट्टवस्त्रादिभिस्तथा। एवं यः कुरुते पूजां वर्षे वर्षे विधानतः। ईप्सितान् लभते कामान् पुत्रपौत्रादिकान्नृप!” इति। अत्र निरुपपदमासशब्दसङ्केतात् भविष्यपुराणवचने मीनराशिस्थित इति मीनस्थरव्यारब्धचान्द्रमासीयतिथिपरम्। सौररव्यारब्धत्वे कदाचित् सप्तम्यादितिथित्रयालाभात् तद्वर्षे तत्कृत्यलोपः स्यात् न चेष्टापत्तिः भविष्यपुराणे सदापदोपादानात् जावालिवचने वर्षे वर्षे इत्युपदानाच्च नित्यत्वम्। एतद्विवृतं कालविवेके। एवं जाबालिशेषवचनपरार्द्धे पुत्रादिरूप फलश्रवणात् काम्यत्वञ्च। ततश्च काम्यतया पूजने कृते प्रसङ्गान्नित्यसिद्धि। “सिताष्टम्यान्तु चैत्रस्य पुष्पेस्तत्काल सम्भवैः। अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूजनम्। न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः” इति कालिकापुराणवचनात् केवलाष्टमीकल्प उक्तः। चैत्रमासमधिकृत्य “नवम्यां पूजयेद्देवीं महिषासुरमर्दिनीम्। कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतपणैः। दमनैर्मुरपत्रैश्च विजयाख्यपदं लभेत्” इत्यनेन केवलनवमीकल्प उक्तः। व्यवस्था तु शारदीयपूजाप्रकरणोक्ता ग्राह्या। विशेषस्तत्र बोधनप्रक्रिया नास्ति बाधिताया बोधनासम्भवात् इति प्राग्विवृतम्। होमादिकञ्च पूर्ववज्ज्ञेयमिति दिक्” दुर्गोत्सवविवेकः। तत्कालपूज्यत्वात् दुर्गापि वासन्तीत्युच्यते।

वासयोग = पु० वासेन गन्धेन योगो यत्र (आविर) चूर्णभेदे अमरः।

वासर = पुंन०। वस–अरण्। १ दिवसे अमरः। २ नागभेदे पु० मेदि०।

वासव = पु० वसुरेव स्वार्थेऽण् वसूनि सन्त्यस्य अण् वा। १ इन्द्रे वसोरपत्यं स्त्री अण् ङीप्। २ व्यासमातरि मत्स्यगन्धायाम् स्त्री हेमच०। ३ धनिष्ठानक्षत्रे न० ज्यो

वासवदत्ता = स्त्री वासवदत्तामधिकृत्य कृतो गन्थः अण् आख्यायिकायां तस्य लुक्। १ वासवदत्ताचरिताख्यापके ग्रन्थभेदे ३ त०। ३ इन्द्रदत्ते त्रि०।

वासस् = न० वस–आच्छादने असि णिच्च। १ वस्त्रे अमरः २ पत्रभेदे राजनि०।

वासाखण्ड = न० चक्रदत्तोक्ते औषधभेदे “तुलामादाय वासायाः पचेदष्टगुणे जले। तेन पादावशेषेण पाचयेदाढकं भिषक्। चूर्णानामभयानाञ्च खण्डाच्छुद्धं तथा शतम्। द्वे पले पिप्पलीचूर्णात् सिद्ध्वशीते च माक्षिकात्। कुडवं पलमात्रन्तु चातुर्जातं सुचूर्णितम्। क्षित्या विलोडितं खादेद्रक्तपित्ती क्षतक्षयी। कासश्वासपरीतश्च यक्ष्मणा च प्रपीडितः”

वासाखण्डकुष्माण्डक = न० चक्रदत्तोक्ते औषधमेदे “पञ्चाशच्च पलं स्विन्नं कुष्माण्डात् प्रस्थमानतः। ग्राह्यं पलशतं खण्डं वासाक्वाथाढके पचेत्। मुस्ताघात्री–शुभाभार्गी–त्रिसुगन्धैश्च कार्षिकैः। ऐलेयविश्वधन्याकमरिचैश्च पलांशिकैः। पिप्पलीकुडबञ्चैव मघु मानीं प्रदापयेत्। कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीसकम्। हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति”

वासागार = न० वासयोग्यमगारम् शाक०। वासयोग्ये गृहे गृहमध्ये त्रिका०।

वासाघृत = न० चक्रदोक्ते घृतभेदे “वासां सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः। प्रदाय कल्कं विपचेद् घृतं तत् सक्षौद्रमा श्वेव निहन्ति रक्तम्”।

वासाद्यघृत = न० चक्रदत्तोक्ते वृतभेदे “वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम्। पक्त्वा तेन कषायेण पयसा द्विगुणेन च। विष्पलीमूलमृद्वीक चन्दनोत्पलनागरैः। कल्कीकृतैश्च विपचेत् घृतं जीर्णज्वरापहम्”।

वासि(सी) = स्त्री वस–इञ् वा ङीप्। १ कुठारभेदे (वाइम) उणादि०।

वासित = त्रि० वास–क्त। १ सुरभीकृते अमरः। वाश–क्त पृषो०। २ रुते न० मेदि०। ३ ज्ञानमात्रे हेमच०। ४ खगशब्दे विश्वः ५ करिण्यां ६ स्त्रोमात्रे स्त्री अमरे पाठान्तरम् वा गौरा० ङीष्। ७ ख्याते ८ वस्त्रवेष्टिते च त्रि० धरणिः।

वासिनी = स्त्री वासोऽस्त्यस्याः इनि। शुक्लझिण्ट्यार शब्दच०।

वासु = पु० वस–उण्। १ विष्णौ त्रिका०। २ विश्वरूपे ३ पुनर्वसुनक्षत्रे च उणादिको०।

वासुकि = पु० वसुना शिरस्थरत्नेन कायति कै–क स एव इञ्। १ सर्पराजे “भगिनी वासुकेस्तथा” मनसास्तोत्रम्।

वासुदेव = पु० वसुदेवस्यापन्यम् अण। १ विष्णौ अमरः। अन्यापि तन्न मनिरुक्तिः विष्णुपु० दर्शिता यथा “सर्वत्रामो समस्त च वसत्यत्रेति वै यतः। ततः स वासुदेवेति विद्वद्भिः परिण्ठ्यते”। विष्णुस० भाष्ये तु द्विधा पठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र प्रथम वसुदेवापत्यरूपार्थिका द्वितीया यथा “वसति वासं गच्छति वा वासुः दीव्यति क्रीडति जिगीषते व्यवहरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः। वासुश्चास्रौ देवश्च वामदेवः। छादयामि जगद्विश्वं भूत्या (मायया) सूर्य्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततः स्मृतः” “वसनात् सर्वभूतानां वासुत्वाद् दवयोनितः। वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा० उ०। स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनः अशभेदः इति वैष्णवामन्यन्ते “एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः। चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा। एकाभगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला। वासुदेवाभिधाना सा गुणातीता सुनिष्कला। द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता (सङ्कर्षणाख्य)। निहन्ति सकलांश्चान्तोवैष्णवी परमा तनः। सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि च संज्ञिता। जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा। चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता। राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टिकारिका। यः स्वपित्यखिलं हृत्वा प्रद्युन्मेन सह प्रभुः। नारायणाख्यो ब्रह्मासौ प्रजासर्गकरो हि सः। या सा नारायणतनुः प्रद्युम्लाख्या मुनीश्वराः!। तया संमोहयेद्विश्वं सदेवासुरमानुषम्। सैव सर्वजगत् सूते प्रकृतिः परिकीर्त्तिता। वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः। प्रधानं पुरुषः कालस्तद्वद् त्रयमनुत्तमम्। वासुदेवात्मकं नित्यमेतत विज्ञानमुच्यते” कूर्मपु० ४८ अ०।

वासुदेवप्रियङ्करी = स्त्री ६ त०। १ शतावर्य्याम्, राजनि०

वासुरा = स्त्री वस–उरण्। १ स्त्रीमात्रे २ करिण्यां ३ रात्रौ ४ भूमौ च हेमच०।

वासू = स्त्री वस–ऊ। नाट्योक्तौ वालायाम् स्त्रियाम् अमरः।

वास्तव = न० वस्त्वेव अण्। सत्यभूते पदार्थे।

वास्तविक = त्रि० वस्तुतो निर्वृस्तम् ठक्। स्वतःसिद्धे सत्यभूते पदार्थे।

वास्तव्य = त्रि० वसति वस–तव्य नि०। वासकर्त्तरिं वासयोग्ये स्थाने, ३ वसतो च न०।

वास्तु = पु० न० वस–तुण्। वासयोग्यभूमौ अमरः। गृहशब्दे २६३२ पृ० दृश्यम्। स्वार्थे क। स्वनामख्याते शाके राजनि०। तत्रार्थे न० भावप्र०।

वास्तूक = न० वास्तु स्वार्थे क पृषो० दीर्थः। (वेतुय) १ शाके भावप्र० २ चिल्लीशाके स्त्री गौरा० ङीष् राजनि०। “वास्तूक वास्तुकं च स्यात् क्षारपत्रञ्च शाकराट्। तदेव तु वृहत् पत्रं रक्तं स्याद् गोडवास्तकम्। प्रायशो यवमध्य स्यात यावत् शाकमतः स्मृतम्। वास्तूकद्वितयं स्यादु क्षारं पाके कटूदितम्। दोपनं पाचनं रुच्यं लघु शुकबलपदम्। सरं प्लोहास्रपित्तास्रक्रमिदोषत्रयापहम्” भावप्र०।

वास्तेय = त्रि० वस्तरिदम् वस्तये हितं वा ढक्। १ वस्तिसम्बन्धिनि २ वासयोम्ये च।

वास्तोष्पति = पु० ६ त० अलुक् समा०। १ इन्द्रं, अमरः २ वास्तुभूमिपती च।

वास्त्र = पु० वस्त्र णादृत। रथः अण्। वस्त्रेण सम्यगावृते रथे अमरः।

वास्पेय = पु० वास्पाय हितं ढक्। नागकेशरे र्त्ना०।

वाह = यत्ने भ्वा० आ० अक० सेट् ऋदित् चङि न ह्रस्वः। वाहते अवाहिष्ट।

वाह = पुंस्त्री० उह्यतऽनन असौ वा गवादिना वा वह–घञ्। १ अश्वे “वाहो भारचतुष्टयम्” इत्यक्ते २ परिमाणभेदे च अमरः। ३ भुजे ४ वायौ पु० ५ वृषे च पुस्त्रा० शब्दर० स्त्रिया जातित्वे ङीष्। अमरः वाहरिप्वादयोऽप्यत्र।

वाहद्विषत् = पु० वाहाय द्वेष्टि द्विष–शवृ ६ त०। महि०

वाहन = न० वाहयति वह–णिच्–ल्यु। रथादौ याने। देवभेदे वाहनभेदो यथा “विष्णुब्रह्मशिवैर्देवैर्ध्रियते सा जगन्मयी। सितप्रेतो महादेवो ब्रह्मा लोहितपङ्कजः। हरिर्हरिस्तु विज्ञेयो बाहनानि महौजसः। स्वमूर्त्त्या वाहनत्वन्तु तेषां यष्मान्न युज्यते। तस्मान्मूर्त्त्यन्तरं कृत्वा वाहनत्व गतास्त्रवः। यस्मिन् यस्मिन् महामाया प्रीणाति सततं शिवा। तेन तेनैव रूपेण आमनान्यभवन् त्रयः” कालिकापु० ५७ अ०। देवदानवानां वाहनानि यथा। पुलस्त्य उवा च “शृणुष्व कथयिष्यामि सर्वेषामपि नारद!। वाहनानि समासेन एकैकस्यानुपूर्वशः। रुद्रहस्ततलोत्पन्नं महाकायं महागजम्। श्वेतकर्णं महावीर्य्यं देवराजस्य वाहनम्। राद्रौजःसम्भवं भीमं कृष्णवर्णं मनोजवम्। पौण्ड्रणं नाम महिशं धर्मराजस्य नारद!। रुद्रमानससम्भूतं श्यामं जलधिसम्भवम्। शिशुमारं दिव्यगतं वाहनं वरुणस्य च। रौदं शकटचक्राक्षं शैलाकारनरोत्तमम्। अम्बिकाप्रादसम्भूतं वाहनं धनदस्य तु। एकादशानां रुद्राणां वाहनानि महामुने। गन्धर्वाश्च महावीर्य्या भुजगेन्द्राः सुदारुणाः। श्वेतानि सौरभेयाणि वृषाण्युग्रजवानि च। रथं चन्द्रमसश्चार्द्धसहस्रहंसवाहनम्। हयोढ रथवाहाश्च आदित्या मुनिसत्तम!। कुञ्जरस्थाश्च वसंवो यक्षाश्च नरवाहनाः। किन्नराभुजगारुढा हयारुढौ तथाश्विनौ। शारङ्गाधिष्ठिता ब्रह्मत्! मरुतो घोरदर्शनाः। शुकारूढाश्च कवयो गन्घर्वाश्च पदातिनः। आरुह्य वाहनान्येवं स्वानि स्वान्यमरोत्तमाः। सन्नह्य निर्ययुर्हृष्टा युद्धाय सुमहौजसः” वामनपु० ९ अ०। निघण्टौ देवभेदे वाहननामभेदा उक्तास्तत्र दृश्याः।

वाहस = पु० वाहं गतिं स्यति सो–क। १ अजगरे अमरः। २ सुनिषणके (सुसनि) शाके ३ परिमाणे च मेदि०।

वाहिक = पु० वह–णिच इक। १ ढक्कायां २ गोवाहे (वलदे) ३ शकटादौ धरणिः। ४ भारवाहके त्रि० “गौर्वाहिकः” सा० द०।

वाहित्थ = न० वहतीति णिनि वाही–तस्मिन् तिष्ठति स्था–क पृषो०। गजकुम्भास्याथोभागे अमरः।

वाहिनी = स्त्री वाहोऽस्त्यस्याः इनि ङीप्। १ सेनायां, २ हस्त्यश्वादिसंख्याभेदान्विते सैन्थभेदे अनीकिनीशब्दे १६९ पृ० दृश्यम्। वहति वह–णिनि। २ नद्याम् अमरः। “वाहित्यः पार्श्वमेता न जहति भवतः” काव्यप्रकाशः।

वाहिनीपति = पु० ६ त०। १ सेनापतौ अमरः। २ समुद्रे च शब्दच०।

वाहीक = पु० वह–ईक। १ जर्त्तिके जातिभेदे (जाट)। २ देशभेदे च हेमच०।

“वाहीकदेश मद्रांश्च कुत्सयन् वाक्यमव्रवीत्। पञ्चानां सिन्धुषष्टानां नदोनां येऽन्तराश्रिताः। तान् धर्मवाह्यानशुचीन् वाहीकान् परिवर्जयेत्। शाकलं नाम नगरमापगा नाम निम्रगा। जर्त्तिका नाम वाहीकास्तेषां वृत्तं सुनिन्दितम्” भा० कर्ण० २०० अ०।

वाह्य = न० वाहं चालनमर्हति यत्, वह–ण्यद्वा। १ अश्वादौ याने हेमच०। वहिर्मवः ष्यञ् दिलोपः। २ वहिर्भवे त्रि०। ३ एतत्परत्वे ओष्ठ्यादित्वमित्यन्ये।

वाह्येन्द्रिय = न० वाह्यपदार्थाना शब्ददीनष्ट ग्रहणयोम्यमिन्द्रियम् शाक०। शब्दादिग्राहके श्रोत्रादौ इन्द्रिये।

वाह्लि(ह्ली)क = पु०। वह–लिण् स्वार्थे क। १ देशभेदे भरतः। तद्देशजाते–कुङ्कुमे, २ हिङ्गुनि न० मेदि०।

वि = अव्य० वा–कि। १ नियागे, २ विशेषे, ३ निश्चये, ४ असहने, ५ निग्रहे, ६ हेतौ, ७ अव्याप्तौ, ८ ईषदर्थ, ९ परिभवे, १० अवलम्बने, ११ ज्ञाने मेदि० १२ विशेषेण गतौ, १३ आलस्ये, १४ पालने च शब्दच०। १५ विहगे पु० अमरः। गणरत्ने अस्यार्थभेदानुक्त्वा क्रमेणोदाहृतं यथा “वि नानावियोगातिशयभृशमोहेशवाङ्मृधपैशुन्यास्वरणभूषेषदर्थाभिमुख्यानवस्थाऽऽमुख्यस्थैर्य्यदर्शनेषु”। विचित्रं १ वियुक्तः २ विकीर्णः ३ वितटा नदी ४ विमनस्कः ५। विमुः ६ विवदति ७ विगायति ८ विस्मृतः ९ विभूषितः १० विलोपितः ११ विमुखः १२ विभ्रान्तः १३ विवृष्टः १४ विश्रान्तः विलोकयति १५”।

विंश = त्रि० विंशतेः पूरणः विंशति + ड तिलोपः। येन विंशतिसङ्ख्यापूर्य्यते तस्मिन्।

विंशक = न० विंशतेरवयवः ड्वुन् तिलोपः। विंशतिसंख्यायाम्। विंशतिरधिका दीयतेऽस्मित् शते आयो लाभो वृद्धिर्वाड्वुन्। प्रतिशतं विंशत्यधिकलाभादौ “सामुद्रा विंशकं शतम” इति याज्ञ०।

विंशति = स्त्री द्वे दशती नि०। १ द्विदशकसंख्यायां, तत्सङ्ख्यात च नित्यैकव०। सङ्ख्याविशेषार्थ, तु द्वि० ब० द्व०। द्वे विंशती त्रिम्नो विंशतयः इति।

विंशतिक = त्रि० विंशतिमर्हति कत्। विंशतिसंख्यायोग्ये।

विंशतितम = त्रि० विशतेः पूरणः तमप्। विंशशब्दार्थे स्त्रियां ङीप्।

विंशिन् = पु० विंशति + संख्यायां डिन् तिलोपः। विंशतिसंख्यायाम्।

विक = न० विरुद्धं विगतं वा कंजलं सुखं वा यत्र। सद्यःप्रसूताया गोःक्षीरे पेयूषे शब्दच०। २ विगतसुस्वे ३ विगतजले च त्रि०।

विकङ्कट = पु० वि + ककि–अटन्। गोक्षुरे शब्दमाला०। “विकङ्कटफलं पक्वं मधुरं सर्वदोषहृत्” भावप्र०।

विकङ्कत = पु० वि + ककि अतच्। (वंइची) १ वृक्षे अमरः २ अतिबलायां स्त्री राजनि०।

विकच = पु० विगतः कचा यस्य। १ क्षपणे बुद्धसंन्यासिनि। विशिष्टः कचो यत्र। ३ ध्वजे केतौ मेदि०। वि + कचअच्। ३ विकशिते अमरः। ६ ब०। ४ केशशून्ये त्रि० मेदि०। ५ महाश्रावणिकायाम् स्त्री राजनि०।

विकट = पु० वि + कट–अच्। १ विस्फोटके शब्दरत्ना० २ साकरुण्डवृक्षे च राजनि०। वि + कटच्। ३ विशाले त्रि० मेदि०। ४ विकृत त्रि० त्रिका० ५ सुन्दरे त्रि० विश्वः ६ दन्तुरे त्रि० घरणिकोषः ७ मायादेव्यां स्त्री त्रिकाण्डशेषः।

विकण्टक = पु० विगतः कण्टकोऽस्य। १ यवासे जटा०। २ शत्रुहीने त्रि०।

विकत्थन = न० वि + कत्थ–ल्युट्। आत्मश्लाघायाम् हेमच०। कर्त्तरि युच् तत्कर्त्तरि त्रि०।

विकर्त्तन = पु० वि + कृत ल्यु। १ सूर्य्ये २ अर्कवृक्षे च अमरः।

विकर = पु० वि + कृ–अच्। १ रोगे शब्दच०। २ लारस्वतदेशे हेमच०

विकर्म्मस्थ = पु० त्रि० विकर्मणि निन्दिताचारे तिष्ठति स्थाक। कुत्सिताचाररते विष्णुपु०।

विकर्ष = पु० वि + कृष–कर्मणि घञ्। शरे वाणे त्रिका०।

विकल = त्रि० विरुद्धा कला यस्य। १ विह्वले, २ स्वभावहीने त्रिका०। ३ कलाहीने च। ४ ऋतुमत्यां स्त्रियां स्त्री रत्नमा० वा ङीष। विभक्ता कला यया प्रा० व० ब०। ५ कलाषष्टिभागे स्त्री “विकलानां कला षष्ट्या” ज्यो० त०।

विकलाङ्ग = त्रि० स्वभावहीनमङ्गमस्य। स्वभावतो न्यूनाधिकाङ्गे अमरः।

विकल्प = पु० विभिन्नः कल्पः। १ म्रान्तिज्ञाने २ कल्पने मेदि० ३ विविधकल्पने ४ संसर्गारोपणे, ५ पक्षतः प्राप्तौ च। विकल्पश्च द्विविधः व्यवस्थितः ऐच्छिकश्च। सोऽप्याकाङ्क्षाविरहे युक्तः तथा च भविष्ये “स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूरणे सति”। इच्छाविकल्पेऽष्टदोषः यथा “प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पना। प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता”। ब्रीहिभिर्यजेत यवैर्यजेत” इति श्रूयते। तत्र ब्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः। अप्रतीतयवाप्रमाण्यपरिकल्पनम्। इदन्तु पूर्वस्मात् पृथक् वाक्यम् अन्यथा ममुच्चयेऽपि यागसिद्धिः स्यात्। अतएव विकल्पे न उभयम् शास्त्रार्थ इत्युक्तम्। प्रयोगान्तरे यवे उपादीयमाने परित्यक्तयवप्रामाण्योज्जीवनं स्वीकृतयवाप्रामाण्यहानिरिति चत्वारो दोषाः। एवं व्रीहावपि चत्वारः इत्यष्टौ दोषा इच्छाविकल्पे। तथा चोक्तम्। “एवमेवाष्टदोषाश्च यद् ब्रीहियववाक्ययोः। विकल्प आश्रितस्तत्र गतिरन्था न विद्यते” इति। विविधं कल्प्यते इति विकल्पः। तस्मादष्टदोषभिया उपोष्य द्वे तिथी इत्यत्र न इच्छाविकल्पः किन्तु व्यवस्थितविकल्पः” एता० त० रघु०। पातञ्जलोक्तेः ६ चित्तवृत्तिभेदे यथा “शब्दज्ञानानुपातीवस्तुशून्यो विकल्पः” सू०। “स न प्रमाणोपारोही न विप र्य्ययोपारोही वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्न्थ निबन्धनो व्यवहारो दृश्यते। तद् यथा चैतन्य पुरुषस्य स्वरूपमिति यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते भवति च व्यपदेशे वृत्तिः यथा चैत्रस्य गौरिति। तथा प्रतिषिद्धवस्तुधर्मा विष्क्रियः पुरुषः। तिष्ठति वाणः स्थास्यति स्थित इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथानुत्पात्तधर्मा पुरुष इति उत्पत्तिधर्मखाभावमात्रमवगम्यते न पुरुषान्वयी धर्मः तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति। भा० “ननु शब्दज्ञानानुपाती चेदागमपमाणान्तर्गतो विकल्प प्रसज्येत निर्वस्तुकत्वे वा विपर्य्ययः स्यादित्यत” आह। स नेति। न प्रमाणविपर्य्ययान्तर्गतः कस्माद् यतो वस्तुशून्यत्वेपीति प्रमाणान्तर्गतिं निषेधयति। शब्दज्ञानमाहात्म्यनिबन्धन इति विपर्य्ययान्तर्गतिम्”। तदुक्तं भवति क्वचिदभेदे भेदमारोपयति क्वचित् पुनर्भिन्नानामभेदं ततो भेदस्याभेदस्य च वस्तुतोऽभावात् तदाभासो विकल्पो न प्रमाणं नापि विपर्य्ययो व्यवहाराविसंवादादिति। शास्त्रप्रसिद्धमुदाहरणमाह तद् यथेति। किं विशेष्यं केन व्यपदिश्यते विशेष्यते, नाभेदे विशेष्यविशेषणभावो न हि गवा गौर्विशेष्यते। किन्तु भिन्नेन चैत्रेण तदिदामाह। भवति च व्यपदेशे वृत्तिः। व्यापदेश्यव्यापदेशकयोर्भावो व्यपदेशे विशेषणविशेष्यभाव इति यावत् तस्मिन् वृत्तिर्वाक्यस्य, यथा चैत्रस्य गौरिति। शास्त्रीयमेवोदाहरणान्तरं समुच्चिनीति तथेति प्रतिषिद्धवस्तुनः पृथिव्यादेः धर्मः परिस्पन्दो यस्य स तथोक्तः कोऽसौ निष्क्रियः पुरुषः। न खलु साङ्ख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तु धर्मो येन पुरुषो विशेष्येतेत्यर्थः। क्वचित् पाठं प्रतिमिद्धवस्तुधर्मा इति तस्यार्थः प्रतिषेधव्याप्त्या प्रतिषिद्धाभावो न वस्तुधर्माणां तद्व्यप्यता भावाभावयोरसम्ब न्धाटथ च तथा प्रतीतिरिति। लौकिकमुदाहरणमाह तिष्ठति वाण इति। पचति भिनत्तीत्यत्र पूर्वापरीभूतया पाकादिक्रिययेव स्थानक्रियया वाणाद्भिन्नया वाणस्य व्यपदेश इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिरेव तावत् कल्पिता तस्या अभावरूपत्वम्। तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः। अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु ग म्यते न पुरुषाद् व्यतिरिक्तो धर्मः कश्चिदित्युदाहरणान्तरमाह। तथानुत्पत्तिधर्मेति। प्रमाणविपर्य्ययाभ्यामन्या न विकल्प वृत्तिरितिवादिनो वहवः प्रतिपेदिरे तत्पतिबोधनायोदाहरणप्रपञ्च” विव०। ७ ज्ञाने प्रकारतारूपविषयताभेदे यथा सविकल्पकं सप्रकारताकं ज्ञानम्। निर्विकल्पकं निष्प्रकारताकं ज्ञानमित्मादि ८ वैचित्र्ये तस्य क्वचित् सत्त्वं क्वचिदसत्त्वम्। यथा “साध्यदृष्टान्तयोर्धर्मविकल्पात्” गौ० सू० वृत्तौ दृश्यम्।

विकल्पसम = पु० गौ० उक्ते जात्युत्तरभेदे। स च कस्य चित् धर्मस्य क्वचिद्व्यभिचारदर्शनेन धर्मत्वाविशेषात् प्रकृतहेतोः प्रकृतसाध्यं प्रति व्यभिचारापादनरूपः यथा शब्दानित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचारदर्शनात् गुरुत्वस्यानित्यत्वव्यभिचारदर्शनात् अनित्यत्वस्यमूर्त्तत्वव्यभिचारदर्शनात् धर्मत्वाविशेषात् कृतकत्वमप्यनित्यत्वं व्यभिचरेदिति” वृत्तिः। वा० भाष्ये तु “साधनधर्मयुक्ते दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो विकल्पसमः। यथा क्रियाहेतुगुणयुक्तं किञ्चिद् गुरु यथा लोष्टः किञ्चिद् लघु यथा वायुः। एवं कियाहेतुगुणयुक्तं किञ्चित् क्रियावत् स्यात् यथा लोष्टः। किञ्चिदक्रियं यथात्मा। विशेषो वा वाच्यः” इत्युक्तम्।

विकश्व(स्व)र = त्रि० वि + कश(स)–ष्वरच्। १ प्रकाशशीले अमरः २ रक्तपुनर्नवायाञ्च राजनि०।

विकषा(सा) = स्त्री विशेषेण कष्यस्यतेऽसौ कष(सा) घञर्थ क। १ मञ्जिष्ठायाम् अमरः। २ मांसरोहिण्यां राजनि०।

विक(शि)सित = त्रि० वि + कश(स)–क्त। प्रकाशयुक्ते।

विकार = पु० वि + कृ घञ्। प्रकृतेरन्यरूपे परिणामे। “विकारश्च यदात्मकं द्रव्यं मृद्वा सुवर्णं वा तस्यात्मगोऽन्यये पूर्वो व्यूहो निवर्त्तते व्यूहान्तरं वोपयते। तं विकारमाचक्ष्महे” वा० भा० २। २४६ सूत्रे उक्तः। स्वरूपत्यागेन रूपान्तरापत्तिरूपः। स्वरूपस्य विनाशे अविनाशे वा द्रव्यान्तरारम्भकत्वरूपः यथा दुग्धादेर्दध्यारम्भकत्वम् वीजादेर्वृक्षारम्भकत्वरूपो वा” गौ० सू० वृत्तावुक्तो वा। स्वरूपनाशोऽपि विकारो भावविकारशब्दे दृश्यः। काष्ठादेरवयवनाशेन तस्योत्पादनात् तस्यापि काष्ठविकार एव कर्मन्शब्दे विकार्य्यनिरूपणे दृश्यम्।

विकार्य्य = त्रि० वि + कृ–ण्यत्। १ विकारजन्ये द्रव्ये व्याकरणोक्ते कर्मभेदे कर्मन्शब्दे १७३१ पृ० दृश्यम्।

विकाल = पु० विरुद्धः दैवर्पत्रादिकर्मानर्हः कालः। १ राक्षसी नामकवेलायाम् २ दिवसान्त्यकाले त्रिका०।

विकालिका = स्त्री विज्ञातः कालोऽगया कप् अत–इत्त्वम्। कावज्ञापके घटीवन्त्रभेदे (ता~वी) ताम्यां त्रिका०।

विकाश = न० विरुद्धः काशः। १ रहसि २ विशिष्टे काशे प्रकाशे च अमरः।

विकाशिन् = त्रि० वि + काश–णिनि। प्रकाशशीले विकश्वरे अमरः।

विकिर = पुंस्त्री० वि + कॄ–क। १ विहगे अमरः स्त्रियां ङीष्। २ वृक्षे त्रिका०। विकीर्य्यते घञर्थे क। ३ विघ्नोपशान्तये उत्क्षिप्तश्वेतसर्षपादौ “लाजचन्दनसिद्धार्थभस्मदूर्वाकुशाक्षताः। विकिरा इति सन्दिष्टा सर्वविघ्नौथनाशनाः” तन्त्रसा०। ४ अग्निदग्धादीनां पित्तनिर्वपने “असंकृतप्रमीतानां योगिनां कुलयोपिताम्। उच्छिष्टं भागधेयं स्यात् दर्मेषु विकिरश्च यः” श्रा० त०। “पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते। स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते” आ० त०।

विकिरण = न० वि + कॄ–ल्युट् नि० इत् रपरत्वम्। १ क्षेपणे २ हिंसने, २ ज्ञाने च। ५ अर्कवृक्षे पु० अमर। ६ ब०। ५ किरणशून्ये त्रि०।

विकीर्ण = त्रि० वि + कृ–क्त। विक्षिप्तं।

विकुर्वाण = त्रि० वि + कृ शानच्। हर्षहेतुना जातरौमञ्चादौ अमरः। २ विकृतिप्राप्ते च।

विकुक्षि = पु० सूर्य्यवंश्ये इक्ष्वाकुराजपुत्रे नृपभेदे हरिवं०। ११ अ०।

विकुस्र = पु० वि + कुस–रक्। चन्द्रे उणादिकोषः।

विकूणिका = स्त्री वि + कू–रअच् स्वार्थे क अत इत्त्वम्। नासायां हेमच०।

विकृत = त्रि० वि + कृ–क्त। १ वीमत्से २ मलिनीकृते, ३ रोगयुक्ते ४ विकारयुते। “ह्रोमानेर्व्यादिमिर्यत्र वोच्यते स्वं विवक्षितम। व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्नुधाः” उज्वलमण्युक्ते ५ भावभेदे न० प्रभवादिषु ६ चतुर्विंशवर्षे पु० प्रभवादिशब्दे ४४७४ पृ० तदानयनं दृश्यम्। “सर्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्च जायते। शिरोवक्षोऽक्षिरोगास पापाद्धि विकृते जनाः” ज्यो० त०। नुरुवर्षशब्दे २६२२ पृ० दृश्यम्।

विकृति = स्त्री वि + कृ–क्तिन् वा। १ विकारशब्दार्थे अमरः। क्तिच् नित्यं ङीप्। २ रोगे २ डिम्बे हेमच०

विकेशी = स्त्री विगतः केशो यस्याः ङीष्। १ केशशून्यायां स्त्रिया २ पटवर्त्तौ च धरणिः। ३ महीरूपस्य शिवस्य पत्न्याम् “सूर्य्यो जलं मही वह्निर्वायुराकाशनेव च। दीक्षितो ब्राह्मणः सोमः इत्येतास्तनकः क्रमात्। सुवर्चला तथैवोषा विकेशी चापरा शिवा। स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम्। स्वर्व्यादीनामिमाः पत्न्यो रुद्राद्यंर्नामभिः सह” मार्क० पु०।

विकोक = पु० वृकासुरपुत्रभेदे कल्किन० २१ अध्यावे दृश्यम्।

विक्क = पु० विक्कणति वि + क्वण–ड। करिशावके त्रिका०।

विक्रम = पु० विशेषेण क्रासति वि + क्रम–अच्। १ त्रिविक्रमे, २ विष्णौ, “मेधावी विक्रमः क्रमः” विष्णुस०। ३ विक्रमादित्यनृपे “रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्विदाभरणम्। भावे घञ्। ४ क्रमणे मेदि०। करणे घञ्। ५ चरणे, त्रिविक्रमः। ६ शौर्य्यातिशये, ७ मामर्थ्ये च राजनि०। षष्टिवर्षमध्ये “लवणम् मधु गन्धश्च महार्घं विक्रमे प्रिये!” इत्युक्तलक्षणे ८ वत्सरभेदे मेदि०। प्रभवादिशब्दे ४४७४ पृ० दृश्यम्।

विक्रमादित्य = पु० विक्रमेणादित्य इव। स्वनामख्याते नृपभेदे विक्रमार्कोऽप्यत्र “नो दुष्टः श्रुत एव वा क्षितितले श्रीविक्रमार्कोपमः” मिता०।

विक्रमिन् = पु० वि + क्रम–णिनि। १ सिंहे, राजनि० २ विष्णौ विष्णुपु०। ३ विक्रमयुक्ते त्रि० स्त्रियां ङीप्।

विक्रय = पु० वि + क्री–अच्। मूल्यग्रहणेन परस्वत्वापादके व्यापारे अमरः। विक्रये विहिताविहितनक्षत्राणि यथा “यमाहिशक्राग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे प्रशस्ताः। पौष्णाग्नि चित्राशतविन्दुवाताः क्रये हिता वि क्रयणे निषिद्धाः”। ज्योतिः सारः। क्रयविक्रयनिर्णयो यथा “मूल्यं दास्यामीति नियमं कृत्वा ग्रहणादपि क्रयसिद्धिः। तथाच विवादचिन्तामणौ कात्यायनः “पण्यं गृहीत्वा यो मूल्यमदत्त्वैव दिशं व्रजेत्। ऋतुत्रयस्योपरिष्टात् तद्धनं वृद्धिमाप्नुयात्”। अतएव वृहस्पतिः “गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम्। पत्रं कारयते यत्तुक्रयलेख्यं तदुच्यते”। क्रयविक्रये समयविशेषाभ्यन्तरे पश्चात्तापादसिद्धिः। यथाह मनुः “क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहे तद्द्रव्यं दद्याच्चैवाददीत वा”। एतद्याज्ञवल्क्योक्तेतरपरम्। यथा याज्ञवल्क्य “दशैकपञ्चसप्ताहमासत्र्यहार्द्धसासिकम्। वीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणं। अत्र वृहस्पतिः “अतोऽर्वाक् पण्यदोषस्तु यदि संजायते क्वचित्। विक्रेतुः प्रतिदेयन्तत् क्रेता मूल्यमवाप्नुयात्”। अतस्तद्द्रव्यपरीक्षणकालात्। कात्यायनः “अविज्ञातन्तु यत् क्रीतं दुष्टं पश्चाद्विभावितम्। क्रेत्रा तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु”। काले प्रागुक्तपरीक्षाकालाभ्यन्तरे। परीक्षिते तु वृह- स्पतिः “परीक्षेत स्वयं पण्यं अन्येषाञ्च प्रदर्शयेत। परीक्षितं बहुमत गृहीत्वा न पुनस्त्यजेत्”। अत्र विशेषयति नारदः “क्रीत्वा मूल्येन यो द्रव्यं दुषक्रीतं मन्यते क्रयी। विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यविक्षतम्। द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्रिंशांशमाहरेत्। द्विगुणन्तु तृतीयेऽह्नि परतः क्रेतुरेव तत्”। आहरेत् दद्यात् विक्रेत्रे इति शेषः। द्विगुणं त्रिंशाशस्य। याज्ञवल्क्यः “राजदैवोपघातेन पण्ये दोषमुपागते। हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः”। नारदः “उपहन्येत वा पण्यं दह्येतापह्रियेत वा। विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः। दीयमानं न गृह्णाति क्रीतं पण्यन्तु यः क्रयी। स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः” प्राय० त०। “न्यासं कृत्वा परत्राधिं कृत्वा बाधिं करोति च। विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा”। न्यासं कृत्वा आधिं करोति आधिं कृत्वा वा विक्रयं करोति। विक्रयपदं सत्त्वध्वं सकत्वात् दानं लक्षयति तत्र परा क्रिया सिद्धेत्यर्थः। एवञ्च विक्रेतृदात्रोर्मरणादिना आध्यनुद्धारे विक्रयदाने तत्कर्त्तृतुल्यस्वत्वजननात् तत्र तत्क्रेतृप्रतिग्रहीतृभ्यामाध्युद्धारः कार्य्यः इति। न चं “स्थावरस्य समस्तस्य गोत्रसाधारणस्य च। नैकः कुर्य्यात् क्रयं दानं परस्परमतं विना। विभक्ता अविभक्ता वा सपिण्डाः स्थावरे समाः। एको ह्यनीशः सर्वत्र दानाधम नविक्रये” इति व्यासवचनाभ्यामेकस्य दानबन्धकविक्रयानधिकारः इति वाच्यं यथेष्टविनियोगार्हत्वरूपस्य स्वत्वस्य द्रव्यान्तर इवात्राप्यविशेषात् वचनञ्च स्वामित्वेन दुर्वृत्तपुरुषगाचरविक्रयादिना कुटुम्बविरोधादधर्मज्ञापनार्थनिषेधकं न तु विक्रयाद्यनिष्पत्त्यर्थमिति” दायभागः। एवञ्च “स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया” इति स्थावरस्य केवलविक्रयप्रतिषेधात् एवं “भूमिं यः प्रतिगृह्णातीत्यादिवचने दानप्रशंसादर्शनाच्च विक्रयेऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण स्थावरविक्रय इति” विज्ञानेश्वरः। वस्तुतस्तु स्थावरविक्रयनिषेधः अविभक्तस्थावरविषयः। तत्रापि यदि विक्रयं विना अवस्थितिर्न भवति तदा विक्रयः कर्त्तव्यः। पूर्वपुरुषार्जितनष्टोद्धारे विशेषयति मिताक्षरायाम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम्। असम्भूय सुतान् सर्वान् न दानं न च० विक्रयः” इ- यादि। अस्यापवादमाह “एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्। आषत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः” दायतत्त्वे रघु०। द्रव्यविशेषविक्रयनिषेधो यथा स्मृतिः “विक्रीणन् मद्यमांसानि ह्यभक्ष्यस्य च भक्षणम्। कुर्वन्नगग्यागमनं शूद्रः षतति तत्क्षणात्। कपिलाक्षीरपानेन ब्राह्मणीगमनेन च। वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत्” कालिकापु०। “विक्रयं सर्ववस्तूनां कुर्वन् शूद्रो न दोषभाक्। मधु चर्म सुरां लाक्षां त्यक्त्वा मांसञ्च पञ्चमम्” मनुः। “सद्यः पतति लौहेन लाक्षया लवणेन च। त्रहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात्। अशक्तौ भेषजस्यार्थे यज्ञहेतोस्तथैव च। यद्यवश्यन्तु विक्रेयास्तिला घान्येन तत्समाः” आह्नि० त०। “गवां विक्रयकारी च गवां गोष्ठे क्रमिर्भवेत्” इति यमवचनम्। “गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयाः। तडामारामदाराणामपत्यस्य च विक्रयः। भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः” मनुः।

विक्रयानुशय = पु० विक्रयस्यानुशयः पश्चात्तापः। विक्रीतपदार्थस्य परावृत्तिफलके १ अनुतापे तन्निमित्ते २ विवादभेदे

विक्रयिक = पु० विक्रयः अस्त्यस्य ठन्। विक्रेतरि अमरः।

विक्रयिन् = त्रि० वि + क्री–ताच्छील्ये इति। विक्रयशीले शब्दच० स्त्रियां ङीप्।

विक्रान्त = पु० वि + क्रम–क्त। १ सिंहे राजनि० २ शूरे च अमरः। भावे क्त। ३ विक्रमे।

विक्रिया = स्त्री वि + कृ–भावे श। १ विकारे अन्यथास्थितस्य वस्तुनोऽन्यथा परिणामे।

विक्रीयामम्प्रदान = न० विक्रीय न सम्प्रदानं क्रेत्रे यत्र। अष्टादशविवादान्तर्गते विवादविशेषे तत्स्वरूपादिकं वीरमि० उक्तं यथा “अथ विक्रीयासम्प्रदानाख्यव्यवहारपदम्। तत्स्वरूपमाह नारदः “विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते। विक्रीयासम्प्रदानं तद्विवादपदमुच्यते इति” तत्र विक्रेयद्रव्यस्य द्वैविध्यषड्विधत्वे क्रमेणाह स एव “लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा। षड्विधस्तस्य च बुधैर्दानादानविधिः स्पृतः। गणितन्तुलिमं मेयं क्रियया रूपतः श्रियेति”। दानं विक्रयः आदानं क्रयः। गणयित्वा यस्य क्रयः तद्गणितम्। गणितं संख्येयं क्रमुकफलादिकम् एवं तुलिमादिकं तुलिमन्तुलाधृतं हेमचन्दनादिकम्। मेयं व्रीह्यादिकम् क्रियया वाहनदोहनादिरूपया युक्तमिति शेषः। रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि। श्रिया दीप्त्या युक्तं पद्मरागादिकम्। यदा विक्रेता मूल्यं गृहीत्वा याचमानाय क्रेत्रे विक्रीतं वस्तु न ददाति तदा यतकर्त्तव्यं तदाह स एव “विक्रीय पण्यं मल्येन क्रेतुर्यो न प्रयच्छति। स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलमिति” यो गृहीतमूल्योविक्रेता अजातानुशयाय क्रेत्रे प्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्यावरात्मकं तदा क्षयेण सहितमसौ दाप्यः। यदा तु जङ्गमात्मकं तदा क्रियाफलेन सहितम् इत्यर्थः। विक्रयानन्तरं जात उपभोगोऽत्र क्षयः क्रियाफलं दोहनादिक्रियाकलं क्षीरादिकम्। इदञ्च क्रयकालापेक्षया अर्पणकाले मूल्याधिक्ये वेदितव्यम्। मूल्यह्रासे त्वन्यथाभिधानात्। तथा च स एव “अर्थश्चेदपहीयेत सोदयम्पण्यमावहेदिति”। अर्वाक् चेदपचीयेतेति वल्पतरौ पाठः। अर्वाक् विक्रीतस्य क्रेत्रे समर्पणात् पूर्वं अपचीयेत हीनमूल्यं भवेत्सोदयम्पण्यमावहेत्। विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पणसमये मूल्यह्रासवशाद्यावदुपचयसहितं लभ्यते तावद्दद्यादित्यर्थः। यदा तु मूल्यसाम्यं तदा पण्योपचय रूपस्यासम्भवात् “निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति” वचनोक्त वृद्धिसहितम्पण्यं दाप्यः। अतएव याज्ञवल्क्यः “गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति। सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिनागते” इति। गृहीतमूल्यम्पण्यं विक्रेता यदि प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति तच्च पण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरे अल्पमूल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेता क्रेत्रे दापनीयः। यदा मूल्यह्रासकृतः पण्यस्वोदयो नास्ति किन्तु क्रयकाले यावता मूल्येन लभ्यं यावत्पण्यमिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय तस्मिन् देशे विक्रीतस्य यो लाभस्तेगोदयेन सहितं दापनीयः वचनत्रयस्यार्थः। चतुर्थस्य तु यो देशान्तरात् क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्य विक्रये यो लाभस्तेन सहितं तत्पण्यं दापनीय इत्यर्थः। देशान्तरलाभसहितपण्यदानन्न केवलमाद्यंशसाम्य एव किन्तु मूल्यस्य वृद्धौ क्षयेऽपोत्याह नारदः “स्थायिनामेष नियमोदिग्लामं दिग्विचारिणामिति”। स्थायिनां विक्रेतृदेशख्यायिनाम् एष नियमः ख्यावरस्य क्षयं दाप्य इत्यादिवचनोक्तो नियम इत्यर्थः। विष्णुर्विक्रेतुर्दण्डमप्याह “गृहीतमूल्यं यः पण्यं क्रतुर्नैव दद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः” इति। एतच्चानुशयरहिततृप्तविक्रेतृविषयमिति मदनरत्ने। यस्तु विक्रीयानुशयवशान्नार्पयति यश्च क्रीत्वाऽनुशयवशान्न गृह्णाति तौ प्रत्याह कात्यायनः “क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम्। स मूल्याद्दशभानन्तु दत्त्वा स्वन्द्रव्यमाप्नुयात्”। अप्राप्तेऽथ क्रियाकाले कृते नैव प्रदापयेत्। एष धर्मो दशाहात्तु परतोऽनुशयो नत्विति”। अदूषितं जलादिनेति शेषः। दोह्यवाह्यादिपण्यस्य दोहनवाहनादिरूपः कालोऽल्पक्रियाकालस्तस्मिन्नाप्ते सति अग्रहणेऽदाने वा कृते सति न दशमभानं प्रदापयेत् किन्तु तमदत्त्वैव स्वीयं द्रव्यं प्राप्नुयादिति। एष धर्मो दशाहात्प्राग्वे दितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः। विक्रीयासम्प्रयच्छती यद्विक्रीतं पण्यं विक्रेतुः पाश्वं स्थितं तस्य यदिनाशः स्यात्तदा विक्रेतुरेव हानिरित्याह याज्ञवल्क्यः “राजदैवोपघातेन पण्ये दोषमुपागते। हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः” इति। अत्र याचितस्येति विशेषणोपादानान् याचनाभावे न विक्रेतुर्हानिरित्यर्थाद्गम्यते। नारदोऽपि “उपहग्येत वा पण्यं दह्येतापह्रियेत वा। विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः” इति। यथा याचितस्वाप्रयच्छतो विक्रोगृहानिस्तथा दीयमानं पण्यमगृह्णतः क्नेतुरपीत्याह ल एव “दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्रयो। स एवास्य भवेद्दोषी विक्रेतुर्योऽप्रयच्छतः” इति। अप्रयच्छतः विक्रेतुर्या दाषः स एवास्य भवेदित्यन्ययः। क्रेतुर्दोषाभिधानस्य फल पण्यस्य मूल्यं क्रेत्रे विक्रेत्रा न प्रत्यर्पणीयमिति। दीयमानन्न नृह्णातीति वदता दीयवातग्रहणे न मूल्यहानिरिति दर्शितम्। क्रयानन्तरं क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं जातश्चौराद्युपद्रवस्तत्र द्वयोः समा हानिः। क्रेतृविक्रेत्रोरुभयोरपि याचनानर्पणशैथिल्येन लापराधत्वादित्युक्तं देवलभट्टैः स्मृतिचन्द्रिकायाम्। याज्ञवल्क्योऽपि सानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति” क्रेतृदोषः दायमानस्याग्रहणम्। यत्र पुनर्जातानुशयः क्रेता विक्रेत्रा दीयमानञ्च गृह्णाति तत्राप्याह ना- रदः “दीयमानन्न गृह्णाति क्रीत्वा पण्यं च यः क्रयी। विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयादिति”। क्रयी जातानुशय इति शेषः। याज्ञवल्क्योऽपि “विक्रीतमपि विक्रेयं पूर्वक्रेतर्य्यगृह्णतीति”। यस्त्वदुष्टं पण्यं दर्शयित्वा सदोषं विक्रीणीते यश्चान्यहस्ते विक्रीतं तत्क्रेत्रनुशयाभाव एवान्यत्र विक्रीणीते तयोः समानोदण्ड इत्याह नारदः “निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति। स मूल्याद्द्विगुणं दाप्यो विनयं तावदेव तु। तथान्यहस्ते विक्रीय योऽग्यस्मै तत्प्रयच्छति। द्रव्यन्तद्द्विगुणं दाप्यो विनयं तावदेव त्विति”। याज्ञवल्क्योऽपि “अन्थहस्ते च विक्रीतं दुष्टं वाऽदुष्ट वद्यदि। विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो भवेदिति” बुद्धिपूर्वविषयमेतत्। “ज्ञात्वा सदोषं यः पण्यं विक्रीणीते विचक्षणः। तदैव द्विगुणं दाप्यस्तत्समं विनयं तथेति” वृहस्पतिनोक्तत्वात्। अबुद्धिपूर्वक विक्रये तु क्रयपरावर्त्तनमेव। अन्यत्रापि विषयविशेषे परावर्त्तनमाह वृहस्पतिः “मत्तोन्मत्तेन विक्रीतं हीनमुल्यं भयेन वा। अस्वतन्त्रेण मूढेन त्याज्यन्तस्य पुनर्भवेदिति”। एतत्सर्वं दत्तमूल्ये पण्ये द्रष्टव्यम्। अतएव नारदः। “दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्त्तितः” इति। यत्र पुनर्मूल्यं न दत्तं तत्रापि स एवाह “अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः” इति। अदत्तमूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्तनीयमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ न कणिद्दोष इत्यर्थः। यत्र पुनर्वाङ्मात्रक्रयपरिहारार्थं विक्रेतुर्हस्ते क्रेत्रा किञ्चिद्द्रव्यं दत्तं तत्र क्रेतृदोष वशेन क्रयासिद्दौ त्वाह व्यासः “सत्यङ्गारं च यो दत्त्वा यथाकालं न दृश्यते। पण्यं भवेन्निसृष्टन्तद्दोयमानमगृह्णतः” इति। निसृष्टं भवेत् उत्सृष्टं भवेदित्यर्थः। अत्र पण्यद्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गेऽभिमतः। अन्यथा वाङ्मात्रक्रयकर्तृतुल्यत्वेन विक्रेतुः सत्यङ्कारद्रव्यग्राहकत्वकृतमन्यत्र विक्रयणाद्यपराधनिमित्तकं सत्यङ्क रद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात्। अत्रापि विक्रीतमविक्रेयनित्यनुसन्धेयम्। अस्मिञ्चेव विषये विक्रेतृदोषवशेन क्रयासिद्धौ त्वाह याज्ञबलक्यः “सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति” सत्यङ्कारः सत्यापनं कृतस्य क्रयस्य सत्यताकरणमिति यावत्। “क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्” इत्यमर कोषःभिधानात्। सत्यङ्क राय कृतं समार्पतं सत्यङ्कारकृतं व्रयं रत्यं कर्त्तुं यद्विक्रेतृहस्ते कृतमित्यर्थः”।

विक्रेय = त्रि० वि + व्री–यत्। विक्रयणीये पदार्थे।

विक्लव = त्रि० वि + क्लु–अच्। १ व्यावुलभूते अमरः। भावे अप् २ व्याकुरत्वे

विक्लित्ति = स्त्री वि + क्लिद–क्तिन्। जलतेजःसंयोग भ्यामवयवशैष्टिल्ये पूर्वारम्भकसंयोननाशानन्तरशिथिलसंयोगा पत्तौ।

विक्लिन्न = त्रि० वि + क्लिद–क्त। १ आर्द्रे २ शीर्णे ३ जीर्णे च मेदि०। ४ विक्लेदयुक्ते।

विक्षाव = पु० वि + क्षु घञ्। १ शब्दे अमरः। २ कासादिरोगकृतशब्दे च वैद्यकम्।

विक्षिप्त = त्रि० वि + क्षिप–क्त। १ विशेषेण क्षिप्ते २ योगशास्त्रोक्ते चित्तस्य भूमिभेदे न०। यथोक्तं पातञ्जलभाष्यविवरणयोः “क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनी भूतः समाधिर्न योगपक्षे वर्त्तते” भा०। “क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तमस्थिरं, मूढन्तु तमःसमुद्रेकान्निद्रावृत्तिमत्। विक्षिप्तं क्षिप्ताद्विशिष्टं विक्षिप्तं विशेषोऽत्र स्थेसबहुलस्य कादाचित्कः स्थेमा सा चास्याःस्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्तरायजनिता वा” विव०।

विक्षीर = पु० विशिष्टं विगतं वा क्षीरमस्य। १ अर्कवृक्षे राजनि० २ विगतक्षीरे त्रि०।

विक्षेप = पु० वि + क्षिप–घञ्। १ त्यागे २ प्रेरणे ३ दूरीकरणे च। “चित्तस्य विक्षेपा नवविधाः पात० सूत्रभाष्ययोर्दर्शितास्ते च चित्तविक्षेपशब्दे २९४१ पृ० अन्तरायशब्दे च दृश्याः। वेदान्वसिद्धचित्तविक्षेपाः २०० पृ० उक्ताः। विमण्डले यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद् यत् तिर्य्यगन्तरं स विक्षेपः” सि० शि० उक्ते ४ शरे च। “भूषाणामर्द्धरचना वृथा विष्वगवेक्षणम्। रहस्याख्यानमीषच्च विक्षेपी दयितानिके” सा० द० उक्ते स्त्रीणां ५ सत्त्वजालङ्कारभेदे ६ कथाविच्छेदरूपे मिग्रहस्थानभेदे “कार्य्यव्यासङ्गात् कथाविच्छेदो विक्षेपः” गौ० सृ० “यत्र कर्त्तव्यं व्यासज्य कथां व्यवच्छिनत्ति। इदं मे करणीयं विद्यते तस्मिन्नवसिते कथयिष्यामि इति विक्षेपो नाम निग्रहस्थानम्। एकनिग्रहावसानायां कथायां स्वयमेव कथान्तरं प्रतिपद्यते इति” वा० भा०। “असम्भवत्कालान्तरकत्वेनारोपितं कार्य्यं व्यासङ्गमुद्भाव्य कथाविच्छेदस्तथा” वृत्तिः।

विक्षेपशक्ति = स्त्री विक्षेपस्य जनिका शक्तिः। वेदान्तोक्तेअविद्याशक्तिभेदे। “विक्षेपशक्तिस्तु यथा रज्ज्वज्ञानं स्वावृतरज्ज्वौ स्वशक्त्या सर्पादिकमुद्भावयति एवमज्ञानमपि स्वावृतात्मनि स्वशक्त्या आकाशादिप्रपञ्चमुद्भावयति तादृशं सामर्थ्यम्। तदुक्तम् “विक्षपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं लगत्सृजेदिति”। येदान्तसा०।

विख = त्रि० विगता नासिका यस्य खादेशः। गतनासिके। अमरः। ख्यादेशः। विख्योऽप्यत्र त्रिका०।

विखुर = पुंस्त्री० १ राक्षसे त्रिका० स्त्रियां ङीष्। २ चौरे संक्षिप्त०

विख्यात = विशेषेण ख्यातः प्रसिद्धः वि + ख्या–क्त। प्रसिद्धे

विगणन = न० विशेषेण गणनम् गण–ल्युट्। ऋणशोधनार्थे सङ्ख्यागणने।

विगत = त्रि० वि + गम–क्त। १ प्रमादरहिते अमरः। २ विशेषगते रुद्र० ३ अपगते च हेमच०। ६ त०। ४ खगगतौ न०। “विगतं विगतम्” भट्टिः।

विगतार्त्तवा = स्त्री विगतमार्त्तवं रजो यस्याः। गतरजस्कायां स्त्रियाम् शब्दरत्ना०।

विगन्धक = पु० विरुद्धः गन्धोऽस्य कप्। १ इङ्गुदीरुवृक्षे राजनि०। २ हपुषायां स्त्री० टापि अत इत्त्वम्।

विगम = पु० वि + गम–घञ्। १ नाशे, २ अपाये च।

विगर्हण = न० वि + गर्ह–ल्युट्। निन्दने।

विगर्हित = त्रि० वि + गर्ह–क्त। १ निन्दिते २ निषिद्धे च। भावे–क्त। ३ निन्दायाम् न०।

विगाढ = त्रि० वि + गाह–क्त। १ स्नाते, २ कृतावगाहने च।

विगान = न० वि + गै–ल्युट्। निन्दायाम् हेमच०।

विगीत = त्रि० वि + गै–क्त। निन्दिते।

विगीति = स्त्री वि + गै–क्तिन्। निन्दायाम्।

विगुण = त्रि० विरुद्धो गुणोऽस्य। गुणरहिते।

विगूढ = त्रि० वि + गुह क्त। १ गर्हिते, २ गुप्ते च मेदि०।

विगृहीत = त्रि० वि + ग्रह–क्त। १ गृहीते, व्याकरणोक्ते विग्रहवाक्यस्थे ३ पदे च।

विग्र = त्रि० विगता नासिकाऽस्य ग्रादेशः। विगतनासिके अमरः

विग्रह = पु० वि + ग्रह–अच्। १ देहे, २ विस्तारे, ३ युद्धे पुंन० अमरः। ४ समासादिवृत्तिसमानानार्थकवाक्यभेदे, ५ विशेषज्ञाने च “अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः” हरि०।

विघटिका = स्त्री विभक्ता घटिका यथा प्रा० व०। घटिकाषष्ठिभागे पलात्मके काले राजनि०। वि + घट–ण्व्यल्। २ वियोजते त्रि०

विघटित = त्रि० वि + घट–क्त। १ वियोजिते २ विशेषेण रचिते च

विघट्टित = त्रि० वि + घट्ट–क्त। १ चालिते २ वियोजिते च।

विघस = पु० वि + अद–घञ्। भोजनशेषे मेदि० २ आहारे च शब्दच०। ३ सिक्थके न० राजनि०। ४ दैवपैत्रदत्तशेषे

विघसाशिन् = त्रि० विघसं देवतादिदत्तावशेषमश्नाति अशणिनि। दैवपैत्रकार्य्यानन्तरं तदवशिष्टमोजिनि।

विघात = पु० वि + हन–क्त। १ व्याघाते २ आघाते च।

विघातिन् = त्रि० वि + हन्–णिनि। १ निवारके। २ नाशके, ३ नाशप्रतियोगिनि च “नित्यश्चायं वल्निमित्तो विघाती” इति व्याकरणका०। ण्वुल्। विघातकोऽप्यत्र।

विघ्न = पु० वि + हन–क। १ व्याघातके अन्तराये अमरः। २ कृष्णपाकफलायां शब्दच०।

विघ्ननायक = पु० विघ्नानामुत्पत्त्यनुत्पत्त्योः नायसः। विघ्नेशे गणेशे शब्दर०।

विघ्नकारिन् = त्रि० विघ्नं करोति कृ–णिनि। १ घारदर्शने २ विघातके च मेदि०। स्त्रियां ङीप्।

विघ्ननाशक = पु० ६ त०। गणेशे शब्दच० ल्यु। विघ्ननाशनादयोऽप्यत्र।

विघ्नराज = पु० विघ्ने राजते राज–अच्। गणेशे अमरः। ६ त०। विघ्नेशादयोऽप्यत्र।

विघ्नहारिन् = पु० विघ्नं हरति हृ–णिनि। गणेशे त्रिका०।

विघ्नित = त्रि० विघ्नो जातोऽस्य इतच्। जावधिघ्ने।

विघ्नेशानकान्ता = स्त्री ६ त०। श्वेतदूर्वायाम् राजनि०।

विच = पृथक्करणे रु० जु० वा उ० अक० अनिट्। विनक्ति विवेक्ति विङ्क्ते विविक्ते। इरित् अविचत् अवैक्षीत्।

विचकिल = पु० विच + क किल–क कर्म्म०। १ मदनवृक्षे। २ मल्लीभेदे मेदि०।

विचक्षण = पु० वि + चक्ष–ल्यु न ख्यादेशः। १ पण्डिते अमरः २ नागदन्त्यां स्त्री राजनि० टाप्।

विचक्षुस् = त्रि० वि + चक्ष–उसि न ख्यादेशः। १ विमनस्के त्रिका०। विगतं चक्षुर्यस्य। २ नेत्रशृन्ये त्रि०।

विचयन = न० वि + चि–ल्युट्। १ अन्वेषणे शब्दच०। २ पुष्पादिचयने च।

विचर्चिका = स्त्री वि + चर्च–ण्वुल्। पामनि रोगमेदे अमरः। सा च स्वल्पकुष्ठविशेषः। “एकं कुष्ठं स्मृतं पूर्वं गजचर्म ततः स्मृतम्। ततश्चर्मदल प्रोक्तं ततश्चापि विचर्चिका। विपादिकाभिधा सैव पामा कच्छस्ततः परा। ततो दद्रुश्च विष्फोटः किटिमञ्च ततः परम्। ततश्चालसकं प्रोक्तं शतारुश्च ततः परम्। क्षुद्रकुष्ठानि चैतानि कथितानि भिषग्वरैः। सकण्डूः पिडका श्यावा बहुस्रावा विचर्चिका” पिडका लुद्रपिडका। “दाल्यते त्वक् खरा रूक्षालान्वोर्ज्ञेया विचर्क्षिका। पादे विपादिका ज्ञेया स्थान० भेदाद्विचर्चिका”। “केचिद्विचर्चिकातो विपादिकां भिन्ना माहुः” भावप्र०। कुष्ठशब्दे २१५४ पृ० दृश्यम्।

विचार = पु० वि + चर–घञ्। १ तत्त्वनिर्णये सन्दिग्धे वस्तुनि प्रमाणेन तत्त्वपरीक्षायां २ तदनुगुणे वाक्यस्तोमे च।

“विपरीतोद्भावकपरविजिगीषया न्यायप्रयोग इति” केचित् प्राहुः। यथा पदार्थानुमानस्थले पर्वतो वह्णिमान् धूमवत्त्वादित्यादि। अत्र च पर्वते वह्नौ साधनोये प्रतिवादिना च पर्वतो न वह्निमानित्यादि विपरीतवाक्ये प्रयुक्ते मध्यस्थस्य संशयी जन्यते। तन्निवृत्त्यर्थं वादिना पर्वतो वह्निमानित्यादिप्रतिज्ञादिघटितवाक्यप्रयोगरूपः विचारः क्रियते इति। ४ विगतश्चारो यस्मात् प्रा० व०। चारशून्ये च “विचारदृक्चारदृगप्यवर्त्तत”।

विचारण = न० वि + चर–णिच्–ल्युट्। १ विचारे शब्दर०। युच्। तत्रैव स्त्री अमरः। २ मीमांसाशास्त्रे हेमच०

विचारित = त्रि० विचारो जातोऽस्य इतच्। कृतविचारे।

विचाल = त्रि० वि + चल–कर्त्तरि ण। १ अभ्यन्तरे २ अन्तराले–हेमच०। वि + चल–णिच् भावे अच्। ३ अन्यथा स्थितस्य वस्तुनो विशेषरूपतापादने “अधिकरणविचाले च” पा० “द्रव्यस्य संख्यान्तरापादने संख्याया धां स्यात्। एकं राशिं पञ्चधा कुरु” सि० कौ०।

विचि(ची) = पुंस्त्री विच–इक्। तरङ्गे भरतः। स्त्रीत्वपक्षे वा ङीप्।

विचिकित्सा = स्त्री वि + कित स्वार्थे सन् अ। सन्देहे अमरः।

विचित्र = न० विशेषेण चित्रम्। १ कर्वूरवर्णे। २ तद्वति त्रि० शब्दच० ३ आश्चर्य्ये त्रि०। ४ मृगेर्वारौ स्त्री राजनि०। ५ अर्थालङ्कारभेदे न० अलङ्कारशब्दे ४०३ पृ० दृश्यम्। संज्ञायां कन्। भुर्जपत्रवृक्षे पु० राजनि०।

विचित्रवीर्य्य = पु० शान्तनुनृपात्मजे नृपभेदे भा० आ० १०६ अ०

विचित्राङ्ग = पुंस्त्री० पिचित्रमङ्गं यस्य। (चिते) १ व्याघ्रभेदे शब्दच० २ मयूरे पुंस्त्री० शब्दर० उभयत्र स्त्रियां ङीष् ३ आश्चर्य्योदेहे त्रि०।

विचेतस् = त्रि० विरुद्धं दुष्टं विशिष्टं वा चेतो यस्य। १ दुष्टचित्ते २ विशिष्टवित्ते च। ३ दुर्मनस्के हेमच०।

विचेष्टित = त्रि० विगतं चेष्टितमस्य। १ चेष्टाशून्ये, वि + चेष्टभावे क्त। २ विशेषेण चेष्टायाम् न०।

विच्छ = दीप्तौ चु० उभ० सक० सेट्। विच्छयति ते अविविच्छत् त

विच्छ = गतौ तु० पर० स्वार्थे आय, आयपक्षे उ० सक० सेट्। विच्छायति विच्छायते विच्छति। अविच्छायीत् अविच्छायिष्ट अविच्छीत्।

विच्छन्दक = पु० विशिष्टः छन्दो यत्र कप्। ईश्वरगृहे अमरः “उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञितम्”।

विच्छाय = न० वीनां पक्षिणां छाया नपुंसकत्वम्। पक्षि समूहच्छायायाम् अमरः। विगता छाया यस्य। २ छायारहिते त्रि० मेदि०। ३ विशिष्टकान्तियुते मणौ भरतः।

विच्छित्ति = स्त्री वि + छिद–क्तिन्। १ अङ्गरागे २ हारभेदे ३ विच्छदे मेदि०। ४ छेदे ५ विनाशे ६ स्त्रीणां चेष्टाभेदे च। “स्ताकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत्” सा० द०

विच्छिन्न = त्रि० वि + छिद–क्त। १ विभक्ते २ समालब्धे च मेदि० ३ कुटिले हमच०। भावे–क्त। ४ छदने न०।

विच्छेद = पु० वि + छिद–भावे घञ्। १ वियोगे २ सन्ततिरा हित्ये ३ विभागे च।

विज = पृथक्करणे जु० उभ० सक० अनिट्। वेवेक्ति वेविक्ते इरित् अविजत् अवैक्षीत् अविक्त।

विज = भये कम्ये च रु० पर० अक० सेट्। विनक्ति अविजीत्। ईदित् ओदिच्च विग्नः।

विज = भये कम्पे च तु० आ० अ० अनिट्। विजते अविजिष्ट। ईदित् ओदिच्च क्त–विग्नः।

विजन = त्रि० विगतो जनो यस्मात् प्रा० ब०। निर्जने अमरः।

विजनन = त० वि + जन–ल्युट्। १ गर्भमीचने प्रसवे हेमच० ३ उद्भवे शब्दच०।

विजपिल = न० विज–क पिल–क कर्म०। पङ्के हलायुधः।

विजन्मन् = त्रि० विरुद्धं जन्म यस्य। जारजे।

विजय = पु० वि + ज–कर्त्तरि अच्। १ अर्जुने मेदि०। “अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्। नाजित्वा विनिवर्त्तामि तेन मां विजयं विदुः” भा० वि० ४४ अ०। २ विमाने हेमच० ३ यमे च। ४ विष्णोरनुचरभेदे। जयशब्दे ३०५० पृ० दृश्यम्। तच्छब्दशब्दे दर्शिते ५ नृपभेदे ६ कल्किपुत्रभेदे कल्किपु० १३ अ०। भावे अच्। जये ८ परिभवपूर्वकग्रहणे च।

विजयकुञ्जर = पु० विजयाय कुञ्जरः। राजवाहनगजे त्रिका०।

विजया = स्त्री १ आश्विनशुक्लपक्षीयदशम्याम् २ उमायाः सखीभेदे वामनपु० ४ अ० “कथयतु विजया” इति मुद्राराक्षसम्। ३ दुर्गायां हेमच० “विजित्य पद्मनामानं दैत्यराजं महाबलम्। विजया तेन सा देवी लोके चैवापराजिता” देवीपु० ४५ अ०। ४ जयन्त्यां ५ शेफालिकायां ६ मञ्जिष्ठायां ७ शमीभदे, ८ अग्निमन्थे राजनि०। ९ भङ्गायाम् (सिद्धि) हेमच० तत्पर्य्यायगुणादि भावप्र० उक्तं यथा

“भङ्गा गञ्जा मातुलानी मादिनी विजया जया। भङ्गा कफहरो तिक्ता ग्राहिणी पाचनी लघुः। तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी” भावप्र०। अष्टद्वादशीमध्ये “यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्। तदा सा तु महापुण्या द्वादशी विजया स्मृता” इत्युक्ते १० द्वादशीभेदे “शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत्। सप्तमी विजया नाम” इत्युक्ते सप्तमीभेदे च। ११ यमभार्य्यायां १२ हरितक्यां जटा०। १३ वचायां रत्नमा०। १४ अस्त्रविद्याभेदे “विद्याभथैनं विजयां जयाञ्च” भट्टिः।

विजया = स्त्री शच्यादिषु मातृषु मातृभेदे

विजयाभिनन्दन = पु० कलियुगीयशककर्त्तृ नृपभेदे शकशब्दे दृश्यम्। इति श्रीताराथतर्कवाचस्पतिभट्टाचार्य्य संकलिते वाचस्प्रत्याभिधाने वकारादिशब्दार्थसङ्कलनम्।

विजलप = पु० “व्यक्तयाऽसूयया गूढमानमुद्रान्तरालया। अधद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः” उज्ज्वलमण्युक्ते वाक्यभेदे।

विजात = त्रि० विरुद्धं जातः। १ जारजाते विशेषेण जाता। २ जातासत्यायां स्त्रियां स्त्री हेमच०। धर्म्मावलम्बिनि।

विजातीय = त्रि० विभिन्नां जातिं धर्ममर्हति छ। विभिन्न-

विजिगीषा = स्त्री विजेतुमिच्छा वि + जि–सन् भावे अ। १ स्वोदरपूरणेच्छया निन्दनीयकर्मादौ प्रवृत्तौ २ तन्निन्दाऽगणने रमा० ३ विजयेच्छायाञ्च। उ। विजिगीषु जयेच्छावति त्रि० शब्दच०।

विजिगीषाविवर्जित = त्रि० ६ त०। औदरिके अमरः।

विजिन(ल) = न० विज–इनच् इलच् किच्च। सरसव्यञ्जये “पाकरूपरसासक्ते व्यञ्जने तु भवेत् त्रयम्। तैलपाकसुसंस्कारे प्रशस्तमुपसंस्कृतम्। विजिनं लालसीकञ्च विजिलं विज्जिलञ्च तत्” शब्दर०।

विजुल = पु० विज–उलच् किच्च। शाल्मलीकन्दे राजनि०।

विजृम्भण = न० वि जृमि–ल्युट्। १ विकाशे २ मुखविकाशहेतुभूते वायुव्यापारभेदे (हाइतोला)। अ विजृम्भात्र स्त्री।

विजृम्भित = त्रि० वि + जृभि–क्त। १ विकशिते मेदि० २ जृम्भायुक्ते भावे क्त। ३ प्रकाशे ४ चेष्टायां ५ जृम्भायां च मेदि०।

विज्जन = न० विद्–वेधनं जनयति जन–अच्। वाणे त्रिका०

विज्जल = न० व्यध–ताडे क्विप् विदा जडयति जडि–अच डस्य लः। १ वाणे त्रिका०। २ विजिले हेमच०।

विज्जुल = न० विज–उलच् जुट्। त्वचे (दारचिनि) राजनि०

विज्जुलिका = स्त्री विज्जुल + संज्ञायां कन् कापि अत रत्त्वम्। जतुकायां राजनि०।

विज्ञ = त्रि० विशेषेण जानाति वि + ज्ञा–क। १ प्रवीणे अमरः। २ पण्डिते पु० राजनि०।

विज्ञात = त्रि० वि + ज्ञा–क्त। १ ख्याते अमरः। २ ज्ञाते च।

विज्ञान = न० वि + ज्ञा ल्युट्। १ ज्ञाने २ कर्मणि मेदि० ३ शि- ल्पादिज्ञाने अमरः। ४ वेदान्तोक्ते अविद्यावृत्तिमेदे च। ५ बौद्धमतसिद्धे आत्मरूपे ज्ञाने च। “चतुर्दशानां विद्यानां धरणं हि यथार्थतः। विज्ञानमितरत् विद्यात् येन धर्मो विवर्द्धते” कूर्मपु० १४ अ० उक्ते ६ चतुर्दशविद्याज्ञाने च।

विज्ञानमयकोष = पु० विज्ञानात्मवः कोष इवावरकत्वात्। ज्ञानेन्द्रियसहिते बुद्धिपदार्थे।

विज्ञानस्कन्ध = पु० बौद्धमतसिद्धेषु रूपविज्ञानवेदनासंज्ञासंस्काररूपेषु स्कन्धेषु आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहे।

विज्ञानिक = त्रि० विज्ञानमस्त्यस्य ठन्। विज्ञानयुक्ते भरतः।

विञ्जोली = स्त्री विज–उल–पृषो०। पङ्क्तौ त्रिका०।

विट = आक्रोशे सक० स्वने अक० भ्वा० पर० सेट्। वेटति अवेटीत्।

विट = पु० विट क। १ षिड्गे जारे अमरः। २ शृङ्गाररसनायकानुचरे “सम्भेगहीनसम्पद् विटस्तु धूर्त्तः फलैक देशज्ञः। वेशोपचारकुशलो वाग्मी मधुरोऽथ बहुमतो गोष्ठ्याम्” सा० द०। ३ धूर्त्ते, “विट! विटपममुं ददस्व तस्यै” माघः ४ पर्वतभेदे ५ लवणभेदे ६ खदिरभेदे ७ मूषिके च मेदि०। ८ नारङ्गवृक्षे शब्दमाला।

विटङ्क = न० वि + टकि–अच्। कपोतपालिकायां प्रासादाद्यग्रस्थे काष्ठनिर्मिते कपोतावासस्थाने। (पायराखोप) अमरः।

विटप = पुंन०। विटं विस्तारं वा पाति पिवति वा पा० क। १ शाखायां, २ पल्लवविस्तारे अमरः। ३ स्तम्बे ४ पह्ववे च शब्दर० ५ विटपालके ६ तत्पायिनि च मेदि० “पिवति च पाति च यासकौ रहस्त्वाद् विट! विटपममुन्ददस्व तस्यै” माघः। ७ आदित्यपत्रे पु० राजनि०। ८ मुष्कवङ्क्षणान्तरस्थाने हेमच० ९ विटाधिपे मेदि०।

विटपिन् = पु० विटप + अस्त्यर्थे इनि। १ वृक्षे अमरः। २ वटवृक्षे राजनि०।

विटप्रिय = पु० ६ त०। मुद्गरवृक्षे राजनि०।

विटमाक्षिक = पु० विटप्रियः माक्षिकः। धातुभेदे हेमच०।

विटि(टी) = स्त्री विट–कि वा ङीप्। पीतचन्दने शब्दमाला।

विट्खदिर = पु० विडिव दुर्गन्धः खदिरः। (गुयेवावला) वृक्षे अमरः।

विट्चर = पुंस्त्री विषि–विष्ठ यां चरति चर–अच्। ग्राम्यशूकरे अमरः स्त्रियां ङीष्।

विट्पति = पु० विश्यते विश–क्विप् विशः कन्यायाः पतिः। जामातरि जटाधरः।

विट्सारिका = स्त्री विडिप दुर्गन्धः सारिका। (गुयेमालिक) पक्षिभेदे जटा०।

विड = आक्रोशे भ्वा० पर० सक० सेट्। वेडति अवेडीत्।

विड = न० विड–क। लवणभेदे अमरः। “विडं सक्षारमूर्ध्वाधःकफवातानुलोमनम्” ऊर्ध्वं कफमधोवातं सञ्चारयतीत्यर्थः। “दीपनं लथु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च। विबन्ध्यानाहविष्टम्भकृदगौरवशूलनुत्” भावप्र०।

विडङ्ग = पु० न० विड–अङ्गच्। १ स्वनामख्याते औषधभेदे अमरः। “विडङ्गं कटु तीक्ष्णोष्णं रूक्षं वह्निकरं लघु। शूलाध्मानोदरश्लेष्मक्रमिवातविबन्धनुत्” भावप्र०। २ अभिज्ञे त्रि० मेदि०।

विडम्बन = न० वि–डवि + ल्युट्। १ तिरस्करणे २ अनुकरणे च। युच्। विडम्बनाप्यत्र स्त्री। “इयञ्च तेऽन्या पुरतो विडम्बनेति” कुमारः।

विडाल = पुंस्त्री विड–कालन्। स्वनामख्याते १ पशुभेदे अमरः स्त्रियां ङीष्। २ नेत्रपिण्डे मेदि० ३ नयनौषधभेदे च भावप्र० ४ विदार्य्यां स्त्री राजनि० ङीष्। संज्ञायां कन्। हरिताले न०। स्वार्थे क। विडाले पशौ पु० स्त्री०। संज्ञायां कन्। नेत्रौषधभेदे तद्विधिः भावप्र० उक्तो यथा “विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्जिते। तस्य मात्रा परिज्ञेया मुखालेपविधानवत्”। मुखालेपस्तु “अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठकः। मध्यमस्तु त्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत्”। स्थितिकालोऽपि तस्योक्तो यावत् कल्को न शुष्यति। तेनापि गुणहीनः स्यात्तथा दूषयति त्वचम्”। स च “यष्टीगैरिकसिन्धूत्थदार्वीतार्क्ष्यैः समांशकैः। जलपिष्टैर्वहिर्लेपः सर्वनेत्रा मयापहः”। तार्क्ष्यं रसाञ्जनम्। “रसाञ्जनेन वा लेपः पथ्याबिल्वदलैरपि। वचाहरिद्राविश्वैर्वा तथा नागरगैरिकैः”।

विडालपदक = न० कर्षपरिमाणे भावप्र० कर्षशब्दे १७७४ पृ० दृश्यम्।

विडीन = न० वि + डी–क्त। पक्षिणां गतिभेदे जटा० खगगतिशब्दे २४१४ पृ० दृश्यम्।

विडुल = पु० विड–कुलन्। वेतसवृक्षे हेमच०

वि(डो)डौजस् = पु० विष–क्विप् विट् व्यापकमोजो यस्य पृषो० वा औत्। इन्द्रे अमरः।

विड्गन्ध = न० विष इव गन्धोऽस्य। विड्लवणे रत्नमाला।

विड्लवण = न० विडिव दुर्गन्धं लवणम्। स्वनामख्याते लवणभेदे रत्नमाला।

विड्वराह = पुंस्त्री० विट्प्रियो वराहः शाक०। १ ग्राम्यशूकरे जटा० स्त्रियां ङीष्। “दसुनं विड्वराहञ्च” इति स्मृतिः।

***