वात = गतौ सेवायां सुखीकरणे च सक० अद० च० उभ० सेट्। वातयति ते अववातत् त।

वात = पु० वा–क्त। स्पर्शमात्रविशेषगुणके भूतभेदे १ पवने अमरः। अनिलशब्दे १६४ पृ० दृश्यम्। २ देहस्थे धातुभेदे च। ६ गन्तरि त्रि०। जारे ५ धृष्टनायके च “प्रभातवाता हतीति” भट्टिः। ६ वातजन्ये रोगभेदे भावप्र० यथा

“कषायकटुतिक्तकप्रमितरूक्षलघ्वन्नतः पुरःपवनजागरप्रतरणाभिघातश्रमैः। हिमादनशनात् तथा निक्षुवनाच्च धातुक्षयात् मलादिरयधारणात् मदनशोक चिन्ताभयैः। अतिक्षतजमोक्षणात् गदकृतातिमांस क्षयादतीव वमनान् नृणामतिविरेचनादामतः। पयोदसमये दिनक्षणदयोस्तृतीयांशयोर्जरामतिगतेऽशिते शिशिरसंज्ञकालेऽपि च। देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो वली। करोति विविधान् रोगान् सर्वाङ्गैकाङ्गसंश्रयान्”। प्रमितञ्चात्र वैपरीत्ये प्रापसर्गस्तेन अपरिमितमित्यर्थः। प्रकर्षेण मितमत्यल्पं वा लघ्वन्नम् अतिपुराणं शाल्यादि। कतिचिदन्नानि नवान्यषि वातलानि यत आह गुणरत्नमालायाम् “नीवारस्त्रिपुटः सतीनचणकः श्यामाकमुद्गाढकीनिष्पावाश्च मकुष्ठकश्च वरठामङ्गल्यकः कीद्रवः”। एते वातकरा इति शेषः। नीवारः प्रसाधिका (चीना) इति लोके। त्रिपुटः (खसारी)। सतीनः कलायः। निष्पावो राजमाषः। (वरवटी) इति लोके। मकुष्टकः (माढा) इति लोके। वरठा वरटिका (वररै) इति लोके। मङ्गल्यकः (मसूरी) इति लोके। पुरःपवनः प्राग्वातः, आमतः आमेन मार्गावरणात्। यत उक्तम् वायोर्द्धा तुक्षयात् कोपो मार्गस्यावरणेन चेति”। पयोदसमये वर्षासु। जरामतिगतेऽशिते भुक्तेऽजीर्णताङ्गते। देहे स्रोतांसीत्यादिना संप्राप्तिरुक्ता। कषायादिभिर्हेतुभिर्वर्षादौ समये हेतुभते बली अनिलः प्रवृद्धो वायुः करोति विविधान् रोगान्। ते रोगाः कथ्यन्ते “शिरोग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः। जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता। वाचालता प्रलापश्च रसानामनभिज्ञता। बाधिर्य्यं “कर्णनादश्च स्पर्शाज्ञत्वं तथार्दितम्। मन्यास्तम्भोऽत्र वणितो बाहुशोषोपनाडकः। चर्विता चैव विक्षाची ऊर्द्धवात उदीरितः। आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला। “तूणी च प्रतितूणी च वह्निवैषम्यमेव च। आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च। मुहुश्च मूत्रलं मूत्रनिग्रहो मलगाढता। पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परम्। कलापखञ्जता चापि खञ्जता पङ्गुता तथा। क्रोष्ठुशीर्षक खल्यौ च वातकण्टक एव च। पादहर्षो पाददाह आक्षेपो दण्डकाभिधः। वातपित्तकृताक्षेपस्तथा दण्डा पतानकः। अभिघातकृताक्षेप आयामो द्विविधः स्मृतः। आन्तरश्च तथा याह्यो धनुर्वातश्च कुब्जकः। अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः। कम्पस्तम्भो व्यथातीदो भेदश्च स्फुरणं तथा। रौक्ष्यं कार्श्यञ्च कार्ष्ण्यञ्च सैत्यं लोम्नाञ्च हर्षणम्। अङ्गमर्द्दोऽङ्गविभ्रंशः सिरासङ्कीच एव च। अङ्गशेषाश्च भीरुत्वं मोहश्चञ्चलचित्तता। निद्रानाशः स्वेदनाशो वलहानिस्तथैव च। शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः। एत एवाशीतिसंख्यारोगा योगेन रूढितः। बातव्याधीतिनामानो मुनिमिः परिकीर्त्तिताः”। एत एव शिरोग्रहादय एव। योगेन वातेन वाताद्व्याधिर्वातव्याधिरिति निरुक्त्या तदा वातज्वरादिष्वपि प्रसङ्गः स्यादत आह रूढितः प्रसिद्धितः शिरोग्रहादयोऽशीतिरेव वातव्याधिसंज्ञाः प्रसिद्धा न तु वातज्वरादयः”। तल्लक्षणादिकं तत्र दृश्यम्।

वातक = पु० वात इव चञ्चलः इवार्थे कन्। १ असनपर्ण्याम् स्वार्थे क। २ जारे च।

वातकर्म्मन् = न० वातानां कर्म। अपानेन मरुत्त्यागे पर्दने।

वातकिन् = त्रि० वातोऽस्त्यस्य इनि कुक् च। वातरोगयुक्ते अमरः स्त्रियां ङीप्।

वातकेतु = पु० वातस्य केतुरिव। धूलौ रजसि त्रिका०।

वातगुल्म = पु० वातेन गुल्म इव। १ वातुले त्रिका०। २ वातनिमित्ते गुल्मरोगभेदे गुल्मशब्दे २६२६ पृ० दृश्यम्।

वातघ्नी = स्त्री वागं रोगभेदं हन्ति–हन–टक् ङीप्। १ सालपर्ण्याम् (सालपानि) २ अश्वगन्धायां ३ शिमुडीक्षुपे च राजनि०।

वातचक्र = न० वृ० स० २७ अ० उक्ते पूर्वादिवातानां कालभेदेन शुभाशुभमूचके वहनभेदे “पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्चन्द्रार्कांशुसटाभिघातकलितो वायुर्यदाकाशतः। नैकान्तस्थितनीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कटसस्वमण्डि- ततलां विद्यात्तदा मेदिनीम्। यदाग्नेयो वायुर्मलयशिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गे प्रवसति। तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम्। तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन् योगेऽस्मिन् प्लवति ध्वनन्सुपरुषो वायुर्यदा दक्षिणः। सर्वोद्योगसमुन्नताश्च गजवत्तालाङ्कुशैर्घट्टिताः कोनाशा इव मन्दवारिकणिकान्मुञ्चन्ति मेघास्तदा। सूक्ष्मैलालवलीलवङ्गनिचयान् व्याघूर्णयन् सागरे भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैरृतः। क्षुत्तृष्णामृतमानुषास्थिशकलप्रस्तारभारच्छदा मत्ता प्रेतबधूरिवोग्रचपला भूमिस्तदा लक्ष्यते। यदा रेणूत्पातैः प्रविकटसटाटोपचपलः प्रवातः पश्चार्धे दिनकरकरापातसमये। तदा सस्योपेता प्रवरनृवराबद्धसमरा धरा स्थाने स्थानेऽप्यविरतवसार्मासरुधिरा। आषाढीपर्वकाले यदि किरणततेरस्तकालोपपत्तौ वायव्यो बद्धवेगः प्लवति घनरिपुः पन्नगादानुकारी। जानीयाद्वारिधाराप्रमुदितमुदितां मुक्तमण्डूककण्ठां सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यमेनामिवोर्वीम्। मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामोदिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः। विद्युद्भ्रान्तिसमस्तकान्तिकलनामत्तास्तदा तोयदा उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः। ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः। आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला धर्मिष्ठाः प्रणतारयो नृपरयो रक्षन्ति वर्णांस्तदा”।

वाततूल = न० वातेन उड्डीयमानं तूलम्। (वुडिरसुता) आकाशे उड्डीयमाने सूत्रे हारा०।

वातध्वज = पु० वातो ध्वज इव यस्य १ मेघे शब्दमा०। ६ त०। २ धूलौ।

वातपोथ = पु० वातं रोगभेदं पुथ्यति हिनस्ति पुथ–अण्। पलाशवृक्षे अमरः।

वातप्रमी = पुंस्त्री० वातं प्रमिणोति प्र + मा–ई किच्च। १ शीघ्रगे मृगे (वाओटा) अमरः।

वातमज = पुंस्त्री० वातमनुलक्ष्य अजति अज–अच् व्यभावः। मृगभेदे जटा० स्त्रियां ङीष्।

वातमृग = पुंस्त्री० वातानुगो मृगः शाक०। शीघ्रगे मृगभेदे जटा० स्त्रियां ङीष्।

वातरक्त = न० वातजं दुष्टं रक्तम् रुधिरं यत्र। रोगभेदे

“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः। क्लिन्नशुष्काम्बुजानूपमांसपिण्कमूलकैः। कुलत्थमाषान- ष्पावशाकादिपललेक्षुभिः। दध्यारनालभौवीरशुक्ततक्रसुरासवैः। विरुद्धाध्यशनक्रौधदिवास्वप्नातिजागरैः। प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम्। स्थूलाना सुखिनां चापि प्रकुष्येद्वातशोणितम्। हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च विदाह्यन्नं संविदाहाशनस्य”। क्षारो यवक्षारादिः। अजीर्णभोजनैः अजीर्णाय भोजनैः अतिमात्रभोजनैरित्यर्थः। क्लिन्नादीनि मांसस्य विशेषणानि। क्लिन्नं शटितम्। शुष्कमातपे शोषितम। अम्बुजं मत्स्यादिमांसम्। आनूपं गौडादिपूर्वदेशजं मासम्। पिण्याकं तिलखलिः। मूलकं प्रसिद्धमेव। निष्पावः (वोडा) शाकम्। शाकं पत्रशाकम्। आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्वे। पललं शटितत्वादिदोषरहितमपि मांसं वातशोणितं प्रकोपयेत्। शटितादि तु मांसं विशेषतो वातशोणितं प्रकोपयेत्। आरनालं सन्धानभेदः। शुक्तं सन्धानभेदः। सौवीरं सन्धानभेदः। तक्रं चतुर्थांशजलयुक्तं वस्त्रपूतं दधि। सुरा सन्धानभेदः। आसवः सन्धानभेदः। विरुद्धं क्षीरमत्स्यादि। अध्यशनम्। “अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते”। अतिजागरोनिशि। प्रायशः बाहुल्येन। सुकुमाराणाम् अल्पतरकायव्यापाराणाम्। अथ वा। मिथ्याहारविहारिणाम् अयथाहारबिहाराभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या हस्ताश्वाष्ट्रैर्गच्छतः यतो वायुर्विवर्द्धते रुधिरञ्चाधो गच्छति। हस्त्यादय उपलक्षणानि। पद्भ्यामप्यतिचलतः। अश्नतः विदाह्यन्नम्। विदाहि निष्पावकुलत्थसर्षपशाकादि। मंविदाहाशनस्य। सविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि भुञ्जानस्येत्यर्थः। अध्यशनमुक्त्वाप्येतद्वचनं विदन्धाजीर्णभोजनस्य विशेषतो हेतुत्वार्थम्। पश्चात् वातशोणितं प्रकुप्येदित्यनेनान्वयः। एतेषां कारणानां मध्ये केनञ्चिद्वायः केनचिदुभयमपि प्रकुप्येत्। संप्राप्तिमाह “कृत्स्नं रक्तं विदहत्याशु तच्च दुष्टं स्रस्तं पादयोश्चीयते तु। तत् संपृक्तं वायुना दूषितेन तत् प्रावल्यादुच्यते वातरक्तम्”। पूर्वोक्तैर्हेतुमिः कृत्स्नं समस्तं रक्तं विदहति अत्र दहधातुरविवक्षितकर्मकः। तेन विदहति विदग्धं भवतीत्यर्थः तच्च दुदरक्तम्। स्रस्तम् अधोगतम् पादयोश्चीयते सञ्चितं भवति। तद्रुधिरं दूषितेन स्वहेतुना संपृक्तं मिलितं वातरक्तम् उच्यते। नमु चैतस्य संप्राप्तिरुक्ता सुश्रुतेन “शीघ्रं रक्तं दुष्टिमायाति तच्च वायोर्मार्गं संरुणद्ध्याशु वातः। क्रुद्धोऽत्यर्थं मार्गरोधात् स वायुरत्युद्रिक्तं दूषयेद्रक्तमाशु”। अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति ष्यपदेष्टुमुचितं भवत्यत आह तत्प्राबल्यादिति। तस्य वातस्य दोषत्वेन प्राधान्याद्वातरक्तमिति व्यपदिश्यते। पूर्वरूपमाह “स्वेदोऽत्यर्थं न वा कार्श्यं स्पर्शाज्ञत्वं क्षतेऽतिरुक्। सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः। जानुजङ्घोरुकट्यंसहस्तवादाङ्गमन्धिषु। निस्तोदस्फुरणं भेदो गुरुत्वं सुप्तिरेव च। कण्डूः सन्धिषु रुग्दाहो भूत्वा नश्यति चासकृत्। वैवर्ण्यं मण्डलोत्पत्तिर्वातासृक्पूर्वलक्षणम्”। आथाधि कृतवातस्य रक्तस्य लक्षणमाह “वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम्। शोथस्य रौक्ष्यं कृष्णत्वं श्यावतावृद्धिहानयः। धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक्। शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः”। तत्र पादयोः शूलादिकमधिकम् यत आह सुश्रुतः “स्पर्शोद्विग्नौ तोदभेदप्रशोफौ स्वापोपेतौ वातरक्तेन पादाविति”। अत्र सुप्तिः स्पर्शाज्ञता। अधिकरक्तं वातरक्तमाह “रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचिभायते। सिग्धरूक्षैः समं नैति कण्डूतक्लेदसमन्वितः”। अधिकपित्तं तदाह “पित्ते विदाहः संमोहः स्वेदो मूर्च्छामदस्तथा। स्वर्शासहत्वं रुग्दाहः शोथपाकौ भृशोष्णता”। विदाहश्च पादयोरेव वोद्धव्यः यत आह सुश्रुतः “पित्तासृग्भ्यामुग्रदाहो भवेतामत्यर्थोष्णौ रक्तशोथौ मृदू च”। पादाविति शेषः। अधिककफं तदाह “कफाधिक्ये तुं गुरुता सुप्तिः स्निग्धत्वशीतता”। गुरुतादयः पादयोरेव यत आह सुश्रुतः कण्डूनन्तौ स्वेदशीतौ सशोथौ पीनस्तब्दौ श्लेष्मदुष्टे तु रक्ते”। अप्रतिक्रियमाणवातरक्तस्य उपद्रवानाह “अस्वप्नारोचकश्वासमांसकोर्थाशरोग्रहाः। मूर्च्छा च मन्दरुग् तृष्णाज्वरमोहप्रकोपकाः। हिक्कामगुल्म वीसर्पपाकतोदभ्रभक्लमाः। अङ्गुलीवक्रतास्फोटदाह मर्मग्रहार्बुदाः” मांसकोथो मांसगलनम्। असाध्यत्वादिकमाह “एतैरुपद्रवैर्वर्ज्यं मोहेनैकेन वापि यत्। अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम्। एकदोषनुगं साध्यं नवं याप्यं द्विदोषजम्। त्रिदोषजमसाध्यं स्याद्यस्य च ल्युरुपद्रवाः”।

वातरक्तघ्न = पु० वातरक्तं रोगभेदं हन्ति हन–टक्। कुक्कुरवृक्षे (कुकुरसोङ।) शब्दच०।

वातरक्तारि = पु० ६ त०। (गुलुञ्च) ख्यातायां लतायाम् शब्दच०।

वातरङ्ग = पु० वातस्येव सततं रङ्गश्चलनमस्य। चलदले अश्वत्थवृक्षे अमरः।

वातरायण = पु० वा–क्विप ततस्तरप् वातरमयनं यस्य णत्वम्। १ उन्मत्ते २ प्रयोजनशून्ये पुरुषे ३ काण्डे ४ करपात्रे ५ कूटे ६ परसंक्रमे मेदि०। ७ सरलद्रुमे च शब्दर०।

वातरूष = पु० वातेन रूष्यते रूष–घञ्। १ वातुले २ उत्कोचे ३ इन्द्रचापे च मेदि०।

वातर्द्धि = पु० वातस्य अद्धिर्यतः। १ काष्ठलोहनिर्मितमात्रे त्रिका० ६ त०। २ वायुवृद्धौ स्त्री।

वातल = पु० वातं रोगभेदं लाति ला–क। १ चणके शब्दच०। २ वायुकारके द्रव्ये त्रि०।

वातव्याधि = पु० वातेन देहस्थधातुभेदेव जनितो व्याधिः शाक०। वातरोगे वातशब्दे दृश्यम्।

वातशीर्ष = न० वातस्य शीर्षमिव। वस्तौ राजनि०।

वाताटः = पु० वात इवाटति अट–अच्। १ सूर्य्याश्वे त्रिका० २ वातमृगे शब्दर०।

वाताण्ड = पु० मुकरोगविशेषे तस्य लक्षणं यथा “वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य लंवृतः तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः” माधवकरः।

वाताद = पु० वाताय वातनिवृत्तयेऽद्यतेऽसौ अद–घञ्। (वादाम) फलप्रधानवृक्षे भावप्र०।

वातापि = पु० अगस्त्यनाशिते इल्वभातरि असुरभेदे। “आतापिर्भक्षितो येनवातापिश्च महायलः। समुद्रः शोषितो वन स मेऽनस्त्यः प्रसीदतु इति भोजनान्ते पाठ्यमन्त्रः।

वातापिसुदन = पु० वातापि रकदयति हिनस्ति सूद–ल्यु। अगस्थे मुनौ त्रिका० भा० ब० १९८० अ० तत्कथा। दृश्या।

वातामोदा = स्त्री वातेनामोदो यस्याः। कस्तूर्य्याम् शब्दमा०

वातायन = न० वातस्यायनं गतिर्येन। १ गवाक्षं अमरः। वातस्येव शीघ्रमयनं गतिरस्य। अश्वे पुंस्त्री० त्रिका० स्त्रियां ङीष्।

वातायु = पु० वातमयते अय–उण्। हरिणे अमरः

वातारि = पु० वातस्य रोगमेदस्यारिः। १ एरण्डवृक्षे २ शत मूल्यां ३ शेफालिकायां ४ यवान्न्यां ५ भार्ग्यां ६ स्नुह्यां ७ विडङ्गे ८ शूरण ९ भल्लातके १० मतकालां ११ पुत्रदात्रीवृक्षे च राजनि।

वाताश्व = पु० वात इव शीघ्रगोऽश्चः। आजानेये उत्तम हये त्रिका०।

वाति = पु० वा–क्तिच्। १ वायौ २ सूर्य्ये ३ चन्द्रे च रभसः।

वातिक = पु० वातादागतः ठक्। देहस्थधातुजन्ये रोगभेदे राजनि०।

वातिग = पु० वातिं वायुं गच्छति गम–ड। १ वार्त्ताकौ २ धातुवादिनि त्रि० मेदिग गम–अच। वातिगमोऽप्यत्र शब्दर०

वातिङ्गण = पु० वातिं देहस्थवातं सेवनात् गणयति गण–खच् मुम् च। वार्त्ताकौ त्रिका०।

वातीय = न० वाताय वातनिवृत्तये हितः छ। काञ्जिके शब्दच०

वातुल = पु० वातानां सभूहः उलच्। वातसमूहे भरतः।

वातुलि = पुंस्त्री० वा–उलि तुट् च। (वादुड) ख्याते खगे हारा०।

वातूल = त्रि० वात + अस्त्यर्थे ऊलच। १ वातरोमयुक्ते उन्मत्ते अमरः। समूहार्थे ऊलच्। २ वातसमूहे न० भरतः।

वातोना = स्त्री वातमूनयति ऊन–अण्। १ गोजिह्वाक्षुपे राजनि० वातेनोनः। २ वायुहीन त्रि०।

वात्या = स्त्री वातानां समूहः यत् १ वातसमूहे अमरः “वितत्य वात्यामयचक्रचंक्रमान् नैष०।

वात्सक = न० वत्सानां समूहः वुञ्। वत्ससंघे अमरः।

वात्सल्य = न० वत्सलस्य भावः ष्यञ्। पुत्रादिस्नेहानुगुणे रसभेदे उज्ज्वलमणिः “यशोदा वत्सले स्मृता”।

वात्स्य = पु० वत्सस्यापत्यं यञ्। गोत्रप्रवर्त्तके मुनिभेदे।

वात्स्यायन = पु० वत्सस्य गोत्रापत्यं युवा वत्स + यञ् ततो यूनि फल। १ युनि वत्सगोत्रापत्ये। २ न्यायसूत्रभाष्यकारके पक्षिक्षाख्ये मुनौ पं त्रिका०।

वाद = पुंस्त्री वद–घञ्। १ तत्त्वबुभुत्सया कथने “प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिप्रहो वादः इति २ तौतमोक्ते विचारात्मके वाक्यभेदे। “वादः प्रवदतामहम्” गीता।

वादन = न० वद–णिच्–कर्मणि ल्युट्। १ मृदङ्गादिवाद्ये भावे ल्युट्। मृदङ्गादिताडनरूपे २ व्यापारे।

वादर = न० वदरायाः कार्पास्याः विकारः अण। कार्पासऊत्रनिर्मिते वस्वादौ। वदरशब्दस्य ओष्ठ्यादित्वमित्यन्ये।

वादरङ्ग = पु० वादरं वदरासम्बन्धिपत्रादिसादृश्यं गच्छति मम खच् डिच्च अश्वत्थवृक्षे वृक्षे त्रिता०।

वादरत = त्रि० वादे (विवादे रतः रम–क्त। अनुदिनविवादशीले

वादरा = स्त्री वातं वायुं राति ददाति रा–क पृषो० तस्य दः कापांस्याम् शब्दर०।

वा(बा)दरायण = पु० व(बा)दरीप्रधानं स्थानं वाबादरं तदयनं स्थानं यस्य। नित्यं व(ब)दरिकाश्रमवासिनि १ वेदव्यासे। स्वार्थे इञ्। वा(बा)दरायणिरप्यत्र शब्दच०। अपत्ये इञ्। वा(बा)दरि व्यासपुत्रे शुकदेवे।

वादल = न० वातं लाति गृह्णाति ला–क पृषो० तस्य दः। मधुयष्टौ शब्दच।

वादाम = न० वातममति हिनस्ति अम–अण् पृषो० तस्य मः। स्वनामख्याते फलभेदे भावप्र०।

वादि = त्रि० वद–इन्। विदुषि उणादिकोषः।

वादिर = न० वद–णिच्–किरच्। व(ब)दरीसदृशफलके वृक्षे शब्दर०।

वादित्र = न० वद–णिच्–इत्र। मृदङ्गादिवाद्ये अमरः।

वादिन् = त्रि० वदति वद–णिनि। १ वक्तरि २ अर्थिनि ३ वादकथाकर्त्तरि विचारस्थले ३ प्रथमपक्षप्रतिपादके च।

वाद्य = न० वद–णिच्–यत्। वादनीये मृदङ्गादौ अमरः। वंशशब्दे ततादिभेद उक्तस्तत्र

ततं यथा “अलाबनी ब्रह्मवीणा किन्नरी लघु किन्नरी। विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया। हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी। त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी। औडम्बरी पिनाकी च निवन्धः शुष्कलस्तथा। गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः। कपिलासी मधुस्यन्दी घोणेत्यादि ततं भवेत्”। अलावनी यथा “कनिष्ठिकापरिध्यर्द्धि मध्यच्छिद्रेण संयुतः। दशयष्टिमितो दण्डः खादिरोवैणवाऽथ वा। अधःकरमनानूर्द्धे छत्राबल्याभिशोभितः। नवाङ्गुलादपश्छिद्रोपरिचन्द्रार्द्धसन्निभाम्। निवेश्य तुम्बिकां भद्रालातुखण्डं निवेशयेत्। द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम्। तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्मिताम्। अलाबुमध्यगां डोवीं कृत्वा स्वल्पान्तु काष्ठिकाम्। तथा संवेष्ट्य तन्न्मध्ये काष्ठिकां भ्रामयेत्ततः। तथा स्यान्नश्चलालाबुर्वन्धश्च करभोपरि। पञ्चाङ्गुलिषु संत्यज्यालाबुं स्वल्पाञ्च बन्धयेत्। केशान्तनिर्मिता पट्टमथी सूत्रकृताथ वा। समा सूक्ष्मा दृढा तत्र तन्त्रो देया विचलखैः। एतल्लक्षणसंयोगिन्थलावनी प्रकीर्त्तिता। विन्दुना न समुपेतं तुम्बं निःक्षिप्य वक्षास। मध्यमानामिकाभ्याञ्च वाढ्या दक्षिणपाणिना। तारे मन्द्रे च घोषे च त्रिस्थाने विन्दुरिव्यते। तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत्। ततस्ताभिस्तु सर्वाभिः स्वरव्यक्तिर्विधीयते। त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः। अलाबन्यां स्थिता ज्ञेयाः सप्त षड्जादयः स्वराः। रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः। अंशन्यास विभेदाच्च तथात्रापि विधीयते। इयमलावनी प्रोक्ता मनःश्रवणरञ्जनी। प्रत्यक्षा सारदा देवी वीणारूपेण संस्थिता”। शुषिरं वंशशब्दे उक्तम्। आनद्धं यथा

“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः। मुरजपटहढक्काविम्बकोदर्पवाद्यं पणवघनसरुञ्जालावजाह्वात्रवल्यः। करटकमठभेरी स्यात् कुढक्का हुडुक्का झनसमुरलिझल्लीढुक्कलीदौण्डिशाना। डनुरुटमुकिमड्डु। कुण्डलीस्तङ्गुनामा रणमभिघटवाद्यं दुन्दभी च रजश्च। क्वचिदपि ठुढुकी स्वात् दर्दुरं चाप्युपाङ्गं प्रकटितमनुबन्धं वाद्यमित्थं जगत्याम्। त्रिपुरमथनकर्तुस्ताण्डवे तत् प्रयाणे ततमथ शुशिरञ्चानद्धमित्थं षनञ्च। मर्दलः खादिरः श्रेष्ठो हीनः स्यादन्यदारुजः। रक्तचन्दनजी वाद्यो गभीरध्वनि रुच्चकैः। सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते। त्रयोदशाङ्गुलं वाममथ वा द्वादशाङ्गुलम्। दक्षिणञ्च भवेद्धीनमेकेनार्द्धाङ्गुलेन वा। करणामद्धवदनो मध्ये चैव पृथुर्भवेत्। षण्मासीयो भवेत् शस्तस्तच्चर्म करणं मतम्। मृत्तिकानिर्मितश्चैव मृरतः परिकीर्त्तितः। पातयेत् खरलिं वाद्ये वादनार्थञ्च मर्दले। विभूतिर्गैरिकं भक्तं केन्दुकेन च संमतम्। यद्वा चिपीटकं देयं जीवनीसत्त्वमिश्रितम्। सर्वमेकत्र पिष्टन्तल्लेपः। खरलिरुच्यते। वामास्ये पूरिकां कृत्वा लेपं दद्याच्च दक्षिणे। एवं मर्दलकः प्रोक्तः सर्ववाद्योत्तमो मतः। अस्य संयोगमासाद्य सर्वं वाद्यञ्च शोभते। एतदङ्गे वीजकाष्ठे दलमर्द्धाङ्गुलं विदुः”। मर्दलः त्रयोदशाङ्गुल वाममुखो द्वादशाङ्गुलदखिणमुस्वः। मुरजस्त्वष्टादशाङ्गुल वाममुखः सप्तदशाङ्गुलदक्षिणमुखः मर्दलङरजयारयं भेदः। पनं यथा। “अनुरक्तं विरक्तञ्च द्विविधं घनवाद्यकम्। गीतानुगमनुरक्तं विरक्तं तालसंश्रयम्। करतालः कांस्यतालो जयघण्टोऽथ शुक्तिका। कम्बिका पञ्च वाद्यञ्च पट्टतोयं च घर्घरं। झञ्झातालश्च मञ्जीरकर्त्तर्य्युङ्कर इत्यपि। द्वादशैते मुनीन्द्रेण कथिता धनसंज्ञकाः। त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनिर्मितौ। मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ। पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ। करतालावुभौ वाद्यौ पाटैर्झनटकैरिति। यद्वा त्रयोदशयवव्यामं वक्रयबोन्मितम्। यवपञ्चकगम्भीरं मध्ये च यवसप्तकम्। निभृतं वर्त्तुलं निम्नं यवत्रयमितं ततः। पृष्ठतो मध्यदेशे च शिवलिङ्गसमाकृति। अत्थम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्मितम्। संरक्ताङ्गुलि सुस्निग्धसुदीर्घमधुरध्वनिम्। घनानुसारि संरक्तं दृढं शुष्कं मनोहरम्। काश्मीरादिसमुद्भूतं तालमाहुर्मनीषिणः। सुनादं दक्षिणं तालं ततो हीनञ्च वामकम्। कुर्वीत तद्द्वयं कार्य्यं तज्जन्त्यङ्गुष्ठयोर्गतम्। वाभहस्तस्थतालस्य मध्यमं सन्निनादितम्। तिर्य्यग्दक्षिणतालस्य परिध्यशेन तालयेत्। तालादौ वादयेच्चैव प्लुतदीर्घलघुद्रुतैः”। अन्येर्षा लक्षणं विस्तरभयान्नोक्तम्। “रुक्मिण्याः सत्यभामायाः कालिन्दीमित्रविन्दयोः। जाम्बवत्या नाग्नजित्या लक्ष्मणाभद्रयोरपि। कृष्णस्याष्टमहिषीणां पुरोद्वाहमहोत्सवे। ततं सुमिरमानद्धं घनञ्च युगपज्जनाः। अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः। ततं वाद्यन्तु देवानां गन्धर्वाणाञ्च शौषिरम्। आनद्धं राक्षसानान्तु किन्नराक्षां घनं विदुः” सङ्गोतदा०

वाद्यभाण्ड = न० कम०। वादनीयपात्रे।

वा(बा)ध = विघाते भ्वा० आत्म० सक० सेट्। वा(बा)धते आवा(बा)पिष्ट। चङि न ह्रस्वः।

वा(बा)ध = पु० वा(वा)ध–घञ्। १ प्रतिरोधे २ प्रतिबन्धे न्यायोक्ते स्वाभावबत्त्वेन ज्ञाने ४ हेत्वाभासभेदे। भावे अ। वा(बा)धाप्यत्र २ पीडायाञ्च स्त्री अमरः ल्युट्। वा(बा)धनमप्यत्रार्थे न० शब्दच०।

वाधूक्य = न० वध्वां साधु यत् कुक् च। विवाहे त्रिका०।

वार्ध्रीणस = पु० वार्द्धी नस + पृषो०। वार्द्धीनसे खड्गिनि च।

वान = न० वन–घञ्। १ शुष्कफले अमरः। २ शुष्के त्रि० मेदि०। वनस्येदं तत् समूहो वा अण्। ३ वनसम्बन्धिनि त्रि०। ४ तत्संघे न०। वे–भावकर्मादौ ल्युट्। ५ सीवनकर्मणि ६ कटे। वा–भावादौ ल्युट्। ७ गतौ मेदि०। ८ जलप्लुतवातोर्मौ ९ सुरङ्गायां १० सौरभे हेमच० ११ गोक्षीरजे १२ तवक्षीरे राजनि०। १३ वर्त्तिकाखगे स्त्री जटा०।

वानप्रस्य = पु० वाने वनसमूहे प्रतिष्ठति स्था–क। १ मधूकवृक्षे २ पलाशवृक्षे। वनप्रस्थ एव स्वार्थे अण्। “गृहस्थस्तु यदा पश्येत् वलीपलितमात्मनः। पुत्रेषु दारान् नि- क्षिप्य वनं गच्छेत् सहैव वा” इत्युक्ते ३ आश्रमभेदे मेदि०। स च द्विविधः पचमानः अपचमानश्च। तत्र पचमानः अश्मकुट्टः। अपचमानस्तु दन्तालूखलिकः। तस्य धर्मो यथा “भूस्था मूलफलाशित्वं स्वाध्यायस्तप एव च। संविभागो यथान्यायं धर्मोऽयं वनवासिनः। तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च। स्वाध्याये चैव निरतो वनस्थस्तापसो मतः। तपसा कर्षितोत्यर्थं यस्तु ध्यानपरो भवेत्। सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः” गारुडे ४९ अ० याज्ञवल्क्य उवाच “वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु महर्षयः। पुत्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैव वा। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी। अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा। भृत्यांस्तु तर्पयेत् श्मश्रुजटालोमभृदात्मवान्। दान्तः स्त्रिष वणस्नायी निवृत्तश्च प्रतिग्रहात्। स्वाध्यायवान् ध्यानशीलः सर्वभूतहिते रतः। अह्लो मासस्य षणां वा कुर्य्याद्वान्नपरिग्रहम्। कृत्वा त्यजेदाश्वयुजे नयेत् कालं व्रतादिना। पक्षे मासे तु वाश्नीयाद्दन्तोलूखलिको भवेत्। चान्द्रायणी स्वपेद्भूमौ कर्म कुर्य्यात् फलादिना। ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः। आर्द्रवासास्तु हेमन्ते योगाम्यासाद्दिनं नयेत्। १०२ अ०। “जटित्वम ग्नहोत्रित्वंभूशय्याऽजिनधारणम्। वने वासः पयोमूलनीवारफलवृत्तिता। प्रतिषिद्धान्निवृत्तिश्च त्रिस्नानं व्रतधारिता। देवतातिथिपूजा च धर्मोऽयं वनवासिनः। २१५ अ०। “एवं गृहाश्रमे स्थित्वा द्वितीयभागमायुषः। वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च। निःक्षिप्य भार्य्यां पुत्रेषु गच्छेद्वनमथापि। दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः। शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे। गत्वाप्यरण्यं नियमांत्तपः कुर्य्यात् समाहितः। फलमूलानि पत्राणि नित्यमाहारमाहरेत्। यदाहारो भवेत्तेन पूजयेत् पितृदेवताः। पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान्। ग्रामादानीय वाश्नोयादष्टौ प्रासान् समाहितः। जटाश्च विभृयान्नित्यं नखरोमाणि नो त्यजेत्। स्वाध्यायं सर्वदा कुर्य्यात् नियच्छेद्वाचमन्यतः। अग्निहोत्रन्तु जुहुयात् पञ्च यज्ञान् समाचरेत्। मुन्यन्नैर्बिविधैर्मेध्यैः शाकमूलफलेन वा। चीरवासा भवेन्नित्यं स्नायात् स्त्रिषवणं शुचिः। सर्व- भूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः। दर्शेन पौर्ण मासेन यजेत नियतं द्विजाः!। पक्षेष्ट्या श्रावणे चैव चातुर्मास्यानि चाहरेत्। उत्तरायणञ्च क्रमशो दक्षस्यायनमेव च। वासन्तशारदैर्मध्यैर्मुन्यन्नैः स्वयमाहरेत्। पुरोडाशं चरुं चेव विधिवन्निर्वपेत् पृथक्। देवत भ्यश्च तद्धुत्वा वन्थं मेध्यतरं हविः। शेषं समुपभुञ्जीत लवणञ्ज स्वयंकृतम्। वर्जयेन्मधुमांसादि भौमानि कवकानि च। भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च। न फालकृष्टमश्नीयात् उत्सृष्टमपि केनचित्। न ग्रामजातान्यार्त्तो वा पुष्पाणि च फलानि च। श्रावणे चैव विधिना वह्निं परिचरेत् सदा। न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्ममो भवेत्। न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत्। जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः। ब्रह्मचारी भवेनित्यं न पत्नीमपि संश्रयेत्। यस्तु पत्न्या वनं गत्वा नैथुनं कामतश्चरेत्। तद्व्रतं तस्य लुप्येत प्रायश्चित्ती भवेत् द्विजः। तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः। न हि वेदाधिकारोऽस्य तत्त्वमप्येवमेव हि। अधः शयीत सततं सावित्रीजपतत्परः। शरण्यः सर्वभूतानां संविभागपरो भवेत्। परीवादं मृषावादं निद्रालस्ये च वर्जयेत्। एकाग्निरनिकेतः स्यात् प्रोक्षितां मूमिमाश्रयेत्। मृगैः सह चरेद्वासं तैः सहैव च सवसेत्। शिलायां शर्करायां वा शयोत सुसमाहितः। सद्यःप्रक्षालको वा स्यात् मास सञ्चयिकोऽपि वा। षण्मासनिचयो वा स्यात् समानिचय एव वा। नक्तञ्चान्नं समंश्नीयात् दिवा वाहृत्य शक्तितः। चतुर्थकालिको वा स्यात् स्याद् वा अष्टमकालिकः। चान्द्रायणवियानैर्वा शुक्ले कृष्णे च वर्तयेत्। पक्षे पक्षे समश्नीयात् यवागूकथितां तथा। पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदां। स्वाभाविकैः स्वयंशीणैर्वैखानसमते स्वितः। मूमौ वा परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम्। स्थानासनाभ्यां विहरेत् न क्वचिद्धैर्य्यमुत्सृजेत्। ग्रीष्मे पञ्चतपाश्च स्याद् वर्षास्वभ्रावकाशिकः। आर्द्रवासास्तु हेमन्ते क्रमशो वर्त्तयंस्तपः। उपस्मृश्य त्रिषवणं पितृन् देवांश्च तर्पयेत्। एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा। पञ्चाग्निघूसपो वा स्वादूष्मपः सोमपोऽथ वा। पयः पिबेत् शुक्लपक्षे कृष्णपक्षे तु गोमयम्। शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत् सदा। योगाभ्यासरतो वा स्याद्रुद्राध्यायी भवेत् सदा। अथर्वशिरसापेतो वेदान्ताभ्यासतत्परः। यमान् सेवेत सततं नियमाश्चाप्य तन्द्रितः। कृष्णाजिती सोपवीत्तः शुक्लयज्ञोपवीतवान्। अथ वाग्नीन् समारोप्य स्वात्यनि ध्यानतत्परः। चनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत्। तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत्। गृहमेधिषु चान्येषु द्विजेषु वनवासिषु। ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वनेवसन्। प्रतिगृह्य पुटेनैव पाणिना शकलेन वा। विविधाश्चोपनिषद आत्मसंसिद्धये जपेत्। विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च। महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा। अग्निप्रवेशमन्यद् वा ब्रह्मर्पणविधौ स्थितः। ये तु सम्यगिममाश्रम शिवमाश्रयन्त्यशुभपुञ्जनाशनम्। ते विशन्ति पदमैश्वरं परं यान्ति चैव जगतोऽस्य संस्थितिम्” कूर्मपु० २६ अ०

वानर = पुंस्त्री० वानं वनसम्बन्धिफलादिकं राति गृह्णाति रा–क। स्वनामख्याते पशुभेदे अमरः स्त्रियां ङीष्।

वानरप्रिय = पु० ६ त०। क्षीरिवृक्षे रत्नमा०।

वानराघात = पु० वानराणामाघातो यत्र। लोध्रवृक्षे शब्दच०

वानरी = स्त्री वानरस्य प्रियम् भक्ष्यत्वात् अण् ङीप्। १ शूकशिम्ब्याम् शब्दर०। वानर + स्त्रियां ङीष्। २ वामरयोषिति।

वानरेन्द्र = पु० वानर इन्द्र इव। १ सुग्रीवे शब्दर० ६ त०। २ वानराधीशे वानरनाथादयोऽप्यत्र।

वानल = पु० वानं वनभावं निविडतां लाति ला–क। (वावुइ) तृणभेदे शब्दच०।

वानस्पत्य = पु० वनस्पतेरयम् प्रतिरूपः पुष्पाज्जातफलत्वात्। पुष्पजातफलके आम्रादौ वृक्षे अमरः।

वानायु = पु० वनायु + पृषो०। देशभेदे (आरव) शब्दर०।

वानायुज = पुंस्त्री० वानायुदेशे जायते जन–ड। घोटकभेदे च (आरवी) अमरः स्त्रियां ङीष्।

वानीर = पु० वन–ईरन् स्वार्थेऽण्। १ वेतसे २ वञ्जुलवृक्षे अमरः।

वानीरक = पु० वानीर इव इवार्थे कन्। मुञ्जतृणे राजनि०

वानेव = न० वने जसे भवः ढक्। कैवर्तीमुस्तके अमरः।

वान्त = त्रि० वम–क्त। उद्गीर्णे “वान्ताशीत्युच्यते बुधैः” उद्भटः।

वान्तिहृत् = पु० वान्तिं वमनरोगं हरति हृ–क्विप्। (मयपा) ख्याते वृक्षे शब्दच०।

वान्तिदा = स्त्री वान्तिं छर्दिं ददाति दा–क। कट्कीवृक्षे राजनि०

वाप = पु० वप–घञ्। १ तनवादेर्वीजादेश्च २ वपने ३ मुण्डने च।

वापदण्ड = पु० उप्यतेऽयेन वप–करणे घञ् कर्म०। वेमनि तन्तुवपनदण्डे अमरः।

वापित = त्रि० वप–णिच् क्त। १ वीजाकृते २ मुण्डिते मेदि०। ३ धान्यभेदे न० राजनि०।

वापि(पी) = स्त्री वप–इञ् वा ङीप्। “द्रोणात् दशगुणा षापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम् २ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इति काव्यप्र०। “यो वापीमथ वा कूपं देशे वारिविवर्जिते। खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्प तरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तल कफवातजित्” राजवल्लभ। “वापीकूपतडागं वा पासादं वा निकेतनम्। न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते। आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म कृत्। वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे!। स्थानस्य पःपके भागे वापीकूपतडानकम्। अग्निदाह सदा कुर्याव समानुषचतुष्पदाम्। नैरृते पीयमानन्तु आत्मना दुःखितो भवेत्। कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः” देवीपु०।

वापीह = पुंस्त्री० वापीं तत्रस्थजलं जहाति हा–क। चातके विहगे त्रिका० स्त्रियां ङीष्।

वाप्य = न० वाप्यां भाः यत्। १ कुष्ठौषधे अमरः। २ वापीमव वप–ण्यत्। ३ वपनीये च त्रि०।

वाम = न० वा–मन्। १ धने मेदि० २ वास्तूके जटा०। ३ मनोहरे ४ प्रदिकूले ५ सध्यभागस्थे त्रि० मेदि०। ६ अधमे त्रि० सि० कौ० ७ सापदेहे न०। ८ कामदेवे ९ महादेवे तन्त्रोक्ते नदाचारविरुद्धे १० मद्यादिपानरूपाचारे च पु० कुलाचारशब्दे २१३४ पृ० दृश्यम्। ११ स्त्रीमात्रे स्त्री अमरः १२ दुर्गायां स्त्री। “वामं विरुद्धरूपन्तु विपरीतन्तु गीयते। वामेन सुखदा देवी वामा तेन मता बुधैः” देवीपु० ४५ अ०। “वामान्तु वामदाक्षिण्यभावाभ्यामपि पूजयेत्। श्मशानभैरवीं देवीमुग्रतारां तथैव च। उच्छिष्टभैरवीं चण्डीं तारां त्रिपरमैररीम्। एतास्तु बासभावेन यजेत् त्रिपुरभैरवीम्। सर्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः। देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमुच्यते। या पुनः पूज्यमाना तु देवादीनां तु पूर्वतः। यज्ञभावं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता” कालिकाषु० ७७ अ०।

वामदेव = पु० कर्म०। महादेवमर्त्तिभेदे अमरः।

वामन = त्रि० वम–णिच्–ल्युट्–ल्मु वा। १ दक्षिणदिगयजे अमरः। २ अङ्कोदवृक्षे ४ वलिवञ्चनार्थे प्रादुर्भूते हरेरवतारभेदे मेदि० तत्कथा हरिवं० २६१ अ० दृश्या। पाणिनिसूत्रस्य काशिकावृत्तिकारके ५ पण्डितभेदे च। ६ ह्रस्वे त्रि० अमरः स्त्रियां ङीप्। “वामतीं मूर्त्तिमाददे”।

वामलूर = पु० वाम लुनाति लू–रक्। वलमीके अमरः।

वामलोवना = स्त्री वामे सुन्दरे लोचने यस्याः। स्त्रीभेदे अमरः।

वामवेध = पु० वामः प्रतिकूनो वेधः। ज्योतिषोक्ते गोचरस्थ ग्रहाणां स्वस्वराश्यवधिकस्थानविशेषस्थग्रहभेदकृते योगभेदे “वामवेधविधिना त्वशोभना अप्यमी” इति ज्यातिषम् गोचरशब्दे २६८३ पृ० दृश्यम्।

वामाचार = पु० वामः वेदादिविरुद्धः आचारः। तन्त्रोक्ते मद्यमांसादिसेवनरूपे आचरणे। कुलाचारशब्दे दृश्यम्

वामापीडन = पु० वामं यथा तथा आपीड्यते भूष्यतेऽनेन आ + पीड–ल्युट्। पीलुवृक्षे शब्दच०।

वामावर्त्त = त्रि० वामेनावर्त्तते आ–वृत–अच्। १ वाममार्गेणावृत्तिमति पदार्थे। भावे घञ्। २ वाममार्गेणावृत्तौ पु०।

वामिल = त्रि० वाम + अस्त्यर्थे स्वार्थे वा इलच्। १ दाम्भिके २ वामे च मेदि०।

वामी = स्त्री वाम–गौरा० ङीष्। १ अश्व्याम् “अथोष्ट्रवामीशतवाहितार्थः” रघुः। २ शृगाल्यां ३ रासभ्यां ४ करभ्याञ्च मेदि०।

वामोरू = स्त्री वामौ सुन्दरौ ऊरू यस्याः ऊङ्। प्रशस्तारुयुतायां नार्य्याम्।

वाय = पु० वे–घञ्। वयने (वोना)।

वायदण्ड = पु० वायतेऽनेन वे–करणे घञ्। कर्म०। वेमनि वापदण्डे द्विरूपकोषः।

वायवी = स्त्री वायोरियं ण्य स्त्रियां ङीप् यलोपः। १ वायुसम्बन्धिन्थां स्त्रियां २ तच्छक्तौ ३ उत्तरपश्चिमायां दिशि च जटा०।

वायव्य = त्रि० वायुर्देवताऽस्य वाय् + ण्य। १ वायुदेवताके पश्वादा “वायव्यं श्वेतगालभेत” श्रुतिः। २ वायुसम्बन्धिनि च

वायस = त्रि० वय एव अण्। १ काके वायं वपनं स्यति सो–ग्र। २ अगुभवृक्षे ३ श्रीवासे च मेदि०।

वायसविद्यिक = त्रि० वायसाविद्यां वेत्ति ठक्। काकचेष्टा० भेदेन सभाशुभाभिज्ञे।

वायसादनी = स्त्री वायनैः काकैरद्यते अद–ल्युट् ङीप्। १ काकतुरण्ड्यां २ महाज्योतिष्मत्याञ्च राजनि०।

वायसाराति = पु० ६ त०। पचके अमरः।

वायसी = स्त्री पायसस्यंयग्रण् प्रियत्वात्। १ काकोडुम्बरिका- याम २ काकमाच्यां च मेदि० ३ महाज्योतिष्मत्यां ४ काकनासाया ५ काकतुण्ड्यां च राजनि०।

वायसेक्षु = पु० वायसानामिक्षुरिव प्रियः। काशतृणे राजनि०

वायसोली = स्त्री वायसमोडते ओड–उत्क्षेपे अच् डस्य लः शक० गौरा० ङीष्। काकमाच्याम् शब्दर०। स्वार्थे क तत्रैव।

वायु = पु० वा–उण्। १ स्पर्शगुणके पञ्चभूतमध्ये भूतभेदे उत्तरपश्चिमविदिशाधिपतौ २ देवभेदे ३ देहस्थधातुभेदे च अनिलसब्दे १६४ पृ० दृश्यम्।

वायुगुल्म = पु० वायुना गुल्म इव। अम्भसांभ्रमे त्रिका०

वायुदारु = पु० वायुना दीर्य्यतेऽसौ दॄ–उण्। मेघे त्रिका०।

वायुपुत्र = पु० ६ त०। १ हनुमति २ भीमे च वायुसुतादयोऽप्यत्र

वायुफल = न० वायुना फलति प्रतिफलति फल–अच्। १ इन्द्रचापे २ करकायां च मेदि०।

वायुभक्ष = पुंस्त्री० वायुं भक्षति भक्ष–अण्। १ सर्पे राजनि०। स्त्रियां ङीष्। ल्यु। वायुभक्षणोऽप्यत्र। वायुर्भक्ष्योऽस्य। वायुभक्ष्य तत्रार्थे पुंस्त्री० स्त्रियां टाप्।

वायुवर्त्मन् = न०। वायोर्वर्त्म सञ्चारमार्गो यत्र। आकाशे शब्दर०।

वायुवाह = पु० वायुना उह्यते वह–घञ्। घूमे हेमच०।

वायुवाहिनी = स्त्री वायुं देहस्थवायुं वाहयति सञ्चारयति वह–णिच–णिनि। वायुसञ्चारिण्यां देहस्थसिरायाम्कायशब्दे १९१९ पृ० दृश्यम्।

वायुसख = पु० वायोः सखा महचरः अच्समा०। अग्नौ भरतः।

वायुसखि = पु० वायुः सखा यस्य। अग्नौ अमरः।

वाय्वास्पद = न० ६ त०। वायुसञ्चारस्थाने आकाशे धनञ्जयः।

वार् = न० चु० वृ–क्वप्। अप्सु अमरः।

वार = पु० वृ–घञ्। १ सङ्घे २ अवसरे अमरः। स्वयोग्यकाले (पाला) “वारोऽङ्गराजस्वसुः” सा० ३ प०। ४ द्वारे ५ शिवे ६ कुब्जवृक्षे ७ क्षणे मेदि०। वार् + सघे अण्। ८ जलसघे न० सूर्य्यादिग्रहाधिकृते ९ दिने पु० यथा रविवारः रविस्यामिकं दिनम्। तदानयनञ्च सू० सि० “मन्दादधः क्रमेण स्यश्चतुर्था दिवसाधिपाः। वर्षा धिपतयस्तद्वत् तृतीयाश्च प्रकीर्त्तिताः। ऊर्ध्वक्रमेण शशिनो मामानामधिपाः स्मृताः। होरेशाः सूर्य्यतनयादधोऽधःक्रमतस्तथा।” सू० “शनेः मकाशादधःकक्षाक्रमेण चतुर्थसङ्ख्याका ग्रहा दिनाधिपतया वारेश्वरा भवन्ति। यथा शनिरविचन्द्रभौमबुधगुरुशका इति। वर्षस्व षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्म- न्दादधः क्रमेण तृतीयसङ्ख्यका ग्रहा उक्ताः। चः समुच्चयार्थे। तत्क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरुसूर्य्यबुधा इति। चन्द्रात् सकाशादूर्द्धकक्षाक्रमेण ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः जथिताः। तत्क्रमश्च चन्द्रबुधशुक्ररविभौमगुरुशनथ इति। शनेः सकाशादधोथः क्रमतः अधःक्रमेण होरेशाः “होरेति लग्नं भगणस्व चार्धम्” इत्युक्तलग्नार्द्धभागात्मकहोराणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशतिहोराणामित्यर्थः। होरा सार्धद्विनाडिका। इति षष्टिघटिकात्मकेऽहोरात्रे चतुर्विंशतिहोराणामि त्यन्ये स्वामिनस्तथा मासेश्वरवदव्यवहिताः कथिताः। यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति। अत्र शनेः सर्वोर्द्धस्यत्वाच्चन्द्रस्य सर्बाधः स्थत्वात् ताभ्वामध ऊर्ध्वक्रमः क्रमेणोक्तः अन्यग्रहस्यावधित्वाभ्युपगमे विनिगमनाविरहापत्तेः। न तु शनेराणावधित्वेन सृष्ट्यादौ दिनवर्षहोराणां स्वामित्वं न वा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्वखण्डोक्तानीततदीशैर्विरोधापत्तेः। अत्रोपपत्तिः। होरारूपलग्नानां क्रान्तिवृत्तेऽधाक्रमेण मेषादीनां सम्भवादूर्ध्वकक्षातोऽधः क्रमेण होरेशत्वं युक्तम्। एवमहोरात्रे चतुर्विंशतिर्होराः। सप्ततष्टास्त्रयो होरेसा गताः चतुर्थो होरेशो द्वितीयदिनप्रारम्भे स एव प्रथनहोरेशत्वाद् द्वितीयदिने होरेशः। एवमुत्तरत्रापि। एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा अधिका इति पूर्ववर्षेशादग्रिमवर्षेशाऽधःकक्षाक्रमेण तृतीय उत्तरोत्तरम्। एवं सावनमासे द्वौ वारौ वारक्रमेण मासेश्वरस्याधिकाविति कक्षोर्ध्वक्रमे वारक्रमेणैकान्तरितत्वात् कक्षोर्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपस्रं मन्दादित्यादि श्लोकदृयम्” रङ्गनाथः। वारप्रवृत्तिश्च दृशभेदात् भिन्नकालीना यथोक्तं सि० चि० “अर्कोदयादूर्ध्वमधश्च ताभि प्राच्यां प्रतीच्यां दिशि तत्प्रवृत्तिः। ऊर्ध्वं तथाऽधश्च कलाभिराभीरयाषुदग्दक्षिणगोलमात्रे” मू०। “प्राच्या ताभिर्घटीभिर्दनवारप्रवृत्तिरर्कोदयादूध्वम् भवति प्रतीच्यां तु तस्मादधः। यतो लङ्कोदये वारादि अतएव च वारादुत्तरगोचस्थे चरोर्ध्वघटिकामिरूर्ध्वम् यतस्तदा उन्मण्डलं क्षितिजादूर्ध्वम्। दक्षिणे त्वधः अतस्तत्रीदयादधः वारप्रवृत्तिः” प्रमिता०। “जगति तमोभूतेऽस्मिन् मृष्ट्यादौ भास्करादितिः सृष्टैः। यस्माद्दिनपवृत्तिर्दिनवारोऽर्कोदयात् तस्मत्”। श्रीपतिरपि “सृष्टेर्मुखे ध्वान्तमयेऽपि विश्वे ग्रहेषु सृष्टेष्विनपूर्वकेषु। दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्मादुदयप्रवृत्तिः। लङ्कोदग्याम्यसूत्रात् प्रथममपरतः पूर्वदेशे च पश्चात् अध्वोत्थाभिर्घटीभिः सवितुरुदयतो वासरे वा प्रवृत्तिः। ज्ञेया सूर्य्योदयात् प्राक् चरगकलभवैश्चामुभिर्याम्यगोले पश्चात् तैः सौस्यगोले युतिवियुतिवशाच्चोभयोः स्पष्टकालः”। अन्योऽप्याह “केचिद्वारं सवितुरुदयात् प्राहुरन्ये दिनार्द्धात् भानोरर्द्धास्तमय समयादूचिरे केचिदेवम्। वारस्यादिं यवननृपतिर्दिङ् मुह्रर्त्ते निशाया लाटाचार्य्यः कथयति पुनश्चार्द्धरात्रे स्व तन्त्रे”। एवं मतभेदे व्यवस्था मलमा० उक्ता यथा “द्वो तिथ्यन्तावेकवारे यत्र स स्यात् दिनक्षयः” कूर्मपु० “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलम्” वसिष्ठः। कौर्मपुराणवासिष्ठवचनैकवाक्यतया सावनदिनवत् वारप्रवृत्तिः सूर्य्योदयावधिरेव मूर्य्यसि० “सूतकानां परिच्छेदो दिनमासाव्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता”। अत्र दिनाधिपस्य रव्यादेर्भाग्यं दिनं वाररूपं सावनगणनयोक्तम् यत्तु “रेखापूर्वापरयोः इत्यादिना ज्यातिषे वारप्रवृत्तिरुक्ता तत् ज्योतिषशास्त्रो कालहोराज्ञानार्थम्”। वाराणां कृत्यविशेषविधानार्थं संज्ञाभेदा यथा “चरः सौम्यो गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः। शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः। चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः। दारुणोग्रैश्च योद्धव्यं क्षत्त्रियैर्बुद्धकाङ्क्षिभिः”। इति सामान्यतोऽभिधाय “नृपाभिषेकोऽग्निकार्य्यञ्च सूर्य्यवारे प्रशस्पते। सोमे तु लेपयानं च कुर्य्याच्चैव गृहादिकम्। सैमापत्यं शौर्य्ययुद्धं शस्त्राभ्यासः कुजे तथा। सिद्धिकार्य्यञ्च गन्त्रञ्च यात्रां चौ बुधे तथा। पठनं देवपूला च वस्त्र द्याभरणं गुरौ। कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रिया। स्थाप्यं गृहप्रवेशश्च गजबन्ध शगौ शुभः” गरुडपु० ६२ अ०

वारक = त्रि० वारयति वृ–णिच्–ण्वुल्। १ प्रवृत्तिनिराधके। २ अश्वभेदे ३ अश्वमतिविगेषे श पु० मेदि०। ४ कष्टस्थाने ५ ह्रीवेरे न० हेमच०।

वारकिन् = पु० वारकः अस्त्यस्य इनि। १ चित्राश्वे २ पर्णाजावानि (वारुइ) ३ समुद्रे ४ शत्रौ च मेदि०।

वारकीर = पु० वारे कीर इव। १ श्यालके त्रिका० वार ग्राहके ३ वाडवे ४ यूकायां ५ वेणिवेधिन्यां ६ नीराजितहये च मेदि०।

वारङ्ग = पु० चु० वृ–अङ्गच्। खड्गादिमुष्टौ (मुट) सि० कौ०।

वारट = न० चु० वृ–अटच्। १ क्षेत्रे त्रिका० २ क्षेत्रसमूहे शब्दर० ३ हंस्यां स्त्री हेमच० टाप्।

वारण = न० चु०–वृ–ल्युट्। प्रवृत्तिप्रतिरोधे १ निषेधे मेदि० २ हस्तादिवारणे च जटा०। ३ गजे पुंस्त्री० अमरः स्त्रियां ङीष्। ४ वाणवारे कवचे पुंन० शब्दच०।

वारणबुषा = स्त्री वारणं पुष्णाति पुष–क पृषो० पस्य बः। कदल्याम् अमरः।

वारणवल्लभा = स्त्री ६ त०। कदल्याम् त्रिका०।

वारमुख्या = स्त्री वारे वेश्यावृन्दे मुख्या। बहुजनसत्कृतायां वेश्यायाम् अमरः।

वारंवारम् = अव्य० वृ–णमुल् द्वित्वम्। पौनःपुन्ये।

वारयितृ = पु० चु० वृ–तृच्। १ पत्यौ हला०। २ वारणकर्त्तरि त्रि०।

वारयोषा = स्त्री वारस्य जनसमूहस्य योषा साधारणत्वात्। वेश्यायाम्। ६ त०। वारबध्वादयाऽप्यत्र हेमच०।

वारलोक = पु० वार्जलम् अलीकं यत्र। (वावुइ तुलसी) क्षुपे शब्दर०।

वारवाण = पुंन० वार्य्यते वृ–घञ् वारो वार्य्यो वाणे यस्य। कवचे अमरः।

वारवाणि = स्त्री वारं समूह वणते वण–इण् वा ङीप्। वेश्यायाम् त्रिका०।

वारवृषा = स्त्री वारं जलसंषं वर्षत्यत्र वृष–क। १ धान्ये २ कदल्यां शब्दर०।

वारवेला = स्त्री ६ त०। सूर्य्यादिदिनविशेषे वर्ज्यकालभेदे “कृत ४ मुनि ७ यम २ शर ५ मङ्गल ८ राम ३ र्तुषु ६ भास्कारादिपामार्द्धो। प्रभवति हि वारवेला न शुभा शुभकार्य्यकरणार्यज्यो० त०।

वारांनिधि = स्त्री वारां जलराशीनां विधिराधारः नि + धाकि अलुक् सभा०। समुद्रे शब्दर०।

वाराणसी = स्त्री वरणा च असी न सोसात्वेनास्त्यस्या अण् पृषो० काशीपुर्य्यां हेम०। पर्पा० वराणस्यप्यत्र। वरणाशब्दे ४८४९ पृ० दृश्यम्।

वाराह = पु० वराहस्येदं प्रियत्वात् अण्। १ महापिण्डीतकवृक्षे राजनि०। २ वराहसम्बन्धिनि त्रि०।

वाराहकर्णो = स्त्री वराहस्यायं वाराह इव कर्णः पत्त्रमस्याः ङीप्। अश्वगन्धायाम् राजनि०।

वाराहपत्री = स्त्री वाराहस्तत्कर्ण इव धत्त्रमस्याः ङीप् अश्वगन्धायाम् राजनि०।

वाराहाङ्गी = स्त्री वाराहमिवाङ्गमस्याः ङीप्। दन्तीवृक्षे भावप्र०।

वाराही = स्त्री वराहस्येयमण् ङीप्। अष्टमातृकामध्ये १ वराहशक्तौ “यज्ञवराहमतुलं रूपं या विभ्रता हरेः। शक्तिः साप्याययौ तत्र वाराहीं विभ्रती तनुम्” देवीमा० “वाराही नारसिंही च” श्यामास्तवः। २ योगिनीभेदे वृहन्नन्तिकेश्वरपु०। ३ वराहक्रान्तायाम् अमरः ४ वराहयोषिति च ५ श्याभाखगे राजनि०।

वाराहीकन्द = पु० (चामरालु) ख्याते कन्दभेदे “वाराहीकन्द एवान्यैश्चर्म्मकार लुको मतः। अनूपे स भवेद्देशे वराहैव लोमवान्” भावप्र०।

वारि = न० वृ–इण्। १ जले अमरः २ ह्रीवेरे च हेमच०। वार्य्यतेऽनया वृ–णिच्–इन् वा ङीप्। ३ गजवन्धन्याम् अमरः। “वाय्यर्गलाभङ्ग इव प्रवृत्त” रघुः। ४ वाचि ५ सरस्वत्याम् च स्त्री ङीबन्तः ६ कलस्यां धरणिः ७ वन्दौ च मेदि०।

वारिकण्टक = पुंन० वारिणः कण्टक इव। शृङ्ग टके जटा०

वारिकर्णी = स्त्री वारिणि कर्ण इव पत्त्रमस्याः ङीप्। १ कुम्भ्याम् (पाना) शब्दर० स्वार्थे क। तत्नैव।

वारिकर्पूर = पुंस्त्री वारिणि कर्पूर इव। इल्लिशमत्स्ये त्रिका० स्त्रियां ङीष्।

वारिकुब्ज = पु० वारिणि कुब्ज इव वक्राकृतित्वात्। शृङ्गाटके शब्दर०। स्वार्थे क। तत्रैव त्रिका०।

वारिक्रमि = पु० ६ त०। जलौकायां त्रिका०

वारिचत्वर = पु० वार्य्येव चत्वररूपमस्याधारत्वात्। कुम्भिकायाम् त्रिका०।

वारिचर = पुंस्त्री० वारिषु चरति चर–अच्। १ मत्स्ये २ जलचरजन्तुमात्रे त्रि० स्त्रियां ङीप्।

वारिचामर = न० वारिणश्चामरमिव शोभाहेतुपुञ्जाकृतित्वात्। शैवाले त्रिका०

वारिज = न० वारिणि जायते जन–ड। १ पद्मे २ लवङ्गे ३ गौरसुवर्णे ४ लवणभेदे च राजनि०। ५ शङ्खे हेमच० ६ शम्बूके पु० शब्दच०। ७ जलजातमात्रे त्रि०।

वारितस्कर = पु० वारिणः तस्कर इवापहारकत्वात्। १ सूर्य्ये २ मेघे शब्दमा०। ३ मुस्तके च।

वारित्रा = स्त्री वारिणस्त्रायते त्रै–क। छत्त्रे त्रिका०।

वारिद = न० वारि ददाति दा–क। १ मेघे २ मुस्तके च अमरः। ३ जलदातरि त्रि० ४ वालायां स्त्री शब्दच०।

वारिधि = पु० वारीणि धीयन्तेऽस्मिन् धा–आधारे कि। १ समुर्द्र शब्दर० वारिनिध्यादयोऽप्यत्र जलांधारे २ घटादौ च

वारिपर्णी = स्त्री वारिणि पर्णान्यस्याः ङीप्। कुम्भिकायाम् (पाना) अमरः।

वारिपालिका = स्त्री वारीणि पालयति आस्तरणेन पालण्वुल्। कुम्भिकायाम (पाना) शब्दमा०।

वारिपृश्नी = स्त्री वारिणि पृश्निः पर्णमस्याः ङीप्। कुम्भिकायाम् (पाना) शब्दमा०।

वारिबदरा = स्त्री वारिसमीपभवा बदरेव। प्राचीनामलके त्रिका०।

वारिबालक = न० वारिणो बालक इव। ह्रीवरे हारा०।

वारिभव = न० वारिणे नेत्रजलाय वारिणि वा भवति प्रभवति वा भू–अच्। १ स्रोतोऽञ्जने राजनि०। २ जलभवमात्रे त्रि०

वारिमसि = पु० वारि जलं म सरिव नीलतापादकं यस्य। १ मेघे त्रिका० २ मुस्तके च।

वारिमूली = स्त्री वारिणि मूलमस्याः ङीप्। कुम्भ्याम् (पाना) त्रिका०।

वारिरथ = पु० वारिणि रथ इव गमनसाधनत्वात्। भेलके त्रिका०

वारिराशि = पु० वारीणां राशयोऽत्र। १ समुद्रे त्रिका०। ६ त०। २ जलसमूहे च।

वारिरुह = न० वारिणि रोहति रुह–क। १ पद्मे राजनि० २ जलजातमात्रे त्रि०।

वारिवदन = न० वारियुक्तं वदनं यस्मात्। प्राचीनामलके तत्सेवने हि मुख वारिनिस्रावः।

वारिवर = न० वारि वृणोति वृ–अच्। वरमर्दके जटा०।

वारिवल्लभा = स्त्री वारि वल्लभमस्याः जनकत्वात्। विद र्य्याम् राजनि०।

वारिवाह = पु० वारीणि वहति वह–अण्। १ मेघे २ मुस्तके च अमरः। ण्वि। वारिवाडप्यत्र भत्वे वार्यूहः।

वारिश = पु० वारिणि समुद्रजले शेते शी–ड। विष्णौ त्रिका०।

वारीश = पु० ६ त०। १ समुद्रे २ वरुणे च। वारिनाथादयोऽप्यत्र।

वारु = पु० वारयति रिपून् वारि–उण्। विजयकुञ्जरे हारा०।

वारुण = न० वरुणस्येदमण्। १ जले २ वरुणसम्बन्धिनि त्रि०। स देवताऽस्य अण्। २ वरुणदेवताके त्रि०। ४ शततारके न०।

वारुणि = पु० वरुणस्यापत्यम् इञ्। अगस्त्वमुनौ त्रिका०।

वारुणी = स्त्री वरुणो देवतास्य वरुणस्येदं वा अच् ङीप्। १ पश्चिमलिशि २ मदिरायाम् हेमच०। ३ शतभिघातारायां। ४ गण्डदूर्वायाम् ५ दूर्वायां मेदि०। ६ इन्द्रवारुण्यां राजनि० ७ वरुणस्त्रियां ८ शतभिषानक्षत्रयुक्तचैत्रकृष्णत्रयोदस्यां च स्कन्दपुराणे। “वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी। गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” वारुणं शतभिषा। “शनिवारसमायुक्ता सा महावारुणी स्मृता। गङ्गायां यदि लभ्येत कोटि सूर्य्यग्रहैः समा। शुभयोगसमायुक्ता शनौ शतभिषा यदि। महामहेति विख्याता त्रिकोटिकुलमुद्धरेत्” “अत्र संज्ञाविधेः सार्थकत्वाय निमित्तत्वेन मासपक्षतिथ्युल्लेखानन्तरं महावारुणीमहामहावारुण्यावुल्लेखनीये श्राद्धे पार्वणादिसंज्ञाल्लेखवत् पौर्णमास्यमावास्ययोः पक्षाल्लेखवच्च ति० त०। अत्र वारघटितत्वात् सावनदिनमेव ग्राह्यम् “सृतकानां परिच्छेदो दिनमासाब्दपास्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः” सृ० सि० उक्तेः। कोर्मपाद्मयोः “द्वौ तिथ्यन्तावेकवारे यत्र स्मात् स दिनक्षयः”। बशिष्ठः “एकस्मिन् सावने त्वह्नि तिथीनां त्रितवं यदा। तदा दिनलयः प्रोक्तस्तत्र साहस्रिकं फलम्” इत्येतयोर्वचनयोरेकवाक्यतयापि तथावगम्यते। रखापूर्वपरयोरित्यादिकन्तु ज्योतिःशास्त्रोक्तं कालहोरादिज्ञानार्थमिति। अत्र “संक्रान्तिषु व्यतीपाते ग्रहणं चन्द्रसूर्य्ययोः। पुष्ये स्नात्वा च गङ्गायां कुलकोटीः समुद्धरेत्”। इति ब्रह्माण्डपुराणात् ग्रहणमात्र त्रिकोटिकुलोद्धरणविधानात् ततोऽधिकेषु वारुण्यादिषूत्तरोत्तरगुरुषु महामहावारुण्यदिषु यत् त्रिकोटिकुलोद्धरणमुक्तं तदुद्धरणगततारतम्येनाविरुद्धम् “यं यं क्रतुमधीते च तस्य तस्याप्नुयात् फलम्” याज्ञवल्क्योक्ताध्ययनात् यथा तत्तद्याराकरणेऽधिकफलम् अतएव शिष्टानामादरोऽपि तथेति। नचात्र “स्नानं कुर्वन्ति यानार्य्यश्चन्द्रे शतभिषां गते। सप्तजन्म भवेयुस्ता दुर्भगाविधवाध्रुवम्। “त्रयोदश्यां तृतीयायां दशम्याञ्च विशेषतः। शद्रविट्क्षत्रियाः स्नानं नाचरेयुः कथञ्चन” इति प्रचेतोजावालिवचनाभ्यां स्त्रीणां शूद्रादीनाञ्च स्नाननिषेध इति वाच्यम् “भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः। तन्निषिद्धं दशम्यादौ नित्य नैमित्तिके न तु” इति हेमाद्रिधृतवचनेन रागप्राप्तस्नान एव निषेधात् नक्षत्रेऽपि तथाकल्पनात्। अत्र त्रयोदश्यां पूर्णायां पूवाह्णातरकाले नक्षत्रादिसत्त्वे परदिने पूर्वाह्ण तिथिनक्षत्रलाभेऽपि पूर्वदिन एव स्नानम्। तथा च कालमाधवीये नारदीयम आदित्योदयवलाया आरभ्य षष्टिनाडिकाः। तिथिस्तु सा हि शुद्धा स्यात् सार्वतिथ्या ह्ययं विधिः” अत्र पूर्वतिथेः शुद्धत्वाभिधानातु ततपरतिथेरशुद्धत्वाभिधानं प्रतीयते। रात्रावपि वारुण्यादिषु गङ्गायां स्नानम्। “दिवा रात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः। स्नात्वाऽश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः”। गृहस्थरत्नाकरे देवलः “महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम्। तस्यां स्नानं न कर्त्तव्यं काम्यनैमित्तिकादृते”। अत्र सहानिशायामपि काम्यनैमित्तिकं स्नानं प्रतीयते”। ति० त० रघु०

वारेन्द्री = स्त्री देशभेदे (वारेन्द्रभूमि) (राजसाही) वङ्गदेश प्रदेशभेदे।

वार्च = त्रि० वारि चरति चर–ड। जलचरे हंसादौ।

वार्णिक = पु० वर्णस्तल्लेखनं शिल्पमस्य ठञ्। लेखके शब्दच०

वार्त्त = न० वृत्ति + अण्। १ आरोग्ये २ असारे ३ निरामये ४ वृत्तिशीले च त्रि० अमरः। ५ दुर्गायां “पश्वादिपाललाद्देवी कृषिकर्मान्तकारणात्। वर्त्तनाद्धारणाद्वापि वार्त्ता सैव प्रगीयते” देवीपु०। ६ वृत्तौ कृषिकर्मणि ७ जनश्रुतौ अमरः। ८ वृत्तान्ते ९ वातिङ्गणे मेदि०। १० कालकर्त्तृके भूतनाशने च स्त्री “अस्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिनेन्धनेन। मासर्तुदर्वीपरिघट्टनेन मूतानि कालः पचतीति वार्त्ता” इति भा० व० यक्षप्रश्नः।

वार्त्ताक = पु० वार्त्तमारोग्यमाकयति गमयति अक–णिचअण्। वार्त्ताकौ त्रिका०। भावप्र० स्त्रीत्वमस्योक्तं ङीप

वार्त्ताकु = स्त्री वार्त्तमारोग्यमाकयति गमयति अक–णिचुण्। वृन्ताके (वेगुन) शब्दच०। “अग्निप्रदा १ मारुतनाशिनी २ च शुक्रपदा ३ शोणितवर्द्धिनी ४ च। हृल्लासकासारुचिनाशिनी च ५। ६। ७। वार्त्ताकुरेषा गुणसप्तयुक्ता। सा बाला कफवातघ्नी पक्वा सक्षारपित्तला। सदाफला त्रिदोषघ्नी रक्तपित्तप्रसादनी। अङ्गारपक्वा वार्त्ताकः किञ्चित् पित्तकरी मता। कफमेदोऽनिलहरा सरा लघुतरा परा” राजव०। “वृन्ताकं स्वादुतीक्ष्णोष्णं कटुपाकमपित्तलम्। ज्वरवातनलासघ्नं दीपनं शुक्रलं लघु। तद्बालं कफपित्तघ्नं वृद्धं पित्तकरं गुरु। वृन्तार्कं पित्तलं किञ्चिदङ्गारोपरिपाचितम्। कफमेदोऽनिलामघ्नमत्यन्तं लघु दीपनम्। तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम्। अपरं श्वेतवृन्ताक कुक्कुटाण्डसमं भवेत्। तदर्शःसु विशेषेण हितं हीनञ्च पूर्वतः” भावप्र०। तत्रार्थे पु० त्रिका०।

वार्त्तायन = पु० वार्त्ताया अयनं येन। प्रवृत्तिज्ञे चरे हेमच०

वार्त्तावह = पु० वार्त्तामावहति आ + वह–अण्। १ कृषिवाणिज्याजीविनि वणिग्भेदे अमरः २ वृत्तान्तवाहके त्रि०

वार्त्तिक = न० दात्तरूपेण कृतो ग्रन्थः ठक्। “उक्तानुक्त- दुरुक्तार्थव्यक्तकारि तु वार्त्तिकम्” इत्युक्ते सूत्रानुक्ताद्यर्थाविष्कारके ग्रन्थभेदे हेमच०। वार्त्तायां तद्धरणे नियुक्तः ठक्। २ चर त्रि०। वृत्तिः कृष्यादिः प्रयोजनमस्य ठञ। ३ वैश्ये ४ वर्त्तिकाखगे पुंस्त्री० स्त्रियां ङीष्। राजनि० ५ वार्त्ताकौ शब्दर०। ६ खगभेदे (वटेल) स्त्री हारा०।

वार्दर = न० वारे जलाय दीर्य्यते दृ–अप्। १ दक्षिणावर्त्तशङ्क्षे २ काकचिञ्चायाम् ३ कृष्णलावीज ४ भारत्यां मेदि० ५ कृमिजे ६ आम्रवीजे च। वारेव दरम्। ७ जले च विश्वः।

वार्दल = न० वार्दल्यतेऽत्र दल–आधारे क्र। १ दुर्दिने २ मस्याधारे पु० मेदि०।

वार्द्धक = न० वृद्धानां समूहः तस्य भावः कर्म वा वुञ्। १ वृद्धस मूदे वृद्धस्य २ भावे ३ कर्मणि च मेदि०।

वार्द्धक्य = न० वृद्धस्य भावः कर्म वा ष्यञ् कुक् च। वृद्धत्वे अमरः।

वार्द्धि = पु० वारि जलानि धीयन्तेऽत्र धा–कि उप०। समुद्रे त्रिका०।

वार्द्धिभव = न० वार्द्धो समुद्रे भवति भू–अच्। सामुद्रलवर्ण राजनि०। २ समुद्रभवमात्रे त्रि०

वार्द्धुषि = पु० वृद्ध्या जीवति इण् वृद्धेर्वृधुषिभावः। वृद्ध्याजीवे अमरः। स्वार्थे क तत्रैव। “समार्घं धान्यमादाय महार्घं यः प्रयच्छति। स र्व वार्द्धुषिको नाम हव्यकव्यवाहष्कृतः” स्मृतिः। वृद्धिश्च वृद्धिशब्दे वक्ष्यते तत्रोक्तानयमातिक्रमेण अनापदि स्वयमन्यद्वारा वा स्वाच्छ्यन्द्येन यो व्यवहरति तस्यैव प्रायश्चित्तम् आपदि तु स्वयं करणे नियमातिक्रमे च न दोषः” प्रा० वि०।

वार्द्धुषिन् = त्रि० वृद्धि + अस्त्यर्थे इनि प्रकृतेः नि० वार्धुषि भावः। वृद्ध्याजीविनि भा० आ० ४८२६ श्लो०।

वार्द्धुष्य = न० वार्द्धुषेर्भावः ष्यञ्। धान्यादेर्वर्द्धनोपाये (वाडि देया) त्रिका०।

वार्द्धीनस = पुंस्त्री० वारि जलानि धयति धा–क्विप् वार्द्धीः नासा नासिका यस्य नसादेशः। १ गण्डके त्रिका० स्त्रियां ङीष। “त्रिप्लवं त्विन्द्रिवक्षीणं श्वेतं वृद्धमजापतिम्। वार्द्धीनसः प्राच्यतऽसौ हव्ये कव्ये च सत्कृतः” इत्युक्ते २ छागभेदे “वार्द्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी” सनुः। ३ पक्षिभेदे च “रक्तपादो रक्तशिरा रक्तचञ्चुविहङ्गमः। कृष्णो वर्णेन च तथा पक्षी वार्द्धीनसो मतः मार्क० पु० अयं आद्धाङ्गम्। वलिदानाङ्गं कलिका पु० ६६ अ० उक्तो यथा “नीलग्रीवो रक्तशीर्षः कृष्णपादः सितच्छदः। वार्द्धीनसः स्यात् पक्षीशो मम विष्णोरतिप्रियः”। पृषो० वार्ध्रीणमोऽप्यत्र।

वार्भट = पुंस्त्री० वारि भट इव कुम्भीरे त्रिका० स्त्रियां ङीष्।

वार्मण = न० वर्मणां समूहः अण् न टिलोपः। कवचसमूहे अमरः।

वार्मिण = न० वर्मिणां समूहः अण् न टिलोपः। कवचिसमूहे शब्दर०।

वार्मुच् = पु० वारि जलानि मुञ्चति मुच–क्विप्। १ मेथे शब्दर० २ मुस्तके च।

वार्शिला = स्त्री वार्जाता शिला शाक०। करकायां शब्दच०।

वार्षक = न० पृथिवीभागभेदे। “दशधा विभजन् क्षेत्रमकरोत् पृथिवीमिमाम्। इक्ष्वाकुज्येष्ठद्रायादो मध्यदेशमवाप्तवान्। क्रोष्टवे वार्षकं क्षेत्रं रणवृष्टिर्बभूव ह” अग्निपु०।

वार्षिक = त्रि० वर्षे वर्षासु वा भवः ठञ्। १ वत्सरभवे २ वर्षाकालभवे च। ३ त्रायमाणलतायां न० मेदि० तत्रार्थे स्त्री राजनि० स्त्रीत्वे ङीप्। ४ वर्षे वर्षे कर्त्तव्यायां पूजायां स्त्री ङीप्। “शरत्काले महापूजा क्रियते या च वार्षिकी” देवीमा०।

वार्हत = न० वृहत्याः फलम् अण् तस्य न लुप्। वृहतीकले अमरः।

वार्हद्रथ(थि) = पु० वृहद्रथस्यापत्यमण् इञ् वा। वृहद्रथराजपुत्रे जरासन्धे नृपे त्रिका० अणन्तः शब्दर०।

वार्हस्पत्य = न० वृहस्पतिना प्रोक्तमधीते पत्यन्तत्वात् यक्। १ चार्वाके रत्नमा०। तेन पोकं तस्येदं वा यक्। २ नीतिशास्त्रे ३ वौद्धागमे च। ४ वृहस्पतिसम्बन्धनि त्रि०। ५ वर्षभेदे गुरुवर्षशब्दे २६१९ पृ० दृश्यम स देवताऽस्य यक्। ४ तद्देव ताके त्रि० ६ पुष्यनक्षत्रे न० शैषिकोऽण्। वार्हस्पत ततसम्बन्धिनि त्रि० स्त्रियां ङीप्।

***