वव = पु० वा ड प्रकारे द्वित्वम् ज्योतिषोक्ते तिव्यर्द्धात्मके प्रथमे करणे। अस्य औष्ठप्रादित्वमित्यन्ये।
वश = स्पृहायाम् अदा० पर० सक० सेट। वष्टि उष्टः उशन्ति। अवट् अवाशीत् अवशीत् उवाश ऊशतुः।
वश = पुंन० वश–भावे अप्, कर्त्तरि अच् वा। १ आयत्तत्वे २ प्रभुत्वे च आयत्ते त्रि० शब्दर०।
वशंवद = त्रि० वशं वशकरं मधुरं, वशोऽहनिति वा वदति वद–खच् मुम् च १ प्रियवाक्यवादिनि २ मधुरवादिनि (तवाहं वशः) इति २ वादिनि च।
वशक्रिया = स्त्री वशस्य क्रिया करणं कृ–भावे श। वशीकरणे।
वशग = त्रि० वशं गच्छति गम–ड। वशीभूते।
वशवत्तिन् = त्रि० वशे वर्त्तते वृत–णिनि। वशीभूते।
वशा = स्त्री वश–अच्। १ बन्ध्यायां २ योषायां ३ सुतायां ४ क५ रिण्यां स्त्रीगव्याञ्च मेदि०। अनेन जातेः समासे परनि० गोवशा।
वशिक = त्रि० वशोऽस्त्यस्य ठन्। १ शून्ये अमरः २ अगुरुचन्दने स्त्री।
वशित्व = न० वशिनो भावः त्व। १ स्वातन्त्र्ये २ ईशरय्स ऐश्वर्य्यभेदे च। तल्। वशिताप्यत्र स्त्री।
वशिन् = त्रि० वशोऽस्त्यस्य इनि। १ जितेन्द्रिये २ स्वाधीने स्वतन्त्रे च।
वशिर = न० वश–इरन्। १ सामुद्रलवणे अमरः। २ नजपिप्पल्याम् ३ चव्ये च पु० राजनि०।
वशिष्ठ = अतिशयेन वशी इष्ठन् इनेर्लुक्। अतिशयजितेन्द्रियतायुक्ते मुनिभेदे।
वशीकरण = न० अवशः वशः क्रियतेऽनेन वश–च्वि–कृ–ल्युट्। तन्त्राद्युक्ते वशतासम्पादके मणिमन्त्रादौ।
वशीर = पु० वश–ईरन्। गजपिष्पल्याम् जटा०।
वश्य = न० वश–यत्। १ लवङ्गे शब्दर०। २ आबत्ते त्रि० अमरः
वष = वधे भ्वा० पर० सक० सेट्। वषति अवषीत् अवाषीत्। ववषतुः।
वषट् = अव्य० वह–डषटि। देवोद्देश्यकहविस्त्यागे अमरः।
वषट्कार = पु० वषट् + कृ–घञ् १ दीयोद्देशकत्यागरूपे यज्ञे २३ षडिति करणे यजतिशब्दे कात्य वाक्य दृश्यम्।
वषट्कृत = त्रि० वषट इति कृत्व हुते अमरः।
वष्क = गतौ भ्वा० आत्म० सक० सेट्। वष्कते अवष्किष्ट।
वष्कय = पु० वष्क–अयन्। एकहायने वत्से अमरः।
वष्कयणी = स्त्री वष्कयमेकहायनवत्सं नयति स्थानान्तरं नी–ड गौरा० ङीष् णत्वम्। चिरप्रसूतायां गवि अमरः। जात्या समासेऽस्य परनि० गोवष्कयणो।
वष्कयिणी = स्त्री वष्कय एकहायनो वत्सोऽस्त्यस्या इनि। चिरप्रसूतायां गवि अमरः वष्कयणीति वा पाठः। “वष्कयिण्यास्त्रिदोषघ्नं तर्पणं वलकृत्पयः” भावप्र०।
वस = स्नेहे छेदने बधे च सक० चु० उभ० सेट्। वासयति ते अवीवसत् त। अधि + गन्धादिनासस्कारे सक०।
वस = स्तम्भे दिवा० पर० सक० सेट्। वस्यति इरित् अवसत् अवासीत् उदित् क्त्वा वेट्।
वस = निवासे भ्वा० पर० सक० अनिट् यजा०। वसति अवात्सीत् उवास ऊसतुः उषितः उषित्वा। अधि + अनु + उप–आ + वा वसतेराधारस्य कर्मता अधिवसति वैकुण्ठ हरिः सि० कौ० अनुवसति उपवसति आवसति। उप + अभोजने तत्र नाधारस्य कर्मता “एकादश्यामुपवसेत्” इत्यादि।
वस = आच्छादने अदा० आ० सक० सेट्। वस्ते अवसिष्ट।
वस = वासने सुरभीकरणे अद० चु० उभ० सक० सेट्। वसयति ते अववसत् त।
वसति(ती) = स्त्री वस–अति वा ङीप्। १ वासे २ यामिन्याम् “वसतीरुषित्वा” रघुः। ३ निकेतने मेदि० ४ स्थाने च ५ शिविरे सि० कौ०।
वसतिवरी = स्त्री ब० व० सोमग्रहनार्थाषु अप्सु। “अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहणं स्यन्दमानानामनस्तमिते” कात्या० श्री० ८९७ “सोमार्था आपो वसतीवरीशब्देनोच्यन्ते” कर्क०। अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञानामपां ग्रहणममिधीयते वेददी० यजु० ६-२३।
वसन = न० वस–आच्छादने कर्मणि ल्युट्। १ वस्त्रे अमरः। भावे ल्युट्। २ छादने मेदि० वस–वासे आधारे ल्युट्। ३ निवासे ४ स्त्रीकटीभूषणे च शब्दर०।
वसन्त = पु० वस–झ। मधुमाधवात्मके ऋतुभेदे “मधुश्च माधवश्च वासन्तिकावृतुः” यजु श्रुतिः। २ अतिसारे शब्दर०। ३ नाट्ये विदूषकोपाधौ। ४ रागभेदे च। “आन्दोलिता च देशाख्या लोला प्रथममञ्जरी। मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः” इत्युक्ता अस्य पञ्च रागिण्यः षट् इत्यन्ये रामिणीशब्दे दृश्याः। अस्य गानकालः। “श्रीपञ्चमी समारभ्य यावत् स्याच्छयनं हरेः। तावद्वसन्तरागस्य गानमुक्तं मनीषीभिः” सङ्गीतदा०। ४ तालविशेषे। “जयमङ्गलगन्धर्वमकरन्दत्रिभङ्गमाः। रतितालो वसन्तश्च जगझम्पोऽथ गारुणिः” वसन्तताले कर्त्तव्यो नगणो मगणस्तथा।” सङीतदा०।
वसन्तक = पु० वसन्ते कायति कै–क। श्योनाकवृक्षे शब्दमा०
वसन्तकुसुम = पु० वसन्ते कुसुमं यस्य। सेलुवृक्षे शब्दमा०।
वसन्तकुसुमाकर = पु० प्रमेहरोगनाशके औषधभेदे। “प्रवालरसमौक्तिकाम्बरमिदं चतुर्भागभाक् पृथक् पृथगथ स्मृते रजतहेमतो द्व्यं शके। अयोभुजगरङ्गकं त्रिलवकं विमर्द्याखिलं शुभेऽहनि विभावयेत् भिषगिदं धिया सप्तशः। द्रवैर्वृषनिशेक्षुजैः क्वमलमालतीपुष्पजैः पयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः। वसन्तकुसुमाकरोरसपतिर्द्विवल्लोऽशितः समस्तगदहृद्भवेत् किल निजानुपानैरयम्” वृद्धयोगतरङ्गणी।
वसन्तजा = स्त्री वसन्ते जायते जन–ड। माधवीलतायाम् राजनि०।
वसन्ततिलक = न० ज्ञेयं वसन्ततिलकं तभजा जनौ गः” छन्दो० उक्ते चतुर्दशाक्षरपादके छन्दोभेदे
वसन्तदूत = पु० वसन्तस्य दूत इव। १ कोकिले २ आम्रवृक्षे २ पञ्चमरागे च विश्वः। ४ माधवीलतायाम् ५ पाटलीवृक्षे स्त्री मेदि० गौ० ङीष् ६ गणिकारिकायां ७ पिक्याञ्च स्त्री ङीष् राजनि०।
वसन्तद्रु = पु० वसन्तस्य द्रुः। आम्रवृक्षे शब्दर० तत्काले तस्य जायमानमुकुलत्वात् तथात्वम् वसन्तवृक्षादयोऽप्यत्र।
वसन्तसख = पु० वसन्तस्य सखा अच्समा०। कामदेवे हला०
वसा = स्त्री वस–अच्। १ नांसजाते देहस्थे धातुभेदे मेदसि अमरः। असृक्करशब्दे ५५८ पृ० दृश्यम्। २ मांसरोहिण्यां लतायाञ्च राजनि०।
वसाढ्य = पुंस्त्री० वसाभिः आढ्यः। प्रचुरमेदष्के शिशुमारे त्रिका०।
वसि = पु० वस–इन्। वसने उणा०।
वसिर = न० वस–इरन्। १ सामुद्रलवणे २ गजपिप्पल्यां च धरणिः।
वसिष्ठ = पु० वरिष्ठ + पृषो०। ब्रह्मणः मानसपुत्रेषु सप्तर्षिषु मुनिभेदे भा० अनु० अन्याऽपि तन्निरुक्तिर्यथा “वरिष्ठोऽस्मि वसिष्ठोऽस्मि वसे वासगृहेष्वपि। वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम्”।
वसु = न० वस–उ। १ धने २ रत्ने अमरः ३ वृद्ध्यौषधे ४ श्यामे मेदि०। ५ स्वर्णे विश्वः ६ जले च सि० कौ०। ७ वकवृक्षे ८ सूर्य्ये ९ वह्नौ १० रश्मौ ११ गणदेवताभेदे च पु० अमरः। “धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः” भा० आ० ६६ अ०। १२ अष्टसङ्ख्यायाञ्च १३ मधुरे १४ शुष्के च त्रि० हेमच०। १५ दीप्तौ १६ वृद्ध्यौषधौ च स्त्री शब्दच०। १७ वसुदेवताके धनिष्ठानक्षत्रे पु० ज्यो० त०। १८ चेदिराजाख्येदेवभेदे
वसुक = पु० वसुना सूर्य्यनाम्ला कायति कै–क। १ अर्कवृक्षे अमरः। २ वकवृक्षे च मेदि०।
वसुकीट = पु० वसुनि धने कीट इव। याचके हारा०।
वसुच्छिद्रा = स्त्री वसुसङ्ख्यातानि पुष्पे छिद्राण्यस्याः। महामेदायाम् रत्नमा०।
वसुदेव = पु० वसुना दीव्यति दिव–अच्। श्रीकृष्णजनके यादवे क्षत्रियभेदे अमरः।
वसुदेवभू = पु० वसुदेवात् भवति भू–क्विप्। श्रीकृष्णे वसुदेवसुतादयोऽप्यत्र।
वसुधा = स्त्री वसूनि धीयन्तेऽस्यां धा घञर्थे आधारे क, वसूनि दधाति घा–क वा। पृथिव्याम् अमरः
वसुधारा = स्त्री वसोश्चेदिराजस्य प्रियार्थं धारा घृतादिस्रवसन्ततिः। माङ्गल्येषु चेदिराजवसूद्वेशेन दीयमानायां घृतादिधारायाम्। “कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु। कारयेत् पञ्च वारान् वा नातिनीचां न चोच्छ्रिताम्। आयुष्मा० निति शान्त्यर्थं जत्या तत्र समाहितः। षडभ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” छन्दोगप०। २ जिनशक्तिभेदे हेमच०। ३ कुवेरपुर्य्या शब्दमा०।
वसुन्धरा = स्त्री वसूनि धारयति धृ–खच् मुम् ह्रस्वश्च। पृथिव्याम् अमरः।
वसुप्राण = पु० वसुर्दीप्तः प्राण इव यस्य। अग्नौ शब्दर०।
वसुमती = स्त्री वसूनि सन्त्यस्यां मतुप्। पृथिव्याम् अमरः।
वसुरोचिस् = पु० वसुने धनाय रोचते रुच–इसुन्। यज्ञे सि० कौ०
वसुल = पु० वसुं दीप्तिं लाति ला–क। देवे त्रिका०।
वसुहट्ट = पु० वसूनां दीप्तीनां हट्ट इव। वकवृक्षे जटा०।
वस्त = बध गतौ च सक० याचने द्वि० चु० उभ० सेट्। वस्तयति ते अववस्तत् त।
वस्त = पुंस्त्री वस्त्यते बध्यते यज्ञार्थं वस्त–कर्मणि घञ्। छागे अमरः स्त्रियां ङीष्।
वस्तक = न० वस्त इव कायति कै–क। कृत्रिमलवणे हेमच०।
वस्तकर्ण = पु० वस्तस्य कर्णः पत्राकारेऽस्त्यस्य अच्। सालवृक्षे राजनि०।
वस्तगन्धा = स्त्री वस्तस्येव गन्धोऽस्याः। अजगन्धायाम् राजनि०।
वस्तमोदा = स्त्री वस्तस्येव मोदो यस्याः। अजमोदायाम् राजनि०।
वस्ति = पु० वस्ते आवृणोति मूत्रम् वस–तिच्। नाभेरधोभगे मूत्राधारे १ स्थाने २ वासे च ३ वसनदशायां पुंस्त्री ब० व० अमरः (पिचकारी) औषधदानार्थे द्रव्यभेदे पु० तद्विधिः भावप्र०
“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परम्। यः सेहो द्रीयते सः स्यादनुवासननामकः। कषाय क्षीरतैलैर्यो निरूहः स निगद्यते। वस्तिभिदींयते यस्मात्तस्माद्वस्तिरिति स्मृतः।” वस्तिभिः मृगादीनां मूत्राशयैः “तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते। अनुवासनभेदश्च मात्रावस्तिरुदीरितः। पल द्वयन्तस्य मात्रा तस्मादर्द्धापि वा भवेत्। अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली। नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी। नास्थाप्या नानुवास्याश्च जीर्णोन्मादतृडर्दिताः। शोथमूर्च्छारुचिभयश्चासकासक्षयातुराः। नेत्रं कार्य्यं सुवर्ण्णादिधातुभिर्वृक्षवेणुभिः। नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते।” नेत्रं नाडी तथा चोक्तं विश्वप्रकाशे “नेत्रं मन्थगुणे वस्त्रे तरुमूले विलोचने। नेत्रवन्धे च नाड्याञ्च नेत्रो नेतरि भेद्यवदिति”। “एकवर्षात्तु षड्वर्षाद् यावन्मानं षडङ्गुलम्। ततो द्वादशकं यावन्मानं व्यादष्टसम्मितम्। ततः प्ररं द्वादशमिरङ्गुलैर्नेत्रदीर्घता। मुखच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निभम्। यथासङ्ख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम्। गोपुच्छसन्निभं मूले तस्मात् क्रमात् क्रमात् कृशम्”। मुखच्छिद्रादिप्रमाणं नेत्रं क्रमेण पड्वर्षा यद्वा दशवर्षा यद्वा तदूर्द्ध्वं वर्षाश्च ज्ञेयाः। “आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते। कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम्।” परिणाहोऽत्र स्थौल्यम् “तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात्।” कर्णिका गवादिकर्णवत् “योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः। मृगाजशूकरगवां महिषस्यापि वा भवेत्।” वस्तिरिति शेषः। “मूत्रकोषस्य वस्तिस्तु तदलाभे तु चर्मणः। कषायरक्तः स मृदु र्वस्तिः स्निग्धो दृढोहितः। व्रणवस्तेस्तु नेत्रं स्यात् श्लक्ष्णमष्टाङ्गुलोन्मितम्। मुद्गच्छिद्रं गृध्रपक्षनालिका परिणाहि च। शरीरोपचयं वर्णं वलमारोग्यमायुषः। कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः। दिवा शीते वमन्ते च स्नेहवस्तिः प्रदोयते। ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम्। न चातिस्निग्धगशनं गोजति- त्वानुवासयेत्। मदं मूर्च्छाञ्च जनयेद्विधा स्नेहः प्रयोजितः।” द्विधा भोजने वस्तौ च। “रूक्षं मुक्तवतोऽन्यन्तं बलं वर्णञ्च हापयेत्। युक्तस्नेहमतो जन्तुं भोजयित्वानुवासयेत्”। युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयित्वेत्यर्थः। “हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ सृतौ। अतिमात्रौ तथानाहक्लमातीसारकारकौ” उभौ वस्ती अनुवासननिरूहाख्यौ। “उत्तमा स्यात्पलैः षड्भिर्मध्यमा स्यात्पलैस्त्रिभिः। पलाद्यर्द्धेन हीना स्यादुक्तमात्रानुवासने। शताह्वासैन्धवाभ्याञ्च देयं स्नेहे च हूर्णकम्। तन्मात्रोत्तममध्यान्त्या षट्चतुर्द्धयमाषकैः। विरेचनात्सप्तरात्रे गते जातबलाय च। भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः। अथानुवास्यं स्वभ्यक्तमुष्णाम्बु स्वेदितं शनैः। भोजयित्वा यथाशास्त्रं कृतञ्चङ्क्रमण ततः। उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेहवस्तिना” उष्णाम्बुस्वेदितम् उष्णाम्बुना स्नापितम्। “सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः। कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत्। बद्धं वस्तिमुखं सूत्रैर्वामहस्तेन धारयेत्। पीडयेद्दक्षिणेनैव मध्यवगेन घीरधीः। जृम्भाकासक्षयादींश्च यस्तिकाले न कारयेत्। त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने। ततः प्रणिहिते स्नेहे उत्तानो वाग्यतो भवेत्। स्वजानुनः करावर्त्तं कुर्य्याच्छोटिकया पुनः। एषा मात्रा भवेदेका सर्वत्रैवेष निश्चयः। निमिषोन्मेषणं पुंसामङ्गुल्या च्छोटिकाथ वा। गुर्वक्षरोच्चारणं वा स्यान्मात्रेयं स्मृता बुधैः। प्रमारितैः सर्वगात्रैर्यथावीर्य्यं प्रसर्षति” यथावीर्य्यं स्नेहादि। “ताडयेत्तलयोरेनन्त्रींस्त्रीन्वारान् शनैः शनैः। स्फिजोश्वैव तथा श्रीणीं शय्याञ्चैवोत्क्षिपेत्ततः। स्फिजोश्चैनं स्वपाणिभ्यां पूर्ववत्ताडयेद्बुधः। शय्याञ्च पदतस्तस्य त्रीन् वारान्नुत्क्षिपेत्ततः। जाते विधाने तु तत कुर्य्यान्निद्रां यथासुखम्। सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु। उपद्रवं विना शीघ्रं स सम्यगनुवासितः। जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः। लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि। अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्। धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम्”। सुखोदकमुष्णोदकं व्यापत्तिर्व्याधिः। “अनेन विधिना षड्वा सप्त चाष्टौ नवापि वा। विधेया वस्तयस्तेषामन्ते चेव निरूहणम्। दत्तस्तु प्रथमो वस्ति स्नेहयेद्वस्तिवङ्क्षणौ। सम्यग्दत्ती द्वितीयस्तु मू र्द्धस्थमनिलं जयेत्। बलं वर्णञ्च स जयेत्तृतीयस्तु प्रयोजितः। चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी। षष्ठो मांसं स्नेहयति सप्तमो मेद एव च। अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम्”। यथाक्रममिति वचनादष्टमोऽस्थि स्नेहयेत्। “एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत्।” अष्टादशदिवसावधिकवस्तिफलम् “अष्टादशाष्टादशकाद्दिनाद् यो ना विषेवते। स कुञ्जरबलोऽश्वस्य जवतुल्योऽमरप्रभः। रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने। दद्याद्वैद्यस्तथान्येषामग्न्याबाधभयात् त्र्यहात्। स्नेहोऽल्पमात्रो रूक्षाणां ष्टीर्घकालमनत्ययः।” अनत्ययः अबाधः। “तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते। अथ वा यस्य तत्कालं स्नेहो निर्याति केवलः। तस्याप्यल्पतरो देयो न हि स्निग्धेऽवतिष्ठते।” अवतिष्ठते दत्तः स्नेह इति शेषः “अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः। तदाङ्गसदनाध्माने शूलं श्वासश्च जायते। पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम्। तीक्ष्णं तीक्ष्णौषधैर्युक्तं फलवर्त्तिमथापि वा। यथानुलोत्रनो वायुर्मलः स्नेहश्च जायते। तथा विरेचनं दद्यात्तीक्ष्णं नस्यञ्च शस्यते। यस्य नोपद्रवं कुर्य्यात् स्नेहवर्त्तिरनिःसृता। सर्वोऽल्पो व्यावृतो रौक्ष्यादुपेक्ष्यः स विजानता। अनायातन्त्वहोरात्रे स्नेहं संशोधनैर्हरेत्। स्नेहवस्तावनायाते नान्यः स्नेहो विधीयते। गुडूच्येरण्डपूतीसभार्गीवृषकरौहिषम्। शतावरीं सहचरं काकनासां प्रलोन्मिताम्। यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान्। अतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च। पचेत्तैलाढकं सर्वैर्जीवनीर्वै पलोन्मितैः। अनुवासनमेतद्वि सर्ववातविकारनुत्।” पूतीकः करञ्जः रौहिषं ईषत्सुगन्धतृणविशेषः। काकनासा (काकाठोठी) प्रसृतम् प्रलद्वयम्। “षोढा सप्त व्यापदस्तु जायते वस्तिकर्मणः। द्रषितान् समुदायेन तांश्चिकित्स्यात्तु सुश्रुतात्। समुदायेन सनुचितनेत्रादिसामग्र्या। “मानाहारविहाराश्च परिहाराश्च कृत्स्नशः श्नेहपानसमाः कार्य्या नात्र कार्य्या विचारणा।”
वस्तिकर्माढ्य = पु वस्तिकर्मणा तच्छोघनव्यापारेणाढ्यः। अरिष्टवृक्षे शब्दच०।
वस्तिमल = न० ६ त०। मूत्रे हेमच०।
वस्तु = न० वस–तुन्। १ द्रव्ये २ पद्रार्थे त्रिका० ३ सत्यपद्रार्थे च।
वस्तुक = न० वस्तु + इवार्थे कन्। १ वास्तुके शाकभेदे २ श्वेतचिल्लीशाके च स्त्री राजनि०।
वस्त्य = न० वस्तौ साधु यत्। गृहे अमरः।
वस्त्र = न० वस–ष्ट्रन्। परिधानाद्युपयुक्ते कार्पासादौ वसने। वस्त्रधारणगुणाः यथा “स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम्। कान्तिप्रदं शरीरस्य कण्डूयादोषनाशनम्। कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च। वातश्लेष्महरं तत्तु शीतकाले विघारयेत्।” कौषेयं पट्टाम्बरं तसरवस्त्रञ्च। “मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते। तद्धारयेदुष्णकाले तच्चापि लघु शस्यते।” काषायं (कोकटी) इति लोके। कषायरागरक्तं वा। “शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्ः। नचोष्णं नच वा शीतं तत्तु वर्षासु धारयेत्। यशस्यं काम्यमायुष्यं श्रीमदानन्दबर्द्धनम्। त्वच्यं वशीकरं रुच्यं नवं निर्मलमम्बरम्।” काम्यं कामोद्दीपकम्। “कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम्। तत्तु कण्डू कृमिकरं ग्लान्यलक्ष्मीकरं परम्।” अलक्ष्मीरशोभा दारिद्र्यं वा।” भावप्र० अस्य परिधानविधिर्यथा भृगुः “विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च। श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि। विकच्छः परीघानाद् गलितकच्छः। तथा च “परीधानात्वहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः “वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम्। एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मृतः”। वौधायनः “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी। अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः।” प्रचेताः “दशा नाभौ प्रयोजयेत्” स्मृतिः “न स्यात् कर्मणि कञ्चुकीति”। उत्तरीयधारणं चोपवीतवत् “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः। तथा सन्धार्य्यते यत्नादुत्तराच्छादनं शुभम्” स्मृतेः। अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उपवीतं धार्य्यते तथा उत्तराच्छादनमपि द्विजोत्तमैरिति प्रदर्शनमात्रम् प्रागुक्तभृगुवचनेन सर्वेषां द्विवस्त्रताप्रतीतेः” पारस्करः “एकञ्चेद्वासो भवति तस्य उत्तरार्द्धेण प्रच्छादयतीति” आ० त० रघु०। “वस्त्रपरीधाननक्षत्रादि “ब्रह्मानुराधवसुतिष्यविशाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु। जन्मर्क्षजीव बुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वर देवतुष्ट्यै।” ज्यो त०। “सूर्य्ये चाल्पधनं, व्रणः शशिदिने, क्लेशः सदा भूमिजे, वस्त्राणां बहुता वुधे, सुरगुरौ विद्यागमः सम्पदः। नानाभोगयुतप्रमोद शयनं विद्याङ्गना भार्गवे, शौरौस्युः खलु रोगशोककलहा वस्त्रे धृते नूतने” कर्मलोचनम्। अस्य क्षारसंयोग निषिद्धदिनानि यथा। “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे। वस्त्राणां क्षारसंयोगात्दहत्यासप्तमं कुलम्।” आ० त०। परकीयवस्त्रधारणनिषेधो यथा “आसनं वसनं शय्या जायापत्यं कमण्डलुः। आत्मनः शुचिरेतानि न परेषां कदाचन”। ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारितवस्त्रस्य च अधौतत्वं यथा, “ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकस्य तु। अधौतं तद्विजानीद्दशादक्षिणपश्चिमे।” कर्मलोचनम्। सत्यतपाः “प्रागग्रमुदग्रं वा घौतं वस्त्रं प्रसारयेत्। पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षालनात् शुचि” अत्राग्रं दशा वृक्षवत्। प्रचेताः “स्वयं धोतेन कर्त्तव्या क्रिया धर्म्या विपश्चिता। न च रजकघौतेन नाधौतेन भवेत् क्वचित्। पुत्रमित्रकलत्रेण स्वजातिबान्धवेन च। दासवर्गेण यद्धौतं तत् पवित्रमिति स्थितिः”। स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा उष्णीषधारणं शिरोजलापनयनाय। तेन म्नानानन्तरं धार्य्यम्। तथा च महाभारतम् “आप्लुतस्याधिवासेन जलेन च सुगन्धिना। राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम्। जलक्षयनिमित्तं वै वेष्टयामास मूर्द्धनि”। शिथिलार्पितम् अगाढबद्वम्। निषिद्धवस्त्राणि यथा भारते “न स्यूतेन न दग्धेन पारक्येण विशेषतः। मूषिकोत्कीर्णजीर्णेन कर्म कुर्य्याद्विचक्षणः।” नारसिंहे “न रक्तमुल्वर्ण वासी न नीलञ्च प्रशस्यते। मलाक्तञ्च दशाहीनं वर्जयेदम्बरं बुधः। उल्वणम् उत्कटरक्तविशेषम्। आचाररत्ने उशना “दशाहीनेन वस्त्रेण कुर्य्यात् कर्माण्यभावतः”। विष्णुधर्मोत्तरे “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा। जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः। उपानहं नान्यधृतां ब्रह्मसूत्रञ्च धारयेत्। न जीर्णमलवद्वासा भवेच्च विभवे सति।” योगियाज्ञवल्क्यः “म्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च। प्रलाल्योरू मृदद्भिश्च हस्तौ प्रक्षालयेत्ततः। अभावे धौतवस्त्राणां शाणक्षौमाविकानि च। कुतपो योगपट्टं वा द्विर्वासा येन वा भवेत्। अधौतेन च वस्त्रेण नित्यनैमि- त्तिकीं क्रियाम्। कुर्वन् फलं न चाप्नोति दत्तं भवति निष्कलम्”। कुतपो नेपालकम्बलः। तत्रापवादः “राङ्गवे पट्टसूत्रे च सूचीविद्धं न दुष्यति” विधानपा० “नीलीरक्तं न दुष्यति” इति मिता० पाठः। तर्पणात् पूर्वं म्रानवस्त्र निष्पीडने निषेधो यथा “निष्पीडयति यः पूर्वं स्नानवस्त्रन्तु तर्पणात्। निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह”। जावालिः “म्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि। प्राणायामत्रयं कृत्वा पुनः स्नानेन शुध्यति। नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन”। हारोतः “आर्द्रञ्च सप्तवाताहतमपि शुद्धमिति”। संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा षट्त्रिंशन्मतनिगमौ “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे। वस्त्रं न पीडयेत्तत्र नच क्षारेण योजयेत्” ति० त०
वस्त्रकुट्टिम = न० वस्त्रनिमिंतं कुट्टिमं यत्र। १ वस्त्रगृहे (तामु) २ छत्रे त्रिका०।
वस्त्रगृह = न० वस्त्रनिर्मितं गृहम् शाक०। (तामु) वस्त्रनिर्मिते गृहे त्रिका०।
वस्त्रग्रन्थि = पु० ६ त० नीव्याम् त्रिका०।
वस्त्रपुत्रिका = स्त्री वस्त्रनिर्मिता पुत्रिका। वस्त्रनिर्मितपुत्तलिकायाम् शब्दमा०।
वस्त्रभूषण = स्त्री वस्त्रस्य भूषणं यस्याः ५ ब०। १ मञ्जिष्ठायाम् २ साकरण्डवृक्षे च राजनि०।
वस्त्रयोनि = स्त्री ६ त०। त्वक्फलकृमिरोमादौ अमरः।
वस्त्ररञ्जन = पु० वस्त्रं रञ्जयति रन्ज–णिच्–ल्यु। कुसुम्भो राजनि०।
वस्न = न० वस–मन्। १ वेतने २ मूल्ये ३ वस्त्रे ४ द्रव्ये च विश्वः ५ धने ६ मृत्यौ च अमरटीकायां रमानाथः। मूल्ये पु० अमरः।
वस्नसा = स्त्री वस्नंस्यति सो–क स्नायौ श्रमरः।
वस्वौकसारा = स्त्री वसूनामोकस्य सारो यत्र। १ इन्द्रनगर्य्याम् २ इन्द्रनद्यां ३ कुवेरपुर्य्यां ४ कुवेरनद्याञ्च हेम०।
वह = दीप्तौ चु० उभ० सक० सेट् इदित्। वंहयति ते अवंहिष्ट।
वह = प्रापणे भ्वा० उभ० द्विक० यजा० अनिट्। वहति ते अवाक्षीत् अवोढ उवाह ऊहे ऊढः। अस्य प्रधानकर्मण्यंव लकारादयः।
वह = पु० उह्यतेऽनेन वह–अच्। १ वृषस्कन्धदेशे अमरः। वह–कर्त्तरि अच्। २ घोटके ३ वाहौ ४ पथि त्रिका० ५ नद्यां स्त्री हेमच०।
वहत = पु० वह–अतच। १ वृषे २ प्रान्धे च उणादिकोषः
वहति = पु० वह–अति। १ वायौ उणा०। २ गवि ३ सचिवे च मेदि०।
वहन = न० वह–भावे ल्युट्। १ पुरभेदे त्रिका० २ प्रापणे। ३ गमने च।
वहन्त = पु० वह–झ। वायो सि० कौ० २ बाले उणा०।
वहल = पु० वह–अलन्। १ पोते हारा० २ दृढे त्रि० हेम०।
वहलगन्ध = न० वहलो दृढो गन्धो यस्य। शम्बरचन्दने राजनि०।
वहलचक्षुस् = पु० वहलानि चक्षुषीव पुष्पाण्यस्य। मेषशृङ्ग्यां (गाडरशिङ्गा) रत्नमा०।
वहलत्वच = पु० वहला दृढा त्वचा यस्य। श्वेतलोध्रे राजनि०।
वहला = स्त्री वहलानि पुष्पादीनि मन्त्यस्य अर्श आद्यच्। १ शतपुष्पायां राजनि०। २ स्थूलैलायां भावप्र०।
वहित्र = न० वह–इत्र। १ पोते जलयाने त्रिका०। स्वार्थे क। अत्रैवार्थे।
वहिरङ्ग = न० वहिः प्रकृतेर्वाह्यमङ्गं यस्य। व्याकरणोक्ते प्रत्ययादिनिमित्तके प्रकृत्यवयवादिकार्य्ये। “असिद्धं वहिरङ्गमन्तरङ्गे” व्या० परिभाषा।
वहिरिन्द्रिय = न० वहिर्देहाद्बाह्यस्य पदार्थस्य ग्राहकमिन्द्रियम्। शब्दादिबाह्यविषयग्राहकेषु श्रोत्रादिषु।
वहिर्द्वार = न० वहिःस्थं द्वारम्। तोरणे अमरः।
वहिर्मुख = त्रि० वहिः बाह्यविषये मुखं प्रवणता यस्य। बाह्यविषयासक्तमनस्के विषयासक्ते १ जने २ विमुखे च।
वहिस् = अव्य० वह–इमुन्। बाह्ये अमरः।
वहैडक = पु० वह–अच् वहः एडुक इव वृहत् काण्डो यस्य। विभीतृकवृक्षे (वहेडा) राजनि०।
वह्नि = पु० वह–नि। १ अग्नौ २ चित्रकवृक्षे अमरः ३ भल्लातके ४ निम्बूके राजनि०। तन्त्रोक्ते ५ रकारे च। “वर्गाद्यं वह्निसंस्थम्” इति श्यामास्तोत्रम्। वह्निभेदादिकं यथा
“जृम्भको दापकश्चैव विभ्रमभ्रमशोभनाः। आवसथ्याहवनीयो दक्षिणाग्निस्तथैव च। अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः”। अन्यैरन्यथोक्तानि यथा “म्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा। धारका बन्धकश्चैव द्रावकाख्यश्च सप्तमः। व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः”। शरीरस्थवह्नेः नामानि यथा “वह्नयो दोषदुष्येषु संलीना दश देहिनः”। दोषदुष्याश्च यथा “वातपित्तकफा दोषाः दुष्या स्युः सप्तञ्जतवः” शा० ति०। “मुख्याग्नयो यथा “गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः। एतेऽग्नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः” वह्नि० पु०। तत्र निषिद्धकर्माणि यथा “नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन्। न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित्। न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वुधः। अग्नौ न निःक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा। न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः। स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत्। नापक्षिपेन्नोपधमेत् न सूर्पेण च पाणिना। मुखेनाग्निं समुन्नीतं मुखादग्निरजायत” कूर्मपु० १५ अ०। अग्निवैकृत्यं तस्य शान्तिश्च यथा “अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः। न दीप्यते चेन्धनवान् स राष्ट्रः पीड्यते नृपैः। प्रज्वलेदप्सु मासं वा तथार्द्धञ्चापि किञ्चन। प्रासाद तोरणद्वारं नृपवेश्म सुरालयम्। एतानि यत्र दह्यन्ते तत्र राजभयं भवेत्। विद्युता वा प्रदह्यन्ते तत्रापि नृपतेर्मयम्। धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भवम्। विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित्। त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः। समिद्भिः क्षीरवृक्षष्णां सर्षपैस्तु घृतेन च। दद्यात् सुवर्णञ्च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवञ्च। एवं कृते पापमुपैति नाशं यदग्निवैकृत्यभवं द्विजेन्द्र”! वह्निपु० १०५ अ०। ६ तद्देवताके कृत्तिकानक्षत्रे ज्योतिपम्।
वह्निकरी = स्त्री वह्निं देहस्थवह्निं करोति उद्दीपयति कृ–ट ङीप्। १ धातकीवृक्षे (धाइफुल) शब्द०। २ वह्न्युद्दीपके त्रि०।
वह्निकाष्ठ = न० वह्नेर्दाह्यदाहायानुकूलं काष्ठम् शा० त०। दाहागुरुणि राजनि०।
वह्निगन्ध = पु० वह्नौ दाहकाले गन्धो यस्य। यक्षधूपे शब्दच०
वह्निगर्म = पु० वह्निर्गर्भे यस्य। १ वंशे २ शमीवृक्षे स्त्री शब्दर०
वह्निज्वाला = स्त्री वह्नेर्ज्वालेव पीडाकारकत्वात्। १ धातकीवृक्षे राजनि० ६ त०। २ वह्निशिखायाम्।
वह्निदीपक = पु० वह्निं देहस्थवह्निं सेवनाद्दीपयति दीपणिच्–ण्वुल् वह्निरिव दीप्यति दीप–ण्वुल् वा। १ कुसुम्भे शब्दर०। २ अग्न्युद्दीपके त्रि०। ३ अजमोदायाम् स्त्री राजनि०।
वह्निनी = स्त्री वह्निं तत्कान्तिं नयति नी–ड गौरा०। ङीष्। जटामांस्याम् रत्नमा०।
वह्निपुष्पी = स्त्री वह्निरिव तापकं पुष्पं यस्याः ङीप्। धातकीवृक्षे राजनि०।
वह्निभोग्य = न० ६ त०। वृते शब्दच०।
वह्निमन्थ = पु० वह्नये वह्निजननाय मथ्यतेऽसौ मन्थ–कर्मणि घञ्। १ गणिकारीवृक्षे जटा०। ६ त०। २ वह्नेर्मन्थने राजनि०।
वह्निमित्र = पु० वह्निर्मित्रं यस्य। १ वायौ शब्दच० ६ त०। तत्रैव न०।
वह्निरेतस् = पु० वह्नौ निषिक्तं रेतो येन। १ शिवे वह्नौ हि निषिक्तात् शिववीर्य्यात् गङ्गादिसंक्रमेण कार्त्तिकेयोत्पत्तिः पुराणप्रसिद्धम्। ६ त०। २ काञ्चने च।
वह्निलोहक = न० वह्नेः प्रियं लोहं धातुः स्वार्थे क। कांस्ये राजनि०।
वह्निवधू = स्त्री ६ त०। १ अग्निभार्य्यायां स्वाहायाम् २ स्वाहात्मके मन्त्रे च। वह्निजायादयोऽप्यत्र।
वह्निवर्ण = न० वह्नेरिव वर्णोऽस्य। रक्तोत्पले शब्दच०।
वह्निवल्लभ = पु० वह्नेर्वल्लभ उद्दीपकत्वात्। सर्जरसे (धुना) त्रिका०
वह्निवीज = न० वह्नेर्देहस्थवह्नेर्वीजमिव उद्दीपकत्वात्। १ जीरके ६ त०। वह्निदेवताके तन्त्रोक्ते २ रकारे च। ३ निम्बूके राजनि० ४ हेमच०।
वह्निशिख = न० वह्नेरिव रक्तत्वात् शिखाऽस्य। १ कुसुम्भे अमरः। २ फलिन्यां ३ कलिकारीवृक्षे ४ धातक्याञ्च स्त्री राजनि० ६ त०। ५ अग्निशिखायां स्त्री।
वह्निसख = पु० ६ त०। १ वायौ। देहस्थवह्नेरुद्वीपके २ जीरके राजनि०।
वह्य = न० वह–यत्। १ शकटे २ वाहनमात्रे च हेमच०। ३ मुनिपत्न्यां स्त्री उणा०।
वा = सुखाप्तौ अक० गतौ सेवने च सक० चुरा० उभ० सेट्। वापयति ते अवीवपत् त।
वा = गमने हिंसने (सूचने) च अदा० पर० सक० अनिट्। वाति अबासीत्।
वा = अव्य० वा–का। १ विकल्पे २ सादृश्ये ३ अवधारणे ४ समुच्चये अमरः। एष्वर्थेषु गणरत्ने उदाहृतं यथा (विकल्पे) यवैर्वा व्रीहिभिर्वा यजेत। (उपमाने) सिन्धौ वाधो मण्डलं गोर्वा रसः” द्वन्द्वे (अवधारणे) “सा वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम” न तृतीयेत्यर्थः। (समुच्चये) वायुर्वा दहनो वा। ५ वितर्के ६ पादपुरणे च मेदि०
वांशिक = पु० वंशी तद्वादनं शिल्पमस्य ठक्। वंशीवादनशीले जटा०
वांशी = स्त्री वंशे भवः अण् ङीप्। वंशरोचनायाम् राजनि०
वाक = पु० वच–घञ्। १ वचने “नमोवाकं प्रशास्महे” उत्तररामत्तरितम्। पृषो० सान्तत्वम्। ग्रन्थभेदे “वाकोवाक्येतिहासेत्यादि” छान्दोग्यम्। “वाकोवाक्यम् उक्तिप्रत्युक्तिरूपम्” भा०। वकस्येदम् तेषां समूहो वा अण्। ३ वकसम्बन्धिनि त्रि०। ४ वकसंघे न० अमरः।
वाकुची = खी वाति क्विप् वाः कुच–वडोचे क गौरा० ङीप् कर्म०। (हाकुच) १ ओषधिभेदे २ सोमराज्यां राजनि०।
वाक्कीर = पु० वाचा कौतुकवाचा कीर इव प्रियत्वात्। श्यालके शब्दर०।
वाक्छल = न० गौत० सूत्रोक्ते छलभेदे “अविशेषाभिहितेऽर्थे वक्त्रभिप्रायादर्थान्तरकल्पनम् वाक्छलम्” गौ० सू०। शक्त्या एकार्थशाब्दबोधतात्पर्य्यकशब्दस्य शक्त्याऽर्थान्तरबोधतात्पर्य्यकत्वकल्पना वाक्छलम्” वृत्तिः। यथा लेपालादागतोऽयं नवकम्बलवत्त्वात् इत्युक्ते कतोऽस्व सवसंख्यकाः कम्बला इत्युक्तिः।
वाक्पति = पु० ६ त०। १ वृहस्पतौ अमरः २ पुष्यनक्षत्रे च वाचः पतिरिव। ३ निर्दोषोद्धतवचनयुक्ते रायमुकुटः।
वाक्पथ = पु० वाचः पन्थाः विषयः अच्समा०। वाक्यविषये
वाक्पारुष्य = न० वाचा कृतं पारुष्यम्। १ वाक्यकृते पारुष्ये तद्विषके २ विवादभेदे च। तद्विवृतिः वीरमि० उक्ता यथा “तस्य च स्वरूपमाह नारदः “देशजातिकुलादीवामाक्रोशं न्यङ्गसंयुतम्। यद्वचः प्रतिकूलार्थं वाक्षारुष्यं तदुच्यते” इति। आक्रोशः आक्षेपः भर्त्सनमिति यावत् कलहप्रियाः गौडा इति देशाक्रोशः। अत्यन्तलोलुपा ब्राह्मणा इति जात्याक्रीशः। “क्रूरचरिता वैश्वामित्रा इति कुलाक्षेपः। न्यङ्गं निकृष्टाङ्गमवद्यञ्च तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यमित्यर्थः। तस्य त्रैविध्यमाह स एव “निष्ठुराश्लीलतीव्रत्वादपि तत् त्रिविधं स्मृतम्। गौरवानुक्रमात्तस्य दण्डीऽपि स्यात् कमाद्गुरुरिति” निष्ठुरादीनां स्वरूपमाह स एव “साक्षेपन्निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम्। पतनीयैरुपाक्रोशैस्तीव्रमाहुर्मनीषिणः” इति। धिङ्मूर्ख! जाल्म! इत्यादि साक्षेपम्भाषणं निष्ठुरम्। न्यङ्गसंयुतं अवद्यम्भगिन्यादिगमनसंयुतम् अश्लीलम्। पतनीयैः सुरापानादिभिरुपाक्रोशैस्तीव्रं वाक्पारुष्यमित्यर्थः। कात्यायनोऽपि “यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित्। अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा। न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा। वृत्तदेशकुलानान्तु अश्लीला सा बुधैः स्मृता। महापातकयोक्त्री च रामद्वेषकरी च या। जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वागियि।” कल्पतरौ न्यङ्गावगूरणमिति पठित्वा निकृष्टाङ्गप्रकाशनेन तिरस्करणमिति व्याख्यातम्। न्यग्भावकरणमिति तु माधवादिसंमतः पाठः। प्रथममध्यमोत्तममेदेन त्रैविध्यमाह वहस्पतिः “दो ग्रामकुलादीनां क्षेपः पापेन योजनम्। द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते। भगिनीमातृसम्बन्धमुपपातकशंसनम्। पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः। अभक्ष्यापेयकथनं महापातकदूषणम्। पारुष्यमुत्तम “प्रोक्तं तीव्रं मर्माभिघट्टनमिति।” द्रव्यं विनेत्यत्र द्रव्यशब्दोऽभिधेयपरः। तेनोच्यमानार्थव्यतिरेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः इति कल्प तरौ। द्रव्यं विना द्रव्यवैशिष्ट्यं विनेति मदनरत्ने। अभिघट्टनं उत्पाटनम्। निष्ठुराक्रोशे दण्डमाह याज्ञवल्क्यः “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रिय रोगिणाम्। क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदशा निति। अन्यथास्तोत्रन्निन्दास्तुतिः। न्यूनाङ्गाः करादिरहिताः। न्यूनेन्द्रियाः नेत्रादिरहिताः। रोगिणः कुष्ठ्यादयः अर्द्धत्रयोदशान् अर्द्धाधिकद्वादशपणानित्यर्थः। एतत् सवर्णविषयम्। अतएव वृहस्पतिः “समजातिगुणानान्तु वाक्पारुष्ये परस्परम्। विनयोविहितः शास्त्रे पणा अर्द्धत्रयोदशाः” इति। “विष्णुरपि “समवर्णाक्रोशे द्वादश पणान्दण्ड्य इति”। परस्परमिति शेषः। मनुनारदावपि “समवर्णे द्विजातीनां द्वादशैव व्यतिक्नमे। वादेष्ववचनीयेषु तदेव द्विगुणं भवेदिति”। शङ्ख तिखितावपि “समवर्णव्यतिक्रमे द्वादशपणा यथारूपविशिष्टाक्षेप्रेषु विशिष्टस्य चतुर्विंशतिरविशिष्टस्यातिक्रमे च विशिष्टस्य ततोऽर्द्धमिति। अत्र द्वादशसार्द्धद्वादशयोरुत्कृष्टानुत्कृष्टत्वेन व्यवस्था। कात्यायनोऽपि” “यो मुणान् कीर्त्तयेत् क्रोधान्निर्गुणे वा गुणज्ञताम्। अन्य संज्ञानियोजो च वाग्दुष्टं तन्नरं विदुरिति” “नारदोऽपि “दुष्टस्यैव तु यो दोषान् कीर्त्तयेत् क्रोधकारणात्। अन्यायदेशवादी च वाग्दुष्टं तन्नरं विदुरिति” “अत्र कोधकारणादित्यनेन दुष्टपरित्यागार्थं दोषकीर्त्तने न दोष इति सूचितम्। अतएवोक्तं कात्यायनेन “यत्र स्वात्परिहारार्थं पतितस्तेन कीर्त्तितः। वचनात्तत्र न स्यात्तु दोषो यम विभावयेदिति” “वचनात् दोषकीर्त्तनात्। यत्रामियोगादौ पातित्यादिकं साधयेत्तत्रापि वचनाद्दोषो न स्यादिति यत्र विभावयेदित्यस्यार्थ उक्तः स्मृतिचन्द्रिकायाम्। अत्रापि दण्डपारुष्यन्यायेन युगपत्प्रवृत्तयोर्दण्डतुल्यत्वं अयुगपत्प्रवृत्तयोः पूर्वप्रवृत्तस्य दण्डाधिक्यमिति द्रष्टव्यम्। जातिगुणकृते विशेषे दण्डवैषम्यमाह तिः “नयोः ममो दण्डोन्यूनस्य - णोदमः। “उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्परमिति”। हीनस्योत्तनाक्षेपे द्विगुणः उत्तमस्य हीनाक्षेपेऽर्द्धपरिमितोदण्ड इत्यर्थः। याज्ञवलक्योऽपि “अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च। दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैरिति” “अर्द्धः सार्द्धद्वाद० शपणात्मक इत्यर्थः पूर्ववाक्ये “पञ्चविंशतिको दम” इति पञ्चविंशतेः प्राकृतत्वात्। वर्णा ब्राह्मणादयः। जातयो मूर्द्धावसिक्तादयः। ते च ते उत्तराधराश्च वर्णजात्युत्तराधरास्तैरन्योन्याक्षेपे क्रियमाणे दण्डस्य प्रणयनम् ऊहनीयं ज्ञातव्यम्। उत्तराधरभावमालोच्य दण्डः कल्पनीय इत्यर्थः। तमेव कल्पनीयं दण्डं प्रदर्शयति मनुः “शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति। वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु बधमर्हति। विप्रः पञ्चाशतं दण्ड्यः क्षत्त्रियस्यामिशसने। वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वादशको दम इति।” वृहस्पतिरपि क्षिपन् विप्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति”। शङ्खलिखितावपि “आक्रोशे ब्राह्मणस्य क्षत्त्रियः पणशतं दण्ड्यः, शतार्द्धं वैश्यस्य पञ्चविंशतिं शूद्रस्येति”। वृहस्पतिरपि। “विप्रः शतार्द्धं दण्ड्यस्तु क्षत्त्रियस्याभिशंसने। विशस्तथार्द्धं पञ्चाशच्छूद्रस्यार्द्धत्रयोदश। सच्छूद्रस्यायमुदितो विनयोऽनपराधिनः। गुणहीनस्य पारुष्ये ब्राह्मणो नापराघ्नुयात्। वैश्यस्तु क्षत्तियाक्रोशे दण्डनीयः शतम्भवेत्। तदर्द्धं क्षत्त्रियो वैश्यं क्षिपन् विनयमर्हति। शूद्राक्रोशे क्षत्त्रियस्य पञ्चविंशतिको दमः। वैश्यस्य चैतद्द्विगुणः शास्त्रविद्भिरुदाहृतः। वैश्यमाक्षारयन् शूद्रोदाप्यः स्यात् प्रथमं दमम्। क्षत्त्रियं मध्यमञ्चैव विप्रमुत्तमसाहसमिति।” जिह्वाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः। तथा च स एव “धर्मोपदेशकर्त्ता च वेदोदाहरणान्वितः। आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते” इति शूद्र इत्यनुषङ्गः। आपस्तम्बोऽपि “जिह्वाछेदनं शूद्रस्वार्यं धार्मिकमाक्रोशतः” इति। गौतमोऽपि “शूद्रो द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुप्याभ्यामङ्गम्मोच्यो येनोपहन्यादिति”। अभिसन्धाय बुद्धिपूर्वं वाचातिक्रम्य अभिहत्य उग्रेण दण्डेन ताडयित्वा अङ्गमोच्यो येनाङ्गेनाभिहन्यते तेन वियोजमीय इत्यर्थः। गुर्वाद्याक्रोशे त्वाहतः शङ्खलिखितौ “तथाऽधिकृतान् विप्रान् गुरुश्च निवासनम्मुण्डनं ताडनं वा गोमयानुलेपनं खरारोहणं दर्पहरणं वा दण्डो वेति। दण्डः कार्षापणशतरूपः। अतएव विष्णुः “गुरूनाक्षारयन् कार्षापणशतमिति”। पुत्रादिभिर्मात्रादीनामाक्रोशे दण्डमाह मनुः “मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम्। आक्षारयन् शतन्दाप्यः पन्थानञ्चाददद्गुरोरिति”। भ्रातरं ज्येष्ठभ्रातरम्। एतच्च साफराधेषु मात्रादिषु निरपराधायां जायायामिति मिताक्षरायामभाणि। श्वश्र्वाद्यधिक्षेपे दण्डमाह वृहस्पतिः “क्षिपन् शश्व्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति।” वाह्वादिच्छेदन निष्ठुरभाषाभिभाषणे दण्डमाह याज्ञवल्क्यः “बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः। शत्यस्तदर्द्धिकः पादनासाकर्णकरादिष्विति।” बाह्वादिविनाशे वाचिके करिष्यामीति वाचा प्रतिपादितं शत्यः शतपरिमितो दण्डः। पादादिभङ्गं करिष्यामीत्याक्षेपे पञ्चाशत्परिमितो दण्ड इत्यर्थः। एवंवादिनोऽशक्तस्य दशपणा दण्डनीया इत्याह स एव “अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दशेति।” यः पुनः शक्तोऽशक्तस्य बाह्वादिभङ्गाक्षेपं करोति न केवलं स दण्ड्यः किन्तु अशक्तक्षेमार्थं प्रतिभुवमपि दापनीय इत्याह स एव “तथा शक्तः प्रतिभुवन्दाष्यः क्षेमाय तस्य त्विति”। अश्लीलभाषणे दण्डमाह स एव “अभिगन्तास्मि भगिनीं सातरं वा तवेति ह। शपन्तन्दापयेद्राजा पञ्चविंशतिकं दममिति।” तीव्राक्रोशे दण्डमाह स एव “पतनीय कृते क्षेपे दण्डमुत्तमसाहसम्। उपपातकयुक्ते तु दाप्यः प्रथमसाहसमिति।” पतनीयैः पातित्यहेतुमिर्ब्रह्महत्यादिभिः। उपपातकानि गोबधादीनि। मनुरपि “ब्राह्मणक्षत्त्रियाभ्यान्तु दण्डः कार्य्यो विजानता। ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः। विट्शूद्रयोस्त्वेवमेव स्वजातिं प्रति तत्त्वतः। छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः। पापोपपातवक्तारो महापातकशंसकाः। आद्यमध्योत्तमान्दण्डान्दद्युस्त्वेते यथाक्रममिति।” विष्णुरपि “परस्परपतनीये क्षेपे कृते तूत्तमसाहसं उपपातकयुक्तन्तु मध्यमम् त्रैविद्यवृद्धानांक्षेपे जातिपूगानाञ्च ग्रामदेशयोः प्रथममिति”। देशाद्याक्रोशे दण्डमाह वृहस्पतिः “देशादिकं क्षिपन्दाप्यः पणानर्द्धत्रयोद्रश। पापेन योजयन् दर्पाद्दाप्यः प्रथमसाहसम्। एष दण्डः समाख्यातः पुरुषापेक्षया मया। समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिरिति।” याज्ञ- वल्क्योऽपि “मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोरिति।” राज्ञ आक्रोशे दण्डमाह नारदः “अवक्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम्। जिह्वाच्छेदाद्भनेच्छुद्धिः सर्वस्वहरणेन वेति।” याज्ञवल्क्योऽपि “राज्ञोऽनिष्टप्रवक्तारन्तस्यैवाक्रोशकन्तथा। तन्मन्त्रस्य च भेत्तारञ्छित्त्वा जिह्वाम्प्रवासयेदिति।” सत्यदोषाभिधानेऽपि वाक्पारुष्यदण्डोऽस्त्येव तथा च नारदः “पतितं पतितेत्युक्त्वा तथा चौरेति वा पुनः। वचनाचुल्यदोषः स्यान्मिथ्याद्विर्दोषतां व्रजेदिति।” मनुनारदावपि “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि ब्रुवन्दाप्यो दण्डङ्कार्षापणाबरमिति।” विष्णुरपि “काणखञ्जादीनान्तथ्यवाच्यपि कार्षापणद्वयमिति।” एतच्च दुर्वृत्तविषयमिति माधवीये विद्यारण्यश्रीपादैरभ्यधायि। मिथ्यावदनशीलानां दण्डमाह कात्यायनः “अनृताख्यानशीलानाञ्जिह्वाच्छेदो विशोधनमिति।” हारीतोऽपि “मिथ्याभाषिणां मेलकानाञ्च राजा जिह्वाञ्छिन्द्याद्दण्डयेद्वेति” मेलको भक्षकः। कस्यचिद्वाक्पारुष्यकृतोऽर्द्धदण्डमाहोशनाः “मोहात्प्रमादात्सङ्घर्षात् प्रीत्या वोक्तं मयेति यः। नाहमेवं पुनर्वक्ष्ये दण्डार्द्धन्तस्य कल्पयेदिति।”
वाक्य = न० वच–ण्यत् चस्य कः। “वाक्यं स्याद् योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” इत्युक्ते १ पदसंघे सा० द०। २ स्वार्थबोधसमाप्ते पदसमुदाये वैयाकरणाः।
वाक्ष = स्पृहायां भ्वा० पर० सक० सेट् इदित्। वाङ्क्षति अवाङ्क्षीत्।
वागीश = पु० वाचामोशः। १ वृहस्पतौ “वागीशाद्याः सुमनस” इति न्यायमाला। २ सरस्वत्यां स्त्री “वागीशा हृदये यस्य” इति भाग० टीकोपक्रमे श्रीधरः। ३ पुष्यर्क्षे च
वागीश्वर = पु० ६ त०। १ वृहस्पतौ २ गुरौ च ३ तत्पत्न्यां स्त्री ङीष् “वागीश्वरीमृतुस्नातां फुल्लेन्दीवरलोचनाम्। वागीश्वरेण संयुक्ताम्” इति तन्त्रम्। ४ सरस्वत्यां स्त्री ङीप् ५ मञ्जु घोषे पु० त्रिका०।
वागुजी = स्त्री वाचा गुज्यते ध्वन्यते गुज–क गौरा० ङीष्। सोमराज्याम् अमरः।
वागुरा = स्त्री वा–हिंसने उरच् गन् च। मृगथार्थं मृगबन्धनपाशादौ अमरः।
वागुरावृत्ति = पु० वागुरा मृगबन्धनपाशादिरेव दृत्तिर्जीविका यस्य। व्याधे।
वागुरिक = पु० वागुरा प्रहरणं यस्य वागुरयाचरति वा टक्। व्याधे अमरः।
वाग्गुद = पुंस्त्री० पक्षिभेदे त्रिका० गुडहरके तज्जातिप्राप्ति- र्मनुनोक्ता “गोधा गां वाग्गुदो गुडम्” हत्वेति शेषः
वाग्गुलि = पु० राज्ञां ताम्बूलदातरि रत्नमाला।
वाग्डम्बर = पु० ६ त०। १ वाक्यस्तोमे २ बहुलवाक्ये च।
वाग्दण्ड = पु० वाचो वागिन्द्रियस्य दण्डः संयमनम्। १ मित२ भाषणे ३ वाक्यसंयमे च।
वाग्दत्ता = स्त्री वाचा दत्ता। विधिना वाक्यमात्रेण दातुं कृतसङ्कल्पायां कन्यायाम्” वाचा दत्ता मनोदत्तेति उद्वा० त०
वाग्दरिद्र = त्रि० ६ त०। मितभाषिणि शब्दमा०।
वाग्दान = न० ३ त०। कन्याया वाङ्मात्रेण दाने “ततो वाग्दानपर्य्यन्तं यावदेकाहमेव च” शु० त०।
वाग्दुष्ट = त्रि० वाचा दुर्वचनेन दुष्टः। शुद्धेऽपि पस्तुन्यशुद्धरूपतया कथनेन दूषिते। “वाग्दुष्टं भावदुष्टं च वर्जयेदिति” स्मृतिः।
वाग्देवता = स्त्री वाचां देवता। सरस्वत्यां “वाग्देवता चरितचित्रितचित्तसद्मा” जयदेवः। वाग्देव्यादयोऽप्यत्र।
वाग्मिन् = त्रि० वाच् + अस्त्यर्थे ग्मिमि चस्य कः तस्य लोपः। १ प्रशस्तवाक्यवक्तरि अमरः। २ वृहस्पतौ पु० मेदि०। ४ विष्णौ पु० विष्णुस०।
वाग्य = त्रि० वाचं यच्छति यम–ड। १ वाग्दरिद्रे शब्दमा० २ निर्वेदे ३ कल्ये अजयः।
वाग्यत = त्रि० वाक् वागिन्द्रियव्यापारोयता येन। मौनघारिणि मुनौ अमरः “वाग्यतस्त्रिसवनं चरेत्” स्मृतिः।
वाग्यम = त्रि० वाचं तद्व्यापारं यच्छति यम–अच्। मुनौ अमरः।
वाङ्मती = स्त्री “हिमाद्रेस्वङ्गशिखरात् प्रोद्भूता वाङ्मती नदी” इत्युक्ते नदीभेदे। सा च मिथिलादेशसन्निकृष्टतया वहति।
वाङ्मय = त्रि० वाक्स्वरूपम् मयट् चस्य कः तस्य ङः। १ वाक्यस्वरूपे शास्त्रे। २ वाक्यजनिते पापभेदे च। “पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्वशः। असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्” मनुः। तथा “परुषवचनमपवादः पैशुन्यमनृतं वृथालापो निष्ठुरवचनम् वाङ्मयानि षट्। परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचारपरिच्छदशरीरकर्मजीविनां प्रत्यक्षदोषवचनं परुषम। “यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः। परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविघम्। चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च। प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते”। तेषामेव परुषवचनानामपरोक्षमुदाहरणम् अपवादः। गुरुनृपतिवन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषो- पाख्यानं पैशुन्यम्। अनृतं द्विविधं असत्यमसंवादश्चेति “देशराष्ट्रप्रसङ्गाच्च परार्थपरिजल्पनात्। नर्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम्। गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः। यदन्यद् वा वचो नीचस्त्रीपुंसोर्मिथुनाश्रयम्। इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात्। इह चामुत्र च क्रूरमनर्थं प्रतिपद्यते”। प्रशंसयानिन्दनं प्रशंसानिन्दनम्। अत्र चतुर्विधषड्विधयोरविरोधः। समक्षत्वासमक्षत्वभेदानादरेण पारुष्यापवादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च। असम्बद्धप्रलापव्यर्थभाषणयोः पर्य्यायत्वान्नार्थान्तरम्” ति० त०।
वाङ्मुख = न० ६ त० उपन्यासे प्रथमवाक्योपक्रमे अमरः।
वाचंयम = त्रि० वाचां यच्छति वाचा + यम–ख मुम् ह्रस्वस। १ मितभाषिणि। २ मौनावलम्बिनि मुनौ पु० अमरः।
वाच = पुंस्त्री० वच–णिच–अच्। (वाचा) इति ख्याते मत्स्यभेदे राजवल्लभः स्त्रियां ङीष्।
वाचक = त्रि० वक्ति अभिधावृत्त्या बोधयति वच–ण्वुल्। “साक्षात् सङ्केतितं योऽर्थमभिधत्ते स वाचकः” इत्युक्ते १ शब्दभेदे २ कथके त्रि०। वाचयति वच–णिच्–ण्वुल्। ३ पुराणादिपाठके पु० “वाचकः पूजितो येनेति” पुरा० “ब्राह्मणं वाचकं विद्यान्नान्थवर्णजमादरात्। श्रुत्वान्यवर्णजाद्राजन्! वाचकान्नरकं व्रजेत्”। तथा “देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः। ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन!। पुनर्बघ्नीत तत्सूत्रं न मुक्त्वा धारयेत् क्वचित्। हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः। दत्त्वा तु वाचकायेह श्रुतस्याप्नाति तत् फलम्”। कांस्योपदोहनाः कांस्यक्रोडाः “वाचकः पूजितो येन प्रसन्नास्तस्य देवताः”। तथा “ज्ञात्वा पर्वसमाप्तिच्च पूजयेद्वाचकं बुधः। आत्मानमपि विक्रीय य इच्छेत् सुफलं क्रतुम्”। तथा “विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा। कलस्वरसमायुक्तं रसभावसमन्वितम्। बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप!। ब्राह्मणादिषु सर्वेषु ग्रन्थार्थं चार्पयेन्नृप!। य एवं वाचयेद् ब्रह्मन् म विप्रो व्यास उच्यते”। तथा “सप्तस्वरसमायुक्तं काले काले विशाम्पते!। प्रदर्शयन् रसान् सर्वान् वाचयेद् वाचको नृप” ति० त०। वाचकलक्षणादि हेमा० दा० नन्दिपु० उक्त यथा
“वाचको ब्राह्मणः प्राज्ञः श्रुतशास्त्रो महामनाः। अभ्यस्ताक्षरविन्यासो वृत्तशास्वविशारदः। शब्दार्थवित् प्रगल्भश्च विनीतो मेधया पुनः। गीतिज्ञो वाक्यलश्राव्यः स्वरेणाखिलभाषकः” इत्युपक्रमे एवंविधानतो वाच्यं वाचकेन विपश्चिता। तपःशमात्मकं मर्वं स्वर्गादिफलसाधकम्। शनैर्विबोध्य वै वाच्यमध्यात्मादि च यद् भवेत्। क्रुद्धोक्तियुद्धसंक्षोर्भ धारावर्त्तोन (वेगेन) वाचयेत्। सरागं ललितैर्वाक्यैर्वाचयेत् वृद्धसङ्गमे। नानावृत्तानुरूपेण लालित्येन च वाचयेत्। सर्गाध्याये समाप्ते च कथापर्य्यन्त एव वा। प्रशस्तशब्दसंयोगे कुर्य्यादिति विरामणम्। समाप्तौ वाचक्रो भीष्म! ब्रूयादेवं विचक्षणः। अवधार्य्य जगच्छान्तिमन्ते शान्त्युदकं सृजेत्। सुश्रुतं सुश्रुतं ब्रूयादस्तु व्याख्यातमित्यदः। लोकः प्रवर्त्ततां धर्मे राजा चास्तु सदा जती। धर्मवान् धनसम्पन्नो गुरुश्चात्र निरामयः। इति प्रोच्य यथाऽऽयातं गन्तव्यं च विभावतः।
वाचन = न० वच–णिच्–स्वार्थे वा णिच्–ल्युट्। १ पठने २ कथने च युच्। पठने स्त्री।
वाचनिक = त्रि० वचनेन निर्वृत्तम् ठक्। वाक्यनिष्पादिते पापादौ।
वाचस्पति = पु० ६ त० अलुक्समा०। १ वृहस्पतौ। २ पुष्यन्क्षत्रे च
वाच्(चा) = स्त्री उच्यतेऽसौ अनया वा वच–क्विप् नि० वा टाप्। १ वाक्ये अमरः २ वागिन्द्रिये च।
वाचाठ = त्रि० वाक् + कुत्सायां वाहुल्येऽस्त्यर्थे आटच् भत्वात् न कः। कुत्सितबहुभाषिणि अमरः। आलच्। वाचालोऽप्यत्र।
वाचिक = त्रि० वाचा कृतम् वाच् + ठक् भत्वात् न कः। वाक्यनिष्पादिते पापादौ वाङ्मयशब्दे दृश्यम्। २ वाक्यारम्भभेदे। “आलापश्च विलापश्च संलापश्च प्रलापकः। अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः। अपदेशोपदेशौ च निर्देशो व्यपदेशकः। कीर्त्तिता वचनारम्भा द्वादशामी मनीषिभिः” उज्ज्वलमणिः।
वाचोयुक्ति = स्त्री ६ त० अलुक्स०। १ वाचादर्शितयुक्तौ २ वाक्यनैर्मल्ये च।
वाच्य = न० वच–भावे ण्यत् न कः। १ दूषणे २ प्रतिपादने धरणिः। २ कथने च। कर्मणि ण्यत्। ४ दूष्ये ५ प्रतिपाद्ये अभिधया बोध्यार्थे च सा० द०। “नचाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते। वाच्यवाचकभावोऽयमक्षपादादिशब्दवत्। विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते। तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत्” म० त० भट्टवा०।
वाछ = कामे भ्वा० पर० सक० सेट इदित्। वाञ्छति अवाञ्छीत्। भावे–अ। वाञ्छा।
वाज = न० वज–घञ्। १ अन्ने २ घृते ३ जले ४ यज्ञे च मेदि०। ५ शरपक्षे अमरः ६ वेगे पु० ८ निस्वने ९ पक्षे पु० मेदि० १० मुनौ पु० विश्वः।
वाजपेय = पुंन० वाजमन्नं घृतं वा पेयमत्र। यागभेदे कात्या० श्रौ० तत्प्रकारादि दृश्यम्।
वाजपेयिन् = पु० वाजपेय + अस्त्यर्थे इनि। १ वाजपेययागकर्त्तरि उपचारात् २ तद्वंश्ये च।
वाजसन = पु० वाजमन्नं सनोति ददाति सन–अच्। १ विष्णौ विष्णुस०। २ शिवे भा० आनु० १७ अ०।
वाजसनि = पु० राजस्य अन्नस्य सनिर्दानं येन। सूर्य्ये “आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इत्युक्तेस्तस्य वृष्टिद्वारा अन्नदातृत्वात् तथात्वम्।
वाजसनेय = पु० वाजसनेः सूर्य्यस्य छात्रः ढक्। याज्ञवल्क्ये “आदित्यानीमानि शुक्लानि यजूंपि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते” वृहदारण्य० श्रुतिः। अस्यार्थः। आदित्यादधीतान्यादित्यानि शुक्लानि शुद्धानि। इयमत्र आख्यायिका। व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजुर्वेदमध्यापयत्। तत्र दैवात् केनापि हेतुना क्रुद्धो वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति। स योगसामर्थ्यान् मूर्तां विद्यां विधायोद्ववाम। वान्तानि यजूंपि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायनशिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षन्। तानि यजूषि वुद्धिमालिन्यात् कृष्णानि जातानि। ततो दुखितो याज्ञवल्क्यः सूर्य्यमाराध्यान्यानि शक्लानि यजूषि पाप्तवान्। तानि च जाबालगौधेयकाण्वमाध्यन्दिनादिभ्यः पञ्चदशशिष्येभ्यः पाठितवान्” वेददी०। “एवंस्ततः स भगवाम् वाजिरूपधरो रविः। यजूंष्ययातयामानि सुनयेऽदात् प्रसादतः। यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः। जगृहुर्वाजसन्यस्ताः। काण्वमाध्यन्दिनादयः” भाग० १२। ६। ६७ श्लो०
वाजसनेयिन् = पु० ब० व०। वाजसनेयेन प्रोक्तमधीयते इनि। यजुर्वेदशाखाभेदाध्यायिषु विप्रादिषु। २ तदुक्तरीत्या कर्मार्हेषु शूद्रेषु च “शूद्रा वाजसनेयिमः” म० मा० त०।
वाजिदन्त = पु० वाजिनां दन्त इव पुष्पमस्य। १ नासते रत्नमा० कप्। वाजिदन्वक तत्रैव।
वाजिन् = पु० वाजः वेमः पक्षो वा अस्त्यस्य इनि। १ घोटके २ वाणे ३ वासके च शब्दर०। ४ वेभवति त्रि० स्वियां ङीप्। मा म। ५ अश्वगन्धायथ ६ प्राठक्याम् स्त्री राजनि०। ७ देवभेदे पु०। वाजिनशब्दे दृश्यम्।
वाजिन = पु० वाजिभ्यो देयम् अण्। आमिक्षानिःसृतजले “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” इति श्रुतिः।
वाजिपृष्ठ = पु० वाजिन इव पृष्ठमस्य। अम्लानवृक्षे शब्दच०।
वाजिभक्ष = पु० भक्ष्यते भक्ष–कर्मणि घञ् ६ त०। चणके राजनि०।
वाजिभोजन = पु० वाजिभिर्भुज्यते भुज–कर्मणि ल्युट्। मुद्गे राजनि०।
वाजीकरण = न० अवाजी वाजीव क्रियतेऽनेन वाजिन् + च्वि कृ–ल्युट्। “यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरतक्षमम्। तद्वाजीकरणं ख्यातम्” इत्युक्ते वीर्य्यवृद्धिकरणे औषधभेदे। सुश्रुते दृश्यम्।
वाञ्छा = स्त्री वाछि–अ। इच्छायाम् इष्टसाधनताधीजंन्येऽभीष्टविषये चित्तवृत्तिभेदे अमरः।
वाट = पु० वट–घञ्। १ पथि २ वृतिस्थाने च मेदि० गौरा० ङीष् ४ वास्तुभूमौ ५ कुट्यां स्त्री मेदि०। ६ वाट्यालके शब्दर०।
वाटिका = स्त्री वट–ण्वुल्। १ वास्तुभूमौ (वेडियाला) २ क्षुपे ३ हिङ्गुपत्र्याञ्च शब्दच०।
वाट्या = स्त्री वाट्यै हिता तत्र साधुर्वा यत्। (वेडियाला) क्षुपभेदे रत्नमा०।
वाट्याल = पु० वाटीमलति भूषयति अल–अण्। (वेडियाला) क्षुपभेदे शब्दर० गौरा० ङीष् तत्रैव स्त्री। ण्वुल्। वाट्यालक तत्रैवार्थे पु० शब्दर०।
वाड = आप्लावे भ्वा० आ० अक० सेट् चङि न ह्रस्वः। वाडते अवाडिष्ट।
वाढ = न० वह–क्त नि०। १ अतिशये २ तद्युक्ते त्रि० अमरः। पृषो० मुम्। वाढम् ३ प्रतिज्ञायां ४ स्वीकारे च अव्य० अमरः।
वाण = पु० वण–घञ्। १ शरे अमरः २ गवां स्तने ३ दैत्यभेदे ४ केवले मेदि० ५ वह्नौ त्रिका० ६ काण्डावयवे विश्वः ७ भद्रमुञ्जे राजनि० कादम्बरीग्रन्थकारके ८ कविभेदे च “पञ्चवाणस्तु वाणः” इति प्रसन्नराघवम्। ९ नीलझिण्ट्यां पुंस्त्री० अमरः। अस्योष्ठ्यादित्वमिव्यन्ये।
वाणपुर = न० ६ त०। शोणितपुरे (कोट्टरी) पुराख्ये पुरभेदे शब्दर०।
वाणबार = पु० वाणं परमुक्तशरं बारयति चु० बृ–अण्। योधादेश्चोलाकारे सन्नाहे कवचे शब्दच०।
वाणहन् = पु० वाणं तन्नामासुरं हतवान् हन–ताडने भूते क्विप्। श्रीकृष्णे वाणजिदादयोऽप्यत्र।
वाणि = स्त्री वण–इख् वा ङीप्। १ वयने अमरः २ वयनदण्डे देमनि हेमच०। ५ वाक्ये ६ तद्देवतायान्न अमरः ङीप्।
वाणिनी = स्त्री वल–णिनि ङीप्। १ नर्त्तक्यां २ छेके ३ मत्तस्त्रियाम् हेमच०। वाण + अस्त्यर्थे इनि। ४ शरयुते त्रि०।
***