वर = ईप्से अद० चु० उभ० सक० सेट्। वरयति ते अववरत् त।

वर = न० व्रियते वृ–कर्मणि अप् वरि–अच् वा। १ कुङ्कुमे २ मनागभीष्टे अमरः “वरं प्राणान् परित्यक्ष्ये” इति तन्त्रम्। मावे अप् अच् वा। ३ इच्छायाम् ४ याचने ५ आवरणे ६ वेष्टने च। वृ–कर्मणि अप्। ७ अभीष्टे ८ श्रेष्ठे च त्रि० अमरः। ९ जारे १० जामातरि शब्दर० ११ गुग्गुलौ शब्दच० १२ पत्यौ च पु० हेमच०। “तपोभिरिष्यते यस्तु देवेभ्यः स वरोमतः” इत्युक्ते १३ पदार्थे।

वरक = पु० वृ–वुन्। १ वनमुद्गे हेमच० २ पर्पटे ३ तृणधान्यभेदे (चीना) च राजनि०। ४ पोताच्छादनवस्त्रे न० हारा०।

वरचन्दन = न० कर्म०। १ कालीये २ देवदारुणि च मेदि०।

वरट = न० वृ–अटन्। १ कुन्दपुष्पे शब्दर०। २ कीटमेदे (वोलता) २ हसे पुंस्त्री० मेदि०। स्त्रियाम् अजादि० टाप् अमरः। ङीष् मेदि०। ४ कुसुम्भवीजे भावप्र०। सा च ५ गन्धोल्यां मेदि०।

वरण = न० वृ–ल्युट्। कन्यादिदानाय जामात्रादेरभ्यर्थनानुकूले १ व्यापारभेदे २ वेष्टने मेदि०। ऋत्विगादेः क्रियासु नियोनाय ३ पूजनादौ ५ उष्ट्रे पुंस्त्री० हारा०। ६ प्राकारे ७ वरुणवृक्षे च। (सा~को) ख्याते ८ पदार्थे च ९ काशीस्थे नदीभेदे स्त्री शब्दर०। वरुणशब्दे दृश्यम्।

वरण्ड = पु० वृ–अण्डच् (वयसफोडा) १ मुखरोगभेदे मातङ्ग युद्धार्थे मध्यवेदौ च मेदि०।

वरण्डक = पुंन० वृ–अण्डच् संज्ञायां क। १ वरण्डशब्दार्थे २ वर्तुले मेदि०। ३ भित्तौ हेमच०। ४ विशाले ५ कृपणे ६ भीते च त्रि० शब्दर०।

वरण्डालु = पु० वरण्ड इवालुः। एरण्डवृक्षे त्रिका०।

वरतिक्त = पु० वरः श्रेष्ठस्तिक्तो रसो यस्य। कुटजवृक्षे राजनि०। २ पाठायाम् (आकनादि) स्त्री राजनि० स्वार्थे क तत्रैव।

वरत्रा = स्त्री वृ–अत्रच्। हस्तिकक्षस्थरज्जौ अमरः।

वरत्वच = पु० वरा त्वचा यस्य। १ निम्बवृक्षे रत्नमा०। २ श्रेष्ठत्वग्युते त्रि०।

वरद = त्रि० वरं ददाति दा–क। १ अभीष्टदातरि अमरः। २ प्रसन्ने च मेदि० ३ तच्चिह्नसूचके हस्तादिविन्यासरूपे मुद्राभेदे न० “अभयं वरदञ्चैव” श्यामाध्यानम्। ४ कन्यायाम् स्त्री मेदि०। ५ अश्वगन्धायाम् स्त्री भावप्र० ६ आदित्यभक्तायां स्त्री राजनि० ७ दुर्गायाञ्च स्त्री।

वरदाचतुर्थी = स्त्री माघशुक्लचतुर्थ्याम्। तामधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरी सुपूजिता” ति० त० भविष्यपु०।

वरदातु = पु० दा–तुन् ६ त०। भूमीसहे वृक्षे राजनि०।

वरपर्ण = पु० वराणि पर्णाण्यस्य। क्षीरकञ्चु कीवृक्षे रत्नमा०।

वरप्रदा = स्त्री वरं प्रददाति दा–क। लोपामुद्रायां हेसच०। २ वरप्रदातरि त्रि०।

वरफल = पु० वरं फलमस्य। १ नारिकेले वृक्षे शब्दच०। कर्म०। २ श्रेष्ठे फले न०।

वरमुखी = स्त्री वरं मुखं यस्याः ङीप्। रेणुकानामगन्धद्रव्ये शब्दच०।

वरम् = अव्य० वृ–अमु। ईषदभिष्टे मेदि०।

वरम्बरा = स्त्री वरं बृणोति वृ–खुच् मुम्। (चाकुलिया) १ चक्रपर्ण्याम् शब्दच०। २ पतिम्बरायां कन्यायाञ्च।

वररुचि = त्रि० वरा रुचियेस्य। १ श्रेष्ठप्रीतियुते। २ पाणिनिसूत्रवार्त्तिककारे कात्यायनमुनो त्रिका०। ३ विक्रमादित्य- सभास्थे पण्डितभेदे च। नवरत्नशब्दे ३९९२ पृ० दृश्यम।

वरल = पु० वृ–अलच्। १ वरटे त्रिका० २ कीटभेदे शब्दमा० स्त्रियां गौरा० ङीष् वरटाया स्त्री जटा० अजा० टाप्।

वरलब्ध = पु० वरः उत्कर्षः पुष्पेषु लब्धो येन परनि०। १ चम्पके त्रिका० २ प्राप्तवरे त्रि०।

वरवर्णिनी = स्त्री वरः श्रेष्ठो वर्णः प्रशंसाऽस्त्यस्याः इति। उत्तमस्त्रियाम् अमरः। २ लाक्षायां ३ हरिद्रायां ४ रोचनायां ५ फलिन्यां ६ साध्व्यां स्त्रियां मेदि०। ७ गौर्य्यां ८ लक्ष्म्यां ९ पार्वत्यां च शब्दर०।

वरवाह्लीक = न० कर्म०। कुङ्कुमे अमरः।

वरा = स्त्री वृ–अच्। हरितक्यामलकीवयस्थारूपे फलत्रिके मेदि०। २ रेणुकानासगन्धद्रव्ये शब्दच०। ३ मुडूच्याम् ४ मेदायां ५ ब्राह्म्याम् ६ विडङ्गे ७ पाठायाम् ८ हरिद्रायाञ्च राजनि०।

वराक = पु० वृ–षाकन्। १ शिवे मेदि०। २ युद्धे न० हेमच०। ३ अवरे त्रि० शब्दर०। ४ शोचनीये च त्रि० मेदि० खियां ङीष्।

वराङ्ग = न० कर्म०। १ मस्तके। व्रियते आव्रियते गुप्यते वृअप्। २ गुह्ये अमरः। ३ योनौ ४ गुडत्वचि च त्रिका०। ६ ब०। ५ गजे पुंस्त्री० त्रिका० स्त्रियां ङीष् ६ विष्णौ विष्णुस०। ७ कामदेवे च पु०। ८ श्रेष्ठावयवयुक्ते त्रि०। ८ हरिद्रायाम् स्त्री राजनि०। गौरा० ङीष्। संज्ञायां कन्। गुडत्वचि (दाराचनि) न० अमरः।

वराङ्गिन् = पु० वराङ्गमस्त्यस्या इनि। १ अम्लवेतसे रत्नमा०। २ श्रेष्ठाङ्गयुते त्रि० स्त्रियां ङीप्।

वराट = पु० वरमल्पमटति अट–अण्। १ कपर्दे राजनि०। २ रज्जौ च पु० रत्नको०। स्वार्थे क। तत्रार्थे “वराटकानां दशकद्वयं यत्” लीला० अट–ण्वुल्। वराटक पद्मवीजाधारे कोषे पु० अमरः।

वराटकरजस् = पु० वराटके इव रजोऽत्र। नागकेशरे वृक्षे शब्दमा०।

वराण = पु० वृ–आनन्। १ इन्द्रे त्रिका०। २ वरुणवृक्षे शब्दर०

वरादन = न० वरैर्नृपैरद्यते अद–ल्युट्। राजादने (पियासाल) शब्दच०।

वराम्र = पु० वरः आम्र इव। करमर्दे रत्नमा०।

वरारोह = पु० वर आरोहो मध्यं यस्य। १ हस्तिनि विश्वः २ प्रशस्तनितम्बवत्यां स्त्रियां स्त्री अमरः।

वरालिका = स्त्री वरानामालिर्यस्यां कप्। दुर्गायां त्रिका०।

वराशि = पु० वरमावरणमश्नुते अश–इन्। स्थूलवस्त्रे अमरः।

वरासन = न० वराय वरणीयायास्यते क्षिप्यते अस–ल्युट्। १ जवापुष्पे शब्दमा०। कर्म०। २ उत्तमे आसने न०। वरं पतिमस्यति अस–ल्यु। ३ षिड्गे जारे पु०। वरान् श्रेष्ठानपि अस्यति दूरीकरोति ल्यु। ४ द्वारपाले च पु० विश्वः।

वरासि = पु० वरायावरणायास्यते अस–इन्। १ स्थूलवस्त्रे २ खङ्गधरे च धरणिः।

वराह = पुस्त्री० वराय अभीष्ठाय मुस्तादिलाभाय आहन्ति खनति भूमिम् आ + हन–ड। १ शूकरे अमरः स्त्रियां ङीष्। २ यज्ञवराहाख्ये भगवतोऽवतारभेदे पु० ३ पर्वतभेदे ४ मुस्तके ५ मानभेदे मेदि०। ६ शिशुमारे ७ वाराहीकन्दे पु० राजनि० ८ अष्टादशद्वीपमध्ये द्वीपभेदे च।

“गन्धर्वो वरुणः सौम्यो वराहः कङ्क एव च। कुमुदस कसेरुश्च नागो भद्रारकस्तथा। चन्द्रेन्द्र मलयाः शङ्ख यवाङ्गक गभस्तिपान्। ताम्राङ्गस कुमारी च तत्र द्वीपा दशाष्टभिः” शब्दमा०।

वराहकन्द = पु० वराहप्रियः कन्दः शा० त०। स्वनामख्याते वृक्षभेदे राजनि०।

वराहकान्ता = स्त्री वराहाणां कान्ताऽभीष्ठा। वराहकन्दे शब्दर०।

वराहक्रान्ता = स्त्री वराहेण क्रान्तेव। १ लज्जालुलतायाम् शब्दच० २ वाराह्यां (चामरालु) सुभूतिः।

वराहिका = स्त्री वराहो भक्षकत्वेनास्त्यस्याः ठन्। कपिकच्छ्वाम् राजनि०।

वराही = स्त्री वराहो भक्षकत्वेनास्त्यस्या अच् गौरा० ङीष्। १ भद्रमुस्तायाम् २ वराहकन्दे च राजनि०।

वरिवस् = न० वृ + वसुन् इट् च। १ पूजने २ धने च निघण्टुः।

वरिवसि(स्यि)त = त्रि० वरिवः पूजनं करोति क्यच्–क्त वा नलोपः। पूजिते अमरः।

वरिवस्या = स्त्री वरिवम् + कृत्यर्थे क्यच्–भावे अ। १ पूजने २ शुश्रूषायाम् अमरः।

वरिष्ठ = त्रि० अतिशयेन उरुः इष्ठन् वरादेशः। १ उरुतमे २ तित्तिरिविहगे पुंस्त्री० स्त्रियां ङीष् ३ नागरङ्गवृक्षे पु० र जनि०। ४ ताम्रे न० अमरः। ५ मरिचे न० मेदि० ६ वत्से अजयः। ७ आदित्यभक्तायां स्त्री राजनि०।

वरी = स्त्री वरी शतावरी पूर्वपदलोपः। १ शतावर्य्याम् अमरः २ सूर्य्यपत्न्याञ्च त्रिका०।

वरीयस् = त्रि० अतिशयेन उरुः श्रेष्ठः ईयञ्चत् वरादेशः। १ उरुतमे विष्कन्धादिषु मध्ये २ अष्टादशे योगभेदे पु० ज्यो० त०।

वरी(ली)वर्ह् = पु० वृध–यड्–लुक् अच् पृषो० रख वा लः। वृषभे अमरः।

वरुट = पुंस्त्री० म्लेच्छजातिविशेषे स्त्रियां ङीष्। “पुलिन्दा नाहला निष्ट्याः शवरा वरुटा भटाः। मालाः भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातय” हेमच०।

वरुड = पु० वृ–उडन्। अन्त्यजजातिभेदे स्त्रियां ङीष्। “रजकश्चर्मकारश्च नटोवरुड एव च” मनुः।

वरुण = पु० वृ–उनन्। पश्चिमाशापतौ १ जलेशे स्वनामख्याते देवभेदे अमरः। २ जले मेदि० ३ सूर्य्ये च विश्वः। ५ द्वीपभेदे वराहशब्दे दृश्यम्। ६ काशीस्थे नदीभेदे स्त्री। काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा “प्रयागे वसते नित्यं योगशायी तु विश्रुतः। चरणाद्दक्षिणात्तस्य विनिर्याता सरिद्वरा। विश्रुता वरु(र)णेत्येर्व सर्वपापहरा शुभा। सव्यात् पादात् द्वितीया च असिरित्येव विश्रुता। ते उभे च सरित्श्रेष्ठे लोकपूज्ये बभूवतुः। तयोर्मध्ये तु यो देशस्तत्क्षेत्रं योगशायिनः। त्रैलोक्यप्रभवं तीर्थं सर्वपापप्रमोचनम्। न तादृशोऽस्ति गगने न भूम्यां न रसातले। तत्रास्ति नगरी पुण्या ख्याता वाराणसो शुभा”। ७ स्वनामख्यातवृक्षभेदे पु० अमरः “वरुणः पित्तलो भेदी श्लेष्मकृच्छ्राश्ममारुतान्। निहन्ति गुल्मवातास्र क्रिमींश्चीष्णोऽग्निदोपनः। कषायो मधुरस्तिक्तः कटुक्तो रूक्षको लघुः” भावप्र०।

वरुणात्मजा = स्त्री वरुणस्य जलस्यात्मजेव जन्यत्वात्। जलभवे मद्ये अमरः।

वरुणानी = स्त्री वरुणस्य पत्नी ङीष् आनुक् च। वरुणपत्न्याम् जटा०।

वरुत्र = न० वृ–उत्र। उत्तरीयवस्त्रे सि० कौ०

वरूथ = न० वृ–ऊथन्। तनुत्राणे हेमच० २ चर्मणि मेदि०। ३ रथगुप्तिस्थाने परप्रहाररक्षार्थमावृते स्थाने पु० अमरः।

वरूथिनी = स्त्री वरूथोऽस्त्यस्याः इनि। सेनायाम् अमरः।

वरेण्य = न० वृ–एन्य। १ कुङ्कुमे राजनि० २ प्रधाने ३ प्रार्थनीये च त्रि० अमरः।

वरेन्द्री = स्त्री गौडदेशे त्रिका०। साभिजमोऽस्य अण्। वारेन्द्र विप्रभेदे।

वरोट = न० वराण्युटानि दलान्यस्य। मरुवकपुष्पे अमरः।

वरोल = पुंस्त्री० वृ–ओल। वरटे कीटभेदे त्रिका०। स्त्रियां ङीष

वर्कर = पु० वृक–अरन्। १ तरुणपशौ अमरः २ मेषशावके भरतः ३ छागमात्रे पुंस्त्री० स्त्रियां ङीष् ४ परिहासे मेदि०

वर्ग = पु० वृज–घञ्। १ सजातीयसमूहे अमरः। यथा मनुष्यवर्गः पशुवर्गः। समानधर्मिभिः प्राण्यप्राणिभिः कृते २ संघे च यथा कवर्गः चवर्गः। अत्र कत्वलत्वादिना विजातीयत्वेऽपि स्थानसाम्यमस्ति। ३ ग्रन्थपरिच्छेदे यथा स्वर्गवर्गः पातालवर्गः। ४ अङ्कशास्त्रोक्ते समानाङ्कद्वयस्य परम्परगुणने यथा द्विकस्य चत्वारि, त्रिकस्य नव, चतुष्कस्य षोडश इत्यादि। “स्थाप्योऽन्त्यवर्गः” “वर्गं मूलं पदं कृतिम्” इति च लीला०। वृज–घञ्। ५ त्यागे। ग्रन्थ परिच्छेदाश्च बहुविधाः यथा “सर्गोवर्गपलिच्छेदोद्घाताध्यायाङ्कसंग्रहाः। उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम्। स्थानं प्रकरणं पर्वाह्णिकञ्च ग्रन्थसन्धयः” त्रिका०।

वर्गप्रकृति = वीजगणितोक्ते गणनाप्रकारभेदे तत्र दृश्यम्।

वर्गमूल = न० वर्मस्य समद्विघातात्मककृतेः मूलम्। अङ्कशास्त्रप्रसिद्धं समाङ्कद्वयेन हताङ्कमङ्क्यायाः यन्मूलं घातसाधनं तत्र। यथा षोडशानां चत्वारि नवानां त्रयः चतुर्णां द्वौ इत्यादि।

वर्गोत्तम = पु० वर्गेषु षट्सु क्षेत्रादिषु उत्तमः मवांशः। “चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा। ह्यात्मकानाञ्च नवमे वर्गोत्तम इति स्मृतः” इति ज्योतिषोक्ते त्रिंशांशकात्मकराशेर्नवांशभेदे।

वर्च = दीप्तौ भ्वा० आत्म० अक० सेट्। वर्चते अवर्चिष्ट।

वर्चस् = न० वर्च–असुन। १ रूपे २ शुक्रे ३ तेजसि ४ विष्ठायाञ्च मेदि०। ५ चन्द्रपुत्रे पु० “रोहिण्यामभवद्वर्च्चा वर्चम्बी येन चन्द्रमा” वह्निपु०। स्वार्थे क। विष्ठायाम् अमरः।

वर्च्चस्विन् = त्रि० वर्चस् + अस्त्यर्थे विनि। तेजस्विनि स्त्रियां ङीप्।

वर्जन = न० वृज ल्युट्। १ त्यागे २ हिंसायां च ३ मारणे मेदि०

वर्ण्ण = स्तुतौ विस्तारे शुक्लादिवर्णकरणे उद्योगे दीपने च अदु० चु० उभ० सक० सेट। वर्णयति ते अववर्णत् त।

वर्ण्ण = वर्णने चु० उभ० सक० सेट्। वर्णयति ते अववर्णत् त।

वर्ण = न० वर्ण–अच्। १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे ५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे १० अङ्गरागे पु० हेमच०। ११ गजचित्रकम्बले पु० अमरः १२ यशसि १३ गुणे १४ स्तुतौ पु० मेदि०। भेद रूपे अक्षरे पु० न० मेदि०। १५ ब्राह्मणादिजातौ पु० अमरः। “चातुर्वर्ण्यं मया सृष्टम्” गीता। तत्र विप्रादिवर्णानां सृष्टिः तद्धर्माश्च मनुना उक्ता यथा “लोकानान्तु विवृद्ध्यर्थं सुखबाहूरूपादतः। ब्राह्मणं क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्”। “मुस्ववाहूरूपज्जानां पृथक् कर्माण्यकल्पयत्। अध्यापनमध्ययनं यजनं याजनस्तथा” “ब्राह्मणोऽमा मुखमासीद्बाहूराजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत” यजु० ३१ ११ तेषां ब्राह्मणस्य श्रैष्ठ्ये कारणं मनुनोक्तं यथा “ऊर्ध्यनाभेर्मेध्यतरः पुरुषः परिकीर्त्तितः। तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा। उत्तमाङ्गोद्भवात् ज्यैष्ट्याद् ब्रह्मणश्चैव धारणात्। सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः” वर्णधर्माश्च जातिधर्मशब्दे ३१०५ पृ० दृश्याः। तत्र अक्षररूपवर्णोत्पत्तिक्रमः तत्भेदाश्च शब्दार्थरत्नेऽस्माभिरुक्ता यथा “अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते। चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधारस्थितमनलं चालयति तच्चालितश्चानलः तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिचीयते। ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्देश संयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते एतद्वयस्य सृक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्मदोयश्रुतिगीचरता। ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्याकभवि समधिगम्या। तती मुखपर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन परावृत्य च मुखविवरे कण्ठादिषु तत्तदष्टस्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैस्वरीत्युच्यते। तदुक्तं शिक्षायाम् “आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। सोदीर्णो मूर्घ्न्यमिहतो वक्त्रमापद्य मारुतः। वर्णान् जनयते तेषां विभागः पञ्चधा मतः। स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः” इति। संस्काररूपेण स्वगतानर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विवयीकृत्येर्थः। तथा। “प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति। स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक् प्रयोक्तॄणां प्राणवृत्तिनिवन्धिनी। केवलं बुद्धुव्रपादाना क्रमरूपानुपातिनी। प्राणवृत्तिमनुक्रम्य मध्यमा वाक् प्रवर्त्तते। अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। स्वरूपज्योतिरेवातः परा वागनपायिनीति” भारतेऽप्युक्तम्। अत्र प्राणापानान्तरे इत्यधिकरणनिदे- शादाकाशस्थायिता नित्यमित्यभिधानात् यावत्प्रलयपर्य्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युपगमात्। न तु क्षणिकता मध्ये उत्पत्तिविनाशकल्पने गोरवात् शब्दार्थयोर्नित्यसम्बन्धस्वीकारादनित्येन शब्देन नित्यार्थमम्बन्धस्वीकारेऽयुक्तत्वापत्तेश्च। नित्यत्वेऽपि तेषां व्यञ्जकसद्भावाभावाभ्यां प्रत्ययापत्ययावित्यन्यत्र विस्तरः। स्थानेषु कण्ठताल्वाद्यष्टस्थानेषु वायौ मूलाधारस्थे विकृते विवक्षाप्रेरितमनोनियुक्ताम्बिसंक्षोभाच्चलिते इत्यर्थः। कृतवर्णपरिग्रहा वर्णभावापन्ना, तच्च स्थानेष्विति व्यवहितेनान्वितम्। प्राणवृत्तिनिबन्धिनीत्यनेन व्राणवृत्तेर्वायोस्तत्तद्देशपर्य्यन्तगमनमभिहितं, केबलमित्यनेन कण्ठताल्वादिस्थानानपेक्षाभिहिता। बुद्ध्युपादानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेर्हृदयस्थत्वात्। सर्वतः सहृतक्रमेत्यनेन हृदयस्थानगमनानपेक्षाभिहिता। अविभागेत्यनेन मध्यमाया विभागरूपविशेषस्य कर्णपिधानेनाप्यवगमात् पश्यन्त्यास्तु तद्व्युदासः। अनपायिनी स्वस्थानादचलिता प्राणापानान्तरे मूलाधारस्थितेति यावत्। अतो यथाप्रदर्शितं परादीनां विभागं प्रतिपादयतीदं महाभारतीयमलं विस्तरेण।”

अभिघातस्थानानि चाष्टविधानि सामान्यतो वेदितव्यानि “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु चेति” शिक्षा कृदुक्तेः। वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षायामभिहिता वेदितव्याः। यथा “चतुःषष्टिस्त्रिषष्टिवा वर्णाः सम्भवतो मताः। स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः। यादयश्च स्मृता ह्यष्टौ चत्वा रश्च यमाः स्मृताः। अनुस्वारो विसर्गश्च + क~ओपौ चापि पराश्रितौ। दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव वेति”। अस्यार्थः अ इ उ ऋ इत्येषां ह्रस्वदीर्घप्लुताः कालकृता द्वादश भेदाः ऌकारस्यैकौ भेदोऽस्य दीर्घाभावात् प्लुतस्तूत्तरं प्रतिपादितः। एवां चतुर्णां ह्रस्वाभावात् दीघप्लुतभेदेनाष्टौ भेदाः इत्येकविंशतिः स्वराः। स्पर्शाः कादयो मावसानाः पञ्चविंशतिः। यादयो हान्ता अष्टौ। यमाः वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये पूर्बसदृशाः प्रातिशाख्ये प्रसिद्धाश्चत्वारो वर्णाः। यथा पलिक्~क्री चख्~ग्नतुः। अग्~ग्निः। पतिघ्~ध्नीत्यादौ। अनुस्वारादयश्चत्वारः स्पष्टाः। + क~पौ चापि परामितावित्युक्तिस्तु फखयोः परवोरेकविधः पफयो परयोरन्यविधः कण्ठ्योष्ठ्यत्वभेदादिति ज्ञापनाय। दुःस्पृष्टः ईषत्स्पृष्टः ऌकारः। “अचोऽस्पृष्टा षणस्त्वीषन्नेमस्पृष्टाः शलस्तथा” इत्यनेन प्रतिपादितस्य यण्पदाभिधेययवरलो धर्मस्य ईषत्स्पृष्टत्वस्य ऌकारे कथनात् ऌकारस्य स्वरत्वयण्त्वोभयधर्मसमावेशात् द्विविधता इति त्रिषष्टिर्भेदाः। ऌकारस्य प्लुतत्वे चतुःषष्टिर्भेदाः। एवं वर्णानां सामान्यतो भेदे वोघिते एतेषामुत्पत्तिस्थानानि बाह्याभ्यन्तरप्रयत्नमेदान प्रदर्श्यन्ते। तत्र स्थानानि “हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम्। औरस्यन्तं विजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्था ऋटुरषा दन्त्या ऌतुलसाः स्मृताः। जिह्वामूले तु कुः प्रोक्तः दन्त्यौष्ट्यो वः स्मृतो बुधैः। ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठ्योष्ठजौ स्मृतौ। अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्। ओकारौकारयोस्तद्वदिति”। “अनुस्वारयमानाञ्च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थान० भागिन इति शिक्षाकृदुक्तानि बेदितव्यानि। यद्यपि सर्वेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम्। “जिह्वमूले तु कुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठ्यत्वव्यवहारस्तु कण्टशब्दस्य कण्टमूलपरतया भाक्त एव तवर्गस्य दत्तमूलीयत्वेन दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तदनुच्चारापत्तेः। जिह्वामूलीयस्य आश्रयस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात्। दन्त्योष्ठ्योव इत्यादावुभयोरेव प्रत्येक वकारस्थानत्वं नं तु समुदितयोः तथा सति दन्तोष्ठ्य इत्येव परिशिक्ष्येत। अतस्तस्य दन्त्वौष्ठ्योमयकार्य्यनिमित्तता एवमग्रेपि द्रष्टव्यम्। यमानां प्रातिशाख्यप्रसिद्धानां का~दिचतुष्टयानां पूर्वोदितानां यम्संज्ञानोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते। तत्रा च यमेत्युपलक्षणम्। “अमोऽनुनासिका नह्रौ” इत्युक्त्य। हकाररकारभिन्नानाममानां नासिका स्थानत्वाभिधानात् नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या नासिकास्थानत्वप्राप्तेश्च। तत्र नह्राविति पुनः हकाररकारयोः पर्य्युदासः। “मुखनासिकावचनोऽनुनासिकाः इति पा० सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्थानत्वम्। अयोगवाहा विसर्गा जिह्वामूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थानभागित्वम। आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्ते तत्स्यानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया। पफयोः परयोरोष्ठोच्चार्य्यमाणयोराश्रयत्वेनोप ध्मानीयता। उश्च पश्च आध्मायेते अनेन स्थाननेति व्युत्पत्तेः उपाध्मान शब्द ओषवचनः। तत्स्थानयोग्यत्वादन्वितनामता चावधेया। अतएव “कौमुद्यां जिह्वामूलीयस्य जिह्वामूलमुपाध्मानीयस्योष्ठावित्युक्तम्। यद्यपि सर्वेषां वर्णानामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जकताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण भाक्त एव। तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारः समुचित। वर्णाभिव्यक्त्यनन्तरभाविनस्त आन्तरतम्यपरीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यवहिर्देशावच्छिन्नकार्य्यस्य जनका बाह्या यत्ना गुणशब्देनोच्यन्ते इत्यादिकं शेखरादौ स्पष्टम्। आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन इति विवेकः। तथाहि नाभिदेशात् प्तयत्नप्रेरितः प्राणवायुरूर्द्ध्वमागच्छन्नुरःप्रमृतीनि स्थानान्याहन्ति उत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णो त्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा स्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत्स्पृष्टता समीपावस्थाने संवृतता दूरावस्थाने विवृतता इत्येवमाभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः। अतएव इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये तालुस्थानेन सह जिह्वाग्रादीनां सम्यक् स्पर्शः, यकारोच्चारणे तु ईषत् स्पर्शः शकारेकारोच्चारणे दूरमनोपावस्थानमिति। एतेषां चाभ्यन्तरत्वं ओष्ठप्रभृतिकाकलीजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां स्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम्। विवारसंवारौ तु गलतिलस्य विकाशाविकाशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नावेव तयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम्। ते च आभ्यन्तराः प्रयत्नाः केषां वर्णानाङ्के इत्येतत्तावदधीयते। कादिमावसानानां स्पृष्टता अतएव तेषां सक्यक्स्पर्शवत्त्वेन स्पर्शपदवाच्यता। यणः ईषत् स्पृष्टता। तेषाञ्च स्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि शसादीनां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थवर्णत्वम् अन्तःस्थाभिश्च संयुतमित्युक्तेरन्तःस्थाशब्दः आदन्तः। शषसहानां अचाञ्च विवृतता। शसहानाञ्च उष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता। अचाञ्च स्वयं राजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता। “अचः स्वयं विराजन्ते” इत्युक्तेः “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः। ह्रस्वो दीर्घः प्लुतश्चेति कालतो नियमा अचित्युक्तेश्च। तत्र ह्रस्वस्य संवृतता। “संवृतं त्वेकमात्रं स्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव। तत्र मूलं “अचोस्पृष्टा यणस्त्वोषन् नेमस्पृष्टाः शलस्तथा। शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव बोध्यम्। अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यवरणस्त्वीषत् स्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची। शलः शषसहा नेमस्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः। “स्वराणामुशणाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात्। एते च स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः बाह्यप्रयत्नास्तु आन्तरतम्यपरीक्षायासेवोपयोगिन इति “तुल्यास्यप्रयत्नं सवणमिति” पा० सूत्रभाष्यादौ स्पष्टम्। तेन तकारस्थाने विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेशः “स्थानेऽन्तरतमः” इति पा० सूत्रभाष्ययोः स्पष्टम्। बहुसमानघर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम्।” “बाह्याःप्रयत्नाश्चाष्टविधाः काकलकाधःस्थलगलबिलसङ्कोचविकाशश्वासोत्पत्तिध्वनिविशेषघोषाल्पघोषप्राणाल्पत्वमहत्त्व रूपकार्य्यकरा यथाक्रमं विवारसवारश्वासनादघोषाल्पघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः। प्रयत्नप्रेरितो वायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलविलविकाशादीनपि सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहिर्देशकार्य्यकरत्वात् चैते बाह्या इति। ते च “स्वयां यमाः खयः + क~पौ विसर्गः शर एव च। एते श्वासानुप्रदाना अघोषाश्च विवृण्वते। कण्ठमन्ये तु घोषाः स्युः संवारा नादभागिनः। अयुग्मा वर्गयमगायणश्चा- ल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्तदिशावसेयाः। खयां स्थाने जाता ये यमाः पूर्वोक्ताः प्रातिशाख्ये प्रसिद्धाः। खयः, शरः शषसहाः। एते श्वासानुप्रदाना अघोषाः कण्ठं विवृण्वते च। अन्ये एतद्भिञ्चाः सर्वे वर्णा घोषसंवारनादबाह्यप्रयत्नवन्तः। वर्गीयप्रथमतृतीयपञ्चमवर्णाः प्रथमतृतीयवर्गजातयमाश्च पूर्वोक्ताः यणश्च एते अल्पपाणास्तद्भिन्नाः सर्वे महाप्राणा इति विवेकः।” “तथा उदात्तानुदात्तस्वरितरूपास्त्रिविधाः स्वरा ह्रस्वदीर्घप्लुतकालभेदाश्च स्वराणां विशेषाधाने हेतवो वेदितव्याः। तथा हि “विभागः पञ्चधा मतः” इत्युपक्रम्य “स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः” इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेयबाह्यप्रयत्नान् वर्णविमाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षाकृता उदात्तश्चानुदात्तश्चेत्यादिना अच्येव स्वरकालयोर्विभाजकताऽभिहिता। तत्र ताल्वादिषु स्थानेषूर्द्धभागे निष्पन्नोजुदात्तः नीचैरुच्चार्य्यमाणोऽनुदात्तः प्रथममर्द्धमुदात्ततयोच्चार्य्य उत्तरार्द्धमनुदात्ततयोचार्य्यमाणः स्वरितः इति “उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः तस्य आदित उदात्तमर्द्धह्रस्वमिति” पाणिनिसूत्रजातेभ्यः। तदेवं परस्परविभाजकस्थानबाह्याभ्यन्तरप्रयत्नस्वरकालकृतविशेषात् वर्णानां परस्परविशेषरूपता। सर्वे हि वर्णाः पुरस्कृत्यैव किञ्चिद्विशेषं विशेषताभाजो भवन्तीति।” विवाहोपयोगिनि नक्षत्रविशेषकृते १६ वर्णकूटे उपयम शब्दे वर्णकूटोक्तौ १२४९ पृ० दृश्यम्।

वर्ण्णक = न० वर्णयति वर्ण–ण्वुल्। १ हरिताले रत्नमा० २ अनु लेपनयोग्ये अमरः ३ पिष्टे ४ घृष्टे वा चन्दनादौ द्रव्ये च। ५ हिङ्गलादौ पुंस्त्री० भरतः ६ मण्डने शब्दर०। एकस्यैव सूत्रादेः पक्षान्तरव्याख्यानरूपे ५ ग्रन्थभेदे न० “लिप्सासूत्रे तृतीयवर्णके” मिता०। ८ चारणे पु० मेदि०।

वर्ण्णकूपिका = स्त्री वर्णानामक्षराणां लेखनाय क्षुद्रः कूपः कूपी सेव कन्। मस्याधारे त्रिका०।

वर्ण्णचारक = पु० वर्णं शुक्लादिरूपं चारयति चर–णिच्ण्वुल्। चित्रकरे शब्दमा०।

वर्ण्णज्येष्ठ = पु० वर्णेषु ज्येष्ठः प्रथममुत्पन्नत्वात्। १ अग्रजे विप्रे। स्वस्वापेक्षया २ श्रेष्ठवर्णकूटयुते त्रि०। “वर्णज्येष्ठा च या नारी” स्मृतिः।

वर्ण्णतूलि(ली) = स्त्री वर्णानां लेखनसाधनं तूलिः। लेख- न्याम् शब्दर० स्वार्थे क। अत्रैव

वर्ण्णद = न० वर्णं ददाति दा–क। १ कालीयके गन्धद्रव्ये। जटा०। २ वर्णप्रदे त्रि०

वर्ण्णदात्री = स्त्री वर्णं रूपं ददाति दा–तुच् ङीप्। १ हरिद्रायाम् राजनि० २ वर्णदातरि त्रि०।

वर्ण्णदूत = पु० वर्णा एव दूतो यत्र। लिपौ त्रिका०।

वर्णधर्म्म = पुंन० ६त०। विप्रादीनामसाधारणे धर्मे यथा विप्रस्य याजनाध्यापनप्रतिग्रहादिः। क्षत्रियस्य प्रजापालनादिः पु० जातिधर्मशब्दे दृश्यम्।

वर्णमातृ = स्त्री ६ त०। वर्णानां मातेव। लेखन्यां हारा०।

वर्णमातृका = स्त्री सरस्वत्यां शब्दच०।

वर्णमाला = स्त्री ६ त० १ जातिमालायां २ अक्षरश्रेणौ ३ अन्तर्यागकर्मणि पञ्चाशद्वर्णात्मकमाल्यभेदे। अक्षमाला शब्दे ४३ पृ० दृश्यम्।

वर्णरेखा = स्त्री वर्णान् लिखत्यनया लिख करणे घञ् रस्य वः। कठित्यां (खडि) त्रिका०।

वर्णवती = स्त्री वर्ण + मतुप मस्य व। १ हरिद्रायां जटा०। २ वर्णविशिष्टे त्रि० स्त्रियां ङीप्।

वर्णविलोडक = पु० १ श्लोकचौरे २ सन्धिचौरे मेदि०

वर्णसङ्कर = पु० सम् + कृ–अप् वर्णतः सङ्करः। विप्रादिभ्यो वर्णेभ्योऽनुलोमजाते प्रतिलोमजाते मूर्द्धावसिक्तादौ मागधादौ च जातिभेदे “जायते वर्णसङ्करः” गीता। जातिशब्दे ३०९३ तद्भेदादिकं दृश्यम्।

वर्णसि = पु० वर्ण–असिच्। जले उणादि०।

वर्णा = स्त्री प्रशस्तवर्णोऽस्यस्त्याः फलपुष्पादौ अच्। आढक्याम् शब्दच०।

वर्णाङ्का = स्त्री वर्णा अक्षराणि अङ्क्यन्तेऽनया अङ्कि–अच्। लेखन्याम् शब्दच०।

वर्णात्मन् = पु० वर्ण आत्मा स्वरूपं यस्य। ध्वन्यात्मकाद्विलक्षणे अकाराद्यक्षरे शब्दभेदे जटा०।

वर्णार्ह = पु० वर्णं स्तुतिमर्हति अर्ह–अण्। मुद्गे राजनि०।

वर्णिका = स्त्री वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्याः ठन्। १ लेखन्याम् २ कठिन्यां हारा० ३ मस्यां त्रिका०।

वर्णित = त्रि० वर्ण–क्त। १ स्तुते अमरः २ कृतवर्णने ३ रूपान्तरमापादिते च।

वर्णिन् = पु० वर्णोऽस्त्यस्य इनि। १ चित्रकरे २ लेखके ३ ब्रह्मचारिणि मेदि०। “अथाह वर्णी विदितो महेश्वरः” कुमारः। ४ विप्रादिजातौ च “वर्णिनां हि बधो यत्र” स्मृतिः।

वर्णिनी = स्त्री वर्णः अस्त्यस्याः प्राशस्त्ये इनि ङीप्। हरिद्रायाम अमरः।

वर्णु = पु० वर्ण–उन्। १ नदभेदे उणादि० २ आदित्ये संक्षिप्त०।

वर्त्तक = पु० वृत–ण्वुल्। (भारुइ) १ पक्षिभेदे वर्त्तकाप्यत्र। २ अश्वस्य क्षुरे च अमरः। ३ वर्त्तलोहे न० हेमच०।

वर्त्तन = न० वृत–ल्युट्। १ वृत्तौ २ स्थितौ अमरः। णिच्भावे ल्युट्। २ स्थापने णिच् करणे ल्युट्। ३ जीवनोपाये स्त्री ङीप्। ४ तक्रुवीठे न० मेदि०। ल्यु। ६ वृत्तिमति वर्त्तिष्णौ च त्रि० अमरः। ७ बामने त्रि० मेदि०। ८ साधारणवर्तुले न० शब्दर०।

वर्त्तनी = स्त्री वर्त्त्येते पादावत्र वृत–णिच् आधारे ल्युट्। १ पथि २ पेषणे शब्दर०। पृषो० ह्रस्वः पूर्वदेशे त्रिका०।

वर्त्तमान = पु० वृत–शानच्। कालभेदे शब्दप्रयोगाधारे आरब्धापरिसमाप्ते १ काले २ तत्कालवृत्तौ त्रि०।

वर्त्तमानकालश्च चतुर्विधः। यथा “प्रवृत्तोतरत १श्चैव वृत्ताविरत २ एव च। नित्यः प्रवृत्तः ३ सामीप्यो ४ वर्त्तमानश्चतुर्विधः। क्रमेणोदाहरणाति। मांसं न खादति आदौ प्रवृत्तं मांसभोजनं निवर्त्तयतीत्यर्थः। इह कुमाराः क्रीडन्ति २ तदानीन्तमक्रीडनाभावेऽपि पूर्वक्रीडानां बुद्धौ वर्त्तमानत्वात्। पूर्वतास्तिष्ठन्ति ३ नित्य प्रदृत्तत्वात्। किञ्च पर्वतानां स्थितत्वेन वर्त्तमानत्वेऽपि भूतभवविष्यत्कालाभ्यां सम्बन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि स्वात्। सामीप्यो ४ द्विविधः। भूत सामीप्यो भविष्यत्सामीप्यश्च यथा कदा आगतोऽसि इतिप्रश्ने अध्वस्वेदादेर्वर्त्तमानत्वात् एषोऽहमागच्छामि इति आगतोऽपि वदति। भविस्यत्सामीप्यो यथा। कदा गमिष्यास इति प्रश्ने एषोऽहं गच्छामि इति गमने क्रियमाणोद्यमोऽपि वदति” दुर्गादासः।

वर्त्तरूक = पु० १ नदीभेदे २ काकलीभेदे ३ जलावर्त्ते मेदि०। ४ द्वारपाले त्रिका०।

वर्त्तलोह = न० वर्त्त्यते वृत–णिच्–कर्मणि अच् कर्म०। आवर्त्तनयोग्यो लौहभेदे।

वर्त्ति(र्त्ती) = स्त्री वृत–इन् वा ङीप्। १ लेखे २ नयनाञ्जने ३ गात्रानुलेपने ४ दीपदशायां ५ भिषजां निर्मेयौषधभेदे (वाति) “कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा। केणो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला। एषां वर्त्तिर्हन्ति कार्च तिमिरं पटलं तथा” गरुडपु० १९८ अ०। ६ दीपे च मेदि०।

वर्त्तिक = पुंस्त्री वृत–तिकन्। (वटेर) १ विहगभेदे राजनि० स्त्रियां ङीष्। वर्त्मनि वर्त्तते वृत–अच वर्त्तः तत्र साधुः हितो वा ठन्। (भारुइ) २ स्वगे अमरः। ३ अजशृङ्ग्यां स्त्री० राजनि० ४ दीपदशायां स्त्री सा च पञ्चविधा यथा “पद्मसूत्रभवा दर्भगर्भसूत्रभवाऽथ वा। शाणजा वादरी वापि फलकोषोद्भवाथ वा। वर्त्तिकादीपकृत्येषु सदा पञ्चविधा स्मृता” कालिकापु० ६८ अ०।

वर्त्तिन् = त्रि० वृत–णिनि। वर्त्तनशीले।

वर्त्तिष्णु = त्रि० वृत–इष्णुच्। वर्त्तमशीले।

वर्त्तिष्यमाण = पु० वृत–शानच् ऌटः सद्वेति स्यट्। भविष्यत्काले। २ तद्वृत्तौ त्रि०।

वर्त्तुल = त्रि० वृत–उलच्। १ गोलाकारे पदार्थे अमरः। २ मृञ्जने न० राजनि०। ३ कलायभेदे पु० शब्दमा०। ४ तर्कुपीठ्याम् स्त्री हारा० ५ गजपिष्पल्याम् स्त्री राजनि० ङीप्।

वर्त्मन् = न० वृत–मनिन्। १ पथि अमरः २ आचारे “आ मनोर्वर्त्मनः” रघुः। ३ नेत्रच्छदे च मेदि०। अक्षिशब्दे ४५ पृ० दृश्यम्। वर्त्मलक्षणं तद्गतरोगभेदाश्च सुश्रुते उक्ता यथा

“द्व्यङ्गुलं सर्वतः सार्द्धं भिषग्नयनबुद्वुदम्। सुवृत्त गोस्तनाकारं सर्वभूतगुणोद्भवम्। पलं भुवोऽग्नितो रक्तं वातात्कृष्णं सितं जलात्। आकाशादश्रुमार्गाश्च जायन्ते नेत्रबुद्वुदे। दृष्टिञ्चात्र तथा वक्ष्ये यथाब्रूयाद्विशारदः। नेत्रायामत्रिभागन्तु कृष्णमण्डलमुच्यते। कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविशारदाः। मण्डलानि च सन्धींश्च पटलानि च लोचने। यथाक्रमंविजानीयात् पञ्चषट् च षडेव च। पक्ष्मवर्त्मश्वेतकृष्ण० दृष्टीनां मण्डलानि तु। अनुपूर्वन्तु ते मध्याश्चत्वारोऽन्त्या यथोत्तरम्। पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः। शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतोऽपरः। ततः कनीनकगतः षष्ठश्चापाङ्गगः स्मृतः। द्वे वर्त्मपटले विद्याच्चत्वार्य्यन्यानि चाक्षिणि। जायन्ते तिमिरं येषु व्याधिः परमदारूणः।” “पृथग्दोषाः समस्ताश्च यदा वर्त्मव्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्यमांसं रक्तञ्च तदः वर्त्मव्यपाश्रयान्। विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत। उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा। तथार्शोवर्त्मशुष्कार्शस्तथैवाञ्जननामिका। बहलं वर्व्य यच्चापि व्याधिर्वर्त्मावबन्धकः। क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च। प्रक्लिक्षमपरिक्लिन्नं वर्त्मवातहतन्तु यत्। अर्वुदं निमिपश्चापि शोणितार्शश्च यत्स्मृतम्। लगणो विषनामा च० वक्ष्मकोपस्तथैव च। एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः। नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे। पिडकाभ्यन्तरमुखी वाह्याधोवर्त्मसंश्रया। विज्ञेयोत्सङ्गिनी १ नाम तद्रुपपिडकान्विता। कुम्भीकवीमप्रतिमाः पिडकाः पक्ष्मवर्त्मनोः। आध्मायन्ते तु भिन्ना या कुम्भीकपिडका २ स्तु ताः। कण्डूस्रावान्वितां गुर्व्यो रक्तसर्षपसन्निभाः। पिडकाश्च रुजावत्यः पोथक्य ३ इति संज्ञिताः। पिडकामिः सुसूक्ष्माभिर्घनाभिरभिसंवृता। पिडका या खरा स्थूला सा ज्ञेया वर्त्मशकेरा ४। सूक्ष्माः खराश्च वर्त्मस्थास्तदर्धोवर्त्म ५ कीर्त्त्यते। दीर्घोऽङ्कुरः खरः स्तब्धा दारुणो वर्त्मसम्भवः। व्याविरेष समाख्यातः शुष्कार्श ६ इति संज्ञितः। दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा। मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ७। वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः। सवर्णाभिः समाभिश्च विद्याद्वहलवर्त्म ८ तत्। कण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः। स समं छादयेदक्षि भवेद्बन्धः ९ स वर्त्मनः। मृद्वल्पवेदनं ताम्रं तद्वर्त्म सममेव च। अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म १० तदा दिशेत्। क्लिष्टं पुनः पित्तयुक्तं विदहेच्छोणितं यदा। तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमम् ११। यद्वर्त्म बाह्य तोऽन्तश्च श्यावं शूनं सवेदनम्। दाहकण्डूपरिक्लेदि श्याववर्त्मेति १२ तन्मतम्। अरुजं बाह्यतः शूनमन्तःक्लिन्नं स्रवत्यपि। कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म १३ तदुच्यते। यस्य धौतानि धौतानि सम्बन्ध्यन्ते पुनः पुनः। वत्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म १४ तत्। विमुक्तसन्धि निश्चेष्टं वर्त्म यन्न निमील्यते। एतद्वातहतं १५ विद्यात् सरुजं यदि वाऽरुजम्। वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्। विज्ञेयमर्बुदं १६ पुंसां सरक्तमवलम्बितम्। निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः। चालये दतिवर्त्मानि निमेषः १७ स गदो मतः। छिन्नाश्छिन्ना विवर्द्धन्ते वर्त्मस्था मृदवोऽङ्कुराः। दाहकण्डूरुजोपेतास्तेऽर्शःशोणितसम्भवाः १८। अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः। सकण्डूः पिच्छिलः कोलप्रमाणो लगण १९ स्तु सः। शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छद्रै समन्वितम्। विषमन्तर्जल इव विषवर्त्मेति २० तन्मतम्। पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खराणि च। निर्व र्त्तयान्त पक्ष्माणि तैर्जुष्टञ्चाक्षि दूयते। उत्पाटितैः पुनः शान्तिः पक्ष्मभिश्चोपजायते। वातातपानलद्वेषीं पक्ष्मकोपः २१ स उच्यते।” तच्चिकित्सा तत्र दृश्या।

वर्त्मनि = स्त्री वृत–अनि मुट् च। पथि उणा०।

वर्द्ध = छेदने पूरणे च चु० उभ० सक० सेट्। वर्द्धयति ते अववर्द्धत् त।

वर्द्ध = पु० वृध–अच्। १ ब्राह्म्याम् (वामनहाटि) जटा० वर्द्धभावे अच्। २ पूरणे ३ छेदे च।

वर्द्धक = पु० वृध–ण्वुल्। १ ब्राह्मणयष्टौ (वामनहाटी) अमरः वृध–वा वर्द्ध–ण्वुल्। २ पूरके ३ छेदके ४ वृद्धिकारके च त्रि०।

वर्द्धकि = पु० वर्द्ध–छेदने अच् कष–डि कर्म०। त्वष्टरि (छुतार) अमरः।

वर्द्धकिन् = पु० वर्द्धकः वर्द्धोऽस्त्यस्य इनि। त्वष्टरि (छुतार) जातिभेदे शब्दर०।

वर्द्धन = न० वृध–वर्द्ध–भावे ल्युट्। १ छेदने २ पूरणे च मेदि०। वृध णिच्–ल्यु। २ वृद्धिकारके त्रि०। “करोमि क्षितिवर्द्धनम्” भट्टिः। वृध–ल्यु। ४ वृद्धियुक्ते त्रि०।

वर्द्धनी = स्त्री वर्द्ध्यतेऽनया वृध–णिच्–ल्युट् ङीप्। १ संमार्जन्याम् २ खट्यां मेदि०। ३ सनालपात्रभेदे च (वद्ना) जटा०।

वर्द्धमान = पु० वृध–शानच्। १ एरण्डवृक्षे अमरः। २ वृद्धिशीले त्रि०। २ शराये मृत्पात्रभेदे ४ विष्णौ ५ पशुभेदे च मेदि०। ६ जिनभेदे हेमच०। ७ वानना गृहभेदे हला०। ८ देशभेदे वृ० स० १४ अ० कूर्मविभागशब्दे दृश्यम्। ९ नगरभेदे च। १० वृद्धियुक्ते त्रि०।

वर्द्धापन = न० वर्द्धं छेदं करोति वर्द्ध + णिच्–आप् च ततो मावे ल्युट्। नाडीच्छेदमलर्माङ्गे संस्कारभेदे ति० त० रघु०।

वर्द्धित = न० वर्द्ध–क्त। १ छेदिते २ पूरिते ३ प्रस्तुते च।

वर्द्धिष्णु = त्रि० वृध–इष्णुच्। वृद्धिशीले।

वर्ध्र = न० वृध–ष्ट्रन्। १ चर्मणि उणादिको०। २ चर्मरज्जौ स्त्री भरतः ङीष्।

वर्पस् = न० वृ–असुन् पुक्। रूपे निघण्टुः।

वर्फ = गतौ बधे च भ्वा० पर० सक० सेट्। वर्फति अवर्फीत्।

वर्म्मकण्टक = पु० वर्म्म इव कण्टकोऽस्य। पर्पटे राजनि०।

वर्म्मकषा = स्त्री वर्म–कषति अच्। (चामकषा) सप्तलायाम् शब्दर०।

वर्म्मन् = न० वृ–मनिन्। १ कवचे सन्नाहे अमरः। २ क्षत्रियोपाधौ पु०। “वर्म्मान्तं। क्षत्रियस्य तु” शातातपः।

वर्म्महर = पु० वर्म्म हरति हृ–अच्। सन्नाहधारणयोम्य अवस्थाभेदे तरुणे। “वर्म्महरः कुमारः” रघुः।

वर्म्मि = पु० वृ–बा० मिन्। (वानि) मत्स्यभेदे राजनि०।

वर्म्मित = त्रि० वर्म करोति णिच्–क्त। १ कृतसन्नाहे २ उद्युक्ते च

वर्य्य = त्रि० वृ–यत्। १ प्रधाने श्रेष्ठे च अमरः। २ कामदेक्षे ३ पतिम्बरायां कन्यायां अमरः। ४ कन्यामात्रे च स्त्री।

वर्वणा = स्त्री वरिति वणति शब्दायते वण–अच्। (भणभणे) मक्षिकाभेदे अमरः। अयमौष्ठ्यादिरित्यर्थे।

वर्वर = न० वृ–अरच् वुट्च्। १ हिङ्गुले २ पीतचन्दने ३ गन्धरसे च राजनि०। ४ पामरे ५ मूर्खे च त्रि०। “णत्वमिच्छन्ति वर्वरा” इत्युद्भटः। ६ केशभेदे (वाउरी) ७ देशभेदे कृष्णार्जके (कालवावुइ) वृक्षे च पु० राजनि०। ९ मक्षिकाभेदे पुंस्त्री० शब्दर० (वावुइ) १० वृक्षेस्त्री टाप ङीप् वा “वर्वरी करवी तुङ्गी खरदुग्धाजगन्धिका। पर्णासस्तत्र कृष्णे तु कठिञ्जरकुढेरकौ। कालसारः करालश्च मलूकः कृष्णमल्लिका। तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटीपञ्चस्ततीऽपरः। वर्वरीत्रितयं रूक्षं शीतं कटु विदाहि च। तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च। पित्तलं कफवाताम्रदद्रुकृमिविषापहम्” भावप्र०। संज्ञायां कन्। वर्वरिका चन्दनभेदे पुष्पभेदे स्त्री मेदि०।

वर्वरीक = पु० वृ–ईकन् फुर्फुरीका० नि०। १ ब्राह्मणयष्टिवृक्षे २ कुटिलकेशे उणा०। ३ अजगन्धिकायां (वावुइतुलसी) शब्दच० ४ महाकाले हेमच०।

वर्वा = स्त्री वृ–व तस्य नेत्त्वम्। (वावुइ) वृक्षभेदे शब्दच०।

वर्वुर = पु० वृ–उरच् वुट्च्। (वावला) वृक्षभेदे राजनि०। ओष्ठ्यादिरित्यन्ये।

वर्ष = पु० वृष–भावे घञ् कर्त्तरि अच् वा। १ वृष्टौ २ जम्बुद्वीपांशभेदे पुंन० अमरः। “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्घ्या। एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान्। भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो हरिवर्षम्। सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण् मयरम्यकवर्षे। माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल नन्धमादनः। नीलशैलनिषधावधो च तावन्तरालमन योरिलावृतम्। माल्यवज्जलधिमध्यवर्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः। गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमावभौ। अमरकेलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम्” सि० शि०। “अत्र भूगोलस्थार्धमुत्तरं जम्बूद्दीपम्। तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः। तत्र लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं मूपरिधिचतुर्थाशान्तरे किल कथितम्। तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा। अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति। तस्यात्तरे हेभकूटः। सोऽपि समुद्रपर्यन्तदैर्घ्यः। तथा तदुत्तरे निषधः। तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः। तत्रादौ भारतवर्षम्। तदुत्तरं किन्नरवर्षम्। ततो हरिवर्षमिति। एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः। ततः श्वेतगिरिः। ततो नीलगिरिरिति। तेऽपि सिन्धुपर्यन्तदैर्घ्याः। तेषामन्तरे च वर्षाणि। तत्रादौ कुरुवर्षम्। तदुत्तरे हिरण्मयम्। ततो रम्यकमिति। अथ यमकोटेरुत्तरतौ माल्यबान् नाम गिरिः। स तु निषधनीलपर्यन्तदैर्घ्यः। तस्य जलधेश्च मध्ये भद्राश्वं वर्षम। एवं रोमकादुत्तरतो गन्धमादनः। तस्य जलधेश्च मध्ये केतुमालवर्षम्। एवं निषधनीलमाल्यवद्गन्धमादनैरावृतमिलावृतं नाम नवमं वर्षम्। सा स्वर्गभूमिः। अतस्तत्र देवक्रोडागृहाणि”। ३ द्वादशमासात्मके काले ४ जम्बुद्वीपे च पु० मेदि०। कर्त्तरि अच्। ५ मेष्ठे पु० हेमच० ६ प्रभवादिषु षष्टिवतसरेषु पु०।

वर्षकरी = स्त्री वर्षं तत्सूचनं करोति रवेण कृ–ट। झिल्लिकायां हेमच०।

वर्षकेतु = पु० वर्षस्य वृष्टेः केतुरिव। १ रक्तपुनर्नवायाम् राजनि० २ वर्षाचले।

वर्षकोष = पु० वर्षस्य कोष इव। १ दैवज्ञे शब्दर०। २ मापे हेमच०।

वर्षणि = स्त्री वृष–अनि। १ कृतौ २ वर्त्तने उणा०। ३ क्रतौ ४ वर्षणे संक्षिप्तसा०।

वर्षपर्वत = पु० वर्षाणां चिह्नभूतः सीमाभूतो वा पर्वतः। “हिमवान् हेमकूटश्च निषधो मेरुरेव च। चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः” इत्युक्तेषु पर्वतेषु हारा०। द्वीपभेदेऽन्येऽपि वर्षपर्वता कुलपर्वतशब्दे २१३२ पृ० दर्शिताः। सि० शि० उक्ता जम्बूद्वीपपर्वता वर्षशब्दे द्रर्शिताः। तत्र नाममात्रे भेदः कल्पभेदात्।

वर्षपाकिन् = पु० वर्षेण पाकोऽस्त्यस्य इनि। आम्रातकवृत्त हेमच० तस्य हि मुकुलोद्गमात् प्रायेण वत्सरानन्तरफलपाकः।

वर्षपुष्पा = स्त्री वर्षकाले पुष्पमस्याः। सहदेवीलतायाम् राजनि०।

वर्षप्रिय = पुंस्त्री० वर्षः प्रियोऽस्य। चातकपक्षिणि त्रिका० स्त्रियां योपधत्वात् टाप्।

वर्षबर = पु० वर्षं रेतोवर्षण बृणोति आबृणोति बृ–अच्। “ये त्वल्पसत्त्वाः प्रथममात्मीयाः स्त्रीखभाविनः। जात्या न दुष्टाः कार्य्येषु ते वे वर्षयराः स्मृता” इत्युक्तलक्षणे राज्ञामन्तःपुररक्षके षण्डे (खोजा) अमरः। “नष्टं वर्षबरैरिति” रत्नावली।

वर्षवृद्धि = पु० वर्षस्य वृद्धिरधिकता यस्मिन्। १ जन्मतिथौ २ तद्दिनकर्त्तव्ये पूजादौ च। “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथि युग्मता” ति० त०। “तत्कृत्यं च मलमासे न कर्त्तव्यं चान्दमासीयत्वेन सावकाशत्वात् न च सौरमासीयं तथात्वे तत्तिथेः कदाचिदप्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः नं चेष्टापत्तिः “प्रतिसंवत्सरं चैव कर्त्तव्यश्च महोत्सवः” ब्रह्मपु० प्रतिसंवत्सरं तद्विधानात् ति० त० रघु०। अधिकं जन्मतिथिशब्दे दृश्याम्।

वर्षा = स्त्री ब० व०। वर्षन्ति मेघा अत्र। श्रावणभाद्रात्मके मासद्वये ऋतौ “नभश्च नभस्यश्च बार्षिकावृतू” यजु० श्रुतिः “वर्षासु च मघासु च” मनुः।

वर्षाङ्गी = स्त्री वर्षासु अङ्गमस्याः। पुनर्नवायाम् शब्दर०।

वर्षापगम = पु० वर्षाणामपगमो यत्र। १ शरत्काले ६ त०। २ वर्षासमाप्तौ।

वर्षाभव = पु० वर्षाषु भवति भू–अच्। रक्तपुनर्नवायाम् राजनि०

वर्षाभू = पु० वर्षाषु भवति भू–क्विप्। १ भेके अमरः २ इन्द्र गोपे राजनि० ३ महीलतायाम् मेदि० ४ पुनर्नवायां ५ भेक्याञ्च स्त्री मेदि० अमरे भेक्याम् गौरा० ङीष् वर्षाभ्वीत्येव ६ वर्षाभवमात्रे त्रि०।

वर्षामद = पुंस्त्री० वर्षाषु माद्यति मद–अच्। मयूरे स्त्रियां ङीष्।

वर्षिष्ठ = त्रि० अतिशयेन वृद्धः इष्ठन् वर्षादेशः। अतिशयवृद्धे

वर्षीयस् = त्रि० अतिशयेन वृद्धः वृद्ध + इयसुन् वर्षादेशः। अतिवृद्धे अमरः स्त्रियां ङीप्।

वर्षुक = त्रि० वृष–उकञ्। वर्षणशीले।

वर्षोपल = पु० वर्षस्य वृष्टेरुपलः प्रस्तर इव। करकेषु (शिल) अमरः।

वर्स्मन् = न० वृष–मनिन्। १ देहे २ पाषाणे च अमरः। ३ अतिसुन्दरे त्रि०।

वर्ह = बधे सक० दीप्तौ अक० चु० उभ० सेट्। वर्हयति–ते अववर्हत् त।

वर्ह = उत्कर्षे भ्वा० आ० सक० सेट्। वर्हते अवर्हिष्ट।

वर्ह = न० वर्ह–अच्। मयूरपिच्छे अमरः अस्य पुंस्त्वमपि “कं हरेदेष वर्हः” विक्रमो० प्रयोगात्। २ ग्रन्थिपर्णे वृक्षे भरतः। ३ पत्रे शब्दर०।

वर्हि(र्हिः)कुसुम = न० वर्हिःवह्निरिव कूसुममस्य पृषो० या सलोपः। ग्रन्थिपर्णे शब्दमा०।

वर्हिःपुष्प = न० वर्हिः वह्निरिव पुष्पमस्य। ग्रन्थिपर्ण भरतः

वर्हिःशुष्मन् = पु० वर्हि कुशः शुष्म बलमस्य। १ वह्नौ अमरः कुशेन हि वह्निरुद्दीप्यते।

वर्हि(र्हिः)ष्ठ = न० वर्हिरिव तिष्ठति स्था–क वा विसर्गलोपः षत्वम्। ह्रीवेरे अमरः।

वर्हिण = पुंस्त्री० वर्हमस्यस्य इन। १ मयूरे अमरः स्त्रियां ङीष् इनि। वर्हीत्यप्यत्र।

वर्हिर्ज्योतिस् = पु० वर्हिषा कुशेन ज्योतिरस्य। वह्नौ हेम०

वर्हिर्मुख = पु० वर्हिर्वह्निर्मुखं यस्य। देवे अमरः। तद्द्वारैव हि देवा हविरश्नन्ति।

वर्हिषद् = पु० ब० व० वर्हिषि विप्रपाणिस्थेऽग्नौ सीदन्ति वर्हिस् रद–क्विप् पृषो०। पितृगणभेदे “अग्निष्वात्ता वर्हिषद ऊष्मपा आज्यपास्तथा” मनुः।

वर्हिष्केश = पु० बर्ह–दीप्तौ इसुन् वर्हिः दीप्तिमान् केशो यस्य वहनु।

वर्हिस् = स्त्री वृहि–इसुन् नि० नलोपश्च। १ वह्नौ मेदि० “वर्हिषि रजतं न देयम्” श्रुतिः। २ ग्रन्थिपर्णे ३ चित्रके च (चिते) अमरः। ३ कुशे पु० न० “वर्हिर्देवसदनम्” श्रुतिः वर्ह–दीप्तौ इसुन्। ४ दीप्तियुक्ते त्रि०।

वल = संवरणे भ्वा० आत्म० सक० सेट्। वलते अवलिष्ट। ववलतुः वा घटा०।

वल = न० वल्यतेऽनेन वल–क। सैन्ये रायमु० बलशब्दार्थे च।

वलक्ष = पु० वल–क्विप् अक्ष–अच् कर्म०। १ धवले वर्णे २ तद्वति त्रि० अमरः।

वलन = न० वल–भावे ल्युट्। १ सम्बरणे सि० शि० उक्ते दृक्वर्मादिसंस्काराङ्गे २ कदम्बयाम्योत्तरयोरन्तर तत्स्वरूपादिकं तत्रोक्तं प्रदर्श्यते “तुलाजाद्योर्हि यंपाते विषुवत्क्रान्तिवृत्तयोः। स्यातां याम्योत्तरे भिन्ने परक्रान्त्यन्तरे च ते। आयनं तलनं तत्र जिनांशज्यासमं ततः। एकैवायनसंधौ तु तयोः स्याद्दक्षिणोत्तरा। एकैव तद्वशात् प्राची तत्र नो वलनं ततः। तदन्तरेऽनुपातेन स्वेटकोटिक्रमज्यका। जिनज्याघ्नी द्युजीवाप्तायनदिग्वलनं भवेत्। एवमेव हि संपाते विषुवत्समवृत्तयोः। उन्मण्डलं भवेत् तत्र विषुवद्दक्षिणोत्तरा। क्षितिजं समवृत्तस्य पलज्या च तदन्तरम्। क्षितिजेऽक्षज्यया तुल्यमक्षजं वलनं ततः। तयोरेकैव याम्योदङ्न मध्ये वलनं ततः। नतक्रमज्यया माध्यमन्तरे त्वनुपाततः। नतं खाङ्काहतं भक्तं द्युदलेनाप्तभागकैः। क्रमज्याक्षज्यया क्षुण्णा द्युज्याभक्ताक्षजं मवेत्। प्राक् सौम्यं पश्चिमे याम्य” तच्चापैक्यान्तरात् स्फुटम्। एवमेव च संपातो यः क्रान्विममवृत्तयोः। परमं तत्र तत्कालवलनैक्यान्तरं स्फुटम्। अग्रतः पृष्ठतस्तस्मात् क्रान्तिवृत्ते त्रिभेऽन्तरे। तयोर्याम्योत्तरैकत्वात् तत्र नो बलनं स्फुटम्। न स्पष्टबलनाभावस्तत्र स्यादुत्क्रमज्यया। क्रमज्यया ततः कार्यं दाट्यार्थं कथ्यते पुनः। सर्वतः क्रान्तिसृत्राणां ध्रुवे योगो भवेद्यतः। विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा। सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे। यागः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत्। तत्रापमण्डलप्राच्या याम्या सौम्या च दिक् सदा। कदम्बभ्रमवृत्तं च बध्नीयात् परितो ध्रुवात्। गोले तु जिनतुल्यांशैस्तत्र ज्या क्रान्तिशिञ्जिनी। सर्वतः समवृत्ताच्च याम्योदक्कुजसंगमे। तत्तिर्य्यग्गतसूत्राणां योगः स समसंज्ञकः। समध्रुवकदम्बानामुपरि द्यचरान्नयेत्। सूत्राणि वृत्तरूपाणि वलनानि तदन्तरे। अक्षजं वलनं मध्ये स्यात् समध्रुवसूत्रयोः। कदम्बध्रुवसूत्रान्तरायनं च त्रिभे ग्रहात्। कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत्। अथ वा परितः खेटात् खाङ्कभागान्तरे न्यसेत्। त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयोः। मध्येऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयोः। अन्तरं चायनं क्रान्तिसमवृत्तान्तरे स्थुटम्। तत्रापमण्डलं प्राची तस्या याम्योत्तरः शरः। वलनानयने क्षेपः क्षिप्तो यैस्ते कुबुद्धयः। नक्रादिश्च कदम्बश्च स्यातां याम्योत्तरे समम्। आयनं बलनं तस्मान्नायनादौ प्रजायते। ततो भ्रमति गोले स मकरादिर्यथा यथा। तथा तथा भ्रमत्येम कदम्बो निजमण्डले। कुम्भादावथ मीनादौ याम्यीदग्वलयस्थिते। जायते वलनं तद्यत् सौम्यसूत्रकदम्बयोः। अन्तरं शिञ्जिनीरूपं कदम्बभ्रममण्डले। अयनाद्गतकालांशक्रमक्रान्तिज्यका हि सा। उत्क्रमज्या यतो वाणः शिञ्जिनी तु क्रमज्यका। सत्रिभार्कात् क्रमक्रान्तिज्यातो बलनमायनम्। यैरुक्तमुत्क्रमक्रान्त्या भ्रान्त्या तैर्नाशितं हि तत्। युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्यया। परोक्तेरन्यथा ब्रूयाद्यः परान् न प्रदूषयेत्। तस्यैव दूषणं तद्धि न दोषोऽतोऽन्यढूषणे। उत्क्रमज्यानिरासोऽयमन्यथा वाथ कथ्यते। जिनांशैर्जिनवृत्ताख्यं कदम्बात् परितो न्यसेत्। क्रान्तियाम्योत्तरं वृत्तं कदम्बद्वयकीलयोः। प्रोतं कृत्वा चलं न्यस्तं द्वन्द्वःन्ते स्याद् ध्रुवोपरि। द्वन्द्वान्ताच्चाल्यतेऽंशैर्यैस्तैरेव चलति ध्रुवात्। जिनवृत्ते तदंशानां तत्र ज्या क्रान्तिशिञ्जिनी। आयनं सैव वलनं द्युन्याग्रे जायते ग्रहात्। ग्रहध्रुवान्तरे यस्माद्द्युज्या चापांशकाः सदा। त्रिज्यावृत्ते यतो देयं तत्रातः परिणाम्यते। एवमक्षांशकैर्वृत्तं समाख्यात् परितो न्यसेत्। समकीलकयोः प्रातं तथा याम्योत्तरं चलम्। तत्तत्स्वेटोपरि न्यस्तं यैरंशैः खार्धतो नतम्। समवृत्तेऽक्षवृत्ते च तैरेव स्यान्नतं ध्रुवात्। समवृत्तनतांशज्याक्षज्यापरिणताक्षजम्। द्युज्याग्रे वलनं प्राग्वत् त्रिज्याग्रे परिणाम्यते। उपपत्त्यानया सम्यक् समवृत्तनतांशजम्। वलनं स्यात् तथा वक्ष्ये स्वाहोरात्रनतादपि। अग्रानृतलयोर्योगः ससदिक्त्वेऽन्यथान्तरम्। तत्त्रिज्यावर्गविश्लेषपदभक्ताक्षशिञ्जिनी। नतासुदार्ज्यया क्षुण्णा बलनं पलजं स्फुटम्। नतं खाङ्काहतं भक्तं द्युदलेनाप्तभागकैः। क्रमज्याक्षज्यया क्षुण्णा स्थूलं वा द्युज्यया हृता। द्युज्यावृत्तापवृत्तैक्ये न्यसेद्वा रविमण्डलम्। बिम्बाग्रे वलनं तद् यदन्तरं वृत्तयास्तयोः। बिम्बान्तबिम्बमध्योत्थकान्तिमौर्व्योस्तदनन्तरम्। अर्कदोर्भोम्यखण्डघ्नं बिम्बार्द्धं तत्त्वददस्र हृत्। जिनज्याघ्नं त्रिभज्याप्तमेवं स्यादन्तरं हि तत्। विम्बार्धहृत् त्रिभज्याघ्नमेवं त्रिज्या नतं भवेत्। गुणहारकबिम्बार्धत्रिज्यानाशे कृते सति। भोग्यखण्डं जिनांशज्यागुणं तत्त्वाश्विमाजितम्। सत्रिभार्कात् क्रमक्रान्तेस्तत् तुल्यं जायतेऽथ वा। क्रमक्रान्तेरिदं वीक्ष्य भ्रान्तिं त्यजत बालिशाः!। नामितं छत्रवद्बिम्बं तिर्यक् क्रान्तिस्तु सा समा। अत्र द्युज्यानुपातो यस्तत्तिर्यक्करणाय सः” मू०। “अथ वलनेषु दृक्कर्मणि चोत्क्रमज्यानिराकरणाय मूलसूत्रेऽपि बहूक्तं तथापि किञ्चिदिहोच्यते। विषुवद्वृत्तं समवृत्तं प्रकल्प्य दक्षिणोत्तरवृत्तस्थे ग्रहे आयनवलनस्योपपत्तिप्रतीत्यर्धं पृथगदर्शयेत्। अपमण्डलप्राच्यपराया एकः कदम्बा याम्या अन्यः सौम्या दिक्। एवं विषुवद्वृत्तप्राच्यपराया ध्रुवौ। यदा मकरादिर्याम्योत्तरवृत्ते तदैव कदम्बोऽपि। अतो विषुवत्क्रान्तिवृत्तयोरेकैव याम्योदक्। तया दक्षिणोत्तरवृत्तस्य कुम्भादेश्च मध्ये स्वाहोरात्रवृत्ते पञ्चगुणाङ्कचन्द्रा १९३५ असवो वर्त्तन्ते। ते पष्ट्युद्धृताः कालांशाः स्युः ३२। १५। अथ कुम्भादिर्यावद्दक्षणोत्तरवृत्तं नीयते तावत् कदम्बो निजमण्डले चक्रांशाङ्किते तावद्भिरेव कालांशै ३२। १५ र्दक्षिणोत्तरवृत्तसंपातात् प्रत्यगवलम्बते। कदम्बयाम्योत्तरसूत्रयोरन्तरं वलनम्। सा च तेषामंशानां कदम्बवृत्ते ज्या। अतः क्रमज्या। उत्क्रमज्या तु वाणरूपा भवति। कदम्बवृत्ते या ज्या सा क्रान्तिज्या। अतस्तेषामंशानां क्रमक्रान्तिज्या वलनम्। अथ वैकराशेः क्रमक्रान्तिज्या त्रिज्यागुणा द्युज्याहृता तथापि सैव भवति। अथ वान्यप्रकारेणोत्क्रमज्यानिराकरणं द्युज्यानुपातश्च प्रतिपाद्यते। क्रान्तिवृतेऽर्कस्थानेऽर्कविम्बं मुद्रिकाकारं विन्यस्य विम्बपरिधौ यत्र खाहोरात्रवृत्तं लग्नं यत्र च क्रान्तिवृत्तं तयोरन्तरं यद्दक्षिणोत्तरं तत् तत्र विम्बे प्राच्यपरयोर्वलनम्। तच्चार्कक्रान्तेर्विम्बार्धकलायुतस्यार्कस्य क्रान्तेश्चान्तरम्। अतस्तस्यानयनम्। रविदोर्ज्यायां क्रियमाणायां यद्भोग्यखण्डं तेन मानार्धकला गुण्याः शरद्विदस्रै २२५ र्भाज्याः। फलं दोर्ज्ययोरन्तरं स्यात्। तत्र तावत् स्फुटभोग्यखण्डज्ञानायागुपातः। यदि त्रिज्यातुल्यायां कोटौ प्रथमं ज्यार्घं शरद्विदस्या भोग्यखण्डं तदाभिमतायामस्यां किमिति फलं स्फुटं भोग्यखण्डम्। तेन गुणितं विम्बार्धं शरद्विदस्रैर्भाज्यम्। एवं स्थिते शरद्विदस्वमितयोर्गुणहारयोर्नाशे कृते विम्बार्धस्य कोटिज्या गुणस्त्रिज्या हरः। फलं दोर्ज्ययोरन्तरम्। ततः क्रान्त्यर्थमनुपातः। यदि त्रिज्यया जिनज्या लभ्यते तदानेन दोर्ज्यान्तरेण किमिति। फलं क्रान्त्यन्तरम्। तद्बिम्बव्यासार्धवृत्ते वलनम्। अथान्योऽनुपातः। यदि बिम्बव्यासार्धवृत्ते एतावद्वलनं तदा त्रिज्याव्यासार्धवृत्ते किमिति। अत्र त्रिज्यातुल्ययोर्गुणहरयोस्तथा विम्बार्धमितयोश्च तुल्यत्वान्नाशे कृते कोटिज्याया जिनांशज्या गुणस्त्रिज्या हरः। फलं कोटिक्रमक्रान्तिज्या। तत् त्रिज्यावृत्ते बलनम। एवं विषुवद्वृत्तस्थित एव ग्रहे। यतो भूमध्यात् खखस्तिकस्थविम्बमध्यं प्रति यत् सूत्रं नीयते तत् त्रिज्यासूत्रं दण्डवत्। तदुपरिस्थं बिम्बं छत्रवत् समन्तात् सममेव। यत् तत्परितस्त्रिज्यावृत्तं यत्र च बलनज्या देया तदपि भूसममेव स्थितम्। अतस्तत्र यथागतमेव वलनम्। यदा किल मेषान्ते ग्रहस्तदा तत्क्रान्त्या खखस्तिकादुत्तरे नतं बिम्बं स्यात्। त्रिज्यासूत्रं तदा कर्णरूपम्। बिम्बमध्याच्च लम्बसूत्रं ध्रुवयष्ट्यन्तं द्युज्या। सा तत्र कोठिः। क्रान्तिज्या भुजः। यथा किञ्चित् कर्णस्थित्या धृते दण्डे छत्रमपि तत्स्पर्धिन्यां दिशि कर्णरूपं भवति। तत्र वलनज्ययापि कर्णरूपिण्या भवितव्यम्। यत् पूर्वमानीतं क्रान्त्यन्तरं लम्बसूत्रप्रतिस्पर्धि तत् कोढिरूपं जातम्। तस्य कर्ण- करणायानुपातः। यदि द्युज्याकोट्या त्रिज्या कर्णस्तदाऽनया किमिति। पूर्बं कोटिज्याया जिनज्या गुणस्त्रिज्या हरः। इदानीं त्रिज्या गुणो द्युज्या हरः। अत्रापि त्रिज्यातुल्ययोर्गुणहरयोर्नाशे कृते कोटिज्या जिनज्यागुणा द्युज्यया भक्ता वलनं स्यादित्युपपन्नम्। युक्त्यानयैव विज्ञेयमक्षजं च क्रमज्ययेति। यथायनवलज्ञानार्थं ध्रुवात् परितो जिनभागैः कदम्बभ्रमवृत्तं निबद्धं तथा याम्योत्तरक्षितिजयोर्यः संपातः स समसंज्ञकः। तस्मादप्यक्षांशैः परितोऽक्षवलनज्ञानार्थं वृत्तं बध्नीयात्। तत् किलाक्षवलयसंज्ञम्। तदपि भांशैरङ्क्यम्। तत्राक्षवलनोपपत्तिर्दर्शनीया। तद्यथा मध्यह्नेऽर्कात् समचिह्नं प्रति नीयमानं वृत्ताकारं सूत्रं ध्रुवचिह्नलग्नं याति। अतस्तत्र विषुवत्समवृत्तयोरेकैव याम्योत्तरा वलनाभाव इत्यर्थः। अथ यदि देनार्धान्नतं सूर्य्यं कृत्वा समचिह्नात् सूर्य्यं प्रति नीयमानं सूत्रं यत्र सममण्डले लगति तत्खखस्तिकयोर्मध्ये यावन्तोऽंशास्तावन्त एवाक्षवृत्ते समसूत्रध्रुवयोर्मध्ये भवन्ति। यतस्तत्समवृत्तानुकारं बद्धम्। तेषां भागानामक्षबलये यावती क्रमज्या तावदेव सममूत्रध्रुवयोरन्तरम्। अथ क्षितिजस्थेऽर्के क्षितिजमेव समसूत्रम्। तत्राक्षवृत्ते च नवतिर्नतांशाः। तेषां ज्याऽक्षवलयेऽक्षज्यातुल्या स्यात्। अतः सममण्डलगतेर्नतांशैर्वलनं साधयितुं युज्यते। ते तु महायासेन ज्ञायन्ते। न तु सुखेन। अतस्तज्ज्ञानार्यं स्थूलोऽनुपातः सुखार्थं कृतः। यदि दिनार्धतुल्येन स्वाहोरात्रनतेन नवतिः सममण्डलनतांशा लभ्यन्ते तदेष्टेन किमिति। लब्धनतांशानां या क्रमज्या साऽक्षज्यावृत्ते परिणाम्यते। वदि त्रिज्यावृत्ते एतावती ज्या तदाक्षज्यावृत्ते कियतीति। लब्धं किल वलनज्या स्यात्। परं सा द्युज्याग्रे, न त्रिज्याग्रे। यतः समसूत्रध्रुवयोरन्तरं तत्। ग्रहध्रुवयोर्मध्ये द्युज्याचापांशा एव वर्त्तन्ते। यदि द्युज्यावृत्त एतावती तदा त्रिज्यावृत्ते कियतीति। एवं सति पूर्वत्रैराशिके त्रिज्या हरः। इदानीं गुणः। तुल्यत्वात् तयोर्नाशे कृते नतांशज्याया अक्षज्या गुणो द्युज्या हरः। फलं स्थूला वलनज्या स्यात्। अथ सूक्ष्माप्युच्यते। ग्रहणकालोऽर्कस्य शङ्कुः शङ्कुतणमग्रा च साध्या। अग्राशङ्कुतलयोः समदिशीरैक्यमन्यधान्तरं स किल बाहुः पूर्वं प्रतिपादित एव। ग्रहसमवृत्तयोरन्तरं ज्यारूपं दक्षिणोत्तरं बाहुतुल्यं स्यात्। यथा विषुवद्वृत्तादुत्तरतो दक्षिणतो वा क्रान्तिज्यान्तरे द्युज्यावृत्तं तथा समवृत्तादपि बाहुवशादुत्तरतो दक्षिणतो वा बाहुतुल्येऽन्तरे उपवृत्तं कल्प्यम्। तद्रपि भांशैरङ्क्यम्। बाहुवर्गोनत्रिज्यावर्गस्य पदं तस्मिन् वृत्ते द्युज्यापद्व्यासार्धम्। अथ द्युज्यावृत्तोपवृत्तयोर्यौ प्र क्पश्चात्संपातौ तयोर्जीवावद् यत् सूत्रं निबध्यते तस्यार्धमुपवृत्ते नतांशानां ज्या। सैवाहोरात्रवृत्तनतांशानां भुजज्या। अथ तदानयनम्। नतासूनां या भुजजीवा सा द्युज्यावृत्ते परिणाम्यते। यदि त्रिज्यावृत्ते एतावती तदा द्युज्यावृत्ते कियतीति। एवमुपवृत्तनतांशज्या भवति। ततो यद्युपवृत्तव्यासार्धे एतावती तदाक्षज्याव्यासार्धे कियतीति। ततो द्युज्याग्रे एतावती वलनज्या तदा त्रिज्याग्रे कियतीति। अत्र प्रथमेऽनुपाते त्रिज्या हरो द्युज्या गुणः। तृतीयेऽनुपाते त्रिज्या गुणो द्युज्या हरोऽतस्तुल्यत्वात् तयोर्नाशे कृते नतासूनां भुजज्याक्षजीवया गुणितोपवृत्तव्यासार्धेन भक्ता सा सूक्ष्मा वलनज्या स्वात्। अत उक्तमग्रानृतलयोर्योग इत्यादि। अथ दृष्टान्तः। यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २०। ३८ तत्र वृषभान्तस्थोऽर्को दिनार्धे खखस्तिके भवति। तदा क्रान्तिवृत्तं दृङ्मण्डलाकारं स्यात्। सत्रिगृहोऽर्को राशिपञ्चकं सिंहान्तः। स च तदा क्षितिजे वर्त्तते। तत् प्राक्परयोरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते। सा च सिंहान्तस्याग्रा। तत् कथं सत्रिगृहार्कोत्क्रमक्रान्तिर्वलनम्। अतोऽसत्। अस्मदानयनं विना नेदमग्रारूप वलनमुत्पद्यत इत्यर्थः। अथान्यो महान् दृष्टान्तः। यत्र देशे षट्वष्टिभागाः ६६ अक्षः। तत्र मेषादौ क्षितिजस्थे सर्वेऽपि राशयः समकालमेव क्षितिजस्था भवन्ति। तदा क्रान्तिवृत्तमेव क्षितिज भवतीत्यर्थः। तत्र मेषादौ वृषभादौ मिथुनादौ वा स्थिते रवौ परमं त्रिज्यातुल्यमेव स्फुटं वलतं स्यात्। यतः क्रान्तिवृत्तप्राच्युत्तरा जाता। तथा विक्षेपाभावे सति तदा रवेर्दक्षिणस्यां दिशि स्पशः। चन्द्रस्वोत्तरस्यामित्यर्थः। एतदुक्तं भवति। तत्र देशे तस्मिन् काले तस्य त्रिज्यातुल्यस्य वलनस्यान्यथानुपपत्त्यास्मदीयमेव वलनानयनं समीणीनम्। तत्र देशेऽक्षज्या ३१४०। मेषादिगे रवौ द्युज्या १४३८। चरज्यासवः०। क्षितिजस्थेऽर्के नतघटिकाः १५। आयनवलनचापांशाः २४। आक्षवलनचापांशाः ६६। स्फुटवलनस्य चापांशाः ९०। वृषादिगे रवौ द्युज्या ३३६६। चरज्यासवः १६७०। नतघटिकाः १९। ३८। आयनवलनचापाशाः २१। ४। अक्षजस्य ६८। ५६। स्फुटवलनस्य चापांशाः ९०। मिथुनादिगे द्युज्या १२१८। चरासवः ३४६५। नतघटिकाः २४। ३७। आयनवलनांशाः २१। ३२। अक्षजस्य ७७। २८। स्फुटस्य ९०। एवं सर्वत्र।”

वलभि(भी) = स्त्री वल्यते आच्छाद्यते वल–अभि वा ङीप्। वडभीशब्दार्थे गोपानस्याम् अमरटी०।

वलय = पुंन० वल–अयन्। १ हस्तपादकटकादौ अमरः। उत्तरपदस्थः तदाकारवेष्टने यथा भूवलयम्। ३ वेष्टनभूमौ ४ गोले च। ५ गलरोगभेदे प्रावप्र० “वलास एवायतमुन्नतञ्च शोथं करोत्पन्नगतिं निबार्य। तं सर्वथैवाप्रतिकार्य्यवीर्य्यं विवर्जनीयं वलयं वदन्ति”। ६ वेलायां ७ कङ्कणे जटा०।

वलयित = त्रि० वलयमिव आचरितम् वलय + क्वि–क्त। वेष्टिते अमरः।

वला = स्त्री वल–अच्। (वेड्याला) ओषधिभेदे रायमुकुटः। २ बलाशब्दार्थे च।

वलाक = पुंस्त्री० वल–आकन्। वकपक्षिणि अमरः स्त्रियां अजा० टाप्।

वलाहक = पु० वारि वहति पृषो०। १ मेघे २ मुस्तके च अमरः। ३ पर्वते दैत्यभेदे ५ नागभेदे मेदि० श्रीकृष्णस्य हयभेदे “स्यन्दनस्तु सदानन्दः सारथिश्चास्य दारुकः। तुरङ्गाः शैव्यसुग्रीवमेघपुष्पवलाहकाः” त्रिका०।

वलि = पु० वल–इन्। उपहारद्रव्ये ओष्ठ्यादित्वमित्यन्ये।

वलिर = त्रि० वल–घञर्थे क वलसंवरणमस्त्यस्य इरन्। केकरे अमरः।

वलिश = न० वलिना उपहारद्रव्येण श्यति मत्स्यान् शो–क। वडिशशब्दार्थे।

वलीक = न० वल्यते संव्रियतेऽनेन ईकन्। वनीकशब्दार्थे पटले जटा०।

वलूक = न० वल–बा ऊक। १ असुरे २ पक्षिभेदे सि० कौ०।

वल्क = भाषणे चु० उभ० द्वि० येट्। वल्कयति ते अववल्कत् त।

वल्क = न० वल–संवरणे क कस्य नेत्त्वम्। १ वृक्षादीनां त्वचि वल्कले २ मत्स्यानां त्वचि शल्के (आ~इस) मेदि०। ३ खण्डे च विश्वः। ४ पद्विकालोध्रे पु० राजनि०।

वल्कतरु = पु० वल्कप्रधान तरुः शा० त०। गुवाकवृक्षे राजनि०।

वल्कद्रुम = पु० वल्कप्रधानो द्रुमः। भूर्जपत्त्रवृक्षे राजनि०।

वल्कल = न० वल–कलन् कस्य नेत्त्वम्। १ त्वचे (दारचिति) वृक्षे राजनि० २ त्वचि (छाल) पुंन० अमरः। ३ शिलावलकायां स्त्री राजनि०।

वल्कलीध्र = पु० वल्कभवा लोध्रः। पट्टिकालोध्रे राजनि०।

वल्ग = गतौ प्लुतगतौ च भ्वा० पर० सक० सेट। वल्गति अवल्गीत्।

वल्गा = स्त्री वल्ग–अच्। (लागाम) अश्वमुखस्थे रज्जुभेदे हेमच०

वल्गित = न० वल्ग–भावे क्त। १ अश्वस्य गतिभेदे प्लुतगतौ अमरः। २ गमने ३ बहुभाषणे च।

वल्गु = पु० वल–संवरणे उ–गुक् च। १ छागे २ मनोहरे त्रि० मेद्रि०। सज्ञायां कन्। वल्गुक चन्दने वने पणे च न०। चारुणि सुन्दरे च त्रि० अजयः। अस्यौष्ठ्यादित्वमित्यन्ये।

वल्गुपत्त्र = पु० वल्गूलि पत्त्राणि यस्य। वनमुद्गे शब्दर०।

वल्गुला = स्त्री वल्ग–उल। १ वागुच्यां सोमराज्यां २ खगभेदे राजनि० संज्ञायां कन्। वल्गुलिका तैलपाचिकायां हेमच०

वल्भ = पक्षणे भ्वा० आत्म० सक० सेट्। वल्भते अवल्भिष्ट।

वल्मिकि = पु० वल–इकि मुट् च। कीटविशेषकृते मृत्तिकास्तूपे (उयेर डिपि) शब्दर०। बल इक मुट् च। वल्मिक तत्रार्थे भरतः।

वल्मीक = पुंन० वल–ईक मुट् च। क्षुद्रकीटकृतमृत्स्तूपे अमरः तन्मृष्टा शौचनिषेधो विष्णुपु० उक्तो यथा “वल्मीकमृषिकोत्खातां मृदमन्तर्जलां तथा। शौचावशिष्टां गेहाच्च नादद्यात् लेपसम्भवाम्”। देवप्रतिमायाः शिल्पिदोषशान्तये तन्मृदा प्रतिमाक्षालनं विहितं यथा “वल्मीकमृत्तिकाभिश्च गोमयेन सुभस्मना। क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये” देवप्र० व०। तेन देवमूर्त्तीनां स्नापनमपि देवप्र० त० विहितं यथा

“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि। पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्षिण्डकेरपि। मृत्तिका करिदन्तस्य पर्वताश्वखुरस्य च। कुशवल्मीकसंम्भूता मृत्पञ्चकमुदीरितम्” देवप्र० त०। तत्राविर्भूते प्राचेतके स्वनामख्याते रामायणकर्त्तरि २ मुनिभेदे ३ रोगभेदे च विश्चः। दद्रोशनिदानादि भावप्र० उक्तं यथा

“ग्रीवांसकक्षाकरपाददेशे सन्धौ गले वा त्रिभिरेव दोषैः। ग्रन्थिः स वल्मीकवदक्रियाणां जातः क्रमेखैव गतप्रवृद्धिः। मुखैरनेकैस्त्वतितोदवद्भिः विसर्पवत् सर्पति चोन्नतापौ। वल्मीकमाहुर्मिषजी विकारम् निष्प्रत्यनीकं चिरजं विशेषात्”। वल्मीकवदित्यनेन प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते निष्प्रत्यनीकमुपचारायोग्यम्”। ततः भवार्थ इञ्। वाल्मीकि वल्मोकभवे प्राचेतसे मुनौ शब्दरत्न०।

वल्मीकशीर्ष = न० वल्मीकस्य शीर्षमिव। स्रोतोऽञ्जने राजनि०

वल्मीकूट = न० वल्मीकं कूटमिव पृषो०। वल्मीके हेमच०

वल्यु(ल्यू)ल = छेदने पवित्रताकरणे च अद० चुरा० उभ० सक० सेट्। वल्यु(ल्यू)लयति ते अववल्यु(ल्यू)लत् त।

वल्ल = संवरणे भ्वा० आत्म० सक० सेट्। वल्लते अवल्लिष्ट।

वल्ल = पु० वल्ल घञ्। १ गुञ्जत्रयपरिमाणे “वल्लस्त्रिगुञ्ज” लीला० २ गुञ्जाद्वये वैद्यकम् ३ सार्द्धगुञ्जामाने “गोधूमद्वितयोन्मिता तु कथिता गुञ्जा तया सार्द्धया वल्लः” राजनि०।

वल्लकी = स्त्री वल्ल–क्कुन् गौरा० ङीष्। १ वीणायाम् अमरः। २ सल्लकीवृक्षे च राजनि०।

वल्लभ = पु० वल्ल–अभच्। १ दयिते २ अध्यक्षे अमरः। ३ उत्तमाश्वे च मेदि०। ४ दयितायां स्त्री हमच०।

वल्लभपाल = पु० वल्लमं पालयति पाल–अण्। अश्वपाले

वल्लर = न० वल्ल अरन्। १ कृष्णागुरुणि मेदि० २ गहने ३ कुञ्जे च राजनि०। ४ मञ्जर्य्यां शब्दर०।

वल्लरि(री) = स्त्री वल्ल–अरि वा ङीप्। १ मञ्जर्य्याम् अमरः। २ मेथिकायां ३ चित्रमूले च राजनि०।

वल्लव = पुंस्त्री० वल्ल–घञ् तं वाति वा–क। १ गोपे अमरः स्त्रियां ङीष्। २ पाचके अमरः ३ भौमसेने मेदि०।

वल्लि(ल्ली) = स्त्री वल्ल–इन् वा ङीप्। १ लतायाम् अमरः। २ पृथिव्याञ्च शब्दच० दीर्घान्तस्तु ३ अजमोदायां मेदि० ४ कैवर्त्तिकायाम् ५ चव्ये च राजनि०।

वल्लीज = न० वल्ल्यां जायते–जन–ड। मरिचे राजनि०।

वल्लीदूर्वा = स्त्री वल्लीरूपा दूर्वा। मालादूर्वायाम् राजनि०।

वल्लीबदरी = स्त्री वल्लीरूपा वदरी। भूमिवदर्य्याम् राजनि०।

वल्लीमुद्ग = पु० वल्लीप्रवानः मुद्गः। वनमुद्गे (मुगानि) राजनि०

वल्लीवृक्ष = न० वल्लीव दीर्घो वृक्षः। सालवृक्षे राजनि०।

वल्लुर = न० वल्लु–उरन्। १ कुञ्जे २ मञ्जर्य्यां ३ क्षेत्रे ४ निर्जनस्थाने ५ शाद्वले हेमच०। ६ गहने च मेदि० वल्ल–अरन्। वल्लर तत्रार्थे न० शब्दर०।

वल्लूर = त्रि० वल्ल–ऊरन्। आतपादिना १ शुष्कमांसे अमरः २ शूकरभांसे मेदि० ३ वनक्षेत्रे ४ वाहने ५ उषरभूमौ च हेमच०।

वल्ल्या = स्त्री वल्ल–यत्। धात्रीवृक्षे राजनि०।

वल्वज = पु० वलते भुवं वेष्टयति वल–क्विप् तादृशः सन् वजति गच्छति वज–अच्। १ उलपे तृणभेदे अमरः। (वावुइ) २ वृक्षभेदे स्त्री राजनि०।

वल्ह = दीप्तौ चु० उभ० अक० सेट्। वल्हयति अववल्हत् त

वल्ह = उत्कर्षे भ्वा० आ० सक० सेट्। वल्हते अवल्हिष्ट।

***