—व—
वकारः = व्यञ्जनवर्णभेदः। स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात् अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो वः स्मृतो बुधैः” शिक्षोक्तेः। अस्योच्चारणे जिह्वाग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तरप्रयत्नः। बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च। अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अणपरः। दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिको बो वा पक्षे अनुस्वारस्थितिः। अस्य मातृकान्यासे वामस्कन्धे न्यस्यता। काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ० र० टी० उक्तेः व्यसनं फलम्। वर्णाभिधाने अस्य वा० चकशब्दा उक्ता यथा “वो वाणो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः। खड्गीशो ज्वालिनी वक्त्रं कलसो वारिवाचकः। उत्कारी शालिनी शान्ता वातः स्फिक सागरः शुचिः। इन्द्रधारा च वामांसः करमूलं च नर्त्तकः। जगद्भाषी सारिणी च देवोऽलिङ्गोऽनिरुद्धकः। गिरिराजो निवृत्तात्मा व्यङ्कद्या निन्दिनी करः” अस्य ध्येयस्वरूपं यथा “वकारं चञ्चलापाङ्गि! कुण्डली मोक्षमव्ययम। पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा। त्रिविन्दुसहितं वर्णमात्मादतत्त्वसंयुतम्। पञ्चदेवमयं वृर्णं पीतविद्युल्लतोपमम्। चतुर्वर्गप्रदं वर्णं सर्वसिद्धिप्रदायकम्” कामधेनुत० “अस्याधिष्ठातृध्येयरूपं यथा “कुन्दपुष्पप्रभां देवीं द्विभुजां पङ्कजेक्षणाम्। शुक्लमाल्याम्बरधरां रत्नहारोज्ज्वलां पराम्। साधकाभीष्टदां सिद्धा सिद्धिदां सिद्धसेविताम्। एवं ध्यात्वा वकारं तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्।
व = पु० वा–ड। १ वायौ २ वरुणे ३ सान्त्वने ४ मन्त्रणे मेदि० ५ राहौ ६ कल्याणे ७ बलवति ८ वसतौ ९ समुद्रे च शब्दच० १० व्याघ्रे० ११ वसने १३ शालूके १३ वन्दने च एकाक्षरको०। १४ सादृश्ये अव्य० मेदि० “शात्रवं व यशः पपुः” रघुः। १५ वरुणे न० मेदि०। १६ वरुणवीजे मान्तमव्यवम्।
वंश = पु० वमति उद्गिरति वम–श तस्य नेत्त्वम्। १ पुत्रपौत्राद्यपत्यवर्गे २ तृणजातिभेदे (वा~श) अमरः।
“वंशः सरो हिमः स्वादुः कषायो वस्तिशोधनः। छेदनः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित्। तत्करीरः कटुः पाकरसे रूक्षो गुरुः सरः। कषायः कफकृत् स्वादुर्विदाही वातपित्तलः। तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः। वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः” भावप्र०। ३ पृष्ठावयवे ४ वर्गे च मेदि० ५ इक्षौ ६ सालवृक्षे च राजनि०। ७ वाद्यभेदे पुंस्त्री० धरणिः स्त्रीत्वे गौरा० ङीष् “वंशीकलेन वडिशेन” इति वृन्दावनचम्पूः। तद्विवृतिर्यथा
“तालेन राजते गीतं तालो वादित्रसम्भवः। गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते। ततं शुषिरमानद्धं घनमित्थं चतुर्विधम्। ततं तन्त्रीगतं वाद्यं वंशाद्यं शुषिरं तथा। चर्मावनद्धमानद्धं घनं तालादिकं मतम्”। तत्र शुषिरं यथा “वंशोऽथ पारी मधुरी
तित्तिरी शङ्खबाहुला। तोडही मुरली वुक्का शृङ्गिका स्वरनाभयः। शृङ्गं कापालिकं वंशश्चर्मवंशस्तथा परः। एते शुषिरभेदास्तु कथिताः पूर्वसूरिभिः। वर्त्तुलः सरलश्चैव प्रर्वदोषविवर्जितः। वैणवः खादिरो वापि रक्तचन्दनजोऽथ वा। श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा। राजतस्ताम्रजो वापि लौहजः स्फाटिकोऽथ वा। कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोभितः। शिल्पविद्याप्रवीणेन वंशःकार्य्यो मनोहर। वंशेनैव मतःप्रीतिः मतङ्गमुनिनोदितम। ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः। तत्र त्यक्त्वा शिरोदेशादधोद्विमितमङ्गुलम्। फुत्काररन्ध्र कुर्वीत मितमङ्गुलिपर्वणा। पञ्च ङ्गुलानि संत्यज्य ताररन्ध्राणि कारयेत्। कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात्। बदरीवीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम्। प्रान्तयोबन्धनं कार्य्यं स्वराद्यैर्नादहेतवे। सिक्थकेन कला देया तेन सुस्वरता भवेत्। पञ्चाङ्गुलोऽयं वंशः स्यादेकैकाङ्गुलिवृद्धितः। षडङ्गुलानि नाम्ना स्यात् यावदष्टादशाङ्गुलम्। फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम्। तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते। एकाङ्गुलोद्व्यङ्गुलश्च त्र्यङ्गुलश्चतुरङ्गुलः। अतितारतरत्वेन वांशिकैः समुपेक्षितः। त्रयोदशाङ्गुलो वंशोऽपरः पञ्चदशाङ्गुलः। निन्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः। महानन्दस्तथानन्दो विजयोऽथ जयस्तथा। चत्वार उत्तमा वंशा मतङ्ग मुनिसम्मताः। दशाङ्गुलो महानन्दोनन्द एकादशाङ्गुलः। दृदशाङ्गुलमानस्तु विजयः परिकीर्त्तितः। चतुर्दशाङ्गुलमितो जय इत्यभिधीयते। ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः। नैविड्यं प्रौढताचापि मुस्वरत्वञ्च शीघ्रता। माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताः। शीत्कारबहुलः स्तब्धो विस्यरः स्फुटितो लघुः। अमधुरश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात्। वृथा प्रयोगबाहुल्यमल्पता गीतवादने। एभिर्दोषैर्युतोऽतीव निन्दितो वांशिको मतः। स्थानका दिनयाभिज्ञोगमकाढ्यः स्फुटाक्षरः। शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते। प्रमुक्तिर्वद्धमुक्तिश्च युक्तिश्चेत्यङ्गुले गुणाः। सुस्थानत्वं सुस्वरत्वमङ्गुलीसारणक्रिया। समस्तगमकज्ञानं रागरागाङ्गवेदिता। क्रियाभाषाविभाषासु दक्षता गीतवादने। स्वस्थाने चापि दुःस्थाने नादनिर्माणकौशलम्। गातॄणां स्थानदातृत्वं तद्दोषाच्छादनं तथा। वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः” सङ्गीतदा०।
वंशक = पु० वंश इव कायति कै–क। (सोमशाडा) १ इक्षुभेदे रत्नमा० २ मत्स्यभेदे (राउत) शब्दमा०। ३ अगुरुचन्दने न० हारा०।
वंशकर्पूररोचना = स्त्री कर्पूरमिव रोचते रुच–ल्यु ६ त०। वंशरोचनायाम् राजनि०।
वंशक्षीरी = स्त्री वंशस्य क्षोरमिवास्त्यस्या अच् गौरा० ङीष्। वंशरोचनायाम् राजनि०।
वंशज = पु० वंशात् जायते जन–ड। १ वंशवृक्षजाते यवाकारे वेणुयवे राजनि० २ सत्कुलजाते त्रि०। ३ वंशरोचनायां स्त्री टाप् शब्दर०।
वंशतण्डुल = पु० ६ त०। वेणुजाते तण्डुलाकारे वेणुयवे राजनि०।
वंशधर = त्रि० वंशं धरति। कुलाविच्छेदकारके सन्ताने। वृध–णिच् ल्यु। वंशवर्द्धनीऽप्यत्र।
वंशनेत्र = न० वंशस्येव नेत्रमस्य। इक्षुमूले राजनि०।
वंशपत्त्र = पु० वंशस्य पत्त्रमिव पत्त्रमस्य। १ नलनामके तृणे राजनि०। १ त०। २ वंशदले न०। कप तत्रैव। ३ नाडीहिङ्गौ स्त्री राजनि० गौरा० ङीष्।
वंशपत्त्रपतित = न० सप्तदशाक्षरपादके छन्दोभेदे। “दिङ् मुनि वंशपत्रपतितं भरनभननगेः” छन्दो०।
वंशपीत = पु० वंशस्तत्पत्त्रमिव पीतः। कणगुग्गुलौ राजनि०।
वंशपुष्पा = स्त्री वशस्य पुष्पमिव पुष्पमस्याः। सहदेवीलतायाम् राजनि०।
वंशपूरक = न० वंशस्येव पूरकं यस्य। इक्षुमूले राजनि०।
वंशरो(लो)चना = स्त्री वंशेषु रोचते रुच–ल्यु वा रस्य लः। वंशपर्वस्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये। (वंशलोचन)। “वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला। तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः। हरेत् कुष्ठं प्रणं पाण्डुं कषायवातकृच्छ्रजित् भावप्र०।
वंशशर्करा = स्त्री वंशस्य शर्करेव। (वंशलोचन) पदार्थे राजनि०।
वंशशलाका = स्त्री० वंशस्य शलाकेव कठिनत्वात्। वीरणमूले हेमच०।
वंशस्तनित = न०। द्वादशाक्षरपादके वंशस्थबिलापरपर्य्याये छन्दोभेदे शम्भः।
वंशस्थबिल = न०। द्वादशाक्षरपादके छन्दोभेदे। “वदन्ति वंशस्थबिलं जतौ जरौ” छन्दो०
वंशाग्र = न० वंशस्य अग्रं मूलम्। वंशाङ्कुरे (को~ड) राजनि०
वंशाङ्कुर = पु० ६ त०। (को~ड) इति ख्याते पदार्थे राजनि०
वंशिक = न० वंशोऽस्त्यस्य ठन् वंश इव वा कन्। १ अगुरुचन्दने अमरः २ वंश्यां स्त्री शब्दच० टाक्।
वंशीधर = पु० वंशीं वंशजवाद्यभेदं धरति धृ–अच्। श्रीकृष्णे
वंश्य = त्रि० वंशे सत्कुले जातः यत्। सत्कुलजाते।
वक = कौटिल्ये अक० गतौ सक० भ्वा० आ० सेट् इदित्। वङ्कते अवङ्किष्ट।
वक = पुंस्त्री० वकि–अच् पृषो० नलोपः। स्वनामख्याते विहगे अमरः स्त्रियां ङीष्। २ स्वनामख्याते पुष्पवृक्षे “अगस्तिकुसुमं शीतं चातुर्थकनिवारकम्। नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च। पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिमिर्मतम्” भावप्र०। ३ औषधादिपाचनयन्त्रभेदे “जलकच्छपपातालदोलाभूधरवालुकाः। वकाद्या यन्त्रभेदाः स्युर्वज्रन्ध्वाद्याश्च मूषिकाः” शब्दच०। अस्य लक्षणं यथा “दीर्घकण्ठकाचकुप्या गिलयेत् खल्पभाण्डकम्। तिर्य्यक् कृत्वा पचेत् चुल्ल्यां वकयन्त्रमिति स्मृतम्।” वैद्यकम्। ३ कुवेरे ४ राक्षसभेदे मेदि० यो भीमेन हतः भा० व० १४ अ०। श्रीकृष्णैन हते दैत्यभेदे च भाग० १०। ११ अ०।
वकजित् = पु० वकं जितवान् जि–क्विप् ६ त०। १ श्रीकृष्णे २ भामसेने च वकान्तकादयोऽप्यत्र।
वकधूप = पु० वक इव शुभ्रो धूपः। वृकधूपे अमरः।
वकपञ्चक = न०। कार्त्तिकशुक्लपक्षस्यैकादश्यादितिथिपञ्चके। तत्र मत्स्यादवकैरपि मत्स्यत्यागेन व्रताचरणात् तथात्वम्
वकपुष्प = पु० वक इव कुटिलं पुष्पमस्य। स्वनामख्याते पुष्पवृक्षे शब्दच०।
वकवृत्ति = पु० वकस्येव स्वार्थपरा वृत्तिश्चेष्टा यस्य। “अर्वाग्वृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः” इत्युक्तलक्षणे परवञ्चके जने।
वकव्रतपर = पु० वक इव व्रतं धारयति धृ–अच्। “अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः। शठो मिथ्याविनीतश्च वकव्रतधरो द्विजः” इत्युक्ते स्वार्थसाधनतत्परे वञ्चके विप्रादौ।
वकव्रतिन्(क) = पु० वकव्रत + अस्त्यर्थे इनि ठन् वा। वकव्रतधरे।
वकुल = पु० वकि–कुलच् नलोपः। १ स्वनामख्याते पुष्पवृक्षे अमरः। २ कटुकायां स्त्री राजनि० टाप्। काकोल्यां ङीप् पृषो०। वकूलोऽपि वकुले पु०। “वकुलो मधुगन्धश्च सिंहकेसरकस्तथा। वकुलस्तुवरोऽनुष्णः कटुः पाके रसे गुरुः। कफपित्तविषश्वित्रि कृमिदन्तगदापहः” भावप्र०। अस्य ओष्ठ्यादित्वमिच्छन्त्यन्ये।
वक्क = गतौ भ्वा० आत्म० सक० सेट्। वक्कते अवक्किष्ट।
वक्तव्य = त्रि० वच–तव्य। १ कुत्सिते २ हीने ३ दुष्टे च मेदि० “दिवा वक्तव्यता पाले” स्मृतिः। ४ कथनीये च। भावे क्त। ५ कथने ६ दूषणे च न०।
वक्तृ = त्रि० उचितं बहु वक्ति वच–तृच्। १ उचितबहुवादिनि अमरः स्त्रियां ङीप्। २ पण्डिते पु० मेदि०।
वक्त्र = न० वक्त्यऽनेन वच–करणे ष्ट्रन्। १ मुखे अमरः। २ तगरमूले शब्दर०। ३ वसनभेदे मेदि०। वक्त्रं “नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्” वृ० र० उक्ते ४ छन्दोभेदे च।
वक्त्रभेदिन् = पु० वक्त्रं भिनत्ति मिद–णिनि। १ तिक्तरसे हेमच०। २ मुखविदारके त्रि० स्त्रियां ङीप्।
वक्त्रवास = पु० वक्त्रं वासयति सुरभीकरोति वासि–अण् उप० स०। १ नागरङ्गे हेमच०। ६ त० २ मुखगन्धे पु०।
वक्त्रशोधिन् = पु० वक्त्रं शोधयति शुध–णिच्–णिनि। १ जम्बीरे २ मुखशोधके ३ ताम्बूलादौ त्रि० स्त्रियां ङीप्।
वक्त्रासव = पु० वक्त्रस्यासव इव। अधररसे विका०।
वक्र = न० वकि–रन् पृषो० नलोपः। १ नदीवङ्के अमरः २ शनैश्चरे पु० मेदि० ३ मङ्गलग्रहे पु० हेम० ४ रुद्रे ५ त्रिपुरासुरे पु० धरणिः ६ पर्वटे कुटिलगतौ च स्त्री। ८ तद्वति त्रि०। ग्रहाणां वक्रगतिकारणं खगगतिशब्दे उक्तम्। सामान्यतः ज्यो० त० उक्तं यथा “वक्राः स्युः पञ्च षष्ठेऽर्के अतिवक्रा नगाष्टगे। नवमे दशमे चैव जायते सहजा गतिः। द्वादशैकादशे सूर्य्ये भजन्ते शीघ्रतां पुनः। रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते। न तु राश्यन्तरस्पर्शात् पञ्चमादिनिरूपणम्। राहुकेतू सदा वक्रौ”।
वक्रकण्ट = पु० वक्रः कुटिलः कण्टः कण्टकोऽस्य। वदरवृक्षे राजनि०। ततः संज्ञायां कन्। खदिरवृक्षे राजनि०।
वक्रखड्ग = पु० कर्म०। करवाले राजनि०।
वक्रग्रीव = पुंस्त्री० वक्रा ग्रीवा यस्य। १ उष्ट्रे त्रिका० स्त्रियां ङीष्। ३ कुटिलग्रीवायुते त्रि० स्त्रियां टाप्।
वक्रपुच्छ = पुंस्त्री० वक्रं पुच्छं यस्य। १ कुक्कुरे त्रिका० स्त्रियां ङीष्। वक्रलाङ्गूलादयोऽप्यत्र।
वक्रपुष्प = न० वक्राणि पुष्पाण्यस्य। १ वकवृक्षं शब्दर० २ पलाशवृक्षे च राजनि०।
वक्रशल्या = स्त्री वक्रं शल्यमिव पत्त्रादि यस्याः। कुटुम्बिनीवृक्षे राजनि०।
वक्राङ्ग = पुंस्त्री० वक्राण्यङ्गान्यस्य। १ हंसे स्त्रियां ङीष्। २ कुटिलावयवयुते त्रि० स्त्रियां वा ङीप्। कर्म० ३ कुटिले देहे न०।
वक्रिमन् = पु० वक्रस्य भावः इमनिच्। कौटिल्ये “वशितवक्रिम प्रेक्षितम्” मालतीमाधवम्। पृषो०। अदन्तोऽप्यत्र।
वक्रोक्ति = स्त्री कर्म०। १ कुटिलोक्तौ “अन्यस्यान्यार्थकं वाक्यमन्यथा योजयेद्यदि। अन्यः श्लेषेण काक्का वा सा वक्रोक्तिस्ततो द्विधा” सा० द० उक्ते २ अर्थालङ्कारभेदे ३ काकुवचने च।
वक्ष = रोषे भ्वा० पर० सक० सेट्। वक्षति अवक्षीत्।
वक्षस् = न० वह–असुन् सुट् च। १ हृदये २ उरसि च अमरः।
वक्षः(क्ष)स्थल = न० वक्षःस्थलमिव वा विसर्गलोपः। प्रशस्तवक्षसि।
वक्षोज = पु० वक्षसि जायते जन–ड। १ स्तने “वक्षोजयोर्मन्दता” सा० द०।
वक्षोरुह = पु० वक्षसि रोहति रुह–क। स्तने त्रिका०।
वख = गतौ भ्वा० पर० सक० सेट् इदित्। वङ्खति अवङ्खीत् अनिदप्ययम् वखति अवखीत् अवाखीत्।
वग = खञ्जे भ्वा० पर० अक० सेट् इदित्। वङ्गति अवङ्गीत्।
वगाह = पु० अव + गाह–घञ अवातो लोपः। अवगाहने।
वघ = गतौ निन्दायाम् आरम्भे च सक० जवे अक० भ्वा० आत्म० सेट् इदित्। वङ्घते अवङ्घिष्ट।
वङ्क = पु० वकि–घञ्। १ नदीवक्रे भरतः। २ पल्ययने (पालाभ) स्त्री त्रिका० टाप्।
वङ्क्रि = स्त्री वकि–रि। १ वार्श्वास्त्नि हेमच०। २ वाद्यभेदे पुंन० उणादिको०। २ गृहदारुणि पुंन० सि० कौ०।
वङ्ग = न० वगि–अच्। धातुभेदे (राङ्) रङ्गशब्दे दृश्यम्। “रत्नाकारं समारभ्य ब्रह्मपुत्रान्तगं प्रिये!। वङ्गदेश इति प्रोक्तः” उक्ते देशभेदे पु० ब० व०। ३ चन्द्रवंश्ये नृपभेदे पु० गरु० १३ अ०। ४ वार्त्ताकौ ५ कार्पासे च पु० मेदि०।
वङ्गज = न० वङ्गात् धातोः जायते जन–ड। १ सिन्दूरे रत्नमा० २ वङ्गदेशजाते त्रि०।
वङ्गन = पु० वगि–ल्यु। वार्त्ताकौ शब्दर०।
वङ्गशुल्वज = न० वङ्गशुल्वाभ्यां रङ्गताम्राभ्यां जायते जन–ड। रङ्गताम्रमिश्रितजाते कांस्ये धातौ हेमच०।
वङ्गसेन = पु० वङ्गमिव शुभ्रा सेना पुष्पमस्य। वकवृक्षे त्रिका०
वङ्गारि = पु० ६ त०। हरिताले हेमच० तस्य वङ्गधातुजारणात्तथात्वम्।
वङ्क्षण = पु० वक्ष–ल्युट् पृषो० गुम्। ऊरुसन्धो (कुच्की) अमरः
वच = सन्देशे सक० कथने द्विक० चुरा० उभ० सेट्। वाचयति ते
वच = कथने अदा० द्विक० पर० अनिट्। वक्ति। “न हि वचिरन्तिपरः प्रयुज्यते” अभियुक्तोक्तेरस्मान्न अन्ति” अवोचत् त। उवाच ऊचतुः वक्ता उक्तः।
अमु + उक्तस्य पुनःकथने अनुवादे।
निर् + अबवार्थकथने निरुक्तिः निर्वचनम्।
प्र + प्रकर्षेण कथने वाख्यानार्थमुक्तस्य कथने प्रवचनम्।
वचन = न० वच–ल्युट्। १ कथने २ वाक्ये अमरः ३ शुण्ठ्याम् शब्दच० कर्त्तरि ल्यु। व्याकरणोक्ते संख्यार्थके सुप्तिङस्वरूपे प्रत्यये च। “सदृशं त्रिषु लिङ्गेषु विभक्तिवचनेषु च”।
वचनग्राहिन् = त्रि० वचनं गृह्णाति तदनुसारेणाचरति ग्रहणिनि। वचने स्थिते वशीभूते अमरः।
वचनीय = त्रि० वच–अनीयर्। १ कथनीये २ निन्दनीये लोकापवादे न० “वचनीयमिदं व्यवस्थितम्” कुमारः।
वचनेस्थित = त्रि० वचने वाक्ये तदुपदिष्टाचारे तिष्ठति स्थाक्त अलुक्स०। वाक्यप्रतिपालके वशीभूते अमरः।
वचर = पुंस्त्री० वच–अरन्। १ कुक्कुटे स्त्रियां ङीष्। २ शठे त्रि० मेदि-
वचस् = न० वच–म्रसुन्। वाक्ये वाक्पदार्थे अमरकोषः।
वचसांपति = पु० ६ त० अलुक्स०। वृहस्पतौ दीपिका।
वचस्कर = त्रि० वचः करोति कृ–अच् कस्कादि०। वाक्यप्रतिपालके वश्ये।
वचा = स्त्री वच–अच्। (वच) इति ख्याते द्रव्ये। “वचोग्रगन्धा कदुका तिक्तोष्णा वान्तिवह्निकृत्। विबन्धाध्मानशूलघ्नी शकृन्मूत्रविशोधनी। अपस्मारकफोन्मादभूतजन्त्वनिलान् हरेत्”। (खुरासानी वचा)। “पारसीकवचा शुक्ला प्रोक्ता हैमवतीति सव। हैमवत्युदिता तद्वत् शूलं हन्ति विशेषतः।” अथ (महाभरी) वचा। यस्या लोके (कुलीवच इति) नामान्तरम्। “सुगन्धाप्यग्रगन्धा च विशेषात् कफकासनुत्। सुस्वरत्वकरी रुच्या हृत्कण्ठमुखशोधिनी”। अपरा सुगन्धा स्थूलग्रन्थिर्यस्या लोके महाभरा इति नास। “स्थूलग्रन्थिः सुगन्धान्या ततो हीनगुणा स्मृता”। (सोपचीनीति) लोके प्रसिद्धा। तस्या गुणाः “द्वीपान्तरवचा कद्वी तिक्तोष्णा वह्निदीप्तिकृत्। विवन्धाध्मान शूलघ्नी शकृन्मूत्रविशोधनी। वातव्याधीनपस्मारमुन्मादत्नुवेदनाम्। व्यपोहति विशेषेण फिरङ्गामय नाशिनी” भावप्र०।
वज = गतौ भ्वा० पर० सक० सेट्। वजति। अवाजीत्–अवजीत ववजतुः।
वज = शरसंस्कारे गतौ च चुरा० उभ० सक० सेट्। वाजयति ते अवीवजत् त।
वज्र = पु० सामवेदप्रसिद्धे यज्ञभेदे सि० कौ०।
वज्र = पुंन० वज–रन्। १ हीरके २ इन्द्रस्यास्त्रभेदे च। तच्च दधीचिमुन्थस्थितो जातम् भाग० ५। १० अ० उक्तम् २ ब्रालके ३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर०। ६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते विष्कुम्भादिषु सप्तविंशतौ योगेषु मध्ये पञ्चदशे योनभेदे च न०। ९ कोकिलाक्षवृक्षे १० श्वेतकुशे पु० राजनि०। ११ श्रीकृष्णस्य प्रपौत्रे यदुवंश्ये नृपभेदे च पु० भाग०। १२ सेहुण्डुकवृक्षे भावप्र०। हीरकवज्रलक्षणादि वृ० स० ८० अ० उक्तं यथा “रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि। केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम्। इत्युपक्रमे।” “वेण्वातटे विशुद्धं शिरीषकुसुमोपमं च कौशणकम्। सौराष्ट्रकमाताम्रं कृष्णं सौर्पारकं वज्रम्। पत्ताम्रं हिमवति मतङ्गज वल्लपुष्पसङ्काशम्। आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम्। ऐन्द्रं षडश्रि- शुक्लं याम्यं सर्पास्यरूपमसितं च। कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम्। वारुणमबलाग्रह्यापमं भवेत् कर्णिकारपुष्पनिभम्। शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभ च हौतभुजम्। व्रायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम। स्रोतः स्वनिः पकीर्णकमित्याकरसम्भवस्त्रिविधः। रक्तं पीतं च शुभ राजन्यानां सितं द्विजातीनाम्। शैरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम्। सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या। द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत्। पादत्र्यंशार्धोनं त्रिभागपञ्चांशषोडशांशाश्च। भागश्च पञ्चविंशः शतिकः साहस्रिकश्चेति। सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत् स्रिग्धम्। तडिदनलशक्रचापोपलं च वज्रं हितायोक्तम। काकपदमक्षिकाकेशधातुयुक्तानि शर्कराविद्धम्। द्विग्रणाश्रि दिग्धकलुषत्रस्तविशीर्णानि न शुभानि। यानि च बुद्बुददलिताग्नचिपिटवासीफलप्रदीर्घाणि। सर्व्रेषां चैतेषां मूल्याद्धागोऽष्टमो हानिः। वज्रं न किञ्चिदपि धारयितव्यमेके पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः। शृङ्गाटकत्रिपुटधान्यकवतस्थितं यच्छ्रोणीनिभं च शुभदं तनयार्थिनीनाम्। स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम्। अशनिविषभयारिनाशनं शुभमुरुभोगकरं च मूभृताम्।” ह्नीरकोत्पत्त्यादि गारुडे ६८ अ० उक्तं यथा “तस्या(ब्रलस्या)स्थिलेशो निपपात येषु भुवः प्रदेशेषु कथञ्चिदेव। वज्राणि वज्रायुधनिर्जिगीषोर्भवन्ति नानाकृतिमन्ति तेषु। हैसमातङ्गसौराष्ट्राः पौण्ड्रकालिङ्गलोषलाः। वेण्वातटाः मसोवीरा वज्रस्याष्टाविहाकराः। आतामा हिमशैलजाश्च शशिभा वेण्वातटीयाः स्मृताः सौवीरे तुषिताब्जमेघसदृशास्ताम्राश्च सौराष्ट्रजाः। कालिङ्गाः कनकावदातरुचिराः पीतप्रभाः कोषले श्यामाः पुण्ड्रभवा मतङ्गविषये नात्यन्तपीतप्रभाः। अत्यर्थं लघुवर्णतश्च गुणवत् पार्श्वेषु सम्यक् समं रेखाविन्दुकलङ्ककाकपदकत्रासादिभिर्वर्जितम्। लोकेऽस्मिन् परमाणुमात्रमपि यत् वज्रं क्वचिद्दृश्यते तस्मिन् देव! समाश्रयो ह्यवितथस्तीक्ष्णाग्रधारं वदि। वज्रेषु वर्णयुक्त्या देवानामपि परिग्रहः प्रोक्तः। वर्णेभ्यश्च विभागः कार्य्यो वर्णाश्रयादेव!। हरित पीतपिङ्गश्यामाताम्राः स्वभावतो रुचिराः। हरिवरुणशक्रहुतवहपितृपतिमरुतां स्वकावर्णाः। विप्रस्य शङ्खकुमुदस्फटिकावदातः स्यात् क्षत्त्रियस्य शशबभ्रु विलोचनाभः। वैश्यस्य कान्तकदलीदलसन्निकाशः शूद्रस्य धौतकरवालसमानदीप्तिः। द्वौ बज्रवर्णौ पृथिवीपतीनां सद्भिः प्रतिष्ठौ न तु सार्वजन्यौ। यः स्याज्जवा विद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः। ईशत्वात् सर्ववर्णानां गुणवत् सार्वचर्णिकम्। कामतो धारयेद्राजा नत्वन्योऽन्थत् कथञ्चन। अधरोत्तरवृत्त्या हि यादृक् स्याद्वणसङ्करः। ततः कष्टतरो वज्रो वर्णानां सङ्करो मतः। न च मार्गविभागमात्रवृत्त्या विदुषा वज्रपरिग्रहो विधेयः। गुणवद्गुणसम्पदां विभूतिर्विपरोतो व्यसनोदयस्य हेतुः। एकमपि यस्य शृङ्गं विदलितमवलोक्यते विशीर्णं वा। गुणवदपि तन्नधार्य्यं वज्रं श्रेयोऽर्थिभिर्भवने। स्फुटिताग्निविशीर्णशृङ्कदेसं मलवर्णैः पृषतैरुपेतमध्यम्। न हि वज्रभृतोऽपि वज्रमाशु श्रियमन्याश्रयलालसां न कुर्य्यात्। थस्यैकदेशः क्षतजावभासो यद्वा भवेलोहितवर्णचित्रम्। न तन्न कुर्य्याद्ध्रियमाणमाशु स्वच्छन्दमृत्योरपि जोवितान्तम्। कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशेति च। उत्तुङ्गसमतीक्ष्णाग्रा वज्रस्याकरजा गुणाः। षट्कोटिशुद्धममलं स्फुटतीक्ष्णधारं वर्णान्वितं लघु सुपार्श्वमपेत दोषम्। इन्द्रायुधांशुविसृतिच्छुरितान्तरीक्षमेवंविधं भुवि भवेत् सुलभं न वज्रम्। तीक्ष्णाग्रं विमलमपैति सर्वदोषं धत्ते यः प्रयततनुः सदैव वज्रम्। वृद्धिस्तं प्रतिदिनमेति यावदायुः श्रीसम्पत्सुतधनधान्यगो, पशूनाम्। व्यालवह्निविषव्याघ्रतस्कराम्बुभयानि च। दूरात्तस्य निवर्त्तन्ते कर्माण्याथर्वणानि च। यदि वज्रमपेत सर्वदोषं विभृयात्तण्डुलविंशतिं गुरुत्वे। मणिशास्त्रविदो वदन्ति तस्य द्विगुणं रूपकलक्षमग्र्यमूल्यम्। त्रिमागहीनार्द्धतदर्द्धशेषं त्रयोदशं त्रिंशदतोर्द्धभागाः। अशीतिभागोऽथ शतांशभागः सहस्रभागोल्पसमानयोगः। यत्तण्डुलैर्द्वादशभिः कृतस्य वज्रस्य मूल्यं प्रथमं प्रदिष्टम्। द्वाभ्यां क्रमाद्धानिमुपागतस्य त्वेकावसानस्य विनिश्चयोऽयम्। न चापि तण्डुलैरेव वज्राणां धारणक्रमः। अष्टाभिः सर्षपैर्गौरेस्तण्डुलं परिकल्पयेत्। वत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिणि। रत्नवर्गसमस्तेऽपि तस्य धारणमिष्यते। अनेनापि हि दोषेण लक्ष्यालक्ष्येण दूषितम्। स्वमूल्यात् दशमं भागं वज्रं लभति मानवः। प्रकटानेकदोषस्य स्वल्पस्य मह- तोऽपि वा। स्वमूल्याच्छतशोभागो वज्रस्य न विधीयते। स्पृष्टदोषमलङ्कारे वज्रं यद्यपि दृश्यते। रत्नानां प्ररिकर्मार्थं मूल्यं तस्य भवेल्लघु। प्रथमं गुणसम्पदाभ्युपेतं प्रतिबद्धं समुपैति तच्च दोषम्। अलमाभरणेन तस्य राज्ञो गुणहीनोऽपि मणिर्नभूषणाय। नार्य्या वज्रमधार्य्यं गुणवदपि सुतप्रसूतिमिच्छन्त्या। अन्यत्र दीर्घचिपिटह्रस्वाद्गुणैर्विमुक्ताच्च। अयसा पुष्परागेण तथा गोमेदकेन च। वैदूर्य्यस्फटिकाम्याञ्च काचैश्चापि पृथग्विधैः। प्रतिरूपाणि कुर्वन्ति वज्रस्य कुशलाजनाः। परीक्षा तेषु कर्त्तव्या विद्वद्भिः सुपरीक्षकैः। सुक्षारोल्लेखशालाभिस्तेषां कार्य्यं परीक्षणम्। पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः। सर्वाणि विलिस्वेद्वज्रं तच्च तैर्न विलिख्यते। गुरुता सर्वरत्नानां गौरवाधारकारणम्। वज्रे तान्वैप्ररीत्येन सूरयः परिचक्षते। जातिभिरजातिं विलिखन्ति वज्रकुरुविन्दाः। वज्रैर्वज्रं विलिखति नान्येन लिख्यते वज्रम्। वज्राणि मुक्तामणयो याश्च काश्चन जातयः। न तेषां प्रतिबद्धानां भा भवत्युर्द्ध्वगामिनी। तिर्य्यक्क्षतत्वात् केषाञ्चित् कथञ्चिद्यदि दृश्यते। तिर्य्यमालिख्यमानानां सा पार्श्वेष्वपि हन्यते। यद्यपि विशीर्णकोटिः सविन्दुरेखान्वितो विवर्णो वा। तदपि धनधान्यपुत्रान् करोति सेन्द्रायुधो वज्रः। सौदामिनीविस्फुरिताभिराम राजा यथोक्तं कुलिशं दधानः। पराक्रमाक्रान्तपरप्रतापः समस्तसामन्तभुवं भुनक्ति”। ३ विद्युदग्नौ तन्निबारणहेतुर्यथा “प्रचण्डपवनाघाते मेघेषु स्तनितेषु यः। त्रिःपठेज्जैमिनीयोऽखि प्राङ्मुखो वाप्युदङ्मुखः। तस्य मा भूद्भयं घोरं विद्युतीयोऽवसीदति आ० त० धृतब्रह्मपुराणम्। “मुनेः कल्याणमित्रस्य जैमिनेश्चापिकीर्त्तनात्। विद्युदग्निभयं नास्ति पठिते च गृहोदरे”। “लिखिते च गृहोदरे” इति वा पाठः। जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च। पुलस्त्यः पुलहश्चैव पञ्चै ते वज्रवारकाः” पुराणम्। तत्पर्य्यायादि भावप्र० उक्तं यथा
“हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः। स तु श्वेतः स्मृतो विप्रो लोहितः क्षत्त्रियः स्मृतः। पीतो वैश्योऽसितः शूद्रश्चतुर्वर्णात्मकश्च सः। रसायने मतो विप्रः सर्वसिद्धिप्रदायकः। क्षत्त्रियो व्याधिविध्वंसी जरामृत्युहरः स्मृतः। वैश्यो धनप्रदः प्रोक्त स्तथा देहस्य दार्ढ्यकृत्। शूद्रो नाशयति व्याधीन् वयः स्तम्भं करोति च। पुंस्त्रीनपुंसकानीह लक्षणीयानि लक्षणैः। सुवृत्ताः फलसंपूर्णास्तेजोयुक्ता वृहत्तराः। पुरुषास्ते समाख्याता रेखाविन्दुविवर्जिताः। रेखाविन्दु समायुक्ताः षडश्रास्ते स्त्रियः स्मृताः।” षडश्राः षट्कोणाः। “त्रिकोणाश्च सुदीर्घास्ते विज्ञेयाश्च नपुंसकाः। तेषु स्युः पुरुषाः श्रेष्ठा रसबन्धनकारिणः। स्त्रियः कृर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः। नपुंसकास्त्ववीर्य्या स्युरकामाः सत्त्ववर्जिताः। स्त्रियः स्त्रीभ्यः प्रदातव्याः क्लीवं क्लीवे प्रयोजयेत्। सर्वभ्यः सर्वदा देयाः पुरुषाः वीर्य्यवर्द्धनाः। अशुद्धं कुरुते वज्रं कुष्ठं पार्श्वव्यथान्तथा। पाण्डुताम्पङ्गुरत्वञ्च तस्मात् संशोध्य मारयेत्।” तच्छोधनविधिर्यथा “कुलत्थकोद्रवक्काथे दोलायन्त्रे विपाचयेत्। व्याघ्रीकन्दगतं वज्रं त्रिदिनं तद्विशुद्ध्यति”। व्याघ्री कण्टकारिका। अन्यः शोधनविधिः। “गृहीत्वाग्निं शुभे वज्रं व्याघ्रीकन्दोदरे क्षिपेत्। माहिषीविष्ठया लिप्ता कारीषाग्नौ विपाचयेत्। त्रियामायां चतुर्यामं यामित्यन्तेऽश्वमूत्रके। सेचयेत्पाचयेदेवं सप्तरात्रेण शुद्ध्यति।” अथ बज्रस्य मारणविधिः “हिङ्गुसैन्धवसंयुक्ते क्षिपेत्काथे कुलत्थजे। तप्तं तप्तं पुनर्वज्रम्भवेद्भस्म त्रिसप्तधा”। अन्योऽस्य मारणप्रकारः “मेषशृङ्गभुजङ्गास्थिकूर्मपृष्ठाम्लवेतसम्। शशदन्तं समम्पिष्ट्वा वज्रीक्षीरेण भेलकम्। कृत्वा तन्मध्यगं वज्रं म्रियते ध्मातमेवहि।” मारितस्य वज्रस्य गुणाः “आयुःपुष्टिं बलं वीर्य्यं वर्णं सौख्यं करोति व। सेवितं सर्वरोगध्नं मृतं वज्रं न संशयः।” अभ्रभेदा तद्गुणाश्च भावप्र० उक्ता यथा
“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतम्। विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः। ते निपेतुर्घनध्वानाच्छिखरेषु महीभृताम्। तेभ्य एव समापन्नं तत्तद्गिरिषु च भ्रकम्। तद्वज्रं वज्रजातत्वादभ्रमम्ररघोद्भवात्। गगनात् स्खलितं यस्माद्गगनञ्च ततो मतम्। विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्विधम्। क्रमेणैषां सितं रक्तं पीतं कृष्णञ्च वर्णतः। प्रशस्यते सितन्तारं रक्तं तत्तु रसायने। पीतं हेमनि, कृष्णन्तु गदेषु द्रुतयेऽपि च। पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधम्। मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकन्दलसञ्चयात्। अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम्। दर्दुरं त्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिम्। गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः। नागन्तु नागवद्वह्नौ फुत्कारं परिमुञ्चति। तद्भक्षितमवश्यन्तु विदधाति भगन्दरम्। वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत्। सर्वाभ्रेषु वरं वज्रं व्याविबार्द्धक्यमृत्युहृत्। अभ्रमुत्तरशैलोत्थं बहुसत्त्वं गुणाधिकम्। दक्षिणाद्रिभवं स्वल्पसत्त्वमल्पगुणप्रदम्। अभ्र कषायं मधुरं सुशीतमायुष्करं धातुविवर्द्धनञ्च। हन्यात् त्रिदोषं व्रणमेह कुष्ठप्लीहोदरग्रन्थिविषक्रमींश्च। रोगान् हन्ति द्रढयति वपुर्वीर्य्यवृद्धिं विधत्ते तारुण्याढ्यं रमयति शतं योषितां नित्यमेव। दीर्घायुष्कान् जनयति सुतान् विक्रमैः सिंहतुल्यान् मृत्योर्मीतिं हरति सततं सेव्यमानं मृताभ्रम्।
वज्रकण्टक = पु० वज्रामव कठिनं कण्टकमस्य। १ स्नुहीवृक्षे जटा०। २ कोकिलाक्षे राजनि०।
वज्रचर्मन् = वज्रमिव कठिनं चर्म यस्य। गण्डके खड्गिनि राजनि०
वज्रतुण्ड = पु० वज्राकारं तुण्डमस्य। १ गणेशे २ गरुडे त्रिका० ३ मशके ४ गृध्रे च राजनि०।
वज्रदन्त = पु० वज्रमिव कठिनो दन्तोऽस्य। १ शूकरे २ मूषके च शब्दमा० वज्रदशनादयोऽप्यत्र।
वज्रद्रु = पु० वज्राकारो द्रुः।। स्नुहीवृक्षे अमरः। वज्रद्रुमादयोऽप्यत्र।
वज्रधर = पु० वज्रं धरति धृ–अच्। १ इन्द्रे हला० २ पेचके च वज्रभृदादयोऽप्यत्र।
वज्रनिर्घोष = पु० ६ त०। वज्रस्तनितशब्दादौ उणा० वज्रनिष्पेषोऽप्यत्र।
वज्रपाणि = पु० वज्रं पाणौ यस्य। १ इन्द्रे २ पेचके च त्रिका० वज्रहस्तादयोऽप्यत्र।
वज्रपुट = न० वज्रमिव कठिनं पुटमस्य। औषधपाचनपात्रभेदे
वज्रपुष्प = न० वज्रमिव पुष्पम्। तिलपुष्प अमरः।
वज्रपुष्पा = स्त्री वज्रमिव पुष्पं यस्याः। शतपुष्पायाम् राजनि०
वज्रमय = त्रि० वज्रात्मकम् मयट्। अतिकाठने स्त्रियां ङीप्।
वज्रमूली = स्त्री वज्रमिव कठिनं मूलमस्याः ङीप्। माषपण्याम् राजनि०।
वज्रवल्ली = स्त्री वज्रमिव कठिना वल्ली। (हाडजीडा) अस्थिसञ्चारलतायाम् हारा०।
वज्रवीजक = पु० वज्रमिव कठिनं वीजमस्य कप्। लताकरञ्जे राजनि०।
वज्रवृक्ष = पु० वज्रमिव कठिनो वृक्षः। सेहुण्डवृक्षे (सेओडा) राजनि०।
वज्रा = स्त्री वज–रक्। १ गुडूच्याम् २ स्नुह्याञ्च मेदि० ३ दुर्गायां देवीपु० ४ स्नुहीभेदे ङीषन्तोऽपि मेदि०।
वज्राकृति = पु० वज्रस्येवाकृतिरस्य। जिह्वामूलीयसूचके वर्णभेदे।
वज्राङ्गी = स्त्री “वज्रमिवाङ्गं यस्याः। गवेधुकाधान्यभेदे (गडगडे) शब्दच० २ लताभेदे (हाडजोडा) भावप्र०।
वज्रास्थिशृङ्खला = स्त्री वज्रमिवास्थ्नि शृङ्खला बन्धनं यस्याः। कोकिलाक्षवृक्षे राजनि०।
वज्रिन् = पु० वज्रमस्त्यस्य इनि। १ इन्द्रे अमरः २ पेचके च। ३ बुद्धे मेदि०।
वञ्चक = पुंस्त्री० वन्च–णिच्–ण्वुल्। १ शृगाले अमरः स्त्रियां ङीष् २ गृहबभ्रौ च। ३ खले ४ प्रतारके च त्रि० मेदि०।
वञ्चन = न० वन्च–ल्युट्। प्रतारणे अन्यथास्थितस्य वस्तुनोऽन्यथारूपेण कथनादिनाऽन्यमोहोत्पादने। युच्। वञ्चनाप्यत्र स्त्री।
वञ्चुक = त्रि० वन्च–उकञ्। वञ्चनाशीले शब्दर०।
वञ्जुल = पु० वन्च–उलच् पृषो० चस्य जः। १ तिनिशवृक्षे २ अशोकवृक्षे अमरः। ३ वेतसवृक्षे मेदि० ४ स्थलपद्मवृक्षे शब्दच०। ५ पक्षिभेदे च हला०। ६ बहुदुग्धायां गवि स्त्री हेमच०। ७ वक्रे त्रि० वञ्जुलप्रियः।
वञ्जुलद्रुम = पु० वञ्जुलाख्यः द्रुमः। अशोकवृक्षे राजनि०।
वञ्जुलप्रिय = पु० वञ्जुलं वक्रं प्रीणाति प्री–क। वेतसे रत्नमा०
वट = वेष्टने भागे च अद० चुरा० उभ० सक० सेट्। वटयति ते। अववटत् त।
वट = वेष्टने भ्वा० पर० सक० सेट्। वटति। अवटीत् अवाटीत् ववटतुः।
वट = विभाजने वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। वण्टयति ते वण्ठति। अववण्टत् त अवण्टीत्।
वट = कथने भ्वा० पर० द्विक० सेट् घटा०। वटयति अवाटीत् अवटीत्। ववटतुः।
वट = स्तेये लौ० पर० सक० सेट् इदित्। वण्टति अवण्टीत्।
वट = पु० वट–अच्। १ स्वनामख्याते वृक्षे अमरः २ शणनिर्मिततन्तौ च त्रि०। (वे~टे) मेदि०। वटवृक्षस्य रुद्ररूपत्वमश्वत्थशब्दे ५१७ पृ० उक्तम्। “वटः शीतो गुरुर्ग्राही कफपित्तव्रणापहः। वर्ण्यो विसर्पदाहघ्नः कषायो योनिदोषकृत्” भावप्र०। ३ साम्ये हेमच०। ४ कपर्दे ५ गोले ६ भक्ष्यभेदे (वडा) मेदि०।
वटक = पु० वट–क्वुन्। पिष्टकभेदे (वडा) भावप्र० कृतान्नशब्दे २१८२ पृ० दृश्यम्।
वटपत्र = पु० वटस्येव पत्रमस्य। १ सितार्जकवृक्षे राजनि०। २ पाषाणभेदीलतायां स्त्री ङीष भावप्र०। “वटपत्री कषायोष्णा योनिसूत्रगदापहा” ३ त्रिपुरमालीवृक्षे रत्नमा० टाप्।
वटर = पुंस्त्री० १ कुक्कुटे स्त्रियां ङीष्। २ शठे ३ चञ्चले ४ चौरे त्रि० शब्दर०।
वटी = स्त्री वट–अच् गौरा० ङीष्। १ रज्जौ अमरः गोलाकारे (वडी) पदार्थे भावप्र० स्वार्थे क ह्रस्वः। वटिकाप्यत्र “वटिका अथ कथ्यन्ते तन्नाम गुटिका वटी। मोदको वटिका पिण्डी गुडो वर्त्तिस्तथोच्यते। लेहवत् साध्यते वह्नौ गुडो वा शर्कराथ वा। गुग्गुलुर्वा क्षिपेत्तत्र चूर्णं तन्निर्मिता वटी।” तत्र वह्निसिद्धे गुडादौ। “कुर्य्यादवह्निसिद्धेन क्वचिद्गुग्गुलुना वटी”। द्रवेन मधुना वापि गुटिकां कारयेद्बुधः। सिता चतुर्गुणा देया वटीषु द्विगुणो गुडः। चूर्णे चूर्णसमः कार्य्यो गुग्गुलुर्मधु तत्समम्।” तत्समम् चूर्णसमम् “द्रवं तु द्विगुणं देयं मोदकेषु भिषग्वरैः”। द्रवं द्रवरूपद्रव्यम्। “कर्षप्रमाणं तन्मात्रा बलं दृष्ट्वा प्रयुज्यते”। बलमिति कालादेरप्युपलक्षणम्”। नदीवटाख्ये २ वृक्षभेदे राजनि०।
वटु = पु० वट–उ। १ माणवके २ ब्रह्मचारिणि च हेमच०।
वटुक = पु० वट–उक। १ वालके शब्दर० २ भैरवभेदे च तन्त्रम्
वठ = असहायकरणे भ्वा० आत्म० सक० सेट् इदित्। वण्ठते अवण्ठिष्ट।
वठ = सामर्थ्ये भ्वा० पर० अक० सेट्। वठति। अवाठीत अवठीत् ववठतुः।
वठर = पु० वठ–अरन्। १ मूर्खे उणादि० २ अम्बष्ठे हेमच० ३ शठे ४ मन्दे च त्रिका०।
वड = विनजने चुरा० उभ० सक० सेट् इदित्। वण्डयति ते अववण्डत् त।
वड = वेष्टने विभागे च भ्वा० आ० सक० सेट् इदित्। वण्डते अवण्डिष्ट।
वड = आरोहणे सौ० पल० सक० सेट्। वडति अवाडीत् अवडीत्। ववडतुः।
वडभि(भी) = स्त्री वड्यते कारुह्यतेऽत्र वड–अभि वा ङीप्। १ गृहचूडायाम् (सदुनि) अमरः २ प्रासादामस्यगृहे च (चिलेघर) रत्नमा०।
वडा = स्त्री वड–अच्। स्वनामख्याते पिष्टकभेदे शब्दच०।
वडिश = न० वड–इन् वडिं श्यति शो–क। मत्स्यधारणार्थे वक्रलौहकण्टकयुक्ते पदार्थे अमरः। “वडिशेन झषीरिवास्मान्” वृन्दावनचम्पूः।
वड्र = त्रि० वल–रक् लस्य डः। वृहति (वड) अमरः।
वण = शब्दे भ्वा० पर० सक० सेट्। वणति अवाणीत् अवणीत्। ऋदित् चङि वा ह्रस्वः।
वण्ट = विभाजने अद० चुरा० उभ० सक० सेट। वण्टयति ते अववण्टत् त।
वण्ट = पु० वण्ट–अच्। १ भागे २ दात्रादेः धारणस्थाने (वा~ठ) ३ अकृतोद्वाहे च। (डेङ्गो) शब्दमा०
वण्टक = पु० वण्ट–घञ् स्वार्थे क। १ भागे अमरः ण्वुल्। २ विभाजके त्रि०।
वण्ठ = त्रि० वण–ठ तस्य नेत्त्वम्। १ खर्वे (वे~टे)। २ कुन्तायुधे ३ अकृतोद्वाहे च मेदि०।
वण्ठर = पु० वठि–अरन्। १ स्थगिकारज्जौ २ कुक्कुरलाङ्गूले ३ करीरकोषे ४ तालस्य पल्लवे ५ पयोधरे च मेदि०। अय मौष्ठादिरपि तत्रार्थे।
वण्ड = त्रि० वडि–अच्। १ अकृतोद्वाहे २ हस्ताद्यङ्गविकले (वे~डे) ३ अनावृतमेढ्रे हेमच० ४ पांशुलायां स्त्रियां स्त्री मेदि०।
वण्डाल = पु० वडि–आलच्। १ शूरयुद्धे २ नौकायां खनित्रे च मेदि०।
वत् = अव्य० वा–डति। सादृश्ये अमरः वतिप्रत्ययान्तोऽप्यत्रार्थे अव्य० राजवत शूद्रवत् इत्यादि।
वत = अव्य० वन–क्त। १ खेदे २ अनुकम्पायाम् ३ हर्षे ४ विस्मये ५ आमन्त्रणे च अमरः।
वतंस = पु० अव + तन्स–घञ् अवाल्लोपः। १ कर्णभूपणभेदे २ शेखरे ३ शिरोभूषणे मेदि० ४ भूषणमात्रे च।
वतण्ड = पु० अव + तडि–अच् अवाल्लोपः। मुनिभेदे उणादि०।
वतोका = स्त्री अवगतं तोकं यस्याः प्रा० ब० अवाल्लोपः। अपत्यहीनायां स्त्रिवाम् अमरः।
वत्स = न० वस–स। १ वक्षःस्थले अमरः। २ गवादिशिशौ द्विव०। ३ वत्सरे पु० अमरः। ४ चन्द्रवंशे राजभेदे च पु०।
वत्सक = न० वत्स इव इदार्थे कन्। १ पुष्पकासीसे राजनि० २ कुटजे अमरः। ३ इन्द्रयवे च राजनि०।
वत्सकवीज = न० वत्सकस्य कुटजस्य वीजम्। इन्द्रयवे राजनि०
वत्सतर = पुंस्त्री० क्षुद्रः वत्सः अल्पत्वे तरप्। १ क्षुद्रवत्से अप्राप्तदमनकाले गवादौ अमरः स्त्रियां ङीप्। वत्सतरी
वत्सनाभ = पु० वत्सान् पशुशिशून् नभ्यति हिनस्ति नभअण् वत्सस्य नामिराकारेऽस्त्यस्य अच् वा। स्थावरे विषभेदे अमरः। तल्लक्षणादि भावप्र० उक्तं यथा
“सिन्धुवारसदृक्पत्रोवत्सनाभ्याकृतिस्तथा। यत् पार्श्वेन तरोर्वृद्धिर्वत्सनाभः स भाषितः। तस्य सामान्य गुणा यथा। “विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च। आग्नेय वातकफहृद्योगवाहि मदावहम्”। व्यवायि सकलकायव्यापनपूर्वकपाकगमनशीलम्। विकाशि ओजसःशोषणपूर्बकं सन्धिबन्धशिथिलीकरणशीलम्। आग्नेयम् अधिकाग्न्यंशं योगवाहि संसर्गगुणग्राहकम् मदावहं तमोगुणाधिक्येन बुद्धिविध्यंस- कम्। “तदेव युक्तियुक्तम् तु प्राणदायि रसायनम्। योगवाहि त्रिदोषघ्नं वृंहणं वीर्य्यवर्द्धनम्। ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात्। तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत्” भावप्र०।
वत्सपत्तन = न० वत्सस्य वत्सराजस्य पत्तनम्। उत्तरदेशस्थायां कौशाम्ब्यां नगर्य्याम् हेमच०।
वत्सपाल = पु० वत्सान् पालयति पाल–अण्। १ श्रीकृष्णे २ बलदेवे च।
वत्सर = पु० वस–सरन्। द्वादशमासात्मके काले अब्दशब्दे दृश्यम्।
वत्सराज = पु० चन्द्रवंश्ये नृपभेदे। “वत्सराजचरितम्” रत्ना०
वत्सरान्तक = पु० वत्सरस्यान्तं करोति अन्त + णिच्–ण्वुल्। फाल्गुनमासे राजनि० वत्सरस्य चैत्रादिकत्वात् फालगुनस्य तदन्तकालत्वात्तथात्वम्।
वत्सल = त्रि० वत्सं लाति ला–क। १ स्नेहयुक्ते २ वात्सल्ये रसे पु० ३ तद्वति त्रि० ४ विष्णौ पु० विष्णुस०।
वत्साक्षी = स्त्री वत्स्वस्याक्षीवाक्षि अस्य षच्समा०। गोडुम्बायाम् (गोमक) जटा०।
वत्सादनी = स्त्री वत्सैरद्यते प्रियत्वेन अद–ल्युट् ङीप्। १ गुडूच्याम् अमरः। वत्सः अदनमस्य। २ वृके पुंस्त्री० राजनि० स्त्रियां ङीष्।
वद = नुतौ अभिवादने सक० भ्वा० आ० सेट् इदित्। वन्दते अवन्दिष्ट।
वद = वाक्ये सन्देशे च भ्वा० उभ० सक० सेट्। वदति ते अवादीत् अवदिष्ट। ज्ञानयत्रादावात्मनेपदीत्यन्ये।
वद = वाचि भ्वा० पर० सक० सेट् यजा०। वदति अवादीत् उवाद ऊदतुः उदितः। भासने उपसान्त्वते आत्म० शास्त्रे वादते भासमानो वदतीत्यर्थः भृत्यानुपवदते सान्तयतीत्यर्थः। ज्ञानाद्युपाधौ च आत्म०। तत्र ज्ञाने शास्त्रे वदते। यत्रे क्षेत्रे वदते। विमतौ क्षेत्रे विवदन्ते। उपच्छन्दने उपवदते प्रार्थयते इत्यर्थः सि० कौ०। व्यक्तवाचां सम्भूयोच्चारणे आत्म० प्रवदन्ते विप्राः। अति + मर्य्यादातिक्रमेणोक्तौ प० अतिवदति। अनु + उक्तस्य पर्य्यायान्तरेण कथने अनुवादः अकर्मकात् व्यक्तवाचामनुवादे तु आत्म० अनुवदते कठःप्रलापस्य” सि० कौ० अव्यक्तवाचि तु प० अनुवदति वीणा सकर्मकात्तु पर० उक्तमनुवदति। विरुद्धोक्तौ व्यक्तायां वाचि वा आत्म० विप्रवदन्ते न्ति वैद्याः।
अप + निन्दायाम्। अपवादः। विशेषविधाने च अपवादः विशेषविधिः
परि + निन्दात्रां मिथ्यादूषणे च पर०। परिवदति वरिवादः।
प्रति + विरुद्धतयोक्तौ पर० प्रतिवदति प्रतिवादः प्रतिवादी प्रत्युत्तरोक्तौ च। वि + विरुद्धोक्तौ पक्षप्रतिपक्षग्रहणेनोक्तौ आत्म० विवदन्ते पण्डिताः वादिप्रतिवादिनश्च।
वद = वाचि सन्देशे च सक० चुरा० उभ० सेट्। वादयति ते अवीवदत्। अभि + प्रणामे।
वद = त्रि० वदति वद–अच्। वक्तरि अमरः।
वदन = न० उद्यतेऽनेन वद–करणे ल्युट्। १ मुखे अमरः। २ वचनेन्द्रिये भावे ल्युट्। २ कथने न०।
वदा(द)न्य = पु० वद–अन्य पृषो० वा दीर्घः। भूरिदानशीले अमरः।
वदाम = न० वद–आमन्। (वादाम) वातादे फलभेदे भावप्र०। “वातादो वातवैरो स्यान्नेत्रोपमफलस्तथा। वातादः उष्णः सुस्निग्धो वातघ्नः शुक्रकृद्गुरुः। वातादमज्जा मधुरो वृष्यः पित्तानिलापहः। स्निग्धोष्णः कफहृत् श्रेष्ठो रक्तपित्तविकारिणाम्” भावप्र०।
वदाल = पुंस्त्री० वद–आल। पाठोनमत्स्ये (वोयाल) त्रिका० स्त्रियां ङीष्। स्वार्थे क तत्रार्थे।
वदावद = पु० अत्यन्तं वदति वद–अच् नि०। बहुवक्तरि अमरः।
वधू = स्त्री उह्यते पितृगेहात् पतिगृहं वह–ऊ धुकच्। १ भार्य्यायाम् २ नवोढायां ३ पुत्रजायायाम् अमरः। ४ शठ्याञ्च मेदि०। अस्य ओष्ट्यादित्वमित्यन्ये
वधूजन = पु० कर्म०। नारीजने त्रिका०।
वधूटी = स्त्री अल्पा वधूः टी। अल्पवयस्कायाम् गार्य्यां “गोपवधूटी दुकूलेति” भाषापरि०।
वन = सेवने सक० शब्दे अक० भ्वा० पर० सेट्। वनति अवानीत् अवनीत् ववनतुः।
वन = व्यापारे भ्वा० पर० सक० सेट्। वनति अवानीत् अवनीत्। ज्वला० वनः वानः। घटा० वनयति।
वन = याचने द्विक० तना० आ० सेट् क्त्वा वेट्। वनुते अवनिष्ट।
वन = उपकारे उपतापे च सक० शब्दे अक० वा चु० उभ० पक्षे भ्वा० पर० सेट्। वानयति ते वनति। अवीवनत् त। अवनीत् अवानीत्।
वन = न० स्त्री वन–अच्। १ वृक्षसमुदायात्मके अरण्ये अमरः स्त्रोत्वे ङीष्। “सुवनी सम्प्रषदत्पिकापि का” नैष०। २ जले ३ निवासे ४ आलये च मेदि०। ५ प्रस्तरणे हेमच०।
वनकदली = स्त्री ७ त०। काष्ठकदल्याम् राजनि०।
वनकन्द = पु० वनजातः कन्दः। अरण्यजाते शूरणे राजनि०
वनकार्पासी = स्त्री वनोद्भवा कार्पासी। (वनकापास) क्षुपभेदे रत्नमा०।
वनकोलि = पु० वनोद्भवः कोलिः। (वमकुल) वृक्षे।
वनचन्दन = न० वनजातं चन्दनम् शा० क०। १ अगुरुचन्दने २ देवदारुणि च विश्वः।
वनचन्द्रिका = स्त्री वने चन्द्रिकेव। मल्लिकायाम् राजनि०।
वनचम्पक = पु० ७ त०। (वनचा~पा) चम्पकभेदे राजनि०।
वनच्छाग = पु० वने जातश्छागः। (वनछागल) १ छागभेदे राजनि०। वने छाग इव। २ शूकरे पुंस्त्री० शब्दमा० स्त्रियां ङीष्।
वनज = न० वने जलेऽरण्ये वा जायते जन–ड। १ पद्मे २ मुस्तकभेदे ३ वनशूरणे पु० राजनि० ४ गजे विश्वः। ५ अश्वगन्धायां ६ गन्धपत्त्रायां ७ वनकार्पास्यां ८ वनोपोदक्याम् ९ मिश्रेयायां १० ऐन्द्रे स्त्री राजनि०। ११ मुद्रपर्ण्यां च स्त्री मेदि०। १२ वनजातमात्रे त्रि०।
वनतिक्त = पु० वनेषु वनजातेषु मध्ये तिक्तः। १ हरीतक्याम् शब्दमा०। २ पाठायां (आकनादि) च स्त्री रत्नमा०। स्वार्थे क तत्रैव अमरः।
वनदीप = पु० वनस्य दोप इव। वनचम्पके राजनि०।
वनपल्लव = पु० वनमिव निविड पल्लवोऽस्य। शोभाञ्जने जटा०।
वनपुष्पा = स्त्री वनमिव सहत पुष्पं यस्याः। शतपुष्पायाम् राजनि०।
वनपूरक = पु० पूरकः वीजपूरकः पूर्वपदलोपः वनोद्भवः पूरकः। वनवीजपूजरे राजनि०।
वनप्रिय = पुंस्त्री० वनं वनस्थं प्रीणाति प्री–क। १ कोकिले स्त्री मेदि० स्त्रियां योपधत्वात् टाप् २ अरण्यप्रियमात्रे त्रि०। ३ त्वचे न० राजनि०।
वनभुज = पु० वनं भुङ्क्ते भुज–क्विप्। १ ऋषभे २ तन्नामौषधे शब्दच०।
वनमक्षिका = स्त्री वनोद्भवा मक्षिका। दंशे कीटभेदे (डा~श) अमरः।
वनमल्ली = स्त्री वनोद्भवा मल्ली। अरण्यमल्लिकायाम् शब्दर०।
वनमाला = स्त्री “आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला। मध्ये स्थूलकदम्बाद्या वनमालेति कीर्त्तिता” इत्युक्तायां मालायाम्।
वनमालिन् = पु० वनमालाऽस्त्यस्य इनि। १ श्रीकृष्णे अमरः २ वाराहीलतायाम् स्त्री मेदि० ङीप् ३ द्वारकापुर्य्यां स्त्री त्रिका०।
वनमुद्ग = पु० वनोद्भवः मुद्गः। १ मुद्गभेदे (मुगानि) अमरः। २ मुद्गपर्ण्यां स्त्री राजनि० गौरा० ङीष्।
वनमूर्द्धजा = स्त्री वनस्य मूर्द्धजं शृङ्गमिवास्त्यस्याः अच्। (काकडाशिङ्गा) कर्कटशृङ्गाम् राजनि०।
वनमोचा = स्त्री वनोद्भवा मोचा। काष्ठकदल्याम् राजनि०।
वनलक्ष्मी = स्त्री वनस्य लक्ष्मीरिव तदधिष्ठानत्वात्। कदल्याम राजनि०।
वनवर्वर = पु० वनोद्भवः वर्वरः। कृष्णार्जके। (वनवावुइ) वृक्षे राजनि०।
वनवासिन् = पु० वनं वासयति सुरभीकरोति वासि–णिनि। १ मुष्ककवृक्षे २ वाराहीकन्दे ३ शाल्मलीकन्दे ४ नीलमहिषकन्दे ५ ऋषभनामौषधे च राजनि०। वने वसति वस–णिनि। ६ वनवासकर्त्तरि त्रि० स्त्रियां ङीष्।
वनवीज = पु० वीजो वीजपूरकः उत्तरपदलोपः ७ त०। वनवीजपूरे राजनि०।
वनवृन्ताकी = स्त्री वनस्य वृन्ताकी वार्त्ताकी। वृहत्याम् राजनि०।
वनव्रीहि = पु० वनस्य व्रीहिः। नीवारे (उडिधान) हेमच०।
वनशूकरी = स्त्री वनस्य शूकरीव रामगत्वात्। १ कपिकच्छ्वाम् राजनि०। ७ त०। २ वनवराहे पु० ३ वनशूकरयोषिति स्त्री।
वनशृङ्गाट = पु० वनस्य शृङाट इव कण्टकावृतत्वात्। गोक्षुरे अमरः। स्वार्थे क। तत्रैवार्थे।
वनशोभन = न० वनं जलं शोभयति शुभ–णिच ण्वु। पद्मे शब्दच०।
वनसङ्कट = पु० सम् + कट–अच् ६ त०। मसूरे शब्दच०।
वनसरोजिनी = स्त्री वनस्य सरोजिनी पद्मिनीव शोभाकर त्वात्। वनकार्पास्याम् शब्दर०।
वनस्पति = पु० वनस्य पतिः नि० सुट्। पुष्पं विना जायमानफले १ अश्वत्थादौ वृक्षे अमरः। २ वृक्षमात्रे मेदि०।
वनहास = पु० वनस्य हास इव प्रकाशकत्वात्। काशतृणे राजनि०।
वनाखु = पु० वने आखुरिव। शशके त्रिका०।
वनाखुक = पु० अव + नख–उकञ् अवाल्लोपः। मुद्गे त्रिका०।
वनाटु = पु० वनमटति अट–उन्। १ वर्वणायां नीलमक्षिकायाञ्च शब्दच०। २ अपानदेशे उज्ज्व०।
वनामल = पु० वनस्यामल आमलक इव। करमर्दे शब्दमा०।
वनाम्र = पु० वनस्य आम्र इवः कोशाम्रे राजनि०।
वनायु = पु० वन–आयुच्। प्रशस्तघोटकोद्भवदेशभेदे (आरव) राजनि०।
वनायुज = पु० वनायुदेशे जायते जन–ड। प्रशस्तघोटके (आरवि) शब्दर०।
वनारिष्टा = स्त्री वनस्य न रिष्टं यस्याः। वनहरिद्रायाम् राजनि०।
वनालिका = स्त्री वनमलति मूषयति अल–ण्वुल्। हस्तिशुण्डीलतायाम् हारा०।
वनि = पु० वन–इन्। १ अग्नौ सि० कौ० २ राशौ उज्ज्वल०। ३ याचने पु० ४ याचके त्रि०।
वनिता = स्त्री वन–याचने कर्मणि बा० इत। १ योषिति २ अनुरक्तायां स्त्रियाञ्च मेदि०।
वनिन् = पु० वनम् आश्रयतयाऽस्त्यस्य इनि। वानप्रस्थाश्रमयुक्ते
वनिष्णु = त्रि० वन–इष्णुच्। याचके।
वनीपक = वनीयक + पृषो० यस्य पः। याचके उज्ज्वल०। “कृपण इव नवनीपकोपसेवितपर्वतः श्लेषात्” पमध्यता च
वनीयक = स्त्री वन–इन् आत्मनो वनिं याचनमिच्छति क्यच् ण्वुल्। याचके अमरः पृषो० यलोपः। वनीकोऽप्यत्र सारसुन्दरी।
वनेक्षुद्रा = स्त्री ७ त० अलुक्स०। करञ्जे रत्नमा०।
वनेचर = त्रि० वने चरति चर–ट अलुक्स०। अरण्यचारिणि व्याधादौ स्त्रियां ङीप्।
वनेसर्ज = पु० सृजति–सृज–अच् ७ त० अलुक्स०। असनवृक्षे रत्नमा०।
वनोद्भवा = स्त्री वन एव उद्भवति उद् + भू–अच् ७ त०। १ वनकार्पास्याम् रत्नमा० २ वनजाते त्रि०।
वनौकस् = पु० वनमेव ओकः स्थानं यस्य। १ वानरे अमरः। २ वनवासिनि त्रि०।
वन्च = प्रतारणे भ्वा० पर० सक० सेट् क्त्वा वेट्। वञ्चति अवञ्चीत्
वन्दन = न० वदि–ल्युट्। १ स्तवने २ प्रणामे च। युच्। वन्दनाप्यत्र स्त्री। ३ वदने न० शब्दच०।
वन्दनीय = त्रि० वदि–अनीयर्। १ नमनीये २ स्तवनीये च ३ पीतभृङ्गराजे पु० राजनि०। ४ गोरोचनायां स्त्री त्रिका०।
वन्दा = स्त्री वदि–कर्मणि घञ्। (परगाछा) लताभेदे अमरः २ भिक्षुक्यां ३ लताभेदे च मेदि०।
वन्दाका = स्त्री वदि–आकन्। वन्दायाम् हट्टच०। गौरा० ङीष् तत्रार्थे स्त्री शब्दर०। तत्रार्थे पु० भावप्र० “वन्दाकः स्याद्धिमस्तिक्तः कषायो मधुरे रसे। मङ्गल्यः कफवातास्ररक्षोव्रणविषापहः”।
वन्दारु = त्रि० वदि–आरु। वन्दनशीले शब्दर०।
वन्दि(न्दी) = स्त्री वदि–इन् वा ङीप्। १ काराबद्धमनुष्यादौ (कएदी) शब्दर० २ बन्दने ३ स्तुतौ च। ४ सोपानके उणा०।
वन्दिग्राह = पु० वन्दिमिव–गृह्णाति ग्रह–ण। बलावष्टम्भेन घातके (डाकाइत) मिता०। “वन्दिग्राहांस्तथा वाजिकुञ्जराणां च हारिणः” मनुः।
वन्दिपाठ = पु० ६ त०। स्तुतिग्रन्थे त्रिका०।
वन्दिन् = पु० वन्दते स्तौति वदि–णिनि। राजादेः १ स्तुतिपाठके अमरः।
वन्द्य = त्रि० वदि यत्। १ वन्दनीये। २ गोरोचनायाम् स्त्री भावप्र० ३ वन्दायां शब्दच०।
वन्द्र = न० वन्द–रन्। कल्याणे सि० कौ०। २ पूजके त्रि० उणादि०
वन्य = न० वने भवः यत्। १ त्वचे (दारचिनि) राजनि०। २ वनशूरणे ३ वाराहीकन्दे ४ देवनले पु० राजनि०। ५ वनजातमात्रे त्रि०। ६ मुद्गपर्ण्यां ७ गोपालकर्कट्यां ८ गुञ्जायां ९ मिश्रेयायां १० भद्रमुस्तायां ११ नन्धपत्रायां स्त्री राजनि०। वनानामरण्यानां जलानां वा समूहः यत्। १३ जलसमूहे १४ वनसमूहे च स्त्री मेदि०।
वप = वीजवपने तन्तुवयने मुण्डने च सक० भ्वा० उभ० अनिट् यजा०। वपति ते अवाप्सीत् अवप्त उवाप ऊपतुः। ड्वित् उप्त्रिमः। पित्रादिपिण्डदाने “पिण्डनिर्वपनं चरेत्” स्मृतिः।
वपन = न० वप–ल्युट्। १ केशमुण्डने २ वीजाधाने ३ तन्त्वाधाने च मेदि०। “प्रयागे भास्करक्षेत्रे पितृमातृवियोगतः। आधाने सोमपाने च वपनं पञ्चसु स्मृतम्” प्रा० त०।
वपनी = स्त्री उप्यतेऽनया अत्र वा वप–ल्युट् ङीप्। १ नापितास्त्रे २ तन्तुशालायां (तान्तवर) हेमच० २ तन्तुवयनयन्त्रभेदे (माकु) च।
वपा = स्त्री वप–अच्। १ मेदसि (चरवि) “वपाया हविषः” इति श्रुतिः। ३ छिद्रे च अमरः।
वपुन = पु० वप–उनच्। देवतायां शब्दर०।
वपुषा = स्त्री वप–वा उषन्। हवुषायाम् भावप्र०।
वपुष्टमा = स्त्री अतिशयेन वपुः प्रशस्ताकृतिः तमप् षत्वम्। १ पद्मचारिण्याम् लतायाम् जटा०। २ काशीपतिकन्यायां ३ जनमेजयपत्न्यां च।
वपुस् = न० उप्यन्ते देहान्तरभोगसाधनवीजीभूतानि कमाण्यत्र वप–उसि। १ शरीरे अमरः। २ प्रशस्ताकारे च मेदि०।
वप्तृ = पु० वप–तृच्। १ जनके २ कृषीवले च मेदि० ३ वीजादिवापके त्रि०।
वप्र = पुंन० उप्यतेऽत्र रन्। १ दुर्गनगरादौ परिखाया उद्धृतमृत्तिकास्तूपे अमरः। २ क्षेत्रे ३ रेणौ ४ तटे मेदि०। ५ सीसके न० हेमच०। ६ जनके ७ प्राचीरे पु० विश्वः। ८ प्रजापतौ च पु० संक्षिप्तसा०। ९ मञ्जिष्ठायां स्त्री राजनि०।
वप्रि = पु० वप–रि १ क्षेत्रे केदारे सि० कौ०। २ दुर्गतौ ३ समुद्रे च संक्षिप्तसा०।
वभ्र = गतौ भ्वा० पर० सक० सेट्। वभ्रति अवभ्रीत्।
वम = उद्गारे भ्वा० पर० सक० सेट्। वमति अवमीत्। ट्वित् वमथुः। ज्वला० वमः वामः। वमयति वामयति उपसृष्टस्य नित्यं ह्रस्वः। फणा० वेमतुः ववमतुः। उदित् वमित्वा वान्त्वा वान्तः।
वमथु = पु० वम–अथुच्। वमने उद्गिरणे अमरकोषः।
वमन = न० वम ल्युट्। १ मर्दने २ छर्दने मेदि० ३ आहुतौ विश्वः ४ निःसारणे च “स्वर्गाभिष्यन्दवमनम्” कुमारः। ५ शरो पु०। ६ जलौकायां स्त्री राजनि० गौरा० ङीष्।
वमि = स्त्री वम–इन्। १ छर्दौ छर्दिशब्दे २९८० पृ० दृश्यम्। २ अग्नौ पु० मेदि० ३ धूर्त्ते त्रि० शब्दर०।
वमित = पु० वम णिच् क्त। कृतोद्गारे।
वय = गतौ भ्वा० आ० सक० सेट्। वयते अवयिष्ट। अवयि(ढ्व)ध्वम्।
वयस् = न० अज–असुन् वीमावः। १ विहगे २ वाल्याद्यवस्थायाम् अमरः “वयोऽतिपातोद्गतवातेति” नैष०। ३ यौवने च विश्वः।
वय(यः)स्थ = पुंस्त्री० वयसि यौवने तिष्ठति स्था–क खर्परे शरि वा विसर्गलोपः। १ तरुणे २ विभीतक्यां स्त्री अमरः। “वयस्था नागरासङ्गात्” वैद्यकम्। ३ आमलक्यां ४ हरीतक्यां ५ सोमवल्लर्य्यां स्त्री अमरः। ६ गुडूच्यां ७ सूक्ष्मैलायां ८ काकोल्याम् ९ आलौ स्त्री मेदि०। १० शाल्मलौ स्त्री हेमच०। ११ क्षीरकाकोल्याम् भावप्र० १२ अत्यल्पपर्ण्यां मत्स्याक्ष्यां १४ युवतौ च स्त्री राजनि०।
वयस्य = पु० वयसा तुल्यः यत्। १ समानवयस्के अमरः। २ सख्यां स्त्री अमरः।
वयुन = न० वय–उनन्। १ ज्ञाने भाग० १०। ८० श्रीधरः। २ देवागारे त्रिका०। देवागारे पु० उणासू०।
वयोधस = पु० वयो यौवनं धत्ते धा–असुन्। तरुणे उणा०।
वयोरङ्ग = न० वयसा रङमिव। लीसके राजनि।
***