वाचस्पत्यम्
ला to ल्व
links:
Menu अ–ह
Prev रे–लह
Next व–वय
ला
लाल
लिङ्गक
ली
ले
लेप
लोप
लोह
लोहा
UpasanaYoga
.org

ला = आदाने अदा० पर० सक० अनिट्। लाति अलासीत्।

लाक्षणिक = त्रि० लक्षणया बोधयति ठक्। १ लक्षणया अर्थबोधके शब्दे। अस्त्यर्थे ठन् स्वार्थे अण्। २ लक्षणयुक्ते च।

लाक्षण्य = त्रि० लक्षणं वेत्ति ञ्य। १ शुभाशुभलक्षणज्ञे। अस्त्यर्थे बा० ञ्य। २ लक्षणयुक्ते।

लाक्षा = स्त्री लक्ष्यतेऽनया लक्ष–अच् पृषो० वृद्धिः। (ला)ख्याते पदार्थे अमरः। २ रञ्जनद्रव्ये।

लाक्षातरु = पु० लाक्षायोनिस्तरुः। (ला) द्रव्यसाधने वृक्षे शब्दच०। लाक्षावृक्षादयोऽप्यत्र।

लाक्षादितैल = न० लाक्षादिभिः पक्वं तैलम् शा० त०। वैद्यकप्रसिद्धे तैलभेदे तच्च द्विविधं स्वल्पं वृहच्चेतिभेदात् तत्र स्वल्पं यथा “लाक्षा हरिद्रा मञ्जिष्ठाकल्कैस्तैलं विपाचितम्। तद्गुणेनारनालेन दाहशीतज्वरापहम्”। वृहत् यथा “लाक्षारसाढके प्रस्थं तैलस्य विपचेत् भिषक्। मस्त्वाढकसमायुक्तं पिष्ट्वा चात्र समावपेत्। शतपुष्पां हरिद्राञ्च मूर्वां कुष्ठं हरेणुकाम्। कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु च। मुस्तकं चन्दनं चैव पृथगक्षसमानकैः। द्रव्यैरेतैश्च संसिद्धमभ्यङ्गात् मारुतापहम्। विषमाख्यान् ज्वरान् सर्वानाश्वेवं प्रशमं नयेत्। कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम्। त्रिकपृष्ठग्रहं शूलं गात्राणां स्फुटनं तथा। पापालक्ष्मीप्रशमनं सर्वग्रहनिवारणम्। अश्विभ्यां निर्मितं सम्यक् तैलं लाक्षादिकं महत्” मुखबोधः।

लाक्षाप्रसाद = पु० लाक्षायां पसादो यस्य। पट्टिकालोध्रे राजनि०

लाक्षाप्रसाधन = न० प्रसाध्यते भूष्यतेऽनेन ल्युट् लाक्षा तद्रस एव प्रसाधनमस्य। २ रक्तलोध्रे अमरः।

लाक्षारस = पु० लाक्षानिःसृतो रसः द्रवः। अलक्तकरसे।

लाख = शोषे भूषणे दाने वारणे च सक० सामर्थ्ये अक० भ्वा० पर० सेट्। लाखति अलाखीत् ऋदित् चङि न ह्रस्वः।

लाघ = सामर्थ्ये भ्वा० आ० अक० सेट्। लाघते अलाघिष्ट। ऋदित् चङि न ह्रस्वः।

लाघव = न० लघोर्भावः अण्। १ लघुत्वे आरोग्ये च राजनि०

लाङ्गल = न० लगि–कलच् पृषो० वृद्धिः। स्वनामख्याते १ भूमिकर्षके पदार्थे अमरः। २ लिङ्गे त्रिका० ३ पुष्पभेदे ४ तालवृक्षे ५ गृहदारुणि च मेदि०।

लाङ्गलदण्ड = पु० ६ त०। लाङ्गलमध्यस्थे काष्ठमये दण्ड (ईश) अमरः।

लाङ्गलपद्धति = स्त्री लाङ्गलखाता पद्धतिः रेखा। सीतायाम् लाङ्गलखातक्षेत्रस्थभूमिरेखायाम् अमरः।

लाङ्गलिकी = स्त्री लाङ्गलमिवाकारेऽस्त्यस्याः ठन् गौ० ङीष् (विषलाङ्गला) १ वृक्षभेदे अमरः। तत्र भवः अण् २ विषभेदे पु० हेमच०।

लाङ्गलिन् = पु० लाङ्गलं प्रहरणसाधनत्वेनास्त्यस्य इनि। १ बलरामे शब्दर०। लाङ्गलदण्ड इव दीर्घः आकारोऽस्त्यस्य इनि। ३ नारिकेलवृक्षे अमरः।

लाङ्गली = स्त्री लाङ्गलाकारः पुष्पमस्त्यस्याः अच् गौरा० ङीष् (का~चडा) शाकमेदे अमरः।

लाङ्गूल = न० लगि–ऊलच् पृषो०। पशूनां पाश्चाद्वर्त्तिनि रोम गुच्छे सारसुन्दरी २ शेफे मेदि० ३ कुशूले सि० कौ०।

लाङ्गूलिका = स्त्री लाङ्गूलाकारोऽस्त्यस्याः ठन्। पृश्निपर्ण्याम् राजनि०।

लाङ्गूलिन् = पु० लाङ्गूलवस्त्यस्य इनि। १ वानरे शब्दच० तदाकारपुष्पयुते २ ऋषभौषधे च राजनि०।

लाछ = अङ्कने भ्वा० पर० सक० सेट इदित्। लाञ्छति अलाञ्छीत्।

लाज = भर्त्सने भ्वा० पर० सक० सेट्। लाजति अलाजीत्। इदि दयप्ययम्। लाञ्जति जलाञ्जीत्।

लाज = न० लाज–अच्। १ उशीरे २ आर्द्रतण्डुले पु० मेदि०। ३ भृष्टधान्ये (खै) पु० ब० व० अमरः। स्त्रीत्वमप्यत्र मेदि०।

लाञ्छन = न० लाञ्छ्यते लाछि–कर्मणि ल्युट्। १ चिह्ने २ नामनि च मेदि० भावे ल्युट्। ३ अङ्कने।

लाट = पु० लट–मंज्ञायां घञ्। १ देशभेदे २ वस्त्रे अमरः ३ जीर्णालङ्कारे शब्दर०। ४ विदग्धपुरुषे च सा० द०।

लाटानुप्रास = पु० अलङ्कारोक्ते शब्दालङ्कारभेदे अनुप्रासशब्दे १७९ पृ० अलङ्कारशब्दे च ३८९ पृ० दृश्यम्।

लाड = क्षेपे अद० चु० उभ० सक० सेट्। लाडयति ते।

लाभ = पु० लभ्यते लभ–लर्मणि घञ्। १ मूलधनादितोऽधिके लम्यमाने धने अमरः। भावे घञ्। २ प्राप्तौ।

लामज्जक = न० लायते ला–क्विप् लाः आदीयमानः मज्जा सारो यस्य कप्। वीरणमूले अमरः।

लालन = न० चु० लल–ल्युट्। स्नेहपूर्वकपालने।

लालसा = स्त्री लस–स्पृहायां यङ् लुक् भाव अ। १ अतिशयेच्छायाम् अमरः। २ गर्भिणीदोहदे हेमच०। ३ याच्ञायां औत्सुक्ये च मेदि०। कर्त्तरि अच्। ५ लोले त्रि० हेमच०।

लाला = स्त्री चु० लल–णिच् अच्–टाप्। सुखजजललवे अमरः

लालाटिक = त्रि० ललाटं प्रभोर्माग्यं पश्यति ठञ्। १ प्रभुभाग्यापजीविनि कार्य्यासमर्थे अमरः। ललाटात् ललाटस्थसाग्यात् आगतः तस्येदं वा ठण्। २ भाग्याधीने त्रि० “प्राप्तिस्तु लालाटिकी” इत्युद्भटः। ३ ललाटसम्बन्धिनि त्रि०।

लालाविष = पु० लालायां विषमस्य। १ लूतादौ कीटे हेमच० कीटशब्दे २०५९ पृ० दृश्यम्।

लालास्राव = लालां स्रावयति स्रु–णिच्–अण्। लूताकीटे हेमच०।

लालित्य = न० ललितस्य भावः ष्यञ्। १ सौन्दर्प्ये २ मनोहरत्वे “नैषधे पदलालित्यम्” इत्युद्भटः।

लाव = पुंस्त्री० लू–कर्त्तरि संज्ञायां घञ्। १ पक्षिभेदे अमरः। स्त्रियां ङीष्। स्वार्थे क। तत्रैव भावे घञ्। २ छेदने।

लावण = न० लवणे संस्कृतम् अण्। लवणसंस्कृते औषधादौ

लावणिक = न० लवणे संस्कृतम् ठण्। १ लवणे संस्कृतौषधादौ हेमच०। लवणं पण्यमस्य ठण्। २ लवणविक्रयोपजीविनि वणिग्भेदे च।

लावण्य = न० लबणस्य भावः ष्यञ्। लवणत्वे “मुक्ताफलेष छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते” उज्ज्वलम स्युक्ते देहसौन्दर्य्यभेदे च।

लासिका = स्त्री लस–ण्वुल्। नर्त्तक्याम् अमरः। पृषो० लासकीत्यप्यत्र तट्टीका।

लास्य = न० लस–ण्यत्। १ नृत्ये अमरः। २ वाद्यनृत्यगीतित्रिके मेदि०। “स्त्रीनृत्यं लास्यमुच्यते” इत्युक्ते ३ स्त्रीतृत्ये च। स्वार्थे अ। तत्रैव।

लिकुच = पु० लकुच–पृषो० इत्त्वम्। (मा~दार) वृक्षे अमरः।

लिक्षा(क्का) = स्त्री लिश–गतौ क्स षडकषत्वानि पृषो० वा क्वश्च। १ यूकाण्डे शब्दर०। “जालान्तरगते भानौ यच्चाणु दृश्यते रजः। तैश्चतुर्भिर्भवेल्लिक्षा” २ इत्युक्ते परिमाणभेदे च।

लिख = लेखने तुदा० पर० सक० सेट्। लिखति अलेखीत्। कुटादिरप्ययम् तेन लिखनमिति सिद्धम्।

लिख = गतौ भ्वा० पर० सक० सेट् इदित्। लिङ्खति अलिङ्खीत्

लिखन = न० कु० लिख–भावादौ ल्युट्! १ लेखने २ लिपौ च

लिखित = न० लिख–भावे क्त। १ लेखने। आधारे क्त। २ लिपौ अमरः। विवादे अर्थसाधके ३ पत्रे च “प्रमाणं लिखितं भक्तिः” स्मृतिः। लेख्यशब्दे दृश्यम्। ४ स्मृतिकारके शङ्खमुनिभ्रातरि मुनिभेदे पु०।

लिग = गतौ भ्वा० पर० सक० सेट् इदित्। लिङ्गति अलिङ्गीत्।

लिग = चित्रीकरणे चुरा० उभ० सक० सेट् इदित्। लिङ्गयति ते अलिलिङ्गत् त।

लिङ्ग = पु० लिगि–अच्। १ चिह्ने २ पुसोऽसाधारणचिह्ने उपस्थेन्द्रिये अमरः। ३ अनुमानसाधने हेतौ ४ सांख्योक्ते प्रधाने तस्यात्मविवेकहेतुत्वात् तथात्वम्। ५ शिवमूर्त्तिभेदे मेदि० ६ व्याप्ये ७ व्यक्ते शब्दानष्ठे पदसाधुताप्रयोजके ८ धर्मभेदे त्रिका० ९ अर्थप्रकाशनसामर्थ्ये च। “क्षमता च लिङ्गमिति” मीसांसकाः।

शब्दधर्भलिङ्गं चास्माभिः शबदार्थरत्ने निरूपितं यथा “लिङ्गत्वञ्च प्राकृतगुणगतावस्थात्मको धर्म एव तद्विशेषश्च पुंनपुंसकत्वादिः। तथा हि सर्वेषां त्रिगुणप्रकृतिकार्य्यतया शब्दानामपि तथात्वेन गुणगतविशेषाच्छस्देषु लिङ्गविशेष इति कल्प्यते स च विशेषः शास्त्रे इत्थमभ्यधायि। “विकृतसत्त्वादीनां तुल्यरूपेणावस्थानात् नपुंसकत्वं सत्त्वस्याधिक्ये पुंस्त्वम् अल्पत्वे(रज आधिक्ये) स्त्री त्वमिति”। एवञ्च लिप्तस्य शब्दधर्मत्वेऽपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेऽपि साक्षात् तत्पारतन्त्र्येण वा सर्वत्र तस्य विशेषणत्वम् शाब्दबोधे शब्दभानस्येष्टत्वाच्च शब्दस्य नामार्थतावत् तद्गतलिङ्गस्यापि नांमार्थतौचित्यात् “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते” इति हर्य्युक्तेः “शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा। नो चेत् श्रोत्रादिभिः सिद्धोऽप्यसावर्थेऽवभासते” हर्य्युक्तेश्च शब्दानां नामार्थतावगतेः। तथा प्रातिपदिकार्थाभेदविवक्षायां तु श्रोत्रादिभिरेव सिद्धः ज्ञातः सन् अर्थे प्रकारतया भासते इति तदर्थः। युक्तञ्चैतत् पुंलिङ्गः शब्द इति व्यवहारात् “स्वमोर्नपुंसकादिति” पा० सूत्रे शब्दस्यैव नपुंसकत्वव्यपदेशात् दारानित्यादौ पुंस्त्वान्वयबाधाच्च लिङ्गस्य शब्दधर्मत्वमन्यथैतेषु लिङ्गाद्यनन्वयापत्तेर्व्यवहारसूत्रनिर्देशासङ्गत्यापत्तेश्च। तथा अर्थभेदाच्छब्दभेदवत् लिङ्गभेदादपि शब्दभेद इति कल्प्यते प्रागुक्तवर्मविशेषरूपभेदकसद्भावात्। उक्तञ्च भाष्ये “एकार्थे शब्दान्यत्वाद् दृष्टं लिङ्गान्यत्वमिति”। एवञ्च तटादिशब्दानामनेकलिङ्गत्वव्यहारः समानानुपूर्वीकत्वेनैव वस्तुतस्तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति दिक्”।

अर्थप्रकाशनसामर्थ्यरूपलिङ्गन्तु द्वितीयादिश्रवणे तत्तन्मन्त्रपकाश्यार्थे विनियोगसाधकं यथा “बर्हिर्देवसदनं दानीति अत्र दानीति पदस्य दा लवने इत्यस्माद्धातो सिद्धस्य च्छेदनप्रकाशनसामर्थ्यात् वर्हिरित्यस्य चास्तृतदर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमन्त्रस्य विनियोगोऽवगम्यते” तत्त्वबोध०। प्रत्यक्षद्वितीयाश्रवणे तु लैङ्गिकविनियोगस्त्यज्यते “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याना समवाये पारदौर्बल्यमर्थविप्रकर्षात्” जै० सू०। यथा “ऐन्द्र्या गार्हपत्यमुप्रतिष्ठते” श्रुतिः ऐन्द्री च ऋक् “कदाचन स्तरोरसि नेन्द्र! दासुषे” अस्य मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यम् तदेतत् निरूपितं तत्त्वबोधन्याम् “तथा हि गार्हपत्यमिति द्वितीयारूपप्रत्यक्षश्रुत्या गार्हपत्याग्निगतं क्रियाजन्यप्रीतिफलाश्रययत्वरूपं कर्मत्वं साक्षाद्बोधितं तथा च तस्य देवतात्वं श्रुतिप्राप्तं क्रियाजन्यप्रीतिभागित्वेनोद्देश्यस्यैव देवतात्वादिति गार्हपत्याग्नेरुपस्थानस्य शेषितावगम्यते ऐन्द्र्येति तृतीयया ऋचः करणत्वबोधनादुपस्थानशेषत्वमवगम्यते मन्त्रलिङ्गेनेन्द्रस्यापि शेषत्वमित्युभयोरुपस्थानं देवतात्वञ्चावगम्यते। तथा च विरोधः न ह्यन्यप्रकाशकमन्त्रेणान्योपस्थानं विहितमिति तत्परीहाराय मन्त्रस्थेन्द्रपदे विधिवाक्यस्थगार्हपत्यपदे वा एकत्र लक्षणावश्यकी। तत्र गार्हपत्य पदस्य इन्द्रे न लक्षणा गार्ह्यपत्यदेवतात्वस्य लिङ्गानिरपेक्षश्रुतिप्राप्तत्वात् इन्द्रदेवतात्वन्तु लिङ्गेन विलम्बबोध्यम्। तथा हि इन्द्रप्रकाशनसामर्थ्यान्यथानुपत्त्या इन्द्रमुपतिष्ठते इति कल्प्यते इति इन्द्रस्य देवतात्वं विलम्बगम्यमिति शीघ्रबोधकत्वेन श्रुतिरेव वलयसीति लिङ्गं दुर्बलम्। अतएव न समुच्चयः न वा इन्द्रस्यैवेति नियमः लिङ्गः दुर्बलत्वेन इन्द्रोपस्थानस्याप्राप्तत्वात्। एवञ्च श्रुतितोऽग्ने रुपस्थाने सिद्धे कथमित्याकाङ्क्षायामैन्द्र्येति। ततश्च मन्त्रस्येन्द्रप्रकाशकत्वात् तेनाग्नेरुपस्थानानुपपत्तेः न ह्यन्योपस्थापकमन्त्रेणान्यस्योपस्थानं युक्तमित्यनुपपत्त्यामन्त्रस्थेन्द्रपदस्य इदि परमैश्वर्य्य इति धात्वनुसारादैश्वर्य्यगुणयोगादग्नौ लक्षणा” “यावदेव हि मन्त्रार्थो मन्त्रेण प्रतिपाद्यते। मन्त्रार्थं मन्त्रतो बुद्ध्वा पञ्चाच्छक्तिर्निरूप्यते। मन्त्राकाङ्क्षावशेऽन्येन्द्रशेषत्वश्रुतिकल्पना। श्रुत्या प्रत्यक्षया पूर्वं नार्हपत्यार्थतां तते। लिङ्गस्य हि प्रमाणत्वं मन्त्राकाङ्क्षानिबन्धनम्। ताञ्च श्रुतिर्विरुध्यन्ती ह्यविरोधेन गच्छति। विरोधे च श्रुतिर्लिङ्गं बलीयस्त्वेन बाधते”। लियं लयं गच्छति पृषो०। १० सांख्योक्ते महत्तत्त्वे देह शब्दे ३७५४ पृ० दृश्यम्। ११ सप्तदशाबयवे लिङ्गदेहे।

“सप्तदशैकं लिङ्गम्” सा० सू० “सूक्ष्मशरीरमप्याधाराधेयभावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरं तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः। एकादशेन्द्रियाणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश। अहङ्कारस्य बुद्धावेवान्तर्भावः। चतुर्थसूत्रवक्ष्यमाणप्रमाणादेतान्येव सप्तदशलिङ्गं मन्तव्यम्। न तु सप्तदश एकं चेत्यष्टादशतया व्याख्येयम् उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गैकत्वे एकशब्दस्य तात्पर्य्यावधारणाच्च। “कर्मात्मा पुरुषो योऽसौ बन्धमोक्षैः स युज्यते। ससप्तदश कनापि राशिना युज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदशत्वसिद्धेश्च सप्तदंशावयवा अत्र सन्तीति सप्तदशको राशिरित्यथः। राशिशब्देन स्थूल देहस्यावयवित्वं निराकृतम् अवयविरूपेण द्रव्यान्तरकल्पवायां गौरवात्। स्थूलदेहस्य चावयवित्वमेक तादिप्रत्यक्षानुरोधेन कल्प्यत इति। अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्गदेहस्य भोगः प्रागुक्तः। प्राणश्चान्तःकरणस्यैव वृत्तिभेदः। अतो लिङ्गदेहे प्राण- पञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशावयवकस्य शरीरत्वं स्वयं वक्ष्यति “लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य्यः” इति सूत्रेण। अतो भोगायतनत्वमेव मुख्यं शरीरलक्षणम्। तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चाद्व्यक्तीभविव्यति। चेष्टेन्द्रियार्थाश्रयः शरीरमिति तु न्यायेऽपि तस्यैव लक्षणं कृतमिति” भा०। “तदधिष्ठानाश्रये देहे तद्वादाद् तद्वादः” सा० सू०। “तस्य लिङ्गस्य तदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्नये षाट्कौशिकदेहे तद्वादो देहवादस्तद्वादाद् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्य्यवसितोऽर्थः”। अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम्” “वासना भूतसूक्ष्मं च कर्मविद्ये तथैव च। दशेन्द्रियं मनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः” इति वाशिष्ठादिवाक्येभ्यः। अत्र लिङ्गशरीरप्रतिपादनगैव पुर्य्यष्टकमपि व्याख्येयमित्याशयेन बुद्धिधर्माणामपि वासनाकर्मविद्यानां पृथगुपन्यासः। भूतसूक्ष्मं चात्र तन्मात्रा, दशेन्द्रियाणि च ज्ञानकर्मेन्द्रियभेदेन पुरद्वयमित्याशयः। यत् तु मायावादिनो लिङ्गशरीरे तन्मात्मस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्य्यष्टकं चान्यथा कल्पयन्ति तदप्रामाणिकमिति” भा०। वेदान्तिनये “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” इत्युक्तं सप्तदशावयवं लिङ्गशरीरमिति भेदः।

लिङ्गक = पु० लिङ्गेन कायति कै–क। कपित्थवृक्षे शब्दच०।

लिङ्गपुराण = पु० व्यासप्रणीते महापुराणभेदे लिङ्गपुराणप्रतिपाद्यविषया यथा “व्रह्मोवाच “शृणु पुत्र! प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम्। पठतां शृण्वताञ्चैव भुक्तिमुक्तिप्रदायकम्। यच्च लिङ्गाभिधे तिष्ठत् वह्निलिङ्गे हरोऽभ्यधात्। मह्यं धर्मादिसिद्ध्यर्थमग्निकल्पकथाश्रयम्। तदेव व्यासदेवेन भागद्वयसमाचितम्। पुराणं लिङ्गमुदितं वह्वाख्यानविचित्रितम्। तदेकादशसहस्रं हरमाहात्म्यसूचकम्। परं सर्वपुराणानां सारभूतं जगत्त्रये। पुराणोपक्रमे प्रश्नः सृष्ठिसंक्षेपतः पुरा”। तत्र पूर्वभागे “योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम्। लिङ्गोद्भवस्तदर्च्चा च कीर्चिता हि ततःपरम्। सनत्कुमारशैलादिसंवादश्चाथ पापनः। ततो दधीचिचरितं युगधर्मनिरूपणम्। ततो भुवनकोषाख्या सूर्य्यसोमान्वयस्ततः। ततश्च विस्तरात् सर्गस्त्रिपुराख्यानकं तथा। लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम्। शिवव्रतानि च तथा सदाचारनिरूपणम्। प्रायश्चित्तान्यरिष्टानि काशीश्रीशैलवर्णनम्। अन्धकाख्यानकं पश्चाद्वाराहचरितं पुनः। नृसिंहचरितं पश्चाज्जलन्धरबधस्ततः। शैवं सहह्रनामाय दक्षयज्ञविनाशनम। कामस्य दहनं पश्चात् गिरिजायाः करग्रहः। ततो विनायका ख्यानं नृत्याख्यानं शिवस्य च। उपमन्युकथा चापि पर्वभाग इतीरितः”। उत्तरभागे “विष्णुमाहात्म्यकथनमम्बरीषकथा ततः। सनतकुमारनन्दीशसंवादश्च पुनर्मुने!। शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः। सूर्य्यपूजाविधिश्चैव शिवपूजा च मुक्तिर्दा। दानानि बहुधोक्तानि आद्धप्रकरणन्ततः। प्रतिष्ठा तत्र गदिता ततोऽघोरस्य कीर्त्तनम। व्रजेश्वरी महाविद्या गायत्रीमहिमा ततः। त्र्यम्बकस्य च माहात्म्य पुराणश्रवणस्य च। एतस्योपरिभागस्ते लैङ्गस्य कथितो मया। व्यासेन हि निवद्धस्य रुद्रमाहात्म्यसूचिनः। लखित्वैतत् पुराणन्तु तिलधेनुसभाचितम्। फाल्गुन्यां पूर्णिमायां यो दद्याद्भक्त्या द्विजातये। यः पठेच्छृणुयाद्वापि लैङ्गं पापापर्ह नरः। स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरं व्रजेत्। लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा। तावुभौ शिवभक्तौ तु लोकद्वितयमोगिनौ। जायेतां गिरिजाभर्तुः प्रसादाम्रात्र मंशयः” नार० पु० १०२ अ०।

लिङ्गबर्द्धिनी = स्त्री लिङ्गं पुरुषचिह्नभेदं वर्द्धयति वृधणिच्–णिनि। अपामार्गे शब्दच०।

लिङ्गवृत्ति = पु० लिङ्गं संन्यासादिवेशधारणमेव वृत्तिः जीविका यस्य। जीविकार्थसन्न्यासचिह्नादिधारिणि कपटपरिव्राजके अमरः।

लिङ्गिन् = त्रि० लिङ्गमस्त्यस्य इनि। १ चिह्नवति, २ जीविकार्थसंन्यासादिचिह्नवति ३ प्रशस्तलिङ्गवति गजे च पु० जटा०। ४ लिङ्गज्ञानज्ञेये साध्ये ५ पक्षे च। “तल्लिङ्गालङ्गिज्ञानपूर्वम्” सा० का० व्याख्याने लिङ्गिग्रहणञ्चावर्त्तनीयं तेन लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितम्” त० कौ०।

लिङ्गिनी = स्त्री लिङ्गमिवाकारोऽस्त्यस्याः इनि ङीप्। (पंचगुरिया) लताभेदे राजनि०।

लिङ्गोपहित = पु० लिङ्गेन हेतुना उपहितः विशिष्टः। साध्यानुमानाङ्गहेतुयुक्ते पक्षे। आचार्य्यमते लिङ्गोपहित एव पक्षे लैङ्गिकस्य साध्यस्य भानम्। तथा हि वह्निव्याप्यो हि धूमो वह्नेर्लिङ्गं तद्वति पक्षे वह्नेर्मानम् वह्निव्याप्यधूमनान् पर्वत इति परामर्शोत्तरं जायमानानुमाने ज्ञानलक्षणया तादृशपक्षमानस्यावश्यकत्वात्। तथा च वह्निव्याप्यधूमवान् पर्वतो वह्निमान् इत्येव तत्रानुमानप्रकारः।

लिप = लेपने, तुदा० उभ० मुचा० सक० अनिट्। लिम्पति ते अलिपत् अलिपत अलिप्त।

लिपि(पी) = स्त्री लिप–इक् वा ङीप्। १ लिखिताक्षरके पत्रे, अमरः २ लेखने च।

लिपिक(का)र = पु० लिपिं करोति कृ–अच् अण् वा। लेखके अमरटी०।

लिप्त = त्रि० लिप–क्त। १ भुक्ते, २ कृतचन्दनादिलेपे अमरः ३ मिलिते सि० कौ० ४ विपदिग्धे च मेदि०। ज्योतिषोक्ते राशेः षष्टिभागात्मके कलारूपे ५ भागे स्त्री। “लिप्तार्द्धहीनं यदि पूर्णमेतत्” इति नी० ताजकम्। स्वार्थे क अत इत्त्वम्। लिप्तिका दण्डात्मककाले।

लिप्तक = पु० कुत्सितं लिप्तम् कन्। विषाक्तवाणे अमर।

लिप्सा = स्त्री लभ सन्–भावे अ। १ लाभेच्छायाम् २ इच्छायां अमरः। “लिप्सास्रत्रे तृतीयवर्णक द्रव्यार्जननियमस्य क्रत्वर्थत्वमापादितं गुरुणा” मिता०।

लिम्पाक = पु० लिप आकन् पृषो०। १ जम्बीरभेदे (पातिलेवु) २ खरे च शब्दर०।

लिबि(बी) = लिप–इक् पृषो० पस्य बः वा ङीप्। लिपिशब्दार्थे अमरः। लिबिकरादयोऽपि लिपिकराद्यर्थे।

लिश = श्लेषे अल्पीभावे च दि० अक० आत्म० अनिट्। लिश्यते अलिक्षत।

लिश = गतौ तु० पर० सक० अनिट्। लिशति अलिक्षत्।

लिह = आस्वादने अदा० उभ० सक० अनिट्। लेढि लीढे। अलिक्षत् त।

ली = श्लेषे दिवा० आ० अक० अनिट्। लीयते अलेष्ट। ओदित् निष्ठातस्य नः। लीनः।

ली = श्लेषे क्र्या० पा० पर० अक० अनिट्। लिनाति अलैषीत्।

ली = द्रावणे वा चुरा० उभ० सक० सेट् पक्षे भ्वा० पर० अ निट्। लीनयति ते लाय(प)यति ते घृतम् लयति। अस्नेहद्रावणे लौहं विलायतीत्येव। प्रलम्भने अभिभवे पूजायाञ्च सक० आत्म०। तत्र नित्यमात्त्वे पुक। जटाभिर्लापयते पूजामधिगच्छतात्यर्थः। श्योनो वर्त्तिकामुल्लापयते अभिभवतीत्यर्थः। वालमुल्लापयत वञ्चयतीत्यर्थः। अलीलनत् त अलील(प)यत् त। अलेषीत्। अलासीत्।

लीढ = त्रि० लिह–आस्वादे क्त। १ आस्वादिते, २ स्पृष्टे च।

लीला = स्त्री ली–क्विप् लियं लाति ला–क। १ केलौ, २ विलामे ३ शृङ्गारादिजातचेष्टायाम् मेदि०। “अप्राप्तवल्लमसमा- गमनायिकायाः, सख्याःपुरोऽत्र निजचित्तविनोदबुद्ध्या, आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाकलयन्ति लीलाम्” उज्ज्वलमण्युक्ते ४ प्रियानुकरणे च।

लीलावती = स्त्री लीला + अस्त्यर्थे मतुप् मस्य वः। १ विलासवत्यां स्त्रियां, भास्कराचार्य्यस्य २ पुत्र्यां, तत्कृते ३ अङ्कग्रन्थभेदे मण्डनाचार्य्यस्य ४ भार्य्यायां तन्नामके न्यायशा स्त्रप्रसिद्धे “नाथः सृजतीत्यादिके” न्यायमतसिद्धपदार्थ प्रतिपादके ५ ग्रन्थभेदे, पुराणप्रसिद्धे ६ वेश्याभेदे च ति० त० मत्स्यपु०।

लीलोद्यान = न० लीलार्थमुद्यानम्। १ क्रीडनार्थे आरामे, २ देववने च त्रिका०।

लुक्कायित = त्रि० लुच्यते लुन्च–अपनयने क्विप् लुक् कायो यस्य तादृश इवाचरति लुक्काय + क्विप्–क्त। अन्तर्हितदेहे

लुज = कथने अट्टधातोरर्थे च चुरा० उभ० सक० सेट् इदित्। लुञ्जयति ते अलुलुञ्जत् त।

लुञ्चित = त्रि० लुन्च–णिच्–क्त। अपसारिते दूरीकृते।

लुट = दीप्तौ अक० प्रतिघाते सक० भ्वा० आत्म० सेट्। लोटते सृदित् लुङि उभ० अलुटत् अलोटिष्ट।

लुट = हरणे भ्वा० पर० सक० सेट् इदित्। लुण्टति अलुण्टीत्।

लुट = दीप्तौ चु० उभ० सक० सेट्। लोढयति ते अलूलुटत् त।

लुट = बिलोडने, हरणे च दिवा० सक० पर० सेट्। लुट्यति अलुटत्। ऋदित् चङि वा ह्रस्वः।

लुट = विलोडने सम्बन्धे च दिवा० सक० पर० सेट्। लुट्यति अलोटीत्। अत्रार्थे भ्वादिरपि। लोटति।

लुट = गतौ चौर्य्ये च सक० खञ्जीभावे आलस्ये च अक० भ्वा० पर० सेट् इदित्। लुण्टति अलुण्टीत्।

लुठ = प्रतिघाते भ्वा० आ० लुङि उभ० सक० सेट्। लोठते। अलुठत् अलोठिष्ट। ऋदित् चङि न ह्रस्वः।

लुठ = उपघाते भ्वा० पर० सक० सेट्। लोठति अलोठीत्।

लुठ = लोठे तु० कु० प० अक० सेट्। लुठति अलुठीत्।

लुठ = चौर्य्ये चु० उभ० सक० सेट्। लोठयति ते अलूलुठत् त।

लुठन = न० कु० लुठ–ल्यट्। अश्वादेर्भूम्यादौ श्रमापनयनार्थं पुतः पुनरङ्गचालने (लोटा) त्रिका०।

लुठित = त्रि० लुठ–क्त। भूमौ कृतभूरिदेहपरावर्त्तने।

लुड = मन्थने भ्वा० पर० सक० सेट्। लोडति अलोडीत्।

लुड = संवृतौ सक० श्लेषे अक० तु० कु० पर० सेट्। लुडति अलुडीत्। लुडनम्।

लुण्ट = अवज्ञाय चौर्य्ये च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। लुण्ठयति ते लुण्ठति अलुलुण्टत् त अलुण्टीत्। कर्मणि लुठ्यते।

लुण्टक = पु० लुण्ट–ण्वुल। (नटिया) शाकभेदे शब्दच०।

लुण्टाक = त्रि० लुटि–षाकन्। चौरे स्त्रियां ङीष्।

लुण्ठक = त्रि० लुठि–ण्वुल्। चौरे।

लुण्ड = चौर्य्ये चु० उ० सक० सेट्। लुण्डयति ते अलुलुण्डत् त

लुथ = बधे सक० क्लेशे अक० भ्वा० पर० सेट् इदित्। लुन्थति अलुन्थीत।

लुन्च = अपनयने भ्वा० पर० सक० सेट्। लुञ्चति अलुञ्चीत्।

लुप = छेदने विनाशने च तु० मुचा० उभ० सक० अनिट्। लुम्पति ते अलुपत् अलुप्त। ऋदित् चङि वा ह्रस्वः। अलूलुपत् त अलुलोपत् त।

लुप = आकुलीभावे दिवा० पर० अक० सेट्। लुप्यति अलुपत् अलोपीत् नित्यमङ् इत्येके।

लुप्त = न० लुप–क्त। १ अपहृतधने। २ छिन्ने ३ नष्टे त्रि०।

लुब = अर्द्दने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। लुम्बयति ते लुम्बति। अलुलुम्बत् त अलुम्बीत्।

लुब्ध = पु० लुभ–क्त। १ व्याधे। २ लम्पटे शब्दर० ३ लोलुपे च मेदि०। स्वार्थे क। तत्रैव। लुब्ध इव कायति कै–क। लुब्धक व्याधाकारताराभेदे खगोलशब्दे २४२२ पृ० दृश्यम्।

लुभ = विमोहने तु० पर० अक० सेट्। लुभति अलोभीत्।

लुभ = आकाङ्क्षायां दि० पर० सक० सेट्। लुभ्यति। इरित् अलुभत्–अलोभीत्।

लुल = विमर्दने सौ० पर० सक० सेट्। लोलति। अलोलीत्।

लुलाप = पुंस्त्री० लुल घञर्थे क तमाप्नोति अण्। महिषे अमरः स्त्रियां ङीष्।

लुलित = त्रि० लुल क्त। १ आन्दोलिते, २ चालिते च “अथ लुलितपतत्त्रिमालम्” भट्टिः।

लुष = चौर्य्ये भ्वा० पर० सक० सेट्। लोषति अलोषीत्।

लुष = हिंसायां सौ० पर० सक० सेट्। लोषति अलोषीत्।

लुह = आकाङ्क्षायां भ्वा० पर० सक० अनिट्। लोहति अलुक्षत्।

लू = छेदने क्र्या० प्वा० उभ० सक० सेट्। लुनाति लुनीते अलावीत्।

लूता = स्त्री लू–तक्। कीटभेदे (माकड्सा) अमरः। स्वार्थे क अत इत्त्वम्। तत्रैव। २ पिपीलिकायां ३ रोगभेदे (मर्म्मव्रणे) मेदि०।

लून = त्रि० लू–क्त निष्टातस्य नः। छिन्ने अमरः।

लूम = न० लू–मक्। लाङ्गूले अमरः।

लूष = बधे स्तेये च चु० उभ० सक० सेट्। लुषयति ते अलूलुषत्।

लेख = पु० लिख्यते पूज र्थं चित्रादिपटेऽसौ लिख–कर्मणि घञ्। दिवे अमरः। भावे घञ् २ लेखने। कर्मणि घञ्। ३ लेख्ये त्रि० मेदि०। आधारे घञ्। ४ लेखनाधारे पत्रे “निर्द्धारितेऽर्थे लेखेन” इति माघः।

लेखक = पु० लिख–ण्वुल्। लिपिकरे अमरः। लेखकलक्षणादि मत्स्यपु० १८९ अ० उक्तं यथा “सर्वदेश क्षराभिज्ञः सर्वशास्त्रविशारदः। लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै। शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् समान्। अक्षरान् वै लिखेद् यस्तु लेखकः स वरः स्मृतः। उपायवाक्यकुशलः सर्वशास्त्रविशारदः। बह्वर्थवक्ता चाल्पेन लेखकः स्याद् भृगूत्तम!। वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित्। अनाहार्य्यो नृपे भक्तो लेखकः स्याद् भृगूद्वह”। “सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः। सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः” चाणक्यः राजलेखकलक्षणं तु पत्रकौमुद्यामुक्तं यथा “ब्राह्मणो मन्त्रणाभिज्ञो राजनीतिविशारदः। नानालिपिज्ञो मेधावी नानाभाषासमन्वितः। मन्त्रणाचतुरो धीमान् नीतिशास्त्रार्थकोविदः। सन्धिविग्रहभेदज्ञो राजकार्य्ये विचक्षणः। सदा राज्ञो हितान्वेषी राजसन्निधिसंस्थितः। कार्य्याकार्य्यविचारज्ञः सत्यवादी जितेन्द्रियः। स्वरूपवादी शुद्धात्मा धर्मज्ञो राजधर्मवित्। एवमादिगुणैर्युक्तः स एव नृपलेखकः। नृपानुवर्त्ती सततं नृपविश्वासरक्षकः। नृपतेर्हितकान्वेषी स एव राजलेखकः”। “लेखकानपि कायस्थान् लेख्यकृत्ये विचक्षणान्” पराशरेणोक्तं कायस्थस्य लेखकत्वं विवादान्तर्गतविषयलेखने एव न पुस्तकादौ अब्राह्मणलिखितपुस्तकस्य पाठनिषेधात्।

लेखन = न० लिख० ल्युट्। १ पत्रादौ वर्णादिविन्यासे, २ छर्दने च। आधारे ल्युट्। ३ भूर्ज्जपत्रे मेदि०। लिख्यतेऽनया ल्युट्। ४ काशे राजनि० ५ लेखनसाधने (कलम) स्त्री ङीप्। “मस्याधारं लेखनीञ्च” इति ति० त०। ६ रोगोत्सारणार्थशस्त्रभेदे स्त्री ७ अञ्जनाङ्गे व्यापारभेदे ८ चूर्णभेदे च न०। ९ लेखनसाधनवर्त्तिभेदे स्त्री भावप्र० तत्र लक्षणक्रियां तत्साधनलेखनीप्रमाणञ्चोक्तं यथा

“लेखनं क्षारतिक्ताम्लरसैरञ्जनमुच्यते। नेत्रवर्त्मसिराजालश्रोत्रशृङ्गाटकस्थितम्। मुखलालाक्षिमिर्दोपमुत्क्लेश्य स्रावयेच्च तत्”। तद्वर्त्तिमानं तत्रैव “एरण्डमात्रारत्रिस्तु लेखनी स्यात् प्रमाणतः। चूर्णं तु लेखनं वैद्यैर्द्विशलाकं प्रदीयते। तस्य शलाकास्वरूपादि तत्रैव “मुखे सुकुमुमाकारा कलायपरिमण्डला। अष्टा- ङ्गुला शलाका स्यादश्मजा धातुजाऽथ वा” कलायपरिमण्डला अग्रे कलायवद् वर्तुला। “ताम्रलोहाश्मसंजाता शलाका लेखने मता”। चन्द्रोदयाख्या लेखनी वर्त्तिश्च तत्रोक्ता यथा “शङ्खनाभिविभीतस्य मज्जा पथ्या मतःशिला। पिप्पली मरिचं कुष्ठं वचा चेति समांशकम। छागक्षीरेण संपिष्य वर्त्तिं कुर्य्यात् यवोन्मिताम्। एरण्डमात्रां संपिष्य जलैः कुर्य्याद्यथाञ्जनम्। तिमिरं मांसवृद्धिञ्च काचं पटलमर्बुदम्। रात्र्यन्धं वार्षिकं पुष्पं वर्त्तिश्चन्द्रोदया हरेत्”। रसक्रिया लेखनी तत्रैवोक्ता यथा “तुत्थमाक्षिकसिन्धूत्थासिताशङ्खमनःशिला। गैरिकं सिन्धुफेनञ्च मरिचं चेति चूर्णयेत्। संयोज्य मघुना कुर्यादञ्जनार्थं रसक्रियाम्। वर्त्मरीगार्शतिभिरकाचशुक्लहरीं पराम्”। चूर्णलेखनञ्च तत्रोक्तं यथा “दक्षाण्डत्वक्शिलाकाचशङ्खचन्दनसैन्धवैः। अञ्जनं हरते नित्यं सर्वानक्षिगदान् बलात्” दक्षः कुक्कुटः”। अक्षरलेखनीप्रमाणादि योगिनीतन्त्रोक्तं यथा “वंशसूठ्या लिखेद् यस्तु तस्य हानिर्भवेद् ध्रुवम्। ताम्रसूच्या तु विभवो भवेन्न तत्क्षयो भवेत्। महालक्ष्मीर्भवेन्नित्यं सुवर्णस्य शलाकया। वृहन्नलस्य सूच्या वै नातिवृद्धिः प्रजायते। तथा अग्निमयैर्देवि! पुत्रपौत्रघनागमः। रैत्येन विपुला लक्ष्मीः कांस्येन मरणं भवेत्। अष्टाङ्गुलप्रमाणेन दशाङ्गुलेन चाथ वा। चतुरङ्गुलसूच्या वा यो लिखेत् पुस्तकं शुभे!। तत्तदक्षरसंख्याते स्वल्पायुर्याति वै दिने।”

लेखनिक = पु० लेखनं शिल्पमस्य ठन्। लिपिकरे मेदि०।

लेखर्षभ = पु० लेख ऋषभ इव श्रेष्ठत्वात्। इन्द्रे अमरः।

लेखहार = पु० लेखं हरति हृ–अण्। १ पत्रवाहके। ण्वुल्। लेखहारकोऽप्यत्र।

लेखा = स्त्री लिख–अ टाप्। १ रेखाया, २ पड्क्तौ च। आधारे संज्ञायां घञ् टाप्। ३ लिपौ मेदि०।

लेख्य = त्रि० लिख–ण्यत्। १ लेखनीये। २ व्यवहारे स्वत्वाढ्या वेदके पत्रभेदे न०। तल्लक्षणादि वीरमि० उक्तं यथा “अथ लेख्यं निरूप्यते। तत्र वृहस्पतिः “साक्षिणामेष निर्दिष्टः संख्यालक्षणनिश्चयः। लिखितस्याधुना वच्मि विधानमनुपूर्वशः। पाण्मासिकेऽपि समये भ्रान्तिः सञ्जायते नृणाम्। पात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा। राजलेख्यं स्थानकृतं स्वहस्तलिखितन्तथा। लेख्यन्तु त्रिविधम्प्रोक्तं भिन्नन्त- द्वहुथा पुनः। भागदानक्रयाधानसंविद्दास ऋणादिभिः। सप्तधा लौकिकं लेख्यन्त्रिविधं राजशासनम्”। मरीचि रपि “स्थावरे विक्रयाधाने विभागे दान एव च। लिखितेनाप्नुयात् सिद्धिमविसंवादमेव च” विभागो दायभागः आधानमाधीकरणश संवित्समयः आदिशब्देन विशुद्ध्यादिग्रहणम्। भागपत्रादीनां लक्षणमाह वृहस्पतिः “भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम्। विभाग पत्रं कुर्वन्ति १ भागलेख्यन्तदुच्यते। भूमिन्दत्त्वा तु यत्पत्रं कुर्याच्चन्द्रार्ककालिकम्। अनाच्छेद्यमनाहार्य्यन्दानलेख्यन्तु २ तद्विदुः। गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम्। पत्रं कारयते यत्तु ३ क्रयलेख्यन्तदुच्यते। जङ्गमं स्थावरम्बन्धं दत्त्वा लेख्यङ्करोति यः। गोप्यभोग्यक्रियायुक्तमाधिलेख्य ४ न्तदुच्यते। ग्रामे देशे च यत्कुर्य्यात् सत्यलेख्यम्परस्परम्। राजाविरोधिधर्म्लार्थं संवित्पत्र ५ वदन्ति तत्। वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यः। कर्म्माणि ते करिष्यामि दासपत्र ६न्तदुच्यते। धनं वृद्ध्व्या गृहीत्वा तु स्वयं कुर्य्याच्च कारयेत्। उद्धारपत्रन्तत्प्रोक्तमृणलेख्यं ७ मनीषिभिरिति”। विशुद्धिपत्रमुक्तं कात्यायनेन “अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते बुधैः। विशुद्धिपत्रकन्देयन्तेभ्यः साक्षिसमन्वि तम्”। सन्धिपत्रमप्याह स एव “उत्तमेषु समस्तेषु अभिशापे समागते। वृत्तानुवादलेख्यं यत् तज्ज्ञेयं सान्ध पत्रकम्”। अन्वाधिपत्रमाह प्रजापतिः धनी धनेन तेनैव परमाधिं नयेद्यदि। कृत्वा तदाधिलिखितं पूर्वं वाऽस्य समर्पयेत्”। पूर्वमाधिपत्रम्। सीमापत्रमप्याह कात्यायनः सीमाविवादे निर्णीते सीमापत्रं विधीयते” इति। ऋणशोधने कृते ऋणपत्रनाशादौ सति प्राप्तिपत्रमुत्तमर्णेवाधसर्णाय देयमित्याह याज्ञबल्क्यः “दत्त्वर्णम्पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत्”। अत्र लौकिक सप्तविधं लेख्यं स्वकृतान्यकृतभेदेन द्विविधन्नारदे नोक्तम् “लेख्यन्तु द्विविधं प्रोक्तं स्यहस्तान्यकृतन्तथा”। स्वकृते साक्ष्यनियमोऽम्यकृते तन्नियम इत्याहोत्तरार्द्धेन स एव “असाक्षिमत्साक्षिमच्च सिद्धिर्देशस्थितेस्तयोरिति”। असाक्षिमदपीत्यर्थः। याज्ञवल्क्यः “विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितञ्च यत्। तत्प्रमाणं स्मृतं सर्वं बलोपधिकृताछते। इत्यपिशब्दः प्रागुक्तबलोपधिकृतत्वपर्थ्यदासः सर्वलेख्यविषयो न स्वकृतमात्रविषयः। तथा च मनुः “बलाद्भुक्तं बलाद्दत्तं बलाद् यच्चापि लेखितम्। सर्वान् बलकृतानर्थानकृतान्ममुरब्रवीत्”। नारदोऽपि “मत्ताभियुक्तस्त्रीबालवलात्कारकृतञ्च यत्। तदपमाणं लिखितं भयोपधिकृतन्तथेति”। अन्यकृते विशेषान्तरमाह योगीश्वरः “यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम्। लेख्यन्तु साक्षिमत्कार्य्यं तस्मिन्धनिकपूर्वकम्। समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः। सब्रह्मचारिकात्मीयपितृनामा दिचिह्नितम्”। धनिकनामपूर्वकमित्यनेनोत्तमर्णनामोपरि लेख्यमधमर्णनाम तदध इत्यर्थः। एतदधमर्णपत्रादिविषयमन्यत्राऽसम्भवात्। समामासादि यथा सम्भवमन्यत्रापि सब्रह्मचारिकम्बह्वृचादिशाखाप्रयुक्तगुणनाम वह्वृचः कठ इत्यादि। वशिष्ठोऽपि “कालं निवेश्य राजानं स्थानं निवसनन्तथा। दायकं ग्राहकञ्चैव पितृनाम्ना च संयुतम्। जातिडोत्रञ्च शाखाञ्च द्रव्यमाधिं ससङ्ख्यकम्। वृद्धिं ग्राहकहस्तञ्च विदितार्थौ च साक्षिणौ”। स्थानं जनपदः। निवसनं पुरग्रामादिकं ग्राहकोऽधमर्णः। तन्निवेशनप्रकारमाह योगीश्वरः “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशवेत्। मतं मेऽमुकपुत्त्रस्य यदत्रोपरि लेखितमिति”। साक्षिणावित्यनेन द्वयोरम्यनुज्ञानात् अवरत्वनियमो नात्रेत्युक्तमेकस्तु न भवत्येवेति। अत्र साक्षिलेखकाभ्यां स्यहस्तचिह्नं कार्य्यमित्यप्याह स एव “साक्षिणश्च स्यहस्तेन पिवृनामकपूर्वकम्। अत्राहममुकः साक्षी लिक्षेयुरिति ते समाः। उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्”। समा इत्यनेन गुणसाम्य सङ्ख्यासाम्यञ्च वैषम्यानियमाय विवक्षितम्। असमा इत्यकारप्रश्लेषस्तु वैषम्यस्य सामान्यत एव साक्षिषु प्राप्तेर्नोपादेयः। ऋणिसाक्षिणोः सर्वथा लिप्यनभिज्ञत्वे नारद आह “अलिपिज्ञ ऋणी यः स्यात् स्वमतं स तु लेखयेत्। साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः इति। त्रिविधं राजशासनमित्युक्तम् त्रैविध्यं विविनक्ति वृहस्पतिः “दत्त्वा भूम्यादिकं राजा ताम्रपद्दे पटेऽथ वा। शासनं कारयेद्धर्मं स्थानवंशादिसंयुतम्। मातापित्रोरात्मनश्च पुण्यायामुकसूनवे। दत्तम्मयामुकायाद्य दानं सब्रह्मचारिणे। चन्द्रार्कसमकालीनं पुत्त्रपौत्रान्वयानुगम्। अनाच्छेद्यमनाहार्य्यं सर्वभागविवर्जितम्। दातुः पालयितुः स्वर्ग्यं हर्त्तुर्नरकमेव च। षष्टिं वर्पसहस्राणि दानाच्छेदफलं लिखेत्। ज्ञातं मयेति लिखित सन्धिविग्रहलेखकैः। समुद्रं वर्षमासादिधनाध्यक्षाक्षरान्वितम्। एवंविधं राजकृतं शासनं १ समुदाहृतम्। देशादिकं यस्य राजा लिखितेन प्रयच्छति। सेवाशौर्य्यादिना तुष्टः प्रसादलिखित २ न्तथा। पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः। प्रदद्याज्जयिने लेख्यं जयपत्रं ३ तदुच्यते”। सब्रह्मचारिणे अमुकशाखा ध्यायिने। सर्वभागविवर्जितम् सकलराजपुरुषादि देयांशरहितम्। योगीश्वरः शासनपत्रमाह “भूमिं दत्त्वा निबन्धं वा कृत्वा लेख्यत्तु कारयेत्। आगामि भद्रनृपतिपरिज्ञानाय पार्थिवः। पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम्। अभिलेख्यात्मनोऽवंश्यानात्सानञ्च महीपतिः। प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम्। स्वहस्तकालसम्पन्न शामनं कारयेत् स्थिरमिति”। इयन्ति पर्णक्रमुकभारादावियन्ति पर्णक्रमुकादीन्यस्मै देयानीति राज्ञो नियतदानाज्ञानिबन्धं कारयेत् सन्धिविग्रहाद्यधिकारिद्वारेत्यर्थात्। तथा च व्यासः “राज्ञा तु स्वयमुद्देष्टः सन्धिविग्रहलेखकः। ताम्रपट्टे पटे वापि प्रलिखेद्राजशासनमिति”। प्रतिगृह्यत इति प्रतिग्रहो भूम्यादिस्तत्परीमाणं प्रतिग्रहपरीमाणं उपसर्गस्य दीर्घो बाहुलकः। दीयत इति दानम् भूम्यादि तस्य च्छेदः क्षेत्रादेर्मर्य्यादा तदुपवर्णनं तन्निर्देशम्। आत्मवंश्यादीनभिलिख्येत्यन्वयः। इदञ्च साधुशब्दैरेव लेखनीयं न लौकिकवत्तदनियमः। तथा च संग्रहकारः “राजा स्वहस्तचिह्नेन राजादेशेन संयुतम्। युक्तं राजाभिधानेन मण्डितं राजमुद्रया। सुलिप्यनपशब्दोक्तिसम्पूर्णापयवाक्षरम्। शासनं राजदत्तं स्यात् सन्धिपिग्रहलेखकैः”। अन्तिमपादोत्तरं लिखितमिति शेषः। तस्मिन्निव लौकिके देशभाषादिप्रतिशेधो नेत्याह नारदः “देशाचाराविरुद्ध यद्व्यक्तापिविधिलक्षणम्। तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति”। शासने राज्ञा स्वहस्तेनैव स्वसम्मतं लेख्यमित्यप्याह व्यासः “सन्निवेशं प्रमाणञ्च स्वहस्तेन लिखेत्स्वयम्। मतम्मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः”। सन्निवेशं प्रमाणञ्चेत्यस्य गूर्ववाक्ये प्रलिखेदित्यत्रान्वयः तयोराजस्वहस्तलिखनानियमात्। इदञ्च राज्ञा प्रतिग्रहीत्रे समर्पणीयमित्याह विष्णुः “पटे वा ताम्रपट्टे वा लिखितं स्वमुद्राङ्कमागामि नृपतिपरिज्ञानार्थे दद्यादिति”। अतएप दत्तापहार- दोषप्रतिपादनमपि भाविनृपप्रत्यायनार्थं तत्रावश्यकमित्यप्याह व्यासः “षष्टिवर्षसहस्राणि दानच्छेदफलत्तथा। आगामिनृपसामन्तबोधनायाभिलेखयेत्” इति। पष्टिवर्षसहस्राणीत्यादि पुराणवचतप्रसिद्धन्दागाच्छेदयोः दानापहारयोः स्वर्गाद्रिनरकादिफलं लेखयेद्राजेत्यर्थः।”

लेख्यपत्त्र = पु० लिख्यतेऽत्र ण्यत् लेख्यं पत्रं यस्य। १ तालवृक्षे भरतः। कर्म० २ लेख्ये पत्रे न०

लेप = गमने भ्वा० आत्म० सक० सेट् ऋदित् चङि न ह्रस्वः। लेपते अलेषिष्ट।

लेप = पु० लिप लेप–वा घञ्। १ भोजने, २ लेपने च मेदि०। कर्मणि घञ्। ३ सुधायाम् (कलिचुन) विश्वः। ४ पितृदत्तपिण्डशेषे “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः” स्मृतिः।

लेपक = त्रि० लिम्प त लिप–ण्वुल्। १ लेपनकरे २ ज तिभेदे पलगण्डे पु० अमरः।

लेपन = न० लिप–ल्युट्। (लेपा) इति ख्याते १ व्यापारे। कर्मणि ल्युट्। २ तुरस्कनामगन्धद्रव्ये राजनि०।

लेय = पु० सिंहराशौ ज्यो० त०।

लेलिहा = स्त्री सर्वदेवजीवन्यासाङ्गे मुद्राभेदे तल्लक्षणं यथा तर्जनीमध्यमाऽनामाः समं कुर्य्यादधोमुखीः। अनामायां क्षिपेत् वृद्धामृज्वीं कृत्वा कनिष्ठिकाम्। लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्त्तिता” तन्त्रसा०।

लेलिहान = पु० लिह यङ् लुक् ताच्छील्ये चानश्। १ शिवे शब्दर० २ सर्पे पुंस्त्री० हेमच०। ३ पुनःपुनलेहनकरे त्रि० तारादेवतापूजाङ्गे अङ्गुल्यादिसन्निवेशविशेषरूपे ४ मुद्राभेदे स्त्री। तल्लक्षणं यथा “वक्त्रं विस्तारितं कृत्वाप्यधो जिह्वां च चालयेत्। पार्श्वस्थं मुष्टियुगलं लेलिहानेति कीर्त्तिता” तन्त्रसा०।

लेश = पु० लिश अल्पीभावे घञ्। १ अल्पे २ लवे अमरः। ३ अल्पत्वे च।

लेष्टु = पु० लिष–तुन्। लोष्टे अमरः।

लेष्टुघ्न = पु० लोष्टुं हन्ति हन–क। लेष्टभेदके मुद्गरे शब्दच० ल्यु लोष्टुभेदनोऽप्यत्र।

लेह = पु० लिह–घञ्। १ आहारे २ आस्वादे जिह्वया रसादानव्यापारभेदे (चाटा) च हेमच०। भावे ल्युट्। लेहनमप्यत्र न०।

लेहिन = पु० लिह–इनन्। टङ्कणे (सोहागा) हेमच०।

लेह्य = त्रि० लिह ण्यत्। जिह्वया १ आखाद्ये। २ अमृते न० शब्दच०।

लैङ्ग = न० लिङ्गमधिकृत्य कृतो ग्रन्थः अण्। अष्टादशसु महापुराणेषु एकादशे १ महापुराणे। लिङ्गं तदाकारः अस्त्यस्याः फलेषु अण् ङीप्। २ लिङ्गिनीवृक्षे स्त्री राजनि० तस्येदमण। २ लिङ्गसम्बद्धे त्रि० स्त्रियां ङीप्।

लैङ्गिक = त्रि० लिङ्गेनानुमापकचिह्नादिना आपादितस्तत आगतो वा ठण। लिङ्गादिभिः १ कल्पिते २ अनुमिते साध्ये लिङ्गोपहितलैङ्गिकभानमित्याचार्य्याः। अर्थप्रकाशसामर्थ्यलिङ्गेन कल्पिते ३ मन्त्रःदीनां तत्तत्कर्म्मादि विनियोगे च।

लोक = दीप्तौ चु० उभ० सक० सेट्। लोकयति ते अलूलुकत् त।

लोक = दर्शने भ्वा० आ० सक० सेट्। लोकते अलोकिष्ट लुलोके। ऋदित् चङि न ह्रस्वः। अलुलोकत् त।

लोक = पु० लोक्यतेऽसौ लोक–घञ्। १ भुवने भुवनशब्दे दृश्यम्। २ जने च अमरः। भावे घञ्। ३ दर्शने।

लोककान्ता = स्त्री ६ त०। १ ऋषभौषधे राजनि० २ लोकस्वा० मिनि ३ लोकप्रिये च त्रि०।

लोकजित् = पु० लोक लोकाचारं जितवान् जि–क्विप। बुद्धे अमरः।

लोकपाल = पु० लोकान् पालयति पा–णिच अण। १ लाकपालके नृपे, ३ इन्द्रादिदिकपाले, ३ विनायकादिषु पञ्चसु। ४ लोकरक्षकमात्रे त्रि०। लोकनाथादयोऽप्यत्र।

लोकबान्धव = पु० लोकानां बान्धवः सर्वकर्मप्रवर्त्तकत्वात्। सूर्य्ये जटा०।

लोकबाह्य = त्रि० बहिश्चरति बहिस + ष्यञ टिलोपश्च ५ त०। लोकबहिर्भूते।

लोकमातृ = स्त्री लोकानां मातेव रक्षित्री। १ लक्ष्म्याम् अमरः ६ त०। लाकानां ज्ञातरि त्रि०।

लोकलोचन = पु० लोकेलाच्यतेऽनेन लुच ल्युट्। १ सूर्ये शब्दर० लोकस्य लोचनमिव। सूर्य्ये न०। लोकनेत्रादयोऽप्यत्र न०

लोकायत = न० लोकेषु आयतम् विस्तीर्णम् अनायाससाध्यत्वात्। चार्वाकमतसिद्धधर्म्मे शब्दच०।

लोकायतिक = पु० लोलायतं तन्मतम् अस्त्यस्य ठन्। चार्वाके।

लोकालोक = पु० ल क्यतेऽसौ लोकः न लोक्यतेऽसौ कर्म्म०। स्वनामख्याते सूर्प्यकिरणसम्पर्कसीमापर्बते। तस्य च पार्श्वयोरातपानातपमम्बन्धात्तथात्वम।

लोकेश = पु० ६ त०। १ ब्रह्मणि अमरः। २ नृपतौ ३ पारद च राजनि० बुद्धभेदे त्रिका०।

लोच = दोप्तौ चु० उभ० अक० सेट्। लाचयति ते ऋदित् चङि न ह्रस्वः। अलुलचित् त।

लोच = दर्शने भ्वा० आत्म० सक० सेट्। लोचते अलोचिष्ट ऋदित् चङि न ह्रस्वः।

लोचक = न० लोच–ण्वुल्। १ मांसपिण्डे, २ अक्षितारके ३ कज्जसे ४ स्त्रीणां ललाटाभरणे, ५ नीलवस्त्रे, ६ कर्णपूरे, ७ कदल्यां, ८ मूर्वायां ९ निर्बुद्धौ भ्रूश्लथचर्मणि मेदि० ११ सर्पकञ्चुके शब्दर०।

लोचन = न० लोच्यतेऽनेन लोच–करणे ल्युट्। १ नेत्रे अमरः। भावे ल्युट्। २ दर्शनक्रियायाम्। युच्। ३ दर्शने ४ आलोचने च स्त्री टाप् अमरः। ३ महाप्राणिकीटे स्त्री राजनि० ङीप्।

लोचनहिता = स्त्री ६ त०। (तुत्थाञ्जने तु~ते) राजनि०।

लोचमस्तक = पु० लोच्यते लोचं मस्तकं यस्य। मयूरशिखायाम् अमरः।

लोट(ड) = उन्मादे भ्वा० पर० सक० सेट्। लोट(ड)ति। अलोटी(डो)त्। ऋदित चङि न ह्रस्वः।

लोणा = स्त्री लवणमस्त्यस्याः भक्षणसपये अपेक्ष्यत्वेन अच्। १ क्षुद्राम्लिकायाम् राजनि०। लोणाम्लाप्यत्र राजनि०

लोणार = न० लवणमृच्छति कारणत्वेन ऋ–अण् उप० स०। पृषो० लवणजे क्षारभेदे राजनि०।

लोत = न० लू–तन्। १ चोरितधने, लोप्त्रे (वमाल) जटाधरः ३ चिह्ने सि० कौ०। ४ नेत्राम्बुन त्रिका० ५ लवणे च

लोत्र = न० लू–ष्ट्रन्। १ चक्षुर्जले, २ चोरितधने च संक्षिप्तमा०।

लोध = पु० रुध–अच् रस्य लः। स्वनामख्याते वृक्षे रत्नमा०।

लोध्र = पु० रुध–रन् रस्य लः। (लोध) ख्याते वृक्षे अमरः। “लोध्रो राही लघुः शीतश्चक्षुष्य कफपित्तनुत्। कषायो रक्तपित्तासृग्वातातीसारशाथहृत्” भावप्र०।

लोप = पु० लुप–भावे घञ्। १ विनाशे २ छेदने, ३ आकुलीभावे, ४ व्याकरणोक्ते अदर्शनरूपे नाश च। लोपयति स्त्रीणां रूपगर्वम् अच्। २ अगस्त्यमुनिपत्न्यां स्त्री जटा०।

लोपापक = पुंस्त्री० लोपमदर्शनमाप्नोति द्रुतम् आप–ण्वुल्। शृगाले शब्दमा० स्त्रियाम् अजा० टाप् अत इत्त्वम्।

लोपामुद्रा = स्त्री मुदं राति रा–क कर्म०। अगस्त्यमुनिपत्न्याम् अमरः।

लोप्त्र = न० लुप–ष्ट्रन्। स्तेयधने स्त्रीत्वमपीच्छति तत्पक्षे ङीष्।

लोभ = पु० लुभ–आकाङ्क्षायां भावे घञ्। परद्रव्येषु आतशयिताभिलाषे “परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते। अभिलाषो द्विजश्रेष्ठ! स लोभः परिकीर्त्तिनः” पद्मपु०।

लोभिन् = त्रि० लुभ–णिनि। परद्रव्येषु अतितृष्णावति जटा०।

लोभ्य = पु० लुभ–कर्मणि यत्। १ मुद्गे हेमच०। २ लोभनीयपदार्थे त्रि०।

लोम = न० लू–मन्। देहजाते केशाकारे १ रोमाख्ये द्रव्ये अमरः। तत्प्रधाने २ लाङ्गूले न० जटा०।

लोमकर्ण = पुंस्त्री लोमबहुलः कर्णो यस्य शाक०। शशके हेमच० तत्कर्णस्य लोमशत्पात्तथात्वम् स्त्रियां ङीष्।

लोमकूप = पु० लोम्नां कूप इव। रोमाधारे १ विन्द्वाकारे गर्त्ते

लोमघ्न = न० लोमानि हन्ति हन–टक्। (टाक) रोमभेदे।

लोमन् = पु० लू–मनिन्। देहस्थे केशतुल्य (रो–या) षदार्थे अमरः।

लोमपाद = पु० लोमयुक्तौ पादावस्य शा० त०। अङ्गदेशस्थे नृपभेदे रामा०

लोमश = पु० लोमानि बाहुल्येन सन्त्यस्य श! १ मुनिभेदे २ मेषे ३ लोमयुक्ते त्रि० मेदि०। ४ काकजङ्घायां ५ जटामांस्यां, ६ वचायाम् ७ शुकशिम्ब्याम् ८ महामेदायां ९ काशीसे १० शाकिनीभेदे च स्त्री मेदि० ११ शणपुष्फ्याम् १२ अतिबलायां च स्त्री विश्वः। १३ बन्धमांस्यां स्त्री रजनि०।

लोमशकाण्डा = स्त्री लोमश इव काण्डोऽस्याः। कर्कट्याम् राजनि०।

लोमशपर्णिका = स्त्री लोमशानीव पर्णानि यस्याः कप् अत इत्त्वम्। माषपर्ण्याम् शब्दच०।

लोमशपुष्पक = पु० लोमशमिव पुष्पमस्य कप्। शिरीषवृक्षे राजनि०।

लोमशातन = न० लोमानि शातयति शद–णिच् तान्तादेशः ल्यु। लोमपातने औषधभेदे गरु० पु० १८५ अ० तदौषधमुक्तं यथा “हरितालशङ्खचूर्णं कदलीदलभस्मना। एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम्। ल वणं हरितालञ्च तण्डुल्याश्च फलानि च। लाक्ष र सकमायुक्तं लोमशातनमुत्तमम्। सुधा च हरितालञ्च शङ्खञ्चैव मनःशिला। सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत्। तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम्”।

लोमहर्षण = न० लोम्नां हर्षणं हर्षजनकव्यापार इव उद्भेद इति यावत्। १ रोमाञ्चे। लोमानि हर्षयति उत्तमश्लोककथया हृष–णिच्–ल्यु। व्यासशिष्ये सूतवंश्ये स्वनामख्याते २ पौराणिके पु० “प्रख्यातो व्यासशिष्योऽभूत् सूतो वै लोमहर्षणः। पुरणसंहितां तस्मै ददौ व्यासो महामुनिः” विष्णुपु०।

लोमहृत् = पु० लोमानि हसति हृ–क्विप तुक् च। १ हरिताले हेमच०। लोमशातनशब्दे तस्य तथात्वं दृश्यम्।

लोल = त्रि० लोड–अन् डस्य लः। १ सवृष्णे २ चञ्चले च अमरः च ३ जिह्वायां ४ लक्ष्म्याञ्च स्त्री मेदि०।

लोलार्क = पु० काशीस्थे अर्कमूर्त्तिभेदे काशीख० ४६ अ०।

लोलिका = स्त्री लोडयति सेवने दन्तान् लोड–ण्वुल् डस्य लः। १ चाङ्गेर्य्याम् (चुकोपालङ्ग) जटा०।

लोलित = त्रि० लुल–विमर्दे णिच् क्त। चालिते।

लोलुप(भ) = त्रि० लुभ–यङ् अच् पृषो० भस्य वा पः। अतिलोभयुक्ते अमरः।

लोष्ट = संहतौ राशीकरणे भ्वा० आ० सक० सेट्। लोष्टति अलोष्टिष्ट।

लोष्ट = पुंन० लोष्ट–अच्। १ मृत्पिण्डे (ढेला) अमर। २ लौहमले राजनि०।

लोष्टघ्न = पु० लोष्टं हन्ति सर्दयति हन० क। लौष्टभेदने मुद्गरादौ भरतः।

लोष्टभेदन = पु० लोष्टं मिनत्ति विमर्दयति भिद–ल्यु। लोष्टभेदनसाधके मुद्गरादौ भरतः।

लोष्ट्र = पु० लोष्ट–रन्। लोष्टे हेमच०।

लोह = पुंन० लू–विच् लौस्तं जहाति हा–क। १ धातुभेदे अमरः। २ धातुमात्रे मेदि० ३ रुधिरे राजनि० ४ अगुरुचन्दने न० अमरः। धातुभेदस्वरूपादि भावप्र० उक्तं यथा “अथ लोहस्योत्पत्तिनामलक्षणगुणाः “पुरा लोमिलदैत्यानां निहतानां सुरेर्युधि। उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च। लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। गुरुतादृढतोत्क्लेदकफदाहस्य कारिता। अश्मदोषः सुदुगन्धो दोषाः सप्तायसस्य तु। लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु। रुक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तं परं शूलं शोथार्शःप्लीहपाण्डुताः। मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि। पाण्डुत्वकुष्ठामयमृत्युदं भ{??} हृद्रोगशूलौ कुरुतेऽश्मरीञ्च। नानारुजाञ्चापि तथा प्रकोपं करोति हृल्लासमशुद्धलोहम्। जीपहारि मदकारि चायर्स चेदशुद्धिमदसंस्कृतं ध्रुवम्। पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति। कुद्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा। मद्यमम्लरसञ्चापि त्यजेल्लोहस्य सेवकः”। तत्र सारलोहस्य लक्षणं गुणाश्च “क्षमामृच्छिखराकाराण्यङ्गान्यम्लेन लेपयेत्। लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते। लोहसारो ह्ययं हन्याद्ग्रहणीमतिसारकम्। अर्द्धसर्वाङ्गजं वातं शूलञ्च परिणामजम्। छर्दिञ्च पीनसं पित्तं श्वासं कासं व्यपोहति”। अथ कान्तलोहस्य लक्षणं गुणाश्च। “यत् पात्रेण प्रसरति जले तैलविन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः। तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं तदुक्तम्। गुल्मोदरार्शःशूलाममामवातं भगन्दरम्। कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत्। प्लोहान- मम्लपित्तञ्च यकृच्चापि शिरोरुजम्। सर्वान् रोगान् विजयते कान्तलोहं न संशयः। तलं वीर्य्यं वपःपष्टिं कुरुतेऽग्निं विवर्द्धयेत्। अथ किदम्य “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते। लोहसिंहानिका किट्टं सिंहानञ्च निगद्यते। यल्लोहं यद्गुणं प्रोक्तं तत्किट्ट मपि तद्गुणम्”। अथ लोहस्य दोषशान्तये शोधनमभिधीयते “पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रे च कुलत्थानां कषाये च त्रिधात्रिधा। एवं लोहस्य पत्राणां विशुद्धिः संप्रजायते”। अथ लोहस्य मारणविधिः “शुद्धलोहभवं चूर्णं पातालगरुडीरसैः। मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटद्वयम्। पुटत्रयं कुमार्य्याश्च कुठारच्छिल्लिकारसैः। पुटषट्कं ततो दद्यादेवं तीक्ष्णा मृतिर्भवेत्”। अन्यच्च। “क्षिपेद्द्वादशर्माशेन दरदं तीक्ष्णचूर्णतः। मर्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः पुटेत्। एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात्। सत्याऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारुणे। कथ्यते रामराजेन कौतूहलधियाऽधुना। सूतकद्द्विगुण गन्धं दत्त्वा कुर्य्याच्च कज्जलीम्। द्वयोः सर्म लोहचूर्णं मर्द्दयेत् कन्यकाद्रवैः। यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके। घर्मे धृत्वा रूचकस्य पत्रैराच्छादवेद्वुधः। यामद्वयाद्भवेदुष्णं धान्यराशो न्यसेत्ततः। दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत्। पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत्। दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा। तद्रसेनायसश्चूर्णं सन्नीयात् प्लावयेदपि। आतपे शोधयेत्तच्च पुटेदेवं पुनः पुनः। एकविशतिवारैस्तन्म्रियते नात्र संशयः। एव सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत्”। एवं मारितलोहस्य गुणाः “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु। रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः। मेदोमेहक्रमीन् कुष्ठं तत्किट्टं तद्वदेव हि। गुञ्जामेकां समारभ्य यावत् स्युर्नव रत्तिकाः। तावल्लोहं समश्नीयाद्यथादोषानलं परः। कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा। मद्यमम्लरसञ्चव वर्जयेल्लोहसेवकः” भावप्र०। “यदा तु आयसे पात्रे पक्वमश्नाति वै द्विजः। स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते” मत्स्यपु०। “अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च। भृष्टादिकं मधु गुडं नारिकेलोदकं तथा। फलं मूलञ्च यत् किञ्चिदभक्ष्य मनुरब्रवीत् “ब्रह्मवै०।

लोहकण्टक = पु० लोहमिव कठिनः कण्ठको यस्य। १ मदनवृक्षे शब्दच०। २ लोहमयवण्टके च।

लोहकार = पु० लोह तन्मयं शस्त्रादि करोति कृ–अण। कम कारे। ण्वुल्। लोहकारकाऽप्यत्र। “गोपालात् तन्तुवार्य्या वै कर्मकारोऽभवत् सुतः” पराशरोक्ते जातिभेदे पुंस्त्री।

लोहकिट्ट = न० ६ त०। लौहमले। (लोहार गु)। राजनि०

लोहचूर्ण = न० ६ त०। (लोहाचुर) ख्यात १ पदार्थे २ लोहमले राजनि०।

लोहज = न० लोहात् लोहाभ्यां वा जायते जन–ड। १ लोहमले राजनि० २ धातुद्वयजे कांस्ये च हेमच०।

लोहद्राविन् = पु० लोहानि धातुद्रव्याणि द्रावयति द्रु–णिच् णिनि। १ टङ्कणे (सोहागा) राजनि०। २ धातुद्रावके त्रि०।

लोहपृष्ठ = पुंस्त्री० लोहमिव कठिनं पृष्ठमल। कङ्कपक्षिणि अमरः स्त्रियां ङीष्।

लोहमारक = पु० लोहं मारयति जारयति मृ–णिच्–ण्वुल्। शालिञ्चशाक त्रिका०।

लोहल = पु० लोहमिव लाति ला–क। १ अव्यक्तवचने अमरः २ लोहग्राहके त्रि०।

लोहवर = न० लोहेषु सर्वधातुषु मध्ये वरम्। स्वर्णे मेदि०।

लोहश्लेषण = न० लोहानि स्वर्णादीनि श्लवयति योजयति श्लिष–णिच्–ल्यु। टङ्कण (सोहागा) हेमच०।

लोहसङ्कर = न० लोहानां धातुद्रवाणां सङ्करो यत्र। मिश्रितधातौ १ रीत्यादौ २ वर्त्तलोहे च राजनि०।

लोहाभिसा(हा)र = पु० लोहं तन्मयशस्त्रम अभिस्रि(ह्रि)यतेऽत्र अभि + सृ–(ह)–वा आधारे घञ्। राज्ञां युद्धयात्रादौ शस्त्रनीराजनाविधौ अमरः।

लोहार्मल = पु० १ तीर्थभेदे वराहपु०। २ लोहकीले च।

लोहित = न० रुह इतच् रस्य लः। १ कुङ्कुमे २ रक्तचन्दन ३ रक्तगोशीर्षकभेदे मेदि०। ४ पत्तङ्गे ५ हरिचन्दने शब्दच०। ६ तृणकुङ्कुमे ७ रुधिरे च राजनि० ८ युद्धे हेमच०। ९ नदभेदे १० मर्दने ११ रक्तवर्णे च पु० मेदि०। १२ रक्ततायुत त्रि०। १३ मृगभेदे १४ रोहितमत्स्ये १५ सर्पे १६ देवभेदे भरतः। १७ मसूरे शब्दच० १८ रक्तालौ १९ रक्तशालौ राजनि०। २० वनभेदे २१ सरोवरभेदे ब्रह्मपुत्रशब्दे दृश्यम्। सर्वत्र जातौ स्त्रियां ङीष्। वर्णे तु स्त्रीत्वे ङीप् तस्य नः। लोहिनी लाहितवर्णयुतस्त्रियाम्। रुह–इनन् रस्य लः। रोहणकर्त्तरि स्त्रियां टाप्।

लोहितक = न० लोहितमिव कायति कै–क। १ पित्तले राजनि०। लोहित + इवार्थे कन्। २ पद्मरागमणौ पु० हेमच०। ३ मङ्गलग्रहे पु० शब्दमाला।

लोहितचन्दन = न० कर्म०। १ कुङ्कुमे अमरः २ रक्तचन्दने च।

लोहितपुष्पक = पु० लोहितानि रक्तानि पुष्पाण्यस्य कप्। दाडिमवृक्षे भावप्र०। २ रक्तवर्णपुष्पयुते त्रि०।

लोहितमृत्तिका = स्त्री कर्म०। १ गैरिके (गेरिमाटी) रत्नमा० २ रक्तमृदि च।

लोहिता = स्त्री रुह–इतच् रस्य लः। १ वराहक्रान्तायां शब्दच० २ रक्तपुनर्नवायां राजनि०। ३ रक्तवर्णायां स्त्रियाञ्च।

लोहिताक्ष = पु० लोहिते अक्षिणी यस्य षच् समा०। १ विष्णौ शब्दच० २ कोकिले च पुंस्त्री० शब्दच०। ३ रक्तनेत्रयुते त्रि० स्त्रियां ङीष्।

लोहिताङ्ग = पु० लोहितमङ्गमस्य। १ मङ्गलग्रहे अमरः २ काम्पिल्लवृक्षे च राजनि०।

लोहितानन = पुंस्त्री० लोहितमाननमस्य। १ नकुले राजनि० स्त्रियां ङीष्। २ रक्तमुखे त्रि० स्त्रियां टाप्।

लोहितायस = न० लोहितं वर्णमेति इण्–असुन्। ताम्रे त्रिका०।

लोहितायस = न० लोहितमयः अच् स०। १ ताम्रे २ रक्तवर्णायोजातिमेदे च।

लोहोत्तम = न० लोहेषु धातुषूत्तमम्। स्वर्णे हेमच०।

लौकायतिक = न० लोकायतं चार्वाकशास्त्रं वेत्त्यधीते वा ठक्। चार्वाकमताभिज्ञे।

लौकिक = त्रि० लोके विदितः प्रसिद्धो हितो वा ठण्। १ लोकविदिते २ लोकप्रसिद्धे। २ लोकहिते च।

लौकिकाग्नि = पु० कर्म०। विधानेन संस्कारशून्ये वह्नौ।

लौड = उन्मादे भ्वा० पर० सक० सेट्। लौडति अलौडीत्। ऋदित् चङि न ह्रस्वः।

लौह = पु० लोहमेव स्वार्थे अण्। (लोया) १ धातुभेदे भरतः। २ धातुमात्रे च।

लौहज = न० लौहात लौहाभ्यां जायते वा जन–ड। १ मण्डूरे रमा०। धातुद्वयजे कांस्यपित्तलादौ च।

लौहभाण्ड = पु० लोहस्य विकारः अण् कर्म०। (हामानटिस्ता) २ लौहमये पात्रभेदे शब्दच०। ३ लोहमयपात्रमात्रे न०।

लौहमल = न० लोहस्येदमण् कर्म०। लोहकिट्टे राजनि०।

लौहित्य = न० लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा। १ रक्तवर्णे २ रक्तत्वे “लोहितात् सरसो जातो लोहित्यस्तु ततोऽभवत्” उक्ते ३ ब्रह्मपुत्रनदभेदे। “तीर्णलौहित्ये” रघुः।

ल्पी = श्लेषे क्य्रा० प्वा० पर० सक० अनिट्। ल्पिनाति अल्पैषीत्।

ल्वी = गतौ क्या० पा० पर० सक० अनिट्। ल्विनाति अल्वैषीत्। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये लकारादिशब्दार्थसङ्कलनम्।

***