रे = अव्य० रा–के। नीचादेः सम्बोधने हेमच०।
रेक = शङ्कायां भ्वा० आ० स० सेट्। रेकते अरेकिष्ट। ऋदित् चङि न ह्रस्वः।
रेक = पु० रिच–घञ्। १ विरेचने। रेक–अच्। २ शङ्कायां, ३ नीचे मेदि० ४ भेके पुंस्त्री० जटा०। स्त्रियां ङीष्। रेक–मावे अ। ५ सन्देहे स्त्री हेमच० टाप्।
रेकणस् = न० रिच–असुन् थिच्च तेन कुत्वं सट्। स्वर्णे सि० कौ०
रेखा = स्त्री लिख–अच् लस्यरः। १ अल्पे, २ छले, ३ आभोगे, विन्दुपुञ्जकृते दण्डाकारे ४ चिह्नमेदे (दाडि) (कसा) विश्वः। ५ सुमेरुलङ्कयोर्मध्यस्थसूत्रगस्थलभेदे च।
रेखागणित = न० रेखायाः गणितं प्रमाणस्वरूपादि यत्र। जगन्नाथपण्डितकृते गणितग्रन्थभेदे क्षेत्रशब्दे तत्परिभाषादिकं २३८९ पृ० उक्तम्।
रेखापुर = न० भुवो मध्यसूत्रस्थः पुरम्। “राक्षसालयदेवौकः शैलयोर्मध्यसूत्रगाः। रोहितकमवन्ती च तथा सन्निहितं सरः” सू० सि० उक्ते पुरे। “राक्षसालयं लङ्का देवानां गृहरूपः पर्वतो मेरुरनयोर्मध्ये ऋजुसूत्रं तत्र स्थिता देशा रेखाख्याः लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्र मनुष्यागोचरत्वादिति नोक्ताः। ज्ञानार्थमुदाहरति। रोहीतकमिति। यथा रोहीतकं नमरमवन्त्युज्जयिनीसन्निहितं सरः कुरुक्षेत्रम्। चकारस्तथेत्यव्ययपरः। तथान्यानि परस्परं सन्निहिततया ज्ञेयानि” रङ्ग०।
रेचक = न० रेचयति रिच–णिच्–ण्वुल्। १ कङ्गुष्ठे राजनि० २ यबक्षारे, पु० त्रिका०। ३ जयपाले, ४ तिलकवृक्षे पु० राजनि०। ५ पुरीषनिःसारके त्रि०। क्रीडार्थजलनिःसारयन्त्रे न० (पिचकिरी) राजनि०। ५ कोष्ठ्यस्य वायोर्निःसारके व्यापारभेदे कुम्भकशब्दे २११४ पृ० दृश्यम्।
रेचन = न० रिच्–ल्युट्। १ मलभेदनेन तन्निःसारणे। २ कोष्ठात् वायोर्नासिकया निःसारणे च।
रेचनक = पु० रिच्यतेऽनेन ल्युट् संज्ञायां कन्। १ काम्पिल्ल० वृक्षे। कनभावे वा ङीप्। रेचनी तत्रार्थे शब्दर०। २ दन्तीवृक्षे ३ कालाञ्जन्यां राजनि०। ४ श्वेतत्रिवृतायाम् स्त्री मेदि० टाप्। ५ काम्पिल्लवृक्षे स्त्री शब्दर०।
रेची = स्त्री रेचयति अच् गौ० ङीष्। १ काम्पिल्लवृक्षे २ अङ्कोठे च राजनि०।
रेज = दीप्तौ भ्वा० आत्म० अक० सेट्। रेजते अरेजिष्ट। ऋदित् चङि न ह्रस्वः।
रेजते = स्त्री रज + अते। उत्तरस्यां दिशि निघण्टुः।
रेट = याचने वाचि च द्वि० भ्वा० उभ० सेट्। रेटति ते अरेटीत् अरेटिष्ट। ऋदित् चङि न ह्मस्वः।
रेणु = पुंस्त्री० री–नु। १ परागे २ धूलौ च अमरः। ३ रेणुकायां स्त्री ४ पर्पटे पु०। ५ पांशौ च राजनि०।
रेणुका = स्त्री रेणुना कायति कै–क। मरिचाकृतौ १ सुगन्धिद्रव्ये अमरः “रेणुका कटुका षाके तिक्तानुष्णा लघुः कटुः। पित्तला दीपनी मेध्या पाचनी गर्भपातिनी। बलासवातवैलव्य तृट्कण्डू विषदाहनुत् पावप्र०। २ जमदग्निपत्न्यां ३ परशराममातरि च।
रेणुकासुत = पु० ६ त०। परशुरामे रेणुकात्मजादयोऽप्यत्र।
रेणुरूषित = स्त्री रेणुभिः रूषितः। १ गर्द्दमे त्रिका० स्त्रियां ङीष्। २ धूलिधूसरे त्रि०।
रेणुसार = पु० रेणुरिव सारोऽस्य। १ कर्पूरे त्रिका०। कप्। तत्रैवार्थे।
रेतजा = स्त्री रेत इव जायते जन–ड पृषो०। वालुकायां भावप्र०।
रेतस = न० री–असुन् तुट् च। पुंसी रक्तादिपरिपाकजन्थे देहस्थे मज्जहेतुके चरमधातौ १ शुक्रे शिववीर्य्ये २ पारदे च मेदि०।
रेत्र = न० री–त्र। १ रेतसि २ पीयूषे ३ पटवासे ४ सूत्रके च मेदि०।
रेप = शब्दे अक० गतौ सक० भ्वा० आत्म० सेट्। रेपते अरेपिष्ट ऋदित् चङि न ह्रस्वः।
रेप = त्रि० रेप–अच। १ निन्दिते २ क्रूरे ३ कृपणे च मेदि०।
रेफ = पु० र + इफ। १ रकारात्मके वर्णे। रिफ–अच्। २ कुत्सिते त्रि० अमरः।
रेफस् = त्रि० रेप–असुन् पस्य फः। १ क्रूरे २ अधमे, ३ दुष्टे ४ कृपणे च शब्दर०।
रेब(व) = गतौ सक० प्लुतौ अक० भ्वा० आ० सेट्। रेब(व)ते अरेबि(वि)ष्ट। ऋदित् चङि न ह्रस्वः।
रेभ = शब्दे भ्वा० आत्म० अक० सेट्। रेभते अरेभिष्ट। ऋदित् चङि न ह्रस्वः।
रेवत = पु० रेव–अतच्। १ जम्बीरे जटा० २ आरग्वधे शब्दचि० ३ बलरामश्वशुरे राजभेदे हरिवं०।
रेवती = स्त्री रेवतस्यापत्यमण् रेवत्यादीति निर्देशात न वृद्धिः। १ रवतराजकन्यायां बलदेवपत्न्याम्। रेव–अतच् गौ० ङीष्। आश्वन्यवधितः सप्तविंशतिसंख्याते २ नक्षत्रे, ३ तत्संख्यायां, ४ मातृकाभेदे मेदि०। ५ स्त्रीगव्याम अजयपा० ६ नदीभेदे, ७ दुर्गायाञ्च देवीपु०। ८ रेवतीपदघटिताया मृचि च एतस्यैव रेवतीषु वारवन्तीयम्” श्रुतिः। ९ पञ्चममनुपत्न्याम्।
रेवतीभव = पु० ७ त०। शनैश्चरे हेमच०। भगदैवतशब्दे ४६३१ पृ० दृश्यम्।
रेवतीरमण = पु० रेवतीं रमयति रम–णिच् ल्यु। वलरामे। ६ त०। रेवतीशादयोऽप्यत्र।
रेवत्यादि = पु० अपत्यार्थे ठक्प्रत्ययनिमित्ते शब्दगणे। पा० ग० सूत्रे दृश्यम्।
रेवन्त = पु० रेव–झच्। १ गुह्यकाधिपतौ २ सूर्य्यपुत्रभेदे च वह्निपु०।
रेवा = स्त्री रेव–अच्। १ नर्मदाख्यनद्याम् अमरः। २ कामपत्न्यां ३ नीलीवृक्षे च मेदि० ४ दुर्गायां देवीपु०।
रेष = ह्रेषायां (घोटकशब्दे) भ्वा० आत्म० अक० सेट्। रेषते अरेषिष्ट। ऋदित् चङि न ह्रस्वः।
रै = शब्दे भ्वा० पर० अक० अनिट्। रायति अरासात्।
रै = पु० रा–डै। १ धने २ स्वर्णे अमरः। ३ शब्दे शब्दर० अस्य हलादौ सुपि आत्त्वम् राभ्यामित्यादि।
रैत्य = त्रि० रीतेः पित्तलस्य विकारः रीति + ण्यत्। पित्तलमय पात्रादौ।
रैवत = पु० रेवत्या नद्या अदूरो देशः अञ्। द्वारिकासमीपस्थे १ पर्वतभेदे २ स्वर्णालुवृक्षे, ३ शिये मेदि०। ४ दैत्यभेदे धरणिः। रेवर्त्या भवः अण्। ५ चतुर्दशसु मनुषु पञ्चमे मनुभेदे। श्चरे च।
रैवतक = पु० रैवतएव स्वार्थे क। १ रैवतपर्वते हेमच० २ पारेवतवृक्षे न० राजनि०।
रोक = न० रु–कन् तस्य नेत्त्वम्। १ छिद्रे अमरः “तन्मे रोकं च शोकञ्चेति” ति० त०। २ नौकायाम् ३ चले त्रि० मेदि० रुच–घञ् नि० कुत्वम्। क्रयकाले मूल्यदानेन क्रयात्मके ४ क्रयभेदे ५ दीप्तौ च पु० मेदि०।
रोग = पु० रुज–घञ्। १ धातुवैषम्यजाते व्याधौ राजनि० २ कुष्ठौषधे च (कुड) मेदि०।
रोगघ्न = न० रोगं हन्ति हन–टक्। १ औषधे, २ वैद्यकशास्त्रे च ३ रोगनाशके त्रि०।
रोगराज = पु० ६ त० टच् समा०। राजयक्ष्मव्याधौ राजनि०।
रोगलक्षण = न० रोगो लक्ष्यते ज्ञायतेऽनेन लक्ष–करणे ल्युट्। रोगानुमापके धातुवैषम्यहेतुके चिह्नभेदे निदाने राजनि “रोगस्तु दोषवैषम्यं दोषसाम्यमरोगता। रोगा दुःखस्य दातारो ज्वरप्रभृतयो हि ते। ते च स्वाभाविकाःकेक्षित्केचिदागन्तवः स्मृताः। मानसाः केचिदाख्याताः कथि ताः केऽपि कायिकाः। तत्र स्वाभाविकाः शरीरस्वभा वादेव जाताः क्षुत्पिपासासुषुप्त्यादिजरामृत्युप्रभृ तयः अथ वा स्वस्वभावादुत्पत्तेर्जाता स्वाभाविकाः सहजा इति यावत्। ते च जन्मान्धत्वादयः। आगन्त वोऽभिघातादिजनिताः। अथ वा जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्यासूयामात्सर्य्यप्रभृतयः। अथ वा उन्मादापस्मार मूर्च्छाभ्रममोहतमःसंन्यासप्रभृतयः। कायिकाः पाण्डुरोगप्रभृतयः “कर्म्मजाः काथिताः केचिद्दोषजाः सन्ति चापरे। कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविध स्मृताः”। तत्र कर्म्मजा व्याधयः यत्प्राक्तनन्दुष्कम प्रबलङ्केवलंभोगनाश्यम् प्रायश्चिचनाश्यं वा ततं जाताः नतु दुष्ट वातादिदौषेण जनितास्तथा। “यथाशास्त्रन्तु निर्णीतो यथाव्याधि चिकित्सितः। न शा याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः”। दोषजाः। मिथ्याहारविहारप्रकुपितवातपित्तकफजाः। ननु मिथ्याहारविहारिणामपि प्राक्तनमुकृतेन नैरुज्य दृश्यत एव। ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं दोषजा इत्युच्यते। दोषजेष्वपि वस्तुतः आदि कारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहार दूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्ते इति समाधिः। कर्मदोषोद्भवाः “स्वल्पदोषा गरीयांसोऽधर्मास्ते कमदोषजाः”। अत्र कारणं दुष्कर्म प्रबलं यतो दोषाल्पत्वेऽपि व्याधेर्गरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति। दोषाः स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्त एवेति दोषाणां कारणता मन्यन्त इति। “कर्मक्षयात् कर्मकृता दोषजाः स्वस्वभेषजैः। कर्मदोषोद्भवा यान्ति कर्मदोषक्षये क्षयम्”। दोषजाः स्वस्वभेषजैरिति दोषजष्यादिकारणं दुष्कर्म तद्भेषजाथं द्रव्यक्षयादिजनित दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभोगेन च क्षयं यान्ति। शेषा दुष्टा हेतवो दोषास्ते स्वस्वभंषजैः क्षयं यान्तीत्यर्थंः। “साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाः स्मृताः। सुखसाध्यः कष्टसाध्यो द्विविधः साध्य उच्यते”। याप्यलक्षणमाह “यापनीयन्तु वृत्तायां सद्यो यश्च विनश्यति। प्राप्तःक्रिया धारयति सुखिनं याय्यमातुरम्। प्रषतिष्यदिवागार स्तम्भो यत्नेन योजितः। साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतान्तथा। घ्नन्ति प्राणानसाध्यास्तु नराणा मक्रियावताम्”। अक्रियावतां चिकित्सारहितानाम्। अथोपद्रवस्य लक्षणम्। “रोगारम्भकदोषस्य प्रकोपादुपजातते। बोऽन्यो विकारः स बुधैरुपद्रव इहोदितः”।
रोगशिला = स्त्री रोगाय तन्निवृत्तये शिला। मनःशिलायाम् राजनि०।
रोगह = न० रोगं हन्ति हन–ड। १ औषधे शब्दच०। हन–क्विप् रोगहन्। रोगहन्तरि वैद्यादौ त्रि०।
रोगहर = त्रि० रोगं हरति हृ–अच्। आधिनाशके द्रव्यादौ तच्च सुश्रुतादौ दृश्यम्।
रोगहारिन् = पु० रोगं हरति हृ–णिनि। १ चिकित्सके वैद्ये अमरः। २ रोगनाशके त्रि०।
रोगितरु = पु० रोगिप्रियस्तरुः शाक०। अशोकवृक्षे राजनि०।
रोगिन् = त्रि० रोग + अस्त्यर्थे इमि रुज–घिनुण् वा। १ व्याधियुक्ते राजनि० स्त्रियां ङीप्।
रोचक = त्रि० १ रुचिकारके। २ क्षुधायां हेमच०। ३ कदल्यां शब्द० ४ राजपलाण्डौ ५ अवदंशे (चाटनि) च राजनि० ६ ग्रन्थि र्णभेदे विश्वः।
रोचन = पु० रुच–ल्यु रोचयति वा ल्यु। १ कूटशाल्मलिवृक्षे २ श्वेतशोभाञ्जते, ३ पलाण्डौ ४ दाडिमे च राजनि० ५ करञ्जे, ६ अङ्कोठे, ७ आरग्बधे च मेदि० ८ उत्तमायां नार्य्यां ९ रक्तकह्लारे स्त्री मेदि० टाप्। ११ रुचिकारवे त्रि०।
रोचनक = पु० रोचनाय रुचिजननाय कायति कै–क। जम्बीरे राजनि०।
रोचनफल = पु० रोचनं रुचिकरं फलमस्य। १ वीजपूरके जम्बीरभेदे २ चिर्भट्यां स्त्री राजनि०
रोचनी = स्त्री रोचयतीति कर्त्तरि ल्युट् गौरा० ङीष्। १ मनःशिलायाम् हेमच० २ गोरोचनायां ३ आमलक्याम, राजनि० ४ श्वेतत्रिवृति, ५ गन्धद्रव्यभेदे च (गुडारोचना) अमरः।
रोचमान = पु० रुच–शानन्। १ अश्वग्रीवास्थरोमावर्त्ते त्रिका०। २ रुचियुक्ते त्रि०।
रोचिष्णु = त्रि० रुच–इष्णुच्। १ दीप्तिशीले २ रुचिशीले च।
रोचिस् = न० रुच–इसुन्। प्रभायाम् अमरः।
रोची = स्त्रौ रोचयति रुच्–णिच्–अच् गारा० ङीष्। हिलमोचिक्वायाम् शब्दर०।
रोटिका = स्त्री रुट–ण्वुल्। गोधूमादिचूर्णनिर्मिते पिष्टकभेदे (रुटी) भावप्र० कृतान्नशब्दे २१८१ पृ० दृशाम्।
रोड = अनादरे भ्वा० पर० सक० सेट्। रोडति अरोडीत् ऋदित् चङि न ह्रस्वः।
रोदन = न० रुद–ल्युट्। १ क्रन्दने २ अश्रुणि मेदि०। करणे ल्युट् ङीप्। ३ दुरालभायाम् अमरः। संज्ञायां कन् अत इत्त्वम्। रोदनिका ४ यवासायाम् अमरः।
रोदस् = न० रुद–असुन्। १ स्वर्गे २ भूमौ च अमरः। गौरा० ङीष् रोदसीत्यप्यत्र। २ द्यावाभूम्योः स्त्री द्वि० व० अमरः। ३ पृथिव्या निघण्टुः।
रोध = पु० रुध–घञ्। १ रोधने २ आवरणे च ३ नदीतीरे भरतः।
रोधन = त्रि० रुणद्धि रुध–ल्यु। १ रोधकर्त्तरि। भावे ल्युट्। २ प्रतिबन्धे न०।
रोधस् = न० सध–असुन्। गद्यादिकूले अमर।
रोधवक्रा = स्त्री रोधेन तीरेण वक्रा। नद्यां निघण्टुः। रोधोवक्राऽप्यत्र त्रिका०।
रोध्र = न० रुध–रन्। १ पापे २ अपराधे ३ लोध्रवृक्षे पु० मेदि०।
रोध्रपुष्प = पु० रोध्रस्य लोध्रस्येव पुष्पमस्य। मधूकवृक्षे (मौल) राजनि०।
रोध्रपुष्पिणी = स्त्री रोध्र इव पुष्प्यति पुष्य विकाशे णिनि। धातकीदृक्षे (धाइफुल) राजनि०।
रोप = पु० रुह–णिच्–हस्य पः कर्मणि अच्। १ वाणे अमरः भावे अच्। २ रोपणे वान्यादेर्जननाय ३ अङ्कुरारोपणे च मेदि० ४ छिद्रे न० हमच०।
रोपण = न० रुह–णिच्–हस्य पः ल्युट्। १ जनने २ अञ्जनभेदे रुप–ल्युट्। ३ विमोहने ४ अन्यथाभूतस्य वस्तुनीऽन्यथा ज्ञाने। अञ्जनभेदप्रकारादि भावप्र० उक्त यथा “शिलायां रसकं पिद्वा सम्यक् संप्लाव्य वारिणा। मृह्णीयात्तज्जलं सर्वं त्यजेच्चूर्णमधोगतम्। शुष्कञ्च तज्जलं सर्वं पर्पटीसन्निभं भवेत्। विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः। कर्पूरस्य रसं तत्र दशमांसेन निक्षिपेत्। अञ्जयेन्नयने तेन नेत्राखिलगदच्छिदः”।
रोपणीवर्त्ति = स्त्री नेत्राञ्जनवटीभेदे मावप्र० तत्प्रकार उक्तो यथा “अशीतिस्तिलपुष्पाणि षष्टिः पिष्पलितण्डुलाः। जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश। सूक्ष्मं पिष्ट्वाम्बु ना वर्त्तिः कृता कुसुमिकाभिधा। तिमिरार्जुनशुक्राणां नाशिनी मांसवृद्धिनुत्। एतस्या अञ्जने प्रोक्ता मात्रा सह हरेणुका”। (कुसुमिका वदी)।
रोपित = त्रि० रुह–णिच्–हस्य पः क्त। १ वृक्षादेर्जननाय कृताङ्कुरारोपणे अन्यथास्थिते अन्यरूपेण निर्दिष्टे यथा मुखं चन्द्र इत्यादौ मुखस्य चन्द्ररूपेण निर्देशः।
रोमक = न० रोमेव निविडं कायति कै क। (रुम) १ नगरे सू० सि०। २ पांशुलवणे ३ अयस्कान्ते च राजनि०।
रोमकन्द = पु० रोम्णा युक्तः कन्दो मूलमस्य। पिण्डालौ राजनि०।
रोमकपत्तन = न० कर्म०। (रुम) नगरभेदे सू० सि०।
रोमकूप = पु० रोम्णां कूप इव। रोमाधारे विवरे “न रोमकूपौघमिषादिति” नैषधम्।
रोमकेसर = न० रोमभिः केसरः सिंहसटेव। चामरे त्रिका०
रोमगुच्छ = न० रोमभिर्गुच्छं स्तवकमिव। रोमसमुदायात्मके चामरे स्वार्थे क। अवैवार्थे हेमर०।
रोमन् = न० रु–मनिन्। देहजाते अङ्कुराकारे केशतुल्ये पदार्थे (रो~या) अमरः।
रोमन्थ = पु० रोगं मथ्नाति मन्थ–अण् पृषो० गलोपः। भुक्तस्य थासादेः पशुभिरुद्गीर्य्य चर्वणे। रोमन्थमभ्यस्यति क्यङ्। रोमन्थायते।
रोमभूमि = स्त्री ६ त०। चर्मणि राजनि०।
रोमलता = स्त्री रोमाणि लतेव। रोमराजौ हेमच०।
रोमविकार = पु० ६ त०। रोमोद्गमे रोमाञ्चे हला०।
रोमश = त्रि० रोमाणि सन्त्यस्य श। १ प्रचुररोमयुक्ते २ मेषे पुंस्त्री० हेमच० स्त्रियां ङीष्। ३ पिण्डालौ ४ शूकरे पुंस्त्री स्त्रियां ङीष्। ५ कुम्भ्याञ्च पु० (पाना) राजनि०।
रोमहर्ष = पु० रोम्णः हर्ष इव तद्व्यञ्जकत्वात्। रोमाञ्चेहर्षौत्सुक्यादिभिः रोमकूपे जायमाने कण्टकाकारे पदार्थे हारा०। ल्युट्। रोमहर्षणमप्यत्र अमरः।
रोमहर्षण = पु० रोमाणि हर्षयति हृष णिच् ल्युट्। १ विभीतकवृक्षे मेदि० २ लोमहर्षणे मुनिभेदे च।
रोमाञ्च = पु० रोम्णामञ्चः उद्गमः अन्च–अच्। रोमहर्षे अमरा।
रोमाञ्चित = त्रि० रोमाञ्चः जातोऽस्य तार० इतच्। जातपुलके त्रिका०।
रोमाली = स्त्री ६ त०। १ रोमाकलौ तदुद्भवसाधने तारुण्याववस्थायाञ्च शब्दमा०।
रोमालु = पु० रोमयुक्त आलुः शाक०। १ पिण्डालौ राजनि० रोम + आलुच्। २ रोमवति त्रि०।
रोमालुविटपिन् = स्त्री रोमालुः रोमयुक्तः विटपी। कुम्भीवृक्षे राजनि०।
रोमावलि(ली) = स्त्री ६ त०। १ रोमश्रेणौ २ नाभेरुर्ध्वस्थरोमपड्क्तौ तदुपलक्षिते ३ तारुण्यावस्थायाञ्च हेमच०।
रोमोद्गम = पु० रोम्णामुद्गमः उद्–गम घञ्। रोमहर्षे हला०। रोमोद्भेदादयोऽप्यत्र।
रोरुदा = स्त्री रुद–यङ् भावे अ टाप्। अतिशयरोदने।
रोल = पु० रु–लच्। पानीयामलके शब्दच०।
रोलम्ब = पुंस्त्री रौति रु विच् रौः सन् लम्बते गच्छति लम्बअच् कर्म्भ० रोड अम्बच् डस्य लो वा। भ्रमरे त्रिका० स्त्रियां ङीष्।
रोष = पु० रुष–घञ्। क्रोधे अमरः।
रोषण = पु० रष–युच्। १ पारदे, २ निकषप्रस्तरे, मेदि०। ३ उषरभूमौ ४ क्रोधशीले त्रि० हेमच०।
रोह = पु० रुह–अच्। १ अङ्कुरे हेमच० २ रोहणकर्त्तरि त्रि०।
रोहण = पु० रुह्यतेऽसौ रुह ल्युट्। १ पर्वतभेदे जटा०। भावे ल्युट्। २ प्रादुर्भावे न०। करणे ल्युट् ३ शुक्रे राजनि०
रोहन्त = पु० रुह–झच्। १ वृक्षभेदे, २ वृक्षमात्रे च। ३ लताभेदे, ४ लतायाञ्च स्त्री उणादि० गौरा० ङीष्।
रोहि = पु० रह इन्। १ वीजे, २ वृक्षे च उणादि०। ३ धार्मिके त्रि० सि० वौ०।
रोहिण = न० रुह–इनन्। पञ्चदशधा विभक्तदिनस्य नवेमे भागे “कुर्य्यादारोहिणं बुधः” इति स्मृतिः। रोहिणी देवताऽस्य अण्। रौहिणमप्यत्र। २ वटवृक्षे, ३ रोहितकवृक्षे ४ भूतृणे च पु० राजनि०।
रोहिणी = स्त्री रुह–इनन् गौरा० ङीष्। १ स्त्रीगव्याम् अमरः अश्विन्यवधिके चतुर्थे २ नक्षत्रे ज्यो० ३ वसुदेवपत्न्यांबलभद्रमातरि, ४ विद्युति, ५ कटुतुम्ब्व्यां, ६ सोप्रवलके च मेदि०। रोहित + स्त्रियां ङीप् तस्य नत्वे णत्वम्। ७ रक्तवर्णयत्यां स्त्रियाम्। सा च ८ हरितक्याम्, ९ काश्मर्य्याम्, १० मञ्जिष्ठायाश्च राजनि०। ११ सुरभिकन्यायां कालिसापु० “अष्टवर्षा भवेत् गौरी नववर्षा च रोहिणी” स्मृत्युक्तायां नववर्षायां १२ कन्यायां १३ गलरोगभेदे भावप्र० “रोहिणीनामकगलरोगाणां नामानि संख्याञ्चाह “रोहिणी पञ्चषा प्रोक्ता कण्ठशालूक एव च। अधिजिह्वश्च वलयोऽलासनामैकवृन्दकः। ततो वृन्दः शतघ्नी च गिलायुः कण्ठविढ्रधिः। गलौघः प्रस्वरघ्नश्च मांसतालस्तषैव च। विदाही कण्ठदेशे तु रोगा ह्याष्ठाविति स्मृताः। तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्तिमाह “गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम्। गलोपसंरोधकरैस्तधाङ्कुरैर्निहन्त्य सून् व्याधिरियं हि रोहिणी”। अनिलः मूर्च्छितः पवृद्धः कफपित्तौ च मूर्च्छितौ वित्तं वा मूर्च्छितं कफो वा मूर्च्छितः न तु त्रयोऽपि मूर्च्छिताः” पृथग्दोषजाया अविवक्ष्यमाणत्वात्। तस्या वातजायालक्षणमाह “किह्वासमन्ताद्भृशवेदनास्तु मांसाङ्गुराः कण्ठविरोधनाः स्युः। सा रोहिणी वातकृता प्रदिष्ठा वातात्यकोपद्रव गाढयुक्ता”। जिह्वासमन्तात् जिह्वायाः सर्वतः। “वातात्मकोपद्रवगाढयुक्ता स्तम्भादिभिरतिशयेन युक्ता। पित्तजामाह “क्षिप्रोद्गमा क्षिप्रयिदाहपाका तीव्रज्वरा पित्तनिमित्तजाता”। श्लेष्मजामाह “स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु। स्रोतोऽत्र कण्ठस्रोतः। सन्निपातजामाह “गम्भीरपाकिम्यनिवार्थ्यवीर्य्या त्रिदोषलिङ्गा त्रिभवा भवेत् सा”। रक्तजामाह स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु”। रक्तजेतरासंहारकत्वावधिमाह “सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्धवा। पञ्चाहात् पित्तसम्भूता सप्ताहात् पवनोत्थिता”।
रोहिणीपति = पु० ६ त०। १ चन्द्रे, २ वसुदेवे च रोहिणीनाथादयोऽप्यत्र।
रोहिणीव्रत = न० रोहिणीयुक्ताष्टम्यां व्रतम्। रोहिण्युपलक्षितायां भाद्रकृष्णाष्टम्यां कर्त्तव्ये उपवासरूपे व्रते। कृष्णाष्टमीशब्दे २२२० पृ० दृश्यम्।
रोहिणीशकट = न० ६ त०। व्योमस्थे ताराभेदे खमोलशब्दे २४२२ पृ० दृश्यम्।
रोहित = पु० रुह–इति। १ सूर्य्ये मेदि० २ वर्णभेदे च ३ मत्स्य भेदे पु० उज्ज्वल०। ४ लताभेदे ५ मृग्याञ्च स्त्री ङीप् मेदि०।
रोहित = न० रुह इतच्। १ रुधिरे २ कुङ्कुमे ३ ऋजौ इन्द्रचापे मेदि०। ४ रोहितकवृक्षे पु० स्वनामख्याते ५ मत्स्यभेदे पुंस्त्री० स्त्रियां ङीष् मेदि०। “रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः। कृशपक्षो झसश्रेष्ठो रोहितः कथितो बुधैः। रोहितः सर्वमत्स्यानां वरो वृष्योऽर्द्दितार्त्तिजित्। कषायानुरसः स्वादुर्वातघ्नो नातिपित्त० कृत्। ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम्” भावप्र०। ६ रक्तवर्णे पु० ७ तद्वति त्रि० अमरः। स्त्रियां ङीष् तस्य नत्वे णत्वम्। ८ अग्निवाहने मृगभेदे निधण्टुः। स्वार्थे क। रोहितक उक्तार्थे ९ वृक्षभेदे अमरः।
रोहिताश्व = पु० रोहिती नृतभेद अश्व इव गतिसाधनम् यस्य। वह्नौ निघण्डूक्तिर्दृश्या।
रोहितेय = पु० रोहित एव स्वार्थे ढ। रोहितकवृक्षे रत्नको०
रोहिन = पु० रोहति पुनःपुनश्छिन्नोऽपि प्रादुर्भवति रुहणिनि। १ रोहितकवृक्षे २ वटवृक्षे ३ अश्वत्थवृक्षे च। मेदि०। ४ रोहणवति त्रि० स्त्रियां ङीप्।
रोहिष = पु० रुह–इषन्। स्वनामख्याते कत्तृणे मेदि०।
रौक्ष्य = न० रूक्षस्य भावः ष्यञ्। १ पारुष्ये २ अचिक्वणतायाञ्च।
रौचनिक = त्रि० रोचनया रक्तः अण। रोचनया रक्ते।
रौच्य = पु०। त्रयोदशे मनुभेदे मत्स्यपु० ९ अ०।
रौट(ड) = अनादरे भ्वा० पर० सक० सेट्। रोट(ड)ति अरौ(डी)टीत्। ऋदित् चङि न ह्वस्वः।
रौद्र = न० रुद्रो देवतास्य अण्। १ सूर्य्यतापे, २ उग्ररसे च। ३ तद्वति मेदि० ४ भीषणे च त्रि० ५ रसभेदे अमरः। “रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः। आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम्। मुष्टिप्रहारपतनविकतच्छेदावदारणैश्चैव। संग्रामसम्भ्रमाद्यैरस्योद्वीप्तिर्भवेत् प्रौढा। भ्रूविभङ्गोष्ठनिर्दंशबाहुस्फोटनतर्जनाः। आत्मावदानकथनमायुधोत्क्षेपणानि च। अनुभावास्तक्षाक्षेपक्रूरसन्दर्शनादयः। उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः। मोहामर्षादयश्चात्र भावाः स्युर्व्यभिचारिखः” सा० द०। ६५ दुर्शायां ७ रुद्रजटावृक्षे च स्त्री ङीप् मेदि०।
रौप्य = न० रूप्यमेव अण्। रजते राजनि०।
रौम = न० रुमायां लवणखनिभेदे भवः अण्। साम्भरिलवणे। स्वार्थे क। तत्रैवार्थे अमरः।
रौरव = पु० रोरूयतेऽत्र रु–यङ् क्विप् तेन प्राप्यः तस्मायं वा अण्। १ नरकभेदे अमरः। २ चञ्चले, ३ धूर्त्ते, ४ क्षोरे च त्रि० शब्दर०। ५ सामभेदे न०। तच्च साम अहगाने ३ प्र० दर्शितम्। “रौरवयौधाजये वार्हते तृचे भवतः” ता० ब्रा०। रौरवनरकस्वरूपादिकमुक्तं मार्कपु० १० अ० “रौरवे कूटसाक्षी तु याति यूतानृतो नरः। तस्य स्वरूपं गदतो रौरवस्य निशामप। योजनानां सहस्वे द्वे रौरवो हि प्रमाणतः। जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः। तत्राङ्गारचयोपेतं कृतञ्च धरणीतलम्। जाज्वल्यमानन्तीव्रेण तापिताङ्गारभूमिगम्। तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुमाः। स दह्यमानस्तीव्रेण वह्निना तत्र धावति। वदे पदे च पादोऽस्य शीर्य्यते जीर्यते पुनः। अहोरात्रेणोद्धरणं पादग्यासं च गच्छति। एवं सहस्रं विस्तीर्णे योजनानां विपच्यते”।
रौहिण = पु० रुह–इनन् स्वार्थे अण्। १ चन्दनवृक्षे त्रिका०। २ रोहिणशब्दार्थे च।
रौहिणेय = पु० रोहिण्यां भवः ढक्। १ बुधग्रहे, २ बलरामे, च अमरः। २ मरकतमणौ ग० राजनि० ४ गोवत्से पुंस्त्री मेदि० ५ शनैश्चरे पु० भगदैवतशव्दे ४६३१ पृ० दृश्यम्।
रौहिष = न० रुह–इषन् स्वार्थेऽण्। १ कत्तृणे मेदि० २ मृगभेदे पुंस्त्री० अमरः। ३ रोहितमत्स्वे च अजयपा०। ४ दूर्वायां, ४ रोहितमृम्याञ्च स्त्री ङीप्। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये रकारादिशब्दार्थसङ्कलनम्।
—ल—
लकारो = व्यञ्जनवर्णभेदः। तस्योच्चारणस्थानं दन्तमूलम्। स्पर्शोष्मवर्णयोर्मध्यस्थत्वादयमन्तःस्थवर्णः। अस्योच्चारणे आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य ईषत्स्पर्शस्तेनास्य ईषत्स्पष्टता। बाह्यप्रयत्नाश्च संवारनादघोषाः अल्पप्राणश्च। मातृकाग्यासेऽस्य ककुदि न्यस्यता। काव्यादौ प्रथमप्रयोगे व्यसनं फलम्। “व्यसनमथ लवौ” वृ० र० टी। तस्व स्वरूपं यथा “अकारं चञ्चलापाङ्गि! कुण्डलीत्रयसंयुतम्। पीतविद्युल्लताकारं सर्वरत्नप्रदायकम्। पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा। आत्मादिसहितं वर्णं हृदि- भावय पार्वति” कामर्धनुतन्त्रम्। तत्पर्य्याया वर्णाभिधाने उक्ता यथा “लश्चन्द्रः पूतना पृथ्वी माधवी शक्रवाचकः। बलानुजः पिनाकीशो व्यापको मांससंज्ञकः। परायणा ककुद्वक्त्रः खड्गी नादोऽमृतं दिवि। लवणं वारुणीपीतशिखा वाणी क्रियाऽजिता। ज्वालिनी वेगिनीनादः प्रद्युम्नः शोषणो हरिः। विशातन्द्रायखी चेतो मेरुर्गिरि कलोरसः”। तस्याधिष्ठातृध्येयरूपं यथा चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम्। सर्वदा वरदां भीमां सर्वालङ्कारभूषिताम्। योगीन्द्रसेवितां नित्यं योगिमीं योगरूपिणीम्। चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम्। एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम्।
ल = पु० ला–क। १ इन्द्रे मेदि० तन्त्रोक्ते भूमिदैवताके २ मन्त्रभेदे न० २ एकलघुके वर्णे। लडादिदशसु लकारादि तिड्प्रत्ययेषु “लः कर्मणि च भावे चाकर्मकेभ्यः पा०।
लक = आस्वादे प्राप्तौ च चु० सम० सक० सेट्। लाकयति ते अलीलकत् त।
लकच = पु० लक–बा० अचन्। लिकुचवृक्षे (मा~दार) शब्दर०।
लकुच = पु० लक–उचन्। (मा~दार) वृक्षभेदे अमरः। “लकुचः क्षुद्रपनलो लिकुचो डहुरित्यपि। आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा। मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत्। शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम्। सुपछं तत्तु मधुरमम्लं चानिलपित्तकृत्। कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्” भावप्र०। “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम्। श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम्” वैद्यक०।
लक्तक = पु० लक–क्त नि० संज्ञायां कन्। १ अलक्तके (आलता) शब्दर०। २ जीर्णवस्त्रखण्डे (नेकडा) अमरः।
लक्तकर्म्मन् = पु० लक्तं करोति कृ–ममिन। रक्तवर्णलोध्रे शब्दच०
लक्तिका = स्त्री गोधायां निघण्टुः।
लक्ष = दर्शने अङ्कने च चु० उभ० सक० सेट्। लक्षयति ते अललक्षत् त।
लक्ष = न० लक्ष–अच्। १ पदे २ चिह्ने ३ व्याजे ४ शरव्ये च। ५ दशायुतसंख्यायां स्त्री० न० मेदि०।
लक्षक = त्रि० लक्षयति लक्षणयार्थम् लक्ष–ण्वुल्। लक्षणयार्थबोधके शब्दे। तल्लक्षणं श० प्र० उक्तं यथा “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत्। तत्र तद्धक्षकं नाम तच्छक्तिविधुरं यदि”। “यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव तादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यं भवेत्। सैन्घवादयश्च शब्दास्तुरगादिसम्बन्धिनि लवणादाविव तुरगादावपि शक्ता एव। गङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोधयन्तीति तत्र लक्षका एव शक्तत्वे पूर्वपूर्वप्रयुक्तत्वापत्तेः तस्य तद्व्याप्यत्वात् कथञ्चित्तीरादिसम्बन्धित्वेन गृहीतादपि गङ्गादिपदात्तीरादेरन्वयबोधेन तीराद्यशक्तत्व सति तत्सम्बन्धितामात्रन्त न लक्षणा गङ्गागङ्गायां घोष इत्यादावपि गङ्गागङ्गातिभागस्य निरुक्तलक्षणायाः सत्त्वेन वैयर्थ्याभावप्रसङ्गाच्च। एतेन तीराद्यशक्तत्वे सति तीरादिपरत्वं तीरादि सम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्वमित्यपि प्रत्युक्तम् अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्टापत्तिः शक्तिलक्षणान्यतरवृत्तिमत्त्रे तस्य साधुतापत्तेः पदसाधुतायां वृत्तिमत्त्वस्यैव तन्त्रत्वात्। किञ्चानुभावकत्वं तदा घोषादिपदसाकाङ्क्षस्य गङ्गादिपदस्य तीरलक्षकता न स्यात् तेन तोरसम्बन्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयोग्यत्वन्तु सङ्गायामिति वाक्यस्य दुर्वारं तस्याप्याधेयताधमिकनीरानुभवं प्रति नीरार्थकनामोत्तर सप्तमीत्वेन तथात्वात् नीराधेयत्वस्य च तीरसम्बन्धित्वानपायात्।” अधिकं लक्षणशब्दे दृश्यम्।
लक्षण = न० लक्ष्यतेऽनेन लक्ष–करणे ल्युट १ इतरभेदानुमापके चिह्ने “ऋषयाऽपि पदार्थानां नान्त यान्ति पृथकत्वतः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः”। यथा पृथिव्या गन्धो लक्षणं स हि पृथिवीं परस्मात् भिन्नतया अनुमापयति। तच्च द्विविधम् “स्वरूप तटस्थं द्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम्” इत्युक्तेः स्वरूपलक्षणं तटस्थलक्षणं च यथा आकाशो विलम् सच्चिदानन्दो ब्रह्मेति स्वरूपलक्षणम्। काकवत् गृहम् जगज्जन्मादिकर्तृ ब्रह्मेति तटस्थलक्षणम्। २ स्वरूपे यथा घटलक्षणं वस्तु ३ नाम्नि व्यवहारोपयोगिनि ४ चिह्ने च मेदि०। कर्त्तरि ल्युट् ५ स्वरूपप्रतिप दके “नोदनालक्षणार्थो धर्मः” इति जैमिनिसूत्रम् नोदना विधिवाक्यमेव लक्षणं स्वरूपज्ञापिका यस्य तादृशोऽर्थः धर्म इति तदर्थः। ६ शब्दसाधुताप्रतिपादके व्याकरणादिसूत्रे च न० “लक्षणं त्वनभिज्ञानाम्” अमरः। कर्मणि ल्युट्। ७ प्रतिपाद्ये यथा “इत्थं द्वादशलक्षण्येति” माधवीयन्याय मासा द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां समाहारः इति तदर्थः। लक्ष युच्। शब्दनिष्ठे वाच्यार्थ- संव र्थिबोधकतारूपे “मुख्यार्थबाधे तद्योगे ययाव्योऽर्थः प्रतीयते। रूढेः प्रथोजनाद्वापि लक्षणा शक्तिरर्पितेत्युक्ते ८ वृत्तिभेद स्त्री। यथा गङ्गायां घोषः प्रतिबसतीत्यादौ गङ्गाशब्दस्य जलप्रवाहरूपे स्वार्थेऽन्वयासम्भवात तत्सम्बद्धतीरादिबोधकता। ९ लक्ष्मणे रामानुजे पु० १० सारसपक्षिणि पुंस्त्री० तत् स्त्रियां राजनि० स्त्री टाप्। लक्षणाभेदादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा “जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिकादिकाः। लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा”। काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते यथा तीरत्वादिना शङ्गादिपदस्य। काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथा दूव्यत्वादिना नीलघटत्वादिना च घटपदस्य। काचिल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात् निरूढा यथा आरुण्यादिप्रकारण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य। काचिच्च पूर्वपूर्वं ताद्रूप्येणाप्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य। आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युपगृह्यते यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादिपदस्य। तदेवं विवधलक्षणावत्त्वाल्लक्षकं नामापि जहत्स्वार्थादिभेदादनेकविधमित्यर्थः। स्वादेतत् यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीराद्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकानां विभामः नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पदज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात् गुरूणामग्नौ शैत्य स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धमगृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वादिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽन्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेयत्वादेर्घोषादावन्वयबोधायोगात्। न च शक्तस्यैव पदस्य स्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबोधं प्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः, कुन्ताः प्रतिशन्तीत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेः कुमतिः पशुरित्यादौ शक्यलक्ष्यार्थयोरन्वयबोधस्याप्यानुभवि कावाच्च। तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव त्येव कार्य्यातावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः” सा च बहुधा विस्तरस्तु सा० द० २ प० दृश्यः।
लक्षित = त्रि० लक्ष–कर्मण क्त। १ लक्षणया बोधितेऽर्थे, २ ज्ञाते, ३ अनुमिते च कर्त्तरि क्त। ४ लक्षणाश्रये लक्षकशब्दे च।
लक्षितलक्षणा = स्त्री लक्षणाभेदे यथा द्विरेफपदेन बहुब्रीहिलक्षणयोपस्थापिताद्रेफद्वययुक्तम्रमरपदादभिधयैव भृङ्गोपस्थितिः। अत्र न रूढिरस्ति प्रकृते तु रूढिप्रयोजनाभावान्नेयार्थत्वं इयमेव लक्षितलक्षणेति वाच्यम्”। यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाः परिभाषितत्वात्” सा० द० टी०।
लक्ष्मन् = न० लक्ष–मनिन्। १ चिह्ने २ प्रधाने च अमरः। स्वार्थे अण् पृषो० न वृद्धिः। ३ सारसपक्षिणि पुंस्त्री० हेमच० दशरथपत्न्याः सुमित्रायाः ४ ज्येष्ठात्मजे च पु०। ५ श्वेतकण्ठकार्य्यां हेमच० स्त्री टाप् ६ सारसपक्षिस्त्रियाम् ७ औषधभेदे च स्त्री मेदि० टाप्।
लक्ष्मी = स्त्री लक्ष–ई–मुट् च। १ विष्णोःपत्न्याम् अमरः। २ शोभायां, ३ कान्तौ, ४ सम्पतौ, ५ ऋद्ध्यौषधे, ६ वृद्धिनामौषधे, ७ फलिनीवृक्षे च मेदि०। ८ स्थलपद्मिन्याम् ९ हरिद्रायां, १० शम्यां, ११ मुक्तायां १२ द्रव्ये च राजनि० १३ पीडायां १४ वारयोषिति च शब्दच०। लक्ष्मीपूजाकालादि स्कन्दपु० उक्तं यथा “पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम्। सिंहे धनुषि मीने च स्थिते सप्ततुरङ्गमे। प्रत्यव्दं पूजयल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने। नापराह्णे न रात्रौ च नासिते न त्र्यहस्पृशि। द्वादश्यां चैव नन्दायां रिक्तायाञ्च निरंशके। त्रयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत्। न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे। पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः। गुरुवारे हि पूर्णा च यत्नेन यदि लभ्यते। तत्र पूज्या तु कमला धनपुत्रविवर्द्धिनी। न कुर्य्यात् प्रथमे मासि नैव कुर्य्याद्विसर्जनम्। न घण्टां वादयेत्तत्र नैव झिण्टीं प्रदापयेत्। पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा। नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः। आढकं धान्वसंपूर्णं नानाभरणभूषितम्। सुगन्धिशुक्लपुष्पेण शुक्लपक्षे विशेषतः। पौष तु पिष्टकं दद्यात् परप्रान्नञ्च चैत्रके। विष्टकं परमान्नञ्च नभस्ये तु विशेषतः। गुरुवारसमायुक्ता नमस्ये पूर्णिमा शुभा। कमलां पूजये त्तत्र पुनर्जन्म न विद्यते। एकेम कमलेनैव कमलां पूजयेद् यदि। इह लोके सुखं पाप्य परत्र केशवं व्रजेत्”। लक्ष्मीचरित्रे तु “न कृष्णपक्षे रिक्तायां दशमी द्वादशीषु च। श्रवणादिचतुरृक्षे लक्ष्मीपूजां न कारयेत”। दशमीनिषेधः पौषातिरिक्तपरः प्रागुक्तैकवाक्यत्वात्। दीपान्वितामास्यायां तत्पूजादिकं दीपान्वितशब्दे ३६०७ पृ० दृश्यम्। कोजागरलक्ष्मीपूजा कोजागरशब्दे २२६२ पृ० दृश्या। माघशुक्लपञ्चम्यां श्रीपूजनं “पञ्चम्यां श्रीरपि श्रियम्” ति० त० विहितम्। “पञ्चम्यां श्रियं पूजयेत्” कल्पश्रुतिरपि तत्परा। गरु० पु० ११४ अ० लक्ष्म्यास्त्यागकारणतोक्ता यथा “कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्य भाषिणम्। मूर्य्योदये चास्तमये च शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम्। नित्यं छेदस्तृणांनां धरणिविलिखनं पादयोरल्पमार्ष्टिर्दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्ध्वजानाम्। द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्के पीठे च वाद्यं निधनमुपनयेत् केशवस्यापि लक्ष्मीः। तस्या भाजनहेतुता तत्रोक्ता यथा “शिरः सुधौतं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम्। अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट्। यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः। शिरसा धार्य्यमाणस्य अलक्ष्मीः प्रतिहन्यते। दीपस्य पश्चिमाच्छाया च्छाया शय्यासनस्य च। रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति”।
लक्ष्मीकान्त = पु० ६ त०। १ विष्णौ, २ राजनि च। लक्ष्मीपत्यादयोऽप्यत्र। “विहाय लक्ष्मीपतिलक्ष्मकार्मुकम्” किरा०। लक्ष्मीपतिस्तु लवङ्गे पुगवृक्षे च विश्वः।
लक्ष्मीजनार्द्दन = न० शालग्रामभेदे। तस्य लक्षणं यथा “एकद्वारे चतुसक्रं नवीननीरदोपमम्। लक्ष्मीजनार्द्दनं ज्ञेयं रहितं वनमालया” ब्रह्मवै० प्र०।
लक्ष्मीनारायण = पु० शालग्रामभेदे तस्य लक्षणं यथा “एकद्वारे चतुश्चक्रं वनमालाविभूषितम्। नवीननीरदाकारं लक्ष्मीनारायणाभिधम्” व्रह्मवै० प्र०।
लक्ष्मीनृसिंह = न० शालग्राममेदे तस्य लक्षणं यथा “द्विचक्रं विस्तृतास्यञ्च वनमालासमन्वितम्। लक्ष्मीनृसिंहं विज्ञेयं गृहिणाञ्च सुखप्रदम्” ब्रह्मवै० प्र०।
लक्ष्मीपुत्र = पु० ६ त०। १ कामदेवे, २ अश्वे मेदि० ३ कुशे लवे च शब्दच०। ५ गन्धर्वभेदे।
लक्ष्मीफल = पु० लक्ष्म्यै फलमस्य। श्रीफले विल्ववृक्षे राजनि०
लक्ष्मीवत् = पु० लक्ष्मीः शोभास्त्यस्य मतुप् मस्य वः। १ पनसे शब्दच०। २ श्रीयुक्ते त्रि० अमरः स्त्रियां ङीप्। ३ श्वेतरीहितकवृक्षे पु० राजनि०।
लक्ष्मीसहज = पु० लक्ष्म्या सह क्षीराब्धौ जायते जन–ड। १ चन्द्रे, शब्दच० २ उच्चैःश्रवसि ३ कर्पूरे च।
लक्ष्य = न० लक्ष–यत्। १ वेधार्थमुद्दिश्यमाने शरव्ये अमरः। २ लक्षणाबोध्येऽर्थे ३ उद्देश्ये, ४ ज्ञेये, ५ अनुमेये च त्रि०।
लक्ष्यसन = न० रुद्रजा० उक्ते आलनभेदे। “अथ लक्ष्यासनं वक्ष्ये लिङ्गाग्रेऽङ्घ्रितलद्वयम्। गुह्यदेशे हस्तयुग्मं तलाभ्याम्बन्धयेत् भुवि”।
लख = गती भ्वा० पर० सक० सेट्। लखति। अलखीत्–अलाखीत्। इदिदप्ययम् लङ्खति अलङ्खीत्।
लग = खञ्जीभावे अक० गतौ सक० भ्वा० प० सेट। लङ्गति अलङ्गीत
लग = सङ्गे भ्वा० पर० सक० सेट्। लगति एदित् अलगीत् घटा० लगयति। “छायेव तस्या लगति स्म पश्चात्” नैष०।
लग = स्वादे प्रप्तौ च सक० चु० उभ० सेट्। लागयति ते अली लगत् त।
लगित = त्रि० लग–क्त। संसक्ते।
लगुड(ल)(र) = पु० लग–उलच् लस्य डरौ वा। दण्डाकारे काष्ठनिर्मिते पदार्थे (लाटी) अमरः।
लग्न = न० लस्ज–क्त तस्य नः। १ मेषादिराशीनामुदये अमरः। २ लज्जिते त्रि०। लग–क्त पृषो०। ३ संसक्तके त्रि०। ४ स्तुतिपाटके पु० त्रिका०। लग्न इव इवार्थे कन्। ५ प्रतिभुवि। (जामिन) “खादको वित्तहीनः स्यात् लग्नको वित्तवान् यदि” इति स्मृतिः। मेषादिराश्युदयरूपलग्नपदार्थस्य देशभेदे कालमानं खगोलशब्दे २४५२। ५३ पृ० दर्शितम्। इष्टकाले लग्नसाधनञ्च ३८०२ पृ० दृश्यम्।
लग्निका = स्त्री नग्नेव कन् पृषो०। अदृष्टरजस्कायां स्त्रियाम् अमरटीका।
लघ = अभोजने सीमातिक्रमे गतौ च भ्वा० आ० सक० सेट् इदित्। लङ्घते अलङ्घिष्ट। “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना०।
लघ = शोके भ्वा० पर० सक० सेट् इदित्। लङ्घति अलङ्घीत्।
लघ = प्रकाशे चु० उभ० स० सेट् इदित्। लङ्घयति ते अललङ्घत् त
लघ = आस्वादने चु० उभ० सक० सेट्। लाघयति–ते अलीलघत्–त
लघट्(टि) = पु० लघि–शोषे “लङ्घेर्नलोपश्च” उणा० अटिः इकार उच्चारणार्थः उज्ज्वल० पारायणे तु न तथा। वायौ।
लघिमन् = पु० लघोर्भावः इमनिच् डिच्च। १ लघुत्वे लाघवे, येनोर्द्धगतिसम्भवः। २ ऐश्वर्य्यभेदे च।
लघिष्ठ = त्रि० अतिशयेन लघुः इष्ठन् डित्। अतिशय- लघुत्वयुक्ते। ईयसुन्। लघीयानप्यत्र स्त्रियां ङीप्।
लघु = न० लघि–कु नि० नलोपः। १ शीघ्रे अमरः। २ कृष्णागुरुणि मेदि०। ३ वीरणमूले राजनि०। ४ पृक्कानामौषधौ स्त्री मेदि०। ५ निःसारे, ६ लाथवगुणान्विते, ७ ह्रस्वे, ८ मनोहरे च त्रि० मेदि०। व्याकरणोक्ते ह्रस्वसंज्ञके ९ अकारादौ वर्णे, ज्योतिषोक्तेमु “पुष्याश्चिहस्ता लघुः” इत्युक्तेषु १० पुष्यादिनक्षत्रेषु च पु०। ११ लघुतावत्यां स्त्रियां स्त्री वा ङीप्। तत्कृतौ णिच् लचयति।
लघुकाय = पुंस्त्री० लघुः कायो यस्य। १ छागे त्रिका० स्त्रियां योपधत्वात् टाप्। कर्म०। २ क्षुद्रशरीरे पुंन०।
लघुकाश्मर्य्य = पु० नित्यकर्म०। कट्फले वृक्षे राजनि०।
लघुचिर्भिटा = स्त्री नि० कर्म०। मृगेर्वारौ कर्कटीभेदे राजनि०।
लघुदन्ती = स्त्री कर्म०। क्षुद्रदन्तीवृक्षे। “दन्तीद्वयं सरं पाके रसे च कटुदीपनम्। गुदाङ्कुराश्म शूलास्रकण्डूकुष्ठविदाहनुत्। तीक्ष्णास्नं हन्ति पित्तास्रं कफशोथोदरक्रिमीन्” “क्षुद्रदन्तीफलन्तु स्यान्मधुरं रसपाकयोः। शीतलं सृष्टविण्मूत्रं गलशोथ कफापहम्” भावप्र०
लघुद्राक्षा = स्त्री कर्म०। काकलीद्राक्षायाम् राजनि०।
लघुनामन् = पु० लघुवर्णयुक्तं नाम वाचकशब्दो यस्य। अगुरुचन्दने शब्दच०।
लघुपत्रक = पु० लघूनि ह्रस्वानि पत्राण्यस्य कप्। (गुडारोचना) लताभेदे शब्द च०। कब भावे ङीप्। लघुपत्री स्त्री २ अश्वत्थवृक्षे राजनि०।
लघुपुष्प = पु० लघु पुष्पं यस्य। भूमिकदम्बे राजनि०।
लघुबदर = पु० कर्म०। १ क्षुद्रकोलौ। २ भूवदर्य्याम् स्त्री राजनि० ङीष्।
लघुब्राह्मी = स्त्री कर्म०। क्षुद्रब्राह्म्याम् राजनि०।
लघुमन्थ = पु०। अग्निमन्थः मन्थः पूर्वपदलोपः कर्म०। क्षुद्राग्निमन्थे राजनि०।
लघुलय = न० लघु शीघ्रं लीयते ली–अच्। वीरणभूल अमरः
लघुसदाफला = स्त्री सदा फलं यस्याः कर्म०। क्षुद्रोदुम्बरिकायाम् (छोट डुमुर) राजनि०।
लघुहेमदुग्धा = स्त्री कर्म०। क्षुद्रोडुम्बरे (छोट डुमुर) राजनि०
लघूदुम्बरिका = स्त्री कर्म०। क्षुद्रोदुम्बरभेदे राजनि०।
लङ्का = स्त्री लक अच् मुम् च। स्वनामख्यातायां १ पुर्य्याम्। सा च भूगोलस्य याम्ये भूवृत्तपादविवरे समुद्रभध्ये स्थिता” सि० शि०। २ सारिवोधौ ३ वेश्यायां ४ शाखायाञ्च विश्वः।
लङ्काधिप = पु० ६ त०। १ रावणे लङ्कानाथादयोऽप्यत्र। २ कुवेरे च।
लङ्का(यि)पिका = स्त्री लङ्कामयते आप्नोति वा ण्वुल्। पृक्कायां (पिडिङ्) शाकभेदे शब्दच०।
लङ्कास्थायिन् = पु० लङ्कायां तिष्ठति स्था णिनि। (लङ्कासिज) वृक्षभेदे शब्दच०। २ लङ्कावासिनि त्रि०।
लङ्कोपिका = स्त्री लङ्कायामुप्यत वप–ण्वुल् पृषो०। पृक्कायाम्। (पिडिङशाक) शब्दर०।
लङ्घन = न० लघि० ल्युट्। १ अभोजने, २ अतिक्रम्य गमने, ३ क्रमणे, ४ प्लवने च मेदि०। ५ कर्षणे च भावप्र० लङ्घनस्य लक्षणस्वरूपगुणादिकमुक्तं यथा “ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च “आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधापयन्। विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्”। तथा “ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम्। त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयीजयेत्। दोषोऽपि लङ्घनं पथ्यं मध्ये लङ्घनपाचनम्। प्रभूते शोधनं तच्च मूलादुन्मूलयेन्मलान्”। चक्रदत्तश्च “तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत्। आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि। वातः पचति सप्ताहात् पित्तन्तु दशभिर्दिनैः। श्लेष्माद्वादशभिर्घस्रैः पच्यते वदतांवर!। लङ्घनं लङ्घनीयन्तु कुर्य्याद्दोषानुरूपतः। त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे। निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः। पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्”। आत्रेयेणोक्तम् “ज्वरादौ लङ्घनं प्राक्तं ज्वरमध्ये तु पाचनम्। ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम्। दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च। लङ्घितश्चाप्यदोषश्चेत् यवागूपानमाचरेत्। शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत्। पञ्चकोलेन संसिद्धां यवागूं मध्यलङ्घने। अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणं हितम्। द्राक्षादाडिमखर्जूरपियालैः सपरुषकैः। तर्पणार्हस्य कर्त्तव्यन्तर्पणं ज्वरशान्तये”। अत्र लङ्घनशब्देनानशनमुच्यते। यत आह सुश्रुतः “आनद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः। तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत्। आनद्धस्तिमितैर्दोषैः सम्बद्धः। संसर्गम् औषधान्नादिप्रसङ्गम्”। यत आह चरकः “चतुःप्रकाराः संशुद्धिः पिपासा मारुतातपौ। पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्। चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्”। नि- रूहवस्तिशिरोविरेचनानि नत्वनुवासनं तस्य वृंहणत्वात्। अत्र लङ्घनं कर्षणमित्यर्थः। सुश्रुतः “शरीरलाघवकरं यद्द्रव्यं कर्म वा पुनः। तं लङ्घनमिति ज्ञेयं वृंहणं तु पृथग्विधम्”। लङ्घनात्कर्षणादन्यत् शरोरपोषकमित्यर्थः”।
लछ = चिह्नकरणे भ्वा० पर० सक० सेट्। लच्छति अलच्छीत्।
लज = व्रीडायाम् भ्वा० आ० अक० सेट्। लजते अलजिष्ट।
लज = तिरस्कारे भ्वा० पर० सक० सेट् इदित्। लञ्जति अलञ्जीत्
लज = अन्तर्द्धाने चुरा० उ० सक० सेट्। लाजयति–ते अलीलजत् त।
लज = भाषणे हिंसायां दाने च सक० सामथ्य वास च अक० चुरा० उभ० सेट् इदित्। लञ्जयति–ते अललञ्जत् त।
लज = भासने अद० चु० उभ० सक० सेट्। लजयति–ते अललजत्–त
लजकारिका = स्त्री लजं लज्जां करोति कृ–ण्वुल् अत इत्त्वम्। लज्जालुलतायाम् हेमच०।
लज्जा = स्त्री लस्ज भावे अ। अकृत्यप्रवृत्तौ परदर्शने दुष्टत्वधिया ततो निवृत्तिमाधने चित्तवृत्तिभेदे अमरः।
लज्जालु = स्त्री लस्ज–आलुच्। १ लतामदे शब्दच०। २ लज्जावति त्रि०। “लज्जालुः स्यात् शमीपत्रा समङ्गाञ्जलिकारिका। रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि। लज्जालुः शीतला तिक्ता कषाया कफपित्तजित्। रक्तपित्तमतीसारं योनिरोगं विनाशयेत्” भावप्र०।
लज्जाशील = त्रि० लज्जां शीलयति शील–अण्। लज्जाविशिष्टे।
लज्जिरी = स्त्री लज्जा + अस्त्यर्थे इरच् गौरा० ङीष्। लज्जालुलताभेदे राजनि०।
लञ्ज = भासने अद० चु० उभ० अक० सेट्। लञ्जयति ते अललञ्जत् त।
लञ्ज = पु० लञ्ज–अच्। १ पदे २ कच्छौ च हेमच०। ३ पुच्छे जटा० संज्ञायां कन् अत इत्त्वम्। लञ्जिका वेश्यायाम् हेमच०।
लट = बालभावे अक० उक्तौ द्वि० भ्वा० पर० सेट्। लटति। अलाटीत् अलटीत्।
लट = पु० लट–बा० घञर्थे क। १ प्रमादवचगे २ दोषे च विश्वः।
लटक = पु० लट–वुन्। दुर्जने उणादिकोषः।
लटपर्ण = न० लटं दुष्टं पर्णमस्य। त्वचे (दारचिनि) राजनि०
लटा = स्त्री लट–व। (नाटाकरमचा) १ करञ्जभेदे, २ वाद्यभेदे, ३ ग्रामचटके, मेदि० ४ कुसुम्भे हेमच०। ५ भ्रमरके च भरतः। ६ लावे स्वगे पुंस्त्री० जातिभेदे पुंस्त्री० ७ रागभेदे पु० उणा०।
लड = विलासे भ्वा० पर० अक० सेट्। लडति अला(ड)डीत्
लड = उत्पीडने सक० जिह्वाचालने अक० भ्वा० पर० सेट्। लडति अलाडीत्–अलडीत् घटा०। लडयति।
लड = अत्यन्तपालने चु० लभ० सक० सेट्। लाडयति–ते अलीलडत् त।
लड = व्याप्तौ चु० उभ० सक० सट्। लाडयति–ते अलीलडत् त।
लड = भाषणे द्विक० वा चु० उभ० पक्षे भ्वा० पर० सेट् इदित्। लण्डयति–ते लण्डति। अललण्डत्–त अलण्डीत्।
लड = उत्क्षेपणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। लण्डयति–ते लण्डति। अललण्डत्–त अलण्डीत्।
लड = क्षेपणे अद० चु० उभ० सक० सेट्। लडयति ते अललडत् त
लड्डुक = पु० लड–डु तस्य नेत्त्वम् स्वार्थे क। तैलादिपक्वे गोधूमादिचूर्णनिर्मिते (लाडु) मिष्टान्नभेदे “पृथुलड्डु कस्तनीति नैषधम् स्त्रीत्वमप्यस्य।
लण्ड = पु० लडिरन्। (लण्डन) इति ख्याते देशभेदे।
लत = आघाते सौ० पर० सक० सेट्। लतति अलातीत् अलतीत्।
लता = स्त्री लत–अच्। शाखारहिते १ गुडूच्यादौ अमरः। २ शाखायां ३ प्रियङ्गौ ४ पृक्कायाम् ५ असनपर्ण्यां च अमरः। ६ ज्योतिष्मत्यां ७ लताकस्तूरिकार्या ८ माधवील तायां ९ दूर्वायाञ्च मेदि०। १० कैवर्त्तिकायां ११ सारिवोषधौ च राजनि०।
लताकरञ्ज = पु० लतारूपः करञ्ज। करञ्जभेदे राजनि०।
लताकस्तूरिका = स्त्री लतायां कस्तूरीव सुगन्धत्वात् इवार्थे कन्। कस्तूरीगन्धयुक्तपत्रयुतायां लतायाम् राजवल्ल०। “लताकस्तूरिका तिक्ता हृद्या शीतास्यरोगहृत्”।
लताजिह्व = पुंस्त्री० लतेव जिह्वा यस्य। सर्पे शब्दमा० स्त्रियां ङीष्।
लतातरु = पु० लतेव दीर्घस्तरुः। १ तालवृक्षे २ नागरङ्गवृक्ष च शब्दच०। ३ शालवृक्षे राजवल्ल०। लताद्रुमादयोऽप्यत्र।
लतापनस = पु० लतायां पनसमिव स्थूलं फलमस्य। (तरमुज) लताभेदे त्रिका०।
लतापृक्का = स्त्री लतेव विस्तीर्णा पृक्का। (पिडिङ्ग) शाकभेदे शब्दच०।
लताफल = न० लतायां फलमम्य। पटोले।
लतामरुत् = स्त्री लतायां मरुत् वायुर्यस्याः। पृक्वायां शब्दच० तल्लतासेवने हि वायुवृद्धिरिति वैद्यकप्रसिद्धम्।
लतायष्टि = स्त्री लतापि यष्टिरिव। मञ्जिष्ठायाम् शब्दमा०।
लतायावक = न० लताया यावकमिव। प्रबाले हारा०।
लतार्क = पु० कतयाऽर्क इव। हरित्पलाण्डौ अमरः।
लतावेष्ट = पु० “बाहुभ्यां पादयुग्माभ्यां वेष्टयित्वा स्त्रियं रमेत्। लथुलिङ्गताडनं योनौ लतावेष्टमुच्यते” रसम० उक्ते स्रालिङ्गनभेदे।
लतावेष्टितक = न० आलिङ्गनभेदे। “उद्घट्टपीडितं लतावेष्टितकं तथा” शब्दमा०।
लप = कथने भ्वा० पर० द्विक० सेट्। लपति। अलापीत्–अलपीत्। ऋदित् चङि न ह्रस्वः।
लपन = न० लप्यते उच्यतेऽनेन लप–करणे ल्युट्। १ मुखे अमरः। भावे ल्युट्। २ कथने च।
लपित = त्रि० लप–कर्मणि क्त। १ कथिते। भावे क्त। २ कथने न० अमरः।
लप्सिका = स्त्री खाद्यभेदे कृतान्नशब्दे २। ८१ पृ० दृश्यम्।
लब = आलम्बने सक० शब्दे अक० भ्वा० आत्म० सेट् इदित्। लम्बते अलम्बिष्ट।
लब्ध = त्रि० लभ–कर्मणि क्त। १ प्राप्ते अमरः। २ नायिकाभेदे स्त्री जटा०। भावे क्त। प्राप्तौ ३ लाभे न०। “ब्राह्मस्याधिकं लब्धम्” गौत० स्मृति।
लब्धवर्ण = पु० लब्धो वर्णो वर्णनं प्रशंसा ज्ञानवत्त्वेन येन। पण्डिते अमरः।
लभ = शब्देअक० भ्वा० आत्म० सेट् इदित्। लम्भते अलम्भिष्ट।
लभ = प्राप्तौ सक० भ्वा० आत्म० अनिट्। लभते। अलब्ध। ड्वित् लब्ध्रिमः। षित् लभा। अलिट्यजादावार्द्दधातुके मुम्। आलम्भः उपालम्भः। अनुपसर्गात् घञि तु न लाभः। खलि च सर्वथा दुर्लभः। आ + स्पर्शे बधे च उप + ज्ञानभेदे उप + आ + तिरस्कारे।
लभस = न० लभ–असच् नि० मुम्। वाजिबन्धने उज्ज्वल०।
लभ्य = त्रि० लभ–कर्मणि यत्। १ प्राप्तव्ये मेदि० २ न्याय्ये अमरः
लमक = पु० रम–वुन् रस्य लः। १ मिङ्गे जारे सि० कौ०।
लम्पट = पु० रस–अटन् पुक् च रस्य लः। परस्त्रीषु १ लोलुपे, मेदि०। २ आसक्ते च।
लम्ब = पु० लवि–अच्। १ नर्त्तके २ कान्ते ३ अङ्गे च उणा०। ४ उत्कोचे हेमच० अङ्कशास्त्रोक्ते त्रिभुजादिक्षेत्रे मुजकर्णयोर्मध्यस्थे लम्बमाने ५ सूत्रे च “स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः। लम्बगुणं भूम्यर्द्धं स्पष्टं त्रि भुजे फलं भवति” लीला०। ७ दीर्घे ८ लम्बमाने च त्रि०।
लम्बकर्ण = पु० लम्बः कर्णो यस्य। १ छागे मेदि० २ अङ्कोटवृक्षे पु० ३ हस्तिनि ४ राक्षसे च पुंस्त्री० शब्दच० ५ श्येनप क्षिणि राजनि०। ६ लम्बश्रोत्रयुते त्रि०। कर्म०। ७ लम्ब माने श्रोत्रे पु०। सर्वत्र स्त्रियां जातित्वात् ङीष्।
लम्बकेश = त्रि० लम्ब दीर्घः केशो यस्य। दीर्घामयुक्ते कुशमये विष्टरे। “ऊर्ध्वकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः। दक्षिणावर्त्तको व्रह्मा वामावर्त्तस्तु विष्टरः” स० त०। “केशोऽत्राग्रम्” रघु०। २ दीर्घकेशयुक्ते त्रि०। कर्म०। ३ दीर्घे केशे च पु०।
लम्बदन्ता = स्त्री लम्बोदीर्घः दन्त इव वीजकण्टको यस्य। १ सिंहलद्वीपभवपिष्पल्याम् राजनि०। २ दीर्घदन्तयुक्ते त्रि० कर्म०। ३ दीर्घे दन्ते पु०।
लम्बन = न० लबि० ल्युट्। नाभिदेशपर्य्यन्तं १ लम्बमाने माल्यादौ अमरः। भावे ल्युट्। २ आचयणे न०।
लम्बवीजा = स्त्री लम्बं दीर्धं वीजं यस्याः। सिंहलदेशजातपिप्पल्याम् राजनि०।
लम्बा = स्त्री लम्बते लबि–अच्। १ तिक्ततुम्ब्यां (तितलाउ) २ लक्ष्म्यां ३ गौर्य्याञ्च मेदि० ४ दक्षकन्याभेदे ५ हिमालयकन्याभेदे च हरिवं०।
लम्बोदर = पु० लम्बं दीर्घमुदरं यस्य। १ गणेशे अमरः। २ तारानाम्न्यां देव्यां स्त्री तन्त्रम् ङीष्। ३ दीर्घोदराद्ये त्रि०।
लम्बो(म्बौ)ष्ट = पुंस्त्री० लम्बौ ओष्ठौ यस्य। उष्ट्रे त्रिका० स्त्रियां ङीष्।
लय = गतौ भ्वा० आत्म० सक० सेट्। लयते अलविष्ट। अलविढ्वम् अलयिध्वम्।
लय = पु० ली–अच। १ संश्लेषे २ विमाशे ३ नृत्यगीतवाद्यानामेकतानतारूपे साम्ये च मेदि०। लीयतेऽत्र। सर्वभूतक्षरकरे ४ प्रलयकाले शब्दर० ५ ईश्वरे च। णस्यलयभेदाश्च “द्विपदी स्याद्बलतिका झल्लिका छिन्नखण्डिका। वाम भ्रुवस्ततश्छिन्ना खण्डधारा फडक्ककः। जम्भट्टिकाकलतिकः खण्डकः खुरिकस्तथा। कथितश्चतुरस्रोऽर्द्धचतुरस्रोऽथ नर्त्तकः। त्र्यस्रः षट्युन्दालनावकृष्टमन्दघटीत्यपि। कादम्बश्चर्चरी घट्टा मिश्रोऽर्द्धवलिता ततः। अतिचित्रः समग्रश्च वलितोऽर्द्धदलस्तथा। आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ। आन्त्री विकृतधारा च मुकुलोऽथ विलोलकः। रमणीयस्ततश्चैव करकण्टकसंज्ञकः। चत्वारिंसदिमे प्रोक्ता लया लयविशारदैः। लयेन वश्यो भगवान् लये लीनो जनार्दनः” सङ्गीतदा०।
लर्व = गतौ भ्वा० पर० सक० सेट्। लर्वति अलर्वीत्।
लल = इच्छायां चु० उभ० सक० सेट। लालयति–ते अलीललत् त
लल = इच्छायां अद० चु० उभ० सक० सेट्। ललयति ते अलललत् त।
ललज्जिह्व = पु० लडन्ती आस्वाद्यास्वादनाय चलन्ती जिह्वा यस्य डस्य लः। १ कुक्कुरे, २ उष्ट्रे, ३ हिंस्रसत्त्वे त्रि० मेदि० स्त्रियां जातित्वात् ङीष्। ४ चलद्रसवायुक्ते त्रि०। स्त्रियां टाप्।
ललन = न० लड–ल्युट् डस्य लः। १ चालने। ३ केलौ हेमच० ३ बाले ४ सालवृक्षे ५ पियालवृक्षे च पु० राजनि०। चु० लल–ल्यु। ६ जिह्वार्या ७ नार्य्याञ्च स्त्री मेदि०।
ललनाप्रिय = पु० कर्म०। १ कदम्बे। २ ह्रोवेरे न० राजनि०। ३ जिह्वाप्रिये, ५ रमणीवल्लभे च त्रि०।
ललन्तिका = स्त्री लड–झच् स्वार्थे क अत इत्त्वम् डस्य लः। नाभिदेशपर्य्यन्तं लम्बमाने १ माल्यादौ अमरः। २ गोधायां शब्दच०।
ललाट = न० लड–अच् डस्य लः ललमटति अट–अण्। अललाधःस्थेऽङ्गभेदे (कपाल) अमरः।
ललाटन्तप = पु० ललाटं तापयति तप–णिक् खच्–ह्रस्वः। १ सूर्य्ये सि० कौ०। २ ललाटतापके त्रि० “लिपिर्ललाटन्तपनिष्ठराक्षरा” नैषधम्।
ललाटपट्ट = पु० ललाटं पट्टमिव विस्तीर्णत्वात्। पशस्तललाटे ललाटफलकादयोऽप्यत्र।
ललाटिका = स्त्री ललाटे आवध्यते ठन्। १ ललाटभूपणे (टीका) अमरः २ ललाटस्थे चिह्ने च।
ललाम = न० लल–अच् तममति अम–अण्। १ प्रधाने, २ ध्वजे ३ शृङ्गे ४ बालधौ ५ चिह्ने ६ भूषायां ७ रम्ये ८ तिलके ९ घोटके १० प्रभावे च मेदि०। नान्तत्वमप्यस्य रुद्रः।
ललामक = न० ललामं तिलकमिव इवार्थे कन्। ललाटपर्य्यन्तं सम्मुखन्यस्ते माल्यभेदे अमरः।
ललित = न० लल–क्त। १ शृङ्गारानुगुणे चेष्टाभेदे “सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत्” सा० द०। २ सुन्दरे, ३ ईप्सिते च त्रि० अमरः ४ स्वरभेदे पु० सङ्गी० लड क्त डस्य लः। ५ चालने न० ६ फस्तूर्य्यां ७ नार्य्यां च स्त्री राजनि०। ८ नदीभेदे सा च नदी कालिकापु० ८१ अ० उक्ता। ९ दुर्गायाम् “या दुर्गा सैव ललिता” पद्मपु० पाता०। १० राधासखीभेदे च।
ललितासप्तमी = स्त्री ललिताप्रिया सप्तमी। ललितापूजाङ्गे १ भाद्रशुक्लसप्तम्याम्, तद्दिनकर्त्तव्ये २ व्रतभेदे च।
लव = पु० लू–अप्। १ लेशे २ विनाशे ३ छेदने श्रीरामपुत्रे मेदि० ५ कालपरिमाणभेदे काष्ठाद्वये हेमच० ६ गोलाङ्गूललोम्नि, ७ बाले केशे च ८ जातीफले न० शब्दच०। ९ लवङ्गे १० लामज्जके ११ ईषदर्थे राजनि०। १२ लावखगे पुंस्त्री० राजनि०।
लवङ्ग = न० लू–अङ्गच्। स्वनामख्याते द्रव्ये अमरः। “लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हितम्। दीपनं पाचनं रुच्यं कफपित्तास्रनाशनम्। तृष्णां छर्दिं तथा ध्मानशूलमाशु विनाशयेत्। कासं श्वासं च हिक्कां च क्षयं क्षिपति तद्ध्रुवम्” भावप्र०। स्वार्थे क तत्रैव शब्दर०।
लवङ्गकलिका = स्त्री लवङ्गं कलिकेव। लवङ्गे राजनि०।
लवण = पु० लू–ल्युट् पृषो० णत्वम्। १ रसभेदे “लवणः शोधनो रुच्यः पाचनः कफपित्तदः। पुंस्त्ववातहरःकायशैथिल्यमृदुताकरः। चक्षुर्नासास्यजलदः कपोलगलदाहकृत्। सोऽतियुक्तोऽक्षिपाकास्रपित्तकोटक्षतादिकृत्। “बलीपलितखालित्यं कुष्ठवीसर्पतृट्प्रदः” भावप्र०। तत्प्रधाने २ सैन्धवसौवर्चलविडादिरूपे पदार्थे च न०। तदुत्पत्तिस्थाने ३ सिन्धुदेशे ४ समुद्रे ५ मधुदैत्यसुते असुरभेदे च पु०। ६ लवणरसयुक्ते मेदि० ७ लावण्यवति च त्रि० ८ नदीभेदे ९ दीप्तौ च स्त्री मेदि०।
लवणकिंशुका = स्त्री लवणरसान्वितं किंशुकं पलाशं यस्याः। महाज्योतिष्मत्याम् राजनि०।
लवणक्षार = पु० लवक्षमयः क्षारः। लवणसंयुक्ते क्षारे राजनि०
लवणखनि = स्त्री ६ त०। शाम्भरिलवणोत्पत्तिस्थाने हेमच०।
लवणधेनु = स्त्री दानार्थं कल्पितायां लवणनिर्मितायां धेनौ वराहपु०।
लवणाचल = पु० दानार्थं कल्पिते अचलाकारे लवणस्तूपे। धान्यशैलशब्दे ३८८१ पृ० दृश्यम्।
लवणाब्धि = पु० लवणमयोऽब्धिः। लवणप्रचुरसमुद्रे। लवणसमुद्रादयोऽप्यत्र।
लवणाब्धिज = न० लवणाब्धेर्जायते जन–ड। सामुदूलवणे (करकचलवण) राजनि०।
लवणोत्तम = न० लवणेषु उत्तमम्। सैन्धवलवणे रत्नमा०।
लवणोद = पु० लवणमयमुदकं यस्य उदादेशः। लवणसमुद्रे अमरः।
लवन = न० लू–भावे कर्मणि च ल्युट्। १ छेदने अमरः (लोना आता) २ वृक्षे स्त्री शब्दच० ङीप्।
लवली = स्त्री० लवं लेशं लाति–ला क गौ० ङीष्। (नोयाड) वृक्षे राजनि०।
लवित्र = न० लूयतेऽनेन लू–इत्र। १ दात्रे अमरः।
लश(ष)(स) = शिल्पयोगे चु० उभ० अक० सेट्। लाश(ष)(स)यति ते अलोलश(ष)(स)त् त।
लशु(शू)न = न० अश–उनन् ऊनन् वा धातोरादेर्लश्च। (रशुन)। रसोने भावप्र०। तस्योत्पत्तिगुणादि भावप्र० उक्तं यथा “लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम्। अरिष्टो म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः। यदामृतं वैनतेयो। जहार सुरसद्मनः। तदा ततोऽपतद्विन्दु स रसोनोऽपतद् भुवि। पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितः तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः। कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः। नाले कषाय उद्दिष्टो नालाग्रे लवणः स्थितः। वीजे तु मधुरः प्रोक्तो रस स्तद्गुणवेदिभिः। रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः। रसे पाके च कटुकस्तीक्ष्णो मधुरसो मतः। भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः। बलार्णकरो मेधाहितो नेत्र्यो रसायनः। हृद्रोगजीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान्। दुर्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति। मद्यं भांसं तथाम्लञ्च हितं लशुनसेविनाम्”। दीर्घमध्यः शब्दर०।
लष = स्पृहायां दिवा० भ्वा० च उम० सक० सट्। लव्यति–ते लषति ते अलषीत् अलाषीत् अलषिष्ट ललाष लेषे।
लस = श्लेषे क्रीडायां दीप्तौ च अक० भ्वा० पर० सेट्। लसतिअलासीत् अलसीत्।
लसा = स्त्री लसति लस–अच्। हरिद्रायाम् हारा०।
लसिका = स्त्री लस अच् टाप् अत इत्त्वम्। लालायां शब्दच०।
लस्ज = व्रीडायां भ्वा० आ० अक० सेट्। लज्जते अलज्जिष्ट। इदित् निष्ठायामनिट् ओदित् निष्ठातस्य नः। लग्नः।
लस्त = त्रि० लस–क्त नि० इडमावः। १ श्लिष्टे, क्रीडिते, २ शिल्पयुक्ते च। संज्ञायां कन्। धनुर्मध्यभागे पु० अमरः
लहरि(री) = स्त्री लेन–इन्द्रेणेव ह्रियते ऊर्द्ध्वगमनाय हृ–कर्मणि इन् वा ङीष्। महातरङ्गे हेमच०।
***