रा = दाने ग्रहणे च अदा० पर० सक० अनिट्। राति अरासीत्।
रा = स्त्री रा–सम्प० भावे क्विप्। १ विभ्रमे २ दाने एकाक्षरकोषः। कर्मणि क्विप्। ३ काञ्चने शब्दर०।
राका = स्त्री रा–क तस्य नेत्त्वम्। १ प्रतिपद्युक्तायां पूर्णमास्यां सम्पूर्णेन्दुतिथौ २ नदीभेदे ३ नवजातरजस्कायां मार्य्यां ४ कच्छुरोगे च मेदि०। ५ आङ्किरसः कन्याभेदे कुहूशब्दे २१६२ पृ० दृश्यम्।
राक्षस = पु० रक्ष एव स्वार्थे अण्। “क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्ते” इति भाष्योक्तेः पुंस्त्वम्। स्वनामख्याते निकषात्मजे १ जातिभेदे अमरः जातौ ङीष्। २ राक्षसजातिस्त्रियाम् स्त्री। रक्षस इदम् अण्। ३ राक्षससम्बन्धिनि त्रि० स्त्रियां ङीप्। “राक्षसी रात्रिरन्यत्र” ति० त०। ४ दंष्ट्रायां हेमच० ५ चण्डिकायां ६ चौरनामगन्धद्रव्ये च स्त्री मेदि० ङीप्।
राक्षसेन्द्र = पु० राक्षस इन्द्र इव श्रेष्ठत्वात्। विश्वश्रवसः ज्येष्ठ पुत्रे निकषात्मजे रावणे त्रिका०।
राक्षा = स्त्री लक्ष्यतेऽनया रक्ष–कर्मणि–घञ् पृषो० वृद्धिः लस्य रश्च। लाक्षायाम् अमरः।
राख = शोषणे भूषणे निवारणे च सक० सामर्थ्ये अक० भ्वा० पर० सेट्। राखति अराखीत्। ऋदित् चङि न ह्रस्वः।
राग = पु० रन्ज–भावे घञ् नि० नलोपकुत्वे। १ रञ्जने २ शुक्लादिवर्णे ३ प्रीतौ ४ अनुरामे ५ नृपे ६ मालवादिनामभिः प्रसिद्धे निषादादिस्वरयोनिके खरभेदे मेदि० ७ चन्द्रे ८ सूर्य्ये च शब्दर०। करणे घञ्। ९ लोहितवर्णे १० तद्विशिष्टलाक्षादौ च “तेन रक्तं रागात्” पा० अनुरागलक्षणम् उज्ज्वलमणिनोक्तं यथा “सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते। यतस्तु प्रणयोत्कर्षात् स राग इति कम्यते”। स्वरभेदनिरुक्तिर्यथा “यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम्। ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः” तेषां भेदाः संगीतदा० मतसभेदे नाना तत्र प्रसिद्धा षड भेदा यथा
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः। श्रीरोगश्च ततः पश्चात् वसन्तस्तदन्तरम्। हिन्दोलश्चाथ कर्णाट एते रागाः षडे च तु” सङ्गीतदा०। भरतमते तु “भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा। श्रीरागो मेघरागश्च रागाः षडिति कीर्त्तिताः”।
रागचूर्ण = पु० रागस्य रतेश्चूर्ण इव। १ कामे। रागाय चूर्ण्यतेऽसौ चूर्ण–घञ्। २ खदिरे च मेदि०। ३ लाक्षायां राजनि० ४ रागयुक्तचूर्णे पु० (फाग) शब्दच०।
रागदालि = पु० दल्यतेऽसौ दल–णिच्–इन् पृषो० वृद्धिः रागेण रक्ततया युक्तो दालिर्वा। मसूरे राजनि०।
रागपुष्प = पु० रागयुक्तं रक्तवर्णं पुष्पमस्य। १ बन्धूके २ रक्ताम्लाने च ३ जवायां स्त्री राजनि० ङीप्।
रागप्रसव = पु० रागयुक्तो रक्तवर्णः प्रसवोऽस्य। १ बन्धूके २ रक्ताम्लाने च राजनि०।
रागयुज् = पु० रागेण रक्तवर्णेन युज्यते युज–कर्मणि क्विप्। १ माणिक्ये राजनि० २ रक्तवर्णयुक्ते त्रि०।
रागसूत्र = न० रागयुक्तं सूत्रम्। पट्टसूत्रे २ तुलासूत्रे च मेदि०।
रागाङ्गी = स्त्री रागयुक्तमङ्गं यस्याः ङीप्। मञ्जिष्ठायाम् राजनि० ३ त०। रागाद्याप्यत्र स्त्री।
रागिणी = स्त्री रागोऽस्त्यस्या इनि। १ गीत्यङ्गे स्वरभेदे रागपत्न्यां सङ्गीतदा०। २ विदग्धनार्य्यां जटा०। ३ मेनकाकन्यायां रागवति ४ अनुरक्ते ५ कामुके त्रि० विश्वः रन्ज–धिणुन्। ६ रतियुक्ते च त्रि०। ६ तृणधान्यभेदे मेदि०। एकैकरागे षट् रागिण्य इति षट्सु रागेषु रागिणीभेदाश्च षट्त्रिंशत् यथा “षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया। धामसी १ मालसी २ चैव रामकीरी ३ च सिम्बुडा ४। आशावरी ५ भैरवी ६ च मालवस्य (१) प्रिया इमाः। वेलावली १ पुरवी २ च कानडा ३ माधवी ४ तथा। कोडा ५ केदारिका ६ चापि मल्लार (२) दयिता इमाः। गान्धारी १ सुभगा २ चैव गौरी ३ कौमारिका ४ तथा। वेलोयारी ५ च वैरागी ६ श्रीरागस्य (३) प्रिया इमाः। तुडी १ च पञ्चमी २ चैव ललिता ३ पटमञ्जरी ४। गुर्जरी ५ च विभाषा ६ च वसन्तस्य (४) प्रिया इमाः। मायूरी १ दीपिका २ चैव देशकारी ३ च पाहिडी ४। वराडी ५ मोरहाटी ६ च हिल्लोलस्य (५) प्रिया इमाः। नाटिका चाथ भूपाली २ रामकेली ३ गडा ४ तथा। कामोदा ५ चाथ कल्याणी ६ कर्णाठस्य (६) प्रिया इमाः”। सङ्गीतदा०। तद्गानकालभेदाः तत्पुत्रादयश्च तत्रैव दृश्याः।
राघ = शक्तौ भ्वा० आ० अक० सेट्। राघते अराघिष्ट। ऋदित् चङि न ह्रस्वः।
राघव = पु० रवोर्गोत्रापत्यम् अण्। १ रघोर्वंश्ये २ तत् प्रधाने श्रीरामे च ३ महामत्स्यभेदे ४ समुद्रे च मेदि०।
राङ्कव = न० रङ्कोरयं विकारो वा तल्लोमजातत्वात् अण्। मृगविशेषलोमजाते वस्त्रभेदे अमरः।
राज = दीप्तौ भ्वा० उभ० अक० सेट्। राजति ते–अराजीत् अराजिष्ट फणादि० रेजतुः रराजतुः। ऋदित् चङि न ह्रस्वः।
राजक = न० राज्ञां समूहः कन्। १ नृपसमुदाये अमरः। राजैव क। २ नृपे पु०। राज–ण्वुल्। ३ दीप्तिमति त्रि०।
राजकदम्ब = पु० कदम्बानां राजा राजद० परनि०। कदम्बभेदे जटा०।
राजकल्प = पु० ईषदसमाप्तो राजा राजन् + कल्पप्। राजतुल्ये।
राजकर्कटी = स्त्री राजते राज–अच् कर्म्म०। चीनाकर्कट्याम् राजनि०।
राजकशेरु = पु० कशेरूणाम् राजा राजद०। भद्रमुस्तायाम् राजनि०।
राजकीय = त्रि० राज्ञ इदम् छ कुक् च। राजसम्बन्धिकार्य्यादौ।
राजकुमार = पु० राज्ञः कुमारः। अप्राप्तवयस्के युवराज कार्य्यानारूढे राजपुत्रे।
राजकुष्माण्ड = पु० राज्ञः कुष्माण्ड इव प्रियत्वात्। वार्त्ताक्याम् जटा०
राजकोषातकी = स्त्री राजप्रिया कोषातकी। (घियाझिङ्गा) लताभेदे मदनविनोदः।
राजक्षवक = पु० क्षवत्यनेन क्षु अप् राजते राज–अच् कर्म० स्वार्थे क। राजसर्षपे (राइसर्षा) राजनि०।
राजखर्जूरी = स्त्री राजप्रिया खर्जूरी। खर्जूरीभेदे (पिण्डखेजुर) राजनि०।
राजगिरि = पु० राजाश्रमो गिरिः। १ मगधस्थे पर्वतभेदे २ शाकभेदे राजनि०।
राजघ = त्रि० राजानं हन्ति हन–क नि०। १ राजहन्तरि, २ तीक्ष्णे च जटा० “रराज नीरजनया स राजघः” नैष०
राजजम्बू = स्त्री राज्ञः जम्बूरिव। १ पिण्डखर्जूरे मेदि० राजते अच् कर्म०। २ महाजम्ब्वाम् राजनि०।
राजज(य)क्ष्मन् = पु० राज्ञः चन्द्रस्य क्षयकारको ज(य)क्ष्मा। रोगभेदे यक्ष्मन्शब्दे दृश्यम् “राज(य)क्ष्मेव रोगाणाम्” माघः।
राजतरु = पु० तरूर्णा राजा राजद० परनि०। १ कर्णिकारवृक्षे २ आरग्वधे च राजनि०।
राजताल = पु० राज्ञस्ताल इव प्रियः। १ गुवाकवृक्षे शब्दर०। स्त्रीत्वमपि तत्र ङीप्। “राजतालीवनध्वनिः” रघुः।
राजदन्त = पु० दन्तातां राजा परनि०। ऊर्द्ध्वपङ्क्तिस्थे मध्यवर्त्तिदन्तद्वये हेमच०।
राजदेशीय = पु० ईषदसाप्तो राजा राजन् + देशीयर्। राजतुल्ये राजकल्पे।
राजधुस्तूरक = पु० धुस्तूराणां राजा राज० पर० स्वार्थे क। वृहद्धस्तूरे राजधस्तूरकोऽप्यत्र पु० राजनि०।
राजधर्म्म = पु० राज्ञो धर्म्मः। राज्ञामवश्यकर्त्तव्ये प्रजापालनादौ कर्मणि। तमधिकृत्य कृतो ग्रन्थः अण्। भारतशान्तिपर्वान्तर्गते व्यासप्रणीते ग्रन्थभेदे। राजधर्माश्च तत्र मानवे ७ अ० च उक्ता दृश्याः।
राजधानी = स्त्री राजा धीयतेऽस्यां धा–आधारे ल्युट् ङीप्। राजावासे महानगर्य्याम् शब्दर०।
राजधान्य = न० धान्येषु राजा राज० पर०। (श्यामा) श्यामाकधान्ये राजनि०।
राजन् = पु० राज–कनिन् रञ्जयति रन्ज–कनिन् नि० वा। १ नृपे, “राजा प्रकृतिरञ्जनात्” रघुः। २ चन्द्रे, ३ प्रभौ, ४ क्षत्रिये, ५ यक्षे ६ इन्द्रे, च मेदि०। उत्तरस्थपदः पूर्वपदस्थश्च सममिव्याहृतपदार्थश्रेष्ठवाचकः। यथा राजमाषः मुनिराज इत्यादि। ७ पृथुनृपे च। “पित्रा न रञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः। अनुरागात्ततस्तस्य नाम राजेत्यभाषत” विष्णुपु०।
राजनीति = स्त्री राज्ञां नीतिः। १ राजज्ञेये सामाढ्युपाये, २ उपचारात् तत्प्रतिपादके–शास्त्रे च। सा च कामन्दकीयनीतिशास्त्रादौ दृश्या।
राजन्य = पु० राज्ञोऽयम् यत्, जातौ नलोपः। राज–अन्य वा। १ क्षत्रिये अमरः। २ राजपुत्रे ३ अग्नौ, उणादिको० ५ क्षीरिकावृक्षे चजटा०।
राजन्यक = न० राजन्यानां क्षत्रियाणां समूहः कन्। क्षत्रियसमूहे अमरः।
राजन्वत् = त्रि० प्रशस्तो राजाऽस्त्यस्य प्राशस्त्ये मतुष् मस्य वः न नलोपः। सुन्दरराजयुते देशे अमरः अन्यत्र राजवद् इत्येव।
राजपटोल = पु० राजप्रियः पटोलः। १ पटोले रत्नमा०। २ मधुरपटोल्यां राजनि०।
राजपट्ट = पु० राज्ञः पट्ट इव। मणिभेदे त्रिका०।
राजपथ = पु० पथां राजा राजगमनयोग्यो वा पन्थाः अच्समा०। “धनूंपि दश विस्तारे श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसंवाधः सुसञ्चरः” इत्युक्ते राजमार्गे देवीपु०।
राजपलाण्डु = पु० पलाण्डूगां राजा श्रेष्ठत्वात् राजद०। रक्तवर्णपलाण्डौ राजनि०।
राजपीलु = पु० राजप्रियः पीलुः। महापीलुवृक्षे राजनि०।
राजपुत्र = पु० राज्ञश्चन्द्रस्य, नृपस्य वा पुत्रः। १ बुधग्रहे शब्दर० २ नृपकुमारे ३ वर्णसङ्करभेदे (रजपुत) “वैश्यादम्बष्ठकन्यायां राजपुत्रस्य सम्भवः” इति पराशरः। ४ महाराजचूतवृक्षे राजनि०।
राजपुत्री = स्त्री राज्ञश्चन्द्रस्य पुत्रीव। १ कटुतुम्ब्याम् २ रेणुकायां ३ नृपरीतौ, ४ जातौ ५ छुछुन्दर्य्यां च। ५ मालत्याञ्च राजनि०। ६ त०। ६ नृपकन्यायाम्। संज्ञायां कन्। ७ सराटिखगे जटा०।
राजपुष्प = पु० राजा चन्द्र इव शुभ्रत्वात् पुष्पमस्य। नागकेसरवृक्षे शब्दच०। २ करुणीवृक्षे स्त्री राजनि० ङीप्।
राजफणिज्झक = पु० राज अच् कर्म०। नामरङ्गवृक्षे शब्दमा०
राजफल = न० राजप्रियं फलमस्य। १ पटोले त्रिका०। २ राजप्रियं फलमस्याः। २ जम्ब्वाम् स्त्री राजनि० टाप्।
राजबदर = न० राज्ञो वदरमिव प्रियत्वात्। १ रक्तामलके २ लवणे च मेदि० बदराणां राजा राजद० प०। ३ उत्तमकोलौ पु० राजनि०।
राजबला = स्त्री राज–अच् राजं बलं यस्याः ५ व०। (गन्धभादाल) लताभेदे अमरः।
राजभद्रक = पु० राज्ञो भद्रं यस्मात् कप्। १ कुष्ठे (कुड) २ निम्बे च राजनि० ३ पारिभद्रवृक्षे धातुपा०।
राजभूय = न० राज्ञो भावः राजन् + भू–क्यप्। राज्ञोऽसाधारणधर्मे राजत्वे।
राजभोग्य = न० राज्ञा भोक्तु योग्यम् भुज–ण्यत् कुत्वम्। १ जातीकोषे २ पियालवृक्षे पु० शब्दच०। ३ नृपतेर्मोग्यवस्तमात्रे त्रि०।
राजमार्ग = पु० राजयोग्यः मार्गः। १ राजपथे राजनि०।
राजमाष = पु० माषेषु कलायेषु राजा श्रेष्ठत्वात् राजद० पर०। १ माषभेदे हेमच०। (वरवटी) २ व्रीहिभेदे राजनि०।
राजमुद्ग = पु० मुद्गेषु राजा राज० प० नि०। (मुगानि) मुद्गमेदे।
राजरङ्ग = न० राजयोग्यं रङ्गम्। रजते शब्दर०।
राजराज = पु० राज्ञामपि राजां प्रभूतधनत्वात् टच् समा०। १ कुवेरे, अमरः। २ सार्वभौमनृपे, ३ चन्द्रे च मेदि०।
राजर्षि = पु० राजा ऋषिरिव श्रेष्ठत्वात् संयतत्वाच्च। ३ राजश्रेष्ठे, २ यतात्मनि नृपे च।
राजवंश्य = त्रि० राजवंशे भवः यत्। १ राजवंशोद्भवे। २ जातिभेदे पुंस्त्री०।
राजवर्त्मन् = न० राजयोग्यं वर्त्म। १ राजशब्दोक्तलक्तणे राजपथे हेमच०। ६ त०। राज्ञः २ कर्त्तव्यकर्म्मणि च।
राजवल्लभ = पु० ६ त०। १ प्रियाते २ राजवदरे ३ राजाखे राजनि० द्रव्यगुणप्रतिपादके तभ्रामविद्वत्कृते ४ ग्रन्थभेदे च। ५ राज्ञः प्रिये त्रि०।
राजवल्ली = स्त्री राजते राज–अच राजा वल्ली कर्म०। (उच्छा) लताभेदे रत्नमा०।
राजवत् = त्रि० राजा राजमातं विद्यतऽस्यमतुप प्तस्य वः। राजमात्रवति देशे अमरः।
राजवीजिन् = त्रि० राजा वीजी कारणं यस्य। राजवंश्ये।
राजवृक्ष = पु० वृक्षाणां राजा राजद० परनि०। १ आरग्बधे (सोन्दाल) अमरः। राजप्रियो वृक्षस्तत्फलवीजजातलड्डुकस्य राजप्रियत्वात्। २ प्रियाले मेदि०। ३ लङ्कास्थायिवृक्षे (लङ्कासिज) शब्दच०।
राजशण = पु० राज–अच् राजः शणः कर्म०। पट्टे (पाट) शब्दमा०।
राजशाक = पु० शाकानां राजा राज० परनि०। वास्तूकशाके राजनि०।
राजशृङ्ग = न० राज्ञां शृङ्गमिव ऊर्ध्वस्यितत्वात्। राजचिह्नच्छत्रे त्रिका०।
राजस = त्रि० रजसा निर्मितः अण्। रजसोगुणात् जाते १ कर्मेन्द्रियादौ “येनास्मिन् कर्मणा लोके ख्यातिमाप्नोति पुष्कलाम्। न च शोचत्यसम्पत्तौ तद्विज्ञेयन्तु राजसम्” इत्युक्ते ख्यात्यै क्रियमाणे २ कर्मणि च। रजाप्रधान तयास्त्यस्य अण्। ३ रजःप्रधाने। सर्वेषां वस्तूनां त्रिगुणात्मफत्वेऽपि “भूयस्त्वात्तद्व्यपदेशः” इत्युक्तेः क्वचित् तत्प्रधानत्वेन व्यपदेशः। ४ दूर्वायां स्त्री ङीप् शब्दमा०।
राजसभ = न० राज्ञां नृपाणां सभा। नृपसमाजे अमरः।
राजसर्षप = पु० सर्षपाणां राजा श्रेष्ठत्वात् राजद०। (राइसर्षा) १ सर्षपभेदे हेमच०। “तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते” उक्ते २ रिमाणभेदे च विश्वः।
राजसारस = पुंस्त्री राज्ञा सारस इव। मयूरे शब्दमा० स्त्रियां ङीष्।
राजसूय = पु० राज्ञा सूयते सू–कर्मणि क्यप्। राजमात्रकर्त्तव्ये यज्ञभेदे शब्दच०। “रांजा राजसूयेन यजेत” श्रुतिः।
राजस्व = न० राज्ञे देयं स्वं कररूपम् धनम्। १ राजदेये करे ६ त०। २ राजधने च।
राजस्वर्ण = पु० स्वर्णानां धुस्तूराणां राजा० राजद० परनि० वृहद्धूस्तूरे राजनि०।
राजहंस = पुंस्त्री० हंसानां राजा श्रेष्ठत्वात्राजद० पर०। रक्तवर्णचञ्चुचरणयुक्ते श्वेतपक्षके हंसभेदे अमरः। २ कलहंसे च मेदि०। उभयार्थे स्त्रियां ङीष्। राजा हंस इव सारग्रहणात्। ३ नृपश्रेष्ठे।
राजहर्षण = न० राज्ञः नृपान् हर्षयति हृप–णिच्–ल्यु। तगरपुष्पे राजनि०।
राजातन = पु० राजार्थमातनोति फलवीजम् आ + तन–अच्। (चीरञ्जीति) ख्यातवीजहेतुफलके पियाले शब्दमा०।
राजादन = पु० राज्ञा अद्यते तत्फलवीजजातलड्डुकः अदकर्मणि ल्युट्। १ पियालवृक्षे अमरः। यस्य फलवीजं (चिरञ्जि) तेन हि लड्डुक कृत्वा राज्ञा भुज्यते। २ क्षीरिकायां (क्षीरुइ) २ किंशुके च मेदि०। ४ क्षीरिण्यां स्त्री ङीप् सरता।
राजान्न = न० अन्नानां राजा राजद०। १ आन्ध्रदेशजधान्यभेदे राजनि०। ६ त०। २ नृपस्वामिकान्ने च
राजाम्र = पु० आम्राणां राजा श्रेष्ठत्वात् राजद० १ आम्रभेदे “राजाम्रं तुवरं स्वादु विशदं शीतलं गुरु। ग्राहि रूक्षं विबन्धाध्मवातकृत् कफषित्तनुत्” भावप्र०।
राजाम्ल = पु० अम्लानां राजा श्रेष्ठत्वात् राजद०। अम्लवेतमे राजनि०।
राजार्क = पु० अर्काणां राजा श्रेष्ठत्वात् राजद०। श्वेतार्कवृक्षे (सादा आकन्द) राजनि०।
राजार्ह = न० राजानमर्हति अर्ह–अण्। १ अगुरुचन्दने २ राजयोग्ये त्रि० राजनि० ३ जम्ब्वां स्त्री मेदि०।
राजालाबू = स्त्री राजते राजा अलावूः कर्म०। मिष्टालाब्वाम् मदनवि०।
राजावर्त्त = पु० राजानमावर्त्तयति अनुकूलयति आ–वृत– णिचण्। १ उपरत्नभेदे राजनि०। २ विराटदेशीयहीरके हेमच०।
राजाहि = पु० नित्यक०। द्विमुखसर्पे शब्दर०।
राजि(जी) = स्त्री राज–इन् वा ङीप्। १ श्रेण्याम् पङ्क्तौ २ रेखायां च मेदि०। खार्थे क। रेखायाम्। राजते राज–ण्वुल्। राजिका राजसर्षपे स्त्री मेदि०।
राजिकाफल = पु० राजिकाया इव फलमम्य। श्वेतसर्षपे राजनि०।
राजि(जी)फला = स्त्री राजिभूतानि श्रेणिभूतानि फलानि यस्याः। १ चीनाकर्कट्याम् राजनि० २ पटोले पु० राजनि०
राजिल = पुंस्त्री० राज–इलच्। डुण्डुभसर्पे (ढीडासाप) अमरः स्त्रियां ङीष्।
राजीव = न० राजी दवराजी अस्त्यस्य व। १ पद्मे अमरः। “राजीचराजीवशकोलेति” माघः। २ हरिणभेदे ३ मत्स्यभेदे च पुंस्त्री० मेदि० “राजीवसिंहतुण्डांश्च” मनुः। ४ गजे त्रिका० ५ सारसपक्षिणि च पुंस्त्री० अमरः सर्वत्र जातौ स्त्रियां ङीष्।
राजेन्द्र = पु० राजा इन्द्र इव श्रेष्ठत्वात्। “चतुर्योजनपर्य्यन्तमधिकारी नृपो भवेत्। यो राजा तच्छतगुणः स एव मण्डलेश्वरः। तस्माद्दशगुणो राजा राजेन्द्रः” इत्युक्ताधिकारवति भूपतिभेदे व्रह्मवै० ज० ख० ८६ अ०।
राज्ञी = स्त्री राज्ञः पत्नी ङीप् स्वयं वा राजते राज–कमिन् ङीप् वा। (राणी) १ राजपत्न्याम् २ खयं राजकर्मकर्त्र्याञ्च ३ सूर्य्यपत्न्यं मेदि० ४ कांस्ये हेमच०।
राज्य = न० राज्ञो भावः कर्म वा राजन् + यत् नलोपः। १ राजकर्मणि २ राजभावे च ३ जनपदे शब्दर०। “लक्षाधिपत्यं राज्यं स्यात् सामाज्यं दशलक्षके। शतलक्षे महेशानि! महासामाज्यमुच्यते” वरदातन्त्रोक्ते ४ लक्षग्रामाधिपत्ये च।
राज्यधरा = स्त्री ६ त० अच्समा०। राज्यभारे राजकर्त्तव्य प्रजापालनादौ।
राज्याङ्ग = न० ६ त०। खाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलप्रकृतिरूपेषु अष्टसु राज्यस्योपायेषु। “परस्यैवोपकारीदं सप्ताङ्गं राज्यमुच्यते। अमात्यराष्ट्रे दुर्गाणि कोषो दण्डश्च पञ्चमः। एताः प्रकृतयस्तद्वत् विजिगीषोरुदाहृताः। एताः पञ्च तथा मित्रं सप्तम पृथिवीपतिः। सप्तप्रकृतिकं राज्यमित्युवाच वृहस्मतिः। पौरश्रेणी तदङ्ग च ब्रुवते शब्दवेदिनः” शब्दर०।
राटि = पु० रट–दण्। (शराल) १ विहगे अमरः। २ युद्धे स्त्री हेमच० वा ङीप्। पृषो० टस्य डत्वम्। राडिरप्युक्तार्थे
राढ = पु० रह–घञ् पषो० ढत्वम्। देशभेदे (राड) स्त्रार्थे क तत्रैव।
राढा = स्त्री रह–घञ् पृषो० ढत्वम्। पुरीभेदे “गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरीति” प्रबोधचन्द्रोदयः।
राढीय = त्रि० राढो निवासोऽस्य “वृद्धाच्छः” पा० छ। राढदेशोद्भवे।
रात्रि(त्री) = स्त्री रा–त्रिप वा ङीप्। १ रजन्यां नृणां स्वस्वदेशापेक्ष वा सूर्व्वमण्ड अदर्शनयोग्ये काले २ हरिद्रायाञ्च अमरः। “मासेन च मनुव्याणां पितॄणां तदहर्निशम्। कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः पकीर्त्तिताः” उक्ते पितॄणां ३ शुक्लपक्षरूपे काले “उत्तरायणे दिनं प्रोक्तं रात्रिः स्यात् दक्षिणायने” इत्थुक्ते देवानां दक्षिणायनरूपे ४ काले च।
रात्रिकर = पु० रात्रिं करोति कृ–अच् रात्रौ करः किरणोऽस्य वा। १ चन्द्रे हेमच० २ कर्पू च।
रात्रि(ञ्च)चर = पुंस्त्री० रात्रौ चरति चर–ट खच् मुम् वा। राक्षसे अमरः। १ लज्जातिस्त्रियां ङीष्। २ निशाचारिणि त्रि० टान्तस्य स्त्रियां ङीप्।
रात्रिजागर = पुंस्त्री० रात्रौ जागर्त्ति। १ कुक्कुरे हेमच० स्त्रियां ङीप् २ निशाजागरणकर्त्तरि। ७ त०। ३ रात्रौ जागरणे पु०।
रात्रिजागरद = पु० रात्रौ जागरं ददाति दा–क। मशके कीटभेदे राजनि०।
रात्रिपुष्प = न० रात्रौ पुष्प्यति पुष्प–अच् ७ त०। उत्पले राजनि०।
रात्रिमाणि = पु० रात्रौ मणिरिव दीप्तिमत्त्वात्। १ चन्द्रे हारा०। २ कर्पूरे च।
रात्रिवासस् = न० रात्रेर्वास इवाच्छादकम्। १ अन्धकारे शब्दमा० रात्रौ परिधेयं वासः शाक०। २ रात्रौ परिधेये वस्त्रे च।
रात्रिविगम = पु० ६ त०। १ रजन्यवसाने तदुपलक्षिते २ प्रभातकाले च शब्दमाला।
रात्रिविश्लेषगामिन् = पु० रात्रौ विश्लेषं विच्छेदं गच्छति गम–णिनि। चक्रवाके राजनि० तत् स्त्रियां स्त्री ङीप्।
रात्रिवेद = पुंस्त्री० रात्रिं रात्रिशेषं वेदयति रनेण विद–णिच् अण्। कुक्कुटे शब्दच० स्त्रियां ङीष्।
रात्रिसत्त्र = न० रात्रिषु त्रयोदशादिदिनेषु विहितं सत्त्रम्। त्रयोदशाहादिषु विहिते यागभेदे तत्र घार्थवादिकं फलं प्रतिष्ठादिकम् न विश्वजिन्न्यायात् स्वर्गफलमिति जै० ४। ३। १७। १८ सूत्रे समर्थितम्। “यद्यपि राक्तिशब्देन अथैष ज्योतिरथैष गौरित्यादिवाक्येन विहितानि सौत्राखिकर्माण्युच्यन्ते द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयश्च सत्त्रविशेषाः रात्रिसत्त्रपदवाच्यास्त्रयोदशसंख्यका रात्रयो यस्मिन् सत्त्रविशेषे स त्रयोदशरात्र इति व्युत्पत्तेः तथापि बहुवचनान्तरात्रिशब्देन रात्रिसत्त्रमुच्यते “एता विंशतिं रात्रीः इति श्रवखात्” त० बो०। “फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्” जै० मू०। निर्देशादर्थवादेन फलस्य निर्देशात् फलमर्थवादोक्तम् आत्रेय आह अश्रुतौ यत्रार्थवादादिषु फलाश्रुतिस्तत्रानुमानं स्वर्गफलकल्पनम्” वृ० “निर्देशात्तु प्रतिष्ठैव फलत्वेन विलप्यते” तथा च पतिष्ठाकाम आयुषा यजेत प्रतिष्ठाकामो ज्योतिषा यजेत” इत्यादिश्रुतिपदघटिता एव विधयः कल्प्यन्ते लाघवात् न तु स्वर्गकामादिपदघटिताः तत्त्ववो०। रात्रिसत्त्रन्यायोऽपि आर्थवादिकफलात्वयार्थः।
रात्रिहास = पु० रात्रेर्हास इव शुभ्रत्वात्। श्वेतोत्पले शब्दच०
रात्र्यन्ध = त्रि० रात्राबन्धः दृष्टिक्षययुक्त। १ निशादृष्टिशून्ये णाकादौ। २ रात्रौ रोगकृतदृष्टिशून्ये (रातकाणा) च।
राद्ध = त्रि० राध–कर्त्तरि कर्मणि वा क्त। १ सिद्धे २ पक्वे च हेम०
राद्धान्त = पु० राद्धः लिद्धः अन्तो निर्णयो यस्मात् ५ ब०। संशयविषये वादिदर्शितपक्षनिराकरणपूर्वकयथार्थपक्षप्रयिपादके २ वाक्ये अमरः।
राध = सिद्धौ अक० निष्पादने पाके च सक० स्वादि० दिवा० च पर० अनिट्। राध्नोति राध्यति अरात्सीत् अराद्ध रेधतुः रराधतुः। शुभाशुभालोचने च। तद्योगे शुभाशुभस्वामिनः सम्प्रदानता। “गर्गो राध्यति रामाय” वोपदेवः। अप + दोषकरणे “यन्मह्यमपराध्यति” मघः।
राध = पु० राधा विशाखा तत्समीपस्था अनुराधा च तद्युक्ता पौर्णमासी अण् ङीप् राधो सा यत्र मासे पुनरण्। १ चान्द्रे वैशास्वे मासि। तादृशे २ पक्षे ३ गुरुवर्षे च कार्त्तिकशब्दे दृश्यम्। ४ तत्पूर्णिमायां स्त्री ङीप्।
राधन = न० राध–ल्युट्। १ साधने २ प्राप्तौ मेदि०। ३ तोषे च हेम०। राध–णिच्–युच्। पूजने स्त्री टाप्।
राधस् = न० राध–असुन्। अन्ने निघण्टुः।
राधा = स्त्री राध–अच्। १ विशाखानक्षत्रे रिरंसया रमणीदेहत्वेनाविर्भूते गोलोकस्थे परमेश्वरार्द्धाङ्गस्वरूपे २ शक्तिभेदे तत्रैव श्रीदामशापात् वृन्दावने जातायां वृपभानुसुतायां ३ प्रधानगोपिकायाम् ४ कर्णस्य पालयित्र्यां मातरि च। ५ वैशाखपौर्णमास्यां स्त्री ङीप्।
राधाकान्त = पु० राधायाः कान्तः। श्रीकृष्णे राधावल्लभादयोऽप्यत्र
राधातनय = पु० राधायास्तनयः। कर्णे स हि कन्यावस्थायां सूर्य्यात् कुन्तीगर्भजानस्तया च त्यक्तः राधया सूतपत्न्या पालित इति भारतप्रसिद्धम्।
राधेय = पु० राधाया अपत्यम् पुत्त्रत्वेन परिग्रहणेन तत्पालितत्वात् ढक्। कर्णे
राम = पु० रम–कर्त्तरि घञ् ण वा। १ परशुरामे २ दशरथज्येष्ठपुत्रे श्रीरामे ३ बलरामे च “भार्गवो राघवो गोपस्त्रयो रामाः पकीर्त्तिता” वह्निपु०। रामशब्दनिरुक्तिः “रापब्दा विश्ववचनो मश्चापीश्वरवाचकः। “विश्वानाधीश्वरो यो हि तेन रामः प्रकोर्त्तित” ब्रह्मव० ज० ख० ११० अ०। ४ मनोहरे ५ सिते ६ असिते च त्रि० मेदि०। ७ वास्तूकशाके ८ कुष्ठे (कुड) न० मेदि० ९ तमालपत्रे न० राजनि०।
रामकर्पूरक = पु० रामं मनोहरं कर्पूरमिव कन्। सौगन्धिके स्वनामख्याते तृणभेदे शब्दर०।
रामगिरि = पु० रामाश्रितः गिरिः। चित्रकूटपर्वते स हि रामेण वनवासगमनकाले प्रथममाश्रितः।
रामचन्द्र = पु० रामश्चन्द्र इवाह्लादकत्वात्। दशरथज्येष्ठपुत्रे श्रीरामे शब्दर०।
रामच्छर्दनक = पु० राममभिरामं छर्दयति छृद–णिच्–ण्वुल्। मदनवृक्षे (मयनागाछ) भावप्र०।
रामजनगी = स्त्री ६ त०। १ वसुदेवपत्न्यां रोहिण्यां २ जल दग्निपत्न्यां रेणुकायां ३ दशरथपत्न्यां कौशल्यायाञ्च।
रामठ = न० रमठ + स्वार्थे अण्। १ हिङ्गुनि अमरः। तत्तुल्यगन्धके २ अङ्कोटकवृक्षे रत्नमा०। नाडीहिङ्गनि स्त्री राजनि० ङीप्
रामण = न० रमयति रम–णिच् ल्यु पृषो० वृद्धिः। १ गिरिनिम्बे २ तिन्दुके च (ते~द) राजनि०।
रामणीयक = न० रमणीयस्य भावः रमणीयमेव वा योपधत्वात् वुञ्। १ रमणीयत्वे “मणिहारावलिरामणीयकम्” नैष० २ रमणीवे च।
रामतरुणी = स्त्री रामा अभिरामा तरुणोव। (सेओती) १ पुष्पवृक्षे राजनि० ६ त०। २ सीतायां ३ रेवत्याञ्च।
रामदूत = पु० रामस्य दूतः वार्त्ताहरः। हनूमति स हि रामवार्त्तां लङ्कातः सीताया आजहार।
रामदूती = स्त्री रामा अभिरामा दूतीव गन्धद्वारा प्रचारात्। तुलसीभेदे (रामतुलसी) शब्दच०।
रामनवमी = स्त्री रामस्य जन्माधारो नवमी। चैत्तशुक्लनवम्याम्। “चैत्रे मासि नवम्यान्तु जातो रामः खयं हरिः” अगस्त्यसंहिता। “प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढवीः। उपोषणं न कुरुते कुम्भीपाकेन पच्यते” ति० त०।
रामपूग = पु० रामः अमिरामः पूगः। गुवाकभेदे त्रिका०।
रामबाण = पु० रसभेदे भावप्र०।
“पारदामृतलवङ्गगन्धक मागयुग्ममरिचेन मिश्रितम्। तत्र जातिफलमर्द्धभागिकं तिन्तिलीफलरसेन मर्द्दितम्। वह्निमान्द्यदशवक्त्रनाशनो रामबाण इति विश्रुतो रसः। संग्रहग्रहणिकुम्भकर्णकमामवातखरदूषणं जयेत्। दीयते तु स्वबलानुमानतः सद्य एव जठराग्निदीपन। रोचकः कफकुलान्तकारकः श्वासकासवमिजन्तुनाशनः” भावप्र०।
रामभद्र = पु० राम एव भद्रः मङ्गलदायकत्वात्। श्रीरामे “रामेति रामचन्द्रेति रामभद्रेति वा स्मरन्निति” पद्मपु०।
रामलवण = न० कर्म०। शाम्भरिलवणे रत्नमा०।
रामवल्लभ = न० रामस्य वल्लभं प्रियम्। १ भूर्जपत्रे राजनि० तद्धि रामेण वनवासाश्रमे पियतया धृतम्। २ तत्प्रिये त्रि०।
रामशर = पु० कर्म०। शरवृक्षभेदे राजनि० स हि काण्डद्वारा वाणहेतुत्वात् मनोहरः।
रामसख = पु० ६ त० टच्। सुग्रीवे वानरराजे शब्दच०।
रामा = स्त्री रमतेऽनया रम–करणे घञ्। १ गीतादिकलाभिज्ञायां नार्य्यां २ नारीमात्रे भावप्र० ३ नद्याम् ४ हिङ्गुनि मेदि० ५ हिङ्गुले पु० ६ श्वेतकण्टकार्य्या ७ गृहकन्यायां ८ अशोके ९ गोरोचनायां १० बालायां ११ गैरिके च स्त्री शब्दच०।
रामायण = न०। राभस्यायनं चरितमधिकृत्य कृतो ग्रन्थोऽण्। रामचरितप्रतिपादके वाल्मीकिकृते महाकाव्यभेदे तच्च सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकं मनुष लोके च चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम्। तत्प्रतिपाद्यविषयाश्च गह० पु० १४८ अ० उक्त यथा
“मनोरिक्ष्वाकुवंश्योऽभूत् वंशे राजा रघुः स्मृतः रघो रजस्ततो जातो राजा दशरथो वली। तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः। कोशल्यायामभूद्रामा भरतः केकयीसुतः। सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः। रामो क्तः पितुर्मातुर्विश्वामित्रादवाप्तवान्। अस्त्रग्रामं यतो यक्षीं ताडकां प्रजथान ह। विश्वामित्रस्य यज्ञे तु सुबाहुं न्यबधीद्बली। जनंकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम्। उर्म्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम्। शत्रुघ्नो वै कीर्त्तिमतीं कुशध्वजसुते च ते। पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः। थुधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ। गतयोर्नृपवर्य्येण राज्यं दातुं समुद्यतम्। रामाय ज्येष्ठपुत्राय कैकेय्या प्रार्थितं तदा। चतुर्दश समावासो वने रामस्य वाञ्छितः। रामः पितृहितार्थन्तु लक्ष्मणेन च सीतया। राज्यं च तृणवत् त्यक्त्वा शृङ्गवेरपर गतः। रथं त्यक्त्वा प्रयागञ्च चित्रकूटं गिरिं गतः। रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः। संस्कृत्य भरतश्चागात् रामं मातृगणान्वितः। अयोध्यान्तु समागत्य राज्यं कुरु महामते!। स नैच्छत् पादुके दत्त्वा राज्याय मरताय तु। विसर्ज्जितोऽथ भरतो रामराज्यमपालयत्। नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद् व्रती। रामोऽपि चित्रकूटाच्च अत्रेराश्रममाययौ। नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः। तत्र सुर्पनखा नाम राक्षसी सहसागता। निकृत्य कर्णौ नासे च रामेणाथ पराहिता। तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा। चतुर्द्दशसहस्रेण रक्षसान्तुःबलेम च। रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान्। राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय हि। मृगरूपं स मारीचं लत्वाग्रेऽथ त्रिदण्डधृक्। सीतया प्रेरितो रामो मारीचं प्रजथान ह। म्रियमाणः स च प्राह हा सीते! लक्ष्मणेतिं च। सीतोक्तो सक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम्। उवा च राक्षसी माया नूनं सीता हृतेति सा। रावणोऽन्तरमासाद्य अङ्के नादाय जानकीम्। जटायुषं विनिर्जित्य ययौ लङ्कां ततो बली। अशोकवृक्षच्छायायां रक्षितां तामधारयत्। आगत्य रामः शून्याञ्च पर्णशालां ददर्श ह। शोकं कृत्वाथ जानक्या मार्गणं कृतवान् प्रमुः। जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम्। गत्वा सख्यं ततश्चक्रे सुग्रीपेण च राचवः। सप्ततालान् विनिर्मिद्य किष्किन्ध्याया हरीश्वरा। सुग्रीवं कृतवान राम ऋष्यमूके स्वयं स्थितः सुग्रीवः प्रेषयामास वानरान् पर्वतोपमान्। सीताया मार्गणं कर्त्तुं पूर्वादौ सुमहाबलान्। प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः। दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम्। वनानि पर्वतान् द्वीपान् नदीनां पुलिनानि च। जानकीं ते ह्यपश्यन्तो मरणे कृतनिश्चयाः। सम्पातिवचनात् ज्ञात्वा हनूमान् कपिकुञ्जरः। शतयोजनविस्तीर्ण पुप्लुवे मकरालयम् अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम्। भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा। भव भार्य्येति वदता चिन्तयन्तीञ्च राघवम्। अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत्। रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि!। अभिज्ञानञ्च मे देहि येन रासः स्मरिष्यति। तत् श्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते। यथा रामो नयेत् शीघ्रं तथा वाच्यं त्वया गते। तथेत्युक्त्वा तु हनुमान् वनं दिव्यं बभञ्ज तत्। हत्वाक्षं राक्षसांञ्चा न्यान् बन्धनं स्वयमागतः स्वर्वैरिन्द्रजितो बाणैदृष्ट्वा रावणमव्रीत्। रामदूतोऽस्मि हनुमान् देहि रामाय मैथिलीम्। एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम्। कपिर्ज्वलितलाङ्गूलो लङ्कां देहे महाबलः। दग्ध्वा लङ्कां समायात रामपार्श्वं स वानरः। जाब्वा फलं मधुवने दृष्टा सीतेत्यवेदयत्। मणिरत्नञ्च रामाय रामो लङ्कां ययौ पुरीम्। ससुग्रीवः सहनुमानङ्गदाद्यैः सलक्ष्मणः। विभीषणोऽपि संप्राप्तः शरणं राघवं प्रति। लङ्कैश्वर्य्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम्। रामो नलेन सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम्। सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ह। अथ ते वानरा वीरा नीलाङ्गदनला दयः। धूम्रधूम्राक्षधूम्रेन्द्राजाम्बवत्प्रमुखास्तदा। मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे। राक्षसांश्च महाकायान् कालाञ्जनचयोपमान्। रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान्। विद्युज्जिह्वञ्च धूम्राक्षं देवा- न्तकनरान्तकौ। महोदरमहापार्श्वावतिकायं महाबलम्। कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम्। प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम्। रावणं ब्रह्मणश्छित्त्वा ह्यस्त्राद्यै राघवो वली। निकृत्य बाहुपक्त्राणि रावणन्तु व्यपातयत्। सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः। सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम्। तत्र राज्यं चकाराथ पुत्रवत् पालयन् प्रजाः। दशाश्वमेधानाहृत्य गयाशिरसि पातनम्। पिण्डानां विधिवत् कृत्वा दत्त्वा दानानि राघवः। पुत्रौ कुशलवौ सृष्ट्वा तौ च राज्येऽभ्यषेचयत्। एकादशसहस्राणि रामो राज्यमकारयत्। शत्रुघ्नो लवणं हत्वा शैलूषं भरतः स्थितः। अगस्त्यादिमुनीनाञ्च समुत्पत्तिञ्च रक्षसाम्। स्वर्गं गतो जनैः सार्द्धमयोध्यस्थैः कृतान्तकः”। अन्यदपि व्यासप्रणीते पद्मपु० अध्यात्मरामायणं वाल्मीकिकृतमद्भुतरामायणं चास्ति।
रामालिङ्गनकाम = पु० रामाणाम् स्त्रीणामालिङ्गनस्य कामोऽत्र। रक्ताम्लाने राजनि०।
रामोपाख्यान = न० ६ त०। १ रामस्योपाख्याने। तदधिकृत्य कृतो ग्रन्थः अण्। २ भारतवनपर्वान्तर्गते तदुपाख्यानप्रतिपादकेऽवान्तरपर्वणि च।
राम्भ = पु० रम्भो वेणुस्तस्य विकारोऽण्। व्रतभेदे धार्य्ये वंशभवे दण्डभेदे।
राल = पु० रा–अलच्। सालवृक्षनिर्य्यासे (धुना) भावप्र०। “रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत्। दोपास्रस्वेदवीसर्पज्वरव्रणविपादिकाः। ग्रहमग्नाग्निदग्धांश्च शूलातीसारनाशनः” भावप्र०।
रालकार्य्य = पु० रालः कार्य्यो यस्य। सालवृक्षे राजनि०।
राव = पु० रु–घञ्। शब्दे हारा०।
रावण = पु० रवणस्यापत्यम् शिवा० अण् रावयति शत्रून् णिच्–ल्यु वा। लङ्काधिपतौ विश्वश्रवसः पुत्रे राक्षसे।
रावणगङ्गा = स्त्री रावणनिर्म्मिता गङ्गा नदी। सिंहलदेशस्थे नदीभेदे गरुडपु० ७ अ०।
रावणारि = पु० ६ त०। श्रीरामे जटा० रावणान्तकादयोऽप्यत्र।
रावणि = पु० रावणस्यापत्यम् इञ्। मेघनादाख्ये रावणज्येष्ठपुत्रे हेमच०।
राश = शब्दे भ्वा० आ० अक० सेट्। राशते अराशिष्ट ऋदित् चङि न ह्रस्वः।
राशि = पु० अश्नुते व्याप्नोति अश्–इन् धातोरुडागमश्च। धान्यादीनां १ पुञ्जे अमरः। ज्योतिश्चक्रस्य द्वादर्शाशे २ मेसादौ “दृश्ये राशिप्रसिद्धये” इति लीलावतीप्रसिद्धे ३ व्यक्ताव्यक्तगणभेदे यथा त्रैराशिकपञ्चराशिकादिशब्दे।
राशिचक्र = न० राशिथटितं चक्रं वृत्तम्। मेषादिद्वादशराशियुक्ते गोलाकारे वायुवशेन पूर्वतः पश्चात् अनिशं बंभ्रम्यमाणे ज्योतिर्मये “सप्तविंशतिभिर्ज्योतिश्चक्रं स्तिमितवायुगम्” इत्युक्ते ज्योतिश्चक्रे खगोलशब्दे दृश्यम् मन्त्रशुद्ध्यङ्गराशिचक्रे तच्च चक्रशब्दे २८० पृष्ठे दृश्यम्।
राशिभोग = पु० राशीनां स्वस्वगत्या ग्रहैर्भोगः भुज–घञ् कुत्वम्। रव्यादीनां स्वस्वगत्यनुसारेण राशिषु गतिभेदे। खगोलशब्दे दृश्यम्।
राशी(शि)कृत = पु० अराशिः राशिः कृतः राशि + अभूतद्भावे च्वि तदर्थे समासो वा। (ढेरी) पुञ्जीकृते एकत्रस्थीकृते।
राष्ट्र = न० राज–ष्ट्रन्। जनपदे “गौडं राष्ट्रमनुत्तमम्” इति प्रबोधचन्द्रोदयः। २ उपद्रवे अमरः।
राष्ट्रिका = स्त्री राज–ष्ट्रन् षित्त्वात् ङीष् स्वार्थे क। कण्ठकारिकायाम् अमरः।
राष्ट्रिय = पु० राष्ट्रे भवः घ। नाट्योक्ता १ राजश्याले। छ राष्ट्रीय तत्रार्थे। उभावपि २ राष्ट्रभवे त्रि०।
रास = शब्दे भ्वा० आ० अक० सेट्। रासते अरासिश्च ऋदित् चङि न ह्रस्वः। राममः। अयं तालव्यान्त इत्यन्ये।
रास = पु० रस–घञ् रास–घञ् वा। १ शब्दे, २ ध्वनौ शृङ्खलाबन्धवत् द्वयोर्द्वयोर्मध्यस्थित्या ३ क्रीडाभेदे, ४ कोलाहले च मेदि०।
रासक = न० दृश्यकाव्यभेदे “नाट्ये रासकमेकाङ्कं बहुताललयस्थिति। उदात्तनायकं तद्वत् पीठमद्दोपनायकम्। हास्योऽङ्ग्यत्र सशृङ्गारो नारी वासकसज्जिका। मुखनिवर्हणे सन्धी लास्याङ्गानि दशापि च। केचित् प्रतिमुखं सन्धिमिह नेच्छन्ति केवलम्” सा० द०।
रासभ = पुंस्त्री० रास–अभच्। गर्द्दभे अमरः स्त्रियां ङीष्।
रासभवन्दिनी = स्त्री रासभस्य वन्दिनीव। मलिकायाम् शब्दच०।
रासमण्डल = न० रासार्थं शृङ्खलावन्धवत् द्वयोर्द्वयोमध्यस्थित्या क्रीडाभेदार्थं मण्डलं मण्डलाकारेण भ्रमणं यत्र। १ गोलोकस्थे रासक्रीडाधारस्थाने। तत्रत्य मण्डलप्रमाणञ्च ब्रह्मवै० जन्मख० ८४ अ०। श्रीकृष्णस्य तदुत्सवाङ्गे २ मण्डपभेदे च।
रासयात्रा = स्त्री ६ त०। कार्त्तिकपौर्णमास्यां भगवदुत्सवभेदे ब्रह्मवै० प्र० २५ अ०। भगवद्रासश्च भा० १० स्क० २८ अ आदौ दृश्यः।
रासेवास = पु० ६ त० अलुक् स०। १ गोष्ठ्यां, २ रासे, ३ शृङ्गारे ४ रससिद्धौ, ५ रसावासे, ६ षष्ठीजागरे च मेदि०। ७ उत्सवे शब्दच० ८ परिहासे जटा०।
रासेश्वरी = स्त्री ६ त०। राधिकायाम्।
रास्ना = स्त्री रस–णन्। १ स्वनामख्यातायां लतायाम् (का~टा आमरुल)। तत्पर्य्यायगुणा भावप्र० उक्ता यथा “रास्ना युक्तरसा रस्या सुवहा रसना रसा। एलापर्णी च सुरसा सुस्निग्धा श्रेयसी तथा। रास्नाऽऽमपाचनी तिक्ता गुरूणा कफवातजित्। शोथश्वाससमीरास्नवातशूलोदरापहा। कासज्वरविषाशीतिबातिकामयसिध्महृत्” भावप्र०। ३ नाकुल्यां भावप्र० तत्पर्य्यायगुणा उक्ता यथा “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली। नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी। नाकुली तुवरा तिक्ता कुटुकोष्णा विनाशयेत्। भोगिलूतावृश्चिकाखुविषज्वरक्रमिव्रणान्”।
राहु = पु० रह–उण्। १ त्यक्तरि, ज्योतिश्चक्रस्थे सूर्य्यकिरणसम्पर्काभावेन जायमानपृथिवीच्छायारूपे ३ तमसि तदधिष्ठातरि ४ ग्रहभेदे, ५ सिंहिकासुते दानवे च। तमःशब्दे दृश्यम्।
राहुच्छत्त्र = न० राहोग्रेहस्य छत्त्रमिव। आर्द्रके राजनि०।
राहुदर्शन = न० राहोर्दर्शनं यत्र। चन्द्रसूर्य्ययोरुपरागरूपे १ ग्रहणे “स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने” इति ति० त०। तेन उपरोक्ते एव चन्द्रेसूर्य्ये च तस्य दृश्यता नान्थदा तस्य छायारूपत्वात्।
राहुमूर्द्धभिद् = पु० राहोः सिंहिकासुतस्य मूर्द्ध्वानं भिनत्ति मिद–क्विप्। विष्णौ। अमृतपानकाले देवपङ्क्तौ देवरूपेण स्थित्वाऽमृत पिबन्तं दृष्ट्वा विष्णुस्तस्य शिरश्चिच्छेदेति भाग० ८। ९ अ०।
राहुरत्न = न० राहोः प्रियं रत्नम्। गोमेदमणौ राजनि०।
राहुस्पर्श = पु० राहोः स्पर्शा स्वाधिष्ठितभूच्छायाद्वारा यत्र। चन्द्रसूर्य्ययोः उपरागरूपे ग्रहणे हलायुधः।
राहूच्छिष्ट = पु० ६ त०। लशुने त्रिका०।
राहूत्सृष्ट = पु० ६ त०। लशुने हारा०।
रि = गतौ तु० पर सक० अनिट्। रियति अरैषीत् रिराय।
रिक्त = न० रिच–क्त। १ शुन्ये २ वने मेदि०। ३ निरर्थके च त्रि० शब्दर०। स्वार्थे क। तत्रैव त्रि०।
रिक्तभाण्ड = न० रिक्त भाण्डम्। तैलातिशून्ये भाण्डे।
रिक्तहस्त = त्रि० रिक्तो धनादिशून्यो हस्तो यस्य। १ निर्द्धने, भूरिदानादिना २ व्ययितधने च।
रिक्ता = स्त्री रिच–क्त। उभयपक्षयोश्चतुर्थीनवमीचतुर्दशीतिथिषु ज्यो० त०।
रिक्थ = न० रिच–थक्। १ धने अमरः। २ मिताक्षराद्यु क्ते अप्रातबन्धे दाये च “स्वामी रिक्थक्रयसंविभागेत्यादि” गौतमस्मृतिः।
रिक्थग्राहिन् = त्रि० रिक्थंदायं गृह्णाति। ग्रह–णिनि। दायहारिणि पुत्रादौ। अण्। रिक्थग्राहोऽप्यत्र।
रिक्थिन् = त्रि० रिक्थं ग्राह्यत्वेनास्त्यश्य इनि। दायहारिणि दायादे “उभयोरप्यसौ रिक्थी” इति मनुः।
रिख = सर्पणे भ्वा० पर० अक० सेट् इदित्। रिङ्खति अरिङ्खीत्। अनिदिदप्ययमित्येके रेखति अरेखीत्।
रिग = गतौ भ्वा० पर० सक० सेट् इदित्। रिङ्गति अरिङ्गीत्।
रिङ्गण = न रिगि–ल्युट्। स्खलने। रिखि ल्युट्। रिङ्खणमप्यत्र
रिच = सम्पर्के वियोगे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। रेचयति ते रेचति। अरोरिचत् त अरेचीत्।
रिच = विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम० सक० अनिट्। रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त।
अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक०। अतिरेकः वि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे च व्यतिरेकः।
रिज = भर्जने भ्वा० आ० सक० सेट्। रेजते अरेजिष्ट।
रिपु = पु० रप–उन् पृषो०। १ शत्रौ अमरः। २ चोरनामगन्धद्रव्ये राजनि०। ज्योतिषोक्ते लग्नापेक्षया ३ षष्ठस्थाने च। देहिस्थेषु षट्सु ४ कामक्रोधादिषु। “कामः क्रोधश्च मोहश्च मात्सर्य्यं मदलोभकौ। देहिस्था रिपवश्चेति” पुरा०
रिपुघातिनी = स्त्री रिपुं हन्ति हन–णिनि। (कु~चुइ) लताभेदे शब्दच०। २ शत्रुधातके त्रि०।
रिपुञ्जय = त्रि० रिपुञ्जयति जि–खच् मुम्। १ शत्रूजयिनि, २ नृपभेदे पु०।
रिन्फ = बधे तु० प० सक० सेट्। रिम्फति अरिम्फीत् रिम्फत
रिप्फ = पु० रिन्फ–अच् पृषो०। लग्नापेक्षया द्वादशे ख्याने ज्यो०
रिफ = कुत्सने सौ० पर० सक० सेट्। रेफति अरेफीत्।
रिफ = सिंसायां निन्दायां बोधने च सक० श्लाचायाम् अक० तु० पर० सेट्। रिफति अरेफीत्।
रिब = गत्यां भ्वा० पर० सक० सेट् इदित्। रिम्बति अरिम्बीत्।
रिभ = रवे भ्वा० पर० सक० सेट्। रेभति अरेभीत्।
रिव = गतौ भ्वा० पर० सक० सेट् इदित्। रिण्वति अरिण्वीत्।
रिश = हिसायां तु० पर० सक० अनिट्। रिशति अरिक्षत्।
रिश्य(व्य) = स्त्री रिश्य(ष्य)ते रिश(ष)क्यप्। मृगभेदे त्रिका० स्त्रियां योपधत्वात् टाप्। षध्यस्तत्रार्थे शब्दर०।
रिष = बधे भ्रा० पर० सक० सेट्। रेषति अरेषीत्। रिरेष।
रिष्ट = न० रिग–क्त। १ मङ्गले २ अशुभे ३ पापे च अमरः। भावे क्त। ४ नाशे, ५ अशुभादिमति त्रि०। उपचारात्। ६ खङ्गे, ७ रक्तशिग्रौ च पु० मेदि०। स्वार्थे क। तेषु।
रिष्टि = स्त्री० रिष–रिश–वा क्तिन्। १ अशुभे, २ शस्त्रभेदे खङ्गे पु० मेदि०। क्तिच्। ३ रन्धे पु०। सा च वृ० जा० दृश्याः
रिह = बधे भ्वा० पर० सक० सेट्। रेहति अरेहीत्।
री = क्षरणे दि० आ० अक० अनिट्। रीयते अरेष्ट ओदित् निष्ठातस्य नः। रीणः।
री = गतौ बधे च सक० रवे अक० क्य्रा० प्वा० अनिट्। रिणाति अरैषीत्।
रीठा = स्त्री री–ठक् ठस्य नेत्त्वम्। रीठाकरञ्जे “रीठाकरञ्जस्तिक्तोष्णः कटुगन्धश्च वातहृत्। कण्डूतिकुष्ठविषहृत् कफविस्फोटनाशनः राजनि०।
रीठाकंरञ्ज = पु० कर्म०। स्वनामख्याते वृक्षे राजनि०।
रीढा = स्त्री रिह–क्त नि० इडभावः। अवज्ञायाम् कमरः।
रीण = त्रि० रीक्त। क्षरिते स्रुते अमरः।
रीति = स्त्री री क्तिच्। १ पित्तले। क्तिन्। २ प्रस्नाये, ३ क्षरणे अमरः ४ लौहकिट्टे, मेदि०। ५ दग्धस्वर्णादिमले रमा०। ६ सीभायां, ७ गतौ, ८ स्वभावे, हेमच०। अलङ्कारोक्ते ९ गौड्यादिरचनामेदे च “गौडीपाञ्चालवैदर्भ्यो रीतयः परिकीर्त्तिताः” सा० द०।
रीतिक = न० रीत्या पित्तलेन कायति कै–क। पुष्पाञ्जने राजनि० तत्रार्थे स्त्री शब्दर०
रीतिपुष्प = न० रीतो पुष्पमिव। कुसुमाञ्जने अमरः।
रीव = ग्रहणे, संवरणे च भ्वा० उभ० सक० सेट्। रीवति ते अरीवीत् अरीविष्ट। ऋदित् चङि न ह्रस्वः।
रु = ध्वनौ अदा० पर० अक० वेट्। रौति–रवीयि अरावीत्–अरौवीत्। लिटि नित्वेट् रुरुरिव।
रु = बधे गतौ च भ्वा० आ० सक० अनिट्। रवते अराष्ट। रुरुविषे।
रुक्प्रतिक्रिया = स्त्री रुजः प्रतिक्रिया प्रतिकारः प्रति + कृ–भावे श ६ त०। चिकित्सायाम् अमरः।
रुक्म = न० रुच् मन् नि० कुत्वम्। १ काञ्चने, २ धस्तूरेः अमरः ३ लौहे, मेदि० ४ नागकेसरे च राजनि०।
रुक्मकारक = पु० रक्मं तन्निमित्तभूषणं करीति कृ० ण्वुल्। स्वर्णकारे अमरः।
रुक्मिन् = त्रि० रुक्मं विद्यतेऽस्य इनि। १ स्वर्णवुक्ते २ भीष्मकराजज्येवपुत्रे पु० राजभेदे भाग० १०। ५२। १ रुक्मिराजकन्यायां श्रीकृष्णपत्न्यां स्त्री ङीप्।
रुक्ष = त्रि० रुह–क्स। १ अचिक्कणे २ निःस्नेहे ३ कठोरे च अमरः
रुग्ण = त्रि० रुज–क्त। १ रोगान्विते राजनि० ३ भुग्ने च अमरः
रुच = प्रीतौ प्रकाशे च भ्वा० आ० अक० सेट्। रोचते लुङि उ० अरुचत् अरोष्टिष्ट। एतद्योगे प्रीयमाणस्य सम्प्रदानता “नारदाय रोचते कलहः” सि० कौ०।
रुचक = न० रुच–क्वुन्। १ सर्जिकाक्षारे, माङ्गल्ये २ द्रव्ये, ३ अश्वभूषणे, ४ माल्ये ५ सौवचले, ६ उत्कटे त्रि० मेदि० ७ आस्वाद्यरसे, शब्दच० ८ रोचनायाम्, ९ विडङ्गे न० हेमच० १० लवणे न० हारा०। ११ वीजपूरे, १२ दन्ते, १३ निष्के पु० १४ कपोते च पुंस्त्री० मेदि० स्त्रियां ङीष्। १५ स्वर्णपात्रभेदे च।
रुच्(चा) = स्त्री रुच सम्प० क्विप् वा टप्। १ दींप्तौ, २ शोसायां, ३ प्रकाशे, ४ शारिकाखगवाचि च शब्दर०।
रुचि(ची) = स्त्री रुच–कि वा ङीप्। १ अनुरागे २ आसङ्गे ३ स्पृहायाम् ४ अभिलाषे ५ किरणे अमर। ६ शोभायां मेदि० ७ बुभुक्षायां हेमच०। ८ गोरोचनायां च राजनि०। ९ प्रजापतिभेदे पु० मार्क० पु०। १० आलिङ्गतभेदे कामशास्त्रम्।
रुचिर = त्रि० रुचिं राति ददाति रा–क। १ मनोहरे सुन्दरे १ मधुरे च अमरः। २ मूलके ३ कुङ्कुमे ४ लवङ्गे च न० ५ गोरोचनायां स्त्री राजनि०।
रुचिराञ्जन = पु० अज्यतेऽनेन अन्ज–करणे ल्युट् रुचिरः शोभायुक्तोऽञ्जनः। शोभाञ्जने (शजिना) राजनि०।
रुच्य = त्रि० रुचये हितः यत्। १ सुन्दरे २ रुचिकरे च अमरः। २ सौवर्चले न० राजनि०। ३ पत्यौ पु० हेमच०। ४ कतकवृक्षे ५ शालिधान्ये च पु० राजनि०।
रुच्यकन्दं = पु० रुच्यः रुचिकरः कन्दो मूलमस्य। शूरणे (ओल) राजनि०।
रुज = भञ्जने तु० प० सक० अनिट्। रुजति अरौक्षीत् ओदित् निष्ठातस्य नः। रुग्णः।
रुज = हिंसायां चु० उभ० सक० सेट्। रोजयति ते अरूरुजत् त रोगकर्तृकस्वास्य योगे कर्मणि षष्ठी। रुजयति चौरस्यरोगः
रुज्(जा) = स्त्री रुज–सम्प० क्विप् वा टाप् रुज–अङ् वा। १ रोगे २ भङ्गे मेदि० रुज–क। ३ मेष्यां हेमच०। ४ कुष्ठे च (कुड) राजनि०। एतद्योगे कर्मषष्ठ्या न समासः।
रुजाकर = न० रुजां रोगं करोति ह्य–अच्। १ कर्मरङ्गफले (कामराङ्गा) शब्दच० २ रोगकारके त्रि०। ३ व्याधौ पु० हेमच०।
रुट = चौर्व्ये भ्वा० पर० सक० सेट् इदित्। रुण्टति अरुण्टीत्।
रुट = रोधे सक० दीप्तौ अक० चु० उभ० सेट्। रोटयति ते अरूरुटत् त।
रुट = दीप्तौ अक० प्रतिघाते सक० च भ्वा० आ० सेट्। रोटत ऌदित् लुङि उभ० अरुटत् अरोटिष्ट रुरुटे।
रुठ = उपवाते भ्वा० पर० सक० सेट्। रोठति अरोठीत्।
रुठ = प्रतीधाते भ्वा० आ० सक० सेट्। रोठते ऌदित् लुङि उभ० अरुठत् अरोठिष्ट रुरुठे।
रुठ = गतौ चौर्य्ये सक० मन्दीभावे खञ्जीभावे च अक० भ्वा० पर० सेट् इदित्। रुण्ठति अरुण्ठीत्।
रुण्ड = पु० रुटि–अच् पृषो० ठस्य डः। १ मूर्द्धशून्यदेहे कबन्धे जटा०।
रुत = न० रु–क्त। रवे पशुपक्षिप्रभृतीनां शब्दे अमरः।
रुद = रोदने अश्रुविमोचने अदा० पर० अक० सेट् रुदा० सार्वधातुके हलादौ इट् रोदिति इरित् अरुदत् अरोदीत्।
रुदादि = पु० सार्वधातुके हलादौ इड्निमित्ते शब्दगणे स च गणः “रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा। जक्षितिश्चैवं विज्ञेयो रुदादिः पञ्चको गणः”।
रुदन्ति(न्ती)का = स्त्री रुद–झश् गौरा० ङीष्। संज्ञायां कन् वा। क्षुद्रक्षुपभेदे राजनि० “चणपत्रसमं पत्रं क्षुपश्चैव तथाकृतिः। शैशिरे जलविन्दूनां स्रवन्तीति रुदन्तिका। रुदन्ती वह्निकृद्वृष्या पित्तघ्नो च रसायना” राजव०।
रुदित = न० रुद–भावे क्त। १ क्रन्दने अमरः। कर्त्तरि क्त। २ कृतरोदने त्रि०।
रुद्ध = त्रि० रुध–क्त। आवरणादिना वेष्टिते श्रमरः २ कृतगतिरोधे च।
रुद्र = पु० रोदिति रुद–रक्। १ शिवमूर्त्तिभेदे “सोऽरोदीत् यदरोदीत् तत् रुद्रस्य रुद्रत्वम्” श्रुत्युक्ते २ वह्नौ च। “अजैकपादर्हिर्बुध्नो विरूपाक्षः सुरेश्वरः। जयन्तो बहुरूपश्च त्र्यस्वकोऽप्यराजितः। वैवस्वतश्च सावित्रो हरो रुद्रा इति स्मृताः” ३ इत्युक्तेषु एकादशपु शिवमूर्त्तिभेदेषु व० व० यजु० १६ अ० उक्तेषु “नमस्ते! रुद्र मन्यवे” इत्यादिषु ४ रुद्रगणषु च। ५ एकादशसंख्यायाम् ६ आर्द्रानक्षत्रे च।
रुद्रचण्डी = स्त्री रुद्रयामलोक्ते देवीमाहात्मप्रतिपापकग्रन्थे
रुद्रज = पु० रुद्रात् जायते जन–ड। १ शिववीर्य्यजाते पारदे राजनि० २ कार्त्तिकादौ च।
रुद्रजटा = स्त्री रुद्रस्य जटेव पिङ्गत्वात् जटिलत्वाच्च। १ स्वनामख्याते लताभेदे राजनि० “कटूरुद्रजटा श्वासकास हृद्रोगनाशिनी। भूतरक्षोनाशिनी च” रुद्रलताप्यत्र।
रुद्रपत्नी = स्त्री ६ त०। १ दुर्गायाम् २ अतस्याञ्च (मसिना) रत्नमा०।
रुद्रप्रिया = स्त्री ६ त० १ हरीतक्याम् २ दुर्गायाञ्च शब्दर०।
रुद्रविंशति = स्त्री रुद्रस्वामिका विंशतिः। प्रभवादिष षष्टिवत्- सरेषु अन्तिमेषु विशतिवर्षेषु। प्रभवादिशब्दे ४४७३ पृ० दृश्यम्।
रुद्रसावर्णि = पु० चतुर्दशसु मनुषु द्वादशे मनौ मार्क० पु०।
रुद्राक्रीड = न० रुद्रस्याक्रीडा यत्र। श्मशाने त्रिका०।
रुद्राक्ष = पु० रुद्रस्याक्षि कारणत्वेनास्त्यस्य अच्। खनामख्याते वृक्षे तन्माहात्मादि नि० सि० उक्तं यथा
लैङ्गे “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया। पूजितोऽपि सहादेवो न स्यात्तस्य फलप्रदः। तस्मान्मृदापि कर्त्तव्य ललाटे वै त्रिपुण्ड्रकम्” रुद्राक्षविशेषाः शिवरहस्ये “एकवक्त्रः, शिवः माक्षाद् ब्रह्महत्यां व्यपोहति। अबध्यत्वं प्रतिस्रोतो वह्निस्तम्भं करोति च। द्विवक्त्रो २ हरगौरी स्याद्गोवधाद्यघनाशकृत्। त्रिवक्त्रो ३ ह्यग्निजन्माथ पापराशिं प्रणाशयेत्। चतुर्वक्त्रः ४ स्वयं व्रह्मा नरहत्यां व्यपोहति। पञ्चवक्त्र ५ स्तु कालाग्निरगम्याभक्ष्यपापनुत्। षड्वक्त्र ६ स्तु गुहो ज्ञेयो भ्रूणहत्यादि नाशयेत्। सप्तवक्त्र ७ स्त्वनन्तः स्यात् स्वर्णस्तेयादिपापहृत्। विनायकोऽष्टवक्त्रः ८ स्यात् सर्वानृतविनाशकृत्। भैरवो नववक्त्र ९ स्तु शिवसायुज्यकारकः। दशवक्त्रः १० स्मृतो विष्णुर्भूतप्रेतमयापहः। एकादशमुखो ११ रुद्रो नानायज्ञफलप्रदः। द्वादशास्य १६ स्तथादित्यः सर्वरोगनिवर्हणः। त्रयोदशमुखः १३ कामः सर्वकाम फलप्रदः। चतुर्दशास्यः १ श्रीकण्ठो वंशोद्धारकरःपरः” इति। तथा “विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः। स याति नरकान् घोरान् यावदिन्द्राश्चतुर्दश। पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत्। रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा। त्रियम्बकादिमन्त्रं च तथा तत्र प्रयोजयेत्” तथा “अष्टोत्तरशतं धार्य्यं चतुःपञ्चाशदेव वा। सप्तविंशतिमाला वा ततो हीनाधमा स्मृता”। प्रजापतिः “मोक्षार्थी पञ्चविंशत्या धनार्थी त्रि शता जपेत्। पुष्ट्यर्थी पञ्चत्रिंशत्या पञ्चदश्याभिचारके। सप्तविंशतिरुद्राक्षमालया देहसंस्थया। यत् करोति नरः पुण्य सर्वं कोटिगुणं भवेत्। यो ददाति द्विजेम्यश्च रुद्राक्षं भुवि सन्मुखम्। तस्य प्रोतो भवेद्रुद्रः स्वपदं च प्रयच्छति”। पदार्थादर्शे वोपदेवः “रुद्राक्षान् कण्ठदेशे दशन ३२ परिमितान् मस्तके विंशती द्वे ४० षट् षट् कर्णप्रदेशे करयुगुलधृता द्वादशद्वादशैव। बाह्वोरिन्दोः १६ कलाभिर्नयनयुगधृतयगं ह्येवमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं सः स्वयं नीलकण्ठः”।
रुद्राणी = स्त्री रुद्रस्य पत्नी रुद्र + ङीष् आनुक् च। शिवपत्न्याम् दुर्गायाम् अमरः।
रुद्रारि = पु० रुद्रः अरिर्यस्य। कामदेवे।
रुद्रावास = पु० ६ त०। १ केलासे २ काश्याम् काशीख० ३ श्मशाने च
रुध = कामे दि० आ० सक० अनिट प्रायेणानुपूर्वः। अनुरुध्यते अन्वरुद्ध।
रुध = आवरणे रु० उभ० द्वि० अनिट्। रुणद्धि रुन्धे इरित् अरुधत् अरौत्सीत्
रुधिर = न० रुध–किरच्। शरीरस्थे रसपाकजन्ये १ धातुभेदे २ कुङ्कुमे अमरः। ३ मङ्गलग्रहे ४ रक्तवर्णे च पु० मेदि० ५ तद्वर्णवति त्रि०। ६ मणिभेदे न०। तदुद्भवादि यथा “हुतभुग्रूपमादाय दानवस्य यथेप्सितम्। नर्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले। तत्रेन्द्रगोपकलितं शुकरक्तवर्णं संस्थानतः प्रकरपीलुसमानमात्रम्। नानाप्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमानगेव। मध्यन्दुपाण्डरमतीव विशुद्धवर्णं तच्चेन्द्रनीलसदृशं पटलं तले स्यात्। सैश्वर्य्यभृत्यजनन कथितं तदेव पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्” गरु० पु० ७८ अ०।
रुप = आकुलीकरणे दि० पर सक० सेट्। रुप्यति इरित् अरुपत् अरोपीत्।
रुमण्वत् = पु० लवण + अस्त्यर्थे मतुप् मख वः आसिन्दीवानित्यादिना नि०। लवणाकरे पर्वतभेदे सि० कौ०।
रुमा = स्त्री रु–मक्। १ सुग्रीववानरभार्य्यायाम् २ लवणस्माने देशभेदे च मेदि०
रुरु = पु० रु–क्रु। मृगभेदे अमरः।
रुवु = पु० रु–कु १ एरण्डवृक्षे रत्नमा० स्वार्थे क। रक्तैरण्डे पु० राजनि० रु–उकक्। रुवुकोऽप्यत्र।
रुश = हिंसायां तु० पर० सक० अनिट्। रुशति अरुक्षत्।
रुष = बधे भ्वा० पर० सक० सट्। रोषति अरोषीत्।
रुष = क्रोधे दि० पर० अक० सेट्। रुष्यति इरित् चरुषत् अरोषीत्
रुष = क्रोधे चु० उभ० अक० सेट्। रोषयति ते अरूरुषत् त।
रुष(षा) = स्त्री रुष–सम्प० क्विप् वा टाप्। क्रोधे हेमच०।
रुषित = त्रि० रुष–क्त वा इट्। क्रोधयुक्ते इडभावपक्षे रुष्टोऽप्यत्र
रुह = उद्भवे भ्वा० पर० अक० अनिट। रोहति अरुक्षत्। ज्वलारोहः रुहः।
रुह = त्रि० रुह–क। १ जाते २ दूर्वायां स्त्री अमरः उत्तरपदस्थः तत्प्रादूर्भूते त्रि० यथा भूरुहः वारिरुहम्।
रूक्ष = पारूष्ये कठोरतायाम् निःस्नेहे च अद० चु० उभ० अक० सेट्। रूक्षयति ते अरुरूक्षत् त।
रूक्ष = त्रि० रूक्ष–अच्। १ अचिक्कणे २ स्नेहशून्थे च ३ वृक्ष पु० हेमच०। ४ दत्वीवृक्षे स्त्री राजनि०।
रूक्षगन्ध = पु० रूक्षो गन्धो यस्य। गुग्गुलौ राजनि०।
रूक्षदर्भ = पु०। नित्यकर्म०। हरिदर्मे कुशमेदे राजनि०।
रूक्षपत्त्र = पु० रूक्ष पत्त्रमस्य। शाखोटवृक्षे राजनि०।
रूक्षप्रिय = पु० रूक्षं प्रीणाति प्री–क। ऋषभौषधे राजनि०।
रूढ = त्रि० रुह–क्त। १ जाते, २ प्रसिद्धे च मेदि०। रूढिरस्यास्ति अच्। प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थबोधके ३ शब्दे। यथा घटः गौरित्यादि। शबश० प्र०
रूढि = स्त्री रुह–क्तिन्। १ जन्मनि, २ प्रसिद्धौ, प्रकृतिप्रत्ययार्थमनपेक्ष्य शब्देन समुदायशक्त्यार्थस्य ३ बोधने ४ शब्दशक्तिभेदे च “शब्दात्मिका सती रूढिर्भवेद्योगापहारिणी। कल्पनीया तु लभते नाकानं योगबाधतः” कुमारभट्टः। लब्धात्मिका कॢप्ता शक्तिर्योगबाधिका, कल्पनीया तु योगबाध्या” इत्यर्थः।
रूप = रूपान्वितकरणे चुरा० उभ० सक० सेट्। रूपयति ते अरुरूपत् त। नि + प्रमाणोपन्यासेन स्वरूपादिकथने।
रूप = न० रूप–क भावे अच् वा। १ स्वभाव, २ सौन्दर्य्ये, ३ पशौ, ४ नाम्नि, ५ शब्दे, ६ ग्रन्थावृत्तौ, ७ दृश्यकाव्ये नाटकादौ ८ श्लोके ९ आकारे च मेदि०। शब्दधातूनां विभक्तियोगेन १० निष्पन्नशब्दे, ११ शुक्लादिवर्णे च १२ तद्गति त्रि०। उत्तरपदस्थः सदृशार्थे त्रि० यथा पित्ररूपस्तनय मातृरूपा कन्या। १३ एकसंख्यान्विते न० “रूपं भजेत् स्यात् परिपूर्त्तिकालः” लीलावती। “एकाव्यक्तं शोधयेदन्यपक्षात् रूपाण्यन्यस्येतरस्माच्च पक्षादिति” वौजगणितोक्ते १४ अव्यक्तराशिसहचरितव्यक्तसंख्यान्विते च। आकारवर्णरूपरूपस्य षोडश भेदाः तत्र परिमाणकृता रूपाकारस्य ह्रस्वदीर्घथतुरस्ववृत्तेति पञ्च भेदाः। वर्णस्य ग्रक्लकृष्ण नीलारुणरक्तषीतेति पञ्च भेदाः स्पर्शकृता आकारभेदाः कठिनचिक्कणश्लक्ष्णपिङ्गलमृदुदारणेति पञ्च भदाः इति षोडशविधा भा० शा० उक्ताः। वैशेविकनये “चक्षुर्ग्राह्यं तवेद्रूपं द्रव्यादेरुपलम्भकम्। चक्षुषः महकारि स्यात् शुक्लादिकमनेकधा” भाषा०। तच्च उद्भूतानुद्भूतभेदेन द्विविधम् “उद्भूतरूपं नयनस्य गोचरः” भागोक्तेः उद्भूतरूपस्यैव प्रत्यक्षविषयता न परमाणुगतानुद्भूतस्य। तच्च पृथिव्यप्तेजसां गुणः “रूपद्रवत्वप्रत्यक्षयोगि स्यात् प्रथमं त्रिकम” भाषा० उक्तेः। सौन्दर्य्यरूपलक्षणमुज्ज्वलमणिनोक्तं यथा “अङ्गान्धभूषितान्थेव केनचित् भूषणा- दिना। येन भूषितवद्भान्ति तदूपमिति कथ्यते”।
रूपक = न० रूपयत्यत्र रूपिण्वुल्। १ अभिनयप्रदर्शके दृश्यकाव्यप्रभेदे, “रूपारोपात्तु रूपकम्” तद्दृश्यं काव्यं नटैरामादिस्वरूपारोपात् रूपकमित्युच्यते” सा० द०। तच्च दशविधम् “नाटकमथप्रकरणं भाणव्यायोगसमवकारडिमाः। ईहामृगाङ्कवीथ्यः प्रसहनमिति रूपकाणि दश सा० द०। दशरूपकग्रन्थेऽस्य विवृतिः। रूपमस्त्यस्य कन्। २ मूर्त्ते त्रि० मेदि० रूप + स्वार्थे क। ३ शुक्लादि वर्णे, ४ आकारे च ५ अर्थालङ्कारभेदे, सा० द० श्रलङ्कारशब्दे ४०२ पृ० दृश्यम्। ६ गुञ्जात्रयपरिमाणे “सञ्चाली प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत्” युक्तिक०।
रूपतन्मात्र = न० सांख्यमतादिप्रसिद्धे तेजःपदार्थारम्भवे सूक्ष्मभूतभेदे तन्मात्रशब्दे ३२२९ पृ० दृश्यः।
रूपधारिन् = त्रि० रूपं धारयति धारि णिनि। १ रूपवति, २ सौन्दर्य्यान्विते, ३ वेशान्तरग्राहिणि नटे च।
रूपवत् = त्रि० रूप + मतुप् मस्य वः। १ शुभ्रादिरूपविशिष्टे, २ सौन्दर्य्ययुक्ते ३ आकारविशिष्टे च।
रूपाजीवा = स्त्री रूपं सौन्दर्य्यमाजीवो जीविका यस्याः। वेश्यायाम् अमरः।
रूपिका = स्त्री रूपमस्त्यस्य ठन्। श्वेतार्कवृक्षे रत्नमा०।
रूप्य = न० रूपाय आहन्यते स्वर्णादि यत्। अलङ्कारादिनिर्म्माणाय आहन्थमाने १ स्वर्णे २ रजते च अमरः। स्वार्थे यत्। ३ रजतमात्रे रजतशब्दे ४७८९ पृ० दृश्यम्। ४ सुन्दरे त्रि० मेदि०।
रूप्याध्यक्ष = पु० रूप्येषु अध्यक्षः। कोषाध्यक्षे अमरः।
रूष = धूल्यादिना मिश्रीकरणे अद० चु० उभ० अक० सेट्। रूषयति ते अरुरूषत् त।
रूषक = पु० रूष–ण्वुल्। १ वासके वृक्षे जटा०। २ मिश्रीकारके त्रि०।
रूषित = त्रि० रूष–क्त। १ धूल्यादिभिर्मिश्रिते, २ अचिक्कणीकृते च अमरः।
***