वाचस्पत्यम्
यु to यौ
links:
Menu अ–ह
Prev य–या
Next र–रह
यु
युज
यू
यो
योगे
योनि
यौ
UpasanaYoga
.org

यु = मिश्रणे अमिश्रणे च अदा० पर० सक० सेट्। यौति अयावीत्।

यु = बन्धे क्र्या० उभ० सक० अनिट्। युनाति युनीते अयौषीत् अयोष्ट।

यु = त्रि० न्दने चु० आत्म० सक० सेट्। यावयते अयीयवत्।

युक्त = त्रि० युज–क्त। १ मिणिते मेदि०। २ अभ्यासवशाद् सदा सर्वविषयकज्ञानयुते योगिनि पु० भाषा० ३ उचिते ४ न्यायागतद्रव्यादौ च न० अमरः ५ (एलानी) वृक्षभेदे स्त्री रत्नमा०।

युक्तरसा = स्त्री युक्तो रसो यस्याः। रास्नायां (काटा आमरुली) अमरः।

युक्ति = स्त्री युज–क्तिन्। १ न्याये मेदि०। २ व्यवहारे ३ अनुमाने ४ तत्साधकलिङ्गज्ञानादौ स्वपक्षसाधकविपक्षबाधकप्रमाणोपन्धासे तर्कप्र० व्यवहारे कानि चित् वेषाञ्चिल्लिङ्गानि नारदेनोक्तानि यथा “उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च पातकः। केशाकेशिगृहीतश्च युगपत् पारदारिकः। कुद्दालवाणिर्विज्ञेयः सेतुभेत्ता समीपगः। तथा कुठारहस्तश्च वनच्छेत्ता प्रकीर्त्तितः। प्रत्यक्षचिह्नैर्विज्ञेयो दण्डपारुष्यकृन्नरः। असाक्षिप्रत्यया ह्येते पारुष्ये तु परीक्षणम्”। “युक्तिरर्थावधारणम्” सा० द० उक्ते ६ नाटकाङ्गविशेषे च। तत्र न्याये “श्रुत्योर्विरोधे न्यायस्तु बलवानर्थनिर्णये। युक्तिहीनविचारे तु धर्महानिः प्रजायते” मीमांसकाः।

युग = वर्जने भ्वा० पर० सक० सेट् इदित्। युङ्गति अयुङ्गीत्।

युग = न० युगि–अच् पृषो० नलोपः। १ युग्मे द्वित्वसंख्यान्विते सत्यत्रेताद्वापरकलिरूपे २ कालविशेषे ३ वृद्धिनामौषधे ४ हस्तचतुष्कपरिमाणे ५ रथहलादेरङ्गभेदे पु० (जोयाल) मेदि०।

युगकीलक = पु० ६ त०। रथाद्यङ्गयुगधारणार्थे कीलकाकारे काष्ठखण्डभेदे अमरः।

युगन्धर = पु० युनं रथस्य युगकाष्ठं धरति धृ खच्। रथस्य युगकाष्ठासञ्जने कुवराख्ये १ काष्ठभेदे अमरः। २ पर्वतभेदे च शब्दर०।

युगपद् = अव्य० युगमिव पद्यते पद–क्विप्। एककाले इत्यर्थे अमरः।

युगपत्त्र = पु० युगमिव संहतं पत्त्रमस्य। कोविदारवृक्षे हेमच० वा कष्। तत्रैव। शिंशपावृक्षे स्त्री त्रिका० टाप् अत इत्त्वम्।

युगपार्श्वग = पु० युगपार्श्वे गच्छति गम–ड। अभ्य सार्थं लाङ्गलपार्श्वे बद्धे वृषे अमरः।

युगल = न० युगं द्वित्वं लाति ला–क। युग्मे द्वित्वसंख्यान्विते अमरः।

युगलाख्य = पु० युनलेन वरात्मकेन व्यञ्जनवर्णद्वयेनाख्यायते आ + ख्या–क। १ वर्वरवृक्षे राजनि०। २ युगलनामके त्रि०।

युगान्त = पु० युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः। १ प्रलये २ तत्काले च हला०।

युग्म = न० युज–भक् पृषो० जस्य ग। १ द्वित्वसंख्यान्विते (जोडा) युगले। “युम्बाग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्याध पूर्णिमा। प्रतिपदाप्यमावस्या तिव्योर्युग्मं महाफलम्” इत्युक्ते २ तिथिविशेषयोगे ३ समराशिषु च ४ मिथुनराशौ च ज्यो०

युग्मपत्त्र = पु० युग्मानि पत्त्राण्यस्य। १ रक्तकाञ्चनवृक्षे रत्नमा० युग्मपर्णादयोऽप्यत्र। संज्ञायां कन्। २ शिंशपावृक्षे स्त्री शब्दर० टाप् अत इत्त्वम्।

युग्मफला = स्त्री युग्मानि फलानि यस्याः। १ इन्द्रचिर्भठ्यां २ वृश्चिफालौ च राजनि०।

युग्य = न० युगमर्हति युग + यत्। १ वाहने याने। युगं वहति यत्। २ युगवाहकेऽश्वादौ त्रि० अमरः।

युच्छ = प्रमादे भ्वा० पर० सक० सेट्। युच्छति अयुच्छीत्।

युज = युतौ रु० उ० सक० अनिट्। युनक्ति युङ्क्ते इरित् अयुजत् अयौक्षीत् अयुक्त युयोज युयुजे। अजन्तोपसर्गात् उदश्च परस्मात् आत्म०। अनु + प्रश्ने सक० आ०। अनुयुङ्क्ते अनुयोगः। अभि + व्यवहारेणास्कन्दने (नालिशकरा) सक० आत्म० अभियुङ्क्ते अभियोगः। उद् + आयोजने सक० उद्यमे अक० उद्युङ्क्ते उद्योगः। उप + भोजने सक० सम्बन्धभेदे अक० आत्म० उपयुङ्क्ते उपयोगः। नि + प्रेरणे सक० आत्म० नियुङ्क्ते। नियोगः। परि + अनु + दूषणाय प्रश्ने आत्म० सक०। पर्य्यनुयुङ्क्ते पर्य्यनुयोगः। प्र + उच्चारणे व्यवहारभेदे च सक० आत्म० प्रयुङ्क्ते प्रयोगः प्रति + प्रतिरूपे योगे सक० आ० प्रतियुङ्क्ते प्रतियोगः। सम् + संयोगे सक० प० संयुनक्ति संयोगः।

युज = निन्दायां चु० आ० सक० सेट्। योजयते अयूयुजत।

युज = समाधौ दि० आत्म० अनिट्। युज्यते। युयुजे।

युज = बन्धने युतौ च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। योजयति ते योजति। अयूयुजत् त। अयोजीत्।

युज् = त्रि० दि० युज क्विप्। १ समाधिमति। युक् युजौ। रु० युज क्विप्। २ संयोगवति त्रि० युङ् युञ्जौ युञ्जः इति भेदः चु० युज–निन्दे भावे क्विप्। ३ निन्दायाम् अव्य०।

युञ्जान = पु० युज–शानच्। १ योगविशेषवति भावनासहकारेण सर्वपदार्थज्ञातरि भाषा०। २ रथसारथौ ३ विप्रे च मेदि०।

युत = दीप्तौ भ्वा० आ० अक० सेट्। योतते। अयोतिष्ट। ऋदित् चङि न ह्रस्वः।

युत = त्रि० यु–क्त। १ संयुक्ते २ मिलिते ३ अमिलिते च। ४ हस्तचतुष्टयमाने न० मेदि०।

युतक = न० यु–क्त युत–क वा ततः स्वार्थे क। १ संशये २ युगे ३ स्त्रीवसनाञ्चले ४ चरणाग्रे ५ यौतुके धने मेदि०। ६ मैत्रीकरणे शब्दर०। ७ संश्रवे ८ शूर्पाग्रे च नानार्थमा०। ९ स्त्रीवस्त्रभेदे हेम०। १० संयुक्ते त्रि०।

युतवेध = पु० विवाहादौ वर्ज्ये चन्द्रेण सह पापग्रहयोगे उपयमशब्दे १२६७ पृ० लल्लवाक्ये दृश्यम्।

युद्ध = न० युध–भावादौ क्त। १ परस्पराभिघातार्थं शस्त्रादिक्षेपणव्यापारे योधने २ तदाधारे संग्रामे अमरः। ज्योतिषोक्ते ग्रहाणां गतिभेदकृते योधनरूपे ३ परस्परमिलन विशेषे च। ग्रहयुद्धशब्दे २७६६ पृ० दृश्यम्।

युध = युद्धे दिवा० आ० सक० अनिट्। युध्यते अयुद्ध युयुधे।

युध्(ध्य) = स्त्री युध–सम्प० क्विप् वा टाप्। १ युद्धे योधने २ संग्रामे च अमरः।

युधाजित् = पु० क्रोष्टुनृपपुत्रे माद्रीगर्भजाते नृपभेदे हरिवं० ३५ अ०।

युधान = पु० युध–उणा० कान। १ क्षत्रिये चणादिको०।

युधिष्ठिर = पु० युधि युद्धे स्थिरः “गवियुधिभ्यां स्थिरः” पा० षत्वम्। पाण्डवश्रेष्ठे।

युप = विमोहे दिवा० पर० अक० सेट्। युप्यति इरित् अयुपत् अयोपीत्।

युयुधान = पु० युध–कानच् द्वित्वम्। १ इन्द्रे सात्यकिनामनि यादवे क्षत्रियभेदे त्रिका०। २ क्षत्रियमात्रे च संक्षिप्तसा०।

युवखलति = स्त्री युवतिरेव खलतिः पुंवत्। (टाक्) रोगवत्याम् युवत्याम्।

युवगण्ड = पु० ६ त०। यूनो गण्डस्थव्रणभेदे। (वयस्फोडा) शब्दर०।

युव(ति)ती = स्त्री युवन् + ति ङीप् वा। १ यौवनवत्यां स्त्रियाम् शब्दर०। युवन्–ङीप्। यूनीत्यप्यत्र। २ स्त्रीमात्रे भागुरिः ३ हरिद्रायां शब्दच०।

युवतीष्टा = स्त्री युवतीनामिष्टा। स्वर्णयूथिकायाम् राजनि०।

युवन् = त्रि० यु–कनिन्। १ श्रेष्ठे २ निसर्गबलवति मेदि०। “आषोडशाद्भवेद् बालस्तरुणस्तत उच्यते” इत्युक्तवयस्के ३ तरुणे च। “जीवति तु वंश्ये युवा” पा० सूत्रैरुक्ते पौत्रादेरपत्ये ४ चतुर्थादौ बालादिस्वरेषु ५ स्वरभेदे।

युवनाश्व = पु० सूर्य्यवंश्ये मान्धातृपितरि नृपभेदे।

युवराज = पु० युवैव राजा टच्समा०। राजयोग्यकियत्कार्य्यकरे १ राजपुत्रे अमरः। २ बुद्धभेदे त्रिका०।

युष = भजने सौ० पर० सक० सेट्। योषयति अयोषीत्। योषा युष्मद्

युष्मद् = त्रि० सौ० युष–मदिक्। संबोध्यचेतने भवच्छब्दार्थे। उक्तार्थेऽस्य सर्वनामता त्रिषु लिङ्गेषु समरूपता च।

यूक = पुंस्त्री० यू–क्विप् क। मत्कुणे (उकुण) स्त्रीत्वे टाप्।

यूति = स्त्री यु–क्तिन् नि० दीर्घः। मिश्रीकरणे।

यूथ = न० यु–थक् वृषो० दीर्घः। सजातीयसमुदाये अमरः।

यूथनाथ = पु० ६ त०। वन्यगजादीनां प्रधाने अमरः। यूथपादयोऽप्यत्र।

यूथिका = स्त्री यु–थक् पृषो० दीर्घः स्वार्थे क अत इत्त्वम् टाप्। १ अम्लानके मेदि० २ पाठायां राजनि०। २ यूथ्याञ्च (युइ) अमरः।

यूथी = स्त्री यु–थक् पृषो० दीर्घः ङीप्। (युइ) पुष्पप्रधाने वृक्षे अमरः।

यूप = पुंन० यु–पक् पृषो० दीर्घः। १ यज्ञीयपशुबन्धनकाष्ठभेदे तल्लक्षणं यज्ञपार्श्वे दृश्यम्। यागसमाप्तिचिह्नार्थे २ स्तम्भे च अमरः ३ जयस्तम्भे पु० उणादिको०।

यूपकटक = पु० ६ त०। यज्ञसमाप्तिसूचककाष्ठस्य शिरःस्थे वलयाकारे काष्ठमये पदार्थे चषाले अमरः।

यूपद्रु = पु० यूपाय द्रुः प्रकृतिविकृतिभावात् ४ त०। खदिरवृक्षे यूपद्रुमादयोऽप्यत्र त्रिका०।

यूष = बधे भ्वा० पर० सक० सेट्। यूषति अयूषीत् युयूषा।

यूष = पुंन० यूष–क। १ मुद्गादिक्काथे अमरः। “अष्टादशगुणे नीरे शमीथान्यशृतोरसः। विरसान्ने घनः किञ्चित् पेयातो यूष उच्यते। उक्तः स एव निर्यूहो रुचिकृच्च विशेषतः”। यूषस्य प्रकारान्तरमाह कल्कद्रव्यपलं शुण्ठीं पिप्पलीञ्चार्द्धकार्षिकीं। वारिप्रस्थेन विपचेत्तद्भवौ यूष उच्यते”। “यूषो बल्यो लघुः पाके रुच्यः कण्ठ्यः कफापहः”। अथ मुद्गयूषविधिः “मुद्गानां द्विपलं तोये शृतमर्द्धाटकोन्मिते। पादस्थं मर्दितं पूतं दाडिमस्य पलेन तत्। युक्तं सैन्धवविश्वाह्वधान्यकैः पादकांशिकैः। कणाजीरकयोश्चूर्णाच्छाणैकेनावचूर्णितम्। संस्कृतो मुद्गयूषोऽयं पित्तश्लेष्महरो मतः”। अथ तस्य गुणाः “मुद्गानामुत्तमो यूषो दीपनः शीतलो लघुः। व्रणोर्ध्वजत्रूरुग्दाहकफपित्तज्वरास्रहृत्”। अथ मुद्गामलकयूषगुणाः “मुद्गामलकयूषस्तु भेदी पित्तानिलापहः। तृड्दाहशमनः शीतो मूर्च्छाश्रममदापहः” भावप्र०। २ ब्रह्मदारुदृक्षे पु० शब्दर०।

येष = यत्ने भ्वा० आ० अक० सेट्। येषते अयेषिष्ट। ऋदित् चङि न ह्रस्वः।

योक्त्र = न० युज्यतेऽनेन यज–ष्ट्रन्। ईशादण्डादौ युगबन्धनार्थे दामनि (योत) अमरः।

योग = पु० युज–भावादौ घञ्। संयोगे १ मेलने २ उपाये ३ वर्म्मादिधारणे ४ ध्याने ५ युक्तौ च अमरः। “योगश्चित्तवृत्तिनिरोधः” इति पातञ्जलोक्ते ६ सर्वविषयेम्योऽन्तःकरणवृत्तेर्निरोधे “संयोगं योगमित्याहुर्जीवात्मपरमात्मनोः” इत्युक्ते ७ जीवात्मपरमात्मनोरैक्ये। ८ असभ्यार्थलाभचिन्तायाम् ९ देहस्थैर्य्ये १० शब्दादीनां प्रयोगे ११ भेषजे १२ विश्वासघातके १३ द्रव्ये कार्मणे च मेदि०। १४ समुदायशब्दस्यावयवार्थसम्बन्धे “योगबलं समाख्या” इति मीमांसकाः। “योगः कर्मसु कौशलम्” इत्युक्ते १५ यथास्थितवस्तुनोऽन्यथारूपप्रतिपादने यथा संसारबन्धहेतोरपि कर्मणोऽबन्धमोक्षहेतुत्वम्। १६ ज्योतिषोक्तेषु रविचन्द्रयोगाधीनेषु विष्कुम्भादिषु सप्तविंशतौ पदार्थेष। तिथिवारनक्षत्राणाम् अन्यतरान्य- तमानां १७ सम्बन्धविशेषेषु सिद्धियोगः अमृतयोगः अर्द्धोदययोग इत्यादि। १८ छले च “योगाधमनविक्रीतमिति” स्मृतिः। १९ नैयायिके २० धने हेमच० २१ चारे २४ सूत्रे त्रिका०। चित्तवृत्तिनिरोधरूपयोगश्च द्विविधः। राजयोगो हटयोगश्च। तत्र राजयोगः पतञ्जलिनोक्तः। हटयोगस्तु तन्त्रशास्त्रोक्तः। तस्य प्रकारान्तरेण त्रैविध्यम् भाग० ११। २० अ० उक्तं यथा “श्रीभगवानुवाच “योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया। ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कृत्रचित्। निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु। तेष्वनिर्विणचित्तानां कर्मयोगश्च कामिनाम्। यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान्। न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः। तावत् कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते। स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव!। न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत्। अस्मिल्ला~के वर्त्तमानः स्वधर्मस्योऽनघः शुचिः। ज्ञानं विशुद्धमाप्नोति मद्भक्तिञ्च यदृच्छया”। २३ ज्योतिषोक्ते लग्नादिगृहविशेषे ग्रहभेदयोगे यथा राजयोगः नाभसयोग इत्यादि। यात्रायां यात्रालग्नात् केन्द्रत्रिकोणस्थिते बुधजीवशुक्राणामेकस्मिन् यथोक्तं मु० चि० “एकोज्ञेज्यसितेषु पञ्चमतपःकेन्द्रेषु योगस्तथा द्वौ चेत्तेष्वधियोग एषु सकला योगाधियोगः स्मृतः”। योगे क्षेममथाधियोगगमने “क्षेमं रिपूणां बधः”

योगक्षेम = न० योगश्च क्षेमञ्च समाहारः द्व०। अलभ्यलामचिन्तासहिते लब्धपरिरक्षणे “योगक्षेमं वहाम्यहम्”

योगज = न० योगात् जायते जन–ड। १ अगुरुचन्दने भावप्र०। २ योगजातमात्रे त्रि०। ३ न्यायाद्युक्ते प्रत्यक्षसाधने अलौकिकसन्निकर्षभेदे पु०।

योगदान = न० योगेन छलेन उपधिना वा दानम्। “योगदानप्रतिग्रहम्” इति स्मृत्युक्ते सोपधिके दाने।

योगनिद्रा = स्त्री योगरूपा निद्रा। प्रलये परमेश्वरस्य सर्वजीवसंहारेच्छया योगरूपे १ व्यापारे “योगनिद्रामुपेयुषः” देवीमा० २ तदधिष्ठात्र्यां दुर्गायाञ्च।

योगपट्ट = न० योगाभ्यासार्थं पट्टम्। योगिधार्य्ये पट्टसूत्रभेदे योगपदकमप्यत्र। “त्रिविधं योगपदकमाद्यं व्याघ्राजिनोद्भवम्। द्वितीयं मृगचर्माढ्यं तृतीयं तन्तुनिर्मितम्। चतुर्मात्रप्रविस्तारं दैर्घ्येण यज्ञसूत्रवत्” सिद्धान्तशेखरः। चतुर्मात्रं चतुरङ्गलमात्रम् वीरमि०।

योगपीठ = पुंन० योगयोग्यं पीठमासनम्। देवादीमासनभेदे

योगमाया = स्त्री योग एव माया। भगवतो जगत्सर्जनार्थायां शक्तौ “योगमायामुपाश्रितः” इति भाग० १० स्क० रासारम्भे तदधिष्ठात्र्यां २ दुर्गायाञ्च।

योगरङ्ग = पु० योगेन रङ्गोऽत्र। (नारङ्ग) जम्बीरभेदे राजनि०

योगरूढ = पु० योगोऽवयवशक्तिः रूढिः समुदायशक्तिः एते स्तोऽस्य अच्। अवयवशक्त्या समुदायशक्त्या च अर्थबोधके पङ्कजशब्दादौ। तत्र हि उभयशक्त्या पङ्कजन्मकर्तृत्वरूपावयवार्थविशिष्टपद्मत्वविशिष्टस्व बोधः। उभयार्थबोधनाच्च पङ्कजाते कुमुदादौ स्थलजाते पद्मे च न तत्पदप्रयोगप्रसङ्गः।

योगरूढि = स्त्री योगेन सहिता रूढिः। शब्दस्य वृत्तिभेदे यया पङ्कजनिकर्तृत्वविशिष्टपद्मस्य बोधः।

योगवाहिन् = पु० योगेन वहति वह–णिनि। १ पारदे २ क्षारभेदे च हेमच०।

योगाचार = पु० बौद्धभेदे तन्मतञ्च बुद्धशब्दे ४५८१ पृ० दृश्यम्

योगाधमन = न० योगेन छलेनोपधिना वाऽऽधमनम्। सोपधिके छलहेतुके च बन्धकदाने। “योगाधमनविक्रीतम्” इति स्मृतिः।

योगारूढ = पु० योगमारूढः आ + रुह–क्त। “यदा तु नेन्द्रियार्थेषु न कर्मष्वनुषज्जते। सर्वसंकल्पसन्त्यासी योगारूढस्तदोच्यते” इत्युक्ते योगिभेदे “योगारूढस्य तस्यैव शमः कारणमुच्यते” इति गीता।

योगासन = न० योगार्थमासनम्। १ योगशास्त्रोक्ते स्वस्तिकादौ आसनमेदे हेमच०। “अथ योगासनं वक्ष्ये यत् कृत्वा योगिवद्भवेत्। ऊर्वोः पादतलद्वन्द्वं स्वाङ्के बद्ध्वा करद्वयम्” इति रुद्रजा० उक्ते २ आसनभेदे च।

योगिन् = त्रि० युज–घिनुण्। “आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुनः। सुखं वा यदि वा दुःखं स योगी परमो मतः” गीताद्युक्तयोगयुक्ते २ संयोगवति च त्रि० स्त्रियां ङीप्। सा च तत्र ३ दुर्गायां ४ तच्शक्तिभेदेषु अक्षोभ्यादिषु चतुःषष्टिप्रकारेषु देवताप्रतिमाशब्दे ३९९५ पृ० दृश्यम्। “प्रतिपन्नवमी पूर्वे रामरुद्रौ च पावके। शरस्त्रयोदशी याम्ये वेदमासौ च नैरृते। षष्ठी चतुर्दशी पश्चात् वायव्यां मुनिपूर्णिमे। द्वितीया दशमी यक्षे ऐशान्यां चाष्टमी कुहूः” इत्युक्तेषु पूर्वादिदिग्भेदाद् ५ तिथिभेदेषु तत्फलं वामे शुभकरी प्रोक्ता पृष्ठे सर्वार्थसाधिनी” ज्यो० त०। आवश्यकत्वे यामार्द्धभेदे तस्याः शुभत्वं समयामृते उक्तं यथा “यस्यां दिश्युदयं याति ततो यामार्द्धभुक्तिका। भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी। तेन “प्राचीधनेश्वरहुताशनकौणपेयवायव्यवारुणयमाधिपशङ्करेषु। एषु क्रमान्निवसति प्रतिपन्नवम्योः पृष्ठे स्थिता शुभकरी गिरिराजपुत्री”। ६ मङ्गलापिङ्गलादिदशाभेदे च दशाशब्दे ३४८४ पृ० दृश्यम्।

योगीश्वर = पु० ६ त०। १ याज्ञवल्क्यमुगौ २ योगिनां श्रेष्ठे च। ३ दुर्गायां स्त्री ङीप्।

योगेश्वर = पु० ६ त०। १ श्रीकृष्णे “योगेश्वरं! ततो मे त्वं दर्शयात्मानव्ययम्” गीता। २ दुर्गायां च ३ बन्ध्याकर्कोट्यां स्त्री भावप्र० ङीप्।

योगेष्ट = न० योगाय योजनार्थमिष्टम्। सीसके अमरः।

योग्य = त्रि० योगमर्हति यत् युज–ण्यत् वा। १ योगार्हे २ उचिते ३ निपुणे ४ शक्ते च। ५ पुष्यनक्षत्रे पु० मेदि०। ६ ऋद्धिनामौषधे न० अमरः।

योग्यता = स्त्री योग्यस्य भावः तल्। १ सामर्थ्ये २ शाब्दबोधसाधने “पदार्थे तत्र तद्वता योग्यता परिकीर्त्तिता” भाषा० उक्ते ३ तत्पदार्थे तत्पदार्थवत्तारूपे ४ परस्परान्वये बाधाभावरूपे वार्थे च।

योग्या = स्त्री योगमर्हति यत् युज–ण्यत् वा कुत्वम्। १ अभ्यासे सूर्य्यस्त्रियाञ्च मेदि० ३ शास्त्राभ्यासे हेमच०।

योग्यानुपलब्धि = स्त्री योग्यस्य प्रत्यक्षादिना उपलब्धुमर्हस्यानुपलब्धिरज्ञानम्। न्यायाद्युक्ते अभावग्राहके साधनभेदे। तथाहि घटादिसत्त्वे तत्र घटाभावो नानुपलभ्यते तस्य प्रतियोगिनो घटादेः सत्त्वेन तत्प्रत्यक्षकारणसामग्र्यसत्त्वेन तत्प्रत्यक्षस्याभावात् किन्तु घटास्याभावो गृह्यते पिशाचाद्यभावस्य तु न प्रत्यक्षता तत्प्रतियोगिपिशाचादेर्दर्शनायोग्यत्वात्। वेदान्तिमते इयं प्रमाणान्तरम् वेदान्तप० ६ प०।

योजन = न० युज–भावादौ ल्युट्। १ संयोगे णिच्–ल्युट्। २ संयोगकरणे। ३ चतुर्षु क्रोशेषु। “स्याद् योजनं क्रोशचतुष्टयेन” “प्रथममगमदह्ना योजने योजनेशः” इति च लीला०। ४ परमात्मनि च मेदि०। ५ अङ्गुलौ निघ०। युज–णिच्–युच्। यस्यार्थस्य यत्रान्वयः तद्वाचकशब्दस्य तद्वाचकशब्देन ६ आसत्तिसम्पादने स्त्री।

योजनगन्धा = स्त्री योजनं व्याप्य गन्धो यस्याः। १ कस्तूर्य्याम् २ सीतायां ३ व्यासमातरि सत्यवत्याञ्च मेदि०। स्वार्थे कप् अत इत्त्वम् तत्रैवार्थे।

योजनपर्णी = स्त्री योजनं व्याप्य पर्णान्यस्याः विस्तीर्णपर्णत्वात्। मञ्जिष्ठायाम् रत्नमा०।

योजनवल्ली = स्त्री योजनं व्याप्य वल्लीव। मञ्जिष्ठायाम् अमरः स्वार्थे क ह्रस्वः टाप्। तत्रैव राजनि०।

योटक = त्रि० युट–ण्वुल्। १ मेलके विवाहमेलकश्च उपयमशब्दे १२४८ पृ० दृश्यः।

योत्र = न० यु–ष्ट्रन्। योक्त्रे (योत) अमरः।

योद्धृ = पु० युध–तृच्। युद्धकर्त्तरि अमरः।

योध = पु० युध–अच्। १ युद्धकारके अमरः। भावे घञ्। २ युद्धे।

योधन = न० युध–भावे ल्युट्। १ युद्धे। करणे ल्युट्। २ अस्त्राद्यायुधे। कर्त्तरि ल्यु। ३ युद्धकर्त्तरि पु०।

योधनसंराव = पु० योधनस्य युद्धाय संरावः आह्वानम् ४ अर्थे ६ त०। योधानां युद्धार्थे परस्पराह्वाने अमरः।

योनल = पु० यवस्य नल इव काण्डोऽस्य पृषो० उत्त्वम्। (देधान) शस्यभेदे हेमच०।

योनि = पुंस्त्री० यु–नि। १ मण्यादीनामुत्पत्तिस्थाने आकरे मेदि०। २ कारणे ३ जले हेम०। ४ स्त्रीणामसाधारणचिह्ने अमरः। ५ तद्देवताके पूर्वफल्गुनीनक्षत्रे ज्यो०। स्त्रीत्वे वा ङीप्। ६ उत्पत्तिस्थानमात्रे त्रिका०।

योनिज = न० योनिस्थानात् जायते जन–ड। देहभेदे १ जरायुजे २ अण्डजे च देहे।

योनिमुद्रा = स्त्री योन्याकारा मुद्रा। तन्त्रोक्ते देवताविशेषपूजाङ्गे प्रदर्शनीये अङ्गुलीसन्निवेशविशेषे तल्लक्षणन्तु “मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके। अनामि० कोर्ध्वसंश्लिष्टे दीर्घमध्यमयोरधः। अङ्गुष्ठाग्रद्वयं न्यस्य योनिमुद्रेयमीरिता” तन्त्रसा०। २ मूलबन्धरूपे योनेर्बन्धभेदे तल्लक्षणमुक्तं पदार्थादर्शे “पार्ष्णिभागान् सुसंपीड्य योनिमार्गं तथा गुदम्। अपानमूर्ध्वमाकर्षेत् मूलबन्धो निगद्यते। गुदमेढ्रान्तरं योनिस्तामाकुञ्च्य प्रबन्धयेत्। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्”। (योनिस्थानमुद्रणात् योनिमुद्रात्वमस्याः) “सेयं मयोक्ता खलु योनिमुद्रा बन्धश्च देवैरपि दुर्लभोऽस्य। अनेन बन्धेन न साध्यते यन्नास्त्येव तत्साधकपुङ्गवस्य”।

योनिरोग = पु० ६ त०। षोडशविधे भगरोगभेदे “उदावृत्ता १ तथा वन्ध्या २ विप्लुता ३ च परिप्लुता ४। वातला ५ योनिजो रोगो वातदोषेण पञ्चधा। पञ्चधा पित्तदोषेण तत्रादौ लोहिताक्षरा १। प्रस्रंसिनी २ बामनी ३ च पुत्रघ्नी ४ पित्तला ५ तथा। अत्यानन्दा १ कर्णिनी २ च चरणा ३ नन्दपूर्विका ४। अतिपूर्वापि ५ सा ज्ञेया श्लेष्मला ५ च कफादिमाः। षण्ड्यण्डिनी १। २ च विकृता ३ मूचीवक्त्रा ४ त्रिदोषिणी ५। पञ्चैता योनयः प्रोक्ताः सर्वदोषप्रकोपतः”। अथ तासां लक्षणान्याह “सफेनिलमुदावृत्ता १ रजः कृच्छ्रेण मुञ्चति। बन्ध्या २ निरार्त्तवा ज्ञेया विप्लुता ३ नित्यवेदना। परिप्लुतायां ४ भवति ग्राम्यधर्भे त्वरा भृशम्। वातला ५ कर्कशास्तब्धाशूलनिस्तोदपीडिता। चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः”। अनिलवेदनास्तोदादयः वातलायां त्वति वातवेदना बोद्धव्या वातलेत्यन्वयात्। “सदाहं क्षरते रक्तं यस्याः सा लोहिताक्षरा १। प्रस्रंसिनी २ संसूते च क्षोभिता दुष्प्रजायिनी”। “क्षोभिता विमर्द्दिता स्रंसते स्वस्थानाच्च्यवते दुष्प्रजायिनी दुष्टप्रजननशीला। सतत मुद्गिरेद्वीर्य्यं वामनी ३ रजसा युतम्। स्थितं हि पातयेद्गर्मं पुत्रघ्नी ४ रक्तसंस्रवात्”। पुत्रशब्दोऽत्रापत्योपलक्षकः। “अत्यर्थं पित्तला ५ योनिर्दाहपाकज्वरान्विता। चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत्”। अत्यानन्दा १ न सन्तोषं ग्राम्यधर्भेण विन्दति। कर्णिन्यां २ कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते”। कर्णिका मांसस्य कर्णिकाकारोग्रन्थिः। “मैथुने चरणा ३ पूर्ब पुरुषादतिरिच्यते। अतिरिच्यते रजोमुञ्चतीत्यर्थः। बहुशश्चातिचरणा ४ तयोर्वीर्य्यं न तिष्ठति”। बहुशः वारंवारमतिरिच्यते तयोः चरणातिचरणयोः। “श्लेष्मला ५ पिच्छला योनिः कण्डूयुक्ताति शीतला। चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत्। अनार्त्तवाऽस्तनी षण्डी १ खरस्पर्शा च मैथुने”। अस्तनी ईषत्स्तनौ यस्याः सा अत्र लक्ष्या षण्डी। महामेढ्रगृहीताया बालाया अण्डिनी २ भवेत्। महामेढ्र पुरुषस्तेन ग्रहीतायाः बालायाः मूक्ष्मयोनिच्छिद्रायाः अण्डिनी ३ अण्डवल्लम्बमाना योनिर्भवति”। विवृतां मूची वक्त्राञ्चाह “विवृता ३ च महायोनिः सूचीवक्त्राति ४ संवृता। त्रिदोषजामाह सर्वलिङ्गसमुत्थानं सर्वदोषप्रकीपजम्। चतऌष्वपि च द्यासु सर्वलिङ्गनिदर्शनम्”। अयासाध्यां योनिमाह। “पञ्चासाध्या भवन्तीह योनयः सर्वदोषजाः। पञ्च षण्डीप्रभृतयः” अथ योनिकन्दस्य निदानमाह। “दिवास्वप्नादतिक्रोधात् व्यायामादतिमैथुनात्। क्षताच्च नखदन्ताद्यै र्वाताद्याः कुपिता यथा”। यथास्वनिदानं कुपिता वातादाः। रूपभाह “पूयशोणितसङ्काशं लकुचाकृतिसन्निभम्। जनयन्ति यदा योनौ नाम्ना कन्दः स योनिजः”। लकुचाकृतिसन्निभं लकुचाकारं गुडकमत्र विशेष्यं बोघ्यम्”। वातजादिभेदेन रूप्रमाह। “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत्। दाहराग- ज्वरयुतं विद्यात्पित्तात्मकं तु तम्। तिलपुष्पप्रतीकाशं कण्डूमन्तं कफा प्रकम्। सर्वलिङ्गसमायुक्तं सन्निपातात्मकं वदेत्”।

योषा = स्त्री युष–अच् टाप्। स्त्रियाम् गार्य्याम् अमरः।

योषित् = स्त्री युष–इति। गार्य्याम् अमरः। हलन्तत्वाद्वा टाप्। योषिताप्यत्र शब्दर०।

योषित्प्रिया = स्त्री ६ त०। १ हरिद्रायां भावप्र०। २ नारीप्रियमात्रे त्रि०।

यौक्तिक = त्रि० युक्तित आगतः ठक्। १ युक्तिसिद्धे २ योग्ये च। युक्तौ अधिकृतः ठक्। ३ नर्मसचिये पु० शब्दर०।

यौगिक = त्रि० योगात् प्रकृतिप्रत्ययार्थसम्बन्धात् आगतः ठक्। प्रकृतिप्रत्ययलभ्यार्थवाचके शब्दे यथा पाचकादिशब्दः पाककर्तृबाचकः। बोगाय प्रभवति ठक्। २ बोगबोम्ये

यौट = संबन्धे भ्वा० पर० सक० सेट्। बौटति अयौटीत्। ऋदित् चङि न ह्रस्वः।

यौड = यौटवत् सर्वम्। यौडति अयौडीत् ऋदित्।

यौतक = न० युते विवाहकालेऽधिगतम् वुण्। विवाहकाले लब्धे धने हला०। इति दायभागानुसारिणः। वीरमि० तु “यु मिश्रणे इति धात्वनुसारात् विवाहकाले एकासनोपविष्टयोर्बधूवरयोर्यद् बन्धुभिर्दीयते तत्युतयोरिदं यौतकमिति व्युत्पत्त्या यौतकमित्युच्यते” इत्युक्तम् अत एव निघण्टौ युतयोर्यौतकमित्युक्तम्। अन्ये तु विवाहे स्त्रीपुंसावेकशरोरतया मिश्रितौ भवत इति “अस्थिभिरस्थीनि मांसैर्मांसानि” इत्यादिश्रुत्या तथोक्तेः विवाहेन युतयोरिदम्” इत्याहुः। वस्तुतः विवाहकालोत्तरमेकासनोप्रविष्टयोरेव दत्तं धनं यौतकं लोकप्रसिद्धं वीरमि० उक्तं साधीयः। “मातुश्च यौतकं यत् स्यात् कुमारी भाग एव सः” मनुः।

यौतव = न० यु–तु योतुः तस्य भावः अण्। १ परिमाणे अमरः।

यौतुक = न० योतुर्योगकालस्तत्र लब्धं कण्। विवाहकाले लब्धे धने यौतकशब्दे दृश्यम्।

यौधाजय = न० ऊहगाने १ प्र० दर्शिते सामभेदे “रौरवयौधाजये वार्हते भवतः” श्रुतिः।

यौधेय = पु० योध एव आयुधजीविसंघत्वात् स्वार्थे ढक् १ योद्धरि। २ उत्तरस्थदेशभेदे पु० वृ० स० १४ अ०। बुधायाः अपत्यम् “द्व्यचः” पा० ढक्। २ युधाया अपत्ये। ततःस्वार्थे अञ् शार्ङ्गर० स्त्रियां ङीन्। यौधेयी।

यौन = त्रि० योनितः योनिसम्बन्धात् आगतम् अण्। १ योनितः प्राप्ते। योनेरयमण। २ वैवाहिकसम्बन्धे पु०। प्रा० वि० बौधायनः “संवत्सरेण पतति पतितेन सहाचरन्। याजनाध्यापनाद् यौनात् सद्यो हि शयनाशनात्”। सुमन्तुः “यश्चैतेर्यौनमौखस्रौव्यादीनां सम्बन्धानामन्यतमेन सह सम्पर्कमियात् तस्याप्येतदेव प्रायश्चित्तं विदध्यादिति”।

यौवत = न० युवतीनां समूहः अण्। युवतिसमुदाये अमरः।

यौवन = न० यूनो भावः अण। १ तारुण्ये “आ षोडशाद् भवेद् बालस्तरुणस्तत उच्यते। वृद्धः स्यात् सप्ततेरूर्ध्वम्” इत्युक्ते २ अवस्थाभेदे।

यौवनकण्टक = पुंन० यौवनस्य कण्टक इव चिह्नम्। (वयस् फोडा) व्रणभेदे शब्दमा०

यौवनदशा = स्त्री कर्म०। तारुण्ये अवस्थाभेदे।

यौवनलक्षण = न० ६ त०। १ स्तने २ लावण्ये च मेदि०।

यौष्माक = त्रि० युष्माकमिदम् युष्मद् + अण् युष्माकादेशः। युष्मत्सम्बन्धिनि। खञ्। यौष्मकीनोऽप्यत्र त्रि०। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये यकारादिशब्दार्थसङ्कलनम्।

***