—य—
य = यकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात् अन्तःस्थवर्णभेदः तस्योच्चारणस्थानं तालु जिह्वाग्रेख तालुन ईषत्स्पर्शेनोच्चारणादस्योच्चारणे ईषत्स्पर्श आभ्यन्तरप्रयत्नः “अचोऽस्पृष्टायणस्त्वीषत्” शिक्षोक्तः। वाह्यप्रयत्नाः संवारनादघोषा अल्पप्राणश्च। वर्णाभिधानेऽस्य वाचकशब्दा उक्ता यथा “यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः। युगान्तः श्वसनः शीघ्रोधूमार्च्चिः प्राणिसेवकः। शङ्का भ्रमो जटी लोला वायुवेगी यशस्करी। सङ्कर्षणः क्षपा बालो हृदयम् कपिला प्रभा। आग्नेयोव्यापकस्त्यागो मोहोयाता प्रमा सुखम्। चण्डः सर्वेश्वरी धूम्रा चामुण्डा सुमुखेश्वरी। त्वगात्मा मलयोमात्रा हंसिनी भृङ्गिनायकः। ङे नमः शोषकोमीनोधनिष्ठानङ्गवेदिनी। शिष्टः सोमः पङ्क्तिनामा पापहा प्राणसंज्ञकः”। अस्याधिष्ठातृदेवताध्यानं यथा “धूम्रवर्णां महारौद्रीं षङ्भुजां रक्तलोचनाम्। रक्ताम्बरपरीधानां नानालङ्कारभूषिताम्। महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम्। एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत्”। अस्य ध्येयस्वरूपं यथा “यकारं शृणु चार्वङ्गि! चतुष्कोणमयं सदा। पुलालधूमसङ्काशं स्वयं परमकुण्डलीम्। पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा। त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं तथा। प्रणमामि सदा वर्णं मूर्त्तिमन्मोक्षमव्ययम्” कामधेनुतन्त्रम्। मातृकन्यासे अस्य हृदयन्यास्यता। काव्यादौ अस्य प्रथमप्रयोगे लक्ष्मीलाभः फलम् “यो लक्ष्मीं रस्तु दाहम्” वृ० र० टी०।
य = पु० या–ड। १ वायौ २ यशसि ३ योगे, ४ गतौ च ५ यातरि त्रि० शब्दरत्ना०। यम–ड। ६ संयमे। ७ आदिलघुशेषगुरुके जलदैवते लक्ष्मीफलके यगणे च।
यकार = पु० य + स्वरूपे कार। यस्वरूपे वर्णे।
यकृत् = न० यं संयमं करोति कृ–क्विप् तुक् च। १ कुक्षौ दक्षिणभागस्थे मांसपिण्डे अमरः। २ तद्वर्द्धके रोगभेदे च “अधो दक्षिणतश्चापि हृदयात् यकृतः स्थितिः। तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम्” भावप्र०। तद्रोगनिदानादि तत्रोक्तं यथा “प्लीहामयस्य हेत्वादि समस्तं यकृदामये। किन्तु स्थितिस्तयोर्ज्ञेया वामदक्षिणपार्श्वयोः”। अस्य शमादौ भत्वे च यकन्नादेशः।
यकृदात्मिका = स्त्री यकृतैवात्मा स्वरूपं यस्याः कप्। तैलपायिकायाम् (तेलापोका) शब्दच०।
यकृद्वैरिन् = पु० यकृतो रोगभेदस्य वैरी हन्तृत्वात्। रोहितकवृक्षे शब्दच०।
यक्ष = पूजायां चु० आ० सक० मेट्। यक्षयते अययक्षत।
यक्ष = पु० यक्ष्यते यक्ष–कर्मणि घञ्। १ देवयोनिभेदे २ तदीश्वरे कुवेरे मेदि० ३ इन्द्रगृहे सारस्वतः। भावे घञ् ४ पूजने च।
यक्षकर्द्दम = पु० यक्षप्रियः कर्दम इव। “कुङ्कुमागुरुकस्तूरीकर्पूरं चन्दनं तथा। महामुगन्धमित्युक्तं नामतो यक्षकर्दम” इत्युक्ते समभागेन मिश्रिते कुङ्कुमादौ धन्वन्तरिः। कुङ्कुमस्थाने कक्कोलमुक्तम्। यक्षवृक्षादयोऽप्यत्र।
यक्षतरु = पु० यक्षाणां वासयोग्यस्तरुः। वटवृक्षे राजनि० यक्षवृक्षादयोऽप्यत्र।
यक्षधूप = पु० यक्षे पूजने योग्यो धूपः। (धुना) सर्ज्जरसे अमरः
यक्षराज = पु० यक्षाणां राजा टच् समा०। कुवेरे। यक्षेषु राजते राज–क्किप्। यक्षराडप्यत्र पु०।
यक्षरात्रि = त्रि० यक्षप्रिया रात्रिः शा० त०। कार्त्तिकपूर्णिमारात्रौ त्रिका०।
यक्षामलक = न० यक्षाणामामलकमिव। प्रिण्डखर्ज्जूरफले शब्दमा०।
यक्षावास = पु० ६ त०। यक्षाणामावासः। वटवृक्षे राजनि०।
यक्षोडुम्बुरक = न० यक्षाणामुडुम्बरमिव इवार्थे कन्। अश्वत्थफले त्रिका०।
यक्ष्मघ्नी = स्त्री० यक्ष्माणं हन्ति हन–टक् ङीप्। द्राक्षायाम् शब्दमा०।
यक्ष्मन् = पु० यक्ष–मनिन्। रोगभेदे अमरः। तन्निदानादि यथा “वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात्। त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात्”। येगोऽत्र वातमूत्र पुरीषाणां। “वातमूत्रपुरीषाणि निगृह्णाति यदा नरः” इति चरकवचनात्। क्षयात् क्षीयतेऽनेनेति क्षयः तेनातिव्यवायानशनेर्ष्यादयो धातुक्षयहेतवः क्षय शब्देनोच्यन्ते। साहसात् बलवता समं मल्लयुद्धा दितः। शिषमाशनात् “बहु स्तोकमकाले वा तद्भक्तं विषमाशनम्” तस्मात्। त्रिदोषः सान्निपातिकः। हेतुचतुष्ठयात् अन्येपि हेतवः हेतुचतुष्टय एवान्तर्भवन्ति। यक्ष्मणः पर्य्यायाः राजयक्ष्मक्षयशोषाः। यक्ष्मादीनां शब्दानां निरुक्तिमाह “वैद्यो व्याधिमतां यस्मात् व्याधेयंत्नेन यक्ष्यते। स यक्ष्मा प्रोच्यते लोके शब्द शास्त्रविशारदैः”। यक्ष्यते पूज्यते। “राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः। तस्मात्तं राजयक्ष्मेति केचिदाहुर्मनीषिणः। क्रियाक्षयकरत्वात्तु क्षय इत्युच्यते बुधैः। संशोषणाद्रसादीनां शोष इत्यमि- धीयते”। संप्राप्तिमाह “कफप्रधानैर्दोषैस्तु रुद्धेषु रस वर्त्मसु। अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः। क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः”। कफप्रधानैर्द्दोषैः रसवर्त्मसु रुद्धेसु अनन्तराः सर्वे धातवः क्षीयन्ते ततो मानवः शुष्यति। कारणभूतस्य रसस्य क्षये कार्य्याणां रक्तादीनामनुक्रमेण क्षीयमाणत्वात्” भावप्र०।
यज = देवपूजने, दाने, सङ्गकृतौ च भ्वा० उभ० यजादि० अनिट्। यजति ते अयाक्षीत् अयष्ट इयाज ईजतुः।
यजति = पु० यज–अतिच्। यागमदे। “यजतिषु ये यजामहे नानुयाजेषु” श्रुतिः। तल्लक्षणमुक्तं कात्या० श्रौ० १। २। ६ “तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोऽनुवाक्यावन्तो यजतयः” सू०। “उच्यन्त इति शेषः। तिष्ठता होमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तस ये ते यजतयः उच्यन्ते” कर्कः।
यजत्र = न० यज–अत्र। १ अग्निहोत्रे उणादि० २ तद्वति त्रि०।
यजन = न० यज–ल्युट् होत्रादिना पशुक्षीराज्यादिभिः मन्त्रपूर्वकं वह्णौ प्रक्षेपरूपे यागे। यजनञ्च श्रा० वि० देवलोक्तं यथा “पशुक्षीराज्यपुरोडाशसोमौषधिचरुप्रभृतिर्हविर्भिः खदिरपलाशाश्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखलमूषलकुठारखनित्रयूपदारुदर्भचर्मग्रावपवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिः ऋत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां समापनं यजनम्”। ल्यु। उत्तरपदस्थः समभिव्याहृतदेवादेर्यष्टरि त्रि० आधारे ल्युट्। ३ यागाधिकरणे न०। यथा देवयजनम्।
यजमान = पु० यज–शानच्। होत्रादेर्नियोक्तरि प्रधानकर्मफलयुते। ३ महादेवमूर्त्तिभेदे च।
यजि = पु० यज–इन्। १ यष्टरि उणा०। २ यागे ३ यजधातौ च।
यजुर्वेद = पु० यजुषां ऋक्साममिन्नानां मन्त्राणां प्रतिपादको वेदः। वेदभेदे स च शुक्लकृष्णभेदेन द्विधा तद्विवरणं चरणव्यूहे भाग० १२। ६ अध्याये च दृश्यम्।
यजुस् = न० यज–उसि। ऋकसामभिन्ने पदच्छेदरहिते मन्त्रभेदे अमरः। तल्लक्षणम् “वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि” सा० भा० उक्तम्।
यज्ञ = पु० यज–भावे न। यागे अमरः। स त्रिविधः “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः १। अभिसन्धाय तु फलं दम्भार्ष- मपि चैव यत्। इज्यते भरतश्रेष्ठ! तं यज्ञं विद्धि राजसम् २। विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं ३ परिचक्षते” गीता १७ अ०। स च नानाविधः। “द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः” गीता ४ अ०। पञ्चगृहस्थकर्त्तव्या यज्ञा यथा “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्” गारुडे ११५ अ०। २ विष्णौ च
यज्ञपति = पु० ६ त०। विष्णौ “यज्ञो यज्ञपतिर्यज्वा” विष्णुस०।
यज्ञपशु = पु० इज्यते हविर्दीयतेऽत्र यागार्थकयजेर्भावे आघारे वा न यज्ञः यज्ञार्थः पशुः। १ अश्वे २ छागादौ च।
यज्ञपात्र = न० ६ त०। यागसाधने पात्रे तद्भेदस्वरूपादि कात्या० श्रौ० उक्तं पात्रशब्दे ४३०० पृ० दर्शितम्।
यज्ञपुरुष = पु० यज्ञरूपः पुरुषः। वराहरूपे विष्णौ हेमच०। क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम्।
यज्ञभूषण = पु० यज्ञम् भूषयति भूष–णिष्ट्–ल्यु। श्वेतदर्भे राजनि०।
यज्ञयोग्य = पु० यज्ञे योग्यः। १ उडुम्बरवृक्षे राजनि०। तत्समिदादिभिर्हि यज्ञः साध्यते। २ यागार्हे विपादौ च।
यज्ञवल्ली = स्त्री० यज्ञार्था वल्ली। सोमवल्ल्याम् राजनि०।
यज्ञवराह = पु० यज्ञरूपो वराहः। आदिवराहे भगवदवतारभेदे। क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम्। वराहदेहस्य शिवेन विदारणेन यज्ञभेदरूपत्वं सम्पादितं यथोक्तं कालिकापु० ३० अ० “विदारिते वराहस्य काये भर्गेण तत्क्षणात्। ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह। निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति। तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः। तस्याङ्ग सन्धितो यज्ञाजातास्ते वै पृथक् पृथक्। यस्माद् यस्माच्च ये यज्ञास्तत् शृण्वन्तु महर्षयः। भ्रूनासासन्धिना जातो ज्योतिष्टोमो महाध्वरः। हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत। चक्षुर्भ्रुवोः सन्धिना तु व्रात्यस्तोमो व्यजायत। आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठ सन्धिना। वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत। अतिरात्रं सवैराजमधोजिह्वान्तरादभूत्। अध्यापनं ब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम्। होमो दैवो वलिभौतो नृयज्ञोऽतिधिपजतम्। स्नानं तर्पणपर्व्यन्तं नित्ययज्ञाश्च सांशः। कण्ठसन्धेः समुत्पन्ना, जिह्वातो विधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च। प्राणिहिंसाकरा येऽन्ये ते क्षाताः पादसन्धितः। राजसूयोऽथ कारीरी वाजपेयस्तथैवच। पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च। प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा। हृत्सन्धितः समुत्पन्ना सावित्रीयज्ञ एव च। सर्वेषां साधका यज्ञाः प्रायश्चित्तकराश्च ये। ते मेढृसन्धितो जाता यज्ञास्तस्य महात्मनः। रक्षःसत्रं सर्पसत्रं सर्वञ्चैवाभिचारिकम्। गोमेधो वृक्षजापश्च खुरेभ्यो ह्यभवन्निमे। मायेष्टिः परमेष्टिश्च गोष्पतिर्भोगसम्भवः। लाङ्गूलसन्धौ संजाता अग्निष्टोम स्तथैवच। नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकीर्त्तिताः। लाङ्गूलसन्धौ ते जातास्तथा द्वादशवार्षिकम्। तीर्थप्रयोगसामौथः यजुः सङ्कर्षणस्तथा। आर्कमाथर्वणश्चैव नाभिसन्धेः समुद्गताः। सत्रोत्कर्षः क्षेत्रयज्ञः पञ्चमार्गोऽतियोजनः। लिङ्गसंस्थानहैरम्बयज्ञा जाताश्च जानुनि। एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः!। यज्ञानां सततं लोकायैर्भाव्यन्तेऽधुनापि च। स्रुशस्य पोत्रात् संजाता नासिकायाः स्रुवोऽभवत्। अन्ये स्रुक्स्रुवमेदा ये ते जाताः पोत्रनासयोः। ग्रीवाभागेन तस्याभूत प्राग्वंशो मुनिसत्तमाः!। इष्टापूर्त्तं यजुर्धर्मा जाताः श्रवणरन्ध्रतः। दंष्ट्राभ्योह्यभवन् यूपाः कुशा रोमाणि चाभवन्। उद्गाता च तथाध्वर्य्युर्होता समिध एव च। अग्रदक्षिणवामाङ्ग पश्चात्पादेषु सङ्गताः। पुरोडाशाः सचरवो जाता मस्तिष्कसञ्चयात्। कर्षूर्नेत्रयुगाज्जाता यज्ञकेतुस्तथा खुरात्। मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजायत। रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः। यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च। तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः। एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च। तानि यज्ञवराहस्य शरीरादेव चाभवन्। एवं यज्ञवराहस्य शरीरं यज्ञतामगात्। यज्ञरूपेण सकलमाप्यायितुमिदं जगत्।”
यज्ञवाट = पु० ६ त०। यज्ञस्थाने हेमच०।
यज्ञवृक्ष = पु० यज्ञार्थः वृक्षः। वटवृक्षे राजनि०।
यज्ञश्रेष्ठा = स्त्री यज्ञेषु तत्साघनेषु श्रेष्ठा। सोमवल्ल्याम् राजनि०।
यज्ञसार = पु० यज्ञेषु यज्ञसाघनेषु सारः श्रेष्ठः। यज्ञोडुम्बरवृक्षे राजनि०।
यज्ञसूत्र = न० यज्ञार्थं योग्यं संस्कृतं वा सूत्रं शाक० त०। यज्ञोपवीते जटा०। तत्स्वरूपादि यथा “ऊर्द्धन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः। तन्तुत्रय- मधोवृत्तं यज्ञसूत्रं विदुर्वुधाः। त्रिगुणं तद्ग्रन्थियुक्तं वेदप्रवरसम्मितम्। शिरोधरान्नाभिमध्यात् पृष्ठार्द्ध परिमाणकम्। यजुर्विदां नाभिमितं सामगानामयं विधिः। वामस्कन्धेन विधृतं यज्ञसूत्रं वलप्रदम्” कालिकापु० ४ अ०। “उपवीतमाह गोभिलः “यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरज्ज्वुमेव”। यज्ञोपवीतं विशिष्टविन्यासधारणकर्मतया कुरुते। किं तत्सूत्रं विशेषयति छन्दोगपरिशिष्टम् “ऊर्द्धन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम्। त्रिवृतञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते”। वामावर्त्तवलितं तन्तुत्रयं त्रिगुणं कृत्वा दक्षिणावर्तवलितं कार्य्यम् एवं त्रिवृतं त्रिवृतम् उपवीतं स्यात् एकोग्रन्थिरिति नानात्वनिषेधार्थम्। तथा च बोधायनः “कौषां सूत्रं त्रिस्त्रिवृतं यज्ञोपवीमानाभेः”। कौषं कृंमकाषोद्भवं पट्टसूत्रादिमयमित्यथैः। सौत्रं कार्पासोद्भवम्। तथाच मनुः “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत्। शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्”। त्रिस्त्रिवृतमित्युक्तत्वात् मनुवचनेऽपि त्रिवृन्मात्रं त्रिरावृत्तत्वेन विशेष्यम्। यत्तु पैठीनसिवचनम् “कार्पासमुपधीतं षट्तन्तु त्रिवृतं ब्राह्मणस्य। क्षौमं राजन्यस्य आविकं वैश्यस्य”। तन्नवतन्त्वसम्भवे षट्तन्तु विधायकम्। नवतन्तुत्वं व्यक्तमाह देवलः “यज्ञोपवीतं कुर्वीत सूत्राणि नवतन्तुभिः। एकेन ग्रन्थिना तन्तुर्द्विगुण स्त्रगुणोऽथवा”। एकेन ग्रन्थिना युक्त इति शेषः। द्विगुणश्त्रीगुणोऽथ वेति तन्तुवलेन द्विसवो स्त्रिसवो वा कर्त्तव्यः। द्विसवत्वं त्रिसवत्वासम्भवे। गोभिले वा शब्दो विकल्पार्थः। अपिशब्दो वस्त्रकुशरज्ज्वोः सूत्रानुकल्पत्वप्रदर्शनार्थः। एवकारोऽत्रिसवत्वव्यवछेदार्थः। द्वितीयो वाशब्दोऽनुक्तमौञ्जवालादिसमुच्चयार्थः। तथा च निगमपरिशिष्टम् “वाससा यज्ञोपवीतानि कुरुते तदमावे त्रिवृता सूत्रेण कुशमुञ्जवालप्रतिसव रज्जुभिर्वा। वालोऽत्र गोवालः यथाह देवलः “कार्पास क्षौमगोवाल वररज्जुतृणोद्भवम्। सदा सम्भवतो धार्य्य मुपवीतं द्विजातिभिः”। तदभाव इतिकरणाद्वस्त्राभावे कुशरज्जुभिरिति वोद्धव्यम्”। श्रा० वि०।
यज्ञाङ्ग = पु० यज्ञस्याङ्गं साधनत्वेनास्त्यस्य अच्। १ यज्ञोडुम्बरे अमरः। २ खदिरे राजनि०। ३ ब्रह्मयष्टिकायाञ्च शब्दच० ते हि समिन्पत्त्रादिना यज्ञं सम्पादयन्ति। ४ सोमवल्ल्यां स्त्री राजनि० टाप्। ६ त०। ५ यागाङ्गमात्रे न०।
यज्ञान्त = पु० ६ त०। १ अवभृथे यज्ञसमाप्तौ स्नानादिक्रियाभेदे २ यज्ञशेषे च हेम०।
यज्ञायज्ञीय = न० यज्ञायज्ञा इत्यनेन शब्देन युक्तायामृचि गेयम् छ। १ अग्निष्टोमे गेये सामभेदे ताण्ड्य० ब्रा० ४। ३। २० ज्योतिष्टोमे गेये २ सामभेदे च सा० स० भा० उपेद्घाते।
यज्ञिक = पु० यज्ञः यज्ञाङ्गं साध्यत्वेनास्त्यस्य ठन्। पलाशे जटा०। तत्समिदादिभिर्हि यज्ञोनिष्पाद्यते।
यज्ञिय = त्रि० यज्ञाय हितः घ। १ यज्ञकर्मयोग्ये अमरः। २ द्वापरयुगे पु० त्रिका०।
यज्ञियदेश = पु० कर्भ०। यज्ञकर्मयोग्यदेशे “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स ज्ञेयो यज्ञियोदेशः” मनूक्ते देशे।
यज्ञीय = पु० यज्ञाय हितः तस्येद वा छ। १ यज्ञोडुम्बरे राजनि०। २ यागसम्बन्धिनि त्रि०।
यज्ञीयब्रह्मपादप = पु० कमे०। विकङ्कतवृक्षे (वैचि) राजनि०। “वैकङ्कतीं स्रुवमादत्ते” इति श्रुतौ तदीयस्रुवविधानात् तस्य तथात्वम्।
यज्ञेश्वर = पु० यज्ञस्य प्रवर्त्तयिता ईश्वरः। विष्णौ।
यज्ञेष्ट = न० ७ त०। १ दीर्घरोहिततृणे राजनि०। ६ ब०। २ इष्टयज्ञके त्रि०
यज्ञोडुम्बर = पु० यज्ञार्थ उडुम्बरः। स्वनामख्याते वृक्षे शब्दर०
यज्ञोपवीत = न० यज्ञेन संस्कृतमुपवीतम्। यज्ञसूत्रे उपनयनसंस्कारेण पवित्रीकृते त्रिवृति उर्द्धवृते बःमस्कन्धात् दक्षिणकुक्षितो लम्बमानतया धृते सूत्रभेदे। यज्ञसूत्रशब्दे दृश्यम्।
यज्वन् = पु० यज–भूते क्वनिप्। बिधानेन १ कृतयागे अमरः। २ विष्णौ च यज्ञपदिशब्दे दृश्यम्।
यत = ताडने उपस्करे च चु० स० सेट्। यातयति। अयीयतत् त। निर् + परीवर्त्ते प्रतीरूपशोधने च।
यत = यत्ने भ्वा० आत्म० अक० सेट्। यतते अयतिष्ट ईदित् निष्ठायामनिट् यत्तः।
यतम = त्रि० एषां मध्ये यः यद् + डतमच्। एषां मध्ये यैत्यर्थे।
यतर = त्रि०। अनयोर्मध्येयः यद् + डतरच्। अनयोर्मध्ये यैत्यर्थे।
यतस् = अव्य० यद् + तसिल्। “यस्मादित्यर्थे १
यति = पु० यतते मोक्षाय यत–इन्। १ परिव्र जके संन्यासिनि अमरः। यम्यते जिह्वा यत्र यम–क्तिन्। २ छन्दोग्रन्थविख्याते जिह्वाया २ विश्रामस्थाने उच्चारणकालविच्छेदे स्त्री। सा च “क्वचित् छन्दस्यास्ते यतिरभिहिता पूर्वकृतिमिः पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च” इत्याद्युक्त्यासुप्तिङन्तपदान्ते एव छन्दोग्रन्थानुसारेण जिह्वाया- विश्रामरूपाच्चारणाभावरूपा। ३ विधवायां ४ रागे ५ सन्धौ च शब्दच० ६ पाठविच्छेदे मेदि०। ७ निकारे ८ विष्णौ हेमच०। ९ वाद्याङ्गप्रबन्धभेदे सङ्गीतदा०। यद् + परिमाणे–डति। १० यत्परिमाणे त्रि० ब० व०।
यतिचान्द्रायण = न० यतिनेव कर्त्तव्यं चान्द्रायणं व्रतभेदः। “अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने गते। नियतात्मा हविव्याशी यतिचान्द्रायणं चरन्” मनूक्ते व्रतभेदे।
यतिन् = पु० यम–भावे क्त यतं यमनं यतमनेन इनि। १ संन्यासिनि परिव्राजके अमरः। २ विधवायां स्त्री ङीप् शब्दरत्ना०।
यतु(तू)का = स्त्री यत–उक ऊक वा। जिनपत्रिकावृक्षे शब्दर०।
यत्न = पु० यत–भावे नङ्। १ आयासे २ उद्योगे वैशेषिकोक्ते प्रवृत्तिनिवृत्तिजीवनयोनिरूपत्रैविध्यापन्ने ३ गुणभेदे च। स च आत्मगुणः इति नैयाविकादयः चित्तगुण इति सांख्यवैदान्तिकाः।
यत्र = अव्य० यद् + त्रल। यस्मिन्नित्यर्थे।
यत्र = सङ्कोचने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् इदित्। यन्त्रयति ते यन्त्रति अययन्त्रत् त अयन्त्रीत्।
यथा = अव्य० यद् + प्रकारे थाल्। १ येन प्रकारेणेत्यर्थे २ सादृश्ये ३ योग्यतायाम् ४ आनुरूप्ये ५ पदार्थानतिवृत्तौ च सि० कौ०।
यथाकाम = अव्य० काममनतिक्रम्य अव्ययी०। १ स्वाच्छन्द्ये २ यथेष्टतायाञ्च।
यथाकामिन् = त्रि० यथाकामं स्वाच्छन्द्यमस्त्यस्य इनि। स्वेच्छाचारिणि जने स्त्रियां ङीप्।
यथाक्रम = अव्य० क्रमस्य आनुरूप्यं तस्वानतिक्रमो वा अव्ययी०। १ क्रमानुरूप्ये २ क्रमानतिक्रमे च।
यथाजात = त्रि० जातं समयविशेषमनतिक्रम्य यथाजातं तदस्वास्ति अच्। १ मूर्णे अमरः। २ नीचे जटा०।
यथातथ = अप्य० तथानतिक्रम्य अनतिवृत्तौ अव्ययी०। याथार्थ्ये यस्थ वस्तुनो यद्रूपं भवितुमुचितं तथारूपभावे हारा० यथायथमव्यत्रार्थे।
यथार्थ = अव्य० अर्थमनतिक्रम्य अव्ययी०। १ सत्यतायाम् अर्थस्याव्यभिचारे सत्यस्वरूपे। अर्श आद्यच्। २ सत्ये त्रि०।
यथार्ह = अव्य० अर्हं योग्यतामनतिक्रम्य अव्ययी०। १ यथायोग्यत्वे ततः अर्श आद्यच्। २ सत्यभूते पदार्थे त्रि०।
यथार्हवर्ण = पु० यथार्हं यवायोग्यं वर्णयति वर्ण–अण्। चरे अमरः।
यथाशक्ति = अव्य० शक्तेरानुरूप्यम् अव्ययी०। १ शक्तेरानुरूप्ये २ शक्त्यनुसारे।
यथाशास्त्र = अव्य० शास्त्रस्यानुरूप्यम् अनतिक्रमो वा अव्ययी०। १ शास्त्रानुसारे २ शास्त्रानतिक्रमे च।
यथास्थित = अव्य० यथा येन रूपेण स्थातुं योग्यं तथास्थितम् योग्यतायाम् अव्ययी०। १ सत्यतायाम् हेमच० अर्श आद्यच्। २ सत्ये त्रि०।
यथास्व = अव्य० स्वस्यानतिक्रमः अव्ययी०। १ याथार्थ्ये। अर्श आद्यच्। २ यथार्थे त्रि० अमरः।
यथेप्सित = अव्य० ईप्सितस्यानतिक्रमः अव्ययी०। १ खाच्छन्द्ये अमरः। अर्श आद्यच्। २ यथाभीष्टे त्रि० यथेष्टमप्यत्र।
यथोचित = अव्य० उचितस्यानतिक्रमः अव्ययी०। १ औचित्ये अमरः। अर्श आद्यच्। २ उचिते त्रि०।
यद् = त्रि० यज्–अदि डिच्च। (ये) १ इत्येवं बुद्धिविशेषविषये। अस्य उक्तार्थे सर्वनामता। अयञ्च शब्दः तच्छब्दार्थनित्यापेक्षी उत्तरवाक्यस्थस्तु न तदपेक्षी इति काव्यप्र०। यत्तच्छब्दयोरन्वये च न समानविभक्तेस्तन्त्रतेत्याकरे स्थितम्। २ यस्मादित्यर्थे अव्य०। ३ गर्हायाम् ४ अवधृतौ च मेदि०।
यदा = अव्य० यद् + काले दाच्। यस्मिन् काले इत्यर्थे।
यदि = अव्य० यद् + णिच्–इन् णिलोपः। १ पक्षान्तरे अमरः। २ सम्भावनायाम् ३ गर्हायां ४ विकल्पे च मेदि०।
यदु = पु० ययातिनृपतेः १ ज्येष्ठपुत्रे यस्य वंशे श्रीकृष्णवतारः। तस्य गोत्रापत्यमण् बहुषु तस्य लुक्। २ यदुवंश्ये ३ दर्शार्हदेशे च व० व० हेमच०।
यदुनाथ = पु० यदूनां नाथो रक्षकत्वात्। श्रीकृष्णे हेमच०। यदुपत्यादयोऽप्यत्र।
यदृच्छा = स्त्री यद् + ऋच्छ–अ–टाप्। १ स्वातन्त्र्ये, २ स्वैरतायाम् अमरः। “यदृच्छालाभसन्तुष्टः” इति गीता।
यदृच्छाशब्द = पु० जात्याद्यवाचके डित्थादिसंज्ञाशब्दे “असम्मादयतः कञ्चिदर्थं जातिक्रियागुणैः। यदृच्छाशब्दवत् पुंसःसज्ञायै जन्म केवलम्” मावः।
यद्युवा = अव्य० यदि च उ च वा च द्व०। यद्यर्थे पक्षान्तरद्योतने “यद्युबाल्पतरसम्भारस्तर्हि पशुनैव” इति “यद्युवाउभयं चिकीर्षेदिति” च गोभिलः।
यद्वा = अव्य० यच्च वा च द्व०। १ पक्षान्तरे “यद्वान्थ्युदययोग्यता” भर्तृहरिः २ बुद्धौ संक्षिप्तसा०।
यन्तृ = पु० यम–तृच्। १ सारथौ २ हस्तिपके च अमरः। ३ सयमयुक्ते त्रि० हेमच०
यन्त्र = न० यत्रि–अच्। १ संयमने तन्त्रोक्ते देवाद्यधिष्ठाने २ चक्रभेदे ३ औषधपाकार्थपात्रभेदे, ज्योतिश्चक्राद्यवेक्षणसाधने ४ पदार्थभेदे, ५ सूत्रथारादेर्दारुवेधकादौ (तुरविन्) (भमर) पदार्थे। ६ अग्न्यादेः क्षपणसाधने पदार्थे अग्नियन्त्रम् (कामान धनुक)। औषधपाकपात्रं च नानाविर्ध भावप्र० दर्शितं यथा
वालुकायन्त्रम् “भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके। कूपिकाकण्टपर्य्यन्तं वालुकाभिश्च पूरिते। भेषजं कूपिकासंस्थं वह्निना यत्र पच्यते। वालुकायन्त्रमेतद्वि यन्त्रतन्त्रवुधैः स्मृतम्”।
दोलायन्त्रम् “निघद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणान्तरे। रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि। सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम्। अधस्ताज्ज्वालयेदग्निं तत्तदुक्तक्रमेण हि। दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि”। सन्धानं काञ्जिकादि।
विद्याधरयन्त्रम् “साम्बुस्थालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च। पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं परम्। अधःस्थाल्यां रसं क्षिप्त्वा संनिदध्यान्मुखोपरि। स्थालीमूर्द्धमुखीं सम्यक् निरुध्य मृदुमृत्सया। ऊर्द्धस्थाल्यां जलं क्षित्वा चुल्ल्यामारोप्य यत्नतः। अधस्तात् ज्वालयेदग्निं यावत् प्रहरपञ्चकम्। स्वाङ्गशीतं ततो यन्त्रात् गृह्णीयाद्रसमुत्तमम्। विद्याधराभिधं यन्त्रमेतत्तज्ज्ञैरुदाहृतम्”।
भूधरयन्त्रम् “वालुकासु समस्ताङ्गं गर्त्ते मूषाः रसान्विताः। दीप्तोपलैः संवृणुयाद्यन्त्रं भूधरनामकम्”।
डमरुयन्त्रम “यन्त्रं डमरुसंज्ञं स्यात्तत्स्थाल्योर्मुद्रिते मुखे” कालज्ञानार्थे सू० सि० उक्ते ६ पदार्थभेदे यथोक्तं “कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्। एकाकी योजयेद्बीजं यन्त्रे विस्मयकारिणि। शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा। गुरूपदेशाद्विज्ञेयं कालज्ञानमतन्द्रितैः” मू०। “शङ्कुयष्टिधनुश्चक्रैः प्रसिद्धैश्छायायन्त्रैश्छायासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरूपदेशात् स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमैः पुरुषैः कालज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वेनावगम्यम्। एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्थैः स्पष्टीकृतम्
शङ्कुयन्त्रत् “समतलमस्तकपरिधिर्भ्रमसिद्ध्यै दन्तिदन्तजः शङ्कुः। तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्”।
यष्टियन्त्रम् “त्रिज्याविष्कम्भार्धं वृत्तं कृत्वा दिगङ्कितं तत्र। दत्त्वाऽग्रां प्राक्पश्चात् द्विज्यावृत्तं च तन्मध्ये। तत्परिधौ षष्ट्यङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे। त्रिज्याङ्गुला निधेया यष्ट्याग्राग्रान्तरं यावत्। यावत्या मौर्व्या यद्द्वितीयवृत्ते धनुर्भवेत् तत्र। दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम्”।
चक्रयन्त्रम् “चक्रं चक्रांशाङ्कं परिधौ श्लथशृङ्खलादिकाधारम्। धात्री आधारात् कल्प्या भार्धेऽत्र खार्धं च। तन्मध्ये सूक्ष्माक्षं क्षित्वार्काभिमुखनेमिकं धार्यम्। भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः। तत्खार्धान्तश्च नता उन्नतलवसङ्गुणं द्युदलम्। द्युदलौन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः”।
धनुर्यन्त्रम् “दलीकृतं चक्रमुशन्ति चापम्” इति। अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणितादिविचारश्चोपेक्षित इति मन्तव्यम्। अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साथयेदिति कालसाधनमुपसंहरति” रङ्ग०। “तोययन्त्रकपालाद्यैर्मयूरनरवानरैः। ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” मू०। “तोययन्त्रं च तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यसाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्वालुकायन्त्रप्रभृतिभिः सापेक्षवटीयन्त्रैर्मयूरनरवानरै। मय्राख्यं खयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छायायन्त्रं पूर्वोद्दिष्टं वानरयन्त्रं स्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्भैः सूत्रसहिता रेखवो घूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसङ्ख्याका मृद्घटिका मयूरोदरस्था मुखाद् घटिकान्तरेण स्वत एव निःसरन्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः। यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे उदरे यस्यैतादृशं यन्त्रं वालुका यन्त्रं प्रसिद्धम्। तेन सहितैर्मयूरादियन्त्रैर्मथूराद्युक्तयन्त्रैर्वालुकायन्त्रेण चेति सिद्धोऽर्थः। चकारस्तोययन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः। कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेनेत्यर्थः। जानीयादित्यर्थः। ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारा बहवो दुर्नमाश्च सन्तीत्याह रङ्ग०। “शारदाराम्बुसूत्राणि शुल्वतैलक्षनि च। बीजानि पांसवस्तेषु प्रयोगास्तेऽपि दुर्लभाः” भू०। “तेषु मयूरादियन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः। प्रकर्षस्तु यावदभिमतसिद्धेः। ते के इत्यत आह। पारदाराम्बुसूत्राणीति। पारदयुक्ता आराः। तथाच सिद्धान्तशिरोमणौ “लघुकाष्ठजसमचक्रे समसुषिराराः समान्तरा नेम्याम्। किञ्चिद्वक्रा योज्याः सुषिरस्यार्धे पृथक् तासाम्। रसपूर्णे तच्चक्रं ह्माधाराक्षस्थितं स्वयं भ्रमति”। अम्बु जलस्य प्रथोगः। सूत्राणि सूत्रचासाधनप्रयोगः। शुल्बं शिल्पनैपुण्यम्। तैलजलानि तैलयुक्तजलस्य प्रयोगः। चकारात् तयोः पृथक् प्रयोगोऽपि। तथाच सिद्धान्तशिरोमणौ “उत्कीर्यनेमिमथ वा परितो यदनेन संलग्नम्। तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत् तावत्। यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति। पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जलाकृष्टम्। ताम्रादिमलस्याङ्कुशरूपनलस्याम्बुपूर्णस्य। एकं कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः। युगपग्मुक्तं चेत् कं नलेन कुण्डाद्वहिः पतति। नेम्यां बद्ध्वा षटिकाश्चक्रं जलयन्त्रवत् तथा धार्यम्। नलकप्रच्युतसलिलं पतितं यथा तद्वटीमध्ये भ्रमति। ततस्तत् सततं पूर्णघटीभिः समाकृष्टम्। चक्रच्युतं स्वयमुदकं कुण्डे याति प्रणालिलया”। इति। बीजानि केवलं तुङ्गबीज प्रयोगः। पांसवो धूलिप्रयोगास्तैर्युक्ताः प्रयोगाः। अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। दुर्लभाः असाधारणत्वेन मनुष्यैः कर्तुमशक्या इत्यर्थः। अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्यापत्तेः। इयं स्वयंवहविद्या समुद्रान्तर्निवासिजनैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति। कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः” रङ्ग०।
अथ कपालाख्यं जलयन्त्रम् “ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि। षष्टिर्मज्जत्यहोरात्रे स्फुटं यन्त्रं कपालकम्” मू० “यत् ताम्रघटितं पात्रमधश्छिद्रमधोभागे छिद्रं यस्य तत्। अमलाम्भसि निर्मलं जलं विद्यते यस्मिन् तादृशे कुण्डे वृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे नाक्षत्राहोरात्रे षष्टिः षष्टिवारमेव न न्यूनाधिकं मज्जति। अधश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्नं भवति। तत् कपालकं घटखण्डानां कपालपडवाच्यत्वात् घटाधस्तनार्धाकारं यन्त्रं षटीयन्त्रं स्फुटं सूक्ष्मम् तद्घटनं तु “शुल्बस्य दिग्भिर्विहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम्। तदम्भसा षष्टिपलैः प्रपूर्यं पात्रं घटार्धप्रतिमं घटी स्यात्। सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला स्यात्। विद्धं तया प्राक्तनमत्र पात्रं प्रपूर्यते नाडिकथाम्बुभिस्तत्” मू०। इति व्यक्तम्। भगवता तु सूक्ष्ममुक्तम्। अथ शङ्कुयन्त्रं दिवैव कालज्ञानार्थं नान्य देत्याह रङ्ग०। “नरयन्त्रं तथा साधु दिवा च विमले रकौ। छावासंसाधनैः प्रोक्तं काससावनसुत्तमम्” मू०। देवताभेदे पूजाधारयन्त्राणि धारणयन्त्राणि च तन्त्रसारोक्तानि दृश्यानि। तल्लेखनद्रव्याणि तत्रोक्तानि यथा “काश्मीररोचनालाक्षामृगेभमदचन्दनैः। बिलिखेद्धेमलेखन्या यन्त्राण्येतानि देशिकः। सौवर्णे राजते पत्रे भूर्जे वा सम्यगालिखेत्। अथ वा ताम्रपत्रे वा गुटिकीकृत्य धारथेत्। यावज्जीवं सुवर्णे स्यात् रौप्ये विंशतिवार्षिकम्। भूर्जे द्वादशवर्षाणि तदर्द्धं ताम्रपट्टके”। द्रव्यभेदस्पर्शे तत्र तस्याधार्य्यतोक्ता यथा “भूमिस्पृष्टं शवस्पृष्टं यन्त्रं निर्माल्यसङ्गतम्। विदीर्णं लङ्घितं मन्त्री यन्त्रं नैव च धारयेत्”।
यन्त्रक = न० यन्त्रमिव इवार्थे कन् (कुंद) दारुभ्रामकयन्त्रभेदे
यन्त्रगृह = न० ६ त०। तैलिकयन्त्रालये (चानिघर) हेमच०।
यन्त्रगोल = पु० यन्त्रमिव ज्योतिश्चक्राकृतिनोलयन्त्रमिव नोलःवर्त्तुलः। कलायभेदे (मटर) शब्दच०।
यन्त्रण = न० यत्रि–ल्युट्। १ नियमने २ रक्षणे ३ बन्धने च मेदि० युच्। ४ पीडायाम् स्त्री टाप्।
यन्त्रपेषणी = स्त्री यन्त्रेणेव पिष्यतेऽनया पिष–करणे ल्युट् ङीप्। (या~ता) पेषणयन्त्रे जटा०।
यभ = मैथुने भ्वा० पर० सक० अनिट्। यमति अया(य)सीत्।
यम = उपरतौ भ्वा० पर० सक० अनिट् यच्छति अयंसीत् उदित् क्त्वा वेट्। यमित्वा यत्वा यत्तः। आ + दीर्घीकरणे आत्म०। उप + विवाहे आत्म०।
यम = परिवेषणे चु० उ० सक० सेट् वा घटा०। यमयति यामवति अयीयमत् त अययामत् त।
यम = पु यम–घञ्। “अहिंसा सत्यवचनं ब्रह्मचर्य्यमकल्कता। अस्तेयमिति पञ्चैते यमाख्यानि व्रतानि च” इत्युक्ते १ अहिंसादौ तच्च देहमात्रसाध्यम् आवश्यकमवश्यकार्य्यं नित्यं कार्य्यमिति अमरः इन्द्रियादीनां २ संयमने च। यमयति अच्। प्राणिनां शुभाशुभकर्मानुसारेण दण्डविधायक ईश्वरनियुक्ते दक्षिणस्थे ३ देवभेदे पु० अमरः। तत्स्वामिकत्वात् ४ काके च। भ्रातृत्वेन यमसम्बन्धिनि ५ शनौ ६ एकगर्भजायमाने यमजे त्रि० मेदि०। ७ द्वित्वसंख्यायां ८ यमदेवताके भरणोनक्षत्रे ज्यो०। दिक्पालयमभेदाः चतुर्दश भविष्यपु० उक्ता यथा “यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवखताय कालाय सर्वभूतक्षयाय च। औडम्बराय दघ्नाय नीलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नमः”। थोगाङ्गयमाक्ष पात० सू० भा० उक्ता यथा “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि” मू०। “यथाक्रमं एतेषाम् अनुष्ठानं स्वरूपञ्च वक्ष्यामः भा०। तत्र “अहिंसासत्यास्तेयब्रह्मचर्य्यापरिग्रहायमाः” मू०। “तत्राहिंसा सर्वथो सर्वदा सर्वभूतानामनतिद्रोहः। उत्तरे च यमनियमास्तन्मूलास्तत्सिद्धिपरतया तत्प्रतिपदानाय प्रतिपाद्यन्ते तदवदातकरणायैवोपादीयन्ते। तथाचोक्तं “स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्त्तमानस्तामेवावदातरूपामहिंसां करोति”। सत्यं यथार्थे वाङ्मनुसे यथादृष्टं यथानुमितं यथाश्रुतं तथा वाङ्मनश्चेति स्वबोधसंक्रान्तये वागुक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेत् इत्येषा सर्वभूतोप कारार्थं प्रवृत्ता न भूतोपघाताय यदि चैवमप्यमिधीय माना मूतोपघातपरैव स्यान्न सत्यं भवेत् पापमेव भवेत् तेन पुण्याभासेन पुण्यप्रतिरूपकेन कष्टं तमः प्राप्नुयात् तस्मात् परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्। स्तेयमशास्त्र पूर्वकं द्रव्याणां परतः स्वीकरणं तत्प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्य्यं गुप्तेन्द्रियस्योपस्थस्य संयमः। विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शना दस्वीकरणमपरिग्रह इत्येते यमाः” भा०। गारुडे तु तस्य दशविधत्वमुक्तं यथा “ब्रह्मचर्य्ये दयाक्षान्तिर्ध्यानं सत्यमकल्कता। अहिंसाऽस्तेय माधुर्य्यं दमश्चैते यमाः स्मृताः” १०५ अ०।
यमक = न० शब्दालङ्कारभेदे अलङ्कारशब्दे ३८९ पृ० दृश्यम्।
यमकोटि = पुंस्त्री० भूगोलस्य चतुर्थपादान्तरिते लङ्कातः पूर्वस्यां स्थितायां देवनिर्मितायां पुर्य्याम् “लङ्का कुमध्ये यमकोटिरस्याः प्रागिंति सिद्धान्तशिरोमणिः।
यमघण्ठ = पु० योगविशेषे। “द्वे मथापूर्वफल्गुन्यौ पुण्यश्लेषार्कचन्द्रयोः। ज्येष्ठानुराधा भरणी चाश्विनी कुजवासरे। हस्तार्द्रा चन्दजे मूला पूर्वाषाढा च रेवती। जीवे ह्युत्तरभाद्रश्च शुक्राहे स्वातिरोहिणी। शनिवारे शतभिषा श्रवणा यमघण्ठकः” सारसंग्रहः।
यमदग्नि = पु० जमदग्नौ मुनिभेदे।
यमज = त्रि० द्वि० व०। यमौ एकदा एकत्र गर्भे सहचरौ सन्तौ जागेते जन–ड। एकदा एकगर्भजातयोः मेदि०।
यमदशन = पु० ब० व०। यमस्य दशना इव चर्वणसाधनत्वेन हिंसकत्वात्। “कार्त्तिकस्य दिनान्यष्टौ चाष्टाग्रहापणस्य च। यमस्य दशना एत लध्वाहारी स जीवति” वैद्यकोक्ते सौरदिनषोडशके। यमदन्तशब्दोऽप्युक्ते अर्थे।
यमदूतिका = स्त्री यमस्य दूतीव इवार्थे कन्। १ तिन्तिडीवृक्षे अमरः। यमस्य दूत इव कायति कै–क। यमदूतक २ काके पुंस्त्री० शब्दरत्ना० स्त्रियां ङीष्।
यमद्रुम = पु० यमस्य द्रुमः इव। यमद्वारस्थद्रुमतुल्ये शाल्मलिवृक्षे तत्तुल्यलौहमयकीलाकीर्णवृक्षेण हि नारकिपीडनात्तस्य यमद्रुमत्वम्।
यमद्वितीया = स्त्री ६ त०। कार्त्तिकशुक्लद्वितीयायाम् “तथा यमद्वितीयायां यात्रायां मरणम्” ति० त०।
यमधार = पु० यमसंख्याका धाराऽस्य। उभयपार्श्वे धारायुक्ते अस्त्रे (किरीच)।
यमन = न० यम–ल्युट्। १ बन्धने २ उपरमे च मे द०। यमयति ल्य। ३ यमे पु० मेदि०
यमप्रिय = पु० ६ त०। वटवृक्षे शब्दर०।
यमराज = पु० यमानां चतुर्दशानां राजा यमनियामको राजा वा टच्समा०। प्रेतानां राजनि धर्मराजे हमच०। यमेषु राजते राच–क्विप्। यमराडप्यत्र अमरः।
यमल = न० यमं योगं लाति ला–क। १ युग्मे अमरः वृन्दावनस्थे २ वृक्षभेदे च। “तञ्च कृष्णःपदा बभञ्च” हरिवं०।
यमलपत्त्र = पु० यमलानि युग्मानि पत्त्राणि यस्य। १ अश्मन्तकवृक्षे २ कोविदारवृक्षे राजनि०।
यमवाहन = पु० यमं वाहयति स्यानात् स्वानान्तरं नयति वह–स्वार्थे णिच्–ल्यु। महिषे हेमच०।
यमानी = स्त्री यच्छति षन्धिमान्द्यमनया यम–करणे ल्युट् पृषो० आत्त्वम्। १ अजमोदायाम् शब्दमा० स्वार्थे क। यमानिका तत्रैव स्त्री।
यमुना = स्त्री यम–उनन्। १ कालिन्द्यां नद्यां २ यमभगिन्याम् सूर्य्यसुतायाम् अमरः। ३ दुगायाञ्च देवीपु०।
यमुनाभ्रातृ = पु० ६ त०। यमे अमरः।
ययाति = पु० यस्य वायोरिव यातिः सर्वत्र रथनतिरस्य। नहुषात्मजे राजभेदे।
ययु = पु० या–कु द्वित्वञ्च। १ अश्वमेधीयेऽश्वे ३ अश्वमात्रे च मेदि०।
यव = पु० यु–अच्। १ स्वनामख्याते शूकधान्यभेदे अमरः। “वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्। मदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः” इति मीमांसा। अङ्गुलिस्थे यवाकारे २ रेखाभेदे सामुद्रकम् तत् फलमुक्तं तत्रैव “तर्जनीमूलसंपृक्तौ यवौ पुत्रार्थदा क्रमात्। मध्वमायां यवश्चैवाङ्गुष्ठेऽपूर्वधनप्रदः। मध्यमायां यदि यवो दृश्यते च सुशोभनः। तदान्यसञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके यवे। यस्यापि चक्रमङ्गष्ठे यवपूर्णञ्च दृश्यते। तदा पितामहादीनामर्जितं लमते धनम्” इति सामुद्रकम्। ३ षट्सर्षपात्मके परिमाणभेदे शब्दच०।
यवक्य = न० यवानां भवनं क्षेत्रं यत् कुक् च। यवभवने क्षेत्रे अमरः।
यवक्षार = पु० यवजातः क्षारः। यवजातक्षारे लवणभेदे शब्दर०
यवज = पु० यवात् जायते जन–ड। ३ यवक्षारे रत्नमा० २ यवान्याञ्च राजनि०।
यवतिक्ता = स्त्री यवाकारं तिक्तं फलं यस्याः। शङ्खिन्यां राजनि०।
यवन = पु० यु–यु। १ देशभेदे सोऽभिजनोऽस्य तस्य राजा वा अण् बहुषु तस्य लुक्। २ तद्देशस्थेषु जनेषु ३ तन्नृपेषु ब० व०। ४ वेगे ५ अधिवेगयुताश्वे मेदि० ६ गोधूमे ७ गर्जरतृणे ८ तुरष्कजातौ राजनि० ययातिशप्तम्य तत्पुत्रस्य तुर्वसोर्षश्ये जातिभेदे च पुंस्त्री० स्त्रियां ङीष्। १० वेगवति त्रि०।
यवनद्विष्ट = पु० यवनैर्द्विष्टः द्विष–क्त। गुग्गुलौ राजनि०
यवनप्रिय = न० ६ त०। मरिचे हेमच०।
यवनाचार्य्य = पु० ताजकादिज्योतिःशास्त्रकारके पण्डितभेदे
यवनानी = स्त्री यवनानां लिविः ङीप् आनुक् च। यवनानां लिप्याम् सि० का०।
यवनारि = स्त्री यवनस्यारिः। श्रीकृष्णे त्रिका०।
यवनाल = पु० यवस्येव नाला (नाडा) यस्य। (देधान) धान्यभेदे हेमच०।
यवनालज = पु० यवस्य नालात् काण्डात् जायते जन–ड। यवक्षारे हेमच०।
यवनिका = स्त्री यवन्त्यस्यां यु–ल्युट् ङीप् स्वार्थे क अत इत्त्वम् (कानात्) जवनिकायाम् अमरः।
यवनी = स्त्री यु–ल्युट् ङीप्। १ यवानीनामकोषधौ मेदि०। ङीष्। २ यवनभार्य्यायाञ्च। “यवनीमुखपद्मानाम्” रघुः।
यवनेष्ट = न० ६ त०। १ सीसके हेमच०। २ मरिचे ३ गृञ्जने ४ लशुन ५ राजपलाण्डौ ६ निज्ये च पु०। खर्जूर्य्यां स्त्री राजनि० टाप्।
यवफल = पु० यव इव फलमस्य। १ वंशे अमरः २ कुटजे यस्य फलमिन्द्रयवः। ३ जटामांस्याञ्च मेदि० ४ प्लक्षवृक्षे शब्दर०।
यवमध्य = न० यव इव षध्यं यस्य। चान्द्रायणभेदे प्रथमदिनादापञ्चदशदिनमेकैकग्रासवृद्ध्या, तदुत्तरं च आपञ्चदशदित क्रमेणेकैकग्रासहान्या माससाध्ये व्रते तस्य मध्यदिवसानां हि बहुलग्रासबत्त्वेन यवमध्यतुल्यत्वम
यवलास = पु० यवेन लस्यते सज्ञायां कर्त्तरि घञ्। यवक्षारे शब्दच०।
यवशूक = पु० यवानां शूकः कारणत्वेनास्त्यस्यः श्वच्। यव क्षारे त्रिका० यवशूकजादयोऽप्यत्र राजनि०।
यवस = न० यु–असच्। १ घासे २ तृणे च अमरः।
यवागू = स्त्री यूयते मिश्र्यते यु–आगू। षड्गुणजलपक्वे द्रवभेदे (याउ) अमरः। “मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि” वैद्यकषरिभाषा।
यवाग्रज = पु० यवस्याग्रात् शूकात् जायते जन–ड। १ यवक्षारे अमरः। २ यवान्याञ्च राजनि०।
यवानी = स्त्री दुष्टो यवः ङीप् आनुक् च। (जोयानि) पदार्थे राजनि०। “यवानी पाचनी रुच्या तीक्ष्णोग्रा कटुका लघुः। दीपनी च तथा तिक्ता पित्तला शुक्रशूलहृत्। वातश्लेष्मोदरानाहगुल्मप्लीहक्रमिप्रणुत्” भावप्र०।
यवापत्य = न० यवस्यापत्यमिव तज्जातत्वात्। यवक्षारे राजनि०
यवाम्लज = न० यवजातादम्लाज्जायते जन–ड। सौवीरके काञ्जिकभेदे राजनि०।
यवास = पु० यु–आस। १ दुरालभायाम् अमरः। २ खदिरभेदे च शब्दमा० ३ मुण्डासिनी तृखे स्त्री राजनि० टाप्। स्वार्थे क। यवासक तत्रैव।
यविष्ठ = त्रि० अतिशयेन युवा युवन्–इष्ठन् यवादेशः। अतितरुणे।
यवीयस् = त्रि० अतिशयेन युवा युवन् + ईयसुन् यवादेशः। १ अतितरुणे २ कनिष्ठे च “अंशमंशं यवीयांसः” स्मृतिः। स्त्रियां ङीप्।
यवोत्थ = न० यवादुत्तिष्ठति उद् + स्था–क। सौवीरके राजनि०।
यव्य = न० यवानां भवनं क्षेत्रं यत्। यवभवनयोग्ये क्षेत्रे अमरः। युतश्चन्द्रार्कावत्र यत्। २ चान्द्रे मासे पु०। “यव्यद्वय श्रावणादि सर्वा नद्यो रजस्वलाः” प्रा० त०।
यशःपटह = पु० यशःख्यापकः पटहः शा० त०। ढक्कायाम् वाद्यभेदे अमरः।
यशःशेष = त्रि० यश एव शेषोऽस्व। मृते हेमच०। कीर्त्तिशेषादयोऽप्यत्र।
यशद = न० येन वायुना शीयते शद–अच्। (दस्ता) ख्याते धातुभेदे “यशदं रङ्गसदृशं रीतिहेतुश्च तन्मतम्। यशदं तुवरं तिक्तं शीतलं कफपित्तहृत्। चक्षुष्यं परमं मेहान् पाण्डुं श्वासञ्च नाशयेत्” भावप्र०।
यशस् = न० अश–असुन् धातोः युट् च। शौर्य्यादिभूते ख्यात्यपरपर्य्याये पदार्थे अमरः।
यशस्या = स्त्री यशसे हिता यशस् + यत्। १ जीवन्त्याम् २ ऋद्धिनामोषधौ च राजनि०। ३ यशःसाधने त्रि०। “धन्यं यशस्यमायुष्यम्”।
यशस्वत् = त्रि० यशस् + अस्त्यर्थे मतुप् मस्य वः। यशोविशिष्टे
यशस्विन् = त्रि० यशस् + अस्त्यर्थे विनि। १ यशोयुते स्त्रियां ङीप्। सा च २ ज्योतिष्मतीलतायां ३ यवतिक्तायां राजनि० ४ वनकार्पास्याञ्च शब्दर०।
यशोद = पु० यशो ददाति दा–क। १ पारदे राजनि० २ यशोदातरि त्रि०। ३ नन्दगोपपत्न्यां स्त्री। “नन्दगोपगृहे जाता यशोदागर्भसम्भवा” देवीमा०।
यष्टृ = पु० यज–तृच्। यागशीले।
यष्टि = पु० यज–क्तिन् नि० न सम्प्रसारणम्। १ ध्वजादिदण्डे २ भुजाद्यवलम्बने दण्डे च मेदि० क्तिच्। ३ तन्तौ शब्दर्मा०। ४ हारलतायां ५ भार्ग्यां ६ मधूकायां (यष्टिमधु) स्त्री वा ङीप्। ७ शस्त्रभेदे च मेदि०।
यष्टिमधु = न० यष्टौ मधु यस्य। स्वनामख्याते लताभेदे हला०। कप् तत्रार्थे स्त्री अमरः।
यष्टीक = न० यष्ट्या कायति कै–क। यष्टीमधौ लताभेदे भावप्र०
यष्टीपुष्प = पु० यष्टीव पुष्पमस्य। पुत्रजीववृक्षे भावप्र०।
यष्टीमधु = पु० यष्ट्यां मधु अस्य। (यष्टिमधु) स्वनामख्याते लताभेदे राजनि०।
यस = यत्ने दिवा० पक्षे भ्वा० वा श्यन् पर० अक० सेट्। यस्यति यसति संयस्यति संयसति अनुयस्यति। इरित् अयसत् अयासीत् अयसीत्। अय पुषादिरित्यन्ये उदित् क्त्वा वेट्। यसित्वा यस्त्वा यस्तः।
यस्क = पु० यस–क नेत्त्वम्। मुनिभेदे तस्य गोत्रापत्यं शिवा० अण्। यास्क तदपत्ये पुंस्त्री० निरुक्तकारके मुनिभेदे पु०। बहुषु अणो लुक्। यस्काः।
या = गतौ अदा० पर० सक० अनिट्। याति अयासीत् ययौ
याग = पु० यज–घञ्। मन्त्रकरणके वह्न्याद्यधिकरणे देवोद्देशेन हविस्त्यागरूपे यज्ञे अमरः। तद्भेदाः कात्यायनादिश्रौत्रसूत्रादौ दृश्याः।
याच = याचने भ्वा० उभ० द्विक० सेट्। याचति ते अयाचीत् अयाचिष्ट। ऋदित् चङि न ह्रस्वः। द्वित् अथु याचथुः। द्वित् याचित्रम्। गोणेऽस्य कर्मणि सकारादयः।
याचक = त्रि० थाच–ण्वुल्। याच्ञाकारके अपरः।
याचन = न० याच–ल्युट्। याच्ञायाम्। युच्। याचना तत्रार्थे स्त्री।
याचनक = त्रि० याच–ल्यु स्वार्थे क। याचके अमरः।
याचित = न० याच–भावे क्त। याचनवृत्तौ अमरः। २ याच्याञ्च। कर्मणि क्त। ३ प्रार्थिते त्रि०।
याचितक = न० याचितेनाधिगतम् कन्। याच्ञया धनस्वामिनो गृहीते (चाओया) द्रव्ये अमरः।
याच्ञा = स्त्री याच–नङ्। प्रार्थनायाम् अमरः।
याजक = पु० याजयति यज–णिच्–ण्वुल्। धनादिलाभाय परार्थं यज्ञकर्तरि ऋत्विगादौ।
याजन = न० यज–णिच्–ल्युट्। दक्षिणार्थमन्यस्य यागसम्पादने “यजनं याजनं तथा” मनुः।
याज्ञवल्क्य = पु० १ धर्मशास्त्रकर्त्तरि तत्संहिता चाचारव्यवहारप्रायश्चित्तात्मकाध्यायत्रयान्विता। २ शुल्कयजुःप्रवर्त्तके मुनिभेदे तत्कथा भाग० १२ स्क०।
याज्ञसेनी = स्त्री यज्ञसेनस्य द्रुपदराजस्यापत्यं स्त्री अत इञ् ङीप्। द्रौपद्यां पाण्डवभार्य्यायाम् हेमच०।
याज्ञिक = पु० यज्ञाय हितः यज्ञः प्रयोजनमस्य वा ठक्। १ दर्भभेदे शब्दर०। २ याजके ऋत्विगादौ ३ खदिरे ४ पलाशे ५ अश्वत्थे राजनि०। ६ यजमाने च।
याज्य = न० इज्यतेऽत्र यज–बा ण्यत्। १ यागस्थाने २ देवप्रतिमायाञ्च “याज्यं क्षेत्रमलङ्कारम्” इति स्मृतिव्याख्यायां दायभागे “याज्यं यागस्थानं देवताप्रतिमा वेत्युक्तम्। ३ याजनीये त्रि०। करणे ण्यत्। ४ ऋग्विशेषे स्त्री। तदुच्चारणविशेषः आश्व० श्रौ० १। ४५ सू० उक्तः।
यातना = स्त्री चु० यत–युच्। तीव्रवेदनायाम् अमरः।
यातयाम = त्रि० यातो गतो याम उचितसमयो यस्य। १ जीर्ण २ परिभुक्ते च अमरः। ३ पर्युषिते “यातयामं गतरसम्” इति गीता। ३ उच्छिष्टे मेदि०। ४ पुनःपुनःप्रयुज्यमाने च “संवत्सरसाध्ये गवामयने प्रत्यहं वृहद्रथन्तरसाम्नोः पुनः पुनः प्रयोगात् तस्य तथात्वम् ता० ब्रा० ४। ३। १३ भाष्ये दृश्यम्।
यातव्य = पु० यायतेऽसौ या–तव्य। नृपाणां युद्धार्थमभिगम्ये १ शत्रौ २ गन्तव्ये त्रि०।
यातायात = न० यातञ्चायातञ्च या–भावे क्त। आ + या–भावे क्त समाहार द्व०। गमनागमनयोः।
यातु = न० या–तु। १ राक्षसे अमरः। २ गन्तरि त्रि० उणा०। ३ काले पु० ४ अध्वगे त्रि० सि० कौ० ५ वायौ संक्षिप्तसा० यत–णिच्–उण्। ६ यातयितरि प्रवर्त्तयितरि च “यातुर्यथेति” ताण्ड्य० ब्रा० “यातुर्यातयिता प्रवर्त्तयितेति” भा०।
यातुघ्न = पु० यातं राक्षसं गन्धेन हन्ति हन–टक्। १ गुग्गुलौ राजनि०।
यातुधान = पुंस्त्री० यातु इति धीयतेऽमिधीयते धा–ल्युट्। राक्षसे अमरः स्त्रियां जातौ ङीष्।
यातृ = स्त्री या–तृच्। १ देवरपत्न्याम् (या) अमरः। यातरौ यातरः। तृन्। २ गन्तरि त्रि०। यातारौ यातारः।
यात्रा = स्त्री या ष्ट्रत्। १ जिगीषया राज्ञां गमने अमरः २ गमनमात्रे ३ देवोद्देशेनोत्सवभेदे रथयात्रादौ ४ यापने च मेदि०। ५ उपाये विश्वः यात्रादिनादिकं मु० चि० यात्राप्रकरणे दृश्यम्।
यात्रिक = त्रि० यात्रायै हितम्। १ उत्सवे २ उपाये ३ गमनहिते नक्षत्रादौ च।
याथातथ्य = न० तथा तद्रूपस्यौचित्यम् अव्ययी० तस्य भावः ष्यञ्। यद्वस्तु यथा भवितुं युक्तं तस्य तथाभावे।
याथार्थ्य = न० यथार्थस्य भावः। सत्यत्वे वास्तविकत्वे।
यादःपति = पु० यादसां जलजन्तूनां पतिः। १ वरुणे २ समुद्रे अमरः
यादव = पु० यदोर्गोत्रापत्यमण्। १ यदुवंश्ये स्त्रियां ङीप्। २ तत्प्रधाने श्रीकृष्णे पु० शब्दर०। यदूनामिदमण् ३ गोमहिषादिके धने न० अभ०। ४ दुर्गायां स्त्री त्रिका० ङीप्
यादस् = न० या–असुन् दुक् च। जलजन्तुमात्रे अमरः।
यादसांनाथ = पु० ६ त० अलुक्समा०। १ वरुणे हला० २ समुद्रे च अमरः। यादसांपत्यादयोऽप्यत्र।
यादृक्ष(श)(श्) = त्रि० यस्येव दर्शनमस्य यद् + दृश्–क्म (ट) क्विप् वा। यत्सदृशे यथाविधे। टान्तात्तु स्त्रियां ङीप्।
यादृच्छिक = त्रि० यदृच्छया आगतः ठक्। यथेच्छया प्राप्ते।
यान = न० या–भावे ल्युट्। १ गमने उपचितशक्तेः राज्ञः मूलराष्ट्रादिरर्क्षा कृत्वा रिपोरास्कन्दनाय २ गमने च अमरः। करणे ल्युट्। ३ गमनसाधने रथादौ अमरः।
यापन = न० या–णिच्–ल्युट्। १ कालादेः क्षेपणे हेमच०। २ निरसने च मेदि०।
याप्य = त्रि० या–णिच्–ण्यत्। १ निन्द्ये २ अधमे अमरः। ३ क्षेपणीये मेदि०। निःशेषमप्रतिकार्य्ये उपशमनीये ४ रोगभेदे च भावप्र० तत्र तल्लक्षणादिकमुक्तं यथा “यापनीयन्तु तं विद्यात् क्रियां धारयते हि यः। क्रियायान्तु निवृत्तार्या सद्यो यश्च विनश्यति। प्राप्ता क्रिया धारयति सुस्विनं याप्यमातुरम्। प्रपतिष्य दिवागारं स्तम्भो यत्नेन योजितः। साध्या याप्यत्वमायान्ति याव्याश्चासाध्यतां तथा। घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्”।
याप्ययान = पु० याप्यं क्षेप्यं कुत्सितं वा पदशून्यत्वात् इतरबाह्यत्वाद्वा यानम्। (महापाला) शिविकायाम् अमरः।
याम = पु० यम घञ्। १ समये मेदि० १ प्रहरे च अमरः। “यामो यातस्तथापि नायातः” इति सा० द०।
यामघोष = पुंस्त्री० यामे घोषोऽस्य। १ कुक्कुटे शब्दच० स्त्रियां ङीष्। २ घटिकायन्त्रभेदे स्त्री त्रिका०।
यामल = न० यमल + स्वार्थेऽण्। १ युगले हेमच०। २ तन्त्रशास्त्रभेदे च। “सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम्। क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च। युगधर्मश्च संख्यातो यामलस्याष्टलक्षणम्”। तत्तु षड्विधम् “आदियामलं १ ब्रह्मयामलं २ विष्णुयामलं ३ रुद्रयामलं ४ गणेशयामलम् ५ आदित्ययामलम् ६ च इति वाराहीतन्त्रम्। अस्य वर्म्यादित्वमपि तत्रार्थे।
यामवती = स्त्री यामाः बहवः त्रित्वसंख्यायुताः सन्त्यस्यां भूम्नि मतुप् मख वः ङीप्। १ रात्रौ राजनि० २ हरिद्रायाञ्च
यामातृ = पु० जायां माति तृच् पृषो०। जामातृशब्दार्थे शब्दर०
यामि = स्त्री यम–इन्। १ कुलस्त्रियां २ भगिन्यां अन्तःस्थयादौ रभसः। “या(जा)मयोयानि गेहानीति” मनुः। ३ रात्रौ शब्दर०। ४ यमपत्नोभेदे वह्निपु० “अरुन्धती वसुर्यामिर्लम्बा भानुर्मरुत्वती। सङ्कल्पा च मूहूर्त्ता च साध्या विश्वा च नामतः। धर्मपत्न्यो दश त्वेतास्ताखपत्यानि मे शृणु”।
यामित्र = न० ज्योतिषोक्ते लग्नराशिभ्यां सप्तमे स्थाने।
यामित्रवेधः = पु० यामित्रे सप्तमस्थाने वेधः पापग्रहसंयोगः। विवाहादौ वर्ज्ये “पापात् सप्तमनः शशी” इत्याद्युक्ते योगभेदे उपयमशब्दे १२६७ पृ० दृश्यम्।
यामिनी = स्त्री यामाः त्रिसंख्याताः सन्त्यस्य बाहुल्ये इनि। १ रात्रौ २ हरिद्रायाञ्च अमरः।
यामिनीपति = पु० ६ त०। १ चन्द्रे शब्दर० २ कर्पूरे च। रजनीशादयोऽप्यत्र।
यामी = स्त्री यमस्येयम् यमो देवतास्या वा तस्येयं वां अण् ङीप् १ दक्षिणस्यां दिशि २ यमसम्बन्धिन्यां यातनायां ३ भरणीतारायां च। यामि + वा ङीप्। ४ यामिशब्दार्थे च।
यामुनेष्टक = न० यमुनायां भवं यामुनं तदिवेष्टकम्। सीसके जटा० तस्य कृष्णत्वात् यामुनजलतुल्यत्वात्तथात्वम्।
याम्य = पु० यामी दिक् निवासोऽस्य यत्। १ अगस्त्ये २ चन्दनवृक्षे च मेदि०। यमोदेवतास्य तस्येदं वा ण्य। ३ यमसम्बन्धिनि त्रि० ४ भरणीनक्षत्रे च ज्यो० ५ दक्षिणदेशस्थे त्रि०।
याम्यायन = न० याम्यायाम् अयनं सूर्य्यस्य गतिः। सूर्य्यस्य दक्षिणायने तदाधारेषु रवेः मृगसंक्रान्तितः परेषु षट्सु मासेषु च।
याम्योद्भूत = पु० याम्ये दक्षिणदेशे उद्भूतः। श्रीतालवृक्षे राजनि०।
यायजूक = पु० यज–यङ्–ऊक। पुनःपुनःयागशीले अमरः।
यायावर = पु० देशाद्देशान्तरं याति या–यङ्–वरच्। १ अश्व मेधोयाश्वे जटा० तस्य नानादेशगमनत्वात्तथात्वम् २ जरत्कारुमुनौ च त्रिका०। ३ भूशवक्रगमनशीले त्रि०।
याव = पु० यु–अप् स्वार्थे अण्। १ अलक्ते अमरः स्वार्थे क। यावक तत्र। याव इव कन् (कुल्तीकलाइ) २ व्रीहिधान्यभेदे अमरः।
यावत् = त्रि० यत् परिमाणमस्य मतुप्। १ यत्परिमाणे स्त्रियां ङीप्। या–वति। २ साकल्ये ३ अवधौ ४ व्याप्तौ ५ माने ६ अवधारणे च अव्य० अमरः। एतच्छब्दयोगे द्वितीया।
यावत्तावत् = अव्य० यावच्च तावच्च द्व०। वीजगणितप्रसिद्धे अव्यक्तमानानयनाय कल्प्ये प्रयमे राशौ।
यावतिथ = त्रि० यावतां पूरणः यावत् + डट् इथुक् च। यावत् परिमाणपूरणे।
यावन = पु० यु–णिच्–ल्यु। सिह्लाख्यगन्धद्रव्ये अमरः।
यावनाल = पु० यवनाल एव स्वार्थे अण्। धान्यभेदे (जनार) राजनि०।
यावनालशर = पु० य वनाल इव शरः। शरभेदे राजनि०।
यावनाली = स्त्री यवनालस्य विकारः अण् ङीप्। यवनालभवायां शर्करायाम् राजनि०।
यावशूक = पु० यवशूकस्य विकारः अण्। यवक्षारे रत्नमा०।
याष्टीक = पु० यष्टिः प्रहरणमस्य ईकक्। यष्ट्या योद्धरि अमरः।
यास = पु० यस–कर्त्तरि संज्ञायां घञ्। १ दुरालभायाम् अमरः भावे घञ्। २ प्रयासे।
***