मृ = मृतौ तु० सार्वधातुवे लुङि आशीर्लिङि च आ० अन्यत्र पर० अक० अनिट् म्रियते। अमृत। ममार मर्त्तासि मृषीष्ट।
मृकण्ड(ण्डु) = पु० मुनिभेदे शब्दच०।
मृक्ष = संघाते भ्वा० प० अक० सेट्। मृक्षति अमृक्षीत्।
मृग = अन्वेषणे याचने च अद० चु० आ० सक० सेट् मृगयते अमभृगत।
मृग = अन्वेषणे दिवा० पर० सक० सेट्। मृग्यति अमर्गीत्।
मृग = पु० मृग–क। १ पशुमात्रे, २ गजभेदे, ३ अश्विन्यवधिके पञ्चमे न क्षत्रे पु०। अ० चु० मृग–भावे अच्। ४ अन्वेषणे पु० ५ याचने च मेदि० ६ यज्ञभेदे ७ मार्गशीर्षे मासि अजयः अच्। ८ मृगमदे, भरतः ९ मकरराशौ च पु० ज्यो० त०। १० हरिणे अमरः सर्वतः जातौ स्त्रियां ङीष् ११ नरभेदे “मृगे तुष्टा च चित्रिणी” रतिमञ्जरो।
मृगगामिनी = स्त्री मृग इव गच्छति गम णिनि ङीप्। १ विडङ्गायाम् राजनि०। २ मृगतुल्यगमनवति त्रि० स्त्रियां ङीप्।
मृगजीवन = पु० मृगैस्तन्मांसादिविक्रयाभिर्जीवति जीव–ल्यु। व्याधे शब्दच०।
मृगणा = स्त्री मृग–युच् टाप्। नष्टद्रव्यस्यान्वेषणे अमरः।
मृगतृष्णा = स्त्री मृगाणां तृष्णेव तृष्णाहेतुत्वात्। सूर्य्यकिरणे जलभ्रान्तौ अमरः। निर्जलदेशस्थं सूर्य्यकिरणं दूरता वीक्ष्य मृगैर्जलभ्रान्त्या तृष्णार्त्तैः सद्भिः बम्भ्रम्यते न च लभ्यते इति ग्रीष्मे मरुदेशे सिकतादौ पतितरविकिणेषु जलभ्रान्तिरिति च लोकप्रसिद्धम्। स्वार्थे क। तत्रैव।
मृगदंशक = पुंस्त्री० मृगं दंशति दन्श ण्वुल्। कुक्वुरे अमरः स्त्रियां जातित्वात् ङीष्।
मृगधूर्त्तक = पुंस्त्री० मृगेषु मध्ये धूर्त्तकः। शृगाले अमरः स्त्रियां ङीप्।
मृगनाभि = पु० मृगस्य नाभिः जन्महेतुर्यस्य। कस्तूर्य्याम् मृगमदे अमरः।
मृगनेत्रा = स्त्री मृगो मृगशिरो नक्षत्रं नेता प्रापकः सर्वरात्रिप्रकाशकत्वात् यत्र अच्समा०। सौरमार्गस्य किञ्चिदधिकत्रयोविंशदिनावधिशेषपर्य्यन्तरात्रिषु।
मृगनाभिजा = स्त्री मृगस्य नामेर्जायते जन–ड। कस्तूर्य्याम् हेमच०।
मृगपति = पु० ६ त०। मृगाणां पशूनां पतिः स्वामी। १ सिंहे हेमच० मृगेशादयोप्यत्र २ सिंहराशौ च।
मृगप्रिय = न० ६ त०। पर्वततृणे राजनि०।
मृगबधाजीव = पु० मृगबधेनाजीवति आ + जीव–अच्। व्याधे अमरः मृगाजीवोऽप्यत्र।
मृगबन्धनी = स्त्री मृगोबध्यतेऽनया बन्ध–करणे ल्युट् ङीप्। मृगबन्धनार्थे जाले अमरः। करणस्य कर्त्तृत्वविवक्षायां णिनि ङीप्। मृगवन्धिनीत्यप्यत्र अमरे पाठान्तरम।
मृगभक्ष्या = स्त्री मृगैर्भक्ष्यते भक्ष–कर्मणि ण्यत्। जटामांस्याम् राजनि०।
मृगमद = पु० मृगस्य मदो गर्वो यस्मात्। कस्तर्य्याम् अमरः।
मृगमदवासा = स्त्री मृगमदस्येव वासः सौरभमस्याः। कस्तूरीमल्लिकायां राजनि०।
मृगया = स्त्री मृगं यात्यनया या–घञर्थे क। (स्नीकार) पशुबधफलके व्यापारभेदे आखेटके अमरकोषः।
मृगयु = पु० मृग–अस्त्यर्थे यु। १ ब्रह्मणि २ शृगाले ३ व्याधे च मेदि० “मृगयुमिव मृगोऽथ दक्षिणेर्मा” भट्टिः।
मृगरसा = पु० मृगो मृगमांसं तस्येव रसोऽस्याः। सहदेवीलतायाम् राजनि०।
मृगराज = पु० मृगाणां पशूनां राजा टच्समा०। १ सिंहे शब्दर०। मृगेण गजेन राजते अच्। २ चन्द्रे। ३ सिंहराशौ च। उपचारात् ४ मृगशिरानक्षत्रे च।
मृगराटिका = स्त्री मृगं रटति जीव्यत्वेन रट–अण् गौ० ङीष् स्वार्थे क। जीवन्त्यामोषधौ राजनि०।
मृगरिपु = पु० ६ त०। १ सिंहे मृगशत्रुप्रभृतयोऽप्यत्र। २ सिंहराशौ च।
मृगलाञ्छन = पु० मृगो लाञ्छनं यस्य। १ चन्द्रे शब्दर०। मृगाङ्कादयोप्यत्र उपचारात् २ मृगशिरानक्षत्रे च।
मृगवल्लभ = न० ६ त०। कुन्दरतृणे राजनि०।
मृगवाहन = पु० मृगो वाहनं यस्य। १ वायौ “धावन् हरिणपृष्टस्थः” इति वायुध्यानम्। २ स्वातिनक्षत्रे च।
मृगव्य = न० मृगान् व्यथतेऽत्र व्यथ–ड। मृगयायाम् अमरः।
मृगशिरस् = न० पु०। मृगस्येव शिरोऽस्य। अश्विन्यवधिके पञ्चमे नक्षत्रे मृगशिराप्यत्र स्त्री टाप् शब्दर०। मृगशीर्षन्, न० रायमु० मृगशीर्ष पु० एतावप्यत्र भरतः।
मृगा = स्त्री मृगो मृगमांसतुल्यरसोऽस्त्यस्य अच्। सहदेवीलतायाम् राजनि०।
मृगाक्षी = स्त्री मृगस्येवाक्षि तत्तुल्यं पुष्पं वा यस्याः षच्सभा० ङीष्। १ विशालायां २ मृगतुल्यनयनवत्यां स्त्रियां च मेदि०।
मृगाण्डजा = स्त्री मृगस्याण्डाकारात् नाभिस्थितमांसपिण्डात् जायते जन–ड। कस्तूर्य्याम् राजनि०।
मृगादन = पुंस्त्री० मृगान् अत्ति अद–ल्यु। क्षुद्रव्याघ्रे अमरः। स्त्रियां ङीष्। मृगान्तकोऽप्यत्र।
मृगादनी = स्त्री मृग इवाद्यते अद–कर्मणि ल्युट्। १ सहदेव्याम् २ इद्रवारुण्याम् (राखालशशा) ३ कर्कोटीभेदे च राजनि०।
मृगाराति = पु० ६ त०। १ कुक्कुरे शब्दमा०। मृगशत्रौ २ सिंहे च। ३ सिंहराशौ च।
मृगारि = पु० ६ त०। १ कुक्वुरे २ सिंहे ३ व्याध्रे ४ रक्तशोभाञ्जने च राजनि० तत्सेवने हि तस्य नाशः। ५ सिंहराशौ च।
मृगाविध् = पु० मृगं विध्यति व्यध + क्विप् पूर्वदीर्घः। व्याधे जटाधरः।
मृगित = त्रि० मृग–क्त। १ अन्वेषिते अमरः २ याचिते च।
मृगेन्द्र = पु स्त्री० मृगः इन्द्र इव। सिंहे अमरः स्त्रियां ङीष्।
मृगेन्द्रचटक = पु० मृगेन्द्र इव हिंस्रश्चटकः पक्षी। श्येनपक्षिणि जटा०।
मृगेन्द्राशी = स्त्री मृगेन्द्रेण सिंहेनाश्यते भक्ष्यते अश–कर्मणि घञर्थे क गौरा० ङीष्। वासके राजनि०।
मृगेर्वारु = स्त्री मृगप्रिया इर्वारुः कर्कोटी। श्वेतायामिन्द्रवारण्याम् (सादा राखालशशा) राजनि०।
मृगेष्ट = पु० ६ त०। मुद्गवृक्षे राजनि०।
मृगेक्षणा = स्त्री मृगस्य ईक्षणमिवेक्षणं पुष्पं वा यस्याः। १ मृगेर्वारौ राजनि० २ मृगतुल्यनेत्रायां स्त्रियां च।
मृज = शोधने भूषणे च वा चु० उभ० पक्षे अदा० सक० वेट्। मार्जयति–ते मार्ष्टि अमीमृजत्–त अममार्जत्–त अमार्क्षीत् आम्राक्षीत् अमृक्षत् षित् मृजा।
मृजा = स्त्री मृज–अङ्। मार्जने अमरः “शिरसा च मृजावता” भट्टिः
मृड = तोषणे क्र्या० तु० च पर० सक० सेट्। मृड्णाति मृडति अमर्डीत् ममर्ड।
मृड = पु० मृड–क। १ शिवे अमरः २ तत्पम्त्याम् स्त्री ङीष् आनुक् च मृडानी।
मृण = हिंसे तु० प० सक० सेट्। मृणति अमर्णीत्।
मृणाल = पुंन० मृण–कालन्। १ पद्मादेर्नालस्थे सूत्रे अमरः २ वीरणमूले न० मेदि० गौरा० ङीष्। मृणालीत्ययि ३ विसतन्तौ स्त्री राजनि०।
मृणालिन् = स्त्री मृणालं विद्यतेऽस्य अच् मृणालं पद्मं ततः समूहे तद्युक्तदेशे वा इनि। १ पद्मसमूहे २ पद्मयुक्तदेशे ३ तद्युक्तलतायाञ्च जटा०।
मृत = न० मृ–भावे क्त। १ मरणे। २ तत्तुल्यदुःखजनके याचितके वृत्तौ च अमरः। कर्त्तरि क्त। ३ गतप्राणे त्रि०।
मृतक = न० मृतेन मरणेन कायति कै–क। मरणाशौचे “सूतके मृतकेऽथ वा” इति स्मृतिः।
मृतकल्प = त्रि० ईषदसमाप्तो मृतः मृत + कल्पप्। मृतप्राये।
मृतकान्तक = पुंस्त्री० मृतः शवदेहः कान्तोऽभिमतो यस्य कप्। शृगाले हारा० स्त्रियां ङीष्।
मृतजीव = पु० मृतः नष्टः सन् पुनर्जीवति जीव–अच्। तिलकवृक्षे राजनि०।
मृतवत्सा = स्त्री मृतोवत्सो यस्याः। मृतापत्यायां १ स्त्रियां २ स्त्रीगव्याञ्च “मृतवत्सा च या नारीति” तन्त्रम्।
मृतसञ्जीवनी = स्त्री मृतान् संजीवयति सम् + जीव–णिच्ल्यु गौरा० ङीष्। १ गोरक्षदुग्धायामोषधौ राजनि० तन्त्रोक्ते २ विद्याभेदे च।
मृतस्नात = त्रि० मृतं मरणं तन्निमित्तं स्नातः स्ना–क्त।
मृतालक = न० मृतमालयति भूषयति अल–णिच् ण्वुल्। आढक्याम् अचरः। मृत् मृत्तिका तालः प्रतिष्ठा यस्य वा कप्। मृत्तालकमप्यत्र शब्दर०। सौराष्ट्रमृदि राजनि०
मृत्तिका = स्त्री मृद + तिकन् टाप्। १ मृदि (माटि) सा क्षेत्रत्वेनाऽस्त्यस्य अच् टाप्। २ आढक्याम् राजनि०।
मृत्फली = स्त्री नृदि फलमस्याः ङीप्। कुष्ठौषधौ। (कुड) हारा०।
मृत्यु = पु० मृ–त्युक्। १ यमे हेम० देहादिभ्यः २ प्राणवियोगे विजातीयात्ममनःसंयोगनाशे वा ३ मरणे च अमरः। “मृत्योः स मृत्युमाप्नोति” श्रुतिः भयात् मायायां जाते ४ पुत्रभेदे पु० भयाज्ज्ञेऽथ वै माया मृत्युं भूतापहारिणम्। निरृतिश्च तथा कन्या मृत्योर्भार्य्याऽभवन्मुने!। अलक्ष्मीर्नाम तस्यां च मृत्योः पुत्राश्चतुर्दश” मार्क० पु०।
मृत्युञ्जय = पु० मृत्युं जयति जि–अच्। १ महादेवे अमरः “कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशोलये। काले न लीनः शम्भुश्च सत्त्वरूपी च निर्गुणः। मृत्युकन्या जिता शस्वत् शिवेन गुरुणा मम। न मृत्युना जितः शम्भुः कल्पे कल्पे श्रुतौ श्रुतम्” ब्रह्मवै० प्र० ५१ अ०।
मृत्युनाशक = पु० सृत्युं नाशयति नाशि–ण्वुल्। १ पारदे राजनि० तस्य हि रसायनक्रियादिना शोधयित्वा सेवने मृत्युनाशकत्वम्। २ मृत्युनाशकमात्रे त्रि०।
मृत्युपुष्प = पु० मृत्यवे स्यामिमरणाय पुष्पं यस्य। इक्षौ रत्नमा० तस्मिन् पुष्पिते हि तत्स्यामिनो नाशः।
मृत्युफला = स्त्री मृत्यवे स्वनाशाय फलं यस्याः। कदल्यां मेदि० कलपाके हि तस्या नाशो लोकसिद्धः।
मृत्युवीज = पु० मृत्युस्तद्धेतुर्दाह एव वीजं कारणमस्य। वंशे त्रिका०।
मृत्युसूति = स्त्री मृत्यवे सूतिः प्रलवोऽस्याः। कर्कटकयोषिति प्रसवेन हि तस्या नाशः “यथा कर्कटकी गर्भमादत्ते मृत्यवे निजम्” इति पुराणम्।
मृत्(सा)स्ना = स्त्री मृद् + प्रशस्तार्थे स स्न वा। १ प्रशस्तमृत्तिकायाम् अमरः। अर्शआद्यच् स्नान्तः। २ आढक्याम् अमरः।
मृद = क्षोदे क्र्य० प० सक० सेट्। मृद्गाति अमर्द्दीत् ममर्द।
मृद्(दा) = स्त्री मृद्यते मृद–कर्मणि क्विप्। मृत्तिकायाम् (माटी) अमरः हलन्तत्वात् वा टाप्। मृदाप्यत्र।
मृदङ्ग = पु० मृद अङ्गच् किच्च। १ वाद्यभेदे अमरः। २ कोषातक्या स्त्री रत्नमा० गौरा० ङीष्।
मृदङ्गफल = पु० मृदङ्ग इव फलमस्य। पनसवृक्षे शब्दर०।
मृदङ्गफलिनी = स्त्री मृदङ्ग इव फलमस्त्यस्या इनि ङीप्। कोषातक्याम् राजनि०। तत्फलं साम्यादस्त्यस्य अच्। मृदङ्गतुल्यफले पनसवृक्षे पु० शब्दर०।
मृदु = त्रि० मृद–कु। १ कोमले अमरः। स्त्रियां वा ङीष् मृद्वी मदुः। सा च २ गृहकन्यायाम्। ३ चित्रानुराधामृगरेवतीनक्षत्ररूपे नक्षत्रगणभेदे च त्रि० ज्यो० त०।
मृदुचर्मिन् = पु० मृदु कोमलं चर्म त्वचास्त्यस्य ब्रीह्मा० इनि। भूर्जवृक्षे राजनि०।
मृदुच्छद = पु० छाद्यतेऽनेन छदः त्वक् ६ ब०। १ भूर्जवृक्षे २ पर्वतजपीलुवृक्षे जटा० ३ कुक्कुरवृक्षे ४ श्रीतालवृक्षे च राजनि०।
मृदुताल = स्त्री कर्भ०। श्रीतालवृक्षे (तेडेत) राजनि०।
मृदुत्वच्(च) = पु० मृदुः त्वक् त्वघा वा यस्य। भूर्जत्वचवृक्षे अमरः।
मृदुपत्त्र = पु० मृदूनि पत्त्राण्यस्य। १ नले राजनि०। कर्म०। २ कोमलपर्णे न० ६ ब०। ३ तद्वति त्रि०। ४ चिल्लीशाके स्त्री राजनि० गौरा० ङीष्।
मृदुपर्वक = पु० मृदूनि पर्वाण्यस्य कप्। १ वेत्रे राजनि०। २ मृदुग्रन्धियुक्ते त्रि०।
मृदुपुष्प = पु० मृदूनि पुष्पाण्यस्य। १ शिरीषवृक्षे रत्नमा०। ६ ब०। २ मृदुकुसुमयुते त्रि०। कर्म०। ३ कोमलपुष्पे न०।
मृदुफल = न० मृदूनि फलान्यस्य। १ विकङ्कते (वैचि) २ मधुनारिकेले च राजनि०। ३ कोमलफलयुते त्रि०। कर्म०। ४ कोमलफले न०।
मृदुल = न० मृद–कुलच्। १ जले शब्दच० २ कोमलमात्रे त्रि० अमरः।
मृदुलोमक = पु० ६ ब०। १ शशके हेमच०। २ कोमललोमयुक्ते त्रि०। कर्म०। ३ कोमललोम्नि न०।
मृदूत्पल = न० कर्म०। १ नीलोत्पले शब्दर०। २ नीलपद्मे च
मृद्वीका = स्त्री मृदु + ईकन्। १ द्राक्षायाम् अमरः २ कपिलद्राक्षायाञ्च राजनि०।
मृध = न० मृध्यतेऽत्र घञर्ये आधारे क। युद्धे अमरः।
मृध = आर्द्रीभावे भ्वा० उभ० सक० सेट् चदित् क्त्वा वेद। मर्द्धति–ते अमर्द्धीत् अमर्द्धिष्ट ममर्द्ध ममृवे।
मृश = स्पर्शने प्रणिधाने च तु० पर० सक० अनिट्। मृशति अम्राक्षीत् अमार्क्षीत् अमृक्षत् ममर्श।
मृष = क्षमायाम् अद० चु० उभ० सक० सेट्। मृषयति ते अमीमृषत् त।
मृष = क्षान्तौ अद० भ्वा० उभ० सक० सेट्। मृषति ते अमृषीत् अमृषिष्ट।
मृष = सेचने भ्वा० पर० सक० सेट्। मर्षति अमर्षीत् उदित् क्त्वा वेट्।
मृष = क्षमायां चु० उभ० सक० सेट्। मर्षयति ते अमीमृषत् त अममर्षत् त।
मृष = क्षमायां भ्वा० उभ० सक० सेट्। मर्षति ते अमर्षीत् अमृषिष्ट उदित् क्ता वेट्।
मृष = क्षमायां चु० पक्षे दिवा० च उभ० सक० सेट्। मृष्यति ते। मर्षयति ते। मर्षितः मर्षित्वा।
मृषा = अव्य० मृष–का। मिथ्याशब्दार्थे अमरः।
मृषार्थक = न० मृषा अत्यन्तासम्भूतोऽर्थो यस्य। “कूर्मलोमतनुत्राणः शशशृङ्गधनुर्द्धरः” इत्यादि मिथ्यार्थकवाक्ये।
मृषालक = पु० मृषालक इव मञ्जर्य्यामस्त्यस्य अच्। आम्रवृक्षे शब्दर०।
मृषावाद = पु० मृषा + वद–घञ्। मिथ्यावाक्ये जटा० यथा ह्रदो वह्णिमानित्यादिवाक्यम्।
मृषोद्य = न० मृषा + वद–भावे क्यप्। १ मिथ्याकथने तद्विद्यतेऽम्य अच। २ मिथ्यावादिनि त्रि० शब्दमा०।
मृष्ट = न० मृज(ष)–क्त। १ मरिचे राजनि० २ धृष्ट्रे ३ शोधिते च त्रि० अमरः
मॄ = बधे क्या० प्वा० प० सक० सेट्। मृणाति अमारीत्।
मे = प्रतीदाने भ्व० आत्म० सक० अनिट्। मयते अमास्त।
मेक(ख)ल = पु० मि–कलच् खलच् वा नात्त्वम्। १ अद्रिभेदे मे इति कलो यस्य क मध्यः। २ छागे पुंस्त्री० राजनि० स्त्रियां ङीष्।
मेक(ख)लकन्यका = स्त्री ६ त०। नर्मदानद्याम् अमरः।
मेक(ख)लाद्रिजा = स्त्री मेक(ख)लाद्रेर्जायते जन–ड। नर्मदानद्याम् हेमच०।
मेक्षण = न० “इध्मजातीमिध्मार्द्धप्रमाणं मेक्षणं भवेत्। वृत्तं वार्क्षं च पृथ्वग्रमवदानक्रियाक्षमम्” छन्दोगप० उक्ते यज्ञपात्रभेदे। इध्मप्रमाणं प्रादेशद्वयम्।
मेखला = स्त्री मि–खलच्। “मेखला त्वष्टयष्टिका” उक्ते १ स्त्रीकट्याभूषणभेदे अमरः। उपनयनकाले ब्रह्मचारिधार्य्ये मौञ्ज्यादौ २ कटीसूत्रे “मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्या विप्रस्य मेखला। क्षत्रियस्य च मौरीया वैश्यस्य शणतन्तुजा” मनुः। ३ खड्गादर्मुष्ट्याधारणार्थे ४ उपर्य्यधोभागेन बन्धे ५ शैलनितम्बे सेदि० ६ नर्मदायां शब्दर० ७ पृश्निपर्ण्याम् राजनि०। होमकुण्डोपरिस्थे मृत्कृते ८ वेष्टनभेदे च।
मेघ = पु० मिह–घञ् कुत्वम्। धूमज्योतिःपवनसलिलसंघातजन्ये १ जलधरे २ मुस्तके च अमरः। ३ राक्षसभेदे शब्दच० ४ रागभेदे च स० गी०।
मेघजीवन = पुंस्त्री० मेघो जीवनं यस्य। चातकखगे राजनि० स्त्रियां ङीष्।
मेघज्यातिस् = न० मेघजन्यं ज्योतिः शा० त०। वज्राग्नौ अमरः
मेघनाद = पु० मेघस्येव नादोऽस्य। १ वरुणे २ रावणस्य पुत्रे इन्द्रजिति। ६ त०। ३ मेघशब्दे च मेदि०।
मेघनादानुलासक = पुंस्त्री० मेघस्य नादेनानुलस्यति अनु + लस ण्वुल्। मयूरे राजनि० स्त्रियां ङीष्। णिनि। मेघनादानुलासिन् मयूरे अमरः।
मेघनामन् = पु० मेघस्य नामेव नाम यस्य। मेघवाचकशब्दवाच्ये मुस्तके अमरः।
मेघपुष्पक = म० मेघस्य पुष्पमिव। जले अमरः।
मेघयोनि = स्त्री० ६ त०। धूमे शब्दरत्ना०।
मेघवर्ण्णा = स्त्री मेघस्येव वर्णोऽस्याः। नीलीवृक्षे शब्दच०।
मेघवर्त्मन् = न० ६ त०। आकाशे त्रिका०। मेघवीथ्यादयोऽप्यत्र।
मेघवह्नि = पु० मेघजन्यो वह्निस्तद्घर्षणजातोग्निः। वज्राग्नौ हेमच०। एवं मेघानलादयोप्यत्र।
मेघवाहन = पु० मेघो वाहनमिव यस्य, मेघान् वाहयति चालयति वह–णिच् ल्यु वा। इन्द्रे अमरः।
मेघसार = पु० मेघस्य कर्पूरस्या सारः। चीनकर्पूरे राजनि०।
मेघस्तनितोद्भव = पु० मेघस्तनितादुद्भवति उद् + भू–अच्। विकण्ठकवृक्षे राजनि०।
मेघागम = पु० मेघानामागमो यत्र। वर्षाकाले वर्षर्पौ शब्दर०
मेघानन्दिन् = पु० मेघेन तद्ध्वनिना आनन्दति आ + नन्दणिनि। मयूरे अच् मेघानन्दा। वलाकायां राजनि०।
मेघान्त = पु० मेघानामन्तो यत्र। शरत्काले राजनि० मेघात्ययादयोऽप्यत्र।
मेघास्थि = न० मेघानामस्थीव संहतकठिनत्वात्। करकायाम् त्रिका०।
मेचक = न० मच–वुन् पृषो०। १ अन्धकारे २ स्रोतोऽञ्जने च मेदि० ३ नीलाञ्जने राजनि०। ४ मयूरचन्द्रके ५ कृष्णवर्णे मेदि०। ६ धूमे ७ मेघे ८ शोभाञ्जने शब्दर० ९ कृष्णवर्णयुते त्रि० अमरः।
मेट(ड) = उन्मादे भ्वा० पर० सक० सेट् ऋदित् चङि न ह्रस्वः। मेट(ड)ति अमेटी(डी)त्।
मेटुला = स्त्री मेट–उलच्। आमलक्याम् शब्दच०।
मेढ्र = पुंस्त्री० मिह–ष्ट्रन्। १ मेषे स्त्रियां ङीष् २ पुंसोऽसाधारणचिह्ने च पु० अमरः।
मेढ्रशृङ्गी = स्त्री मेढ्रस्येप शृङ्गं यस्याः ङीष्। मेषशृङ्ग्याम् गाडरशिङा) रत्नमा०।
मेथ = बधे मेधायाञ्च सक० सङ्गे अक० भ्वा० उभ० सेट्। मेथति ते अमेथीत् अमेथिष्ट। ऋदित् चङि न ह्रस्वः।
मेथि(धि) = पु० मेथ (घ)–इन्। धान्यमर्द्दनार्थं पशुबन्धानकाष्ठे (मेइकाठ) हेमच०।
मेथिका = स्त्री मेथ–ण्वुल्। (मेथि) शाकभेदे राजनि०। णिनि मेथिनी। अत्रैव स्त्री ङीप्। अच् गौरा० ङीष्। मेथी अत्रैवार्थे राजनि०।
मेद = बधे मेधायाञ्च सक० भ्वा० उभ० सेट्। मेदति ते अमेदीत् अमेदिष्ट। ऋदित् चङि न ह्रस्वः।
मेदःसारा = स्त्री मेदसः इव सारोऽस्याः। अष्टवर्गप्रसिद्धौषधि भेदे मेदायां राजनि०।
मेदक = पु० मेद–ण्वुल्। जगले (मेओया) अमरः।
मेदज = पु० मेदात् महिषासुरमेदसो जायते जन–ड। भूमिज गुग्गुलौ राजनि०। मेदोजातमात्रे त्रि०।
मेदस् = न० मेद–असुन्। मांसजन्ये धातुभेदे (वसा) अच्। मेद अत्रैव पु०।
मेदस्कृत् = न० मेदः करोति स्वपरिपाकेण जनयति कृ–क्विप्। मांसे हेमच०।
मेदा = स्त्री मेदः कारणत्वेनास्त्यसाः अच्। अष्टवर्गप्रसिद्धौषधिभेदे भावप्र०।
मेदिनी = स्त्री मेदः मधुकैटममेदोऽस्त्यस्याः कारणत्वेन इनि। १ वसुन्धरायाम् “मधुकैटभयोरासीन्मेदसैव परिप्लुता। तेनेयं मेदिनो देवी प्रोच्यते” इति पुराणम्। २ मेदायाञ्च।
मेदुर = त्रि० मिद–घुरच्। १ अतिशयस्निग्धे। “मेषैर्मेदुरमम्बरम्” जयदेवः। २ काकोल्यां स्त्री राजनि० टाप।
मेदोज = न० मेदसो वसातो जायते जन–ड। देहस्थे मज्जहेतौ अस्थिनामके धातौ।
मेदोद्भवा = स्त्री मेदादुद्भवति उद् + भू–अच्। अष्टवर्गप्रसिद्धौषधिभेदे राजनि०
मेध = मेथवत् सर्वम्। मेधति ते अमेधीत् अमेधिष्ट।
मेधस् = पु० मेध–असुन्। स्वायम्भुवस्थ मनोः पुत्रभेदे।
मेधा = स्त्री मेध–अङ्। १ वारणावत्यां बुद्धौ यया बुद्ध्या ज्ञातस्य न विस्मरणं तत्र। नञ्दुःसुशब्दात् बहु० असिच्समा०। अमेधाः दुर्मेधाः सुमेधाः इत्यादि। आधारे घञ्। २ यागे पु०।
मेधाविन् = पु० मेधा + अस्त्यर्थे विनि। १ शुकखगे। २ मेधावति त्रि० मेदि० स्त्रियां ङीप्।
मेधिर = त्रि० मेधा + अस्त्यर्थे इरच्। मेधावति त्रिका०।
मेधिष्ठ = त्रि० अतिशययेन मेधावान् इष्ठन् मतोर्लुक्। अतिशयमेधावति जने। ईयसुन् मेधीयस् तत्रार्थे स्त्रियां ङीप्
मेध्य = त्रि० मेध–ण्यत्। १ पवित्रे अमरः २ शुचौ च मेदि० मेधाय यज्ञाय हितः यत्। ३ छागे ४ खदिरे ५ यवे च पुं० मेदि०। ६ केतक्यां ७ शखपुष्प्यां ८ रक्तवचायाम् ९ रोचनायां, १० शम्याम्, ११ भण्डूक्यां १२ ज्योतिष्मतीलतायाम् खी राजनि०।
मेनका = स्त्री मि–नक। १ स्वर्वेश्याभेदे शब्दर०। मेनैव स्वार्थे क। २ हिनालयप्रत्न्याम्।
मेनकात्मजा = स्त्री ६ त०। हैमवत्यां दुर्गायाम् मेनासुतादयोऽप्यत्र।
मेना = स्त्री मि–न। हिमालयपन्त्याम् पितॄणां मानस्यां कन्यायाम्। “मेनां मुनीनामपि माननीयाम्” कुमा०।
मेनाद = पुंस्त्री० मे इति नादो यस्य। १ विडाले २ छागे ३ मयूरे च मेदि० स्त्रियां ङीष्।
मेन्धी = स्त्री मा लक्ष्मीः इध्यते यया इन्ध–घञ् गौरा० ङीष्। (मेइदी) वृक्षे तत्पत्रमर्द्दने हि लक्ष्मीतुल्यरक्तहस्तता।
मेप = गतौ भ्वा० आ० सक० सेट्। मेपते अमेपिष्ट। अदित् चङि न ह्रस्वः।
मेय = त्रि० मा–मि–वा यत्। १ परिच्छेद्ये २ ज्ञेये च “मानाधीनामेयसिद्धिः”।
मेरु = पु० मि–रु। सर्ववर्षेभ्य उत्तरस्थे १ पर्वतभेदे जपमालोपरिस्थे २ फलवीजादिके ३ कररूपमालायामङ्गलिपर्वभेदे च
मेरुक = पु० मेरुरिव पीतवर्णत्वात् इवार्थे कन्। यक्षधूपे (घुना) शब्दच०।
मेरुसावर्ण = पु०। चतुर्द्दशसु मनुषु एकादशे मनौ।
मेलक = त्रि० मेलयति मिल–णिच–ण्वुल्। १ विवाहे–योटकमेदे मिल–भावे घञ् स्वार्थे क। २ सङ्गे अमरः।
मेला = स्त्री मिल–णिच्–अच् टाप्। १ नीलीवृक्षे राजनि०। २ मस्याम् ३ अञ्जने ४ मेलने च मेदि०।
मेलान्धु = पु० मेलाया मस्या अन्धुरिव। मस्याधारे (दोआत) जटा०।
मेलापकाख्या = स्त्री नी० ता० उक्ते ग्रहदृष्टिभेदे ग्रहदृष्टिशब्दे २७५३ पृ० दृश्यम्।
मेव = सेवने भ्वा० आ० सक० सेट्। मेवते अमेविष्ट। पदित् चङि न ह्रस्वः।
मेष = पुंस्त्री० मिष–अच्। (मेडा) १ पशुभेदे अमरः स्त्रियां ङीष्। २ चक्रमर्दवृक्षे मेदि०। ज्योतिश्चक्रस्य द्वादशांशे अश्विनीभरणीकृत्तिकानक्षत्राद्यपादात्मके ३ राशिभेदे।
मेषकम्बल = पु० मेषेण तल्लोम्ना निर्मितः कम्यलः। मेषलोमजाते वस्त्राकारे पदार्थे अमरः।
मेषलोचन = पु० मेषस्य लोचनमिव पुष्पमस्य। १ चक्रमर्दे भावप्र०। २ मेषतुल्यनेत्रे त्रि० मेषनेत्रादयोप्यत्र।
मेषवल्ली = स्त्री मेषस्य शृङ्गाकारफलयुता वल्ली शाक० त०। (गाडरशिङ्ग) लताभेदे भावप्र०।
मेषविषाणी = स्त्री मेषस्य विपाणं शृङ्गमिप फलं यस्याः गौरा० ङीष् (गाडरशिद) लताभेदे रत्नमा०। स्वार्थे क अत इत्त्वम्। मेषविषाणिका तत्रैवार्थे।
मेषशृङ्ग = पु० मेषशृङ्गमिवाकारेऽस्तस्य अध। १ स्वावरविप भेदे हेमच०। २ अजशृङ्ग्यां (गाडरशिङा) स्त्री गौरा० ङीष् रत्नमा०।
मेषा = स्त्री मिष–कर्मणि घञ्। सूक्ष्मैलायाम् (गुजराटी) शब्दच०।
मेषाक्षिकुसुम = पु० मेषाक्षीव कुसुमं यस्य। चक्रमर्दे रत्नमा० मेषपुष्पादयोऽप्यत्र।
मेषाण्ड = पु० मेषस्याण्ड एवाण्डोऽस्य। इन्द्रे तस्य हि दक्षयज्ञेऽण्डनाशे मेषाण्डेन तत्करणमिति पुराणप्रसिद्धम्।
मेषालु = पु० मेषाणामालुरिव प्रियः। वर्वरीवृक्षे शब्दच०।
मेषी = स्त्री मिष–अच् गौ० ङीष्। १ जटामांस्यां २ तिनिशवृक्षे च राजनि०। जातौ ङीष्। ३ मेषजातिस्त्रियाम्।
मेसूरण = न० लग्नावधिदशमस्थाने ज्यो० त०।
मेह = पु मिह–घञ्। १ प्रस्रावे हेमच० २ प्रमेहरोगभेदे च अमरः। प्रमेहशब्दे दृश्यम्। अच्। ३ मेघे शब्दच०।
मेहघ्नी = स्त्री मेहं हन्ति हन–टक् ङीप्। हरिद्रायाम् रत्नमा० आर्द्रतन्मूलरससेवनाद्धि मेहनाश इति वैद्यकप्रसिद्धिः।
मेहन = न० मिह्यतेऽनेन मिह–करणे ल्युट्। १ शिश्ने अमरः। कर्मणि ल्युट्। २ मूत्रे मेदि०। भावे ल्युट्। ३ मूत्रोत्सर्गे।
मैत्त्र(त्र) = न० मित्रो देवतास्य अण् मैत्रं पायुस्तस्येदं पुनरण्। १ विष्ठोत्सर्गे “मैत्रं कर्म समाचरेत्” इति स्मृतिः। मित्रो देवताऽस्य, मित्त्रत आगतं तस्येदं वा अण्। २ अनुराधानक्षत्रे न०। तस्य हि मित्रो देवता। ३ मित्त्रतः प्राप्ते “मैत्त्रमौद्वाहिकञ्चैव” स्मृतिः। ३ सुहृत्सम्बन्धिनि च त्रि०। मित्त्रमेव स्वार्थे प्रज्ञाद्यण्। ५ मित्त्रे ६ ब्राह्मणे च पु० त्रिका०।
मैत्रावरुण = पु० मित्रश्च वरुणश्च देवताद्वन्द्वे आनङ् मित्रावरुणयोरपत्यम् अण्। अगस्त्ये। इञ्। भैत्रावरुणिरप्यत्र कल्पभेदे हि तस्य तयोः पुत्रत्वं पुराणप्रसिद्धम्।
मैत्त्री = न० मित्त्रस्य भावः अण् वा ष्यञ् पक्षे ङीप् यलोपः। सौहार्दे मैत्त्र्यमप्यत्र न०।
मैत्रेय = पु० मित्राया अपत्ययम् ढक्। १ मुनिभेदे २ बुद्धदेवे त्रिका०।
मैथिली = स्त्री मिथिलायां भवां अण् ङीप्। १ सीतायाम्। मिथिलाया राजा अण्। २ मिथिलादेशाधिपे पु०।
मैथुन = न० मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तम् अण्। १ अग्न्याधानादौ, कर्मणि “सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने” इति स्मृतिः। अग्न्याधाने हि सपत्नीकस्यैवाधिकार इति तस्य तत्साध्यत्वम्। २ स्त्रीपुंससङ्गमरूपे ग्राम्यधर्मे च अमरः।
मैनाक = पु० मेनकायां भवः अण्। हिमासयसुते पर्वतभेदे जटा०।
मैरेय = न० मिरायां देशभेदे ओषधिमेदे वा भवं ढक्। मिरा देशजाते १ आसवे “मैयेयं धातकीपुष्पगुडधानाम्लसम्भवम्” माधवोक्ते २ मद्यभेदे च न०।
मोक्ष = क्षेपे वा चु० उम० पक्षे भ्वा० पर० सक० सेट्। मोक्षयति ते मोक्षति अमुमोक्षत् त अमोक्षीत्।
मोक्ष = पु० मोक्ष–घञ्। १ अपवर्गे २ मोचने “नीविमोक्षोहि मोक्षः” सा० द०। ३ पाटलिवृक्षे मेदि०। ४ मरणे हेमच०।
मोघ = त्रि० मुह–घ अच् वा कुत्वम्। १ निरर्थके अमरः २ हीने ३ पाटलावृक्षे मेदि० ४ विडङ्गे च स्त्री हेम० ५ प्राचीरे पु० शब्दमा०।
मोघपुष्पा = स्त्री मोघं पुष्पमार्त्तवं यस्याः। बन्ध्यायां स्त्रियाम् राजनि०।
मोच = न० मुच–अच्। १ कदलीफले २ शोभाञ्जने पु० अमरः। ३ कदल्यां ४ शाल्मलिवृक्षे ५ नीलीवृक्षे, च स्त्री मेदि० टाप्।
मोचक = पु० मुच–ण्वुल्। १ मोक्षे २ कदल्यां ३ शोभाञ्जने च ४ वैराग्यवति त्रि० हेमच० ५ मुष्ककवृक्षे राजनि०।
मोचन = न० मुच–णिच्–वा भावे ल्युट्। १ मुक्तौ २ मोचने दम्भे ४ शाट्ये च। मुच्यते रोगात् अनया मुच–करणे ल्युट्। ५ कण्टकार्य्याम् स्त्री जटा० ङीप्।
मोचरस = पु० ६ त०। शाल्मलिनिर्यापे स्वनामख्याते पदार्थे राजनि०।
मोचाट = पु० मुच–णिच्–अच् मोचाय रोगमोचनाय अटति अट–अच्। १ कृष्णजीरके २ रम्भास्थ्नि ३ मलयोद्भवे च मेदि०
मोटक = न० मुट–ण्वुल्। श्राद्धे पितृदानार्थं १ मुग्नकुशपत्त्रद्वये २ रागिणीभेदे स्त्री हला० ङीप्।
मोटा = स्त्री मुट–अच्। बलायाम् राजनि०।
मोट्टायित = न० “कान्तस्मरणवार्त्तादौ हृदि तद्भावभावतः। प्राकट्यमभिलाषस्य मोट्टायितमुदीर्य्यते” उज्ज्वमण्युक्ते स्त्रीणामभिलाषभेदे।
मोद = पु० मुद–घञ्। हर्षे शब्दर०।
मोदक = पु० मोदयति मुद–णिच्–ण्वुल्। १ खाद्यभेदे (मोया) अमरः। शूद्रायां क्षत्रियाज्जाते २ वर्णसङ्करजातिभेदे (मयरा) स्मृतिः।
मोदमोदिनी = स्त्री मोद इव मोदयति मुद–णिनि। जम्ब्वाम् राजनि०।
मोदयन्ती = स्त्री मुद–णिच्–शतृ ङीप्। वनमल्लिकायाम् (काठमल्लिका) शब्दर०।
मोदा = स्त्री मोदयति अजान् मुद–णिच् अच्। अजमोदायाम् राजनि०।
मोदाढ्या = स्त्री मोदः अजमोदस्तेनाद्या। १ अजमोदायाम् २ हर्षयुक्ते त्रि० राजनि०।
मोदिनी = स्त्री मोदयति मुद णिच्–णिनि। १ अजमोदायाम् २ मल्लिकायाम् ३ यूथिकायां ४ कस्तूर्य्यां ५ मदिरायाञ्च राजनि०।
मोरट = न० मुर–अटन्। १ इक्षुमूले, २ अङ्कोटपुष्पे ३ सप्तरात्रोषितक्षीरे च मेदि०। ४ मूर्वालतायां स्त्री अमरः। ५ क्षीरमोरटायां पु० राजनि०।
मोषक = पु० मुष्णाति मुष–ण्वुल्। तस्करे चौरे अमरः।
मोषण = न० मुष–ल्युट्। १ लुण्ठने २ छेदने, ३ वधे च।
मोह = पु० मुह–घञ्। १ मूर्च्छायाम् भ्रान्तिसाधने २ अज्ञाने मेदि० ३ वेदान्तोक्ते अविद्यावृत्तिभेदे ३ दुःखे शब्दर० ४ देहादिष्वात्माभिमाने च।
मोहन = पु० मोहयति मुह–णिच्–ल्यु। १ धुस्तूरे राजनि० कन्दर्पस्य २ शरभेदे च त्रिका०। ३ मोहकारके त्रि० स्त्रियां टाप्। सा च ४ त्रिपुरमालीपुष्पे रत्नमा०। ५ मरुन्मायां शब्दमा०। ६ उपोदक्यां स्त्री राजनि०। ७ वटपत्र्यां भावप्र० उभयत्र गौरा० ङीष्।
मोहरात्रि = स्त्री ब्रह्मणो निजपरिमाणेन पञ्चाशदव्दे गते प्रलयभेदे “कालरात्रिर्महारात्रिर्मोहरात्रिश्च” चण्डी
मोहिनी = स्त्री मुह–णिनि। १ अप्सरीभेदे यस्याः शापात् ब्रह्मणोऽपूज्यत्वं तत्कथा ब्रह्मवै० ज० ख० ३३ अ०। अमृतमन्थनकाले दैत्यानां मोहनाय स्त्रीरूपिणि भगवदवतारभेदे च।
मौक्तिक = न० मुक्तैव स्वार्थे ठक्। मुक्तायाम् अमरः।
मौक्तिकप्रसवा = स्त्री मौक्तिकं प्रसूते प्र + सू–अच्। मुक्तास्फोटे शुक्तौ राजनि०।
मौक्तिकशुक्ति = स्त्री ६ त०। मुक्तास्फोटे शुक्तौ राजनि०।
मौञ्जी = स्त्री मुञ्जस्येयम् अण्। कटिसूत्रे त्रिरावृत्तमुञ्जकृतायां मेखलायाम् मनुः।
मौञ्जीपत्त्री = स्त्री मौञ्ज्याइव पत्रमस्याः। वल्वजायाम् राजनि०।
मौञ्जीबन्ध = पु० मौञ्ज्या मेखलाया वन्धोयत्र। १ उपनयनसस्कारे “मौञ्जीबन्धः शुभः प्राक्तश्चैत्रे मीनगते रवापि” ति ज्यो०। ल्युट् मौञ्जीबन्धन तत्रार्थे न०। “द्विठीयं मौञ्जीबन्धनम्” मनुः। ६ त०। २ तद्बन्धने च।
मौढ्य = न० मूढस्य भावः ष्यञ। १ मोहे हेम० २ बाल्ये च।
मौद्गल्य = पु० मुद्गलस्य मुनेर्गोत्रापत्यं गर्गा० यञ्। सुद्गल गोत्रापत्ये मुनिभेदे।
मौद्गीन = न० मुद्गानां भवनं क्षेत्रं खञ्। मुद्गभवनेयोग्ये क्षेत्रे अमरः।
मौन = न० मुनेर्भावः। वाग्व्यापारराहित्ये “उच्चारे मैथुने चैव प्रस्नावे दन्तधावने। स्नाने भोजनकाले च षट्सु मौनं समाचरेत्” इति स्मृतिः।
मौनिन् = त्रि० मौनमस्त्यस्व इनि। १ वाग्व्यापाररहिते। २ मुनौ पु० जटा०।
मौनेय = पु० मुनेः कश्यपपत्नीभेदस्यापत्यम् ढक्। गन्धर्वभेदे राजनि०।
मौरजिक = त्रि० मुरजस्तद्वादनं शिल्पमस्य ठक्। मृदङ्कवादनशीले अमरः।
मौर्ख्य = न० मूर्खस्य भावः ष्यञ्। १ जाड्ये हेमच० ३ मूर्खतायाञ्च
मौर्वी = स्त्री मूर्वा लता तत्तन्तुना निर्वृत्ता अण्। १ धनुर्गुणे अमरः। २ अजशृङ्ग्याञ्च रत्नमा०।
मौल = त्रि० भूलं वेत्ति मूलादागतो वाऽण्। भूम्यादेरागमादिमूलज्ञे, “यं परम्परया मौलाः सामन्ताः स्वामिनं विदु” रिति स्मृतिः २ मूलादागते च।
मौलि = पुंस्त्री० मूलस्यादूरभवः इञ्। १ चूडायां २ किरीटे ३ संयतकेशेषु अमरः ४ मस्तके हेमच०। ५ अशोकवृक्षे पु०। ६ भूमौ स्त्री मेदि० वा ङीप्।
मौषल = न० मुषलस्येदम् तत्सदृशं वाऽण्। १ मुषलसम्बन्धिनि २ मुषलतुल्यनिश्चेष्टे “गङ्गायां मौषलं स्नानं महापातकनाशनम्” इति पुराणम्। मुषलमधिकृत्य कृतो ग्रन्थः अण्। महाभारतान्तर्गते “मुषलं कुलनाशनम्” इत्यादिप्रतिपादके षोडशे ३ पर्वणि।
मौहूर्त्त = पु० मुहूर्त्तं तत्प्रतिपादकं शास्त्रं वेत्त्यधीते वाऽण्। ज्योतिःशास्त्रज्ञे। ठक्। मौहूर्त्तिक तत्रैव अमरः।
म्रा = अभ्यासे भ्वा० पर० सक० सेट्। मनति अम्नासीत् मम्नौ।
म्रक्ष = संयोजने स्नेहने च चु० उभ० सक० सेट्। म्रक्षयति ते अमम्रक्षत् त।
म्रक्ष = संघाते अक० संयोजने सक० भ्वा० पर० सेट्। म्रक्षति अम्रक्षीत्।
म्रक्षण = न० म्रक्ष–भावे ल्युट्। १ संयौजने २ राशीकरणे ३ तैले हेमच०।
म्रद = क्षोदे भ्वा० आ० सक० सेट्। म्रदते अम्रदिष्ट। घटा० म्रदयति। षित् अङ् म्रदा।
म्रदिमन् = पु० मृदोर्भावः मृदु + इमनिच् डित् ऋतोरः। मृदुत्वे।
म्रदिष्ठ = त्रि० अतिशयेन मृदुः इष्ठन् डित् ऋतोरः। अतिमृदुत्ववति। ईयसुन्। म्रदीयस् तत्रार्थे त्रि० स्त्रियां ङीप्।
म्रुच = गतौ भ्वा० पर० सक० सेट्। म्रोचति इरित् अम्रुचत् अम्रोचीत् मुम्रोच। उदित् क्त्वा वेट्।
म्रुन्च = गतौ सर्वं म्रुचवत्। म्रुञ्चति अम्रुचत् अम्नुञ्चीत्।
म्रेट(ड) = उन्मादे भ्वा० पर० सक० सेट्। म्रेट(ड)ति अम्रेटी(डी)त्। ऋदित् चङि न ह्रस्वः।
म्लक्ष = चु० म्रक्षबत् सर्वम्। म्लक्षयति ते। अमम्लक्षत् त।
म्लान = त्रि० म्लै कान्तिक्षये–क्त तस्य नः। १ मलिने हेमच० २ म्लानियुक्ते च।
म्लानि = स्त्री म्लै–क्तिन्। कान्तिक्षये।
म्लिष्ट = न० म्लेच्छ–क्त नि०। १ अविस्पष्टवाक्ये २ तद्वाक्ययुक्ते ३ म्लाने च त्रि० मेदि०
म्लुच = गतौ भ्वा० पर० सक० सेट्। म्लोचति। इरित् अम्लु चत् अम्लोचीत्। उदित् क्त्वा वेट्।
म्लुन्च = गतौ म्लुचवत् सर्वम्। म्लुञ्चति अम्लुचत् अम्लुञ्चीत्
म्लेच्छ = अपशब्दे वा चु० उभ० पक्षे भ्वा० पर० अक० सेट्। म्लेच्छयति ते म्लेच्छति अमम्लेच्छत् त अम्लेच्छीत्
म्लेच्छ = पु० म्लेच्छ–घञ्। १ अपशब्दे “म्लेच्छोह वा नाम यदप्रशब्द” इति श्रुतिः। कर्त्तरि अच्। २ पामरजातौ, ३ नीचजातौ च पुंस्त्री० स्त्रियां ङीष् “गोमांसखादको यस्तु विरुद्धं बहु भाषते। सर्चाचारविहीनश्च म्लेच्छ इत्यभिधीयते” बौधायनः। ४ पापरते त्रि० मेदि०। ५ हिङ्गुले न० राजनि०।
म्लेच्छकन्द = पु० म्लेच्छप्रियः कन्दः शा० त०। लशुने राजनि०
म्लेच्छजाति = स्त्री म्लेच्छाभिधा जातिः। गोमांसादिभक्षके किरातादिजातिभेदे अमरः।
म्लेच्छदेश = पु० म्लेच्छाधारो देशः। चातुर्वर्ण्याचाररहिते देशे अमरः। “चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते। म्लेच्छदेशः स विज्ञेय आर्य्यावर्त्तस्ततःपरम्”।
म्लेच्छभोजन = न० म्लेच्छैर्भुज्यते भुज–कर्मणि ल्युट्। १ यावके अन्नभेदे शब्दर०। २ गोधूमे पु० त्रिका०।
म्लेच्छमण्डल = न० ६ त०। म्लेच्छदेशे हेमच०।
म्लेच्छमुख = न० म्लेच्छानां मुखमिव रक्तत्वात्। ताम्रे अमरः। म्लेच्छास्यमप्यत्र हारा०।
म्लेच्छित = न० म्लेच्छ–क्त। अपशब्दे असंस्कृतशब्दे हारा०।
म्लेट(ड) = उन्मादे भ्वा० पर० सक० सेट्। म्लेट(ड) ति अम्लेटी(डी)त्। ऋदित् चङि न ह्रस्वः।
म्लेव = सेवने भ्वा० आ० सक० सेट्। म्लेवते अम्लेविष्ट। ऋदित् चङि न ह्रस्वः।
म्लै = कान्तिक्षये भ्वा० पर० सक० अनिट्। म्लायति म्लासीत् मम्लौ म्लानः म्रानिः। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये मकारादिशब्दार्थसङ्कलनम्।
***