मा = शब्दे अक० माने सक० जु० आ० अनिट्। मिमीते अमित ममे।
मा = माने अदा० प० सक० अनिट्। माति अमासीत्।
मा = माने दि० ङित् आ० सक० अनिट्। मायते अमास्त।
मा = अव्य० ङिदनुबन्धात् दैवादिकात् आदादिकाद्वा माधातोः किप्। १ वारणे। धातोर्ङित्त्वेन शब्दे ङित्त्वव्यवहारात् “न माङ्योगे” पा० ङिदनुबन्धधातुनिष्पन्न योगे न अडागमः तद्भिन्नयोगे तु स्यादेव “मा निषाद। प्रतिष्ठां त्वमगमः” इति रामायणम्। मा–क–टाप्। २ लक्ष्म्याम् मेदि० ३ मातरि च स्त्री। मा–सम्प० भावे क्विप्। ४ माने स्त्री शब्दर०।
मांस = न० मन–स दीर्घश्च। “मांस भक्षयित्रासुत्र यस्य मांसमिहाद्म्यहम्। इति मांसस्य मासत्वम्” मनूक्ते प्राणिदेहस्थशोणितपरिपाकजे धातुभेदे भावप्रकाशे मांसवर्गे तद्गुणाः उक्ता दृश्याः। पाकपचनशब्दं परे समासेऽस्यान्त्यलोपः “मांस्पचन्या उखायाः” महाभाष्यम्।
मांसच्छदा = स्त्री मांसं छादयति छद–णिच्–अच् ह्रस्वः। मांसरोहिण्यां लतायाम राजनि०।
मांसज = न० मांसाजायते जन–ड। देहस्थे मांसजन्ये मेदसि हेमच०। असृक्करशब्दे दृश्यम्।
मांसदलन = पु० मांसं प्लोहात्मकं मांसं दलयति दल–णिच्ल्यु। प्लीहघातकवृक्षे शब्दच०।
मांसद्राविन् = पु० मांसं द्रावयति णिच्–णिनि। अम्लवेतसे राजनि०।
मांसपेशि = स्त्री ६ त०। गर्भस्थावयवभेदे। वा ङीप् तत्रैव भावप्र०।
मांसफला = स्त्री मांसमिव कोमलं फलं यस्याः। वार्त्ताक्यान् राजनि०।
मांसमासा = स्त्री मस–परिणामे घञ् मांसस्य परिणामो यस्याः ५ ब०। माषपर्ण्याम् राजनि०
मांसरोहिणी = स्त्री मासं रोपयति रुह–णिच् णिनि वा न पुक्। सुगन्धिद्रव्यभेदे (चामकषा)। राजनि०।
मांसल = त्रि० मांस + बलवत्यर्थे लच। १ बलवति असर। २ स्थूले ३ पुष्टे च।
मांसलफला = स्त्री मांसलं पुष्टं फलमस्याः। वार्त्ताक्याम् राजनि०।
मांससार = पु० ६ त०। मेदसि राजनि०। मांसस्नेहादयोऽप्यत्र
मांसहासा = स्त्री मांसेन हस्यते कर्मणि घञ्। देहस्थचर्मणि शब्दर०।
मांसिक = त्रि० मांसं पण्यमस्य ठक्। मांसविक्रयोपजीविनि। (कसाइ) अमरः।
मांसिनी = स्त्री मांसस्तदाकारस्तद्वेतुत्वं वाऽस्त्यस्याः इनि। जटामांस्याम् राजनि०।
मांसी = स्त्री मांसमस्त्यस्य अच् गौ० ङीष्। १ जटामांस्याम् २ कक्कोल्याञ्च मेदि० ३ मांसच्छदायां राजनि०।
मांसेष्टा = स्त्री मांसमिष्टं यस्याः। वल्गुलायां खगभेदे राजनि०
माकन्द = पु० माति मा–क्विप माः परिमितः कन्दोऽस्य। १ आम्ने। २ आमलक्यां स्त्री राजनि० ३ नगरभेदे च स्त्री मेदि० गौरा० ङीष्। ४ पीतचन्दने शब्दच०।
माकरी = स्त्री मकरस्य तत्स्थरविककालस्य इयम् अण्। मकरस्थितरविककाले तदारब्धमाघमासस्य शुक्लसप्तम्यां “तन्मे रोगञ्च शोकञ्च माकरी हन्तु सप्तमी” ति० त०।
माक्ष = स्पृहायां भ्वा० पर० सक० सेट् इदित्। माङ्क्षति अमाङ्क्षीत्।
माक्षि(क्षी)क = न० मक्षिकाभिः सम्भृत्य कृतम् अण् पृषो० वा दीर्घः। १ मधुनि अमरः। तत्तुल्यगुणे उपधातुभेदे २ स्वर्णमाक्षिके ३ रौप्यमाक्षिके च राजनि०।
माक्षिकज = न० माक्षिकाज्जायते जन–ड। सिक्थके (मोम) राजनि०।
माक्षिकफल = पु० माक्षिकमिव मधुरं फलमस्य। मधुनारिकेले राजनि०।
माक्षि(क्षी)कशर्करा = स्त्री ६ त०। मधुजाते खण्डभेदे राजनि०
मागध = पु० मगधदेशे भवः अण्। १ श्वेतजीरके मेदि० २ स्तुतिपाठके अमसः क्षत्रियायां वैश्याजाते ३ वर्णसङ्करभेदे (भाट) च। ४ यूथिकायां ५ पिप्पल्यां स्त्री मेदि० ङीप्। ६ सूक्ष्मैलायां ७ शर्करायां शब्दच० ८ भाषाविशेषे च स्त्री हेमच०। ९ मगधदेशजाते त्रि०।
मागधखारिका = स्त्री लीलावत्युक्ते ख रिकाभेदे।
माघ = पु० मघानक्षत्रयुक्ता पौर्णमासी अण् ङीप् माघी सात्र मासे पुनरण्। चैवावधिके १ एकादशे चान्द्रे मासे। २ तत्पौर्णमास्यां स्त्री ङीप् ३ शिशुपालबधकाव्ये ४ तत्कर्त्तरि च पु०। “तावद्भा भारवेर्भाति यावन्माघस्य नोदयः” इत्युद्भटः।
माघ्य = न० माथे भवं यत्। कुन्दपुष्प अमरः।
माङ्गल्य = न० मङ्गलमेव, मङ्गलाय हितं वा ष्यञ्। १ मङ्गले २ मङ्गलसाधने च।
माङ्गल्यार्हा = स्त्री माङ्गल्यमर्हति अर्ह–अच्। त्रायमाणालतायाम् राजनि०।
माचिका = स्त्री मच–ण्वुल्। १ अम्बष्ठायां राजनि०। २ मक्षिकायाञ्च त्रिका०।
माञ्जिष्ठ = न० मञ्जिष्ठया रक्तमणे। १ रक्तवर्णे २ तद्वति त्रि०
माठर = पु० मन–अरन् ठान्तादेशः ततः स्वार्थे अण् सूर्य्यस्य परिपार्श्वं मठति मठ–अरण् वा। सूर्य्यस्य १ पारिपा र्श्विकेगणभेदे अमरः। २ व्यासे मेदि०। ३ विप्रे हेमच०। ४ शौण्डिके सि० कौ०।
माण(न)क = न० मा–अकच् णुट् मुट् वा। स्वनामख्याते कन्दभेदे “हरिद्रा माण(न)कं कचुः” नवपत्रिकोक्तौ।
माणव = पु० मनोरपत्यं अण् अल्पार्थे णत्वम्। १ अल्पवयस्के मनुष्ये शब्दच०। स्वार्थे क। तत्रार्थे हारभेदे च हेम०।
माणवीन = त्रि० माणवस्येदम् खञ्। बालकसम्बन्धिनि।
माणव्य = न० माणवाना समूहः यत्। बालकसमूहे।
माणिक्य = न० मणिरिव कायति कै–क स्वार्थे ष्यञ्। (माणिक) १ रक्तवर्णे रत्नभेदे, २ गृहगोधिकायां स्त्री हेमच०।
माणिबन्ध(मन्थ) = न० मणिबन्ध(मन्थ) पर्वते भवः अण्। सैन्धवलवणे अमरः।
मातङ्ग = पुंस्त्री० मतङ्गस्य मुनेरयम् अण्। १ गजे अमरः। २ किरातजातिभेदे स्त्रियां ङीष्। ३ जैनभेदे पु० हेमच०। ४ दशमहाविद्याभेदे स्त्री ङीप्।
मातङ्गमकर = पु० मातङ्ग इव मकरो जलजन्तुः। महामत्स्यभेदे राजनि०।
मातरपितृ = स्त्री द्वि० व० माता च पिता च द्वन्द्वे मातुर्वा मातरादेशः। मात्रापित्रोः। पक्षे मातुरानङ्। मातापितृ तयोरर्थयोः द्वि० व०।
मातरिश्वन् = पु० मातरि आकाशे श्वयति वर्द्धते श्वि–कनिन् डिच्च अलुक्स०। वायौ अमरः।
मातलि = पु० मतं साति ला–क मतलस्तस्यापत्यम् इञ्। इन्द्रसारथौ अमरः।
माता = स्त्री मा–अतच्। जनन्याम्। “विश्वेश्वरीं विश्वमाताम्” इति दुर्मास्तवः।
मातामह = पु० मातुः पिता मातृ + डामह। १ मातुः पितरि २ तत्पत्न्यां स्त्री गौरा० ङीष्।
मातुल = पु० मातुर्भ्राता मातृ–डुलच्। १ मातुर्भ्रातरि अमरः २ तत्पत्न्यां वा ङीष् वा आनुक् च। मातुलानी मातुली मातुला च। मद–णिच्–उलच् पृषो० दस्य तः। ३ धुस्तूरे ४ व्रीहिभेदे ५ मदनवृक्षे च मेदि०। ६ सर्पभेदे हेम०।
मातुलपुत्रक = न० मातुलस्य धुस्तूरस्य पुत्र इव कायति कैक। १ धुस्तूरे अमरः। ६ त० स्वार्थे क। २ मातुलसुते।
मातुलाहि = पु० मातुल इवाहिः। मालुधाने सर्पे अमरः।
मातुलुङ्ग = पु० मातुलं गच्छति गम–खच् डिच्च पृषो०। १ वीजपूरे भरतः। २ मधुकुक्कुट्याम्० स्त्री रत्नमा०। स्वार्थे क। ३ वीजपूरे अमरः।
मातृ = त्रि० मा–वृच्। १ प्रमाणकर्त्तरि २ परिमाणकर्त्तरि ३ जीवे ४ आकाशे च मातरिश्वा। मातारौ मातारः। मा–तृ। “ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी तथा। कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः” इत्युक्ते ५ शिवसहचरीभेदे। ६ जनन्याम् ७ भूमौ ८ विभूतौ शब्दर०। ९ लक्ष्म्याम् हेमच० १० रेवत्याम् अमरः ११ स्त्री गव्यां मेदि० १२ आखुकर्ण्याम् १३ इन्द्रवारुण्याम् (राखालशशा) १४ जटामांस्यां राजनि०। चण्डीप्रसिद्धासु १५ देवीशक्तिषु च। “मातॄः कोपमयाविष्टः” देवीमा०। आतिदेशिकमातरश्च ब्रह्मवै० पु० गण० ख० १५ अ० उक्ता यथा “स्तन्यदात्री गर्भधात्री भक्ष्यधात्री गुरुप्रिया। अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका। सगर्भजा या भगिनी पुत्रपत्नी प्रियाप्रसूः। मातुर्माता पितुर्माता सोदरस्य० प्रिया तथा। मातुः पितुश्च भगिनी मातुलानी तथैव च। जनानां वेदविहिता मातरः षोडश स्मृताः”। ब्रह्मवै० पु० जन्मख० ५९ अ० अन्यविधा उक्ता यथा “गुरुपत्नी राजपत्नी देवपत्नी तथा बधूः। पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली। पितृपत्नी भ्रातृपत्नो श्वश्रूश्च भगिनीसुता। गर्भधात्रीष्टदेवी च पुंसः षोडश मातरः”। तत्रैव २५ अ० “गुरोःपत्नी राजपत्नी विप्रपत्नी च या सती। पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः। प्रसूः पित्रोस्तयोर्भ्रातुःपत्नी श्वश्रूः स्वकन्यका। जननी तत्सपत्नी च भगिनी सुरभी तथा। स्वाभीष्टसुरपत्नी च धात्री कान्ता प्रदायिका। गर्भधात्री स्वनाम्नी च भयात्रातुश्च कामिनी। एता वेदप्रणीताश्च सर्वेषां मातरः स्मृतः”। अस्य रूपं मातरौ मातरः। वृद्ध्यादौ पूज्यासु गौर्य्यादिषु १६ देवीशक्तिभेदेषु “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना स्वधा स्वाहा मातरो लोकमातरः। शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह” शु० त० गृह्यपु०।
मातृका = स्त्री मातेव कायति कै–क। १ उपमातरि २ ब्रह्माण्यादिषु चण्डीप्रसिद्धदेवीमूर्त्तिषु ३ सर्वशब्दोत्पादकेषु अकारादिकोनपञ्चाशद्वर्णेषु ४ मातरि च मेदि०। मातृ + स्वार्थे क। मातृशब्दार्थे।
मातृबन्धु = पु० ६ त०। “मातुः पितुःष्वसुः पुत्रा मातुर्मातुःष्वसुः सुताः। मातुर्मातुलपुत्राश्च विज्ञेया मातृबन्धवः” इत्युक्तेषु मातुः पितृष्वस्रीयादिषु। मातृबान्धवोऽप्यत्र।
मातृष्वसृ = स्त्री ६ त०। मातुर्भगिन्याम् अलुक्स० उभयत्रं षत्वम्। मातुःष्वसाप्यत्र।
मातृष्वस्रेय = पु० मातृष्वसुरपत्यम् ढक्। १ मातुर्भगिनीपुत्रे २ तत्कन्यायां स्त्री ङीप। छण्। मातृष्वस्रीयोऽप्यत्र।
मातृसिंही = स्त्री मातुः प्रमातुः सिंहीव। वासकवृक्षे शब्दर०
मात्र = न० मा–त्रन्। १ साकल्ये २ अवधारणे च अमरः। ३ परिच्छदे ४ अल्पे ५ परिमाणे स्त्री अमरः। ६ कर्णभूषायाम् ७ वित्ते ८ वर्णावयवभेदे च स्त्री मेदि०। “कालेन यावता पाणिः पर्य्येति जानुमण्डम्। सा मात्रा कविभिः प्रोक्ता” इत्युक्ते ९ ह्रस्ववर्णोच्चारणकाले च स्त्री। “एकमात्रो भवेद् ह्रस्वः”। मीयस्तेऽनया विषयाः मा–करणे च्छ्रन्। १० इन्द्रियवृत्तौ। “मात्रास्पर्शास्तु कौन्तेय!” गीता।
मात्रापताका = स्त्री छन्दोग्रन्थोक्ते मात्रावृत्तस्थलथुगुरुज्ञानानुगुणे पताकाकारे चक्रे।
मात्रामर्कटी = स्त्री कन्दोग्रन्थोक्ते मात्रावृत्तस्थलघुगुरुज्ञानानुगुणे मर्कटीजालचक्रभेदे।
मात्रामेरु = पु० छन्दोग्रन्थोक्ते मात्रावृत्तस्थलघुगुरुज्ञानानुनुणे मेरुचक्रे।
मात्रावृत्त = न० मात्रया कृतं वृत्तम्। आर्य्यादौ छन्दोभेदे।
मात्सर्य्य = न० मत्सरस्य भावः ष्यञ्। परगुणद्वेषे “मात्सर्य्य० मुत्सार्य्य विचार्य्य धूर्य्याः” सा० द०।
माथ = बधे सक० क्लेशे अक० भ्वा० प० सेट् इदित्। मान्यति अमान्वीत्
माथ = पु० मथ–घञ्। १ पथि त्रिका०। २ मन्थने शब्दर०।
माथुर = त्रि० मथुरायां भवो मथुरायाः आगतो वा अण्। १ मथुरानगरीभवे, २ तत आगते च।
माद = पु० मद–घञ्। १ दर्पे २ हर्षे च भरतः।
मादक = त्रि० मदयति मद–णिच्–ण्वुल्। १ मत्तताकारके द्रव्ये। माद्यति कर्त्तरि ण्वुल्। २ दात्यूहे पुंस्त्री० शब्दमा० स्त्रियां ङीष्।
मादन = न० मादयति मद–णिच्–ल्यु। १ लवङ्गे शब्दच०। २ कामदेवे ३ मदनवृक्षे च पु०। ४ विजयायां राजनि० ५ माकन्दाञ्च स्त्री भावप्र० गौरा० ङीष्। ६ हर्षकारके त्रि०।
मादृ(क्ष)(श)श् = त्रि० ममेव दर्शनमस्य दृश्–क्स ट क्विप् वा। मम तुल्यदर्शने मत्सदृशे।
माद्री = स्त्री मद्रे भवा अण्। १ पाण्डुराजस्य द्वितीयपत्न्याम् २ अतिविषायाञ्च राजनि०।
माधव = पु० माया धवः। १ नारायणे। मधु + स्वार्थे अण्। २ वसन्ते विश्वः “स माधवेनाभिमतेन सख्या” कुमारः। मधुने पुष्परसाय मद्याय वा हितः अण्। ३ वैशाखे मासि तस्य बहुपुष्पवत्त्वाम् तद्धित्वम्। ४ मधूकवृक्षे तत् पुष्पेण हि मद्यसम्भवः। ५ कृष्णमुद्गे च राजनि०। मधु बाहुल्येनास्त्यस्याः अण् ६ वासन्तीलतायाम् स्त्री ङीप्।
माधवीलता = स्त्री कर्म०। स्वनामख्यातायां लतायाम् अमरः
माधवेष्टा = स्त्री माधवे वैशाखे माधवस्य कृष्णस्य वा इष्टा। वाराहीकन्दे राजनि०।
माधवोचित = न० माधवे उचितः। १ कक्कोलके राजनि० २ माधवप्रिये त्रि०।
माधवोद्भव = पु० माधवे वैशाखे उद्भवति फलवत्त्वेन उद् + मूअच्। (पियाल) राजादन्याम् राजनि०।
माधुर = न० मधु–राति भ्रमरेभ्यो ददादि रा–क–स्वार्थे, मधुरस्येदं वा अण्। १ मल्लिकापुष्पे त्रिका०। २ मधुरसम्भवेत्रि०।
माधुरी = स्त्री मधुरस्य भावः ष्यञ् माधुर्य्यं षित्त्वात् स्त्रीत्व पक्षे ङीष् यलोपः। १ माधुर्य्ये अधुरत्वे, “सद्यस्खलन्माधुरी धारा” इत्युद्भटः। मधुरा + स्वार्थे अण्। २ मदिरायाम्
माधुर्य्य = न० मधुरस्य भावः ष्यञ्। १ मधुरत्वे “चित्तद्रवीभावमयो ह्लादो माधुर्य्यमुच्यते” सा० द० उक्ते २ काव्य गुणभेदे च। तद्व्यञ्जकवर्णाश्च तत्रोक्ता यथा “मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताः टठडढान् विना। रणौ लघु च तद्व्यक्तौ वर्णाः कारणतां गताः। अवृत्तिरल्पवृत्तिर्वा मधुरा रचना मना”। तच्च सम्भोगशृङ्गादावनुगुणं यथोक्तं तत्रैव “सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ३ लावण्ये हेम०। “रूपं किमप्यनिर्वाच्यं तनोर्माधुर्य्यमुच्यते” उज्ज्वलमणौ तल्लक्षणमुक्तम्।
माध्यन्दिन = न० मध्यन्दिनमेव–अण्। मध्यमदिने तत्र पाठ्यः अण्। शुक्लयजुर्वेदीयशास्वाभेदे।
माध्वीक = स्त्री मधुना मधूकपुष्पेण निर्वृत्तम् ईकक्। १ मधूकपुष्पजाते मद्ये अमरः। मधु एव अण् स्वार्थे ईकक्। २ द्रा फले “साध्वी माध्वीक! चिन्ता विजहत्विति जयदेवः।
माध्वीकफल = पु० माध्वीकमिव मधुरं फलमस्य। मधुनारिकेले राजनि०।
माध्वीमधुरा = पु० माध्वीकमिव मधुरा पृषो० कलोपः। मधुरखर्जूरिकायाम् राजनि०।
मान = विचारे भ्वा० सक० सेट स्वार्थे सन् नेट्। मीमांसते अमीमांसिष्ट अर्चायां च तत्र न स्वार्थे सन्।
मान = अर्च्चे वा चु० उ० पक्षे भ्वा० पर० सक० सेट्। मानयति ते मानति अमीमनत्–त अमानीत्।
मान = न० मा–ल्युट्। १ परिमाणे हस्ततुलाप्रख्याद्यैर्द्रव्यपरिच्छेदे भावप्र० मानपरिभाषा कर्षशब्दे दृश्या। २ प्रमाणे “मानाधीनामेयसिद्धिः” भीमांसकाः। गानाङ्गे कालक्रियायां तालविरामोपलक्षिते ३ कालव्यापारे च मेदि०। मन–घञ्। आत्मनि उत्कर्षाभिमानात्मिकायां ४ चित्तसमुन्नतौ पु० अमरः। “स्वाभीष्टाश्लेषवीक्षादिविरोधी मान उच्यते” इत्युक्ते ५ अनुरक्तदम्पत्योः ६ अवस्थाभेदे पु०। “मुञ्च मयि मानमनिदानम् जयदेवः। ७ सम्माने च।
मानग्रन्थि = पु० मानस्य ग्रन्थिर्बन्धनं यस्मात्। अपराधे हारा०
मानरन्ध्रा = स्त्री मानाय कालप्रमाणज्ञानाय रन्ध्रं यस्याः। ताम्रनिर्मिते सच्छिद्रे कालज्ञानहेतौ घटीयन्त्रभेदे त्रिका०।
मानव = पु० मनोरपत्यम् अण्। १ मनुष्ये अमरः। स्त्रियां जातौ ङीष्। सा च २ स्वायम्भुवकन्यायाम् भारतम्। ३ शासनदेवताभेदे हेमञ्च०। २ बाले पु० शब्द र०।
मानस = न० मन एव अण्। १ मनसि अमरः। कैलासान्तिकस्थे ब्रह्मणा मनसा कृते २ सरोवरभेदे च। मनस इदम् अण्। ३ चित्तसम्बन्धिनि त्रि०।
मानसव्रत = न० मनसा कृतं मानसं कर्म०। “अहिंसासत्यमस्तेयं ब्रह्मचर्य्यमलुब्धता। एतानि मानसानि स्युर्व्रतानि” इत्युक्तेषु अहिंसादिषु।
मानसौकस् = पु० मानसमोको यस्य। हंसे अमरः मानसालयादयोऽप्यत्र।
मानिनी = स्त्री मान–इनि ङीप्। १ फलीवृक्षे मेदि० २ मनिवत्यां स्त्रियां च। ३ मानयुते त्रि० ४ सिंहे पु० राजनि०।
मानुष = पु० मनोरयम् अण् सुक् च। मानवे, ततोजातौ स्त्रियां ङीप् मानुषी। मानुषस्येदम् अण्। २ मनुष्यसम्बन्धिनि त्रि० स्त्रियां ङीप् सा च ३ चिकित्साभेदे शब्दर०।
मानुष्य = न० मादुषस्य भावः यत्। मनुष्यत्वे।
मानोज्ञक = न० मनोज्ञस्य भावः मनोज्ञा० वुञ्। मनोहरत्वे
मान्द्य = न० मन्दस्य भावः ष्यञ्। १ रोगे हेम० २ मन्दतायाञ्च।
मान्धातृ = पु० मामिन्द्रं धयति धे–वृच्। “मामयं धास्यतीत्यस्मात् मान्धातासौ प्रकीर्त्तितः” इति निरुक्ते युवनाश्वराजपुत्रे नृपभेदे।
मान्य = पु० मान–अर्च्चायां कर्मणि ण्यत्। १ पूज्ये जटा०। २ मरुन्मालायां स्त्री शब्दमा०।
मामक = त्रि० मम–इदम् अस्मद् + बुण् ममादेशः। मत्सम्बन्धिनि खञ्। मामकीनोप्यत्र।
माया = स्त्री मा–यत् बा० नैत्त्वम्। १ छद्मनि कापट्ये अमरः। २ इन्द्रजालादौ ३ मिथ्याबुद्धिहेत्वज्ञानभेदे, ४ कृपायां ५ दम्भे ६ लक्ष्म्यां च मेदि०। ७ बुद्धमातरि स्त्री अमरः। ८ ईश्वरस्योपाध्रौ, अघटनघटनसाधिकायां शक्तौ वेदान्त०। ९ पीताम्बरे १० असुरभेदे पु० मेदि०।
मायाकृत् = पु० मायामिन्द्रजालं करोति कृ–किप्। मायाकरे (बाजीकर) शब्दर०।
मायादेवीसुत = पु० ६ त०। बुद्धे अमरः।
मायावत = त्रि० माया + अस्त्यर्थे मतुप् मण्ड वः। १ माया विशिष्टे० २ कंसराजे पु० शब्दर०। ३ कामपत्न्यां स्त्री ङीप् जटा०।
मायाविन् = त्रि० माया + अस्त्यर्थे विनि। १ मायाकरे स्त्रियां ङीप् २ विडाले पु० राजनि०।
मायिक = त्रि० मायास्त्यस्य ठन्। मायाकरे जटा०। इनि मायीप्यत्न।
मायु = पु० मा–यु नाऽनादेशः। देहस्थे पित्ते धातौ अमरः।
मायूर = न० मयूराणां ममूहः तस्येवं वा अण्। १ मयूरसङ्घे। २ मयूरसम्बन्धिनि त्रि० स्त्रियां ङीप्।
मायूरी = स्त्री मयूरस्येदं प्रियत्वात् अण् ङीप्। अजमोदायाम् राजनि०।
मार = पु० मृ–घञ्। १ मरणे। मारयति मृ–णिच्–अच्। २ कामदेवे ३ विघ्ने मेदि०। ४ धुस्तूरे च शब्दच०।
मारक = पु० मृ–णिच्–ण्वुल् मृ–णिच् घञ् स्वार्थे क वा। १ मरके मारिभये त्रिका०। (वाज) २ पक्षिभेदे च। ३ नाशके त्रि०। जन्मलग्नावधिकाष्टमस्थानपतौ ४ ग्रहभेदे पु० “भाग्यव्ययाधिपत्येन रब्ध्रेशोमारकः स्मृतः” पराशरः। ५ द्वितीयसप्तमाधीशे च मारकस्थानशब्दे दृश्यम्।
मारकस्थान = न० मारणकारणे स्थाने। “अष्टम चायुषः स्थानमष्टमादष्टमञ्च यत्। तयोरपि व्ययस्थानं मारकस्थानमुच्यते, इत्युक्ते जन्मलग्नात् सप्तमे द्वितीये च स्थाने।
मारजित् = पु० मारं कामं जितवान् जि–भूते क्विप्। १ जिनदेवे अमरः।
मारण = न० मृ–णिच्–भावे ल्युट्। १ बये अमरः। करणे ल्युट्। वैरिबधसाधने तन्त्रोक्ते अभिचारकर्मभेदे च।
मारि(री) = स्त्री मृ–णिच्–इन्। १ मारणे। वा ङीप्। “मारीभये राजभये” इति वटुकस्तवः। ङीवन्तः २ दुर्गाशक्तिभेदे मेदि०।
मारिष = पु० रिष–हिंसायाम् क निषेधार्थकमाशब्देन स०। नाट्योक्तौ १ आर्य्ये हिंसानिवारकतया तस्य तथात्वम्। २ तण्डुलीयशाके च अमरः। ३ दक्षमातरि स्त्री मेदि० दाप्
मारीच = पु० तारकाराक्षसीपुत्रे रावणानुचरे १ राक्षसविशेषे २ कक्कोलके ३ याजकब्राह्मणे मेदि०। ४ राजगजे पुंस्त्री० जटा० स्त्रियां ङीष्।
मारुतव्रत = न० “प्रविश्य सर्वभूतानि यथा चरति मारुतः। तथाचरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम्” मनूक्ते राज्ञां धर्मभेदे।
मारुतात्मज = पु० ६ त०। १ हनुमति २ भीमे च इञ्। मारुतिरप्यत्र।
मारुतापह = पु० मारुतं वायुदोषमपहन्ति अप + हन–ड। १ वरुणवृक्षे राजनि०। २ वायुदोषनाशके त्रि०।
मार्कण्ड = पु० मृकण्डोरपत्यम् अण् पृषो०। १ मुनिभेदे तत्सृष्टे २ लताभेदे (भु~खखसा) स्त्री भावप्र० स्वार्थे क। तत्रार्थे।
मार्कण्डेय = पु० मृकण्डोरपत्यं शुभ्रा० ढक् पृषो०। १ मृकण्डुमुनिपुत्रभेदे तेन प्रोक्तम् अण्। व्यासप्रणीते पक्षि मार्कण्डेयसंवादरूपे २ महापुराणभेदे न०। तत्प्रतिपाद्यविषयाश्च नारदपु० पूर्वभागे ९७ अ० उक्ता यथा। “यत्राधिकृत्य शकुनीन् सर्वधर्मनिरूपणम्। मार्कण्डेयेन मुनिना जैमिनेः प्राक् समीरितम्। पक्षिणां धर्मसंज्ञानां ततो जन्मनिरूपणम्। पूर्वजन्मकथा चैषां विक्रिया च दिवस्पतेः। तीर्थयात्रा बलस्यातो द्रौपदेयकथानकम्। हरिश्चन्द्रकथा पुण्या युद्धमाजीवकाभिधम्। पितापुत्रसमाख्यानं दत्तात्रेयकथा ततः। हैहयस्याथ चरितं महाख्यानसमाचितम्। मदालसाकथा प्रोक्ता ह्यलर्काचरिताचिता। सृष्टिसंकीर्त्तनं पुण्यं नवधा परिकीर्त्तितम्। कल्पान्तकालनिर्देशो यक्ष्मसृष्टिनिरूपणम्। रुद्रादिसृष्टिरप्युक्ता द्वीपवर्षानुकीर्त्तनम्। मनूनाञ्च कथा नाना कीर्त्तिताः पापहारिकाः। तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेऽन्तरे। तत्पश्चात् प्रणवोत्पत्तिस्त्रयोतेजःसमुद्भवः। मार्त्तण्डस्य च जन्माख्या तन्माहात्स्यसमाचिता। वैवस्वतान्वयश्चापि वत्सप्र्यश्चरितं ततः। खनित्रस्व ततः प्रोक्ता कथा पुण्या महात्मनः। अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम्। नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः। तुलस्याश्चरितं पश्चाद्रामचन्द्रस्य सत्कथा। कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम्। पुरूरवःकथा पुण्या नहुषस्य कथाद्भुता। ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम्। श्रीकृष्णवालचरितं माथुरं चरितं ततः। द्वारकाचरितञ्चाथ कथा सर्वावतारजा। ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्वकीर्त्तनम्। मार्कण्डेयस्य चरितं पुराणश्रवणे फलम्”। यः शृणोति नरो मक्त्या पुराणमिदमादरात्। मार्कण्डेयाभिधं वत्स! स लभेत् परमां गतिम्। यस्तु व्याकुरुते चैतच्छैवं स लभते पदम्। तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम्। कार्त्तिक्यां द्विजवर्य्याय स लभेद् ब्रह्मणः पदम्। शृणोति श्रावयेद् वापि यश्चानुक्रमणीमिमाम्। मार्कण्डेयपुराणस्य स लभेद् वाञ्छितं फलम्”।
मार्कव = पु० मारयति क्विप्–मारि केशक्लेशे कूयते कू अच्। भृङराजे (केशरिया) अमरः।
मार्ग = संस्कारे सर्पणे च चुरा० उम० सक० सेट्। मार्गयति अममार्गत् त।
मार्ग = अन्वेषणे वा चु० उभ० पक्षे भ्वा० प० सक० सेट्। मार्ग- थति–ते मार्गति। अममार्गत् त। अमार्गीत्।
मार्ग = पु० मृज–शुद्धौ–मार्ग–अन्वेषणे वा घञ्। १ पथि अमरः। तद्भेदा यथा “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः। विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु। धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः। नृवाजिरथनागानामसम्बाधः सुसञ्चरः। धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः। त्रिकराश्चोपरथ्यास्तु द्विकरावोपरथ्यका। जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम्। व्रतिपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः। अवकरः परिवारः पादमात्रः समन्ततः। प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि” देवीपु०।
मार्गण = न० मार्ग–ल्युट्। १ अन्वेषणे अमरः। २ याचने ३ प्रणये च मेदि०। कर्त्तरि ल्यु। ४ याचके त्रि० ५ शरे पु० अमरः।
मार्गशिर = पु० मृगशिरया युक्ता पौणैमासी अण् सा थत्र मासे पुनरण्। चान्द्रे १ अग्रहायणे मासि २ तत्पौर्णमास्यां स्त्री ङीप् शब्दर०।
मार्गशीर्ष = पु० साधनं मार्गशिरवत्। १ अग्रहायणे मासि। अमरः। २ तत्पौर्णमास्यां स्त्री ङीप्।
मार्गित = त्रि० मार्ग–क्त। अन्वेषिते।
मार्ज्ज = मार्जने सक० ध्वनौ अक० चुरा० उभ० सेट्। मार्जयति–ते अममार्जत्–त।
मार्ज्जन = न० मृज–ल्युट्। प्रोञ्छनादिना निर्मलीकरणे। युच्। तत्रैवार्थे स्त्री। सा च २ मुरजघ्वनौ हेमच०। करणेल्युट्। सम्मार्जन्याम् (झा~टा)। स्त्री ङीप् अमरः।
मार्ज्जार(ल) = पुंस्त्री० मृज–आरन् वा रस्य लः। १ विडाले अमरः स्त्रियां ङीष्। २ रक्तचित्रके पु० राजनि०। ३ खट्टासे च हेमच०। ततः संज्ञायां कन्। मयूरे।
मार्ज्जारगन्धा = स्त्री मार्ज्जारस्येव गन्धो यस्याः। मुद्गपर्णीभेदे रत्नमा०। स्वार्थे क अत इत्त्वम्। तत्रैव।
मार्ज्जारी = स्त्री मृज–आरक् गौरा० ङीष्। १ कस्तूर्य्याम् २ खट्टासजन्तौ २ मार्जारयोषिति च मेदि०।
मार्ज्जारी(ली)य = पुंस्त्री० मार्ज्जार + (ल) स्वार्थे छ, मृजआरीयक् रस्य लत्वम् वा। १ विडाले २ शूद्रे च स्त्रियां टाप् ३ कायशोधने पु० मेदि०।
मार्जित = पु० मार्ज–क्त। २ शोधिते। दधि–खण्डमधुसर्पिर्मरिचादिकृते कर्पूरादिवासिते भक्ष्यभेदे स्त्री (रसा)। भरतः
मार्त्तण्ड = पु० मृते अण्डे भवः अण् शक०। १ सूर्य्ये। तस्य मृताण्डजन्म च “मारितञ्च यतः प्रोक्तमेतदण्डं त्वयोदित। तस्मान्मुने! सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यतति” मार्क० पु०। २ अर्कवृक्षे अमरः। ३ शूकरे पुंस्त्री० मेदि० स्त्रियां ङीष्।
मार्त्तिक = न० मृत्तिकया निर्मितम् अण्। १ शरावे (शरा) शब्दर०। २ मृण्मये त्रि०।
मार्द्दङ्गिक = त्रि० मृदङ्गः तद्वादनं शिल्पमस्य टक्। मृदङ्गवादके अमरः।
मार्द्दव = न० मृदोर्भावः अण्। १ मृदुत्वे २ परदुःखासहिष्णुतायाम् ३ द्रवीभावे च “अभितप्तमेयोऽपि मार्द्दवं भजते कैव कथा शरीरिणाम्” रघुः। ४ सङ्कीर्णजातिभेदे पुंस्त्री० जटा०। स्त्रियां ङीष्।
मार्ष = पु० मृष–क ततः स्वार्थे अण्। १ तण्डुलीयशाके भरतः २ नाट्योक्तौ श्रेष्ठे हेमच०।
मार्ष्टि = स्त्री मृज–क्तिन्। शोधने।
माल = पु० मल–संज्ञायां कर्त्तरि घञ्। “माला मिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः” हेमच० उक्ते १ म्लेच्छभेदे २ विष्णौ पु० भरतः। ३ देशभेदे ४ क्षेत्रे मेदि० ५ कपटे ६ वने हेमच०।
मालक = न० मल ण्वुल्। १ स्थलपद्मे जटा०। २ नारिकेलपात्रभेदे पु० (माला)। ३ निम्बवृक्षे पु० अमरः।
मालकोश = पु० रागभेदे तस्य गानसमयः शरद्वतौ रात्रिशेषः।
मालती = स्त्री मां लक्ष्मीं शोभां वा लतति वेष्टते लत–अच् ६ त० ङीप्। १ जातीलतायां २ युवत्यां अमरः। ३ काकमाच्यां ४ नदीभेदे ५ विशल्यायां ज्योत्स्नायां ७ निशायाञ्च हेमच०।
मालतीतीरज = पु० मालत्या नदीभेदस्य तीरे जायते जनड। टङ्कणे (सोहागा) हेम०। मालतीतीरभवादयोऽप्यत्र
मालतीपत्री = स्त्री मालत्यास्तन्नामकजात्याइव पत्रमस्याः। जातीपत्र्याम् (जैयत्री) राजनि०।
मालतीफल = न० मालत्यास्तनामकजात्याः फलम्। (जायफल) जातीफले राजनि०।
मालभारिक = त्रि० मालानां भारोऽस्त्यस्य ठन् पूर्वपदह्रस्वः। मालानां मारवति।
मालव = पु०। १ अवन्तिदेशे (मालओयार देश) २ रागभेदे च सङ्गीतदा०।
मालविका = स्त्री मालवे भवा ठक्। त्रिवृति (तेओडि) राजनि०।
मालसी = स्त्री मालं मलनं जटादिना दुष्टत्वं स्यति सी–क गौरा० ङीष्। १ केशपुष्टिकारके वृक्षे शब्दच०। २ रागिणीभेदे च मङ्गीतदा०।
माला = स्त्री मल–संज्ञायां कर्त्तरि घञ्। १ चेण्यां हेम- जपसंख्यार्थे रुद्राक्षादिवीजसघात्मके २ माल्यभेदे च।
मालाकण्ट = पु० मालाकारः कण्टः कण्टको यस्य। अपामार्गे राजनि०।
मालाकन्द = पु० मालाकारः कन्दो यस्य। मूलभेदे राजनि०।
मालाकार = पुंस्त्री० मालां करोति कृ–अण्। (माली) १ वर्णसङ्करभेदे स्त्रियां ङीष्। २ माल्यकारके त्रि०।
मालाग्रन्थि = पु० मालया ग्रन्थिरत्न। मालादूर्वायाम् राजनि०
मालातृण = न० मालाकारं तृणम्। भूस्तृणे अमरः। स्वार्थे क। तत्रैव।
मालादीपक = म० अर्थालङ्कारभेदे अलङ्कारशब्दे दृश्यम्।
मालादूर्वा = स्त्री मालाकारा दूर्वा। (गाठिदूर्वा) दूर्वाभेदे राजनि०।
मालारिष्टा = स्त्री मालाभतमरिष्टं यस्याः ५ ब०। पाच्याम् राजनि०
मालाली = स्त्री मालामलति भूषयति अक–अण् ङीप्। पृकायां (पिडिङ्गशाक) राजनि० स्वार्थे क। तत्रैव।
मालिक = पुस्त्री० माला तन्निर्माणं शिल्पमस्य ठन। १ मालाकारे जातिभेदे अमरः २ पक्षिभेदे पुंस्त्री० मेदि० स्त्रियां ङीष्। ३ रञ्जके शब्दर०। ४ माल्यकारके त्रि०।
मालिका = स्त्री मालैव कन् अत इत्त्वम्। १ वनमल्लिकायां २ ग्रोवालङ्करणे ३ नदीभेदे ४ पुष्पमाल्ये ५ पुत्र्याञ्च मेदि० ६ सुरायां हारा०। ७ अतस्याम् शब्दच० “पाशाक्षमालिकाम्भोज” इति लक्ष्मीध्यानम्।
मालिन् = पु० माला शिल्पमस्त्यस्य इनि। १ मालाकारे २ माल्यवति त्रि० ३ मालाकारपन्त्र्यां ४ पञ्चदशाक्षरपादके, “ननमयययुतेयं मालिनी भोगिलोकैः” वृ० र० उक्ते ५ छन्दोभेदे। ६ गौर्य्याम् ७ चम्पानगर्य्यां ८ मन्दाकिन्यां कण्वाश्रमान्तिकस्थे ९ नदीभेदे १० मातृकाभेदे च स्त्री मेदि० ङीप्। ११ अग्निशिखावृक्षे दुरालाभायां स्त्री शब्दच० ङीप्।
मालु = स्त्री मल–उण्। १ पत्रलतायां (पातलता) २ नार्य्याञ्च मेदि०
मालुधान = पु० मालुरिव पत्रलतेव धीयतेऽसौ धा–कर्मणि ल्युट्। (मालुयासाप) १ सर्पभेदे अमरः। २ लताभेदे रत्वो ङीप् मेदि०।
मालूर = पु० मां लक्ष्मीं परेषां लुनाति लू–रक्। १ विल्वे अमरः २ कपित्वे च राजनि०।
मालेय = त्रि० मालायां साधुः ढक्। १ मालारचनानिपुणे २ स्थूलैलायां स्त्री रत्नमा०।
माल्य = न० मालायै हितं यत्। १ पुष्पे। स्वार्थे ष्यञ्। २ पुष्पमालायाम्। ३ मूर्द्धिस्थायां पुष्पमालायाञ्च अमरः।
माल्यपुष्प = पु० मालायै हितं माल्यं पुष्पमस्य। १ शणवृच २ शणपुष्प्याम् स्त्री राजनि० ङीप्। कप्। माल्यपुष्पिका तत्रैवार्थे।
माल्यवत् = त्रि० माल्यमस्त्यस्य मतुप् मस्य वः। १ माल्ययुक्त केतुमालेनावृतवर्षयोः सीमाभूते २ पर्वतभेदे ३ सुकेशराक्षस पुत्रे रावणमन्त्रिणि राक्षसभेदे च।
माशब्दिक = त्रि० मेति शब्दं निषेधाय करोति ठक्। निषेधके त्रिका०।
माष = पु० मप–संज्ञायां कर्त्तरि घञ्। (माषकलाइ) व्रीहिभेदे “दशार्द्धगुञ्जं प्रबदन्ति माषम्” इत्युक्ते “गुञ्जाभिर्दशभिर्माष इत्युक्ते च २ परिमाणभेदे। स्वार्थे क। तत्रार्थे।
माषकलाय = पु० माषाख्यः कलायः। स्वनामख्याते व्रीहौ
माषपर्णी = स्त्री माषस्येव पर्णान्यस्याः ङीप्। वनमाषे अमरः
माषभक्तबलि = पु० माषमिश्रितं भक्तमेव बलिः पूजोपहार द्रव्यम्। माषमिश्रिते भक्तरूपे पूजोपहारे।
माषवर्द्धक = पु० माषं माषपरिमितं स्वर्णं वर्द्धयति आच्छिनत्ति अपहरति वृध–छेदने ण्वुल्। स्वर्णकारे शब्दमा०।
माषीण = न० माषाणां भवनं क्षेत्रं खञ्। माषव्रीहिभवन योग्ये क्षेत्रे। यत्। माष्यमप्यत्र।
मास् = पु० माति परिच्छिनत्ति स्वगत्या कालस् मा–असुन्। १ चन्द्रे २ त्रिंशदिनात्मककालरूपे मासे च।
मास = पु० माएव अण्। १ चन्द्रे त्रिंशद्दिनात्मके २ काले च। स च सौरसावनचान्द्रनाक्षत्रभेदाच्चतुर्विधः। मासश्चन्द्रस्वयम् अण्। ३ चान्द्रे मासे तु मुख्यः। मस्यते परिमीयतेऽनेन मस परिमाणे करणे घञ्। परिमाणपञ्चगुञ्जात्मके भरतः। स्वार्थे क। मासक तत्रैवार्थे।
मासन = न० मासं नयति नी–ड। सोमराजीलतायाम् शब्दच०।
मासप्रमित = पु० मासं प्रमातुमारब्धः प्र + मा–क्त। “कालाः परिमाणे” पा० स०। प्रतिपच्चन्द्रे।
मासर = पु० मस–परिणामे घञ् मासं परिणामं राति रो–क। भक्तमण्डे अमरः।
मासान्त = पु० मासस्य सौरस्य चान्द्रस्य वाऽन्तः अबमानम् मासावसाने संक्रान्त्यादौ।
मासिक = त्रि० मासे भवः कालाट्टञ्। १ मासभवे प्रेतोद्देशेन मृतसञ्जातीयतिथौ, पतिमासम् अमावस्यायां च कर्त्तव्ये २ श्रा न०। “मासि मासि स्वकीये तु” स्मृतिः। “पितॄणां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुध।” स्मृतिः।
मास्म = अव्य० मस० णिच्–बा० मप्। निवारणे।
माह = माने भ्वा० उम० सक० सेट्। माहति ते अमाहीत् अमाहिष्ट। ऋदित् चङि न ह्रस्वः।
माहाकुल = त्रि० महाकुले भवः अण् महाकुलोद्भवे। स्वञ् माहाकुलीनोऽप्यत्र त्रि०।
माहात्म्य = न० महात्मनो भावः ष्यञ्। महिमनि महत्त्वे।
माहिष = न० महिष्या इदम् अण्। १ महिषीदुग्धादौ महिषस्येदम् अण्। २ तच्छृङ्गादौ त्रि०।
माहिषिक = पु० “महिषीत्युच्यते नारी या च स्याद् व्यभिचारिणी। तां दुष्टां कामयति यः स वै नाहिषिकः स्मृतः” कालीपु० उक्ते १ व्यभिचारिणीपतौ “महिषीत्युच्यते नार्य्या भगेनोपार्जितं धनम्। उपजीवति यस्तस्याः स वै माहिषिकः स्मृतः” विष्णुपु० व्याख्यायां श्रीधरधृतवाक्योक्ते व्यभिचारिस्त्रिया २ भगोपार्जितद्रव्यो जीविनि च।
माहिष्य = पु० महिष्यां भवः ष्यञ्। क्षत्रेण वैश्यायामुत्पादिते सङ्करजातिभेदे अमरः।
माहेन्द्र = पु० महेन्द्रस्यायम् अण्। ज्योतिषोक्ते महेन्द्रसम्बन्धिनि १ दण्डभेदे। २ पूर्वस्यां दिशि ३ इन्द्रपत्न्यां ३ गवि च स्त्री राजनि० ङीप्।
माहेय = पु० मह्या अपत्यम मही + ढक्। १ मङ्गले २ नरकासुरे च स्त्रीगव्या स्त्री अमरः ङीप्।
माहेश्वर = त्रि० महेश्वरादधिगतम् तत्य आगत अण्। १ महेश्वरतः प्राप्ते सि० कौ०। २ यवतिक्तायां स्त्री राजनि० ङीप् तस्येदम् अण् “माहेश्वरी वृषारूढा” इत्युक्ते ३ मातृभेदे ४ दुर्गामात्रे स्त्री ङीप्।
मि = क्षेपे स्वा० उभ० सक० अनिट्। मिनोति मिनुते अमासीत् अमास्त। ड्वित् क्त्रि मप् च मित्रिमम्।
अनु + व्याप्तिहेतुके परामर्शाधीनज्ञाने।
उप + सादृश्यहेतुके ज्ञानभेदे।
प्र + यथार्थज्ञाने।
मिच्छ = बाधे तुदा० पर० सक० सेट्। मिच्छति अमिच्छीत्।
मित = त्रि० मि मा–वा–क्त। १ परिमिते, २ शब्दिते ३ क्षिप्ते च।
मितङ्गम = पुंस्त्री० मितं परिमितं मृदु–गच्छति गम–खच् मुम् च। १ गजे सि० कौ० स्त्रियां ङीष्। २ परिमितगामिनि त्रि० स्त्रियां टाप्।
मितद्रु = पु० मितं द्राति द्रवति वा कु नि०। समुद्रे हेमच०।
मितम्पच = पु० मितं पचति पच खच् मुम् च। १ कृपणे अनरः। २ परिमितपाचके त्रि०।
मिति = स्त्री मा–मि–वा क्तिन्। १ ज्ञाने, २ माने, ३ अवच्छेदे, ४ विक्षेपे च। ज्ञानमात्रस्य मितिमातृमेयविषयकत्वमिति गुरवः।
मि(त्त्र)त्र = न० मिद्यति स्निह्यति मिद–त्र। १ स्नेहान्विते सुहृदि, राज्ञां विषयानन्तरितनृपादितरस्मिन् २ राजनि तयोर्द्वयोरपि मध्यस्थनृपस्य राज्यहरणरूपैककार्य्यकरत्वात् मित्त्रत्वम्। मि–त्र। एकतकारः ३ सूर्य्ये पु० अमरः ४ अर्कवृक्षे।
मित्त्रयु = पु० मित्त्रं याति या–कु। मित्त्रवत्सले हेमच०।
मिथ = बधे मेधायाञ्च सक० भ्वा० उभ० सेट्। मेथति–ते अमेथीत् अमेथिष्ट। ऋदित् चङि न ह्रस्वः।
मिथस् = अव्य० मिथ–असुन्। १ रहसि, २ अन्योन्यस्मिन्नित्यर्थे अमरः।
मिथि = पु० निमिराजपुत्रे विष्णुपु०।
मिथिला = स्त्री मिथि + अस्त्यर्थे लच्। स्वनामख्यातायां मिथिराजधान्याम्।
मिथुन = न० मिथ–उनन् किच्च। १ स्त्रीपुंसयोर्युग्ये २ मेषादितस्तृतीये राशौ च।
मिथ्या = अव्य० मिथ–क्यप्। अयथार्थे असत्ये।
मिथ्यादृष्टि = स्त्री मिथ्या–सफलस्यापि अफलत्वेन दृष्टिः। नास्तिकतायां सफलस्यापि वैदिककर्मणो निष्फलत्वज्ञाने अमरः।
मिथ्यानिरसन = न० मिथ्या निरस्यतेऽनेन निर् + असक्षेपे करणे ल्युट्। शपथे भरतः।
मिथ्याभियोग = पु० मिथ्याभूतेनासत्येनाभियोगः राज्ञोऽन्तिके वेदनम् अभि–युज–धञ्। शतं मे धारयतीत्यसत्यमुक्त्वा राज्ञोऽन्तिके अभियोगे अमरः।
मिथ्याभिशंसन = न० मिथ्याभूतेनासत्येनाभिशंसनम् अपवादः “त्वया स्वर्णमपहृतम्” इत्यपवादकथने।
मिथ्याभिशाप = पु० मिथ्यामूतेनासत्येनाभिशापोऽपवादः। मिथ्यापवादे।
मिथ्यामति = स्त्री मिथ्याभूतस्य मतिः मन–क्तिन्। भ्रान्तौ–अतद्वति तद्वत्त्वेन ज्ञाने।
मिथ्योत्तर = न० कर्म०। व्यवहारे “मिथ्यैतत् नाभिजानामि तटा तत्र न सन्निधिः। अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम्” इत्युक्तप्रकारे, उत्तरभेदे, (“मिथ्योत्तरे पूर्ववादे”) इति स्मृतिः।
मिद = बाधे मेधायाञ्च भ्वा० उ० सक० सेट्। मेदति–ते अमेदीत् ऋदित् चङि न ह्रस्वः।
मिद = स्नेहे भ्वा० आ० लुङि प० अक० सेट्। मेदते इरित् अमिदत् आदित् भावादौ क्ते मिन्नं मेदितम्।
मिद = स्नेहे वा चु० उभ० पक्षे भ्वा० अक० सेट् इदित्। मिन्दयति अमिन्दत्–त। पक्षे मिन्दति अमिन्दीत्।
मिद = स्नेहे दि० पर० सक० सेट्। मेद्यति–ते इरित् अमिदत् अमेदीत्। आदित् क्त मेदितं भिन्नम्।
मिद = स्नेहे चु० उम० सक० सेट्’ मेदयति–ते अमीमिदत्–त
मिन्मिल = त्रि० सानुनासिकशब्दकारके १ रोगभेदे २ तद्युते त्रि०। “आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः। नरान् करोत्यक्रियकान् मूकमिन्मिलगदगदान्” अवचनान् ईषदर्थे नञ्। तत्र वायोर्बाहुल्ये मूकत्वम् मध्यमत्वे सानुनासिकशब्दकारकता अल्पत्वे गद्गदकरत्वमिति भेदः।
मिल = श्लेषे तु० उभ० सक० सेट्। मिलति अमेलीत् अमेलिष्ट कुटादिरयमित्येके तेन अमिलीत् ल्युटि मिलनम्।
मिव = सेके भ्वा० पर० सक० सेट् इदित। मिन्वति अमिन्वीत्।
मिश = ध्वनौ अक० कोपे सक० भ्वा० पर० सेट्। मेशति अमेशीत्।
मिशि(शी) = स्त्री मिश–इन् वा ङीष्। १ मधुरिकायां (मौरी) २ शतपुष्पायां, (सुलफा) भरतः ३ जटामांस्याञ्च शब्दर०। अत्र पृषो० मिषि मिषी मिसि–मिसी इत्यादयः उक्तार्थेषु। तत्र पाठान्तरम्।
मिश्र = (स्र) योजने अद० च० उभ० सक० सेठ्। मिश्र(स्र) यति–ते अमिमिश्र(स्र)त् त।
मिश्र = त्रि० मिश्र अच्। १ संयुते उत्तरपदस्थः २ श्रेष्ठार्थे। यथा आर्य्यमिश्राः। ३ गजजातिभेदे पु० हेमच०। ४ ज्योतिभोक्ते कृत्तिकाविशाखानक्षत्रगणे च पु०। संज्ञायां कन्। ५ इन्द्रवने जटा० ६ औषरलवणे राजनि०।
मिश्रकावण = न० मिश्रकनामकं वनं पूर्वदीर्घो णत्वञ्च। १ इन्दोद्याने।
मिश्रपुष्पा = स्त्री मिश्रं पुष्पं यस्याः अजा० टाप्। मेथिकायाम् राजनि०।
मिश्रवर्ण = म० मिश्रश्चित्रो वर्णो यस्य। १ कृष्णागुरुणि राजनि० २ मिश्रितवर्णमात्रे त्रि०।
मिश्रवर्णफला = स्त्री मिश्रवर्णं चित्ररूपान्वितं फलं यस्याः। वार्त्ताक्यां राजनि०
मिश्रव्यवहार = पु० लीलावत्युक्ते गणनाभेदे।
मिश्रिता = स्त्री “मिश्रिता चैव विज्ञेया मिश्रितर्क्षैस्तु संक्रम” इत्युक्ते १ कृत्तिकाविशास्वानक्षत्रकाले रविसंक्रमणे। २ गौरविते न० जटा० ३ मिलिते त्रि०।
मिश्रेया = स्त्री मिश्र–अच् मिश्रा ईयते ई गतो यत् एया कर्म० शक०। १ मधुरिकायां (मौरी) अमरः। २ शतपुष्पायाञ्च (सुलफा) राजनि०।
मिष = सेचने भ्वा० पर० सक० सेट्। मेषति अमेषीत्। उदित् क्त्वा वेट्।
मिष = पराभिभवेच्छायाम् तु० पर० सक० नेट्। मिषति अमेषीत् मिमेष।
मिष = न० मिष–क। १ छले २ स्पर्द्धने पु० मेदि०।
मिषिका = स्त्री० मिषी + स्वार्थे क। जटामांस्याम् शब्दात्ना०।
मिष्ट = त्रि० मिष–क्त। १ सिक्ते २ स्पर्द्धिते च। ३ मधुररसे पु० ४ तद्वति त्नि० भावप्र०।
मिह = सेचने भ्वा० पर० सक० अनिट्। मेहति अमिक्षत्।
मिहिका = स्त्री मिह–क्वुन् अत इत्त्वम्। नीहारे शब्दर०।
मिहिर = पु० मिह–किरच्। १ सूर्य्ये २ अर्कवृक्षे ३ वृद्धे मेदि० ४ मेघे हेमच० ५ वायौ, ६ चन्द्रे, विक्रमादित्यसभास्थे नवरत्नमध्यस्थे पण्डितभेदे च शब्दक०। तच्चिन्त्यम्। “धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालिदासः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य” ज्योतिर्विदाभरणवाक्ये वराहः मिहिराइवेत्येव तत्र समासे वराहमिहिर इत्येकः “वराहमिहिरात्मजेन पृथुयशसा” तत्पुत्रकृतषट्पञ्चाशिकायामुक्तेः द्वित्वे वररुचिना सह दशसंख्यापत्तेश्च।
मी = बधे दि० आ० सक० अनिट्। मीयते अमेष्ट।
मी = बधे क्य्रा० उ० सक० सेट्। मीनाति मीनीते अमासीत् अमास्त। ओदित् क्त मीनः।
मी = गत्यां मत्याञ्च बा चु० उभ० पक्षे भ्वा० पर० सक० अनिट्। माययति ते मयति अमीमत्–त अमैषीत्।
मीढ = त्रि० मिह–क्त। मूत्रिते।
मीढुष्टम = पु० मीड्वस् + अतिशय तमप् नि०। शिवे।
मीढ्वस् = पु० मिह–क्वसु नि०। शिवे।
मीन = पुंस्त्री० मी–नक्। १ मत्स्ये अमरः स्त्रियां ङीष् मेषादितोद्वादशे २ राशौ ३ भगवदतारभेदे च पु०।
मीनकेतन = पु० मीनः केतनं यस्य। कन्दर्पे अमरः। मीनघ्वजादयोप्यत्र।
मीननेत्रा = स्त्री मीनस्य नेत्रमिव ग्रन्थिरस्याः। गण्डदूर्वायां राजनि० मीनाक्षीत्यादयोऽप्यत्र।
मीनाण्डा = स्त्री मीनस्याण्डस्तदाकारा रेणुकाऽस्त्यस्य अच् गौ० ङीष्। शर्करायाम् राजनि०।
मीम = शब्दे अक० गतौ सक० भ्वा० पर० सेट्। मीमति अमीमीत्। ऋदित् चङि च ह्रस्वः।
मीमांसक = पु० मीमांसां वेत्त्यधीते वा वुन्। १ मीमांसाशास्त्रन्ने २ तदध्येतरि च। भान–विचारे स्वार्थे सन् ण्वुल्। ३ सिद्धान्तकारके।
मीमांसा = स्त्री मान–विचारे स्वार्थे सन् अ। १ विचारपूर्वकतत्त्वनिर्णये २ तत्प्रतिपादकग्रन्थभेदे च स च ग्रन्थः कर्मब्रह्मविषयभेदेन द्विविधस्तत्र कर्मकाण्डबिषयसंशयनिवारको ग्रन्थो जैमिनिप्रणीतः स च पूर्बमीमांसात्वेन प्रसिद्धः ब्रह्मविषयसंशयनिवारकश्चरमः स वेदान्तत्वेन प्रसिद्ध।
मील = निमेषे भ्वा० पर० अक० सेट्। मीलति अमीलीत्। ऋदित् चङि वा ह्रस्वः।
मीलन = न० मील ल्युट्। १ मुद्रणे २ सङ्कोचने च।
मीलित = त्रि० मील–क्त। १ अप्रफुल्ले २ सङ्कुचिते च “मीलितं यदभिरामताधिके” इति काव्यप्रकाशः।
मीव = स्थूलीभवने भ्वा० पर० अक० सेट्। भीवति अमीवीत्।
मु = पु० मोचयति जीवान् ण्यर्थे मुच डु। १ महेशे हट्टच० २ बन्धने एका०।
मुकन्दक = पु० मुदः मुदे कन्दो यस्य कप् पृषो० मुदो दलोपः। पलाण्डौ भरतः।
मुकु = पु० मुच–कु पृषो० चस्य कः। १ मोक्षे हट्टच० २ उत्सर्गे च
मुकुट = पु० मकि–उट पृषो०। १ शिरोभूषणे अमरः। २ अङ्गुलीमोटने स्त्री शब्दर० ङीप्।
मुकुन्द = पु० मुकुं ददाति दा–क पृषो० मम्। “मुकुमध्ययमान्तञ्च निर्वाणमोक्षवाचकम्। तद्दाति च यो देवः मुकुन्दस्तेन कीर्तितः” “मुकुम् भक्तिरसप्रेमवचनं वेदसम्मतम्। यस्तद् ददाति भक्तेभ्यो मुकुन्दस्तेन कीर्त्तितः” ब्रह्मवै० जन्मख० ११० अ० इति वा निरुक्ते विष्णौ।
मुकुम् = अव्य० मकि उमुच् पृषो०। १ निर्वाणमोक्षे २ भक्तिप्रेमरसे च मुकुन्दशब्दे दृश्यम्।
मुकुर = पु० मकि–उरच् पृषो०। दर्पणे, २ वकुलवृक्षे ३ कुलालदण्डे, मेदि० ४ मल्लिकावृक्षे, विश्वः ५ कोलीवृक्षे, शब्दर०। ६ कोरके च हेमच०।
मुकुल = पु० न० मकि–उलच् पृषो०। १ ईषद्विकाशितकलिकायाम् अमरः २ देहे, ३ आत्मनि च धरणिः।
मुकुष्टक = पु० मुकुर्नलोत्सर्गस्तं स्तकति स्तक–अच् पृ० षत्वम्। वनमुद्गे अमरः पृषो० मुकुष्ठक तत्रार्थे।
मुकूलक = पु० मकि–जलच् सज्ञायां कन्। दन्तिवृक्षे। रामाश्रमः।
मुक्त = त्रि० मुच क्त। १ त्यक्ते, २ प्राप्तमोक्षे मेदि०। ३ आनन्दिते च शब्दर०।
मुक्तरसा = स्त्री मुक्तो रसो यस्याः। रास्नायाम् रत्नमा०।
मुक्तसङ्ग = त्रि० मुक्तः सङ्गोविषयासक्तिर्येन। १ त्यक्तसर्वविषयासङ्गे २ परिव्राजक पु०।
मुक्तहस्त = त्रि० मुक्तः दानाय प्रसारितः न बद्ध इति यावत् हस्तो येन। दानत्गरे।
मुक्ता = स्त्री मुच–क्त। १ रास्नायाम् रत्नमा० २ शुक्तिजे (मति) रत्नभेदे च।
मुक्तापुष्प = पु० मुक्तेव शुभ्रं पुष्पमस्य। कुन्दवृक्षे राजनि०।
मुक्ताप्रसू = स्त्री मुक्तां प्रसूते प्र + सू–क्विप् ६ त०। शुक्तौ राजनि०।
मुक्ताप्रालम्ब = पु० मुक्तया मुक्ताविशिष्टतया प्रालम्बते अच्। मुक्ताहारे हेमच०।
मुक्ताफल = न० मुक्ता फलमिव। १ मौक्तिके, २ सवलीफले, (नोयाड) ३ कर्पूरे च मेदि०। ४ वोपदेवकृते भक्तिप्रधाने ग्रन्थभेदे च “चतुरेख चतुर्वर्गचिन्तामणिबणिज्यया। हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत्” तद्ग्रन्थस्थ पद्यम्।
मुक्तालता = स्त्री मुक्तया लतेव। मुक्ताहारे हेमच०।
मुक्तावली = स्त्री मुक्तया आवली हारभेदः। १ मुक्ताहारे अमरः। ६ त०। २ मुक्ताश्रेणौ भाषापरिच्छेदग्रन्थटीकायां ३ सिद्धान्तमुक्तावल्यां च।
मुक्तास्फोट = पु० स्फुट्यते विदीर्य्यते स्फोटः मुक्तायै स्फोटः। शुक्तौ अमरः।
मुक्ति = स्त्री मुच क्तिन्। १ मोचने २ संसारबन्धनराहित्ये मतभेदेन ३ आत्यन्तिकदुःखनिवृत्तौ, ४ ब्रह्मस्वरूपावाप्तौ च देहेन्द्रियाभ्यामात्मनो ५ बन्धशून्यत्वे च।
मुक्तिमण्डप = पु० मुक्तिप्रदो मण्डपुः शाक० त०। १ काशीस्थे २ जगन्नाथक्षेत्रस्थे च मण्डपभेदे तीर्थे।
मुक्तिमुक्त = पु० मुक्तिर्मोचनं तया मुक्तोरहितः। सिह्लके रत्नमा०।
मुख = न० खन–अच् डित् धातोः पूर्वं मुट् च। “प्रजासृजा यतः खातं तस्मादाहुर्मुखं बुधाः” इत्युक्ते देहावयवभेदे। “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च। गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते” इत्युक्ते गलादिसप्तात्मकावयववति २ वदने भावप्र०। ३ गृहस्य निस्मरणर्वर्त्मनि, अमरः। ४ हट्टमण्डपादेः प्रवेशनिर्गमे, ५ आरम्भे, ६ उपाये, ७ नाटकादौ सन्धिभेदे मेदि० ८ नाटकादिशब्दभेदे, ९ आद्ये, १० प्रधाने, ११ शब्दे, १२ वेदे, च शब्दर०। १३ लकुचवृक्षे पु० (डेओ) शब्दच०।
मुखगन्धक = पु० मुखस्य गन्धो यस्य सेवनात् कप्। पलाण्डौ राजनि०
मुखचपला = स्त्री आर्य्यावान्तरभेदे मात्राभेदे वृ० र०।
मुखज = पु० ब्रह्मणो मुखाज्जायते जन–ड। १ विप्रे “ब्राह्मणोऽस्य मुस्वमासीदि” ति श्रुतिः २ वदनजातमात्रे त्रि०।
मुखदूषण = पु० भुखं दूपयति सेवनात् दुर्गन्धेन दूष–णिच् ल्यु। पलाण्डौ राजनि०।
मुखधौता = स्त्री धौतं मुखं यया धाव–क्त ऊठ् परनि०। ब्राह्मणयष्टौ (वामनहाटि) शब्दच०।
मुखनिरीक्षक = त्रि० मुखमितरास्यं निरीक्षते निर् + ईक्ष ण्वुल्। १ अलमे शब्दर०। स हि अन्योयदि स्वकृत्य कुर्य्यात् तदानाहं करोमीत्याशयेन इतरमुखं निरीक्षमाणः स्वकार्य्ये न प्रवर्त्तते। इति तस्य तथात्वम्।
मुखपूरण = न० मुखं पूरयति पूर–ल्यु। गण्डूषमितजलादौ।
मुखप्रिय = न० मुखं प्रीणाति प्री–क–उप० स०। १ लवङ्गे भावप् २ मुखरोचकमात्रे त्रि०।
मुखभूषण = न० मुखं भूषयति भूष–ल्यु। १ ताम्बूले। २ मुखमण्डने च।
मुखमण्डनक = पु० मुखस्य भण्डनमिव इवार्थे कन्। १ तिलकवृक्षे राजनि०। ६ त०। स्वार्थे क। २ मुखभूषणे न०। मण्डयति–ल्यु स्वार्थे क ६ त०। ३ मुखभूषके त्रि०।
मुखमोद = पु० मुखं मोदयति मुद–णिच्–अण् उप० स०। शोभाञ्जने राजनि०।
मुखर = त्रि० मुखं मुखव्यापारं कथनं राति दत्ते करोतीति यावत् रा–क। १ अप्रियवादिनि अमरः। २ अग्रेवादिनि च “मुखरस्तत्र हन्यते” इति हितोपदेशः। ३ काके पुंस्त्री० स्त्रियां ङीष्। ४ शङ्खे पु० राजनि०।
मुखरित = त्रि० मुखर इवाचरितः। मुखर + क्विप्–क्त। शब्दायमाने
मुखरोग = पु० सप्ताङ्गस्य मुखस्य रोगः। सप्ताङ्गमुखस्य रोगभेदे तन्निदानादि यथा “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च। गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते”। अथ मुखरोगाणां संङ्ख्यामाह “स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा। दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि। कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्वसराः स्मृताः। एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः” मुखरोगाणां निदानान्याह “अनूपपिशितक्षीरदधिमाषादिसेवनात्। मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः” भावप्र०।
मुखलाङ्गल = पुंस्त्री० मुखं लाङ्गलमिव भूमिविदारकं यस्य। शूकरे जटा० स्त्रियां ङीष्।
मुखवल्लभ = पु० ६ त०। १ दाडिमवृक्षे शब्दमा० तत्फलस्य मुखप्रियत्वात् तस्य तथात्वम्। २ मुखप्रिये त्रि०।
मुखवाचिका = स्त्री मुखं वाचयति अजडीकरोति सेवनात् वच–णिच्–ण्वुल्। अम्बष्ठायामु राजनि०।
मुखवास = पु० मुखं वामयति सुरभीकरोति वासि–अण् उप० स०। १ गन्धतृणे राजनि०। २ कर्पूरादौ च।
मुखवासन = पु० मुखं वासयति वासि ल्यु। १ मुखसौरभकारके गन्धे। २ तद्वति त्रि० अमरः।
मुखविष्ठा = स्त्री मुखं विष्ठेव दुर्गन्धं यस्याः। तैलपायिकायां हेमच० तन्मुखस्पर्वमात्रे हि द्रव्यान्तरे दुर्घन्धो भवति।
मुखव्यादानं = न० वि + आ + दा–ल्युट् ६ त०। मुखप्रसारणे।
मुखशोधन = न० मुखं शोधयति शुध–णिच्–ल्यु। १ त्वचे (दारचनि) राजनि०। २ कदरमे पु० हेमच०।
मुखशोधिन् = पु० मुखं शोधयति शुध–णिच्–णिनि। जम्बीरे राजनि०।
मुखस्राव = पु० स्रवति स्रु–ण ५ त०। लालाख्ये मुखस्यन्दिजले राजनि०।
मुखाग्नि = पु० मुखमेवाग्नितुल्यं शापदानेन दाहकत्वात् यस्य। १ विप्रे कर्म० वडवामुखजे २ दावानले च शब्दमा०।
मुखास्त्र = पु० मुखमेवास्त्रं यस्य। कर्कटे त्रिका०।
मुख्य = त्रि० मुखे आदौ भवः यत्। १ प्रथमकल्पे अमरः २ श्रेष्ठे च।
मुग्ध = त्रि० मुह–क्त। १ मूढे। मोहयति अन्तर्भूतण्यर्थे मुहकर्त्तरि क्त। २ सुन्दरे विश्वः। ३ नायिकाभेदे स्त्री सा० द० ३ प०
मुच = दम्भे शाठ्ये भ्वा० आत्म० सक० सेट्। मोचते अमोचिष्ट इदिदप्ययम् तत्रार्थे। मुञ्चते।
मुच = त्यागे चुरा० उ० सक० सेठ्। मोचयति ते अमूमुचत्–त
मुच = त्यागे तु० मुचादि० उभ० सक० अनिट्। मुञ्चति–ते ऋदित् अमुचत् अमुक्त। कर्मकर्त्तरि अकर्मकः “मुच्यते सर्वपापेभ्यः” इति पुराणम्।
मुचकुन्द = पु० मुच–कु मुचुः कुन्द इव। १ स्वनामख्याते पुष्पवृक्षे भावप्र० मान्धातृनृपपुत्रे २ नृपभेदे च।
मुज = ध्वनौ अक० मार्ज्जने सक० वा चुरा० पक्षे भ्वा० पर० सेट्। माजयति ते मोजति अमूमुजत् त अमोजीत्। इदिदप्यत्रार्थे। मुञ्जयति ते मुञ्जति अमुमुञ्जत् त अमुञ्जीत्।
मुञ्ज = पु० मुजि–अच्। (मुज) रज्ज्वुसाधने तृणभेदे राजनि०। “मृञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा। दाहतृष्णा विसर्पास्रमूत्रवस्त्यक्षिरोगजित्। दोषत्रयहरं वृष्य मेखलासूपयुज्यते” भावप्र०।
मुञ्जकेशिन् = पु० मुञ्जैव केशः अस्त्यस्य इनि। विष्णौ हेमच०।
मुञ्जर = न० मुजि–अरन्। शालूके शब्दमा०।
मुट = मर्दने भ्वा० पर० सक० सेट् इदित्। मुण्टति अमुण्टीत्। मुण्ट्यते।
मुट = क्षोदे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्। मोदयति ते मोटति अमूमुटत् त अमोटीत्।
मुठ = क्षोदने आक्षेपे च तु० कु० पर० सक० सेट्। मुटति अमुटीत् भुमोट।
मुठ = पलायने भ्वा० आ० अक० सेट् इदित्। मुण्ठते अमुण्ठिष्ट।
मुड = केशादिच्छेदे मर्दने च भ्वा० पर० सक० सेट् इदित्। मुण्डति अमुण्डीत्।
मुड = मज्जने भ्वा० आ० अक० सेट् इदित्। मुण्डते अमुण्डिष्ट।
मुण = प्रतिज्ञाने तु० पर० सक० सेट्। मुणति अमोणीत्।
मुण्ड = न० मुडि–कर्मणि घञ्। १ मस्तके अमरः। २ वोले ३ मुण्डायसे च राजनि० ४ दैत्यभेदे, ५ राहुग्रहे पु० मेदि०। ६ नापिते जटा० ७ स्थाणुवृक्षे च पु०। ८ मुण्डिते त्रि०। ९ महाश्रावणिकायां १० मुण्डीरिकायाञ्च स्त्री टाप् मेदि० २ उपनिषद्भेदे “मुण्डमाण्डूक्यतित्तिरिः”।
मुण्डक = पु० मुण्डयति मुडि–णिच्–ण्वुल्। १ नापिते हेमच०।
मुण्डचणक = पु० मुण्डश्चणकैव। कलाये राजनि०।
मुण्डन = न० मुडि–भावे ल्युट्। केशच्छेदे वपने हेमच०।
मुण्डफल = पु० मुण्डं शिरैव फलमस्थ। नारिकेले शब्दर०।
मुण्डशालि = पु० मुण्डः शूकशून्यः शालिः। निःशूके शालि भेदे राजनि०।
मुण्डायस = न० मुण्डमयः अच् समा०। लौहभेदे राजनि०।
मुण्डितिका = स्त्री मुडि–इत खार्थे क अत इत्त्वम् टाप्। (मुण्डीरी) वृक्षभेदे रत्नमाः।
मुण्डिन् = पु० मुण्डयति मुडि–णिच्–णिनि। नापिते अमरः।
मुण्डीरी = स्त्री मुडि–ईरच् गौरा० ङीष्। स्वनामख्याते वृक्षभेदे जटाधरः।
मुथशील = पु० ९२५ पृ० दर्शिते नी० ता० उक्ते इत्थशालयोगे
मुद = समार्ज्जने चु० उ० सक० सेट्। मोदयति ते अमूमुदत् त
मुद = हर्षे भ्वा० आ० अक० सेट्। मोदते अमोदिष्ट। मुमुदे।
मुद(दा) = स्त्री मुद० सम्प० भावे क्विप् वा टाप्। १ हर्षे अमरः। २ वृद्धिनामौषधौ राजनि०।
मुदिर = पु० मुद–किरच्। १ मेघे अमरः २ भेके च संक्षिप्तसा० ३ कामुके त्रि० मेदि०।
मुद्ग = पु० मुद–गक् नेट्। १ कलायभेदे(मुग) पु० मेदि० २ पक्षिभेदे ३ जलकाके च हेमच०।
मुद्गपर्णो = स्त्री मुद्गस्येव पणमस्याः। (मुगानी) वनमुद्गे अमरः।
मुद्गर = न० मुदं गिरति गॄ–अच्। १ माल्लकाभेदे २ लोष्टभेदने (मुगुर) मेदि०। ३ पुष्पप्रधानवृक्षभेदे ४ कर्मारवृक्षे (कामराङ्गा) च पु० राजनि०। स्वार्थे क। तत्रैव।
मुद्गल = न० मुदं गिलति गृ–अच् रस्य लः। १ रोहिषतृणे राजनि०। २ गोत्रप्रवरर्षौ मुनिभेदे, ३ नृपभेदे पु०।
मुद्गष्ट = पु० मुद्गं स्तकति प्रतिबध्नाति स्तक–ड पृषो० षत्वम्। वनमुद्गे अमरः। अच् मुद्गष्टकोऽप्यत्र।
मुद्रा = स्त्री मुद–रक। १ प्रत्ययकारिण्याम् (मोहर) त्रिका० २ अङ्गुलिस्थे मुद्राङ्कनयुक्ताङ्गुलीयके शब्दर० ३ स्वर्णरौप्यादितङ्कायाम ४ अप्रकाशे। “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा। गुण्डिकाघुणसम्भूता लिपयः पञ्चधा मताः” इत्युक्तलिपिमध्ये ५ लिपिभेदे वाराहीतन्त्रम्। “लेखन्या लिखितं विप्रैर्मुद्वाभिरङ्कितञ्च यत्। शिल्पादिनिर्मितं यच्च पाठ्यं धार्य्यञ्च सर्वदा” मुण्डमालात०। ६ तन्त्रप्रसिद्धे वीराचरसेव्ये “पृथुकास्तण्डुला भ्रष्टा गोधूमचणकादयः। तस्य नाम भवेन्मुद्रा” इत्युक्ते पञ्चमकारान्तर्गतद्रव्यभेदे ७ देवविशेषाराधनायाङ्गुल्यादिसन्निवेशविशेषे तन्त्रसारः “योजनात् सर्वदेवानां द्रावणात् पापसहतेः। तस्मात् मुद्रेति सा ख्याता सर्वकामार्थसाधनी “मुद्रामक्षगुणमि” ति तन्त्रम् ८ सङ्कोचे च।
मुद्रालिपि = स्त्री मुद्रया लिपिः। पञ्चधाविभक्तलिपिमध्ये लिपिभेदे (छापार अक्षर)
मुद्रिका = स्त्री मद्रैव क्षुद्रा वा मुद्रा कन्। स्वर्णरौप्यादि निर्मिते अङ्गुलिस्थे अङ्कनसाधनयोग्ये पदार्थे।
मुद्रित = त्रि० मुद्रा जाताऽस्य इतच्। १ अप्रकाशिते २ अङ्किते च
मुधा = अव्य० मुह–का पृषो० हस्य व। मिथ्याशब्दार्थे अमरः
मुनि = पु० मन–इन् पृषो० उत्वम्। “दुःखेष्वनुद्विग्नमनाः सुणेषु विगतस्पृहः। वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते” गीतोक्तलक्षणे स्थिरचित्ते वीतरागादौ जने। ते च मन्वत्रिविष्णुहारोतादय। २ सप्तसंख्यायाञ्च। ३ वङ्गसेनतरौ ४ जिने मेदि०। ५ पियालवृक्षे ६ पराशरवृक्षे हेमच० ७ दमनकद्धक्षे राजनि०। “मननान्मुनिरुच्यते” इत्युक्ते ८ मननयुते त्रि०।
मुनिखर्ज्जूरी = स्त्री मुनिप्रिया खर्जूरी। खर्ज्जूरीभेदे राजनि०।
मुनिच्छद = पु० मुनिसंख्याताः सप्तसंख्याताः छदाः प्रतिपर्णं यस्य। सप्तच्छदे (छातिम) राजनि०।
मुनितरु = पु० मुनिरगस्त्यनामकस्तरुः। वकवृक्षे रत्नमा०।
मुनिद्रुम = पु० मुनीनां प्रियो मुनिनामको वा द्रुमः। १ श्योनाकवृक्षे रत्नमा० २ वकवृक्षे च राजनि०।
मुनिपुत्रक = पु० मुनेः पुत्रः संज्ञायां कन्। १ दमनवृक्षे भावप्र० २ खञ्जने च त्रिका०। ६ त०। ३ ऋषिसुते।
मुनिपुष्प = न० मुनिद्रुमस्य पुष्पं भौमो भीमसेनवदुत्तरपदलोपः। वकपुष्पे।
मुनिभेषज = न० मुनीनां भेषजमिव। १ हरीतक्यां २ अगस्त्ये, मुनौ, ३ भोजनाभावे च मेदि०।
मुनीन्द्र = पु० मुनिः इन्द्र इव। १ वृद्धे अमरः। ७ त०। २ ऋषिश्रेष्ठे।
मुन्थ = गत्यां भ्वा० पर० सक० सेट् क्त्वा वेट्। मुन्यति अमुन्यीत्
मुन्था = स्त्री नी० क० ताजकप्रसिद्धे इन्थिहाशब्दार्थे। इन्थिहाशब्दे ९२९ पृ० वृश्यम्।
मुन्यन्न = न० मुनियोग्यमन्नम्। नीवारकन्दादौ।
मुमुक्ष = त्रि० मोक्तुमिच्छुः मुच–सन्–उ। मोक्षेच्छावति। १ संसारबन्धनाभावेच्छावति। २ यतौ पु०।
मुमूचान = पु० मुच कान पृषो० दीर्घः। १ मेघे २ मुक्तवति त्रि०। “द्रुपदादिव मुमूचानः” इति सन्थ्याङ्गपाठ्यमन्त्रः।
मुमूर्षु = त्रि० मर्त्तुमिच्छुः मृ–सन्–उ। आसन्नमरणे।
मुर = वेष्टने तु० पर० सक० सेट्। मुरति अमीरीत्।
मुर = पु० मुर–क। १ दैत्यभेदे “पार्थेनाथ द्विषन् मुरम्” माधः २ वेष्टने। ३ स्वनामख्याते गन्धद्रव्ये स्त्री अमरः टाप्।
मुरज = पु० मुरात् वेष्टनात् जायते जन–ड। मृदङ्गे वाद्यभेदे अमरः। स इव बन्धः। मुरजबन्धः। चित्रासङ्कारभेदे।
मुरजफल = पु० मुरज इव फलं यस्य। पनसवृक्षे त्रिका०। मृदङ्गफलादयोऽप्यत्व।
मुररिपु = पु० ६ त०। विष्णौ। मुरारिमुरमथनादयोप्यत्र।
मुरला = स्त्री मुरं लाति ला–क। १ नर्मदायाम्। “मुरलामारुतोद्बूतम्” रघुः। २ वंशीनाम्नि बाद्ये गौरा० ङीष्।
मुरलीधर = पु० मुरलीं धरति धृ अच्। श्रीकृष्णे मुरलीवादनादयोऽप्यत्र।
मुर्च्छ = मोहे वृद्धौ च भ्वा० पर० सक० सेट्। मूर्च्छति अमूर्च्छीत्। आदित् भावे क्त। मूर्तम् मूर्च्छितम्।
मुर्मुर = पु० मुर–क पृषो० द्वित्वम्। १ तुषाग्नौ २ कन्दर्पे सूर्य्याश्चे च मेदि०।
मुर्व = बन्धे भ्वा० पर० सक० सेट्। भूर्वति अमूर्वीत् निष्ठापामनिट् मूर्णः।
मुल = रोपणे चु० उभ० सक० सेट्। मोलयति ते अमूमुलत् त।
मुशटी = स्त्री मुष–अटच् गौरा० ङीष् पृषो०। सितकङ्गौ हेमच०।
मुश(स)ली = स्त्री मुष मुस वा कसच् पृषो० षस्य शः गौरा० ङीष्। १ तालमूल्याम् २ गृहगोधिकायाम् राजनि० संज्ञायां कन्। वल्ल्याम् हका०।
मुष = १ वधे भ्वा० पर० सक० सेट्। मोषति अमोषीत्।
मुष = छेदने दिवा० पर० सक० सेट्। मुष्यति इरित् अमुषतमोषीत् पुषादिरयमित्यन्ये।
मुष = लुण्टने क्य्रा० पर० द्विक० सेट्। मुष्णाति अमोषीत्।
मुष(स)(श)स = पु० मुष–कलन् पृषो०। अयोग्रे स्वनामख्याते धान्यादिकण्डनसाधने पदार्थे अमरः।
मुषा = स्त्री० मुप–क–टाप्। धातुद्रावणे पात्रभेदे (मुची) रायमु०।
मुषित = त्रि० मुप–क्त। अपहृतद्रव्ये जने अमरः।
मुष्क = पु० मुष–कक्। १ पुरुषचिह्नभेदे अण्डकोषे (घण्ठापारुस) २ मोक्षकवृक्षे ३ संहृते च मेदि० ४ तस्करे, ५ मांसव्ये च हेमच०। स्वार्थे क। तत्रैव।
मुष्कशुन्य = पु० ३ त०। वृषणरहिते राज्ञामन्तःपुररक्षके (खोजा हेमच०।
मुष्टि = पुंस्त्री० मुष–णिच्। १ बद्धपाणौ अमरः २ पलपरिमाणे पु० हेमच० ३ कुञ्यष्टभागे च। क्तिन्। ४ र्मोषणे स्त्री।
मुष्टिक = पु० मुष्ट्या कायति कै–क। १ कंसराजमल्लभेदे। मुष्टि र्मोषणं प्रथोजनमस्य कन्। २ स्वर्णकारे हेमच०।
मुष्टिकान्तक = पु० ६०। वतदेवे शब्दर० तस्य मुष्टिकासुरहननात्तथात्वम्।
मुष्टिद्यूत = न०। ३ त०। कपर्दकमुष्ट्याक्रीडने (पुरमुट्) शब्दमा०
मुष्टिन्धय = पु० मुष्टिं धयति धे–खच् मुम् च। बालके त्रिका०।
मुष्टिबन्ध = पु० मुष्टेर्बन्धो यत्र। १ संग्रहे अमरः। ६ त०। २ मुष्टिबन्धने।
मुस = खण्डने दि० पर० सक० सेट्। मुस्यति इरित् अमुसत् आभोसीत् पुषादिरयमित्यन्ये।
मुस(ष)(श)लिन् = मुस(ष)(श)ल + अस्त्यर्थे इनि। बलदेवे अमरः।
मुस(ष)(श)ल्य = त्रि० मुस(ष)(श)लेन वेध्यः यत्। मुषलवेध्ये अमरः।
मुसल्लह = पृ० नी० ता० उक्ते नवांशे “मुसल्लहे पञ्च सवाः प्रदिष्टाः” नी० ता०।
मुस्त = संहतौ चु० उभ० सक० सेट्। मुस्तयति ते अमुमुस्तत् त।
मुस्त = पु० गुस्त अच् स्त्रीत्वे टाप्। मुस्तके (मुथा) हारा० तत्रार्थे स्त्री अमरः स्वार्थे क। अत्रैव अस्त्री० अमरः। स्थावरविषभेदे पु० हेमच०।
मुस्ताभ = न० मुस्तेव भाति भा–क। (नागरमुथा) मुस्तकभेदे अमरः।
मुह = मोहे वैचित्त्ये दि० उभ० अक० सेट् मुह्यति ऌदित् अमुहत् ऊदित् मोहिता, मोग्धा, मोढा ञीत्। मूढोऽस्ति।
मुहिर = पु० मुह किरच्। १ कामे, २ मूर्खे च मेदि०।
मुहुस् = अव्य० मुह–उसिक्। पौनः पुन्ये अमरः।
मुहूर्त्त = स्त्री० हुर्च्छ–क्त धातोः पूर्बं मुट् च। १ द्वादशक्षणमिते काले, पञ्चदशधाविभक्तस्य दिनस्व पञ्चदशभागे, किञ्चिन्न्यूनाधिकघटिकाद्वयरूपे २ काले च।
मू = बन्धे भ्वा० आ० सक० सेट्। मवते अमविष्ट मुमुवे।
मूक = पु० मू–कक्। १ मत्स्ये त्रिका० २ दैत्यभेदे भेदि० ३ दीवे हेम० वाक्शक्तिरहिते च त्रि० अमरः।
मूढ = त्रि० मुह–क्त। १ मूर्खे अमरः। २ बाले ३ तन्द्रिते मेदि० ४ भडे हेमच०।
मूत = त्रि० मू + बन्धे क्त। १ बद्धे २ संयते च अमरः।
मूत्र = खावे अद० चु० उभ० अक० सेट्। मूत्रयति ते अमुमूत्रत् त
मूत्र = न० मुत्र–अच्। प्रस्रावे उपस्यात् क्षरितजले अमरः।
मूत्रकृच्छ्र = न०। रोगभेदे “व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनृत्यद्रुतपृष्ठयानात्। आनूपषत्स्याध्यशनादनीर्णात् स्युर्मूत्रकृच्छ्राणि शृणां तथाष्टौ” भावप्र०।
मूत्रदोष = पु० मूत्रस्य दोषो यस्मात् दुष–घञ् ६ त०। प्रमेहरोगे राजनि०।
मूत्रनिरोध = पु० मूत्रं निरुणद्धि नि + रुध–अण्। मूत्रप्रतिबन्धकरोगे।
मूत्रफला = स्त्री० मूत्रमेव फलं यस्याः। १ त्रपुस्याम् (शशा) २ कर्कोठ्याञ्च राजनि०।
मूत्राघात = पु० मूत्रमाहन्ति आ + हन–अण्। मूत्रहननकारिणि रोगभेदे। “प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः। जायन्ते कुपितैर्दोषै मूत्राघातास्त्रयोदश” भावप्र०।
मूत्राशय = पु० ६ त०। नामेरधोदेशे वस्तिनामकस्थाने भावप्र०।
मूर्ख = त्रि० मुह खमुरादेशः। १ मूढे २ गायत्रीरहिते ३ सार्थगायत्रीरहिते च। “क्रियाहीनस्य मूर्खस्येऽति स्मृतिव्याख्यायां निबन्धकारैस्तथार्थकतया व्याख्यानात्।
मूर्च्छना = स्त्री मुच्छं–युच्। “स्वरः संमूर्च्छितो यत्र रानतां प्रतिपद्यते। मूर्च्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम्” इत्युक्ते गानाङ्गभेदे “स्फुटीभवद्ग्रामविशेष मूर्च्छनाम्” माघः।
मूर्च्छा = स्त्री मुर्च्छ–भावे अङ्। १ मोहे अमरः। २ अनिद्रायामपि बाह्येन्द्रिय व्यापारशून्यावस्थायां “क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः। वेगाघातादभिघातात् हीनसत्त्वस्य वा पुनः। करणायतनेषूग्रा याह्येष्वाभ्य न्तरेषु च। निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः” भावप्र०। ३ वृद्धौ च।
मूर्च्छाल = त्रि० मूर्च्छा + अस्त्यर्थे लच्। मूर्च्छाविशिष्टे अमरः।
मूर्च्छित = त्रि० मूर्च्छा जातास्य तार० इतच्। १ मूर्च्छायुक्ते २ वृद्धे ३ उच्छ्रिते च मेदि०
मूर्त्त = त्रि० मुर्च्छ–क्त। १ मूर्च्छान्विते अमरः। २ मूडे ३ कठिने च मेदि०। मूर्त्तिरस्त्यस्य अच्। ४ मूर्त्तिमति न्यायोक्तेषु अवच्छिन्नपरिमाणवत्सु। क्षितिजलपावकपवनमनःसु च।
मूर्त्ति = स्त्री मुर्च्छ–क्तिन्। १ देहे २ काठिन्ये, अमरः। ३ प्रतिमायाञ्च हेम०।
मूर्त्तिमत् = पु० मूर्त्तिरस्त्यस्य मतुप्। १ देहे। २ आकारयुक्ते ३ काठिन्यवति च त्रि० स्त्रियां ङीप्।
मूर्द्धज = पु० मूर्द्ध्नि जायते जन–ड। १ केशे जटा०। २ मस्तकजातमात्रे त्रि०।
मूर्द्धन्य = त्रि० मूर्द्ध्नि भवः यत्। १ मस्तकजाते। २ शिक्षाग्रन्थोक्तेषु ऋकारटवर्व्रषवर्णेषु पु०।
मूर्द्धन् = पु० भुवं कनित् धुट, च। मस्तके अमरः।
मूर्द्धपुष्प = पु० मूर्द्ध्नि पत्त्रशिरसि पुष्पं यस्य। शिरीषवृक्षे शब्दमा०
मूर्वा = स्त्री मुर्व–अच्। खवामख्याते धनुर्गुणोपयुक्ते लताभेदे गौरा० ङीष्। मूर्तीत्यप्यत्र भरतः।
मूल = प्रतिष्ठायां भ्वा० उभ० अक० सेट्। मूलति ते अमूलीत् अमूलिष्ट।
मूल = रोपणे चुरा० उभ० सक० सेट्। मूलयति ते अमूमुलत् त।
मूल = न० मूल–क। १ शिफायाम् (जड) (शिकड) अमरः २ आद्ये ३ निकुञ्जे ४ नक्षत्रभेदे ५ अन्तिके विश्वः ६ बाणिज्याद्युपयोनिनि ७ मूलधने, मेदि०। ८ निजे अजयः। ९ चरणे १० शूरणे शब्दमा० ११ पिप्पलीमूले १२ पुष्करमूले राजनि०। १३ टीकादिना व्याख्येयग्रन्थे च अश्विन्यवधिके ऊनविंशे नक्षत्रे अस्त्री० ति० त० शबदर० स्त्रीत्वमुक्तम्।
मूलक = न० मूल + संज्ञायां कन्। १ कन्दभेदे (मूला) बर्ज्जनीयं सदा विप्रैर्मूलकं मदिरासमम्” इति ब्रह्मपु०। ३ विमभेदे पु० हेमच०।
मूलकपर्णी = स्त्री मूलकवृक्षस्येव वर्णान्यस्याः ङीप्। शोभाञ्जने रत्नमा०।
मूलकर्मन् = न० मूलेन मन्त्रौषधादिना कर्मवशीकरणादि। औषधादिना वशीकरणकर्मणि।
मूलकृच्छ = पु० मूलेन क्वाथितवृक्षमूलेन कृच्छ्रः। “मूलकृच्छ्रः स्मृतो मूलैरिति” स्मृत्युक्ते १ व्रतभेदे। तद् यस्य। २ तद्वति त्रि०।
मूलज = न० मूलाज्जायते जन–ड। १ आर्द्रके राजनि०। २ उत्पसादौ पु० हेमच०। ३ मूलनक्षत्रजातमात्रे त्रि०।
मूलत्रिकोण = न० “सिंहो वृषश्च मेषश्च कन्या घन्वी धटोघटः। “अर्कादीनां त्रिकोणानि मूलानि राशयः क्रमात्” रव्यादीनां क्रमेण सिंहादिषु राशिषु। तदंशाश्च “रविभौमजीवभार्गवशनैश्चराणां त्रिकोणभागाः स्युः। नस्नरविटिक्तिथिनस्यराज्ञेन्द्वो दिग्भांशकाः सूच्चात्” ज्यो० त०।
मूलद्रव्य = न० कर्म०। मूलधने यदबलम्ब्य बाणिज्यादिकं क्रियते तस्मित् (पू~जि) मूलधनादयोऽप्यत्र।
मूलपर्णी = स्त्री मूलमारभ्य पर्णान्यस्याः ङीप्। मण्डूकपर्ण्याम् रत्नमा०।
मूलपुष्कर = न० पुष्करस्य मूलं राज० पर०। पुष्करजूलेराजनि०।
मूलपोती = स्त्री पू–तच् गौ० ङीष् मूलं प्रधाना पोती। पूतिकायाम् राजनि०।
मूलप्रकृति = स्त्री मूलीभूता सर्वाद्या प्रकृतिः। मांख्यमतोक्ते सर्वेषां कारणिभूते साम्यावस्थापन्ने सत्त्वरजस्तमोकृपे त्रिगुणात्मके १ प्रधाने “मूलप्रकृतिरविकृठिः” सांख्यकारिका। २ दृर्गायाञ्च ब्रह्मवै० पु० ४० अ०।
मूलफलद = पु० मूलेऽपि फलां ददाति प्रसूते दा–क। पनसवृक्से राजनि०।
मूलरस = पु० मूले रसो यस्य। मोरटालतायाम् रत्नमाला।
मूलशाकट = न० मूलानां क्षेत्रं मूल + शाकट। मूलभवनयोग्ये क्षेत्रे शाखिन। मूलशाकिनोऽप्यत्र पु०।
मूला = स्त्री मूलानि बाहुल्येन सन्त्यस्याः अच्। शतमूल्याम् राजनि०
मूलाधार = पु० ६ त०। १ नाभिलिङ्गयोर्मध्ये तस्य हि शरीरस्य मकलनाडीनां मूलस्थानत्वात्तथात्वम् “भूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके। मध्ये स्वयम्भूलिङ्गन्तु कोटिसूर्य्यसमप्रभम्” इत्युक्तलक्षणे त्रिकोणाकारे तन्त्रोक्ते २ सुषुम्णानाडीस्थे चक्रभेदे च।
मूलिन् = पु० मूलमस्त्यस्य इनि। वृक्षे शब्दच०। ठन्। मूलिकोऽप्यत्र।
मूल्य = न० मूलाय पटादिकारणतन्त्वाद्यादानाय इदम् यत्। तन्त्वाद्यादानाय दीयमाने १ धने अमरः। मूल–णृत्। वपनयोग्ये त्रि०।
मूष = लुण्ठने भ्वा० पर० सक० सेट्। मूषति अमूषीत्। मुमूष
मूष = पुंस्त्री० मूष–क। १ मूषिके रत्ना० स्त्रियां ङीष्। २ तैजसद्रव्यद्रावणपात्रे (मुचि) अमरः। ३ नवाक्षे “एकद्वित्र्यादि मूषावहने” ति लीला० ५ देवताडवृक्षे च स्त्री शब्दच०
मूषक = पुंस्त्री० मूष–ण्वुल् स्त्रीत्वे टाप् अत इत्त्वम्। उन्दुरौ शब्दच०।
मूषकपर्ण्णी = स्त्री मूषकस्तत्कर्ण इव पर्णान्यास्याः। (उन्दुरकानी) आखुकर्ण्याम् मूषिककर्ण्यादयोऽप्यत्र।
मूषरिफ = पु० नील० ता० उक्ते इशराफाख्ये योगभेदे “शीघ्रो यदा मन्दगतेरथैकमप्यं शमत्येति तदेशराफः। कार्य्यक्षयो मूषरिके खलोग्ये सौम्ये न हिल्लाजमतेन चिन्त्यम्”।
मूषिक = पुंस्त्री० मूष–इन्। १ उन्दुरौ अमरः स्त्रीत्वे टाप्। २ मुषिकपर्ण्यां स्त्री शब्दर० ३ मूषायां भरतः।
मूषिकपर्ण्णी = स्त्री मूषिककर्ण इव पर्णान्यस्याः जलजतृणभेदे शब्दर०।
मूषी = स्त्री मूष + इन् गौ० ङीष्। १ स्वर्णाद्रेर्द्रावणपात्रे (सुची) २ महामूषिके राजनि०।
***