वाचस्पत्यम्
मर to मह
links:
Menu अ–ह
Prev मद–मय
Next मा–मू
मर
मर्च
मश
मह
महात
महाभ
महाव
महि
UpasanaYoga
.org

मरक = पु० मृ–वुन्। १ दैविकभौतिकोपद्रवष्यन्थे प्राणिनाम कालमरणे (मडक) २ मारिभवे हेमच०।

मरकत = न० मरकं मारिभयं तरत्यनेन तॄ–ड। हरिद्वर्णेमणिभेदे (पान्ना) अमरः। तल्लक्षणादि परिशिष्टे दृश्यम्

मरकतपत्त्री = स्त्री मरकतमिव हरिद्वर्णं पत्त्रमस्याः ङीप्। पाच्याम् राजनि०।

मरण = न० म्रियतेऽनेन मृ–करणे ल्युट्। वत्सनाभाख्ये १ विषे राजनि०। भावे ल्युट्। देहात्मनोर्विच्छेदरूपे, प्राणवायोरुत्क्रमणरूपे वा २ व्यापारभेदे।

मरत = पु० मृ–अतच्। मरणे उणा०।

मरन्द = पु० मरं मरणं द्यति भ्रमराणां जीवनहेतुत्वात् दोक पृषो० मुम्। मकरन्दे शब्दर०।

मराकाली = स्त्री मरो मरणकालिकं दुःखमिवाकति यात्यनेन मराको वृश्चिकः स इवालति पर्य्याप्नोति दुःखदानाय अल–अच् गौरा० ङीष्। वृश्चिकालौ (विछाति) रत्नमाला।

मराल = पु० मृ–आलच्। १ राजहंसे जटा० “तत्रामरालयमरालमरालकेशी” नैषधम्। २ कज्जले ३ कारण्डवे ४ अश्वे ५ मेघे ६ दाडिमीवने च सारस्वतः। ७ चिक्वणे त्रि० त्रिका०।

मरि(री)च = पु० मृ–इच–पृ० वा दीर्घः। १ स्वनामख्याते वृक्षे अमरः। २ कक्कोलके राजनि०।

मरि(री)चपत्त्रक = पु० मरिचस्येव पत्त्रमस्य कप्। सरलवृक्षे राजनि०।

मरीचि = पु० मृ ईचि। सप्तर्षिमध्ये ब्रह्मणो मानसे ज्येष्ठे पुत्रे १ मुनिभेदे २ कृपणे च हेमच०। ३ किरणे पुंस्त्री० अमरः।

मरीचिका = स्त्री मरीचौ सूर्य्यकिरणे कमिव यत्र भ्रान्तौ। सूर्य्यकिरणे जलभ्रान्तौ, मृगतृष्णायाम् अमरः।

मरु = पु० मृ उ। १ पर्वते २ निर्जलदेशे च अमरः ३ कुरुवकवृक्षे भावप्र० ४ देशभेदे च (माडयार) हेमच०।

मरुज = पु० मरुदेशे जायते जन ड। १ नखीनामगन्धद्रव्ये शब्दच०। २ निर्जलदेशजाते त्रि०। ३ मृगकर्कोट्याम् स्त्री राजनि०।

मरुत् = पु० मृ उति। १ वायौ अमरः २ मरुवके भावप्र० ३ देवे ४ ग्रन्धिपर्णे न० मेदि०। ५ पृक्कायां स्त्री शब्दर०। स्वार्थे प्रज्ञाद्यण्। मारुतोऽप्यत्र। पृषो० ह्रस्वः। मरुतोऽपि देवे च वायौ च व्याडिः।

मरुत्कर = पु० मरुतमपानवायुं करोति कृ–अच्। राजमाषे शब्दच०।

मरुत्त = पु० चन्द्रवंश्ये १ नृपभेदे।

मरुत्तक = पु० मरदिव तकति तक–हासे अच्। मरुवके भावप्र०

मरुत्पथ = पु० ६ त०। आकाशे। मरुद्वर्त्मादयोऽप्यत्र।

मरुत्पाल = पु०। मरुतो देवान् पालयति पाल–अण्। इन्द्रे

मरुत्वत् = पु० मरुत् पाल्यत्वेन हेतुत्वेन वाऽस्त्यस्य न पदत्वम् मस्य वः। १ इन्द्रे अमरः। २ हनूमति शब्दर०।

मरुत्सख = पु० मरुतो वायोः सखा–टच्समा०। १ इन्द्रे धरणिः। २ वह्नौ ३ चित्रकवृक्षे च।

मरुदान्दोल = न० मरुतमान्दोलयत्यनेन करणे घञ्। व्यजने शब्दमाला।

मरुदिष्ट = पु० मरुतां देवानामिष्टः। गुग्गुलौ राजनि०।

मरुद्भवा = स्त्री मरुतो वायोर्भवति वर्द्धते मू–अच् ५ त०। ताम्रमूलीक्षुपे (खिराट) रत्नमा०।

मरुद्रुम = पु० मरोर्निर्जलदेशस्य द्रुमस्तत्रजातत्वात्। विट्खंदिरे रत्नमा०

मरुद्वाह = पु० मरुत् वाह इव यस्य। १ धूमे त्रिका० २ वह्नौ शब्दमा० ३ चित्रकवृक्षे च।

मरुन्माला = स्त्री मरुतो भालेव। (पिडिङ्शाक) पृक्कायाम् अमरः।

मरुभू = पु० मरुर्भूमिर्यत्र (माडआर) १ देशभेदे त्रिका०। कर्म०। २ निर्जलभुवि स्त्री।

मरुभूरुह = पु० मरुभुवि निर्जलभूमौ रोहति रुह–क। करवीरे भावप्र०।

मरुव = पु० मरुं निर्जलदेशं वाति कारणत्वेन वा क। (नागदाना) (मरुआ) वृक्षभेदे। स्वार्थे क। तत्र वृक्षभेदे (मयना) स्वल्पपत्रतुलस्याम् अमरः। त्तम्बीरभेदे भरतः पुष्पप्रधाने (मरुयाफुल) वृक्षभेदे रत्नमा० व्याक्रे, राहौ भयानके च जटा०।

मरुसम्भवा = स्त्री मरौ सम्भवति सम् + भू–अच् ७ त०। क्षुद्रदुरालभायाम् राजनि० मरुस्थादयोऽप्यत्र।

मरूद्भवा = स्त्री मरौ उद्भवति उद् + भू–अच् ७ त०। १ कार्पास्यां २ क्षुद्रखदिरे ३ यवासे च राजनि०।

मर्क = गतौ सौ० पर० सक० सेट्। मर्कति अमर्कीत् ममर्क।

मर्कट = पुंस्त्री० मर्क–अटन्। १ वानरे अमरः। स्त्रियां ङीष् २ उर्णनाभे (माकडसा) ३ स्थावरविषभेदे हेमच० (हाडगिला) ४ पक्षिभेदे च पुंस्त्री० त्रिका० स्त्रियां ङीष्। स्वार्थे क। मर्कटक तत्रैव संज्ञायां कन्। मत्स्यभेदे दैत्यभेदे च शब्दर०।

मर्कटतिन्दुक = पु० कर्कटप्रियस्तिन्दुकः शाक० त०। कुपीलौ भावप्र०।

मर्कटपिप्पली = स्त्री० मर्कटप्रिया पिप्पली शाक० त०। अपामार्गे राजनि०।

मर्कटप्रिय = पु० ६ त०। क्षीरद्वक्षे (खिरुइ) शब्दमा०।

मर्कटवासस् = पु० ६ त०। (माकडसाजाल) लूतासूत्रे शब्दर०

मर्कटशीर्ष = न० मर्कटस्य वानरस्य शीर्षमिव। हिङ्गुले रत्नमा०

मर्कटास्य = मर्कटस्य वानरस्यास्यमिव रक्तत्वात्। १ ताम्रवर्णे हेम० २ तद्वति त्रि०।

मर्कटी = स्त्री मर्कटोस्त्यस्याः स्निग्धत्वेन अच् गौ० ङीष्। १ अपामार्गे २ अजमोदायाम् राजनि० ३ करञ्जभेदे (माकडकरमचा) अमरः। ४ मर्कटीजाले पिङ्गलः।

मर्कटीजाल = न० छन्दोग्रन्थोक्ते मात्रावर्णप्रस्तावे लघुगुरु स्थानविशेषज्ञानाय चक्रभेदे वृ० र० ग्रन्थटीकायां दृश्यम्।

मर्कर = पु० मर्क–अरच्। १ भृङ्गराजे (केशुरिया) २ भाण्ड च २ सुरङ्गायां ४ बन्ध्यायां स्त्रियाञ्च स्त्री विश्वः टाप्।

मर्च = ग्रहणे चु० उभ० सक० केट्। मर्चयति–ते अममर्चत्–त

मर्जु = पु० मृज–उन्। १ रजके २ पीठमर्दे च हेमच०। ३ शुद्धौ स्त्री मेदि०।

मर्त्त = पु० मृ–तन्। १ मनुष्ये २ भूलोके च। तत्र भवः यत्। मर्त्त्य मनुष्ये।

मर्द्दन = न० मृद–ल्युट्। १ गात्रपादादिसंवाहने अमरः २ चूर्णने च।

मर्द्दल = पु० भृद–घञ् मर्द्दं लाति ला–क। वाद्यभेदे (मा~दल)। अमरः।

मर्द्दित = त्रि० चु० मृद–क्त। १ चूर्णिते २ ग्रन्थिते च भरतः।

मर्ब = गतौ भ्वा० पर० सक० सेट्। मर्बति अमर्बीत् ममर्ब!

मर्म्मज्ञ = पु० मर्म जानाति ज्ञा–क। तत्त्वज्ञे। मर्मबिदादयोऽप्यव!

मर्मन् = न० मृ–मनिन्। १ जीवनस्थाने राजनि०। २ सन्धिस्थाने ३ तात्पर्व्ये च “अपि धर्मागमनर्मपारगैरि” ति नैषधम्। “सन्निपातः सिरास्नायुसन्धिमांसास्थिसम्भवः। मर्माणि तेषु तिष्ठन्ति प्राणाः खलु विशेषतः” भावप्र०।

मर्म्मर = पु० मृ–अरन् मुट् च। १ वस्त्रपर्णानां शब्दे (मडमड) इत्यव्यक्तशब्दे अमरः। २ पीतदारुणि ३ हरिद्रायाञ्च स्त्री मेदि० गौरा० ङीष्।

मर्म्मस्पृश् = त्रि० मर्म्म प्राणस्थानं स्पृशति स्प्रश–क्विन्। अरुन्तुदे मर्मपीडके अमरः।

मर्माविध् = त्रि० मर्म्म सन्धिस्थानं विध्यति विध–क्विप् पूर्वदीर्घश्च। ममेपीदृके।

मर्य्या = अव्य० म्रियतेऽवशिष्यतेऽत्र मृ–यत्। १ सीमायाम् स्त्री त्वमपि राय०। कर्त्तरि यत्। २ मनुष्ये पु०। “पेशो मर्य्या अपशमे” इति केतुमन्त्रः। “मर्य्यामनुष्या” इति भाष्यम्।

मर्य्यादा = स्त्री मर्य्यायां सीमायां दीयते दा–घञर्थे क पर्य्यादीयते वा परि + आ–दा–अङ् पृषो० पस्य मः। १ न्याय्यपथस्थितौ अमरः। २ सीमायाम् जटा० ३ कूले च हेमच०।

मर्व = पूर्त्तौ भ्वा० पर० सक० सेट्। मर्वति अमर्वीत् ममर्व।

मल = धृतौ भ्वा० आ० अक० सेट्। मलते अमलिष्ट।

मल = पु० मृज्यते शोध्यते मृज–कल–टिलोपः। १ पापे २ पुरीषे लौहादीनां ३ किट्टे अमरः। किट्टं कलङ्को मण्डूरादिर्देहजातस्वेदश्लेष्मादिश्च। “वसा शुक्र समृङ्मज्जामूत्रं विट्कर्णविड्नखाः। श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मनाः” स्मृतिः। ४ कर्पूरे शब्दच० ५ वातपित्तकफेषु च माधवः। ५ दुष्टे ६ सम्बन्धे च।

मलघ्न = पु० मलं विष्ठां हन्ति रेचयति हन–क। १ शाल्मलीकन्दे २ नागदमन्यां स्त्री ङीप् राजनि०। ३ मलनाशके त्रि०। क्विप्। मलहन् तत्रार्थे त्रि०।

मलदूषित = त्रि० ३ त०। मलिने अमरः।

मलद्राविन् = पु० मलं द्रावयति रेचयति द्रु–णिच्–अण्। जयपाले राजनि०। तत्फलस्य रेचकत्वात् तथात्वम्।

मलपू = स्त्री मलं मलस्थानं पुनाति पू–क्विप्। काकोडुम्बरिकायाम् अमरः।

मलभेदिनी = स्त्री मलं भेदयति रेचयति भिद–णिच्णिनि। कटुकायाम्। (कट्की) राजनि०।

मलमास = पु० मलो दुष्टो मासः। “अमावस्याद्वयं यत्र रविसंक्रान्तिवर्जितम्। मलमासः स विज्ञेयः” इत्युक्ते रविसंक्रान्तिशून्ये शुक्लप्रतिपदादिदर्शान्तरूपे चान्द्रे मासे। अधिमासशब्दे १३१ पृ० दृश्यम्।

मलय = पु० मल–कयन्। दक्षिणस्थे १ पर्वतभेदे हेम०। यत्र चन्दनजन्म तत्पर्वतान्तिकस्थे २ देशभेदे ३ उपवने ४ शैलाङ्गे च मेदि०। ५ नन्दनवने धरणिः। अष्टादशसु द्वीपेषु ६ द्वीपभेदे शब्दमा० ७ ऋषभदेवस्य पुत्रभेदे भाग० ५। ४।

मलयज = पुंन० मलये पर्वते जायते जन–ड। १ चन्दने अमरः २ मलयदेशजाते वायौ पु०। ३ तद्देशजाते त्रि०।

मलया = स्त्री मलयो देशोऽस्त्यस्याः कारणत्वेन अच्। त्रिवृतायां (तेओडि) मेदि०।

मलविनाशिनी = स्त्री मलं तद्दोषं विनाशयति वि + नशणिच्–णिनि। शङ्खपुष्प्याम् राजनि०।

मलाकर्षिन् = पु० मलमाकर्षति आ + कृष–णिनि। हड्डिके (मेतर) शब्दमा०।

मलाका = स्त्री मल–आक। १ कामिन्यां २ दूत्यां ३ हस्तिन्याञ्च सक्षिप्तमा०।

मलारि = पु० मलस्य कलङ्ककिट्टादेररिः। सर्वक्षारद्रव्ये राजनि०

मलिन = त्रि० मल + अस्त्यर्थे इनन्। १ मलयुक्ते अमरः। २ द्रषिते ३ कृष्णे च मेदि०। ४ घोले न० शब्द च०। ५ दोषे हेम० ६ टङ्कणे न० राजनि० (सोहागा)। इनि। मलीत्यप्यत्र

मलिनमुख = पु० मलिनं मुखं यस्य १ वह्नौ तस्यादौ धूमाय मानत्वेन कृष्णत्वात् २ चित्रकवृक्षे च। ३ वानरे पुंस्त्री० मेदि० स्त्रियां ङीष् ४ क्रूरे ५ खले च त्रि० मेदि० ६ प्रेते हेम०।

मलिम्लुच = पु० मली वैदिककर्मानर्हत्वेन दुष्टः सन् म्लोचति गच्छति म्लुच–क। १ मलमासे २ वायौ ३ अग्नौ ४ चौरे च मेदि०। ५ चित्रकवृक्षे।

मलीमस = त्रि० मल–ईमसच्। १ मलिने अमरः। २ लौहे ३ पुष्पकासीसे च मेदि०।

मल्ल = धृतौ भ्वा० आ० अक० सेट्। भल्लते अमल्लिष्ट ममल्ले।

मल्ल = पु० मल्ल–अच्। १ बाहुयुद्धकारके नियोद्धरि २ पात्रे ३ वलीयसि ४ मत्स्यभेदे ५ कपोले च मेदि० ६ ब्रात्यक्षत्रियात् सर्ववर्णायां जाते जातिभेदे (माल) ७ सङ्कीर्णजातिभेदे लेटात् श्रीधरकन्यायां जाते सङ्कीर्णवर्णे (माला) ब्रह्मवै० पु० ६ तन्त्रवाय्यां कुन्दकाराज्जाते सङ्कीर्णजातिभेदे च पुंस्त्री० स्त्रियां जातित्वात् ङीष्। ९ देशभेदे स्वार्थे क मल्लक तत्रार्थे। संज्ञायां कन्। दन्ते हेम०।

मल्लक = पु० मल्ल्यते ध्रियतेऽत्र मल्ल–वुन्। १ दीपाधारे पात्रे २ नारिकेलफलजाते पात्रे च (माला) अमरः। ५ प्रदीपे मथुरेशः ६ स्वनामपुष्पे स्त्री अमरः टाप् अत इत्त्वम्।

मल्लज = न० मल्ले देशे जायते जन–ड। मरिचे जटा०।

मल्लभू = स्त्री मल्लक्रीडनस्य बाहुयुद्धस्य योग्या भूः स्थानम्। देशभेदे। मल्लभ्म्यादयोऽप्यत्र।

मल्लयुद्ध = ६ त०। बाहुयुद्धे तत्प्रकारः भा० वि० १२ अ०।

मल्लार = पु० मल्ल इव ऋच्छति ऋ–अच्। १ रागभेदे २ वसन्तरागस्य रागिणीभेदे स्त्री ङीप् सङ्गीतदामो०।

मल्लि(ल्ली) = स्त्री मल्ल–इन् वा ङीप्। १ मल्लिकायाम् शब्दमा० संज्ञायां कन्। मल्लिका कृष्णवर्णदेहे आलोहितचञ्चुचरणे २ हंसभेदे पुंस्त्री० मल्लिकाक्षोऽप्यत्र।

मल्लिकापुष्प = पु० मल्लिकाया इव पुष्पमस्य। १ कुटजवृक्षे राजनि०। २ करुणवृक्षे च हेमच०। ६ त०। ३ मल्लिकायाः कुसुमे।

मल्लिपत्र = न० मल्लिरिव पत्त्रमस्य। छत्राके त्रिका०।

मव = बन्धे भ्वा० पर० सक० सेट्। मवति अमवीत् अमाकीत्।

मव्य = बन्धे भ्वा० पर० सक० सेट्। मव्यति अमव्यीत्।

मश = ध्वनौ अक० कोपे सक० भ्वा० पर० सेट्। मशति अमशीत्–अमाशीत् मेशतुः।

मशक = पु० मश–वुन्। १ कीटभेदे (मशा) राजनि०। २ चर्ममयजलपात्रभेदे ३ रोगभेदे शब्दर०। तद्रोगलक्षणं यथा “अवेदनं स्थिरं चैव यत्तु गात्रे प्रदृश्यत। माषवत् कृष्णमुत्पन्न मलिनं मशकं दिशेत्” गरु० पु० १७५ अ०।

मशकिन् = पु० मशकोऽस्त्यस्य इनि। उदुम्बरवृक्षे हेम०।

मशहरी = स्वी मशं मशकं हरति हृ–ट। मशकनिवारणार्थे वस्त्रनिर्मिते पदार्थे चतुष्क्याम् जटा०।

मशि(सी) = स्त्री मश(स) इन् वा ङीप्। (काली) १ पत्रलेखनद्रर्व्ये त्रिका०। २ नीलशेफालिकावृक्षे च शब्दर०।

मष = बधे भ्वा० पर० सक० सेट्। मषति अमषीत् अमाषीत्।

मस = परिणामे अक० परिमाणे सक० दि० पर० सेट्। मस्यति इरित् अमसत् अमसीत् अमासीत्। पुषादिरयं तेन अमसदित्येवेति पाणिनीयाः।

मसन = न० मस–ल्यु। सोमराजीवृक्षे शचब्द०।

मसरा = स्त्री मस–अरच्। मसूरे जटा०।

मसिका = स्त्री मसीव इवार्थे कन्। नीलशेफालिकायाम् शब्दर०।

मसि(सी)जल = न० मसिमिश्रितं जलम्। (काली) लेखनद्रव्ये त्रिका०

मसिधान = न० मसिर्धीयतेऽत्राधारे धा–ल्युट्। मस्याघारे (दोआत) स्त्रीत्वमपि तत्र ङीप्।

मसिपण्य = पु० मसिस्तदुपलक्षितमक्षरमेव पण्यं विक्रेयं यस्य। लेखनोपजीविनि त्रिका०।

मसिप्रसू = स्त्री मस्याः प्रसूरिव। १ मस्याधारे। मसिः प्रसूरिव यस्याः। २ लेखन्याम् हारा०।

मसीना = स्त्री मस–ईनन्। अतस्याम् (तिसि) शब्दच०।

मसु(सू)र = पुंस्त्री० मस–उरच् ऊरच् वा। १ कलायमेदे त्रिका स्त्रियां गौरा० ङीष्। २ वेश्यायां, ३ ब्रीहिभेदे च स्त्री र्ठाप् मेदि०।

मसूरविदला = स्त्री मसूरस्येव विदलं यस्याः। १ कृष्णत्रिवृति (कालतेओटी) अमरः। २ श्यामलतायां रत्नना०।

मसूरिका = स्त्री मसूरेव इवार्थे कन्। १ वसन्तरोगे २ कुट्टिन्याञ्च शब्दमा० “कट्वम्ललवणक्षारविरुद्धाध्यशनाशनैः। दुष्टनिष्पावशाकाद्यैः प्रदुष्टपवनोदकैः। क्रुद्धग्रहेक्षणाच्चापि देशे दोषाः समुद्धताः। जनयन्ति शरीरेऽस्मिन् दुष्टरेक्ते समुद्धताः। मसूराकृतिसंस्थानाः पिडक्राः स्युर्मसूरिकाः” भावप्र०।

मसूरी = स्त्री मस–ऊरच् गौरा० ङीष्। १ वसन्तरोगे मेदि० २ त्रिवृति, ३ रक्तत्रिवृति च राजनि०।

मसृण = त्रि० मस–ऋण, सम् + ऋण–क पृषो० वा। १ स्निग्धे २ अकर्कशे च। ३ अतस्यां स्त्री मेदि०।

मस्क = गतौ भ्वा० पर० सक० सेट्। मस्कति अमस्किष्ट।

मस्कर = पु० मस्क–अरच्। १ वंशे अमरः। २ रन्ध्रयुक्तवंशे च राजनि०। भावे अरच्। ३ गतौ ४ ज्ञाने च।

मस्करिन् = पु० मस्करो ज्ञानं गतिर्वास्त्यस्य इनि, मा कर्त्तुं कर्म निषेद्धुं शीलमस्य मा + कृ–इनि “मस्करमस्करिणाविति” निवा०। १ परिव्राजके विधानेन स्वकर्मपरित्याजके भिक्षौ अमरः। “धारयन् मस्करिव्रतम्” मट्टिः २ चन्द्रे च शब्दच०।

मस्ज = स्नाने तु० पर० अक० अनिट्। मज्जति अमाङ्क्षीत्। ओदित् क्त मग्नः। ट्वित् अथु मज्जथुः।

मस्त(क) = न० मस्मति परिमात्यनेन मस–करणे त। १ उच्चे त्रि०। २ शिरसि च स्वार्थे क। ३ उत्तमाङ्गे पुंन०।

मस्तकस्नेह = पु० ६ त०। शिरःस्थितमज्जायाम् मस्तिष्के हेमच०।

मस्तदारु = न० मस्यति परिमात्यनेन मस्तमुच्चं कर्म०। देवदारुणि भावप्र०।

मस्तमूलक = न० मस्तस्य मूलमिव इवार्थे कन्। शिरोधरायाम् ग्रीवार्वायाम् शब्द च०।

मस्तिष्क = न० मस–क्तिन् मस्तिं पतिणतिभेदं मुष्कति मुष्क गतौ अच् पृषो०। मस्तकस्थे स्वेहाकारे पदार्थे (मगज) अमरः। मांसमस्तिष्कपङ्क प्राग्भारे” प्रवोघचन्द्रोदयम्।

मह = पूजायां भ्वा० पर० सक० सेट्। भहति अमहीत् मेहतुः।

मह = वृद्धौ भ्वा० आ० अक० सेट् इदित्। भहते अमंहिष्ट।

मह = पूजने अद० चु० उभ० सक० सेट्। महयति–ते अममहत्–त।

मह = पु० मह–घञर्थे क। १ उत्सवे सततानन्दजनकव्यापारे अभरः। २ तेजसि मेदि०। ३ यज्ञे पु० ४ महिषे च पुंस्त्री० हेमच०।

महत् = त्रि० मह–अति। १ विपुले २ वृद्धे च स्त्रियां ङीप् महती ३ राज्ये न० मेदि०। ४ साङ्ख्योक्ते महत्तत्त्वे पु० “प्रकृतेर्महानिति” श्रुतिः। “मनो महान् मतिर्ब्रह्मा” इत्युक्ते ५ हिरण्यगर्भलिङ्गदेहे शा० भा० सर्वनामस्थाने नुम्दीर्थौ महान् महान्तौ एकार्थशब्दे परे समासे तस्थाने आ। महाधनम्

महती = स्त्री मह–अत् + गौरा० ङीष्। १ वीणाभेदे अमरः २ नारदवीणायाम् भरतः। “अवेक्षमाणं महतीं मुहुर्मुहुः” माघः। ३ वृहत्यां ४ वार्त्ताक्यां ५ विपुलायां स्त्रियाञ्च राजनि०। समासे तीस्थाने आ। महत्या० घासः महाघासः इत्यादि।

महत्तत्त्व = न० कर्म०। सांख्योक्तप्रकृत्यादिचतुर्विंशतितत्त्वमध्ये प्रकृतिकार्य्ये अहङ्कारादिकारणे निश्चयात्मकवृत्तिविशिष्टे तत्त्वभेदे।

महर् = अव्य० मह–अरु। १ ऊर्ध्वस्थे चतुर्थे लोके २ व्याहृतिभेदे च।

महर्लोक = पु० कर्म०। भूरादिषु ऊर्ध्वस्थे सप्तलोकान्तर्गते चतुर्थे लोके

महर्षि = पु० कर्म०। परमर्षिशब्दार्थे वेदव्यासादौ त्रिका०। “ऋषिर्हंसागतौ धातुर्विद्यासत्यतपःश्रुतैः। एष सन्निचयो यस्माद् ब्राह्मणश्च ततस्त्वृषिः। विवृतिसमकालन्तु बुद्ध्या व्यक्तमृषिस्त्वयम्। ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः। गत्यर्थादृषतेर्धातोर्नाम निर्वृतिकारणम्। यस्मादेष स्वयम्भूतस्तस्माच्च ऋषिता मता। तेनेश्वराः स्वयम्भूता ब्रह्मणो मानसाः सुताः। विवर्द्धमानैस्तैर्बुद्धा महान् परिगतः परम्। यस्मादृषिः परत्वेन महांस्तस्मान् महर्षयः” मत्स्यपु० १२० अ० तन्निरुक्तिः

महल्लिक = पु० “मुष्कशून्योऽनुपस्थो यः स्त्रीस्वभावो महल्लिकः शब्दमालोक्ते अन्तःपुररक्षकभेदे (खोजा)।

महस् = न० मह–असुन्। १ तेजसि २ उत्सवे च मेदि० ३ यज्ञे शब्दर०।

महा = स्त्री मह–अच्। (गोरक्षचाकलिया) १ गोपवल्ल्याम् शब्दच०। २ स्त्रीगव्यां शब्दर०।

महाकण्टकिनी = स्त्री महत् कण्टकमस्त्यस्य भूम्ना इनि ङीप् (फणिमनसा) वृक्षभेदे शब्दच०।

महाकन्द = पु० कर्म०। १ लशुने अमरः। २ राजपलाण्डौ ३ मूलके च शब्दर०

महाकपित्थ = पु० कर्म०। १ बिल्ववृक्षे त्रिका०। ३ रक्तलशुगे ४ चाणक्यमूलके राजनि०।

महाकरञ्ज = पु० कर्म०। करञ्जभेदे (का~टाकरमचा) राजनि०

महाकर्णिकार = पु० कर्म०। आरग्बधे (सोंदाल) राजनि०

महाकाय = पु० ६ ब०। १ शिवानुचरभेदे नन्दिनि त्रिका० २ हस्तिनि पुंस्त्री० स्त्रियां टाप्। २ विपुलदेहयुते त्रि०। कर्म०। ४ स्थूलदेहे पु०।

महाकार्त्तिकी = स्त्री कार्त्तिकीमधिकृत्य “प्रजापत्यं यदा{??}क्षं तथैतस्यां नराधिप!। सा महाकार्त्तिकी प्रोक्ता” उक्तायां रोहिणीनक्षत्रयुक्तायां कार्त्तिकपौर्णमास्याम्।

महाकाल = पु० कर्म०। १ अनवच्छिन्ने काले, २ शिवे च “महाकालेन च समम्” कालिकाध्यानम्। (माकाल) ३ लताभेदे रत्नमा०। ४ भैरवभेदे च “महाकालं यजेद्देव्या दक्षिणे धूम्रवर्णकम्” इति कालीतन्त्रम्।

महाकाव्य = न० कवेः कर्म काव्यं कर्म०। सर्गवन्धरूपे अष्टाधिकमर्गके ग्रन्थभेदे तल्लक्षणं साहित्यदर्तणे ६ प० दृश्यम्

महाकुम्भी = स्त्री महती कुम्भीव (पाना) कट्फले राजनि०।

महाकुल = न० कर्म०। “दशपुरुषविख्यातं श्रोत्रियाणां महाकुलम्” इति मनुनोक्ते दशपुरुषावधिवेदाध्यायिवंशे।

महाकुलीन = त्रि० महाकुले भवः खच्। महाकुलोद्भवे।

महाकोशफला = स्त्री कर्म०। देवदालीलतायाम् राजनि०।

महाकोषातकी = स्त्री कर्म०। हस्तिघोषायाम् राजनि०।

महागन्ध = न० महान् गन्धोऽस्य। १ हरिचन्दने २ वोले च राजनि०। ३ जलवेतसे वृक्षे पु० शब्दच०। ४ नागबलायां ५ कविकायां न्व स्त्री राजनि०। ६ चामुण्डायां स्त्री हेम०

महागुरु = पु० कर्म०। “त्रयः पुरुषस्यातिगुरवो भवन्ति पिता माता चाचार्य्यश्च” स्मृत्युक्ते पुरुषस्य १ पित्रादौ “पतिरेकोगुरुः स्त्रीणा” मित्युक्ते दत्तकन्याया २ भर्त्तरि अदत्तकन्यायाः पितरि, मातरि च। “महागुरुनिपाते च काम्यं किञ्चिन्नचाचरेत्” स्मृतिः।

महागुल्मा = स्त्री महान् गुल्मोऽस्याः। सोभवल्ल्याम् राजनि०

महागुहा = स्त्री महती गुहेव मूलमम्याः। पृश्निपर्ण्याम् राजनि०।

महाग्रीव = पुंस्त्री० महान् ग्रीवाऽस्य। १ उष्ट्रे राजनि० स्त्रियां ङीष्। २ दीर्घग्रीवायुक्ते त्रि० स्त्रियां टाप्।

महाघोषा = स्त्री घष्यते कर्मणि घञ् कर्म०। १ कर्कटशृङ्ग्याम्। (काकडशिङे) मेदि०। २ कुन्दुरुक्यां शब्दच०। महान् घोषोऽस्य अत्र वा। ३ विपुलशब्दवति त्रि०। ४ हट्टे न० मेदि०।

महाङ्ग = पुंस्त्री० महदङ्गमस्य। १ उष्ट्रे स्त्रियां ङीष्। २ गोक्षुरके ३ रक्तचित्रके च राजनि०। ४ विपुलावयवयुते त्रि०। कर्म०। ५ विपुलाङ्गे न०।

महाच्छद = पु० महान् छदोऽस्य। देवताडवृक्षे रत्नमा०।

महाच्छाय = पु० महती छाया यस्य। १ वटवृक्षे राजनि०। २ विपुलच्छायायुक्ते त्रि०।

महाच्छिद्रा = स्त्री महत् छिद्रमस्याः। महामेदायाम् राजनि०

महाजटा = स्त्री महती जटा यस्याः। १ रुद्रजटावृक्षे राजनि०। २ विपुलजटायुते त्रि०। कर्म०। ३ वृहत्यां, जटायाम् स्त्री।

महाजन = पु० कर्म०। वेदवाक्येषु श्रद्धावति जने। “महाजनो येन गतः स पन्थाः” भा० व० यक्षप्रश्नः।

महाज(म्बु)म्बू = स्त्री कर्म०। राजजम्बाम् रत्नमा०। दीर्घान्तः भावप्र० “राजजम्बूफलं स्वादु विष्टम्भि गुरु रोचनम्”।

महाजाली = खी कर्म०। १ पीतवर्णघोषाम्भम् अमरः। २ राजकोषातक्या राजनि०।

महाज्यैष्ठी = स्त्री “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा। पूर्णिमा रविवारेण महाज्यैष्ठी प्रकीर्त्तिता” उक्तलक्षणायां ज्यैष्ठपौर्णमास्याम्। “महाज्यैष्ठ्यां तु यः पश्येत् पुरुषः पुरुषोत्तमम्” प्रा० त० लक्षणान्तरं दृश्यम्

महाज्योतिष्मती = स्त्री कर्म०। (बडमालकाङ्गिनी) लताभेदे राजनि०।

महाढ्य = पु० महेन उत्सवेनाट्यः। १ कदम्बे राजनि०। कर्म०। २ महति प्रभौ त्रि०।

महातरु = पु० कर्म०। १ स्तुहीवृक्षे हेमच०। २ विपुलवृक्षे च।

महातल = न० कर्म०। अधःस्थेषु पातालेषु मध्ये पञ्चमे पाताले शब्दमा०।

महातारा = स्त्री कर्म०। तन्त्रोक्ते १ तारिणीभेदे २ जिनदेव्यां हेमच०।

महाताली = स्त्री कर्म०। विपुलतालीभेदे राजताल्याम् राजनि०

महातिक्त = पु० कर्म०। १ निम्बवृक्षे राजनि०। २ अतिशयतिक्तरसयुते त्रि०। ३ यवतिक्तायां स्त्री राजनि०। ४ पाठायां शब्दमा०।

महातीक्ष्णा = स्त्री कर्म०। १ भल्लातवृक्षे (भेला) राजनि० २ अतितीव्रे त्रि०।

महातेजस् = पु० महत् तेजोऽस्य। १ पारदे राजनि०। २ अतितेजस्विनि त्रि०। ३ कार्त्तिकेये हला०। ४ वह्नौ पु० शब्दच०। ५ चित्रकवृक्षे च।

महात्मन् = न० महान् आत्मा स्वभाव आशयो वा यस्य। महाशये।

महादान = न० कर्म०। विनायकादिसूक्तजपाङ्गके तुलापुरुषादिषोडशदाने “अथातः संप्रवक्ष्यामि महादानस्य लक्षणम्” इत्युपक्रम्य “आद्यन्तु सर्वदानानां तुलापुरुषसंज्ञकम्” इत्यादिना षोडशदानान्यभिधाय “विनायकादिग्रहलोकपालवस्वष्टकादित्यमरुद्गणानाम्। ब्रह्माच्युतेशार्कवनस्पतीनां स्वमन्त्रतोहोमचतुष्टयं स्यात्। जप्यानि सूक्तानि तथैव चैषामनुक्रमेणापि यथास्वरूपमित्युक्तं मात्स्ये। विस्तरस्तु मत्कृततुलादानादिपद्धतौ ज्ञेयः।

महादारु = न० कर्म०। देवदारुणि जटा०।

महादेव = पु० कर्म०। “ब्रह्मादीनां सुराणाञ्च मुनीनां ब्रह्मवादिनाम्। तेषां महत्त्वात् देवोऽयं महादेवः प्रकीर्त्तितः” इत्युक्ते “महती पूजिता विश्वे मूलप्रकृतिरीश्वरी। तस्याः देवः पूजितश्च महादेवस्ततः स्मृतः” इत्युक्ते च शिवे।

महाद्रुम = पु० कर्म०। १ अश्वत्थवृक्षे शब्दच०। तस्य विष्णुरूपत्वात् महत्त्वम्। २ वृहद्वृक्षे च।

महाधन = न० महत् मूल्यरूपं धनमस्य। १ बहुमूल्ये अमरः। २ सुवर्णे ३ सिह्लके च मेदि०। ४ मनोज्ञवस्त्रे हेमच० ५ कृषौ पु० शब्दरत्नावली। ६ अतिशयधनयुते त्रि०।

महाधातु = पु० कर्म०। स्वर्णे शब्दच०।

महानदी = स्त्री। १ ओड्रदेशस्थे नदीभेदे २ समुद्रगामिन्यां नद्याञ्च।

महानन्द = पु० महान् अतिवृहत् १ आनन्दो यत्र १ मोक्षे हला० कर्म०। २ अतिशयानन्दे पु० “माघमासस्य या शुक्ला नवमी लोकपूजिता। महानन्देति सा प्रोक्तेत्युक्तायां ३ माघशुक्लनवम्यां ४ सुरायां राजनि० ५ नदीभेदे च स्त्री।

महानन्दि = पु० कलौ क्षत्रान्तकरस्य महापद्मनृपभेदस्य पितरि।

महानवमी = स्त्री कर्म०। आश्विनशुक्लमधिकृत्य “ततोऽनु नवमी यस्मात् सा महानवमी स्मृता” इत्युक्तायाम् आश्विनशुक्लनवम्याम्।

महानस = न० महदना संज्ञायाम् अच्। पाकस्थाने अमरः।

महानाटक = न० दृश्यकाव्यनाटकभेद “एवदेव यदा सर्वैः पताकास्थानकैर्युतम्। अङ्कैश्च दशभिर्धौरा महानाटकमूचिरे”। सा ६ प०। २ हनुमन्नाटके च।

महानाद = पुंस्त्री० महान् नादोऽस्य। १ गजे स्त्रियां ङीष्। २ गर्जन्मेघे मेदि० ३ सिंहे पुंस्त्री० स्त्रियां ङीष् ४ कर्णे च हेमच०। ५ उष्ट्रे पुंस्त्री० राजनि० स्त्रियां ङीष्। ६ कण्ठवाद्ये पु० हारा०। कर्म०। ७ महति शब्दे च।

महानिद्रा = कर्म०। मरणे जटा० तत्र पुनः प्रत्युत्थानाभावात्तथात्वम्।

महानिम्ब = पु० कर्म०। (घोडानिम) वृक्षभेदे रत्नमा०।

महानिशा = स्त्री “महानिशा तु विज्ञेया मध्यमप्रहारद्वयम्” इत्युक्ते रात्रेर्मध्यमप्रहरद्वये।

महानील = पु० कर्म०। १ भृङ्गराजे २ मणिभेदे “यत्तु वंर्णस्य भूयस्त्वात् क्षीरे शतगुणे स्थितः। नीलतां तनुयात् सर्वं महानीलः स उच्यतै” गरुडपु० ७२६ अ० दनागभेदे मेदि० ४ महाजम्ब्वाञ्च राजनि० ५ तन्त्रभेदे न०। ६ नीलापराजितायां स्त्री राजनि० गौरां० ङीष्।

महानुभाव = पु० महाननुभाव आशयो यस्य। महाशये शब्दर०।

महापञ्चमूलक = न० वृहत्पञ्चमूले। “बिल्वोऽग्निमन्थः श्योनाकः काश्मर्य्यः पाटला तथा। सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम्” राजनि०।

महापञ्चविष = “शृङ्गी च कालकूटश्च मुस्तको वतसनामकः। शङ्खकर्णीति योगोऽयं महापञ्चविषाभिधः” इत्युक्ते पञ्चविधे विषे।

महापत्त्रा = स्त्री महत् पत्त्रमस्याः। महाजम्बूवृक्षे रत्नमा०।

महापथ = पु० कर्म०। १ राजमार्गे हेमच०। २ हिमालयोत्तरस्थे ३ स्वर्गारोहणपथे च।

महापद्म = पु० कर्म०। १ अष्टनागमध्ये नागभेदे हेमच० २ कुवेरस्य निविभेदे जटा० “अर्बुदमब्जं खर्वनिखर्वमहापद्मेति” लीलावत्युक्तायाम् ३ अयुतकोटिसंख्यायां ४ तत्संख्यान्विते न० ५ नृपभेदे महानन्दिसुते च ६ शुक्लपद्मे रत्नमा०।

महापातक = न० “ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तत्संसर्गश्च पञ्चमः” इत्युक्तेषु पञ्चसु पातकेषु महापापमप्यत्र।

महापिण्डीतक = पु० कर्म०। कृष्णवर्णे विपुलमदनवृक्षे राजनि०

महापीलु = पु० कर्म०। मधुपीलौ राजनि० अतिमधुरत्वात्तस्य हि महत्त्वम्।

महापुराण = न० न० “सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषाञ्च पालनम्। कर्मणां वासना वार्त्ता मनूनाञ्च क्रमेण च। वर्णनं प्रलयानाञ्च मोक्षस्य च निरूपणम्। उत्कीर्त्तनं हरेरेव देवानाञ्च पृथक् पृथक्। महापुराणं विज्ञेयमेकादशकलक्षणम्” ब्रह्मवै० ज० १३२ अ० इत्युक्तलक्षणे व्यासप्रणीते पुराणभेदे।

महापुरुष = पु० कर्म०। १ श्रेष्ठे नरे २ नारायणे च। “वन्दे महापुरुष! ते चरणारविन्दमि” ति भागवतम्।

महापुरुषदन्ता = पु० महापुरुषस्य विष्णोः दन्ता इव महत्त्वात् मूलान्यस्य। शतमूल्याम् रत्नमा०।

महापुष्पा = स्त्री महत् यन्त्रपुष्पत्वेन प्रशस्तं, पत्त्र पेक्षया वृहत् वा पुष्पं यस्याः। अपराजितायाम् शब्दच०।

महाप्रलय = पु० कर्म०। ब्रह्मणो दिनावसाने जायमानः सर्वभूतक्षयः प्रलयः तस्यैव स्वमानेन शतवर्षावसाने जायमानस्तु महान् प्रलयः १ तस्मिन् २ तदुपलक्षिते जन्यद्रव्यानधिकरणीभूते काले च। ३ जन्यभावानधिकरणीभूते काले इत्यन्ये। तत्रप्रमाणाभाव इति नव्यनैयायिकाः

महाप्रासाद = पु० “पादोदकञ्च निर्माल्यं नैवेद्यञ्च विशेषतः। महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः” इत्युक्ते १ देवनैवेद्यादौ २ विपुलप्रसन्नतायाञ्च।

महाप्राण = पुंस्त्री० महान् बहुकालस्थायित्वात् श्रेष्ठः प्राणो यस्यं। १ द्रोणकाके राजान० स्त्रियां ङीष् कर्म०। २ वर्णोच्चारणस्य वाह्यप्रयत्रभेदे स च वर्ग्यद्वितीयचतुर्थवर्णानां शषसहानामुच्चारणप्रयत्नः तेषामुच्चारणे हि प्राणवायो र्भूयान् प्रयास इति तेषामपि महाप्राणत्वगुपचारात्।

महाफल = पु० महत् पत्त्रापेक्षाया वृहत् फलमस्य। १ विल्व वृक्षे रत्नमा०। २ इन्द्रवारुण्यां (राखालशशा) स्त्री जटा०।

महाबल = पु० महत् बलं यस्य। १ वायौ २ दशबले बुद्धे च त्रिका० ३ महाबलयुते त्रि०। महत् बलं यस्मात् ५ ब०। ४ सीसके न० हेमच०। ५ पीतवाट्यालके स्त्री रत्नमा०।

महाभारत = पु० न० “चत्वारश्चैकतो वेदा भारतञ्चैवमेकतः। पुरा किल सुरैः सर्वैः समस्य तुलया धृतम्। चतुर्भ्यः सरहस्येभ्यो वेदेभ्योऽभ्यधिकं यदा। तदा प्रभृति लोकेऽस्मिन् महाभारतमुच्यते। महत्त्वात् भारतत्वाच्च महाभारतमुच्यते” इत्युक्तलक्षणे व्यासप्रणीते लक्षश्लोकात्मके ग्रन्थभेदे भारतशब्दे दृश्यम्।

महाभीता = स्त्री कर्म०। १ लज्जालुलतायाम् शब्दच० स्पर्शमात्रेण हि सङ्कोचेन तस्या अतिभीतत्वम्। २ अतिभीते त्रि०।

महाभूत = न० कर्म०। सर्वेषां पञ्चात्माकताप्राप्त्या स्थूलतापन्नेषु वृहत्सु पृथिव्यप्तेजोवाय्वाकाशेषु १ पञ्चसु भूतेषु। “तं वेधा विदधे नूनं महाभूतसमाधिना” रघुः। २ परमेश्वरे पु० “तस्यैतस्य महाभूतस्थ निःश्वसितमेतत् यदृग्वेदः” इत्यादि श्रुतिः।

महाभूतघट = पु० षोडशमहादानान्तर्गते षोडशे महादाने मत्स्यपु०।

महाभृङ्ग = पु० कर्म०। ३ नीलभृङ्गराजे राजनि०।

महामनस् = त्रि० महदुदारं मनस्तद्व्यापारोऽस्य। महाशये। हेमच०।

महामात्र = पु० “मन्त्रे कर्मणि भूषायाम् वित्ते माने परिच्छदे मात्रा च महती येषां महामात्रास्तु ते स्मृताः” इत्युक्ते प्रधानामात्ये।

महामाया = स्त्री कर्म०। अन्यस्मिन् अन्यधर्मावभासो हि माया सर्वजगन्मूलत्वात्तस्या महत्त्वम्। १ जगत्कारणभूतायाम् अविद्यायां २ तदधिष्ठात्र्यां दुर्गायाञ्च “महामाया हरेश्चैषा यया संमोह्यते जगत्” देवोमा०।

महामाष = पु० कर्म०। राजमाषे (वरवटी) शब्दच० माषाषेक्षया तस्य हि महत्त्वात्तथात्वम्।

महामूल = पु० महत् वीर्य्यकारित्वात् श्रेष्ठं मूलमस्य। राजपलाण्डौ राजनि०।

महामृग = पुंस्त्री० महान् मृगः पशुः। १ गजे हेमच० शरभे च राजनि० तयोर्हि पशुषु भहत्त्वात् तथात्वम्। स्त्रियां ङीष्

महामेद = पु० स्त्री ६ ब०। वैद्यकप्रसिद्धाष्टवर्गोक्ते ओषधिभेदे रत्नमाला। तत्रार्थे स्त्री राजनि०। “महामेदाभिधः कन्दो योरक्षादौ प्रजायते। शुक्लार्द्रकनिभः कन्दो लताजातः सपाण्डुरः। महामेदाभिधो ज्ञेयः” भावप्र०।

महामोह = पु० महान् मोहः म्नान्तिहेतुकी वस्तुतोऽनिष्टे- ष्वपि रागः। १ संसारतद्विषयकारणरूपेऽज्ञानभेदे “तमोऽ विवेको मोहः स्यादन्तःकरणविभ्रमः। महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा” इत्युक्ते २ मैथुनादिसुखभोगेच्छारूपे अन्तःकरणवृत्तिभेदे च। वैषयिकसुखस्य वस्तुतोऽनिष्टत्वात् तथात्वम्। “दशविधो महामोहः” सा० का०। शब्दादिषु पञ्चसु दिव्यादिव्यतया दशविधेषु विषयेषु रञ्जनीयेषु राग आसक्तिः” त० कौ० उक्ते ३ दशविधविषयरागे च।

महाम्ल = न० कर्म०। १ अत्यम्ले २ तिन्तिडीफले च जटा०। ३ तद्वृक्षे पु०।

महायज्ञ = पु० कर्म०। नित्यं गृहस्थकर्त्तव्ये वेदाध्ययनाग्निहोत्रपितृतर्पणभूतबलिकर्मातिथिपूजनरूपेषु पञ्चसु कर्मसु।

महारजत = न० कर्म०। १ काञ्चनै २ धुस्तूरे च अमरः। तस्य हि रञ्जकत्वात् महत्त्वम्, कर्म०। ३ वृहद्रौप्ये च।

महारजन = न० रजत्यनेन ल्युट् कर्म०। १ कुसुम्भपुष्पे अमरः २ स्वर्णे च मेदि०।

महारथ = पु० “एकादश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः” इत्युक्ते योधभेदे

महारस = पु० ६ व०। १ खर्जूरे २ कशेरुणि ३ कोषकार मेदि० ४ इक्षौ पु० काञ्जिके न० जटा०। कर्म० ५ पारदे पु० राजनि०। “दरदः पारदं शस्यो वैक्रान्तं कान्तमभ्रकम्। माक्षिकं विमलश्चेति स्युरेतेऽष्टौ महारसाः” राजनि० उक्तेषु ४ दरदादिषु पु०।

महाराज(जि)क = पु० महान् सन् राजते वुन् पृषो० इत्त्वं वा। विंशत्यधिकशतद्वयसंख्याते गणदेवभेदे।

महाराजद्रुम = पु० कर्म०। आरग्बधे (सोन्दाल) राजनि०।

महारात्रि = स्त्री “ब्रह्मणश्च निपाते च महाकल्पो भवेन्नृप!। प्रकीर्त्तिता महारात्रिः” इत्युक्ते महाकल्पात्मके १ महाप्रलये “अर्द्धरात्रात पर यत्तु मुहूर्त्तद्वयमुच्यते। सा महारात्रिरुद्दिष्टा” तन्त्रोक्ते अर्द्धरात्रोपरि मुहूर्त्तद्वयात्मके २ रात्रिकाले।

महाराष्ट्र = पु० कर्म०। (महाराट्ठा) १ देशभेदे। तद्देशः कारणत्वेन अस्त्यस्या अच् गौरा० ङीष्। २ जलपिप्पल्याम् ३ शाकभेदे च स्त्री राजनि०।

महारिष्ट = पु० कर्म०। १ गिरिजाते निम्बभेदे राजनि०। २ अत्यशुभे न०।

महारोग = पु० कर्म०। “उन्मादो राजक्ष्मा च श्यावस्त्वग्दोष एव च। मधुमेहश्चाश्मरी च तथोदरभगन्दरौ। इत्येतेऽष्टौ महारोगा महापातकसम्भवाः” इत्युक्तेषु महापतकजन्येषु उन्मदादिषु रोगेषु। (श्यावः श्यावदन्त

महारौरव = पु० कर्म०। “महारौरवसंज्ञस्तु ऊर्ध्वाधस्ताम्रसंपुटे। धम्यते खदिराङ्गारैः प्रच्यते कालमक्षयम्” इत्युक्ते नरकभेदे वह्निपु०।

महार्घ = त्रि० महानर्घो मूल्यं यस्य। बहुमूल्ये विश्वः।

महार्णव = पु० कर्म०। महासमुद्रे।

महार्द्रक = न० कर्म०। वनार्द्रके राजव०।

महालय = पु० महान् आत्यन्तिको लयो यत्र। १ पुरमात्मनि २ तीर्थस्थाने ३ विहारे ४ कन्यास्थरविकमासकृष्णपक्षे न०। “तस्यां दद्यात् न चेद्दत्तं पितॄणां वै महालये” इति भविष्यपु०। कर्म०। ५ वृहदालये।

महालक्ष्मी = स्त्री कर्म०। चण्ड्याद्वितीयचरितदेवतारूपे “सेषे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम्” इत्युक्तलक्षणे अष्टादशभुजान्विते १ दुर्गाशक्तिभेदे तन्त्रोक्ते २ लक्ष्मीभेदे च।

महानीलसरस्वती = स्त्री तारिणीभेदे तन्त्रसा०।

महालोध्र = पु० कर्म०। लोध्रभेदे (पाठिया लोध) रत्नमा०।

महावरा = पु० वृणोति विस्तृणाति वृ–अच् कर्म०। दूर्वायाम् शब्दर०।

महावराह = पु० कर्म०। वृहद्वराहरूपधारिणि भगवदवतारभेदे।

महावरोह = पु० महान् अवरोहोऽस्य। वटवृक्षे राजनि०।

महावल्ली = स्त्री कर्म०। माधवीलतायाम् शब्दच०।

महावाक्य = न० कर्म०। परस्परसंबद्धार्थके १ वाक्यसमुदायरूपे एकवाक्ये “वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते” मीमांसकाः। वेदान्तोक्ते २ ब्रह्मविद्याप्रतिपादके तत्त्वमस्याद्युपनिषद्वाक्ये ३ दानादौ अभिलापवाक्ये च।

महाविद्या = स्त्री कर्म०। “काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एताः दशमहाविद्याः” इत्युक्तासु काल्यादिषु दशसु देवीसु।

महाविष = पु० ६ ब०। द्विमुखसर्पे जटा०।

महाविषुव = न०। रवेमेषसंक्रमणे। तत्संक्रमणञ्च स्वरूपतः संक्रमणं प्रभापुञ्जस्य संक्रमणं वा। तत्र प्रभापुञ्जसंक्रमणमयनांशानुसारेण अष्टमासाधिकषट्षष्टिवत्सरैरेकैकांशं परित्यज्य ततः पश्चात्पश्चात्तरादौ स्थाने भवति इदानीं च पञ्चादयनं पूर्वायने तु पूर्वपूर्वतरादौ स्थाने भविष्यति। इत्यतस्तच्चलमनियतस्थानत्वात् स्वरूपसंक्रमस्तु स्थिरः सर्वदैकस्थाने जायमानत्वात्। अयनसंक्रामिशब्दे दृश्यम्।

महावीचि = पु० नास्ति वीचिः सुखं यत्र स अवीचिः कर्म०। १ सुखरहिते, “यत्र कल्लोलेन नीयते” इत्युक्ते २ नरकभेदे च।

महा(वी)वीर = पु० कर्म०। १ गरुडे २ हनुमति ३ सिंहे ४ यज्ञाग्नौ ५ वज्रे ६ श्वेततुरङ्गे ७ सञ्चालखगे च मेदि०। ८ शेषजिने च ९ कोकिले हेम०। १० धनुर्द्धरे ११ एकवीरवृक्षे राजनि० १२ महाशूरे पु० १३ क्षीरकाकोलीवृक्षे स्त्री रत्नमा०। १४ यज्ञसाधने मृण्मये पात्रभेदे तन्निर्माणविधिः कात्या० श्रौ० २६। १ सूत्रादौ दृश्यः।

महा(बी)वीर्य्य = पु० ६ ब०। १ वाराहीकन्दे राजनि०। २ परमात्मनि च शब्दर०। ३ अतिबलयुते त्रि०। ४ वनकार्पास्यां स्त्री राजनि०। ५ संज्ञायां सूर्य्यपत्न्याञ्च स्त्री त्रिका०।

महावृहती = स्त्री कर्म०। वार्त्ताक्याम् त्रिका०।

महावृक्ष = पु० कर्म०। १ स्वुहीवृक्षे हला०। २ वृहत्तरौ च।

महाव्याधि = पु० कर्म०। महारोगे कुष्ठादौ रोगे।

महाव्याहृति = स्त्री कर्म०। वैदिके भूर्भुवःस्वरात्मके मन्त्रत्रये

महाव्रण = न० कर्म०। (नालिघा) दुष्टव्रणे।

महाव्रत = न० कर्म०। १ अतिशयव्रते शारदीयदुर्गापूजादौ “महाव्रतं महापुण्य शङ्कराद्यैरनुष्ठितम्” देवीपु० २ द्वादशवार्षिके प्रायश्चित्तात्मके व्रतभेदे च।

महाशङ्क = पु० कर्म०। तन्त्रे वीराचारप्रसिद्धे नृकपालास्थिजाते “नृललाटास्थिखण्डेन रचिता जपमालिका। महाशङ्कमयी माला ताराविद्याजपे प्रिया” इत्युक्ते १ माल्यभेदे २ वृहच्छङ्खे च। “पौण्ड्रं दध्मौ महाशङ्खम्” गीता।

महाशठ = पु० कर्म०। १ राजधस्तूरे राजनि०। २ अतिधूर्त्ते त्रि०।

महाशणपुष्पी = स्त्री शणस्येव पुष्पमस्य ङीप् कर्म०। वृहच्छणपुष्प्याम् राजनि०। स्वार्थे क०। तत्रैव।

महाशता = स्त्री शतं मूलानि सन्त्यस्य अच् कर्म०। वृह० च्छतावर्य्याम् राजनि०।

महाशताबरी = स्त्री कर्म०। वृहच्छतावर्य्याम् राजनि०।

महाशय = त्रि० महान् उदार आशयो यस्य। महानुभावे अमरः।

महाशाखा = स्त्री महती शाखास्याः। नागबलायाम् राजनि०।

महाशालि = पु० कर्म०। स्थूलशासौ हेमच०।

महाशीता = स्त्री महती शीता शीतलवीर्य्या। १ शतमूल्याम् शब्दच०। २ अतिशीतले त्रि०।

महाशुक्ति = स्त्री महती मुक्ताकरत्वेन प्राशस्त्यत् शक्तिः। मुक्ताहेतौ शुक्तौ राजनि०।

महाशूद्र = पु० कर्म०। १ आभीरे (आहीर) जातिभेदे २ तत्पन्न्यां स्त्री ङीष्।

महाश्मशान = न० कर्म०। काश्याम् समूलकर्मसहितसर्वजी वानां पुनरनुत्पादनाय नाशाधारत्वात् तस्यास्तथात्वम्।

महाश्यामा = स्त्री कर्म०। १ श्यामालतायां रत्नमा०। २ शिंशपाभेदे राजनि०।

महाश्रावणिका = स्त्री कर्म०। (थुलकुडी) क्षुपभेदे राजनि०

महाश्वेता = स्त्री कर्म०। १ सरस्वत्याम् त्रिका० २ कृष्णभूमिकुष्माण्डे च अमरः।

महाष्टमी = स्त्री कर्म०। “आश्विने शुक्लपक्षस्य भवेद् या तिथि रष्टमी। महाष्टमीति सा प्रोक्ता” इत्युक्तायामाश्विनशुक्लाष्टम्याम्।

महासर्ज = पु० कर्म०। १ असनवृक्षे २ पनसवृक्षे च (काटाल) राजनि०।

महासह = पु० कर्म०। १ पुष्पप्रधाने कुब्जकवृक्षे राजनि०। २ माषपर्ण्याम् स्त्री ३ अम्लानवृक्षे च स्त्री अमरः। ४ अतिक्षमे त्रि०

महासान्तपन = न०। कर्म०। सप्ताहसाध्ये स्मृत्युक्ते व्रतभेदे।

महासार = पु० महान् सारोऽस्य। दुष्खदिरे राजनि०।

महासिंह = पु० नित्यक०। १ शरभे राजनि० २ वृहत्सिंहे च

महासुगन्धा = स्त्री सुष्ठु गन्धोऽहिहिंसा वाऽस्याः कर्म०। १ गन्धनाकुल्याम् राजनि० २ अतिसुगन्धयुक्ते त्रि०।

महासेन = पु० महती सेनाऽस्य। १ कार्त्तिकेये अमरः। २ वृहत्सेनाधिपतौ च।

महास्कन्धा = स्त्री महान् स्कन्धोऽस्याः। जम्बूवृक्षे राजनि०।

महाहास = पु० कर्म०। अट्टहासे उच्चैर्हासे शब्दर०।

महाहिगन्धा = पु० अहेर्गन्धो हिंसा यस्मात् अहिगन्धो नकुलः समत्वेनास्त्यस्य अच् कर्म०। गन्धनाकुल्याम् राजनि०।

महाह्रस्वा = स्त्री कर्म०। १ कपिकच्छ्वाम् (आलकुशी) शब्दमा० २ अतिखर्वे त्रि०

महि(ही) = स्त्री मह–इन् वा ङीप्। १ पृथिव्याम्। ङीबन्तस्तु मालवदेशस्थे २ नदीभेदेऽपि।

महिका = स्त्री मह्यते मह–क्वुन्। हिमे अमरः।

महिमन् = पु० महतो भावः इमनिच् डित्त्वेन टिलोपः। १ महत्त्वे २ ईश्वरैश्वर्य्यभेदे हेमच०।

म(मि)हिर = पु० मह–(मिह–)वा किरच्। १ सूर्य्ये त्रिका०। २ अर्कवृक्षे च।

महिला = स्त्री मह–इलच्। १ योषिति अमरः। २ प्रियङ्गुलतायां ३ रेणुकागन्धद्रव्ये राजनि० ४ मत्तायां स्त्रियाञ्च शब्दर०। एलच्। महेलापि योषिति शब्दर०।

महिष = पुंस्त्री० मह–टिषच्। १ स्वनामख्याते पशुभेदे, स्त्रियां ङीष्। २ महिषासुरे च। ३ कृताभिषेकायां राज्ञ स्त्रियां ४ सैरिन्ध्र्याम् ५ ओषधिभेदे च स्त्री मेदि० ङीष्। ६ व्यभिचारिण्यां स्त्रियां माहिषिकशब्दे दृश्यम्।

महिषध्वज = पु० महिषो ध्वजः चिह्नं वाहनत्वेनाम्य। १ यमे २ जिनभेदे च हेमच० महिषवाहनादयोऽप्यत्र।

महिषमर्दिनी = स्त्री महिषं महिषासुरं मृद्नाति मृदणिनि ङीप् ६ त०। दुर्गाभेदे।

महिषाक्ष = पु० महिषस्याक्षीव षच्समा०। गुग्लुभेदे। स्वार्थे क तत्रैव।

महिषासुर = पु० रम्भासुरेण महिष्यामुत्पादिते असुरभेदे।

महिषासुरसम्भव = पु० महिषासुरात्तन्मेदसः सम्भवति सम् + भू–अच्। भूमिजगुग्गुलौ राजनि०।

महीक्षित् = पु० महीं क्षयते ईष्टे क्षि–ऐश्वर्य्ये क्विप् तुक् च। नृषे अमरः।

महीज = न० मह्या जायते जन–ड। १ आर्द्रके राजनि०। २ मङ्गलग्रहे ३ नरकासुरे च पु० ४ सीतायां स्त्री।

महीध्र = पु० महीं धारयति धृ–क। पर्वते अमरः। अच्। महीधरोऽप्यत्र।

महीप्राचीर = न० मह्याः प्राचीरमिवावरकत्वात्। समुद्रे त्रिका०।

महीभृत् = पु० सहीं बिभर्त्ति धारयति पालयति वा भृक्विप्। १ पर्वते २ भूमिपाले च।

महीयस् = त्रि० अतिशयेन महान् महत् + ईयसुन् टिलोपः। अतिमहति “महतो महीयान्” श्रुतिः।

महीय्यमान = त्रि० महीयते मही + कण्डा० यक्–शानच्। १ पूज्ये २ श्रेष्ठे च “महीय्यमाना भवताऽतिमात्रम्” भट्टिः।

महीरुह = पु० मह्यां रोहति रुह–क। १ वृक्षे अमरः २ शाकवृक्षे राजनि०।

महीलता = स्त्री मह्या लतेव। (के~चो) किञ्चुलुके अमरः।

महेच्छ = त्रि० महती इच्छा यस्य। महाशये अमरः।

महेन्द्र = पु० महान् इन्द्रः इन्द्रस्यापि नियन्तृत्वात्। १ परमेश्वरे २ महैश्चर्य्यवति इन्द्रे ३ जम्बुद्वीपस्थपर्वतभेदे च मेदि०

महेन्द्रकदली = स्त्री महेन्द्रप्रिया तद्वर्णा वा कदली। कदलीभेदे राजनि०।

महेन्द्रपुरी = स्त्री ६ त०। अमरावत्याम्। महेन्द्रनगर्य्यादयोऽप्यत्र राजनि०।

महेन्द्रवारुणी = स्त्री महेन्द्रश्च वरुणश्च तयोरिथं प्रियत्वात् अण् देवताद्वन्द्वे उत्तरपदवृद्धिः कर्म०। (वडमाकाल) लताभेदे राजनि०।

महेरणा = स्त्री महं गजोत्सवमीरयात ल्यु। शल्लकीवृक्षे अमरः।

महेश = पु० कर्म०। शिवे। महेश्वरोऽप्यत्र “महेश्वरस्त्र्यम्यक एव नापरः” इति रघुः।

महेशबन्धु = पु० ६ त०। बिल्ववृक्षे शब्दच०।

महैला = स्त्री० कर्म०। स्थूलैलायाम् (वडएलाची) राजनि०।

महोक्ष = पु० महान् उक्षा अच् समा०। वृहद्वृषे अमरः। “भहोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत्” मनुः।

महोटी = स्त्री महान्ति फलापेक्षया स्थूलानि उटानि पर्णान्यस्याः ङीप्। वृहत्यां क्षुपभेदे भावप्र०।

महोत्पल = पु० कर्म०। १ पद्मे, २ सारसपक्षिणि च अमरः।

महोत्सव = पु० कर्म०। सन्ततमुखसम्पादकव्यापारे।

महोत्साह = त्रि० महान् उत्साहो यस्य। अत्यन्तोद्यमयुक्ते महोद्यमोऽप्यत्र।

महोदधि = पु० कर्म०। समुद्रे

महोदय = पु० महान् उदयो वृद्धिराधिपत्यं वा यत्र। १ कान्यकुब्जदेशे। २ तद्देशस्थे पुरभेदे न०। ३ मीक्षे पु० मेदि० ४ स्वामिनि पु० हेमर्च। “अमार्कपाते श्रवणम्” इत्यादि लक्षणात् स्मृत्युक्तार्द्धोदययोगात् “किञ्चिदूने महोदयः” इत्युक्ते किञ्चिदूने ५ योगभेदे पु०। ६ नागबलायां स्त्री राजनि०।

महोदरी = स्त्री० महदुदरं यस्याः। १ शतमूल्याम् भावप्र०। २ वृहदुदरयुक्ते त्रि०।

महोन्नत = पु० कर्म०। १ तालवृक्षे भावप्र०। २ अत्यन्तोन्नतियुक्ते त्रि०।

महोरग = पु० कर्म०। वृहत्सर्पभेदे महोरगाकारोऽस्त्यस्य अच्। २ तगरमूले न० रत्नमा०।

महोल्का = स्त्री कर्म०। वृहदुल्कायाम्।

महौषध = न० कर्म०। १ शुण्ठ्याम् २ लशुने ३ वाराहीकन्दे वत्सनाभे ४ विषे, ५ भूम्याहुल्यके राजनि० ६ पिप्पल्याम् शब्दच० ७ अतिविषायाम् अमरः ८ वीर्य्यबदौषधमात्रे च।

महौषधि = स्त्री कर्म०। १ दूर्वायां २ लज्जालुक्षुपे शब्दच०। “सहदेवी तथा व्याघ्री बला चातिबला त्वच। शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्चला। महोषध्यष्टकं प्रोक्तम्” इत्युक्ते ३ देवादीनां स्नानीयद्रव्यभेदे। वा ङीप्। ४ श्वेतकण्टकार्य्यां ५ ब्राह्म्यां ६ कटुकायाम् ७ अतिविषायाञ्च राजनि० ८ हिलमोचिकायाम् त्रिका०।

महौषधिगण = पु० “पृश्निपर्णो श्यामलता भृङ्गराजः शताशतावरी। गुडूची सहदेवी च महौषधिगणः स्मृतः” शब्दच० उक्ते पृश्निपर्ण्यादौ ओषधिगणे।

***