मद = हर्षे दिवा० पर० अक० सेट् शमा०। माद्यति इरित् अमदत् अमादीत् अमदीत्। ईदित् निष्ठायामनिट् पुषदिरयं तेन अमददित्येवेति पाणिनीयाः। घटा० मदयति जीत् मत्तोऽस्ति। प्र + अनवधाने।

मद = गर्वे दैन्ये च भ्वा० पर० अक० सेट्। मदति अमादीत्–अमदीत् घटा० मदयति।

मद = तर्षणे चु० आ० सक० सेट्। मादयते। अमीमदत।

मद = जाड्ये स्वप्ने मदे आमोदे स्तुतौ दीप्तौ च यथायथं अक० सक० च भ्वा० आत्म० इदित्। मन्दते अमन्दिष्ट। तत्र स्तुतौ “मन्दमानः सुमन्मभिः” ताण्ड्य० ब्र० १। ७। ६। “मन्दमानः स्तूयमानः मदि–स्तुतौ कर्भणि यकि प्राप्ते व्यत्ययेन शप्” भा०।

मद = पु० मद अच्। १ हस्तिगण्डादिस्नुतजले दानजले अमरः २ गर्वे हर्षे ३ रेतसि ४ मृगमदे मेदि० ५ मत्ततायाम् हेमच०। ४ नदे ५ कल्याणकरे वस्तुनि च धरणिः।

मदकट = पु० मदेन कटति कट–अच् षण्डे (षांड) हेमच०।

मदकल = त्रि० मदेन कलते कल अच्। १ मत्तहस्तिनि मदोतकटे अमरः। २ अव्यक्तशब्दकारिणि त्रि० शब्दरत्ना०। मदेन कलो यस्य। ३ मदाव्यक्तभाषिणि त्रि० मेदि०।

मदगन्ध = पु० मदस्य हस्तिदानस्येव गन्धोऽस्य। १ सप्नच्छदवृक्षे २ मदिरायां स्त्री टाप्। ३ अतस्याञ्च राजनि०।

मदघ्नी = स्त्री मदं मदिरामत्ततां हन्ति हन–ट ङीप्। पूतिकायाम् जटा०।

मदधार = पु० मदप्रधाना धारा यत्र। पर्वतमेदे भा० स० २९ अ०।

मदन = पु० माद्यत्यनेन मद करणे ल्युट्। १ कामदेवे अमरः। २ सुरायां हेमच०। ३ वसन्ते काले ४ सिक्थके ५ धुस्तूरे च पु० मेदि०। (मयना) ६ वृक्षभेदे रत्नमाला। ७ भ्रमरे जटा० माषे ८ कलायभेदे हेमच०। ९ खदिरवृक्षे शब्दच० १० अङ्कोटकवृक्षे ११ बकुलवृक्षे (मयनफल) १२ वृक्षभेदे च राजनि०। १३ आलिङ्गनभेदे कामशास्त्रम्।

मदनक = पु० मदयति मद–णिच्–ल्युट् स्वार्थे क। दमनकवृक्षे राजनि०।

मदनकण्टक = पु० मदननिमित्तः कण्टक इव। १ सात्त्विके २ रोमाञ्चे त्रिका०।

मदनकाकुरव = पुंस्त्री० मदनेन हेतुना काकुरवोऽस्य। पारावते स्त्रियां जातित्वात् ङीष्।

मदनगृह = न० ६ त०। १ स्त्रीचिह्नभेदे सुरतगृहादयोऽप्यत्र। २ लग्नावधिके सप्तमस्थाने ज्यो०।

मदनगोपाल = पु० मदन इव गोपालः। श्रीकृष्णे।

मदनचतुर्दशी = स्त्री मदनपूजार्था चतुर्दशी शा० त०। चैत्रशुक्लचतुर्दश्याम् तत्र दमनवक्षे मदनपूजाविहितेति तस्यास्तथात्वम्। ति० त० दृश्यम्।

मदनत्रयोदशी = स्त्री मदनपूजार्था त्रयोदशी। चैत्रशुक्लत्रयोदश्याम् ति० त० दृश्यम्।

मदनद्वादशी = स्त्री मदनपूजार्था द्वादशी। चैत्रशुक्लद्वादश्याम् मत्स्यपु० ७ अ०

मदनपक्षिन् = पु० माद्यति मद–ल्यु कर्म०। खञ्जनखगे शब्दच०

मदनपाठक = पु० मदनोद्दीपनार्थं पठति पठ–ण्वुल्। स्मरोद्दीपनशब्दकारके कोकिले राजनि०।

मदनमोहन = पु० मदनमपि मोहयति सौन्दर्य्येण मुह–णिच् ल्यु। श्रीकृष्णे।

मदनललिता = स्त्री “वेदाङ्गाऽङ्गैर्मदनललिता मो भो नम लसाः” वृ० र० टीकोक्ते षोडशाक्षरपादके छन्दोभेदे।

मदनलेख = पु० मदनज्ञापनार्थं लेखः। स्वकीयानुरागज्ञापनार्थे नायकयोः परस्परं प्रति प्रेष्ये लेखे पत्रभेदे। यथा शकुन्तलायाम् “तुज्झ ण आणे हिअअम्” इत्यादि।

मदनवीज = न० तन्त्रोक्ते (क्लीम्) इति बीजे

मदनशलाका = स्त्री मदनोद्दीपिका शलाका तथाभूत शलाकेव वा। १ स्मरोद्दीपकौषधे २ सारसखगे मेदि० ३ कोकिले शब्दर०।

मदनसदन = न० ६ त०। १ स्त्रीचिह्नभेदे। ज्योतिषोक्ते लग्नाबधिके २ सप्तमे स्थाने च।

मदनसारिका = स्त्री मदनोद्दीपिका सारिका शा० त०। (सालिक) पक्षिभेदे जटा०।

मदनाग्रक = पु० भदनं मादकमग्रमस्य कप्। कोद्रये (कोदो) धान्यभेदे राजनि०।

मदनाङ्कुश = पु० मदनस्याङ्कुश इव। १ पुरुषचिह्ने लिङ्गे त्रिका० २ मैथुनकाले नखाघाते च।

मदनायुध = न० ६ त०। स्त्रीचिह्ने शब्दच०।

मदनायुष = पु० मदनस्यायुर्यत्र अच्समा०। वृद्धिकरक्षुपभेदे राजनि०।

मदनालय = पु० ६ त०। २ स्त्रीचिह्ने ज्योतिषोक्ते लग्नाबधिके सप्तमस्थाने मदनभवनादयोऽप्यत्र।

मदनावस्था = स्त्री मदनकृतावस्था शा० त०। कामिनां स्मरकृते उन्मादादौ दशाभेदे दशाशब्दे दृश्यम्।

मदनी = स्त्री माद्यत्यनया मद–ल्युट् ङीप्। १ सुरायाम् हारा० २ मृगनाभौ ३ अतिमुक्तके च राजनि०।

मदनेच्छाफल = पु० मदनेच्छां फलति फल–अच् ६ त०। बद्धरसाले राजनि०।

मदनोत्सव = पु० मदननिमित्त उत्सवः। १ होलाकोत्सवे ७ ब०। २ स्वर्वेश्यायाम् स्त्री शब्दर०।

मदप्रयोग = पु० ६ त०। गजानां मदोद्गमे त्रिका०।

मदभञ्जिनी = स्त्री मद भञ्जति भन्ज–णिनि। शतमूल्याम् शब्दच०।

मदयन्ती = स्त्री मद–णिच्–झच् गौरा० ङीष्। वनमल्लिकायाम् (काठमल्लिका) राजनि०। स्वार्थे क ह्रस्वः। मदयन्तिका तत्रैवार्थे शब्दरत्ना०।

मदयित्नु = पु० मद–णिच्–इत्नुच्। १ कामदेवे २ मेघे ३ शौण्डिके च मेदि०। ४ मद्ये न० शब्दर०। ५ मादके त्रि० त्रिका०।

मदलेखा = स्त्री “मृसौ गः स्यात् मदलेख।” वृ० र० उक्ते सप्ताक्षरपादके १ छन्दोभेदे ६ त०। २ गजानां दानवारिपङ्क्तौ

मदविक्षिप्त = पु० ३ त० १ मत्तगजे शब्दच०। २ मदेन क्षिप्ते त्रि०।

मदशाक = पु० मदार्थं शाकमस्य। उपोदक्यां शब्दच०।

मदसार = पु० मदं सारयति गमयति सृ णिच्–अण् उप० स०। तूलवृक्षे राजनि०।

मदस्थल = पु० ६ त०। १ सुरापाने शब्दरत्ना०। मदस्थानादयोऽप्यत्र। ज्योतिषोक्ते लग्न वधिके २ सप्तमस्थाने च।

मदहस्तिनी = स्त्री मदेन हस्तिनीव। महाकरञ्जवृक्षे राजनि०

मदहेतु = पु० ६ त०। १ मत्तताहेतौ २ धातक्यां वैद्यकम्।

मदाघ = पु० ऋषिभेदे ततः। उपका० गोत्रप्रत्ययस्य द्वन्द्वे च अद्वन्द्वे च लुक्।

मदाढ्य = पु० मदेन मदकारणेन (ताडि) रसेनाद्यः। १ तालवृक्षे राजनि०। २ रक्तझिण्ट्याम् स्त्री शब्दच०। ३ मदयुक्ते त्रि०।

मदातङ्क = पु० ६ त०। मदनजरोगभेदे राजनि०।

मदात्यय = पु० ६ त०। मदनिमित्ते रोगभेदे तस्य निदानादि गरु० पु० १६० अ० उक्तं दृश्यम्। भावप्र० उक्तन्तु यथा “विषस्य ये गुणा दृष्ठाः सन्निपातप्रकोपनाः। तएव मद्ये दृश्यन्ते विषे तु बलवत्तराः। तस्मादविधिपीतेन तथा मात्राधिकेन ञ्च। युक्तेन चाहितैरन्नैरकाले सेवितेन च। मद्येन खलु जायन्ते मदात्ययमुखा गदाः”। अविधिप्रयुक्तं मद्यं विकारान्तरमप्युत्पादयतीत्याह। “निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्। उत्पादयेत् कष्टतमान् विकारानुत्पादयेच्चापि शरीरभेदम्”। एकान्ततो नैरन्तर्य्येण, विकारान् मदात्ययादीन्। शरीरस्य भेदं नाशम्। मदात्ययादीनां हेत्वन्तरमप्याह “क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन। व्यायामभाराध्वपरिक्षतेव वेगावरोधाभिहतेन वापि। अत्यम्लरूक्षावततोदरेण सा- जीर्णभुक्तेन तथाऽबलेन। उष्णाभिवप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान्”। तानेव विकारान् विवृणोति। “पानात्ययं परमदं पानाजीर्णमथापि वा”। पानविकारान् विवृणोति। “पानविश्रममुग्रञ्च तेषां वक्ष्यामि लक्षणम्। तत्र मदात्ययस्य सामान्यलक्षणमाह “शरीरदुःखं बलवत्प्रमोहो हृदयव्यथा। अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः। शिरः पार्श्वास्थिसन्धीनां वेदना विक्षते तथा। जाय तेऽतिबलात् जृम्भास्फुरणं वेपनं श्रमः। उरोविबन्धः कासश्च श्वासो हिक्काप्रजागरः। शरीरकम्पः कर्णाक्षि मुखरोगास्त्रिकग्रहः। छर्दिर्विड्भेदौत्क्लेशो वातपित्तकफात्मकः। भ्रमः प्रलापी रूपाणामसताञ्चैव दर्शनम्। तृणभस्मलतापर्णपांशुभिश्चावपूरितम्। प्रकर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते। व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च। मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत्”। अथ मदात्ययस्य वातिकस्य निदानमाह “स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्षितः। रूक्षाल्पप्रमिताशी च यः पिवत्यतिमात्रया। रूक्षं परिणतं मद्यं निशि निद्रां निहन्ति च। करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम्”। तत् मद्यम्। अथ तस्य लक्षणमाह। “हिक्काश्वाससिराकम्पपार्श्वशूलप्रजागरैः। विद्याद्बहुपलापञ्च वातप्रायं मदात्ययम्”। अथ पैत्तिकस्य निदानमाह “तीक्ष्णोष्णं मदामम्लञ्च योऽतिमात्रं निषेवते। अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽग्न्यातपप्रियः। तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः”। अथ तस्य लक्षणमाह “तृष्णादाहज्वरस्वेदमोहातीपारविभ्रमैः। विद्याद्वरितवर्णस्य पित्तप्रायं मदात्ययम्”। अथ श्लैष्मिकस्य मदात्ययस्य निदानमाह “मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया। अव्यायामदिवास्वप्नशय्यासनसुखे रतः। मदात्ययं कफवायं स नरो लभते ध्रुवम्”। अथ तस्य लक्षणमाह “छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः। विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम्”। अथ सान्निपातिकस्य मदात्ययस्य निदानं लक्षणञ्चाह “त्रिदोषहेतुभिः सर्वैः सर्वैर्लिङ्गैर्मदात्ययः”। अथ परमदलक्षणमाह “श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रभक्तिरथ तन्त्रि ररोचकश्च। लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा स्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः”। तन्द्रिस्तन्द्रा। पानाजीर्णमाह “आष्मानमुग्रमथ बोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि”। उद्गिरणं वान्तिः उद्गारो वा। पीयत इति पानं मद्यम्। पानविभ्रममाह “हृद्गात्रतोदकफसंस्रवकण्ठधूममूर्च्छावमीज्वरशिरोरुजनप्रदेहाः। द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः। कण्ठधूमः निर्गम इव। प्रदेहः कफेन लिप्तास्यता। द्वेषः सुरान्नविकृतेषु सुराविकारेषु अन्नविकारेषु च द्वेषः। असाध्यानां मदात्ययादीनां लक्षणमाह। दीनोत्तरोष्ठमतिशीतममन्ददाहम् तैलप्रभास्यमतिपानहतं त्यजेच्च। जिह्वोष्ठदन्तभसितं त्वथ वापि नीलम् पीते च यस्य नयने रुधिरप्रभे च। हिक्काज्वरो वमथुवेपथुषार्श्वशूलाः कासभ्रमावपि च पानहत त्यजेत्तम्”।

मदाम्नात = पु० मदस्यातिक्रमे आम्नातः। गजपृष्ठस्थे ढक्कावाद्ये हारा०।

मदाम्बर = पु० मदो दानमम्बरमिवास्य। मत्तगजे त्रिका०।

मदार = पुंस्त्री० मद आरन्। १ वराहे उज्ज्वल० स्त्रियां ङीष्। २ धूर्त्ते ३ मत्तगजे विश्वः। ४ कामुके ५ नृपभेदे उणादिको०।

मदार्म्मद = पु० मदजन्यमर्मं ददाति दा–क। फलकमत्स्ये त्रिका०।

मदालस = त्रि० मदेनालसः। १ मदेनालसे २ गन्धर्वराजविश्वकेतुकन्यायां स्त्री।

मदालापिन् = पु० मदेनालपति आ + लप–णिनि। कोकिले शब्दमाला

मदाह्व = पु० मदः मृगमद आह्वा यस्य। मृगमदे कस्तूर्य्यां त्रिका०।

मदि = स्त्री मृद्नाति कृष्टक्षेत्रलोष्ट्रम् मृद–इन् पृषो०। (मै) ख्याते कृषिसाधने कृषकयन्त्रभेदे स्वार्थे क। तत्राथे कृषिशब्दे २१९९ पृ० मदिकादानविधिर्दृश्यः। तल्लक्षणन्तु २११८ पृ० तत्र शब्दे दृश्यम्।

मदिन् = त्रि० मदयतीति मदि–णिनि। तर्पके यजु० ६। २७।

मदिन्तम = त्रि० अतिशयेन मदी तमप् वेदे नुमागमः। अतिशयतर्पके यजु० ६। २७।

मदिरा = स्त्री मद–करणे किरच्। “माध्वीकं पानसं द्राक्षं खार्जूरं तालमैक्षवम्। मैरेयं माक्षिकं टाङ्कं मधूक नारिकेलजम्। मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव तु” इत्युक्ते १ मद्यसामान्ये २ मत्तखञ्जने शब्दरत्ना०। ३ रक्तखदिरे पु० शब्दच०। कालभेदे तद्भेदग्राह्यता यथा “गौडी त शिशिरे पेया पैष्टी हेमन्तवर्षयोः। शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा। कादम्बरी शर्करजादिमद्यं सुशीतलं वृष्यकर मदात्मम्। माध्वीसमं स्यात् तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणञ्च। अन्यथा कुरुते पानं मद्यं सन्तापशोपदम्। अन्नदोषमदात्ययकारकं मूर्च्छनञ्च तत्”। “पर्य्युषितमल्पमेलनमल्पं वा पिच्छिलं विगन्धं वा। दोषावहमविशेषान् मद्यं हृद्यं विवर्जयेत् सर्वम्। मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्त्तिषु। द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्” राजनि०। अधिकं मद्यशब्दे दृश्यम्। ४ वसुदेवस्य पत्न्यां हरिवं० ३६ अ०। ५ दुर्गायां १७८ अ०। “सप्तभकारकृतावसितौ च गुरुः कविभिः कथिता मदिरा” वृ० र० टी० उक्ते द्वाविंशत्यक्षरपादके ६ छन्दोभेदे स्त्री।

मदिराक्षी = पु० १ विरादस्य भ्रातरि भा० वि० ३१ अ०। मदिरामत्तखञ्जनाक्षीवाक्षियस्य षच्समा०। खञ्जनतुल्यनेत्रे त्रि० स्त्रियां ङीष्।

मदिरागृह = न० मदिरसन्धानार्थं गृहम् शाक० त०। गञ्जाख्ये मद्यसन्धानार्थे गृहे अमरः

मदिराश्व = पु० १ विराटनृपसेनापतिभेदे भा० आमु० २ अ०। हिरण्यहस्तस्य श्वशुरे २ प्राचीने नृपभेदे भा० अनु० १४७ अ०

मदिरासख = पु० ६ त० टच्समा०। आम्रवृक्षे जटा०। तस्य मदिरातुल्यास्वादत्वात् तथात्वम्।

मदिष्ठा = स्त्री अतिशयेन मदिनी मदयित्री इष्ठन् टिलोपः। मदिरायां हेमच०।

मदेमहि = पु० प्रार्थनायाम् निघण्टुः।

मदेव = पु० मद–बा० एव। मत्ते ऋ० १०। १०६। ६।

मदोत्कट = पु० मदेन दानवारिणा उत्कटः उद्दृप्तः। १ मत्त गजे अमरः २ मदिरायां स्त्री राजनि०। ३ मदोद्धते त्रि०।

मदोदग्र = पु० मदेन हर्षेण दर्पेण वा उदग्रः उग्रः। १ मत्ते “भदोदग्राः ककुद्मन्तः” रघुः। २ नार्य्यां स्त्री शब्द मा०।

मदोद्धत = त्रि० मदेन उद्धतः। नत्ते जटा०।

मदोन्मत्त = पु० “मन्त्रो वाप्यथ वा विद्या सप्ताधिकदशाक्षरः। फट्कारपञ्चकादिर्यो मदोन्मत्त उदाहतः” तन्त्रसारोक्ते १ मन्त्रभेदे २ मदेनोन्मत्ते त्रि०।

मद्गु = पु० मस्ज–उ न्यङ्क्वा०। (पानिकोडि) १ पक्षिभेदे अमरः। “मद्गुः स्त्रिग्धो वातनाशी भेदकः शुक्रकारकः। रक्तपित्तविनाशी च शीतलः परिकीर्त्तितः” राजव०। २ मद्गुरमीने नीलकण्ठः।

मद्गुर = पुंस्त्री० मद–अरच न्यङ्क्वा०। (मागुर) १ मत्स्यमेदे। स्वार्थे स। तत्रैव अमरा स्त्रियां ङीप्। तद्गुणाः मत्स्यशब्दे भावप्र० उक्ताः। “निषादो मद्गुरं सूते” भा० अनु० ४८ उक्ते २ सङ्कीर्णजातिभेदे (डुबुरि) पुंस्त्री०। “मद्गूनि मीनभेदान् लाति ला–क लस्य रः” नीलकण्ठः। जलमज्जनेन मीनहारित्वात् तस्य तथात्वम्। “तस्मादेते जले मग्नाः मद्गुरा नाम विश्रुताः। ये हरन्ति सदाऽसंख्यान् समुद्रोदरचारिणः” हरिवं० ९५ अ०।

मद्गुरप्रिया = स्त्री मद्गुरस्य प्रियेव। शृङ्गीमत्स्ये हेमच० “मद्गुरस्य प्रिया शृङ्गी” अमरः।

मद्गुरसी = स्त्री मद्गोः सद्गुरस्येव रस–आस्वादोऽस्याः गौरा० ङीष्। शृङ्गीमत्स्ये शब्दर०।

मद्य = न० माद्यत्यनेन करणे यत्। मदिराशब्दे उक्ते माध्वीकादिद्वादशविधे मादकद्रव्ये अमरः। मद्यभेदा वर्णभेदेन तत्पाननिषेधादिकं प्रा० वि० उक्तं यथा “पुलस्त्यः “पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम्। माध्वीकं टाङ्कमाध्वीकं मैरेयं नारिकेलजम्। समानानि विजानीयान्मद्याज्येकादशैव तु। द्वादशन्तु सुरामद्यं सर्वेषामधमं स्मृतम्”। अनेनैकादशानां सुरात्वं निषेधयति मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः तस्मादेव वचनान्न तु मद्यमात्रं सुराशब्दार्थः। तथा च वृहस्पतिः “गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात्”। त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तं न स्यात्। यथा भविष्ये “सुरा तु पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे”। पैष्टीति तण्डुलविकारमात्रोपलक्षणम्। इतरे गौडीमाध्व्यौ अतोऽन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम्। तेनैतत्पानेऽपि महापातकत्वमतिदिशति “यथैवैका तथा सर्वेति” पैष्ट्यां पूर्वप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्वा गौडी माध्वी च पूर्ववचनोक्ता पैष्टीदृष्टान्तत्वेनात्र दर्शिता न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः। त्रैवर्णिकपरत्वे उत्तसपदानर्थक्यात्। न च बहुवचनानर्थक्यपरिहारार्थम् उत्तमप्रतिपदिकानर्थक्यं युक्तं बहुवचनस्य स्वजातीयोपस्थापके चरितार्थत्वात्। अतो ब्राह्मणस्य त्रिविधसुरापानं महापातकं क्षत्रियवैश्ययोस्तु “सुरा वै सलमन्नानामिति” वचनेन पैष्ट्येवेति स्थितम्। गोविन्दराजविश्वरूपधारेश्वराणामनुसतोऽयमर्थः। अतएव “एव माध्वी च गौटी च पैष्टी च त्रिविघा सरा। द्विजातिभिर्न पातव्या कदाचिदपि कर्हिचिदिति” यमवचनेऽपि द्विजा- तिपदं ब्राह्मणपरमेव। अतएव द्विविधसुरापाने क्षत्रियादीनां महापातकं दूरे तावदस्तु दोषाभाबमेवाह वृद्धयाज्ञवल्क्यः “कामादपि हि राजन्यो वैश्यश्चापि कथञ्चन। मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते”। तदेवं पैष्टीनिषेधस्त्रैवर्णिकानां गौडीमाध्वीनिषेधस्तु ब्राह्मणानामेव। ननु ब्राह्मणराजन्याविति विशेषणात् पुंलिङ्गमत्र विवक्षितम्। अतः कथं ब्राह्मण्याः सुरापानं महापातकम्। उच्यते निषिध्यमानक्रियाया विधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितं हविरुभयत्ववत् अतस्तज्जातीयस्त्रीणामपि पाननिषेधः। यथा भविष्ये “तस्मान्न पेयं विप्रेण सुरामद्यं कथञ्चनन। ब्राह्मण्यापि न पेया वै मुरा पापभयावहा”। “या ब्राह्मणी सुरापी स्यात् न तां देवाः पतिलोकं नयन्ति” इति श्रुतेः। “पत्युरर्द्धशरीरेण भार्य्या यस्य सुरां पिबेत्। पतितार्द्धशरीरस्य निष्कृतिनोपपद्यते”। न चैबं क्षत्रियवैश्यस्त्रीणामनिषेधः, ब्राह्मणीपदस्य निषिद्धसुरापानकर्त्तुर्भार्य्योपक्षक्षकत्वात् भार्य्या यस्य सुरां पिबेदिति सामान्यश्रवणात्। पानञ्च द्रवीभूतस्याभ्यवहारः स च कण्ठदेशादधोनयनं न तु वक्त्रमात्रप्रवेशः। निष्ठीवनाद्यर्थं कपोलधारणे पानशब्दाप्रयोगात् यथोक्तं “जिघ्रन्नहि सुरां कश्चित् पिवतीत्यभिधीयते। यावन्न क्रियते वक्त्रे गण्डूषस्य प्रवेशनम्”। तत्र गण्डूषपरिमाणमविवक्षितं गण्डूपार्द्धपानेऽपि लोके पानशब्दप्रयोगात् अतएव मुखप्रवेशनमत्राविवक्षितं किन्तु येन मुखप्रवेशेन कण्ठादधोनयनं मवति अतस्तदेवोपलक्षयति अतएवोष्ठमात्रलेपे न पाननिष्पतिः अतस्तत्रोत्तमाङ्गस्पर्शप्रायश्चित्तम्। एतेन केवलौष्ठसंयोगे तप्तकृच्छ्रसंस्काराविति वालकस्य व्याख्यानमसङ्गतं पानानिष्पत्तेरिति।” मद्यमेदगुणादिकं भावप्र० उक्तं यथा “मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा। कादम्बरी वारुणी च हालापि बलवल्लभा। पेयं यन्मादकं लोकैस्तन्मद्यमभिधीयते। यथारिष्टं सुरा सीधुरासवाद्यमनेकथा। मद्यं सर्वं भवेदुष्णं पित्तकृद्वातनाशनम्। भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम्। अम्लञ्च दीपनं रुच्यं पाचनं चाशुकारि च। तीक्ष्णं सूक्ष्मञ्च विशदं व्ययामि च विकाशि च”। अथारिष्टस्य लक्षणं गुणाथ “पकोषधाम्बुसिद्धं यस्मद्यं तत्स्यादरिष्टकम्”। अरिष्टं मद्यमिति लोके। यथा द्राक्षारिष्टम्। दश मूलारिष्टम्। वव्वूलारिष्टमिति। “अरिष्टं लघुपाकेन सर्वतश्च गुणाधिकम्। अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः”। अथ सुरालक्षणं गुणाश्च “शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता। सुरागुर्नी वलस्तन्यपुष्टिमेदःकफप्रदा। शोथहृत् ग्राहि गुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्”। अथ सुराभेदी वारुणी तस्या लक्षणं गुणाश्च “पुनर्नवाशिलापिष्टैर्वारुणी विहिता स्मृता। संहितैस्तालखर्जूररसैर्या सापि वारुणी। सुरावद्वारुणी लघ्वी पीनसाघ्मान शूलनुत्”। सुरातो भेदार्थं लघ्वीति। अथ सीघुद्वयस्य लक्षणं गुणाश्च “इक्षोः पक्वैः रसैः सिद्धः सीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः। सीधुः पक्वरसः श्रेष्ठः स्वराग्निवलवर्णकृत्। वातपित्तकरः सद्यः स्नेहनो रोचनो हरेत्। विवन्धमेदःशीफार्शःशोथोदरकफामयान्। तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः।” अथासवस्य लक्षणं गुणाश्च “यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः। था लोहासवादिः। “आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः।” अथ नवपुराणमद्यगुणाः। “मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम्। अहृद्यं वृंहणन्दाहि दुर्गन्धं विशदं गुरु। जीर्णन्तदेव रोचिष्णु कृमिश्लेष्मानिललापहम्। हृद्यं सुगन्धिगुणवल्लघु म्लोतोविशोधनम्”। अथ सात्त्विकानां मद्यं पिवतां चेष्टाविशेषाः। “सात्त्विके गीतहास्यादि राजसे साहसादिकम्। तामसे निन्द्यकर्माणि निद्राञ्च मदिराचरेत्”। आचरेत् कुर्य्यात् “विधिना मात्रया काले हितैरन्नैर्यथाबलम्। प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा। किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्। अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम्”। अथ मद्यानां गन्धनाशनोपायः। “सुस्तैलवालमदजीरकधान्यकैला यश्चर्वयन् सदसि वाचमभिव्यनक्ति। स्वाभाविकं मुखजमुज्झति पूतिगन्धं गन्धञ्च मद्यलशुनादिभवञ्च नूनम्।” ओषधार्थमपि विप्रैर्मद्यं न पेयम् मदिराशब्दे राजनि० वाक्यं दर्शितम्। पुराणादौ ब्राह्मणस्य मद्यनिषेधो यथा “अदेयकाप्यपेयञ्च तथैवास्पृश्यमेव च। द्विजातीनामनालोच्यं नित्यं मद्यमिति प्रयत्नेन मद्यं नित्यं विवर्जयेत्। पीत्वा पतति कर्मस्थितम्। तस्मात् सर्वभ्यस्त्वसम्भाष्यो द्विजोत्तमः। भक्षयित्वाप्यभक्ष्याणि पीत्वापेयान्यपि द्विजः। नाधिकारी भवेत्तावद्यावत्तन्न जहात्यधः। तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः। अपेयानि च विप्रो वै पीत्वा तद्याति रौरवम्। कूर्म पु० १६ अ०। “द्विजस्य पूजादौ मद्यदानविध्यनुकल्प निषेधो यथा। “मदिरां पृष्ठतो दद्यात् अन्यत् पानन्तु वामतः। अवश्यं विहितं यत्र मद्यं तत्र द्विजः पुनः। नारिकेलजलं कांस्ये ताम्रे च विसृजेन्मधु। नापद्यपि द्विजो मद्यं कदाचित् विसृजेदपि। ऋते, पुष्पासवादुक्तात् व्यञ्जनाद्वा विशेषतः। राजपृत्रस्तथा मर्त्यः सचिवः सौप्तिकादयः। दद्युर्नरबलिं भूप सम्मत्या विभवाय च। मूपालानुमते मद्यं ददत् पापमवाप्नुयात्” कालिका पु० ६६ अ०। अथ ब्राह्मणस्य मद्यपाननिषेधकशुक्रशापो यथा “वैशाम्पायन उवाच। सुरापानाद्वञ्चनां प्राप्य विद्वान् संज्ञानाशं प्राप्य चैवातिघोरम्। दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन। समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः। काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः। यो ब्राह्मणोऽद्यप्रभृतीह कश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः। अपेतधर्मो ब्रह्महा चैव स स्यादस्मि~ल्लोके गर्हितः स्यात् परे च। मया चेमां विप्रधर्मोक्तसीमां मर्य्यादां वै स्थापितां सर्वलोके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवालोकाश्चोपशृण्वन्तु सर्वे” भा० आ० ७६ अ०। “नारिकेलञ्च खार्जूरं पानसञ्च तथैव च। ऐक्षवं मधुकं टाङ्कं तालञ्चैव च माक्षिकम्। द्राक्षन्तु दशमं ज्ञेयं गौडं चैकादशं स्मृतम्। पैष्टन्तु द्वादशं प्रोक्तं सर्वेषामधमं स्मृतम्। मध्यमं मधुजं गौडं शेषञ्चोत्तममिष्यते। एतत् द्वादशकं मद्यं न पातव्यं द्विजैः क्वचित्। क्षत्रियादिः विवेत् सर्वं पैष्टीमेकन्तु वर्जयेत्। सुरां पीत्वा द्विजो मोहात् कामात् तक्रादिमिश्रिताम्। त्रैवार्षिकं व्रतं कुर्य्यादीषन्मिश्रे तु वार्षिकम्। तक्रादिमिश्रितां किञ्चित् सुरां पीत्वा ह्यकामतः। कृच्छ्राव्दपाद्यमुच्चर्य्य पुनः संस्कारमर्हति। मुखप्रवेशमात्रे तु प्रायश्चित्तार्द्धमाचरेत्। अनुपनीतो देवेशि! व्रतं त्रैवार्षिकं चरेत्। चतुर्थकालाहारी स्याद् ब्रह्मचर्य्यमथापि वा। आपञ्च वर्षं पतं वा ज्ञानादशं विनिर्दिशेत्। शूद्रस्य च विशेषेण अतिकृच्छ्रद्वयं चरेत्। स्वजातिसाधिते तस्मिन् तदर्द्धं व्रतमाचरेत्। पैष्ठीपाने व्राह्मणस्य मरणान्तिकसुच्यते। माध्वीगौडीसुरापाने द्वादशाब्दं विधीयते। इतरेषान्तु पानेन शुद्धिश्चान्द्रायणेन तु। राजन्यवैश्ययोश्चापि गौडी माध्वी न शस्वते। मोहात् क्षात्रश्च वैश्यश्च पीत्वा कृच्छ्रद्वयं चरेत्। शूद्रोऽपि गौडीं पैष्टीञ्च न पिवेद्धीनसंस्कृताम्। कामात् पीत्वा सुरां विप्रो मरणान्तिकमाचरेत्। चरेच्चान्द्रायणं ज्ञानात् क्षत्रियो वैश्य एव च। षैष्टीपाने तु शूद्रस्य प्राजाप्रत्यं विनिर्दिशेत्। ज्ञानादभ्यासयोगे तु चान्द्रायणत्रयं स्मृतम्। नारिकेलं तथा ज्ञानाद्विप्रश्चान्द्रायणेन तु। क्षत्रियश्चैव वैश्यश्च प्राणायामेन शुध्यति। अपक्वं पानसञ्चैव आम्रञ्च वदरं तथा। स्थापयित्वा घटे नित्यं दद्यादामपयः पलम्। त्रैलौक्यविजयाञ्चैव मातुलङ्गं तथैव च। समेऽहनि ततो दद्यात् सन्धानात् सत्त्वमीरितम्। दधि मधु घृतञ्चापि माञ्जिष्ठं तिक्तकं तथा। अनुपाने तु देवेशि! द्राक्षमद्यं सुनिश्चितम्। विडङ्गं शालयो मूलं समभागेन योजितम्। मधुना सह संस्थाप्य शेषपाकं समाचरेत्। पिप्पलीलवणं दत्त्वा मधुना मद्यमीरितम्। पानसं पक्वखर्जूरमार्द्रं सोमलतारसम्। पकीकृत्याग्निसन्धानात् खार्जूरं मद्यमीरितम्। पक्वतालं दन्तिशाकं ककुभञ्च तथैव च। एतैरेव सुसन्धानात् तालमद्यं प्रकीर्त्तितम्। इक्षुदण्डं मरीचञ्च बदरञ्च तथा दधि। शेषे तु लवणं दत्त्वा। इक्षुमद्यं प्रकीर्त्तितम्। नवं मधु तथा विल्वं पक्वं शर्करया सह। सन्धानाज्जायते मद्यं माध्वीकं शरतो रसम्। शतावरी टङ्कमूलं लक्ष्मणं पद्ममेव च। मधुना सह सन्धानात् टङ्कमाध्वीकमीरितम्। मालूरमूलं वटरी शर्करा च तथैव च। एषामेकत्र सन्धानात् मैरेयं मद्यमीरितम्। इन्द्रजिह्वा पक्वनात्री नारिकेलजलन्तथा। कदलीफलसन्धानन्मद्य तन्नारिकेलजम्। दधि त्रैलोक्यविजया तथैव च करीकणा। गुडेव सह सन्धानात् गौडीमद्यं प्रकीर्त्तितम्। शस्कुलीमर्द्धसिद्धान्नमुष्णोदकसमन्विवम्। वह्नौ सन्तापयेत् किञ्चित् स्थापयित्वा दिनद्वयम्। शेपेऽहनि तु संज्ञाप्ते जीवनं तत्र निःक्षिपेत्। शृङ्गवेर मरीचञ्च मातुलङ्गं तथैव च। एतेषामेव सन्धानात् पैष्टीमद्यं प्रकीर्त्तितम्” मत्स्यसूक्ते १६ पटले। “सिद्धमन्त्री भवेद्वीरो न वीरी मद्यपानतः। कलौ तु भारते वर्षे लोका भारतवासिनः। गृहे गृहे सुरां पीत्वा वर्णभ्रष्टा भवन्ति हि” उत्पत्तितन्त्रे ६४ पटले। “दीव्यवीरमयो भावः कलौ नास्ति कदाचन। केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्” महानिर्वाणतन्त्रम्। “न दद्याद् ब्राह्मणो मद्यं महादेव्यै कथञ्चन। वामकामो ब्राह्मणो हि मद्यं मांसं न भक्षयेत्” तन्त्रम्। भैरवतन्त्रे “नारिकेलोदकं कांस्ये ताम्रे गव्यं तथा मधु। राजन्यवैश्ययोर्देयं न द्विजस्य कदाचन। एवं प्रदानमात्रेण हीनायुब्राह्मणो भवेत्”। कलौ मद्यपानादिनिषेधो यथा याज्ञवल्क्यदीपकलिकायां ब्रह्मपु० “नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” निषेधविषयं स्पष्टयति उशना “मद्यमदेयमपेयमनिर्ग्राह्यम्”। अनिर्ग्राह्यमस्वीकार्य्यमिति कल्पतरुः। कालिकापु०। “खगात्ररुधिरं दत्त्वा आत्महत्यामवाप्नुयात्। मद्यं दत्त्वा ब्राह्मणस्तु ब्राह्मण्यादेव हीयते”। स्व तिः “ताम्रे चेक्षुरसो मद्यं पयसा यवचूर्णकम्। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना”। अतो मद्यप्रतिनिधिदानमपि न युक्तम्” ति० त० रघु०। मद्यतुल्यं यथा “नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु। गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना” कर्मलोचनम्।

मद्यकीट = पु० मद्यजातः कीटः। सुराजाते कीटभेदे हेम०।

मद्यद्रुम = पु० मद्यहेतुर्द्रुमः शा० त०। माडवृक्षे राजनि०।

मद्यप = त्रि० मद्यं पिबति पा–क। १ मद्यपायिनि २ दानवभेदे पु० हरिवं २४० अ०।

मद्यपङ्क = पु० मद्यस्य पङ्क इव। सुराकल्के (मेओया) हेम०।

मद्यपाशन = न० मद्यपैरश्यते अश–कर्मणि ल्युट्। मद्यपानरोचके अवदंशे भक्ष्ये (चाटनी) हेम०।

मद्यपीत = त्रि० पीतं मद्यं येन आहि० परनि०। सुरापानकर्त्तरि स्त्रियां ङीप्।

मद्यपुष्पा = स्त्री मद्यं मदसाधनं पुष्पं यस्याः शा० त०। धातक्यां (धाइफुल) राजनि०।

मद्यबीज = न० ६ त०। किण्वादौ (वाखर्) मद्यकारणे पदार्थजाते हेमच०।

मद्यवासिनी = स्त्री मद्यस्येव वासो गन्धो विद्यते बाहुल्ये नास्याः इनि। धातकीवृक्षे (धाइफुस) राजनि०।

मद्यसन्धान = न० मद्यस्य मद्योत्पादनार्थं सन्धानम् अभिषवः। मद्यात्पादनव्यापारे हेमच०।

मद्यामोद = पु० मद्यस्येव आमोदः गन्धोऽस्य। बकुलवृक्षे राजनि०

मद्र = पु० मद–रक्। “विराटपाण्ड्ययोर्मध्ये पूर्वदक्षकभेण च। मद्रदेशः समाख्यातः” इत्युक्ते १ देशे २ हर्षे ३ मङ्गले च। वृ० सं० १४ अ०।

मधु = न मन–उ नस्य धः। १ मद्ये “गर्ज गर्ज क्षणं मूढ! मधु यावत् पिबाम्यहम्” देवीमा०। २ क्षौद्रे “मधु वाता ऋतायते” इति मधुसूक्तम्। ३ पुष्परसे शब्दर०। “मधु द्विरेफः कुसुमैकपात्रे” कुमारः। ४ जले च विश्वः ५ मधुररसे च। “मधुक्षरन्ति सिन्धवः” इति मधुसूक्तम्। ६ मधुरे त्रि० ७ विष्णुकर्णमलजाते दैत्यभेदे पु०। “विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभाविति” देवीमा० कुम्भीनस्याभर्त्तरि ८ दैत्यभेदे पु० एवम् ९ वसन्तर्त्तौ १० चैत्रेमामि (मौल) ११ वृक्षभेदे च मेदि० १२ अशोकवृक्षे हेम० १३ यष्टिमधौ पु० शब्दर० १४ प्राणिनां शुभाशुभकर्मणि न० विष्णु स० भा०। १५ जीवन्त्यां स्त्री अमरः। १६ वन्दिभेदे १७ खगभेदे च पु० विश्वः।

मधुकण्ठ = पुंस्त्री० मधुः मधुरः कण्ठोऽस्य। कोकिले त्रिका०। स्त्रियां ङीष्।

मधुकर = पुंस्त्री० मधूनि करोति सञ्चित्य निष्पादयति कृ अच्। १ भ्रमरे अमरः २ तद्योषिति स्त्री ङीप्। ३ कामिजने धरणिः। ४ भृङ्गराजे च पु० रत्नमा० मधुभृदादयोऽपि भ्रमरे।

मधुकर्कटी = स्त्री मधुः मधुरा कर्कटी। १ जम्बीरभेदे २ मिष्टखर्जूरिकायाञ्च राजनि०। स्वार्थे क ह्रस्वः टाप्। मधुकर्कटिका वीजपूरे।

मधुका = स्त्री मध्विव इवार्थे कन्। १ यष्टिमधौ, २ मधुपर्णीवृक्ष च मेदि०।

मधुकोष = पु० मध्वर्थं कृतः कोषः। (मौचाक) मक्षिकाकृते कोषाकारे पदार्थे शब्दच०।

मधुक्षीर = पु० मधु मधुरं क्षीरमस्य। खर्जूरवृक्षे। स्वार्थे क तत्रैव।

मधुखर्जूरी = स्त्री मधुर्मधुरा खर्जूरी। अतिमिष्टखर्जूरीभेदे राजनि०।

मधुच्छदा = स्त्री मधुर्मधुरः छदोऽस्याः। मधुरशिखायाम भावप्र०

मधुज = न० मधुनो जायते जन ड। १ सिक्थके (मोम) राजनि० मधुदैत्यमेदोजातायां २ भूमौ स्त्री शब्दच०।

मधुजम्बीर = पु० मधुर्मधुरः जम्वीरः। अतिमिष्टजम्बीरे। (कमलालेषु) राजनि०।

मधुजित् = पु० मधुमसुरभेदं जितवान् जि मूते क्विप्। विष्णौ शब्दरत्ना० मधुशत्रुमधुरिपुप्रभृतयोऽप्यत्र।

मधुतृण = न० कर्म०। इक्षौ त्रिका०। पुंस्त्वं राजनि०।

मधुत्रय = न० मधूनां मधुराणाम् त्रयम्। मधुवृतसितानां त्रये राजनि०। मधुत्रिकमप्यत्र न०।

मधुदूत = पु० मधोर्बसन्तस्य दूत इवाग्रसरत्वात्। १ आम्रवृक्षे त्रिका० २ पाटलायां स्त्री ङीप् भावप्र०।

मधुद्रव = पु० मधुरो द्रवोऽस्य। रक्तशिग्रौ शब्दर०।

मधुद्रुम = पु० मध्वर्थं मद्यार्थं द्रुमः। (मौल) वृक्षभेदे अमरः। तत्पुष्पेण हि पौष्पमधुसम्भवः।

मधुधूलि = पु० मधुर्मधुरो धूलिरिव। खण्डे (खांड) गुडविकारादौ हेमच०।

मधुधेनु = स्त्री० दानार्थं कल्पितायां मधुप्रभृतिद्रव्यकृतधेनौ। धेनुशब्दे ३९०९ पृ० दृश्यम्।

मधुप = पु० मधु पिबति पा–क। १ भ्रषरे अमरः २ मधुप्रायिनि त्रि०। “प्रारब्धो मधुपैरकारणमहो” इत्युद्भटः।

मधुपर्क = न० पृथ० घञ् मधुनः वर्को योगो यत्र। मधुयुते कांस्यपात्रस्थे कांस्यपात्रान्तरेणावृते “दधि सर्पिर्जलं क्षौद्रं सिता चैतैश्च पञ्चभिः। प्रोच्यते मधुपर्कस्तु” इत्युक्ते दध्यादिद्रव्यपञ्चके।

मधुपर्णी = स्त्री मधु इव हितकरं पर्णं यस्याः। १ गुडूच्याम् अमरः। २ गाम्भार्य्यां ३ नीलीवृक्षे मेदि० ४ वराहक्रान्तायाम् ५ मधुवीजपूरे च राजनि०।

मधुपालिका = स्त्री मधूनि पालयति पाल–ण्वुल्। गाम्भार्य्याम् शब्दमा०।

मधुपीलु = पु० कर्म०। मधुरपीलौ राजनि०।

मधुपुरी = स्त्री मधोर्दैत्यस्य पुरी। मथुरायाम् शब्दरत्ना०।

मधुपुष्प = पु० मधुप्रचुरं पुष्पं यस्य १ मधुद्रुमे (मौलं) रत्नमा० २ शिरीषवृक्षे, ३ अशोकवृक्षे ४ बकुलवृक्षे च ५ दन्तीवृक्ष ६ नागदन्तीवृक्षे च स्त्री टाप् राजनि०।

मधुप्रिय = पु० मधु मद्यं प्रियं यस्य। १ बलरामे त्रिका० मधु इव प्रियः। २ भूमिजम्ब्वां जटाधरः।

मधुफल = पु० मधु मद्यं फलं यस्य। १ मधुनारिकेले २ मधुखर्जूरिकायां स्त्री राजनि० टाप्।

मधुबहुला = स्त्री मधु बहुलं यत्र। माधवीलतायाम् राजनि०

मधुमक्षिका = स्त्री मधुसञ्चायिका मक्षिका शा० त० (मौमाचि) सरघायाम् अमरः।

मधुमज्जन् = पु० मधुरः मज्जा सारोऽस्य। आखोटकवृक्षे राजनि०।

मधुमत् = त्रि० मधुर्मधुररसोस्त्यस्य मतुप्। १ माधुर्य्यवति “मधुमत् पार्थिवं रजः” इति मधुसूक्तम्। २ काश्मरीवृक्षे ३ नदीभेदे राजनि० ४ योगशास्त्रप्रसिद्धे योगिनां चित्तवृत्तिभेदे ५ वैदिकप्रसिद्धे “मधु वाता” इत्यादौ ऋक्त्रये तन्त्रोक्ते ६ देवोनायिकाभेदे च स्त्री ङीप्।

मधुमर्कटी = स्त्री मधुजाता मर्कटी शाक० त०। (सिताखण्ड) मधुजाते खण्डे।

मधुमल्लि(ल्ली) = स्त्री मल्ल–इन् वा ङीप् मधुप्रधाना मल्लिः (ल्ली) मालत्यां शब्दमाला।

मधुमस्तक = न० “मधुतैलघृतैर्मध्ये वेष्टिताः समिताश्च याः। मधुमस्तकमुद्दिष्टम्” शब्दच० उक्ते विष्टकभेदे।

मधुमूल = न० मधु मधुरं मूलम्। (मौआलु) आलुभेदे शब्दच०

मधुयष्टि = स्त्री मधुरा यष्टिः काण्डम्। १ इक्षौ २ यष्टिमधौ शब्द० स्त्री वा ङीप्।

मधुयष्टिका = स्त्री मधुः मधुरा यष्टिरिव इवार्थे कन्। यष्टिमधौ अमरः।

मधुर = पु० मधु माधुर्य्यं राति रा–क, अस्त्यर्थे र वा। १ गुडादिस्थे मिष्टरसे माधुर्य्यरसवति इक्ष्याढौ च मेदि० “मधुरया मधुबोधितमाधवी” माघः। ३ प्रिये ४ स्वादौ च त्रि० मेदि०। ५ रक्तशिग्रौ ६ राजाम्रे ७ रक्तेक्षौ ८ गुडे ९ शाकौ, १० जीरके च पु० राजनि० ११ वङ्गे १२ विषे च न० मेदि० १३ शतपुष्यायां १४ वष्टिमधौ १५ मधुकर्कटिकायां १६ मधूल्यां १७ मेदायां १८ यथुरानगर्य्यां च स्त्री मेदि० १९ काकोल्यां २० शतानर्य्यां २१ वृहज्जीवन्त्यां २२ पासङ्कशाके २३ मिश्याञ्च (मौरी) स्त्री। स्वार्थे क। अत इत्त्रम्। मिश्याम् स्त्री अमरः।

मधुरजम्बीर = पु० कर्म०। (कमलालेवु) जम्बीरभेदे राजनि०।

मधुरत्वच = पु० मधुरा त्वचा यस्य। धववृक्षे त्रिका०।

मधुरफल = पु० मधुरं फलमस्य। राजबदरे राजनि०।

मधुरवल्ली = स्त्री कर्म०। मधुवीजपूरे जम्बीरभेदे राजनि०।

मधुरस = पु० मधुन इव रसो यस्य। १ इक्षौ भावप्र०। २ ताले राजनि०। ३ मूर्वायाम् स्त्री अमरः। ४ द्राक्षायां ५ दुग्धिकायां स्त्री मेदि०। ६ गाम्भार्य्याञ्च भावप्र०।

मधुरस्रव = स्त्री मधुरं स्रवति ल्यु–अच्। पिण्डखर्जूर्य्याम् राजनि०।

मधुराम्लक = पु० कर्म०। आम्रातके शब्दच०।

मधु(धू)लग्न = पु० मधुर्मधुररसो लग्नो यत्र पृषो० वा दीर्षः। रक्तशोभाञ्जने रत्नमाला।

मधु(धू)लिका = स्त्री मधु माधुर्य्यं साति सा–क पृषो० वा दीर्घः संज्ञायां कन् अत इत्त्वम् राजिकायां (राइसर्षा) राजनि०।

मधुलिह् = पु० मधु लेढि आस्यादयति सिह क्विप्। भ्रमरे अमरः णिवि। मधुलेहीत्यप्यत्र।

मधुवन = न० मधुदैत्याधिष्ठितं वनम् शा० त०। १ मथुराक्षेत्रस्थे वनभेदे किष्किन्धास्थे मधुप्रचुरे २ वनभेदे च।

मधुवर्ग = पु० ६ त०। नानाविधमधुगणे भावप्र० दृश्यम्।

मधुवल्ली = स्त्री मधुप्रधाना वल्ली। यष्टिमधौ राजनि०।

मधुवार = पु० मधुनो मद्यस्य वारः क्रमः। पुनःपुनःमद्यपानक्रमे अमरः

मधु(बी)वीज = पु० मधु मधुरं वी(वी)जं यस्य। दाडिमे राजनि०

मधु(बी)वीजपूर = पु० कर्म०। मधुकर्कटिकायाम् राजनि०।

मधुव्रत = पुंस्त्री० मधु तत्सञ्चयो व्रतं सततानुशीलनं यस्य। भ्रमरे अमरः स्त्रियां ङीष्।

मधुशर्करा = स्त्री मधुजाता शर्करा शा० त०। (सिताखण्ड) मधुजातशर्करायां राजनि०।

मधुशाख = पु० गधुर्मधुरा शाखाऽस्य (मौल) वृक्षे शब्दच०।

मधुशिग्रु = पु० मधुः मधुरः शिग्रुः। रक्तशोभाञ्जने अमरः

मधुशेष = पु० न० मधुनः शेपः उच्छिष्टम्। सिक्थके (मोम)। राजनि०।

मधुश्रेणी = स्त्री मधुनः श्रेणीव। मूर्वायाम् अमरः।

मधुश्वासा = स्त्री मधुन इव श्वसित्यस्मात् श्वस–अपादाने घञ्। जीवन्तीवृक्षे राजनि०।

मधुष्ठील = पु० मधु अष्ठीले गर्भेऽस्थ पृषो०। (मौल) गुडपुष्पवृक्षे अमरः।

मधुसख = पु० मधोर्वसन्तस्य सखा सहचरः टच्समा०। कामदेवे मधुसारथ्यादयोऽप्यत्र।

मधुसूदन = पु० मधुं तन्नामासुरं सूदयति, मधु, जीवानां शुभाशुभकर्म, ज्ञानदानेन सूदयति वा सूद–ल्यु। १ श्रीकृष्णे। “भक्तानां कर्मणाञ्चैव सूदनान् मधुसूदनः” तन्नामनिरुक्तेः। मधु माध्वीकं सूदयति भक्षयति। २ भ्रमरे जटा० पुंस्त्री० स्त्रियां ङीष्। मधु इव सूद्यते भक्ष्यते ल्युट् ङीप्। ३ पालङ्गीशाले स्त्री हेमच०।

मधुस्रव = पु० मधूनि मद्यानि स्ववन्त्यस्मात् स्रु–अप्। (मौल) १ वृक्षे २ मोरटलतायां राजनि०। ३ नधुयष्टिकायां स्त्री जटा० ४ जीवन्त्यां स्त्री शब्दच०। ५ मूर्वायां स्त्री राजनि०।

मधुस्रवस् = पु० मधु स्रवति स्रु–असुन्। (मौल) वृक्षे जटाधरः।

मधुस्वर = पुंस्त्री० मधुर्मधुरः खरोऽस्य। १ कोकिले शब्दर० स्त्रियां ङीष्। २ मधुरस्वरवति त्रि० स्त्रियां टाप्।

मधुहन् = पु० मधुं तन्नामासुरं कर्मफलं वा ज्ञानद्वारा हन्ति हन् क्विप्। विष्णौ।

मधूक = न० मह–ऊक हस्य धः। १ यष्टिमधौ अमरः। (मौल) २ वृक्षे पु० राजनि०।

मधूच्छिष्ट = न० मधुग उच्छिष्टमवशिष्टम्। (मोम) सिक्थके अमरः। मधूज्झितमप्यत्र।

मधूपघ्न = पु० मधुदैत्यस्योपघ्न आश्रयः। मथुरानगरे जटा०।

मधूल = पु० मधु लाति ला–क पृषो०। जलजगिरिजमधूशवृक्षयोः जटा०। २ मधुकर्कोञ्चाम् ३ आस्मे ४ क्लीतनके च स्त्री गोरा ङीप् राजनि०। सार्थे क अत इत्त्वम् टाप्। मधूलिका मूर्वायाम् अमरः।

मध्य = पुंन० मन–यत् नस्य धः। १ देहस्यावयवभेदे। (माजा) “मध्येन सा वेदिविलग्नमध्या” कुमारः। नृत्यादौमन्दत्वशीघ्रत्वभिन्ने २ व्यापारभेदे न० अमरः। ३ पूर्वापरसीमयोरन्तराले ४ परार्द्ध्यसंख्यातोऽर्वाचीनायां ५ सङ्ख्यायां न० ६ तत्संख्याते च। “अन्त्यं मध्यं परार्द्ध्यम्” लीला०। ज्योतिषोक्ते ग्रहाणां ७ गतिभेदे स्त्री तद्वति ८ ग्रहे पु०। ९ न्याय्ये १० अन्तर्वर्त्तिनि च त्रि० शब्दर०। ११ त्र्यक्षरपादके छन्दोमात्रे वृ० र०।

मध्यगन्ध = पु० मध्ये फलमध्ये गन्धो यस्य। आम्रवृक्षे शब्दच

मध्यतस् = अव्य० मध्य + तसिल्। प्रथमापञ्चमीसप्तम्यर्थवृत्तेर्मध्यशब्दस्यार्थे।

मध्यदेश = पु कर्म०। “हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तित, मनूक्ते देशभेदे।

मध्यदिन = न० मध्यं दिनस्य एकदेशिस०। १ मध्याह्ने। अलुक्स०। मध्यन्दिनमप्यत्र। तत्र भवे तत्र पुष्पवति २ वन्दूकवृक्षे राजनि०।

मध्यपञ्चमूलक = न०। “बलापुनर्नवैरण्डसूर्पपर्णीद्वयेन तु। एकत्र योजितेनैव स्यान्मध्यं पञ्चमूलकम्” राजनि० उक्ते पदार्थपञ्चके।

मध्यपदलोपिन् = पु० मध्यपदस्य लोपोऽस्त्यस्य इनि। व्याकरणप्रसिद्धे शाकपार्थिवादिके मध्यपदलोपयुते समासभेदे।

मध्यम = त्रि० मध्ये भवः म। १ मध्यभवे। २ सप्तस्वरमध्ये क्रौञ्चस्वरतुल्ये ३ पच्चमे खरे पु० अमरः।

मध्यमपाण्डव = पु० कर्म०। अर्जुने तस्य पूर्वापरयोर्द्वयोर्द्वयोर्मध्यवर्त्तित्वात् तथात्वम्।

मध्यमभृतक = पु० कर्म०। ‘मध्यमस्तु कृषीबल’ इत्युक्ते मध्यमे दासे कृषीवलादौ।

मध्यमलोक = पु० कर्म०। पृथिव्याम् तस्याः पातालस्वर्गलोकयोर्मध्यवर्त्तित्वात् तथात्वम्। “मध्यमलोकपालः” इति रघुः मध्यलोकोऽप्यत्र।

मध्यमसंग्रह = पु० कर्म०। “प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम्। प्रलोभनञ्चास्यपानैर्मध्यमः संग्रहोमतः” व्यासोक्ते मध्यमे स्त्रीसंग्रहरूपे विवादभेदे।

मध्यमसाहस = न० कर्म०। “वासःपश्वन्नपानानां मृहोपकरखस्य च। एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्” इत्युक्ते परकीयवस्त्रादेर्भङ्गाक्षेपादिरूपे साहसभेदे “वणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः” मनूक्ते पञ्चपणात्मके २ दण्डभेदे पु०।

मध्यमा = स्त्री मध्य + म। १ दृष्टरजस्कायां नार्य्याम् २ तर्जन्यनामयोरन्तःस्थायामङ्गुलौ, ३ पद्मादीनां कर्णिकायाम् मेदि० परादिषु मध्ये ४ हृदयोत्पन्नशब्दभेदे पश्यन्तीशब्दे ४२८१ पृ० दृश्यम् ५ नायिकाभेदे च।

मध्यमेश्वर = पु० काशीस्थे शिवलिङ्गभेदे।

मध्यमाहरण = न० वीजगणितप्रासद्धे अव्यक्तमानज्ञापके गणनाभेदे।

मध्यरात्र = पु० मध्यं रात्रेः एकदेशिस० अच्समा०। रात्रान्तत्वात् पुंस्त्वम्। निशीथे अर्द्धरात्रे हला०।

मध्यवर्त्तिन् = त्रि० मध्ये वर्त्तते वृत–णिनि। वादिप्रतिवादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादिविषयविमर्शपूर्वकं १ तत्त्वनिर्णायके स्वार्थाविरोधेन परार्थसम्पादके, कार्य्यसम्पादके च २ मध्यस्थे।

मध्यस्थ = पु० मध्ये तिष्ठति स्था–क। १ मध्यवर्त्तिनि २ उदासीने च। “माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे” इति कुमारः।

मध्याह्न = पु० मध्यमह्नः एक० स० टच्समा० अह्नादेशः। अह्नान्तत्वात् पुंस्त्वम्। त्रिधा विभक्तदिनस्य १ द्वितीये भागे “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु। मध्याह्नस्त्रिमुहूर्त्तं स्यात्” दक्षोक्ते पञ्चधा विभक्तदिनस्य २ तृतीये भागे च।

मध्वालु(क) = पु० मधुर्मधुर आलुः। (मौ आलु) मूलभेदे। स्वार्थे क। तत्रैव।

मध्वासव = पु० मधुना पुष्परसेन कृत आसवः शा० त०। (मौल) मधुद्रुमजाते मद्ये अमरः।

मन = पूजायां सक० गर्वे अक० भ्वा० पर० सेट्। मनति अमानीत्–अमनीत् मेनतुः।

मन = गर्वे अक० चु० आ० सेट्। मानयते अमीमनत्।

मन = बोधे तना० आ० सक० सेट्। मनुते अमनिष्ट मेने।

मन = बोधे दि० आ० सक० अनिट्। मन्यते। अमंस्त मेने।

मन = धृतौ अद० चु० उ० सक० सेट्। मनयति ते अममनत् त।

मन = पु० मन–अच्। जटामांस्याम् शब्दच०।

मन = आप त्रि० मन आप्नोति आप–अण् उप० स०। मनोज्ञे त्रिका०।

मन(ण)ड = पु० नीस० ता० उक्ते वर्षकालीने ग्रहयोगभेदे “वक्रःशनिर्वा यदि शीघ्रश्चेटात् पश्चात् पुरस्तिष्ठति तूर्य्यदृष्ट्या। एकर्क्षसप्तर्क्षभुवा दृशा वा पश्यन्नर्थाशैरधिकोनकश्चेत्। तेजो हरेत् कार्य्यपदेत्थशामी स्थितोऽपि नासौ मन(ण)डः शुभौ न”।

मनःशिला = स्त्री मनःशब्दवाच्या शिला। (मन्छल) रक्तवर्णे उपधातुभेदे “मनःशिलाविच्छुरिता निषेदुः” कुमारः। पृष० वा ह्रस्वे पुंस्त्वमपि। “टङ्कैर्मनःशिलगुहैरविदार्य्यमाणेति भरतधृतवाक्यम्।

मनन = न० मन–ल्युट्। १ अनुमाने २ युक्त्या पदार्थनिर्णये च

मनस् = न० मन्यतेऽनेन मन–करणे असुन्। सर्वेन्द्रियप्रवर्त्तके अन्तरिन्द्रिये न्यायमतम् वेदान्तमते २ सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणे। तच्च सुखदुःखाद्याधारः “कामः संकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एव” श्रुतेः। न्यायमते तज्ज्ञानादिसाधनमिति भेदः। ३ मनःशिलायाञ्च शब्दच०।

मनसा = स्त्री मनं मननं स्यति सो–क। आस्तीकस्य मुनेर्मातरि वासुकिभगिन्याम् जरत्कारुपत्न्यां नाम्ना जरत्कारौ जटा०।

मनसादेवी = स्त्री मनसा दीव्यति दिवः करणस्य कर्मत्वात् कर्मोपदत्वेन अण् ङीप् अलुक्स०। मनसाशब्दार्थे जटा०।

मनसिज = पु० मनसि जायत्रे जन–ड सप्तम्या वा अलुक्। १ कामदेवे अमरः। लुकि। मनोजोऽप्यत्र। एवं चित्तजादयोऽप्यत्र।

मनसिशय = पु० मनसि शेते अच् अलुक्स०। कामदेवे हला०

मनस्कार = पु० कृ घञ् मनसःकारोव्यापारभेदः। चित्तस्य सुखतत्परत्वे अमरः।

मनस्ताप = पु० मनसस्तापः। १ अनुतापे २ मनःपीडायाञ्च।

मनस्विन् = त्रि० प्रशस्तं मनोऽस्त्वस्य विनि। १ प्रशस्तमनस्के। स्त्रियां ङीप्। “मनस्विनीनां प्रतिपत्तिरीदृशी” कुमारः २ शरभे पु० राजनि०।

मनाक् = अव्य० मन–आकि। १ ईषदर्थे अमरः “कुतूहलाक्रान्तमना मनागभूत्” नैषधम्। २ मन्दे च मेदि०।

मनाका = स्त्री मन आक। हस्तिन्याम् उणादिको०।

मनाक्कर = न० मनाक् करोति कृ–अच्। १ मल्लिकागन्धयुक्ते अगुरुभेदे शब्दच०। २ ईषत्करे त्रि०।

मनावी(यी) = स्त्री मनोः पत्नी वा ङीप् औङ् च। मनोः पत्न्याम्। जटाधरमते ऐङ्। मनायीत्येव तत्रार्शे।

मनित = त्रि० भ्वा० मन–कर्मणि क्त। ज्ञाते।

मनीक = न० मन–ईक। अञ्जने उणादिको०।

मनीषा = स्त्री ईष–अङ् ईषा मनस ईषा शक०। बुद्धौ अमरः

मनीषिन् = पु० मनीषा अस्त्यस्य इनि। १ पण्डिते अमरः २ बुद्धियुक्त त्रि०।

मनु = स्त्री मन उ। १ पृक्कायाम् (पिडिङ्गशाक) राजनि०। २ मनुपत्न्याञ्च ३ प्रजापतिभेदे, ४ धमशास्त्रकर्त्तरि खाय- म्भुवादौ मुनिभेदे च पु०। मनवश्च चतुर्दश ते च हरिवं० ७ अ० उक्ता दृश्याः।

मनुज = पु० मनोः स्वायम्भुवात् जायते जन ड। मनुष्ये अमरः स्त्रियां जातौ ङीष्।

मनुष्य = पु० मनोरपत्यं यत् सुक् च। मानवे जातिभेदे। स्त्रियां जातौ टाप्।

मनुष्यधर्मन् = पु० मनुष्यस्येव धर्मो यस्य अनिच् समा०। कुवेरे अमरः।

मनोगुप्ता = स्त्री मनसा मनःशब्देन तच्छब्दवाचात्वात् गुप्ता। मनःशिलायाम् अमरः।

मनोजव = त्रि० जु–अच् मनोजवं वेगवत् नमनाय यस्मिन्। १ पिवृतुल्ये अमरः। मनस इव जवो यस्य। २ अतिवेगवति त्रि० ३ विष्णौ पु०। ४ अग्निजिह्वाभेदे स्त्री जटा०। “काली कराली च मनोजवा च” शा० ति०। ५ दुर्गाशक्तिभेदे।

मनोजवृद्धि = पु० मनोजस्य कामस्य वृद्धिर्यस्मात् ५ ब०। कामवृद्धिकरवृक्षे राजनि०।

मनोज्ञ = त्रि० मनो जानाति ज्ञापयति बोधनाय प्रवणीकरोति अन्तर्भूतण्यर्थे ज्ञा–क। १ मनोहरे अमरः। २ मनःशिलायां रत्नमा०। ३ बन्ध्याकर्कोट्यां, ४ कटभ्यां, ५ जीरके ६ मदिरायाञ्च स्त्री राजनि०। ७ राजपुत्र्यां जटा० ८ सरलकाष्ठे न० रत्नमा०।

मनोभव = पु० मनसि भवति भू–अच्। कामदेवे मनोभूप्रभृतयोऽप्यत्र।

मनोरथ = पु० मनएव रथोऽत्र, मनसो रथैव वा इष्यमाणप्रापकत्वात्। इच्छायाम् अमरः।

मनोरम = त्रि० मनोरमयति रम–णिच् अण् उप० स०। १ मनोहरे अमरः। २ गोरोचनायां स्त्री राजनि०। ३ रुचिमनुभार्य्यायां स्त्री मार्कपु।

मनोहत = त्रि० मनो हतं यस्य। १ प्रतिहते अमरः २ प्रतिबद्धे च।

मनोहर = त्रि० मनो हरति स्वदर्शनाय हृ–अच्। १ रुचिरे २ कुन्दवृक्षे पु० शब्दर०। ३ जात्यां ४ स्वर्णयूथ्यां च स्त्री। ५ स्वर्णे न० राजनि०। णिनि। मनोहारिन् मनाहरे त्रि० स्त्रियां ङीप्।

मनोह्वा = स्त्री० गनःशब्देनाहूयते ह्वे–घञर्थे क। मनःशिलायाम् अमरः।

मन्ज = मार्जने सक० ध्वनौ अक० भ्वा० पर० सेट्। मञ्जति अमञ्जीत् ममजतुः।

मन्तु = पु० मन–उन् तुट् च। १ अपराधे २ मनुष्ये ३ प्रजापती च मेदि०।

मन्त्र = पु० मत्रि–अच्। १ गुप्तमाषणे, रहसि कर्त्तव्यावधारणार्थमुक्तौ २ देवादीनां साधनार्थं तन्त्राद्युक्ते शब्दभेदे, ३ वेदविभागभेदे च। वैदिकतान्त्रिकमन्त्रलक्षणादि ऋगभेदभाव्योक्तं वह्निपु० २९ अ० उक्तञ्च दृश्यम्।

मन्त्रकृत् = त्रि० मन्त्रं तत्स्मरणं वा कृतवान् कृ–भते क्विप्। १ मन्त्रणाकारके २ वेदमन्त्राणां स्मरणकर्त्तरि ३ ऋषिभेदे पु० परिशिष्टखण्डे दृश्यम्।

मन्त्रजिह्व = पु० मन्त्र एव जिह्वा आस्वादनसाधनं यस्य। अग्नौ हेमच०। मन्त्रेण दत्तहविरास्त्रादकत्वात्तस्य तथात्वम्।

मन्त्रणा = स्त्री मन्त्रि–युच्। गुप्तभाषणे ल्युट्। तत्रार्थे न०।

मन्त्रदातृ = पु० दा–तृच् ६ त०। गुरौ।

मन्त्रिन् = पु० मन्त्रयते णिनि। धीसचिवे येन सह रहसि कर्त्तव्यमवसीयते तस्मिन् अमात्ये अमरः।

मन्थ = क्लेशे अक० विलोडने सक० भ्वा० पर० सेट्। मन्थति अमन्थीत्। मथ्यते।

मन्थ = विलोडे क्य्रा० पर० द्विक० सेष्ट्। मथ्नाति अमन्थीत्। मथ्यते।

मन्थ = पु० मन्थ करणे घञ्। १ मन्थानदण्डे। “सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः। नात्युष्णो नातिसान्द्रश्च मन्थ इत्यभिधीयते” इत्युक्ते २ पेयभेदे, “चूर्णे चतुष्पले शीते क्षुण्णद्रव्यं पलं क्षिपेत्। मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं पिबेत्” भावप्र० उक्ते पेयभेदे च। ३ नेत्रमले धरणिः ४ किरणे च शब्दच०। भावे घञ्। ५ आलीडनादौ।

मन्थज = न० मन्थात् दधिमन्थनात् जायते जन–ड। नवनीते रत्नमा०।

मन्थन = पु० मथ्यतेऽनेन करणे ल्युट्। १ मन्थानदण्डे शब्दर०। भावे ल्युट्। २ विलोडनादौ न०।

मन्थर = न० मन्थ–अरच्। १ कुसुम्भ्याम्। २ कोषे ३ फले, बाधे मन्थानदण्डे च पु० ५ वक्रे ६ पृथौ ७ मन्दे च त्रि० मेदि० “मदर्थसन्देशमृणालमन्थरः” नैष०। ८ जडे शब्दर०। ९ नीचे हेम०। १० सूचके विश्वः० १ केकैय्याः दास्यां स्त्री।

मन्थशैल = पु० ६ त०। समुद्रमन्थनाय मन्थनदण्डरूपेण कल्पिते मन्दरपर्वते।

मन्थान = पु० मन्थ–आनच्। १ मन्थनदण्डे अमरः। २ आरग्बधवृक्षे राजनि०।

मन्द = त्रि० मदि–अच्। १ मूर्खे २ मृदौ ३ अभाग्ये ४ रोगिणि ५ अल्पे ६ स्वतन्त्रे ७ खले च हेम०। ८ मदरते ९ शनिग्रहे १० हस्तिभेदे च पु० मेदि०। ११ यमे त्रिका०। १२ प्रलये च पु० अजयः। १३ ज्योतिषोक्ते रविसंक्रान्तिभेदे १४ ग्रहगतिभेदे च स्त्री।

मन्दग = त्रि० मन्दं गच्छति गम ड १ मृदुगामिनि २ शनिग्रहे पु० शनि, ज्ञानिपुरुष, वृष, हंस, गज, वरस्थियः इत्येते स्वभावान्मन्दगतयः। णिनि। मन्दगामिन् तत्रार्थे त्रि० स्त्रीयां ङीप्।

मन्दट = पु० मन्दं टीकते टीक–ड। पारिभद्रवृक्षे शब्दरत्ना०।

मन्दता = स्त्री मन्दस्य भावः तल्। १ आलस्ये २ जाड्ये च “उच्चैरस्यति मन्दतामरसतामिति” चन्द्रालोकः।

मन्दर = पु० मदि–अरन्। समुद्रमन्थाने १ पर्वतभेदे २ मन्दारवृक्षे मेदि० ३ स्वर्गे ४ हारभेदे हेम० ५ दर्पणे च शब्दर०। ६ बहुले ७ मन्दे च त्रि० मेदि०।

मन्दाकिनी = स्त्री मन्दमकति अक–णिनि। १ स्वर्गगङ्गायां “स्वर्गे मन्दाकिनी तथा” पुराणम्। २ संक्रान्तिभेदे च।

मन्दाक्रान्ता = स्त्री “मन्दाक्रान्ता जलधिषडगैर्म्मौ नतौ तो गुरू चेत्” वृ० र० उक्ते सप्तदशाक्षरपादके छन्दोभेदे।

मन्दाक्ष = न० मन्दं सङ्कुचितमक्षि यस्मात् षच्समा०। १ लज्जायाम् अमरः। ६ ब० २ सङ्कुचितनेत्रे स्त्रियां ङीष्।

मन्दाग्नि = पु० मन्दः पचने अल्पशक्तिकः अग्निः अनलः, स यस्माह्रा। १ देहस्थे अपचनशक्तिकेऽनले २ तद्धेतौ रीगभेदे च। तन्निदानादि यथा “मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः। कफपित्तानिलाधिक्यात् तत्साम्याज्जाठरोऽनलः। विषमो वातजान् रोगान् तीक्ष्णः पित्तसमुन्नतान्। करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान्। समा समाग्नेरशिता मात्रा सम्यग् विपच्यते। अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः” भावप्र०।

मन्दार = पु० मदि० आरक्। १ स्वर्गस्थे देववृक्षभेदे २ पारिभद्रवृक्षे च अमरः ३ हस्ते ४ धूर्त्ते ५ तीर्थगद ६ अर्कवृक्षे च मेदि०।

मन्दिर = न० मन्द्यतेऽत्र मदि–किरच्। १ गृहे २ पुरे च अमरः तस्य द्विलिङ्गत्वमित्येके। ३ समुद्रे मेदि० ४ जानुपश्चाद्भागे च पु० हेमच०।

मन्दुरा = स्त्री मदि–उरच्। १ अश्वशालायाम् अमरः। २ शयनीयकटे च (मादुर) मेदि०।

मन्दोदरी = स्त्री मयदानवकन्यायां रावणमहिष्याम्।

मन्दोष्ण = न० मन्दमीषदुष्णम्। १ ईषदुष्णस्पर्शे २ तद्वति त्रि० अमरः

मन्द्र = पु० मदि–रक्। १ वाद्यभेदे शब्दर०। २ गम्भीरध्वनौ च। अर्श आद्यच् ३ तद्वति त्रि० अमरः।

मन्मथ = पु० मननं मत् मन–क्विप् मथति अच् ६ त०। १ कन्दर्पे २ कपित्थवृक्षे च अमरः ३ कासचिन्तायां मेदि०।

मन्मथालय = पु० ६ त०। १ आम्रवृक्षे राजनि० २ स्त्रीचिह्नभेदे च।

मन्या = स्त्री सेट्–मन–क्यप्। ग्रीवायाः पश्चाद्देशस्थायां सिरायाम् अमरः।

मन्यु = पु० मन–युच् न अनादेशः। १ शोके २ दैन्ये ३ क्रतौ ४ क्रोधे च अमरः ५ अहङ्कारे च शब्दर०।

मन्वन्तर = न० मनूनामन्तरमवकाशस्तदुपलक्षितकालो वा। १ स्वायम्भुवादिमनूनामधिकारे २ तदुपलक्षिते काले च सत्ययुगमितवर्षाधिका एकसप्ततिचतुर्युगमिता (३११४४४८०००) वर्षास्तदवकाश इति पुराणम्।

मभ्र = गतौ भ्वा० पर० सक० सेट्। मभ्रति अमभ्रीत्।

मम = अव्य० भा–बा० डम। षष्ठ्यर्थवृत्तेः अस्मच्छस्यार्थे तेन ममत्वमिति ममतेति च सिध्यति।

ममता = स्त्री मम भावः तल्। १ दर्पे २ अहङ्कारे हेम०। ३ मत्सम्बन्धे च। एवं ममत्वमप्यत्र। “तथापि ममतावर्त्ते” इति “ममत्वं मम राज्यस्य” इति च देवीमा०।

ममापताल = पु० मब आलन् धातोर्बस्य मः अपतुगागमश्च। विषये सि० कौ०

मय = गतौ भ्वा० आ० सक० सेट्। मयते अमयिष्ट।

मय = पुंस्त्री० मय–अच्। १ उष्ट्रे २ अश्वतरे स्त्रियां टाप् ३ दानवभेदे च मेदि०।

मयष्टक = पु० मि + अच् मयं प्रक्षेपं स्तकते प्रतिबध्नाति स्तकअच् पृषो० सत्वम्। वनमुद्गे अमरः। पृषो० मपष्टक तत्रार्थे पु०।

मयु = पु० मि–उ। १ किन्नरे अमरः २ मृगे मदि०।

मयुष्टक = पु० मिनोति मि–उ मयुः स्तक–अच् कर्म० पृषो० षत्वम्। वनमुद्गे पृषो०। मपुष्टकोऽप्यत्र।

मयूख = पु० माङ्–ऊख मयादेशः। १ त्विषि २ किरणे ३ गिखायाम् अमरः ४ शोभायां मेदि० ५ कीले अजय०।

मयूर = पुंस्त्री० मी–ऊरन्। खनामख्याते १ स्वगभेदे स्त्रियां ङीष्। २ मयूरशिखावृक्षे पु० अमरः। इवार्थे कन् ३ अपामार्गे अमरः। ४ तुत्थाञ्जने (तु~ते) न० मेदि०।

मयूरग्रीवक = न० मयूरग्रीवेव कन्। तुत्थे (तु~ते) राजनि०।

मयूरजङ्घ = पु० मयूरस्य जङ्घेव मूलमस्य। श्योनाकवृक्षे राजनि०।

मयूरतुत्थ = न० मयूर इव तद्वर्णं तुत्थम्। तुत्थे (तु~ते) राजनि०।

मयूरविदला = स्त्री मयूरैर्विदल्यते मयूर इव विशिष्टदलमस्या वा। अम्बष्ठायाम् (आमरुल) वैद्यकम्।

मयूरशिखा = स्त्री मयूरस्येव शिखाऽस्याः। स्वनामख्याते क्षुपभेदे मयूरचूडादयोऽप्यत्र। “नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित्” भावप्र०।

मयूरिका = स्त्री मयूरस्तदाकारी विद्यतेऽस्याः तच्चन्द्रकतुल्यदलत्वात् ठन्। अम्बष्ठायाम् राजनि० (आमरुक)।

***